SearchBrowseAboutContactDonate
Page Preview
Page 435
Loading...
Download File
Download File
Page Text
________________ स्थायिनी प्रतिमा च सा । भूरिकालात्यये मिथ्या-दृग्भिर्गुप्ताऽर्चयिष्यते ॥ १३५ ॥ बहिः प्रतिकृतिस्तस्याः, स्थापयित्वा |च तैर्जडैः। भायलस्वामिसंज्ञोऽय-मादित्य इति वक्ष्यते ॥ १३६ ॥ लोकोऽप्यहो तदुक्तं तत्, सत्यमित्यवधारयन् । दि तामार्चिष्यति कस्को हि, धूर्तदंभो न ज॑भते ? ॥ १३७ ॥ । अथ वीतभयस्वामी, कृतस्नानादिकक्रियः। देवताऽऽयतनं प्रात-र्ययौ पूजाचिकीः स्वयम् ॥१३८॥ दृष्ट्वाऽग्रे प्रतिमा म्लान-माल्यां स ध्यातवान् हृदि । नेयं देवमयी सैव, काऽप्यपूर्वेति मे मतिः॥ १३९॥ प्रतिक्षणं नवानीव, यत् तत्पु| पाणि कर्हिचित् । न म्लायति स्म दासी च, साऽत्र नास्ति तदर्चिका ॥ १४० ॥ श्रुतं चाद्य निषादिभ्यो, निर्मदा दंतिनोऽभवन् । आगादनिलवेगोऽत्र, तन्नूनं गंधसिंधुरः॥ १४१॥ जानेऽत्रानिलवेगस्थो, मालवेन्द्रोऽभ्युपेत्य सः। गृहादप्यहरद् रात्री, प्रतिमा कुजिकामपि ॥ १४२॥ ततः स कोपदुष्प्रेक्षो, द्वादशाक्ष इव स्वयम् । प्रतस्थे सह सैन्येन, प्रद्योत|विजिघृक्षया ॥१४३ ॥ किरीटिनो नृपाः सेना-युतास्ते दश तं श्रिताः। यथा ग्रेवापगापूर्णा, गंगावाहाः पयोनिधिम् |॥ १४४ ॥ अथ तत्सैनिकाः प्राप्य, निर्जला जंगलावनिम् । मृगा इवापतन् वारि-भ्रांत्या मॅरुमरीचिकाः॥१४५ ॥ इतस्ततो भ्रमंतस्ते, तृशष्यद्गलतालवः । एक विमुच्य नेत्रांभो. नान्यदंभो न्यभालयन् ॥ १४६ ॥ तदोदायनभूपेन, दप्रभावत्यमरः स्मृतः। त्रिपुष्कराणि पानीये-रेत्य स्वर्गादपूपुरत्॥१४७॥ पायं पायं पयःपूरं, पीयूषमिव सैनिकाः। उज्जीवंति १मिभ्याग्भिरुक्तम्. २ देवस्वरूपा-देवप्रतिमा. ३ कार्तिकेयः. ४ विग्रहीतुमिच्छया. ५ पर्वतनदीपूर्णा गंगाप्रवाहाः. * विशिष्टवाचकपदानां विशेषणवाचक| पदपृथगुपादाने सति विशेष्यमात्रपरत्वम्.६जांगलावनिम्, प्र. ७ द्वितीयाबहुवचनम्. ८ त्रितटाका.९ पीवा पीत्वा जलसमूहम्. CACHAR कु.पा-ब.३३
SR No.600328
Book TitleKumarpal Bhupal Charitram Mahakavyam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Shantivijay Gani
PublisherVijaydevsursangh Samtha Mumbai
Publication Year1926
Total Pages494
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy