________________
कु.पा.च. २७
तं निश्चयं परिज्ञाय, राज्ञः प्राज्ञः स मंत्रिराट् । आसाद्य वसतिं सद्य - स्तत्सर्वं गुरवे जगौ ॥ ६६४ ॥ विद्यानिधिः प्रभुः प्रोचे, पर्याप्तं मृत्युवार्तया । समानय पयः कोष्णं, परिजेप्य ददे यथा ॥ ६६५ ॥ तत्संस्पर्शनमात्रेण, कुष्ठव्याधिर्नृपांगतः । | रविप्रकाशलेशेन, विष्टपाद् ध्वांतवद् गमी ॥६६६ ॥ श्रुत्वा तत् तेन हृष्टेन, तत्क्षणादाहृतं पयः । सूरिः श्रीसूरिमंत्रेणाऽभिमंत्र्य स्वयमार्पयत् ॥ ६६७ ॥ पीयूषस्येव दायादं, तदादाय स यत्नतः । प्रभुप्रेषितमस्त्येत - दित्युवाच नृपाग्रतः ॥ ६६८ ॥ तेन सिद्धरसेनेव, देहमभ्यज्य चाभितः । निनाय लोहवत् तस्य वर्णनीयां सुवर्णताम् ॥ ६६९ ॥ पूर्वतोऽप्यै - धिकं प्रेक्ष्य, वपुस्तज्जलयोगतः । हर्षाश्चर्यादिभावानां पदमासादयन्नृपः ॥ ६७० ॥ अमात्यमिदमूचे च, कैटरि प्राभवं प्रभोः । ईदृक्षमपि यः कष्टं, धन्वंतरिरिवाहरत् ॥ ६७१ ॥ देवीनामपि कोपाग्नि - स्तावदेव ज्वलत्यलम् । गुरुर्न वीक्ष्य(क्ष) ते यावद्, दृष्ट्या मेघायमानया ॥ ६७२ ॥ अहो लोकोत्तरा काचित्, प्रभोर्मयि कृपालुता । ययाऽहं मृत्युतस्त्रातो, व्याघ्राद् वृकं इवानिशम् ॥ ६७३ ॥ एवमुवपती गुर्वी, कुर्वाणे गौरवी स्तुतिम् । दुःक्षपाऽपि क्षपां प्राप, पापश्रेणिरिव क्षयम् ॥ ६७४ ॥ प्राभातिकीं क्रियां कृत्वा, नृपो मंत्र्यादिभिर्वृतः । वंदित्वा चरणद्वंद्वं, निर्द्वन्द्वं गुरुमूचिवान् ॥ ६७५ ॥ त्वत्प्रभावं कियत् स्तौमि भगवञ् ! जिह्वयैकया । योऽगस्त्य इव कष्टान्धिं, मम पेपीयते मुहुः ॥ ६७६ ॥ त्वत्प्राच्योप
१ किंचिदुष्णम्. २ जपित्वा ऽऽमंत्र्य. ३ अधिकतेजखि ४ आश्वर्यकारि ५ सामर्थ्य ६ शृगालः ७ महतीं गौरववतीम् ८ गुरोरियं गौरवी ताम् ९ दुःखेन क्षेपणीया. १० रात्रिः. ११ निर्गतो द्वन्द्वेभ्यः - शीतोष्णादिविरुद्धधर्मयुग लेभ्यः - निर्द्वन्द्वः रागद्वेषशीतोष्णलाभालाभादिद्वन्द्व रहितखम् १२ अतिशयेन पिबति.