________________
॥ अथ पंचमः सर्गः॥ अथांगीकृतभंगार-रंगद्युतिभरोऽभजत् । चौलुक्यः प्रातरास्थानी, सुधर्मामिव वासवः ॥ १॥ पौरुषोन्नतमध्यास्त, तन्मध्ये हैममासनम् । सुवर्णाचलभंगाग्रं, विहंगांधिपतिर्यथा ॥२॥ शुशुभे नृपतेर्मूर्ध्नि, श्वेतमातपवारणम् । साक्षादिबमिव स्वोरु-यशोराशिसितधुतेः ॥३॥ चामरद्वितयं तस्य, वीज्यतेऽस्माभितः सितम् । स्वकीर्तिजितसेवार्थ-प्राप्तगंगौघुसन्निभम् ॥४॥ स्मेरयंतः स्वकोटीर-किरणैस्तत्पदांबुजम् । मंत्रिसामंतसेनानी-मुख्याः सेवाभृतोऽभवन् ॥ ५॥ कविव्यासादिभिर्माहा-राजिकै रपरैरपि । सा सभा शोभयामास, सरसीव सरोरुहैः॥६॥ तदा श्रीसोमनाथीया, देवपत्तनवासिनः। अर्चकाः केचिदभ्येत्य, तं राजेंद्र व्यजिज्ञपन् ॥७॥प्रासादः सोमनाथस्य, जीर्णकाष्ठत्वतोऽधुना । पतन्नस्त्यब्धिकल्लोलैः, खातमूलस्तटदुवत् ॥ ८॥ भवात् स्वोद्धारवद्देव ! तदुद्धारः क्रियेत चेत् । तदा कोषे वसेत्पुण्यं, लोके कीर्तिश्च शाश्वती ॥९॥ तदुक्तमुररीकृत्य, प्रेष्य पंचकुलं निजम् । चैत्यमाश्मं नृपस्तत्र, सूत्रधारैरमंडयत् ॥ १०॥ पृष्टवांश्च समीपस्थं, हेमाचार्य महाग्रहात् । चैत्यमेतत्कथं शीघ्र, भवेद्वांछितवन्मम ॥११॥ सूरिविमृश्य तं स्माह, किंचिदादीयतां व्रतम् । पुण्यर्द्धिवर्धते तेन, तया चैतत् प्रसिध्यति ॥१२॥ यावन्निष्पद्यते तत्ते, तावद्ब्रह्मव्रतं भज । इदं चेद् दुर्धरं वेत्सि, तर्हि मांस निषेधय ॥१३॥ न विना जीवघातेन, मांसं भवति कुत्रचित् । जीवघातस्तु न श्रेयां-स्तस्मान् मांसं परित्यजेत् ॥१४॥ सति
१ प्रसरत् . २ उपविष्टः, ३ गरुडः, ४ गांगौघः, प्र. ५ महाराजस्य इमे. महाराजिकास्तैः. ६ कल्लोलो-त्खात०, प्र. ७ संसारात , भवान् . प्र. ८ आत्मोद्धारवत् ..