________________
कुमार
EXTERI
निःस्नेहा, त्वदन्योऽस्ति न मे प्रियः । किन्तु दास्यभवं पार-वश्यमत्राऽपराध्यति ॥ १८५ ॥ सेवाकृतामहो काचित्, पालच०18 चातुरी प्रतिभाति मे । यत्पारवश्यनरकात् , कामयन्ते सुखान्यमी ॥ १८६ ॥ परमद्यविलम्बस्य, त्वं निमित्तमवेहि मे।
नीराद्वह्निरिवाहाय, कोपः शाम्यति ते यतः॥ १८७ ॥ मयि स्तंभान्तरस्थाया-मोराजोऽधुनाऽऽकुलः । निर्व्याज ॥७१॥
व्याघ्रराजाख्य, व्याजहार भटं रहः॥१८८॥ मत्प्रिया हास्यतः क्रुद्धा, स्वैरिणी वैरिणीव मे। कर्तुं विरूपं प्राप्ताऽस्ति, भ्रातृचौलुक्यसन्निधिम् ॥१८९॥ तत्प्रेरितोऽत्र नायाति, स यावद्दाववह्निवत् । तावत्त्वं तत्र गत्वा तं, यमप्राघूर्णकीकुरु ॥१९॥ न भवन्तं विनाऽन्यस्तं, कोऽपि हन्तुं प्रगल्भते । मृगेन्द्र एव नागेन्द्र-मविहंस्तो हिनस्ति यत् ॥१९१॥ हेमलक्षत्रयं तुभ्यं,
दास्येऽहं पारितोषिकम् । तेनेत्युक्तोऽवदत्सोऽपि, तं हनिष्यामि हेलया ॥१९२॥ मेरुशृंगमिवाऽऽनाय्य, तावत्स्वर्ण तदैव ६ सः । नृपस्तं पृष्टवान् वैरी, कथं घातिष्यते वद ? ॥१९३ ॥ स स्वर्णदर्शनप्रीतः, प्रोचे सोमदिने ध्रुवम् । चौलुक्यो याति
वन्दारुः, कर्णमेरुस्थितं शिवम् ॥ १९४ ॥ जटाभृद्भूय तत्राहं, देवशेषार्पणच्छलात् । कृपाण्या कंकमय्या तं, नेष्यामि | यममन्दिरम् ॥१९५॥ तेनोपायेन हृष्टात्मा, साधु साध्विति तं वदन् । व्यस्राक्षीत् कनकं दत्त्वा, तदानीमेव मन्नृपः ॥१९॥ भवन्निवेदनायैव, वृत्तमेतन्मम प्रिय ! । शृण्वत्याः समभूत्काल-क्षेपस्त्वं मा कुपस्ततः॥ १९७ ॥ तन्निशम्य मया लब्धं, साधु मर्माधुना द्विषः । इत्याप्ततत्त्ववन्मंत्री, जज्ञे हर्षप्रकर्षभाक् ॥ १९८॥ श्रूयते यन्न शास्त्रेऽपि, यल्लोकेऽपि न दृश्यते। तत्कल्पयन्ति लोलाक्ष्यो, जल्पन्ति स्थापयन्ति च ॥१९९॥ तत्कल्पितमिदं सर्व, त्वयैवेत्यादिभाषितैः।तामसत्यां व्यधान्
१ अव्याकुलः सन्. २ वन्दनशीलः.
O SASTOSAS
॥७
॥