SearchBrowseAboutContactDonate
Page Preview
Page 458
Loading...
Download File
Download File
Page Text
________________ कुमारपालच ॥ २०४ ॥ परंतपं तस्य, प्रतापांहिमदीधितिम् ॥ विषोदुमक्षमाः केन, कौशिकंति महीश्वराः १ ॥ ४५८ ॥ आप्लावयन् सकटकॉन् | महतोऽपि महीभृतः । तदीयः प्रसरन् सैन्य-वार्धिः केन निरोत्स्यते ॥ ४५९ ॥ आस्तां तत्सादिभिः सार्धं, स्पर्धा युद्धकथाऽपि च । तत्संमुखमपि द्रष्टुं, कोऽपि नैशिष्यते भटः ॥ ४६० ॥ श्रुत्वैतां चरविज्ञप्तिं, चिंताऽऽक्रांतो मनागू नृपः । अमात्य सहितोऽभ्येत्य, वसतिं गुरुमब्रवीत् ॥ ४६१ ॥ चरैरद्य प्रभो ! प्रोक्तं, तुरुष्काधिपतिः स्वयम् । प्रस्थाय गर्जना - | दत्रा - गच्छन्नस्ति महाबली ॥ ४६२ ॥ सहिष्णुरपि तं भंक्त-मसहिष्णुरिवास्म्यहम् । वर्षारात्रे गृहान्नैव, बहिर्यामीत्य - भिग्रहात् ॥ ४६३ ॥ मयि सौधस्थिते सैन्यै— रुद्वेलां भोधिविभ्रमैः । एत्य ध्वंसेत चेद् देशं, तदाऽहं विदधामि किम् ? ॥ ४६४ ॥ एकतो नियमोऽयं मे, रिपुरायाति चान्यतः। इतस्तटमितो व्याघ्र, इति सत्यमुपस्थितम् ॥ ४६५ ॥ व्याजहार गुरुर्धर्मे, निश्छद्माऽस्ति मतिस्तव । अतस्त्वद्विषयं नाऽयं, प्रतिपंथी मथिष्यति ॥ ४६६ ॥ त्वदाराधित सर्वज्ञ - धर्म - माहात्म्य कुंभभूः । अगाधमपि चिंतान्धि, निपास्यति च निश्चितम् ॥ ४६७ ॥ इत्याश्वास्य नृपं सूरिः, पद्मासनमधिश्रितः । परमं दैवतं किंचि - दंतयतुं प्रचक्रमे ॥ ४६८ ॥ अतिक्रांते मुहूर्तेऽथ, समायतं नभोऽध्वना । पल्यंकमेकमद्राक्षीद्, दिव्यक्षौमास्तृतं नृपः ॥ ४६९ ॥ अंबरेऽसौ निरालंबो, विद्याधरविमानवत् । कथमेतीति विस्मेरः, स तं मुहुरवैक्षत ॥ ४७० ॥ गगनात् तावदुत्तीर्य, स पल्यंकः क्षणादपि । गुरोः पुरः स्थिरस्तस्थौ, सुप्तैकपुरुषाश्रितः ॥ ४७१ ॥ १ परान् शत्रून् तापयतीति परंतपः- शत्रुतापकस्तम् २ प्रतापसूर्यम् ३ समन्ताद् द्रावयन्. ४ ससैन्यान् पक्षे सपर्वतमध्यभागान् ५ राज्ञः पक्षे पर्वतानू. ६ म्लेच्छजातिविशेषः ७ वेलां - उत्क्रान्तः उद्वेलः स चासौ अंभोधिश्च तस्य विभ्रमाः-तरंगा इव विभ्रमाः येषां सैन्यानां ते तैः * नि-प्र. ८ श्रि-प्र. ९ मैतीति, प्र. स. ९ ॥ २०४ ॥
SR No.600328
Book TitleKumarpal Bhupal Charitram Mahakavyam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Shantivijay Gani
PublisherVijaydevsursangh Samtha Mumbai
Publication Year1926
Total Pages494
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy