SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ कुमारपालच० ॥१९॥ निषेधसि तामेव । मह्यं तुष्टा कथं वद ॥ ५४९ ॥ ईदृशोऽप्येष चात्मीयो-ऽनुग्राह्योऽस्ति तव ध्रुवं ॥ विरज्यते किमीशो हि । संश्रिताद् भुजगादपि ॥ ५५० ॥ किंचास्य सिद्धिविध्वंसा-त्संगरो भंगुरो मम ॥ तेन "प्राणव्ययेनेव ।” जीवन्नपि मृतोऽस्यहं ॥ ५५१॥ मास्मभूत् स मनुष्योऽपि । निंदनीयो मनस्विनां ॥ प्राणेभ्योऽप्यधिकं स्वीयं । यः प्रतिज्ञातमुज्झति ॥ ५५२ ॥ यथेच्छं गच्छ तद्देवि! । वह्नौ वेश्याम्यहं पुनः॥ इत्युक्त्वा नृपतिस्तत्र । झंपां दातुं प्रचक्रमे ॥ ५५३ ॥ तत्तथा वीक्ष्य भूपोऽयं । मदर्थ म्रियते हहा ॥ धिग्मामितिवचाःसापि । स्त्री मूर्छालाऽपतद् भुवि ॥५५४॥ अथाकृष्या|ग्नितः क्षमाप-माख्यद्देवी तथोच्चकैः ॥ तुष्टाऽस्मि त्वत्कृते पश्य । जीवितौ द्वाविमौ मया ॥५५५॥ उक्त्वेति कामंडलवैः। सलिलैरमृतैरिव ॥ सिक्त्वा सा मणिचूडं तं । कुमारीमप्यजीवयत् ॥ ५५६ ॥ जीवंतं नृपति प्रेक्ष्य । हृषिता सा कनी हृदा॥तं पतीचछैषी का हि । नेहते तादृशं वरं ॥ ५५७ ॥ नृप ! त्वदुपरोधेन । योगिनोऽस्य प्रसेर्दुषी ॥ उदित्वेति ददौ | देवी । तस्मै सिद्धिं चिरेप्सितां ॥ ५५८॥ भानुस्तदोदयामास । तादृशाभूतकर्मणः॥ अभयंकरभूपस्य । मुखं दृष्टुमिवोच्चकैः ॥५५९ ॥ प्रभाते स्फुरितेऽकस्मा-द्रोदेसीभेदसोदरं ॥ विश्वयंचं कलकलं । कलयामासिवान्नृपः ॥५६॥ किमेतदिति संभ्रांतो । भूकांतो यावदीक्षते ॥ तावदाविरभूदये। चतुरंगकलं बलं ॥५६१॥ एकश्छेकः पुमानेत्य । तस्माद्विस्मापयन् गिरा ॥ व्यजिज्ञपन्महीजानिं । तमेवं योजितांजलिः॥५६२॥ ता॥१९॥ अस्ति लक्ष्मीपुरं लक्ष्मी-लीलाढ्यं दानवारिवत् ॥ नाम्नारिकेसरी तत्र । नृपोऽरिद्विपकेसरी ॥५६३ ॥ यत्प्रताप१ प्रतिज्ञा. २ तवो, प्र. ३ कृतवती.४ प्रसन्नाजाताऽहं.५ स्वर्गभूमिमेदसमानं-खर्गभूमिमेदकम्. ६ सर्वदिग्गामिनं कोलाहलं-अव्यक्तशब्दम्. ७ देववत्,
SR No.600328
Book TitleKumarpal Bhupal Charitram Mahakavyam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Shantivijay Gani
PublisherVijaydevsursangh Samtha Mumbai
Publication Year1926
Total Pages494
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy