SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ सिद्धिः ॥ यः क्षोणिचक्रमनृणं विरचय्य दानैः । संवत्सरं निजमवीवृतदासमुद्रं ॥ २१ ॥ पुस्फोर वीरकोटीर - स्तत्पुत्रो हरिविक्रमः ॥ स्वकीर्तिकेत कैर्येन । सुरभीचक्रिरे दिशः ॥ २२ ॥ पंचाशीतिर्नृपास्तस्मा - द्विस्मापकविभा बभुः ॥ न सेहे यत्प्रतापाग्निः । शर्कवंशैर्दृढैरपि ॥ २३ ॥ तदन्वयेऽभवत्क्षुण्ण - खरदूषणवैभवः ॥ रामो राम इव न्याय -सदनं मेदिनीश्वरः ॥ २४ ॥ ततः सहजरामोऽभाद्योऽश्वलक्षत्रयेश्वरं ॥ हत्वा शकपतिं पत्ति-मिव विश्वेऽप्यभूद्भटः ॥ २५ ॥ अदीप्यत श्रिया श्रीदः श्रीदेडक्कस्तदात्मजः ॥ यः पिपासाख्यराष्ट्रेशं । गजं सिंह इवाजयत् ॥ २६ ॥ भूपालः कांचिकव्याल - तद्राज्यमथ भेजिवान् ॥ यद्दानैरर्थिनोऽप्यासन् । दानशौंडाः सुरद्रुवत् ॥ २७॥ राजा राजिरथाजिराजिविजयी राजेव रेजे शुचि-र्यो यात्रां विरचय्य देवनगरे श्रीसोमनाथोक्तितः ॥ वैश्यां गुर्जरशासनस्य भगिनीं सामंतसिंहप्रभोलीलाख्यां जगदेकवीरजननीं लक्ष्मीमिव व्यूढवान् ॥२८॥ तयोः सूनुरनूनश्री - र्मूलराज इति श्रुतः ॥ अयोनिसंभवत्वेन । सच्चमत्कारकारणं ॥ २९ ॥ सामंतसिंहमतुलं निजमातुलं यः । शक्त्या निहत्य किल गुर्जरराज्यमाप ॥ लक्षं तथा समरकर्मणिबद्धकक्षं । सोमेशवैभववशाद्दलयांबभूव ॥ ३० ॥ रेजे चामुंडराजोऽथ । यश्चामुंडावरोद्धुरः ॥ सिंधुरेंद्रमिवोन्मत्तं सिंधुराजं मृधेऽवधीत् ॥ ३१ ॥ तस्माद्वल्लभराजोऽभू - द्यत्प्रतापातितापितः ॥ मुंजोऽवंतीश्वरो धारा - यंत्रेऽपि न धृतिं दधौ ॥ ३२॥ अधाद्दुर्लभराजस्त - द्राज्यं न्यायवनांबुदः ॥ निर्मथ्य लाटनाथं य - स्तद्रमां सक्षमां ललौ ॥ ३३ ॥ तद्भवो भीमदेवोऽभा - धन्माहात्म्यहिमागमे ॥ युक्तमंभोजवद्भोज – भूजानिलनिमानशे ॥ ३४ || भीमदेवस्य पुत्रौ द्वावभूतां भिन्नमातृका ॥ क्षेमराजस्तयोराद्यः । कर्णः कर्ण इवापरः ॥ ३५ ॥ पित्रा दशरथेनेव । तन्मात्रे प्राक्प्रतिश्रुतं ॥ क्षेमराजो । १ इयैः = प्र. २ दंडक - प्र. ३ वंश्याम. प्र. ४ तन्नामानं राजानं. ५ युद्धे.
SR No.600328
Book TitleKumarpal Bhupal Charitram Mahakavyam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Shantivijay Gani
PublisherVijaydevsursangh Samtha Mumbai
Publication Year1926
Total Pages494
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy