SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ तमप्यभूद् यत् , तत्र ध्रुवं लोलदृगेव हेतुः॥४२७॥ (उपजातिः)राक्षसीभिरिवैताभि-स्तादृशास्ते महाशयाः।रावणाद्याःक्षयं ते नीता, जीवन्मुक्तोऽस्म्यहं वरम् ॥ ४२८ ॥ सप्तभिः कुलकम् ॥ ततः शासनमातन्वं–श्चौलुक्यस्य दिवानिशम् । अर्णोराजोर व्यधाद् राज्यं, विधेः को हि बली खलु ? ॥४२९॥ कृतकृत्योऽथ चौलुक्यो, व्यावृत्य स्ववशे व्यधात् । आक्रम्य मेडतस्थानं, पल्लीकोटं च सैनिकैः ॥४३०॥ चैत्यानि पिंडितानीव, पुण्यान्यनुपदं नृपः । विलोक्य प्रश्नयामास, वाग्भटं निजमंत्रिणम् ॥ ॥ ४३१॥ अस्मद्देशं समासाद्य, मालवेंद्राः स्वकीर्तये । चैत्यानि पातयंत्यात्म-सत्कर्माणीव पापिनः ॥ ४३२ ॥ पितृध्वंस-1 | मिवाधातुं, स्वस्यैतत्कर्म नोचितम् । इह स्फूर्तिमभिव्यक्तुं, किमंत्र क्रियते वद?॥४३३॥ विमृश्य वाग्भटोऽवादीद्, देव! पुण्यौघपुष्टये । तिलपीलनयंत्राणि, सैन्यैः कारय खंडशः ॥ ४३४ ॥ मूर्त्तानि पातकानीव, तानि सर्वाणि सैनिकैः । चूर्णयन्नाप चौलुक्य-चंद्रश्चंद्रावर्ती पुरीम् ॥ ४३५ ॥ तत्र वहिमयं यंत्रं, सज्जयित्वैव पूर्ववत् । दुष्टो विक्रमसिंहोगा। गुर्जराधीशसन्निधिम् ॥ ४३६ ॥ अत्यर्थमर्थनात्तस्य, भुक्त्यर्थ पार्थिवः पुनः । तं क्रूरं ज्ञातवान् विज्ञा, विदंते हि परा-1 शयम् ॥ ४३७ ॥ मल्लैस्तं बंधयित्वा द्राग, वह्नियंत्रविलोकनात् । प्रकाश्य तत्कृतं छद्म, तत्सद्माज्वालयन्नृपः ॥ ४३८॥ उत्तार्याऽगानि सर्वाणि, मल्लेरास्तरणोज्झिते । अनस्यारोप्य च स्वामी, तं सहाचालयत्ततः॥४३९॥ स तथा शकटस्थास्नुः, पर्यटन स्थपुटे पथि । खाट्कारप्रस्फुरेन्मूर्धा, निस्सीमामन्वभूद् व्यथाम् ॥४४०॥ तारपूत्कारतः शंके , सेवकान् सोऽन्वशा-13 दिति । मा कुरुध्वं पतिद्रोह, वीक्ष्येमां दुर्दशां मम ॥ ४४१ ॥ दध्यौ च दुर्धियं धिग् मां, स्वलोकारितोऽप्यलम् ।। १ आज्ञाम् . २ किमन्यत्. प्र. ३ शकटे. ४ विषमोन्नतप्रदेशे. ५ प्रस्फुटत् , प्र. ६ कविराह-अहमेवं शंके-शंकां करोमि-एवं मन्ये इत्यर्थः.
SR No.600328
Book TitleKumarpal Bhupal Charitram Mahakavyam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Shantivijay Gani
PublisherVijaydevsursangh Samtha Mumbai
Publication Year1926
Total Pages494
LanguageSanskrit
ClassificationManuscript
File Size13 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy