SearchBrowseAboutContactDonate
Page Preview
Page 6
Loading...
Download File
Download File
Page Text
________________ कुमारपालच० ॥ ३ ॥ % पात्ररूपं श्रीकुमारपालमहाकाव्यनामकं शास्त्रमपूर्व संक्षेपतो विरचितम्, तज्ज्ञापनार्थं प्रतिसर्गान्ते स्वकीयनामाङ्किता समा प्तिर्दर्शिता । अतो नानाविधच्छन्दोमयपुष्पस्तवकशोभाशोभितस्य प्रायशोऽनुष्टुप्छन्दः पर्णरचनारचितस्य सुललितवर्णविन्या सस्वादुफलफलितस्योपमोत्प्रेक्षाव्यतिरेकरूपकादिनानालङ्कारसुरभिगन्धगन्धितस्य दशसर्गदशमहाशाखाविस्तारविस्तृतस्य नैकप्रासङ्गिककथाकथनबद्धालवालस्य जिनधर्मनिरूपणनिचितमहामूलस्य भव्यजनहृदयाह्लादकस्यास्यैतिहासिक महाकाव्यसहकारतरुवरस्य प्ररोपयितारः श्रीजयसिंहसूरयः सन्ति, ते च कीदृशाः ? कदाच भूमण्डलं पावयाञ्चक्रुरिति जिज्ञासायाम्, सकललोकालोकावभासिकेवलज्ञानश्रीधरस्य त्रिजगदुद्धारकस्य वर्त्तमानचतुर्विंशतिकान्तर्गत चतुर्विंशतितमतीर्थ कृच्छ्रीमन्महावीरस्य प्रथमपट्टधरसुधर्मस्वामिनः परम्परायां ब्रह्मव्रतधरेषु शेखरायमाणः कोशा प्रतिबोधकस्त्रिजगत्प्रसिद्धश्चतुर्दशपूर्वधरः श्रीस्थूलभद्रसूरिः सञ्जातस्तस्य च शिष्यः सपादलक्षजिन चैत्यानां सपादकोटिजिनबिम्बादीनां च विधायकस्य श्रीसम्प्रतिभूपतेः प्रतिबोधकः श्रीसुहस्तिसूरिवरः सञ्जातः सुहस्तिसूरेश्च शिष्यो महाप्रभावकः श्रीगुप्तसूरिरभूद्, येन राशित्रयप्ररूपको रोहगुप्तनामकः स्वशिष्यः श्रीवीरनिर्वाणात् पश्ञ्चशतचतुश्चत्वारिंशत्तमे ( ५४४ ) वर्षे सङ्घान्निःसा - रितो यः षष्ठो निह्नवः सञ्जातः, चारणलब्धिनिलयाद् यस्माद् गुप्तसूरेश्चारणगणो विख्यातस्तस्य च चारणगणस्य वज्रनागरीचतुर्थशाखा स्थितिधर्मनामकं द्वितीयं कुलं चासीत् तत्र समस्तलब्धिसमवसथाः करुणासुधासिन्धवः श्रीकृष्णर्षिमुनीश्वराः समुत्पन्ना येषां प्रस्तावना ॥३॥
SR No.600328
Book TitleKumarpal Bhupal Charitram Mahakavyam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Shantivijay Gani
PublisherVijaydevsursangh Samtha Mumbai
Publication Year1926
Total Pages494
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy