________________
BARSANGALORCASS
अस्त्यकंपा पुरी चंपा । तस्यां स्नेहलमानसाः॥ अवतिष्ठामहे शिष्टा-श्चत्वारःसोदरा वयं ॥९०॥सोदर्यस्याऽस्य तुर्यस्य घनैरोपयिकैः कृतः॥ पुत्रः पवित्रधीर्जातः । शातकुंभसमद्युतिः॥९१॥ सोऽन्यदा तीव्ररोगातॊ ऽगदंकारैः परःशतैः॥ हठाच्चिकित्स्यमानोऽपि । सौष्ठवं नाधितष्ठिवान् ॥ ९२॥ परैरप्युपचारा ये । तच्चारुत्वकृते कृताः॥ तेऽपि वैयर्थ्यमासेदुः । सत्कारा इव दुर्जने ॥ ९३ ॥ तच्चिंतार्णवयादस्सु । तदाऽस्मासु दयालुहृत् ॥ एत्य वैदेशिकः कश्चित् । स्वपूर्वज इवादिशत् ॥९४ ॥ पचेलिमं वह्नितरोः । फलमस्मै वितीर्यतां ॥ तदास्वादात् सुधास्वादा-दिवासौ भविताऽपरुक् ॥3 ॥ ९५ ॥ से च कादंबरारण्य-प्रांते यक्षालयांतिके ॥ ज्वलंत्यां वह्निगाया-मास्ते वह्निमहीरुहः ॥९६॥ अभिज्ञानान्वितं स्थान-मिदं ज्ञात्वा तदाननात् ॥ वयमत्रागमाम द्रा-गद्राक्ष्म च यथोदितं ॥ ९७ ॥ कृत्वा कोपीनमेतस्यां । पित्सवो|ऽप्युत्सुकत्वतः॥ नापप्ताम वयं ज्वाल-जालदाहभवद्भियः॥९८॥ तेनेमां परितो गर्ता-माता वर्तामहे वयं ॥ किंकर्त-13 | व्यजडत्वेन । परस्परनिरीक्षकाः॥९९॥ अजापुत्रः कृपालुस्ता-नचे ताम्यत मास्म भोः॥ अहमादाय दास्ये वः। फलं
वह्नितरोरितः॥१०॥ अवोचस्ते प्रवेष्टुं ते । वह्निगर्ते न युज्यते ॥ कः परार्थ समर्थोऽपि । प्रविशेन्मृत्युसंकटे ॥१०१॥ ६ इतः कृशानुतरुतो। यत्त्वया फलकर्षणं ॥ तत्प्राघूर्णकहस्तेन । नियतं सर्पमारणं ॥ १०२॥ आचर्यतां निजं कार्य-मार्य
वर्य! ततस्त्वया ॥ फलं त्वानेष्यते कश्चि-देको बंधुचतुष्टये ॥ १०३ ॥ आजेयः पुनरऽप्यूचे । मैवं वोचत सत्तमाः!॥ परार्थ एव हि स्वार्थो । महतां पर्यवस्यति ॥ १०४ ॥ उद्यच्छंते परार्थाय । संतः स्वार्थविवर्जनात् ॥ किं न पश्यत ? मेघा-|
१ पृष्ठु च., प्र. २ वहितरुः. ३ पतितुमिच्छवः. ४ खार्थे-प्र.
AAAAAAA
क.पा.चे.५
ACRex