SearchBrowseAboutContactDonate
Page Preview
Page 471
Loading...
Download File
Download File
Page Text
________________ कु.पा. १६ युवत्वेऽपि स शीलं शीलयिष्यति ॥ ८६ ॥ ततः शतबलो राज्यं, लब्ध्वा शिक्षां विनाऽपि हि । प्राच्यकारुण्ययोगेन, न हिंसाद्यं तनिष्यति ॥ ८७ ॥ अगेहेनर्दिभिः सैन्यै - श्चाक्षुषैरिव विक्रमैः । लीलयैव स भूपीठं, चक्रवतींव जेष्यति ॥ ८८ ॥ तदा च निरयादाद्या - च्छ्रेणिकात्मा विनिर्गतः । जिनेंद्रः पद्मनाभाख्यो, भविताऽत्रैव भारते ॥ ८९ ॥ स प्रव्रज्य तपःक्षीण - कर्मा संजात केवलः । सेवितः साधुकोटीरें - दनशौंड इवार्थिभिः ॥ ९० ॥ विहरन् पृथिवीपीठे, श्रीभहिलपुरेSम्यदा । आगमिष्यति पुण्येन, कल्पदुरिव जंगमः ॥ ९१ ॥ युग्मम् ॥ सज्जनो धार्मिकस्येव, श्रुत्वा तस्यागमं जनात् । हर्षुल श्रीशतबल - स्तमुपेत्य प्रणस्यति ॥ ९२ ॥ निपास्यति च संसार - तापतप्त इवोच्चकैः । विश्वातिशायिमाधुर्य, भगदेशनामृतम् ॥ ९३ ॥ प्रबुद्धः स ततो राज्यं, संक्रमय्य तनूरुहे । जिनाद् ग्रहीष्यते दीक्षां, पुण्यश्रीसहचारिणीम् ॥९४॥ एकादशी गणधरः, स भूत्वा द्वादशांगवित् । तपोभिर्बहुभिः क्षिष्ठ-कर्मा केवलमाप्स्यति ॥ ९५ ॥ प्रबोध्य पद्मवद् बिश्वं, केवलज्ञानभानुना । महाशयः शतबलो, भाषी मुक्तिरमावरः ॥ ९६ ॥ एवं राजन् ! भवादस्मात्, ताँतियीके भवे तव । जिनधर्मप्रभावेण मुक्तिश्रीर्भविता ध्रुवम् ॥ ९७ ॥ इति श्रीसूरिमंत्राषि- ष्ठातृदेवी गिरा मया । कथयामासिरे सम्यग् भवास्ते भूतभाविनः ॥ ९८ ॥ आसन्नसिद्धिश्रवणात्, तल्लाभादिव निर्वृतः । अथ विज्ञपयामास, प्रांजलिर्गुर्ज १ शब्दकारकैः २ कोटिरैः, प्र. ३ शतबलः ४ तृतीये - इत्यर्थः ५ वयमपि चिरकालं संयमं पालयित्वा खनशनविधिना च प्राप्य मृत्युं सुखेन । निखिलसुखमनोशं देवलोकं तुरीयं निहतसकलशोकं संगमिष्याम आर्य ! ॥ भरतभुवि नरत्वं प्राप्य भूयोऽपि भव्यं कृतसुकृतमनस्कौ त्यक्तभोगाभिलाषौ । चरमवयसि शुद्धं संयमं पालयित्वा शिवपदमपसादं भूप । यास्याव भवाम् ॥ इति श्रीचारित्रसुन्दरगणयः ॥ ६ सुस्थः सुखी.
SR No.600328
Book TitleKumarpal Bhupal Charitram Mahakavyam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Shantivijay Gani
PublisherVijaydevsursangh Samtha Mumbai
Publication Year1926
Total Pages494
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy