SearchBrowseAboutContactDonate
Page Preview
Page 482
Loading...
Download File
Download File
Page Text
________________ कुमारपालच० ॥ २१६ ॥ यः कोऽपि तं गर्हेऽहं मुहुर्मुहुः ॥ २३८ ॥ स्वार्थेनाथ परार्थेन, स्थूलं तदितरच्च यत् । कथयामास मिथ्याऽहं तज्जुगु|प्सेऽतियत्नतः ॥ २३९ ॥ नयेन दुर्नयेनापि, परकीयं धनादिकम् ॥ अदत्तं यन्मयोपात्तं, तत् त्यजामि निरीहधीः ॥ २४०॥ स्वपरस्त्रैणयोगेन, यदसेव्यत मैथुनम् । अचिंत्यत च यद् दिव्यं तन्निंदामि पुनः पुनः ॥ २४१ ॥ धनधान्यक्षेत्रवास्तु| स्वर्णदासहयादिषु । अधिकां वर्द्धितां तृष्णां, वर्जयामि समाहितः ॥ २४२ ॥ आजन्म यन्मयाऽभोजि, निशायामशना|दिकम् ॥ अभक्ष्यमपि चाभक्षि, तद् गर्हे सर्वगर्हितम् || २४३ || एवं च दिग्विरत्यादौ, तथा सामायिकादिषु । यदतीचारयाञ्चक्रे, तन्मुंचाम्यपुनः कृते ॥ २४४ ॥ पृथ्वीकायादिरूपेण, स्थावरेषु वसन्नहम् । पीडयामास याञ् जीवान्, समस्तान् क्षमयामि तान् ॥ २४५ ॥ त्रसत्वे तिर्यग्नरक - नरदेवभवेष्वहम् । वसत्र् यान् दूनवानस्मि, क्षाम्यंतु मयि तेऽङ्गिनः ॥ २४६ ॥ | दुर्वाक्याद्यभिधानेन, संघे ये केऽपि पीडिताः । तानहं क्षमयन्नस्मि, त्रिशुद्ध्या रचिताऽञ्जलिः ॥ २४७ ॥ जीवजातिषु सर्वासु, भ्रमञ् यत् कृतवानहम् । कायवाङ्मानसैस्तन्मे, मिथ्या भवतु दुष्कृतम् ॥ २४८ ॥ दाक्षिण्येनाथ लोभेन, परस्मै जातु यन्मया । मिथ्यात्वमुपदिष्टं तन्मृषाऽऽस्तामखिलं मम || २४९ || अलसत्वादियोगेन, यदहं धर्मकर्मणि । बलं गोपितवान् व्यर्थ, धर्मखलितमस्तु तत् ॥ २५० ॥ प्रतिभापुस्तकादीनां चरणादिविघट्टनैः । आशातना व्यरचि या, सा सर्वाऽपि विलीयताम् ॥ २५१ ॥ निष्पापीकरणेनैवं, सवनेनेव सर्वतः । विशुद्धात्मा स राजर्षिः, शिश्रियेऽनशनं ॥ २१६ ॥ ततः ॥ २५२ ॥ ऊचे च यन्मया वित्त-मर्जित्वा न्यायवर्त्मना । सप्तक्षेत्र्यां किमप्युप्तं, तत्पुण्यमनुमोदये ॥ २५३ ॥ १ अनृतम् २ आदिना रूप्यं कुप्यं च प्राह्मम्. ३ एकाग्रचेताः सन् ४ मृषा खादखिकम् प्र० - मिथ्या भवतु. ५ मिथ्या ( भवतु ). ६ दुष्कृतम् ७ सवनं - ज्ञानम्. सर्ग. १०
SR No.600328
Book TitleKumarpal Bhupal Charitram Mahakavyam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Shantivijay Gani
PublisherVijaydevsursangh Samtha Mumbai
Publication Year1926
Total Pages494
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy