Book Title: Muhurt Chintamani
Author(s): Narayanram Acharya
Publisher: Nirnaysagar Press
Catalog link: https://jainqq.org/explore/002342/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ THE MUHŪRTACHIÑTĀMANI श्रीमद्रामदैवज्ञविरचितो मुहूर्तचिन्तामणिः दैवज्ञमुकुटालंकारनीलकण्ठज्योतिर्वित्पुत्रगोविन्दज्योतिर्विद्विरचित पीयूषधाराटी कया टिप्पण-पाठान्तर-परिशिष्टादिभिश्च समलंकृतः तस्येदं पञ्चमं संस्करणम् - श्रीमदिन्दिराकान्तचरणान्तेवासिना नारायण राम आचार्य “काव्यतीर्थ' इत्यनेन । टिप्पण-सूची-परिशिष्टादिभिरलंकृत्य . संशोधितम् मुम्बय्यां सत्यभामाबाई पाण्डुरङ्ग इत्येताभिः, निर्णयसागरमुद्रणयन्त्रालयस्य कृते तत्रैव च मुद्रापयित्वा प्रकाशितम् शाकः १८६७ सन १९४५ PORL Page #2 -------------------------------------------------------------------------- ________________ [ All rights reserved by the publisher ] Publisher:-Satyabhamabai Pandurang, Printer:-Ramchandra Yesu Shedge, Nirnaya Sagar Press, 26-28, Kolbhat Street, Bombay. Page #3 -------------------------------------------------------------------------- ________________ प्रथमावृत्तेः प्रस्तावना । विदितमस्त्येतत्तत्रभवतां यत्संसारापाराकूपारप्रवाहपतितैरखिलैस्त्रैवर्णिकैर हार्दिवमनवरतमनुभूयमानानेकविधक्लेशपरंपरा परिजिहीर्षुभिः सर्वतः श्वश्रेयसाभिलाषुकैरर खिलश्रेयोनिदान भूतमनुसवनं ज्यौतिषमेवाध्येयमध्यापनीयं परिचिन्तनीयं चेति । उक्तं च नारदेन 'सिद्धान्तसंहिताहोरारूपस्कन्ध त्रयात्मकम् । वेदस्य निर्मलं चक्षुर्ज्योतिःशास्त्रमकल्मषम् ॥ विनैतदखिलं श्रौतं स्मार्तं कर्म न सिद्ध्यति । तस्माज्जगद्धितायेदं ब्रह्मणा निर्मितं पुरा ॥ अत एव द्विजैरेतद्ध्येतव्यं प्रयत्नतः ॥ ' इति ॥ किंच ज्योतिःशास्त्रस्य श्रौतस्मार्तकमपयिकत्वं कालस्यापि श्रुतौ कर्मशेषत्वबोधनात् । तथा हि 'अष्टवर्षे ब्राह्मणमुपनयीत तमध्यापयीत' इति ॥ तथा 'वसन्ते ब्राह्मणोऽग्नीनादधीत दर्शपूर्णमासाभ्यां यजेत' इति च । वर्षज्ञानमप्यादित्यादिप्रहचारपरिच्छेदसाध्यम् । श्रीमद्भागवते सूर्यस्तुतौ'नमो भगवते आदित्याया खिलजगतामात्मस्वरूपेण कालखरूपेण चतुर्विधभूतनिकायानां ब्रह्मादिस्तम्बपर्यन्तानामन्तर्हृदयेषु बहिरपि चाकाश इवोपाधिनाव्यवधीयमानो भगवानेक एव क्षणलवनिमेषावयवोपचितसंवत्सरगणेनापामादानविसर्गाभ्यामिमां लोकयात्रामनुवहति । यदु ह वाव विबुधर्षभ सवितरदस्तपत्यनुसवनमहरहराम्नाय विधिनोपतिष्ठमानानामखिलदुरित वृजिनबी - जावभर्जनभगवतः समभिधीमहि तपनमण्डलम् ॥' इति ॥ वसन्ताद्यूतूनां च दर्शपौर्णमासयोश्च ज्ञानं ज्यौतिषं विना सर्वथैव न निर्वहतीत्यवश्यमध्येतव्यं ज्योतिःशास्त्रम् । उक्तं च वेदाङ्गज्योतिषे - 'वेदा हि यज्ञार्थमभिप्रवृत्ताः कालानुपूर्वा विहिताश्च यज्ञाः । तस्मादिदं कालविधानशास्त्रं यो ज्यौतिषं वेद स वेद यज्ञान् ॥ इति ॥ अस्य च शास्त्रस्य वेदचक्षुष्ट्वमुक्तं शिक्षायाम् 'छन्दः पादौ तु वेदस्य हस्तौ कल्पोऽथ पठ्यते । ज्योतिषामयनं चक्षुर्निरुक्तं श्रोत्रमुच्यते ॥ शिक्षा घ्राणं तु वेदस्य मुखं व्याकरणं स्मृतम् ।' इति ॥ Page #4 -------------------------------------------------------------------------- ________________ तथा 'यथा शिखा मयूराणां नागानां मणयो यथा। तद्वद्वेदांगशास्त्राणां ज्योतिषं मूर्धनि स्थितम् ॥' इति ॥ वसिष्ठसिद्धान्ते'वेदस्य चक्षुः किल शास्त्रमेतत्प्रधानतांगेषु ततोऽथ जाता। अंगैर्युतोऽन्यैः परिपूर्णमूर्तिश्चक्षुर्विहीनः पुरुषो न किंचित् ॥' इति । तस्मात्कर्मोपयिकत्वादवश्यमध्येयं ज्योतिःशास्त्रम् । त्रिस्कन्धात्मकेऽपि शास्त्रेऽत्र मुहूर्तचिंतामणी केवलं मुहूर्तानां तद्वोधोपयोगिनामन्येषामपि विषयाणां ज्ञापन यथावत् ललिततरैर्विविधछन्दोलंकारैः साङ्गोपाङ्गं निबद्धमस्तीति मुहूर्तप्रन्थेष्वयं प्रन्थो मूर्धन्यत्वेन वरीवर्ति । एतदुपरि ग्रन्थार्थप्रकाशिका पीयूषधाराव्याख्याप्यतीव विस्तृता तत्र तत्र संदिग्धेषु प्रयोगविशेषेषु व्याकरणशुद्धिं प्रदर्शयन्ती च चकास्ति । तेनाप्यत्यन्तादरेणोरीकरणीयोऽयं निबन्ध इत्यलमतिलेखनचापलेनेति शिवम् । Page #5 -------------------------------------------------------------------------- ________________ मुहूर्तचिंतामणिग्रंथ-टीकागत विषयानुक्रमः। maan sa.. n विषयः पृष्ठं । विषयः पृष्ठ शुभाशुभप्रकरणम् १ चैत्रादिमासेषु शून्यनक्षत्राणि १८ चैत्रादिषु शून्यराशयः, तत्फलं च १८ टीकाकारकृत उपोद्धातः .. ... मंगलाचरणम् ... विषमतिथिषु दग्धलग्नानि,फलं च १९ ग्रंथप्रयोजनम् ... दुष्टयोगानां शुभकृत्यावश्यकत्वे सति परिहारः ... ... १९ ग्रंथे प्रतिपाद्यविषयाः मध्यदेशनिरुक्तिः ... ... १९ ज्यौतिषेऽधिकारिणः ... शुभकार्येषु सिद्धिदानामपि हस्ताज्योतिःशास्त्राध्ययनफलम् ... ६ कीदियोगानामतिनिंद्यत्वम् १९ नक्षत्रसूचकस्य श्राद्धे निषेधः... भौमाश्विनीत्यादिकानां सिद्धियोमुहूर्तप्रयोजनम् ... ... . गानां कार्यविशेषेऽतिनिंद्यत्वम् २० दृक्प्रत्ययित्वाज्ज्यौतिषस्यान्यशास्त्रेभ्यः श्रेष्ठयं... आनंदाद्यष्टाविंशतियोगाः ... २१ ग्रहाणामस्तोदयद्वैविध्यं आनंदादियोगज्ञानोपायः ... २१ आनंदादिषु कियतां दुष्टयोगानातिथीशाः __मावश्यककृत्ये परिहारः ... २२ तिथिप्रयोजन दोषापवादभूता रवियोगाः ... २२ तिथिकृत्यानि तिथीनां संज्ञाः, फलं च सूर्यादिवारेषु नक्षत्रविशेषैः सिद्धियोगाः ... सिद्धियोगाः ... ... २२ तिथेः फलस्तुतिः ... उत्पातमृत्युकाणसिद्धियोगाः... २३ रव्यादिवारेषु यथाक्रम निषिद्ध दुष्टयोगानां देशभेदेन परिहारः २४ तिथयः ... ... समस्तशुभकृत्ये वयंपदार्थाः... २४ निषिद्धनक्षत्राणि ... ... १३ उत्पातानां कारणं, भेदाः, फलं च ऋकचादिनिंद्ययोगाः ... ग्रहणात्पूर्व वय॑दिनानि ... २५ कृत्यविशेषेषु निषिद्धतिथयः ... शुभदोत्पाताः ... ... २६ पञ्च पर्वाणि ... ... १४ चत्वारो ग्रहयुद्धभेदाः दग्धा-विषादियोगचतुष्टयम् ... १५ ग्रासभेदेन कियत्संख्याकेषु मासेषु गमने वज्येयमघंटादियोगाः ... १६ ग्रहणीयनक्षत्रनिषेधः ... २७ आवश्यकत्वे यमघण्टपरिहारः ... १६ | सामान्यतोऽवश्यवानि पंचांगचैत्रादिमासेषु शून्यतिथयः ... १६ दूषणादीनि ... ... २८ तिथिनक्षत्रसंबंधिदोषाः ... १७ | जन्ममासलक्षणम् ... २८ - 2 2013 Page #6 -------------------------------------------------------------------------- ________________ मुहूर्तचिंतामणिग्रंथटीकागत विषयः पृष्ठं | विषयः तिथिक्षयलक्षणम् ... २९ | वारप्रवृत्तिः ... ... ४८ तिथिवृद्धिलक्षणम् ... २९ | वारप्रवृत्तियोजनपुरस्सरा होरा ४९ तिथिक्षयवृद्धिपरिहारः ... २९ | कालहोराप्रयोजनमन्यच्च ... ५० अधिमास-क्षयमासलक्षणम् ... ३० प्रत्येकं होराफलानि केषांचिन्मतेन... ५० पक्षरंध्रतिथीनां वय॑घटिकाः... ३१ | मन्वादियुगादीनां निर्णयस्तन्निकुलिकादिदोषास्तत्फलं च ... ३२ षेधश्च ... ... ५१ सूर्यादिवारेषुदुर्मुहूर्तास्तत्प्रमाणं च३२ / अष्टत्रिंशत्तात्कालिकानध्यायाः .... ५१ विवाहादिशुभकृत्ये होलिकामाग्दि__ नाष्टकनिषेधः ... ... ३३ नक्षत्रप्रकरणम् मृत्युक्रकचादीनामपवादः ... ३४ नक्षत्रस्वामिनः ... तेषां पुनरपवादः ... ... ३४ नक्षत्रकृत्यानि भद्रानिषेधकालः ... ध्रुवनक्षत्रगणस्तकृत्यं च ... भद्रानामानि ............. ३५ चरनक्षत्रगणस्तत्कृत्यं च ... भद्रास्वरूपम् .... - उग्रनक्षत्रगणस्तरकृत्यं च । भद्राया मुखपुच्छविभागादि... ३५ मिश्रनक्षत्रगणस्तत्कृत्यं च ... भद्रापरिहारः ... ... लघुनक्षत्रगणस्तत्कृत्यं च ... करणानि, तल्लक्षणं च ... मृदुनक्षत्रगणस्तत्कृत्यं च ... भद्राकृत्यनिर्देशः... .... तीक्ष्णनक्षत्रगणस्तत्कृत्यं च ... भद्राङ्गविभागः, फलं च ... ३७ | अधोमुखोर्ध्वमुखतिर्यमुखमुखादिकाल: ... ... ३७ नक्षत्राणि ... ... ५६ भद्रानिवासस्तत्फलं च ... ३८ | प्रवालदंतशंखसुवर्णवस्त्रपरिकालाशुद्धौ गुरुशुक्रास्तादौ निषेध्य. धानमुहूर्तः ... ... ५७ ___ वस्तूनि ... ... ३८ नवधाविभक्तस्य वस्त्रस्य दग्धादि- . अधिमासक्षयमासवानि ... ३९ | __दोषे शुभाशुभफलम् ... ५८ सिंहस्थगुर्वादिदोषः कचिद्दुष्टादिदिनेऽपि वस्त्रपरिगुर्वाधस्त-वक्रत्वादौ वानि ... ४१ धानम् ... ... ५९ गुर्वादित्यविचारः ... ... ४२ लतापादपारोपणराजदर्शनमद्यत्रयोदशदिनात्मकपक्षनिर्णयः ... ४३ ___ गोक्रयमुहूर्ताः ... ... ६० सिंहस्थगुरोः प्रकारत्रयेण परिहारः ४५ पशूनां रक्षा-स्थिति-प्रवेशमुहूर्तः ६१ सिंहराशिगतगुरुनिषेधवाक्यानां औषधसूच्योर्मुहूर्तः ... ६१ प्रतिप्रसववाक्यानां च निर्ग ऋयविक्रयनक्षत्राणि ... ६२ लितार्थः ... ... ४६ विक्रयविपणिमुहूर्तः मकरस्थितगुरोः प्रकारद्वयेन अश्विहस्तिकृत्यमुहूर्तः ... ६४ परिहारः ... ... ४६ अश्वचक्रं सफलम् लुससंवत्सरदोषापवादः ... ४७ | हस्तिष्वङ्कुशार्पणमुहूर्तः बोला ... ४० ... ६४ Page #7 -------------------------------------------------------------------------- ________________ विषयानुक्रमः। ... ६५ विषयः पृठं | विषयः भूषाघटनादिमुहूर्तः ... ६४ सामान्यतो लमशुद्धिः ... ८२ सुवर्णरूप्यादिभाजने भोजनमुहूर्तः ६५ नक्षत्रेषु ज्वरोत्पत्तौ तमिवृत्तिमुद्रापातनवस्त्रक्षालनमुहूर्तः ... दिनसंख्या ... ... ८२ खगादिधारणशय्याभोगमुहूर्तः ६६ शीघ्रं रोगविमुक्तये संक्षिप्तशांतिः ८३ अंधादिनक्षत्राणि...... ६७ शीघ्ररोगिमरणे विशिष्टयोगाः ८४ अंधादिनक्षत्राणां फलम् ... ६७ प्रेतदाहमुहूर्तः ... ... ८४ धनप्रयोगे निषिद्धनक्षत्राणि ... ६७ पञ्चके मरणविचारः ... ८५ जलाशयखनननृत्यारंभमुहूर्तः ६८ पञ्चके शांतिविधिपूर्वको दाहः कार्यः ८५ वापीखनने शस्तनक्षत्राणि ... ६९ त्रिपुष्करयोगस्तत्फलं च ... ८६ कूपारंभे मुहूर्वः ... ... ६९ शवप्रतिकृतिदाहे निषिद्धकालः ८७ तडागारंभे मुहूर्तः ... त्रिपादनक्षत्राणि द्विपादनक्षत्राणि । सेवकस्य स्वामिसेवायां मुहूर्तः ६९ __ च .... ... .... ८८ द्रव्यप्रयोगऋणग्रहणमुहूर्तः ... ७० शवप्रतिकृतिदाहविधिः ... द्रव्यसंचय-ऋणच्छेदमुहूर्तः ... ७० देशांतरमरणे आशौचनिर्णयः ... हलप्रवहणमुहूर्तः ... वर्णाशौचदिनसंख्या बीजोप्तिमुहूर्तः ... अभुक्तमूलस्वरूपम् ... वीजोप्ता कालनिषेधः मूलाश्लेषानक्षत्रोत्पन्नस्य चरण, फणिचक्रम् ... ७२ वशेन शुभाशुभफलम् ... ९३ ,, हलचक्रम् मातृगंडे शांतिः ... ... ९४ शिरामोक्षविरेकादिधर्मक्रिया मूलवृक्षविचारः मुहूर्तः ... मूलजकन्यायाः फलार्थ मूलांगविभागः९५ धान्यच्छेदमुहूर्तः ... ... आश्लेषावृक्षः ... ... ९६ कणमर्दनसस्यरोपणमुहूतौ ... ७५ धान्यस्थितिधान्यवृद्धिमुहूतौं... वसिष्ठमतेनान्यनक्षत्राणामप्यरिष्टत्वं ९६ मूलनिवासस्तत्फलं च ... शांतिकपौष्टिकादिकृत्यमुहूर्तः ... ७७ ९६ होमाहुतिशुद्धिमुहूर्तः मूलप्रसंगात् दुष्टगंडांतजारिष्टावहिनिवासस्तत्फल च ... ७० दीनां परिहारः नवाबभक्षणमुहूर्तः ... ७९ मूलशांतिविधिः ... ... नौकाघटनमुहूर्तः ... आश्लेषाशांतिविधिः ... नौकायात्रामुहूर्तः... ... ७९ नक्षत्रगंडांतशांतिविधिः ... वीरसाधनादिमुहूर्तः तिथिलग्नगंडांतशांतिविधिः रोगनिर्मुक्तस्नानमुहूर्तः ज्येष्ठाशांतिविधिः ... १० शिल्पविद्यामुहूर्तः ... ८० शूलयोगादिशांतिः ... १०४ संधानमुहूर्तः ... सूर्यसंक्रांतिव्यतीपातवैधति. परीक्षामुहूर्तः ... ८१। योगानां शांतिः ... १०४ ... ७९ ... ७९ १ Page #8 -------------------------------------------------------------------------- ________________ विषयः कुहू सिनीवाली-दर्श निर्णयः दर्शस्य त्रैविध्यम्, तल्लक्षणं च... सिनीवाली कुहूशांतिः दर्शशांतिः कृष्ण चतुर्दशीजननशांतिः एकनक्षत्रजननशांतिः सूर्यचंद्रग्रहणसमयजननशांतिः ११३ ११२ ... ११४ ... मुहूर्तचिंतामणि ग्रंथटीकागत पृष्ठं । विषयः पृष्ठ १०५ सायनांश संक्रांतिषु पुण्यकालः १३१ १०५ चलसंक्रमस्य मुख्यत्वम् १३२ १०९ | सायन- निरयनसंक्रमणोपयोगव्यवस्था १३२ ११० | जघन्यबृहत्समनक्षत्राणि सफलं संज्ञाप्रयोजनम् १३३ १११ १३३ कर्क संक्रांत विशोपकाः १३४ कीदृशस्य रवेः संक्रमो जात स्तत्फलं च संक्रांत: करणपरत्वेन सफलवाहनादि संक्रांतिवशेन प्रतिनरं शुभाशुभफलम् कार्यविशेषे ग्रहबलम् अधिमास-क्षयमासनिर्णयः ... 800 ०९. ... त्रीतरशांतिः अश्विन्यादिनक्षत्राणां तारका मानम् ११४ अश्विन्यादिनक्षत्राणां स्वरूपम् ११५ जलाशयाराम देवप्रतिष्ठा मुहूर्त: ११६ देवप्रतिष्ठायां विशेषः ... ११७ देवप्रतिष्ठायां सामान्यतो लग्भ शुद्धिः देवताघटनमुहूर्त: 930 ... ... ... ... संक्रांति प्रकरणम् ३ नक्षत्रवारभेदेन संक्रांतिफलम् १२० संक्रांतिभेदास्तत्फलं च सायनांशसंक्रांतेः स्नानदानादौ कार्य १२२ दिनरात्रिविभागेन संक्रांतिफल - १२० ... मुत्तरायणदक्षिणायनसंज्ञा च१२२ १२३ जन्मनक्षत्रे संक्रांतौ सति फलम् अवशिष्टदशसंक्रांतीनां षडशीति मुखाः संज्ञाः संक्रांतिकालस्य सूक्ष्मत्वं संक्रांतेः पुण्यकालः रात्रिसंक्रांतौ विशेषः अर्धरात्रसमये मकरकर्कटयोश्च विशेषः ... ... ११८ ११८ ... ... ... १२३ १२३ १२४ १२४ ..r ... ... वामवेधश्चंद्रबलं च द्विविधवेधे मतद्वयम् विषमस्थ ग्रहशांतिस्तत्समयश्च ... ... ... ... 888 ... १३४ ... गोचरप्रकरणम् ४ व्यादिग्रहाणां गोचरफलम् वक्री ग्रहफलं १३७ ... १३७ १३८ ... 006 ... ... 940 ... ... १४४ राहुगोचरफलम् जन्मराशेः सकाशात् ग्रहफलम् १४४ अशुभग्रहणप्रतीकारः १४५ १४६ १४६ १४८ दुष्टग्रहणम् जन्मनक्षत्र - राश्योर्ग्रहणे शांतिः निषिद्धग्रहणप्रतीकारः चंद्रबले विशेषः ... चंद्रबलस्य विधानांतरम् ग्रहाणां नवरत्नसमुदायधारणम् १५१ ... १५० १५० ... ... १.३५ ... ... १४० १४२ १४३ १४३ १४४ 000 १५१ १२५ | असति द्रव्यसामर्थ्यं तत्तद्ब्रहोअर्धोदयास्तादिवचनस्यापवादः १२५ करवधारणम् मकरसंक्रमे रात्रावनुष्ठानं शस्तं १२६ | अल्पमूल्यरत्नानि, ताराबलं च १५२ तत्र गौर्जर - दाक्षिणात्यरूढिविशेषाः १२७ शेषक्रमेण सफलास्ताराः विष्णुपदादिपु पुण्यकालः १२७ | अवश्य कृत्ये दुष्टत्राणां परिहारः १५३ १५२ ... Page #9 -------------------------------------------------------------------------- ________________ विषयः ... ... चंद्रावस्थागणनोपायः द्वादशावस्थानामानि ग्रहाणां वैकृतपरिहारार्थं ओषधिजलस्नानं दक्षिणाश्च . १५५ सूर्यादयो ग्रहा गंतव्यराशेः 090 ... कियद्भिर्दिनैः फलं दद्युरित्यस्य विचारः प्रसंगादावश्यक कृत्ये सति तिथ्यादिदोषे दानम् सूर्यादिग्रहाणां राज्ञ्यंतरगमने फलमू ... .... : ... ... संस्कारप्रकरणम् ५ ... ... ... संस्कारपदार्थः संस्कारनामानि, गर्भाधानाव इयकत्वं च प्रथमरजोदर्शने शुभ फल सूचक ... १६१ मासादि प्रथमरजोदर्शने शुभमध्याशुभनक्षत्राणि निधरजोदर्शनम्... प्रथमरजस्वलायाः स्नानमुहूर्त: १६२ गर्भाधान मुहूर्तः, दोषे शांतिश्च १६३ १६१ १६३ ... १६५ १६५ ... 600 विषयानुक्रमः । पृष्ठ | विषयः ... ... ... १५९ ... १५४ १५४ ... 800 १५७ | अन्नप्राशन मुहूर्तः गंडांतलक्षणं, भेदाश्च ... १६८ गर्भाधाने लग्नबलम् ऋतुकालावधि: सीमंतोनयनमुहूर्तः सीमंतादिमंगलेषु जन्मनक्षत्रं वर्ज्य १६८ मासेश्वराः, स्त्रीणां चंद्रबलं च १६९ वस्त्रालंकारादौ भर्तुश्चद्रबलं ग्राह्यं १७० | पुसवनमुहूर्तः, विष्णुवलिमुहूर्तश्च १७० गर्भरक्षार्थं विष्णुपूजामुहूर्त: १७१ जातकर्म नामकरणयोर्मुहूर्तः १७१ नामकर्मणि विशेषविचारः १५८ १६० १७३ १७४ जन्मनक्षत्र चरणाक्षराणि सूतिकास्नान मुहूर्तः सूतिकास्नाने दाक्षिणात्यमतम् १७४ बालस्य स्तनपानमुहूर्त: १७४ प्रथममासोत्पन्न दंत फलम् १७५ तत्र शांतिविधिः १७५ १५६ | दोलाच, दोलारोहणमुहूर्तः, निष्क्रमणमुहूर्तश्च १७६ १५७ | प्रसूतिकालज पूजा मुहूर्तः, गवादिदुग्धपान मुहूर्तश्च ... ... खंडनक्षत्रादौ निर्णयः चूडाकर्म निषेधकालः केतुस्वरूपं, फलानि च ब्रह्मपुत्रलक्षणं ... ... 100 ... ... ग्रहाणां स्थानवशात्फलानि ... भूम्युपवेशन मुहूर्तः जीविकापरीक्षा शिशोस्तांबुलभक्षणमुहूर्तः कर्णवेधमुहूर्तः जन्ममासे वर्ज्यातराणि कर्णवेधे लग्नशुद्धिः कर्णवेध प्रकारः ... ... ... प्रमाणानां देशभेदेन व्यवस्था चौलमुहूर्तः चौलप्रयोजनम् ... ... ... ... १७७ १७८ ૧૮૩ १८२ ... १८२ १८३ १८४ १८४ ... ... ... ... ... ... ... तत्प्रसंगतोऽन्यकर्म निषेधकालश्च गुरुशुक्रयोल्यवार्धक्य दिन ... ... संख्या परमते गुरुशुक्रयो बल्यवार्धक्यदिनसंख्या ... ... o १८८ १८८ १८९ १९१ मातर गर्भायां चौले निर्णयः १९१ उपनयनेन सह चौले तु विशेषः १९२ १७२ | चौले दुष्टतारापवादः १९२ ... पृष्ठं ... 030 ... १८५ १८६ १८६ १८६ १८७ १८८ १८८ Page #10 -------------------------------------------------------------------------- ________________ १० मुहूर्तचिंतामणिग्रंथटीकागत पुठं ... १९० ، م ... २०० ه م विषयः पृष्ठं | विषयः चौलादिकृत्ये कालविशेषनिषेधः १९२ व्रतबंधे रव्याधेशफलम् ... २१३ ज्येष्ठापत्यस्य ज्येष्ठमासि मंगलं न शस्तं १९३ चंद्रनवांशफलं सापवादम्... २१३ सामान्यक्षौरादिमुहूर्तस्तन्निषे केंद्रस्थसूर्यादिग्रहाणां फलम् २१४ धकालश्च ...... ... १९३ चंद्रगुरुशुक्राणां ग्रहयुतौ फलम् २१४ तत्र गर्गोक्तानि वारफलानि ... १९४ चंद्रवशेन शुभाशुभयोगौ ... २१५ क्षौरस्य विधिनिषेधौ .... १९५ व्रतेऽनध्यायाः ... ... २१६ राज्ञां क्षौरे विशेषः, वय॑नक्ष अनध्यायप्रयोजनम् ... २१७ त्राणि च ... ... १९५ प्रदोषलक्षणम् ... ... अक्षरारंभमुहूर्तः... ... १९७ बढुचानां ब्रह्मोदनसंस्कारः... विद्यारंभमुहूर्तः ... ... १९७ वेदपरत्वेन नक्षत्रविशेषः ... २१९ अंकुरार्पणमुहूर्तः तत्र धर्मशास्त्रीयविशेषः ... २१९ व्रतबंधादौ मातू रजःप्राप्तौ निर्णयः २१९ व्रतबंधनिर्णयः ... ... ... १९९ लग्नांतराभावे शांतिविधिः ... २२ नित्य-काम्य-गौणभेदेन तस्य कालत्रयम् छुरिकाबंधनमुहूर्तः ... २२० केशांतसमावर्तनमुहूर्तः ... २२१ व्रतबंधे नक्षत्राणि , मासास्तत्फलं च ... विवाहप्रकरणम् ६ , वारास्तत्फलं च ... विवाहप्रयोजनम् , शस्तो दिनविभागः ... २० ... २२३ सलक्षणाविवाहभेदाः ... २२२ , सामान्यतो लग्नभंग गृहस्थाश्रमस्य वैशिष्टयं ... योगः ... ... २०४ प्रश्नलग्नाद्विवाहयोगद्वयम् ... २२४ लग्नशुद्धिः ... २०४ अन्यद्विवाहयोगद्वयम् ... २२४ " लग्नस्थचंद्रस्य प्राशस्त्यं ... २०५ प्रश्नलग्नाद्वैधव्ययोगत्रयम् ... २२५ , उच्चस्थ-लग्नस्थचंद्र प्रश्नलग्नात्कुलटामृतवत्सायोगन्यषेधीत्कश्यपः ... २०५ विकल्पः ... ... २२५ " स्वगृहस्थश्चंद्रः सर्वसंमतः २०५ विवाहभंगयोगः... ... वर्णाधीशाः, शाखेशाश्च ... २०५ | बालवैधव्ययोगे तत्परिहारः २२६ वर्णेश-शाखेशप्रयोजनम् ... २०६ बालवैधव्ययोगनिरूपणं ... २२ उच्चास्तादिसंशाः ... ... जातकीयो वैधव्ययोगपरिहारः... २२ सामान्यतो निषिद्धजन्ममासा- तत्र पिप्पलव्रतं कुंभादिविवाहाश्च २२७ देरुपनयनेऽपवादः कन्यादानेऽधिकारिणः ... २२८ गुरुबलम् ... विवाहलक्षणं पुनर्भूलक्षणं च २२९ गुरोरष्टवर्गः ... .... २१० अस्याः कन्यायाः कीदृशं प्रथमायवनाचार्योक्तं रेखाफलं पत्यं भवितेति प्रश्न उत्तरम् २२९ गुरुदौष्टयापवादः... सामान्यतो निमित्तवशेन शुभाव्रतबंधे वयंपदार्थाः शुभप्रश्न: ... ... २२९ م ه ... २१० .. २११ Page #11 -------------------------------------------------------------------------- ________________ ... विषयः शौनकोक्ताऽशुभयोगाः उपश्रुतिमंत्र: कन्यावरणमुहूर्तः तत्र लग्नशुद्धिः विवाश्यकन्यालक्षणं... वरवरणमुहूर्तः कन्याविवाहकालो ग्रहशुद्धिश्च २३२ विहितमासाः २३४ विधिनिषेधाः आवश्यकत्वेऽपवादः ज्येष्ठमासप्रयुक्तविशेषः अन्य विशेषः ज्येष्ठापत्यस्य मार्गशीर्षेऽपि ... ... 300 ... वधू-वरमेलकविचारः गर्वोक्तान्यष्टादशकून राशिकानां नामानि वर्णकूटम् वश्यकूटम् तत्र गुणविभागः ... मासप्रसंगाज्जन्ममासादिप्रयुक्त ... ... ताराकूटम् योनिकूटम् ग्रहमैत्री.. गणकूटं, तत्फलं च ... ... 000 ... ... २३१ | दुष्टभकूटस्य परिहारः द्विर्द्वादशनवपंचम विचारः २३१ ... 800 विषयानुक्रमः । ... 800 मंगलनिषेधो नात्स्येनोक्तः . सोदराणां पूर्वापरीभावः, कालमर्यादा च प्रतिकूल निर्णयः संस्कार्यपितृ-मातृमरणे तु विशेषः प्रतिकूलस्य नियतः कालः विवाहानंतरं षण्मासपर्यंतं पुरुषत्रये चूडादिनिषेधः संधिफलम् मूलादिदुष्टनक्षत्रोत्पन्नयोर्वधूवरयोः श्वशुरादिपीडकत्वम् २४३ | संधिसंधिः तदपवादः २४४ गंडांत परिहारः ... .... २४४ | कर्तरीदोषः ... २४४ ... ... ... ... ... २३८ ... ... पृष्ठ | विषयः ... ... गणादिदौष्ट्येऽपवादः २३० २३० राशिकूटं, तत्फलं च ... ... परिहारः नाडीकूटं तदपवादश्च प्राच्य संमतं वर्गकूटम् नक्षत्रराश्यैक्ये विशेषः जन्मराशिनक्षत्राज्ञाने उपायः २३१ षट् काष्टक विचारः ... ... २३२ | दुष्टानां गणकूट - भकूट ग्रहकूटानां २३५ २३६ २३८ २३६ | एकविंशतिमहादोषाः राशिस्वामिनः होरा प्रकार :त्रिंशांशाः द्वेष्काणकांशाः द्वादशांशाः २४१ २४२ | गंडांतदोषः २४२ नक्षत्रगंडांतः २४२ लग्नगंडांतः तिथिगंडांतः ... २४३ | तिथिलग्नगंडांत दोषपरिहारः ... २५७ २५७ २६० २६१ २६२ २६२ २६३ २६३ २६३ २६३ २६४ २६५ २६६ २६६ २६७ २६७ २६७ २६७ २६७ २६८ २६९ राहु केतुफलविचारः २४५ तत्र लग्नकर्तर्या महादोषवत्त्वं २६८ २४५ | सग्रहदोषः २७० २४५ | अष्टमलग्नदोषः सापवादः २७१ २७२ २७२ २७२ ... २७३ २७४ ... ... ... ... ... ... ... ... ... २४६ उत्तरार्धोक्तस्पष्टार्थः २४६ द्वादशभवनादिदोषाः २४७ २४८ २४९ ... विषघटीदोषः विषनाडिकास्तत्फलं च विषनाडीपरिहार:.. पृष्ठं २५० ... २५१ २५१ ... २५२ २५३ ... ... ... ... 000 ... ... ... ... 900 ... ... ... ... 6.6 ... 0.0 ... ... 000 ... 930 ... ... 800 ... 800 ... ११ ... ... Page #12 -------------------------------------------------------------------------- ________________ १२ मुहूर्तचिंतामणिग्रंथटीकागतविषयः पृष्ठं | विषयः दिवामुहूर्ताः ... ... २७४ | उदयास्तशुद्धिः ... ... २९० रात्रिमुहूर्ताः ... ... २७४ सूर्यसंक्रमणाख्यदोषः ... २९२ वारभेदेन दुर्मुहूर्ताः ... २७५ सर्वग्रहाणां संक्रांतिघव्यः ... २९३ विहितनक्षत्रादिकमभिजिन्मानं पंग्वंधकाणबधिराख्यलग्नदोषाः २९३ च... ... ... २७५ परमते पंग्वंधादिलग्नदोषाः... २९४ वेधदोषः . ... ... २७६ एषां प्रयोजनं सापवादम् ... २९४ पंचशलाकाचक्रम् , स्पष्टार्थश्च २७६ तेषां देशभेदेन परिहारः ... २९४ सप्तशलाकाचक्रवेधः ... २७७ / विहितनवांशाः ... ... २९४ क्रूराक्रांतादिनक्षत्रदोषः साप- शौनकमतेन मीनांशकोऽपि शुभः २९५ वादः ... २७० विहितनवांशे कचिनिषेधः... २९५ लत्तादोषः .. ... .. सर्वथा लग्नभंगयोगः ... २९६ तत्र प्रत्येकं वेधफलं ... २७९ | रेखापदग्रहाः ... ... २९७ पातदोषः ... ... २७९ | कर्तर्यादिमहादोषापवादः ... २९८ सूर्यचंद्रक्रांतिसाम्यापरपर्यायो विवाहे अब्ददोषाद्यनेकदोषामहापातदोषः ... २८० __ पवादाः ... ... २९९ खार्जूरदोषः ... ... २८२ उक्तानुक्तदोषपरिहारः ... ३०० उपग्रहदोषः, देशभेदेन सामान्यतो दोषसमूहपरिहारः ३०१ परिहारश्च ... ... | लग्नविंशोपकाः ... ... ३०१ पातोपग्रहलत्तापवादादि .., २८३ ग्रहवशेन श्वशुरादिविभागज्ञानम्३०२ वारदोषभेदः कुलिकः संकीर्णजातिविवाहे कालविशेषः३०२ दग्धतिथ्यादिदोषः | गांधर्वादिविवाहे विशेषः ... ३०३ तस्यापवादः ... ... २८५ | विवाहात्वाकर्तव्यानामावश्यकजामित्रदोषः ... __कृत्यानां दिनशुद्धिः ... ३०३ तस्यापवादः ...' २८६ | | कांजिकाधारणमुहूर्त: ... ३०४ एकार्गलादिदोषाणामपवादः २८६ | वेदीलक्षणं, मंडपोद्वासनादिकेषांचिदोषाणां देशभेदेन मुहूर्तश्च ... ... ३०४ परिहारः ... ... २८७ मंडपादौ स्तंभनिवेशनम् ... ३०५ गोधूलीप्रशंसा ... दशयोगदोषाः ... ... ... २८७ गोधूलिसूक्ष्मकाल: ... दशयोगानां फलं, तदपवादश्च २८७ ... गोधूलिभेदः ... ... बाणदोषः पंचकाख्यः ... २८८ गोधूलिसमयेऽवश्यवर्यदोषाः प्राच्यमतन बाणा सापवादः २०८ सूर्यस्पष्टगतिः ... ... ३०८ समयादिभेदेन विविधो बाण- सूर्यस्य तात्कालिकीकरणम्... ३०८ परिहारः .... ... २८९ इष्टकालिकलग्नानयनम् ... ३०९ ग्रहाणां दृष्टिस्तत्फलं च '... २९० ] रविलग्नाभ्यामिष्टघटिकानयनम् ३०९ س س س س Page #13 -------------------------------------------------------------------------- ________________ विषयानुक्रमः। 3. ا س س س س س س س س س विषयः पृष्ठं विषयः भास्कराचार्योक्तं सूर्योदयशानं ... ३०९ यात्राप्रकरणम् ११ चरखंडानयनम् ... ... ३०९ यात्राधिकारिणः... ... घटिकानयने विशेषः ... ३१० | शुभफलयात्रावेदकप्रश्नः ... ३२९ इष्टकालसाधनशानं जलयंत्राकारादि अन्यप्रश्नः ... ... ३२९ जलयत्रमत्रः ... ... ३११ शीर्षोदयराशयः ... ... ३३० शंकुना घटीशानं ... ... ३११ अज्ञातजन्मनां शुभफलदप्रश्नः ३३० तैलादिलापने संख्यानियमः ... ३१३ ज्ञाताज्ञातजन्मनां पुंसामशुभविवाहादौ आवश्यकवयंदोषाः३११ फलदप्रश्नः ... ... ३३० याता कस्यां दिशि गमिष्यतीति वधूप्रवेशप्रकरणम् ७ प्रश्ने लग्ननिर्णयः ... ३३१ वधूप्रवेशमुहूर्तः... ... ३१४ योगांतरम् ... ... ३३१ वधूप्रवेशे नक्षत्रशुद्धिः ... ३१५ यात्राकालस्तारानिषेधादि च ३३२ बुधवारे वधूप्रवेशविचारः ... ३१५ देवलाचार्यमतेन सूर्योऽध्वनि पृष्ठगः रात्रावेव वधूप्रवेशः शस्तो, न दिवा३१५ ___ शस्तः ... ... ३३२ विवाहप्रथमाब्दे वध्वाः पितृपतिगृहवासे मासदोषः... ३१५ | उदयकालात्सूर्यभ्रमणनिरुक्तिः ... तिथि-नक्षत्रशुद्धी ... प्रत्येकं तिथिफलानि द्विरागमनप्रकरणम् ८ वारफलानि ... ... द्विरागमनमुहूर्तः संमुखशुक्रदोषः... ... ३१७ गुरुमतेन वान्यन्यनक्षत्रानि... ३३४ गोत्रपरत्वे प्रतिशुक्रापवादाः... ३१८ वारशूलं नक्षत्रशूलं च ... ३३५ वारशूलपरिहारः ... ... ३३५ कालशूले यात्रानिषेधः ... ३३६ • अन्याधानप्रकरणम् ९ अग्न्याधानसोमयागादिमुहूर्तः ३२१ प्रवेशनिर्गमावेकस्मिन्नेव दिने अन्याधाने लग्नशुद्धिः ... ३२१ चेद्विशेषः ... ... ३३६ तत्राष्टमस्थानशुद्धिविचारः ... ३२३ मध्यमानां निषिद्धानां च कियतां यागकर्तृत्वयोगाः ... ३२२ __भानां वयंघटिकाः ... ३३८ मतांतरेण वय॑घटिकाः ... ३३० राजाभिषेकप्रकरणम् १० भानां जीवपक्ष-मृतपक्षादिकाः राजाभिषेके कालशुद्धिः ... ३२३ __ संज्ञाः ... ... ३३८ राजाभिषेकनक्षत्राणि लग्न जीवपक्षादीनां विशेषफलम् ३३९ शुद्धिश्च ... ... ३२५ | तस्यापवादः ... ... ३३९ स्थानविशेषे पापग्रहैरशुभफलम् ३२६ सफलमकुलकुलाकुलचक्रम् ३४० राज्ञः संपत्स्थैर्यकर्तृयोगद्वयम् ३२७ पथिराहुचक्रम् ... ... ३४१ पथिराहुचक्रफलं ... ३४२ २ मु०चि०अनु० س سه س Page #14 -------------------------------------------------------------------------- ________________ १४ मुहूर्तचिंतामणिग्रंथटीकागत w m w w m ___... ३४८ wr w ur w . विषयः पृष्ठं | विषयः प्रयाणे तिथिचक्रं सफलम् ... ३४३ शुक्रस्य वक्रास्तादिदोषः सापसर्वांकज्ञानम् ... ... ३४५ वादः ... ... आडल-भ्रमणदोषौ दाक्षिणात्य- प्रतिशुक्रापवादः... ... प्रसिद्धौ ... ... अनिष्टलग्नं शुभलग्नं च ... हिंवराख्ययोगः ... ... अन्यदनिष्टलग्नम् ३६३ घबाडं टेलकं च... ... ३४६ | अन्यच्छुभलग्नम्... ... ३६४ घातचंद्रस्तत्परिहारश्च ... ३४७ नौकायात्रायां शुभं लग्नम् ... ३६४ घाततिथयः ... ... ३४७ मेषादीनामनुलोमप्रतिलोमराशीनां घातवारा: ... | लग्नावस्थितौ फलम् ... ३६४ घातनक्षत्राणि ... | शुभलग्नानि ... ... ३६५ योगिनीदोषाः ... वेशिसंज्ञकराशिलक्षणम् ... ३६५ अर्धप्रहरयोगिनीदोषः दिक्स्वामिनः वारयोगिनीदोषः ... ३४९ दिगधीशकथनप्रयोजनम् ... ३६६ सफलं त्रिविधं योगिनीचक्रम् ३४९ लालाटिकयोगाः कालपाशाख्ययोगौ ... ३५० पर्युषितयात्रायोगचतुष्टयम् ... कालपाशप्रसंगाखंडराहुः ... ३५१ समयबलम् ... ... ३६८ अर्धयामकालः ... दिग्विशेषयात्रायां प्रशस्तः अर्धयामराहुः ... ___ समयविशेषः ... मुहूर्तराहुः ... ३५३ अभिजित्प्रशंसा श्रीपत्युक्ता ... ३६८ पारिघदंडदोषः ... ... ३५३ | लग्नादिभावानां संज्ञाः ... ३ तच्चक्राकृतिः ... ... ३५३ | विशिष्यशुभाशुभफलम् ... ३६१ विदिक्षु गमने नक्षत्राणि पारिघ- यात्रालग्ने लग्नादिद्वादशभाव. दंडापवादश्च ... ... ३५४ | __ स्थितग्रहफलानि ... ३७० दिग्राशयस्तत्फलं च ... ३५५ योगयात्रा, तदारंभप्रयोजनं च ३७२ सर्वदिग्द्वारनक्षत्राणि, गमने योगसंभवफलस्य वैशिष्टयं ... ३७४ वक्रिग्रहस्य निषेधश्च ... ३५५ योगयात्रालग्नम् ... ... ३७५ पुष्यस्याशुभफलदानराहित्य अन्ययोगयात्रालग्नम् ... ३७६ नारदोक्तिः ... षट्पञ्चाशत्तमपद्यमारभ्य त्रिसप्तगमने शस्ता वाराः ... ३५८ | तितमपद्यपर्यतं योगयात्राअयनशुद्धिः ... ... लग्नानि ... ३७९-३८४ संमुखशुक्रदोषः विजयादशमीमुहूर्तः ... ३८५ सूर्यभ्रमणज्ञानं, तेन च यातुः अन्योऽपि प्रबलदुर्बलभावः ३८५ शुक्रसांमुख्यज्ञानं ... ३६० यात्रायामवश्यनिषिद्धनिमित्तानि३८६ तत्परिहारकं दानं शांतिश्च ... ३६१ | दिव्यांतरिक्षभौमोत्पाता निषिद्धाः ३८६ ... ३५१ ... ३५२ Page #15 -------------------------------------------------------------------------- ________________ विषयानुक्रमः। ० ० . ० . mmmmmmmmmmm ००० M ܝ विषयः पृष्ठं | विषयः प्रयाणे केतुस्तूदयास्तं यावन्निषिद्धः ३८६ / कियच्छकुनानां देशबैशिष्टये । एकदिनसाध्यगमने दिक्शूलाद्य- । नैष्फल्यम् ... ... ४०७ .. भावः ... ... स्थानविशेषे शुभोऽप्यशुभकरः ... प्रयाणे त्रिनवमीदोषः अपशकुननिंदा ... ... .४०७ यात्रादिनविधिः... ___... ३८९ विरुद्धशकुने किं कार्यम् .... नक्षत्रदोहदाः ... प्राणशब्देन कालमर्यादोक्तिः ... ४० दिग्दोहदाः ... कृतशत्रुपराजये राज्ञः कार्य ... ४०८ वारदोहदाः ... यात्रानिवृत्तौ गृहप्रवेशमुहूर्तः तिथिदोहदाः ... प्रवेशस्य चातुर्विध्यम् ४०९ ___... ३९२ तत्र कालशुद्धिः ... ... . ४०९ गमनसमयभवविधिः ... ३९३ दिश्ययानानि ... पंचांगलनशुद्धिः ... ... निर्गमस्थानानि ... ... मेषादिनिंद्यलग्नप्रवेशे फलं ... वामसूर्यज्ञानोपायः ... ४१० गमनविलंबे सति वर्णक्रमेण विवाहप्रकरणोक्तदोषा यात्रायां प्रस्थानवस्तूनि ... वाः ... ... प्राच्यमतेन प्रस्थानपरिमाणम् ३९५ अन्ये दोषाः ... ... ४११ मुनिमतेन प्रस्थानपरिमाणम् ३९५ एकविंशतिमहादोषफलम् ... ४१२ स्वयं प्रस्थाने गुणः ... ३९६ कृतप्रस्थानेऽपरदिनेऽष्टमचंद्रादिदोषे गमननिषेधः ... ... ३९६ वास्तुप्रकरणम् १२ प्रस्थानदिनसंख्या मैथुननिषेधश्च३९८ ग्रामपुरादिषु गृह निर्माणे स्वस्य प्रस्थानकर्तुनियमाः ... शुभाशुभम् ... ... ४१४ स्व-परवर्गशानं काकिण्यादि च ४१४ अकालवृष्टिदोषः... __... ३९९ दिक्परत्वेन द्वारनिवेशनं ... ४१५ अकालिकवृष्टेर्लक्षणं ... ४०० राशिपरत्वेन ग्रामनिवासे निषिदुष्टशकुनशांतिर्दानं च ... ४०१ द्धस्थानानि ... ... ४१५ शुभसूचकशकुनानि ... ४०२ शकुनप्रयोजनम् .... इष्टनक्षत्रेष्टायाभ्यामिष्टभूम्यां ... ४०३ विस्तारायामौ ... ४१६ अशुभसूचकशकुनानि ... ४०४ शेषाङ्क-क्षेत्रफलबोधकं चक्रं ... ४१६ अन्यच्छकुनम् ... ... आयाः वर्णपरत्वेन द्वारनिकोकिलादीनां वामांगभागेन वेशनं च ... ... ४१७ शकुनम् ... ... ४०६ आयानां प्रयोजनातरम् ... ४१७ दक्षिणांगभागावस्थितशकुनम् ४०६ गृहारंभे विशिष्टकालनिषेधः ४१० प्राच्यादिदिक्परत्वेन शकुनाः ४०७ व्ययकथनपुरःसरमंशकज्ञानं उक्तव्यतिरिक्तानां सामान्यतः । सफलम् ... ... ४१९ प्रादक्षिण्येन शकुनम् ... ४०७ | विवक्षितशालाध्रुवांकानयनम् ४२० ० ० ० ० ० Su0.०० ० ० ० Page #16 -------------------------------------------------------------------------- ________________ १६ मुहूर्तचिंतामणिगतविषयानुक्रमः । पृष्ठं . विषयः पृष्ठं | विषयः ध्रुवादीनां नामाक्षरसंख्या ... ४२१ अन्ययोगद्वयमशुभशुभफलदं ४३५ ... ४३५ षोडशगृहाणां नामानि ... ४२१ / अशुभफलयोगः... गृहस्यायादिनवकम् ... ४२२ | द्वारचक्र सफलम् ... ४३६ शुभाशुभसूचकं नामसदृशफलम्४२३ गृहारंभे वृषवास्तुचक्रम् ... ४२४ | गृहप्रवेशप्रकरणम् १३ तिथ्यानयनप्रकारांतरम् ... ४२४ कालशुध्यादिकम् सौरचांद्रमासैक्येन प्राच्यादि. प्रवेशे शुभलग्नादि तत्फलं च ... ४३९ दिक्षु द्वाराणि गृह निर्माणन- जीर्णगृहप्रवेशविशेषः ... ४४० क्षत्राणि सूतिकागृह निर्मा गृहप्रवेशदिनात्प्राग्वास्तुपूजाणप्रवेशमुहूतौ च ... ४२५ विधिः ... ... ४४१ चांद्रमासाः ... ... ४२५ | लमशुद्धिस्तिथिवारशुद्धिश्च ... ४४२ सूतिकागृहप्रवेशे काल: ... ४२७ | वास्तुपूजाप्रकारः ... ४०१ प्रागभिहितसौरचांद्रमासानां वामरविः ... ... ४४४ प्रकारांतरेणैकवाक्यता ... ४२७ | गृहप्रवेशे कलशवास्तुचक्रम् ४४६ तिथिपरत्वेन द्वारनिषेधः विहि- प्रवेशोत्तरकालिककर्तव्यविधिः ४४७ ततिथयश्च ... ... ४२८ द्वारवेधफलानि ... ... ४२९ वंशवर्णनम् १४ गृहमध्ये द्वारादिनिषेधस्तदपवादश्च ४२९ ग्रंथसमाप्तौ पितामहवर्णनम् ४४८ गृहारंभे लग्नपंचांगशुद्धी ... ४२९ | क्रमप्राप्तं स्वपितृवर्णनम् ४५० देवालये गृहारंभे जलाशये स्वनामकथनपूर्वकं ग्रंथसमाप्तिः४५१ च विदिगवस्थितराहुमुखं ४३० श्लोकानुक्रमः ... १-८ राहुमुखचक्रं ... ... ४३१ गृहारंभे वास्तुनरः ... ४३१ खातारंभे नक्षत्राणि ... ४३१ परिशिष्टम् । १-२० कोष्टकात्मकम्गृहकूपनिर्माणे दिगवस्थित्या फलम् मुहूर्त-देवता-संज्ञात्मकं, ... ... ४३२ कूपे कृते गृहमध्ये करिष्यमा मुहूर्त-देवता-नक्षत्र-संज्ञाणानामुपकरणगृहाणां दि त्मकं, नक्षत्रवारसंज्ञात्मकं, __ क्परत्वेन करणम् ... ४३२ | वर्ण-वश्य-वैरवर्ग-योनिगृहस्य नियतायुर्दाययोगद्वयम् ४३३ मैत्री-गण-नाडी-वर्णगुणअन्यद्योगद्वयम् ..... ... ४३३ नाडीगुण-गणगुण-संक्षिप्तलक्ष्मीयुक्तगृहयोगत्रयम् ... ४३४ तारागुण-प्रीतिषडष्टकगृहस्य परहस्तगामित्वे योगः ४३४ मृत्युषडष्टक-शुभाशुभफलविशेषाच्छुभसूचकं योग द्विाशक-शुभाशुभनवद्वयम् ... ... ४३४ | पंचकात्मकानि (ग्रन्थान्ते) ८-१२ m mmm Mm Page #17 -------------------------------------------------------------------------- ________________ श्रीः। मुहूर्तचिंतामणिः। पीयूषधाराख्यव्याख्यया समलंकृतः।। शुभाशुभप्रकरणम् १। ___ श्रीगणेशाय नमः ॥ दधानं ,गालीमनिशममले गंडयुगले ददानं सर्वा निजचरणसेवासुकृतिने । दयाधारं सारं निखिलनिगमानामनुदिनं गजाये मेरास्यं तमिह कलये चित्तनिलये ॥१॥ निपीतध्वांताय असमरकरायोग्रमहसे निकामं कामान वितरणविनोदव्यसनिने। समस्तप्रत्यूहप्रशमनकृते श्रीदिनकृते नमस्तस्मै यस्मै स्पृहयति समस्तांबुजवनी ॥ २ ॥ लसल्लक्ष्मीलीलावस तिरनिशं वेदविहितस्फुरद्धर्माधारः श्रितसुखपयोदः प्रतिदिनम् । अतीव प्रख्यातः स जयति गुणानां जननभूर्विदर्भाख्यो देशो हरिरिव सदानन्दजनकः ॥३॥ तस्मिन्विदर्भविषये विषये वितृष्णश्चिंतामणिषुमणिरेव बभूव मूर्तः । जाग्रञ्चतुर्मुखचतुर्मुखशायिविद्यामाद्यां प्रवर्तयितुमत्र पवित्रकीर्तिः ॥ ४ ॥ वादैर्विजित्य धरणीतलमासमुद्रमुन्निद्रतर्कशतकर्कशबुद्धिसिद्धैः । चत्वार ऊर्जितसमर्जितकीर्तिदंभस्तंभा दिशासु रचिताः सकलासु येन ॥ ५॥ ज्योतिर्विदुज्वलयशोहरणाय किं वा चंद्रांशुनिर्मलकलाभरणाय किं वा । विद्यासरोरुहदृशः शरणाय किं वा श्रीमाननंत इति तत्तनयोऽजनिष्ट ॥ ६ ॥ तस्मात्पद्माख्यपत्यामतिविमलमती वाक्पती दिक्पतीनामाशाः कासारजाभस्फुरदधिकयशोरश्मिभिर्व्याप्य भातौ । प्राभूतां तौ तनूजौ श्रुतिगणगदिताचारधारापवित्रौ ज्येष्ठः श्रीनीलकंठस्तदनु गुणगणालंकृतो रामनामा ॥ ७ ॥ सीमा मीमांसकानां कृतसुकृतचयः कर्कशस्तर्कशास्त्रे ज्योतिःशास्त्रे च गर्गः फणिपतिभणितिव्याकृतौ शेषनागः । पृथ्वीशाकब्बरस्य स्फुरदतुलसभामंडनं पंडितेंद्रः साक्षाच्छ्रीनीलकंठः समजनि जगतीमंडले नीलकंठः ॥ ८॥ रामो हेरंबभक्तेरधिगतविशदानेकविद्योऽनवद्यो बुद्धिप्रद्योतमानो गणितगुणवतां मानवानां सुखाय । ग्रंथैर्नानाप्रकारैरतिकठिनतरग्रंथनके विशाले ज्योतिःशास्त्रार्णवे द्राग्दृढतरमतुलं सेतुबंधं चकार ॥ ९॥ श्रुतिस्मृतिप्रोक्तसमस्तकर्मोपयुक्तमानंदितशिष्टलोकम् । मुहूर्तचिंतामणिनामकं स ग्रंथं व्यधाच्छर्वपुरे स्वपयैः ॥१०॥ श्रीनीलकंठस्य बभूव पत्नी सा चंद्रिकाख्योभयवंशभूषा । नाराअणस्येव समुद्रकन्या शर्वस्य गौरीव विराजते या ॥११॥ तस्माद्देवविदग्रगण्य Page #18 -------------------------------------------------------------------------- ________________ मुहूर्तचिंतामणिः। [ग्रंथकृन्मंगलाचरण तिलकाच्छ्रीनीलकंठात्तया गोविंदाख्यसुतोऽजनि स्वगुरुतः संप्राप्तविद्यागणः। यः शास्त्रामृतसिंधुबंधुरवचोवीचीषु नित्योदतां सानंदं समवाप्य भूरि कृतवान् ग्रंथे श्रमं ज्यौतिषे ॥ १२॥ अनेकबुधमंडलीविरचितां हि टीकाकृतौ निधाय हृदयेऽर्थनामिह मुहूर्तचिंतामणेः। निगूढतरतद्गतप्रचुरभावमात्मोक्तिभिर्बुधा विवरणे करामलकमाशु कर्तुं यते ॥ १३ ॥ मुहूर्तचिंतामणिदुग्धसिंधुमामथ्य युक्तिव्रजमंदरेण । गोविंदसंज्ञस्तनुते सुखाय पीयूषधारां भुवि भूसुराणाम् ॥१४॥ तत्रादितो गाणपतं प्रणम्य पादाजयुग्मं विदुषां सुतुष्ट्यै । शुभाशुभाध्यायभवां हि टीकां गोविंददैवज्ञ इमां करोति ॥ १५॥ अथ ग्रंथादौ ग्रंथमध्ये ग्रंथांते च मंगलमाचरणीयमवश्यमिति शिष्टाचारः । उक्तं च महाभाष्ये-'मंगलादीनि मंगलमध्यानि मंगलांतानि च शास्त्राणि प्रयते वीरपुरुषाणि भवंत्यायुष्मत्पुरुषाणि च' इति । तच्च मंगलं त्रिविधं'आशीरूपं नमस्काररूपं वस्तुनिर्देशरूपं च' इति । उक्तं च दंडिना काव्यादशे-'आशीर्नमस्क्रिया वस्तुनिर्देशो वापि तन्मुखम्' इति । वस्तुनिर्देशो नलादेमहाराजराजस्य सिद्धादिशब्दानां वा ग्रंथादौ कथनम् । तत्र तावद्गार्यमुनिवरवंशतिलकमैत्रावरुण्यलंकारदिगंतर्गतमातृपुरनिवासी सकलज्योतिर्विन्मुकुटरत्नचिंतामणिज्योतिर्विपुत्रानंतज्योतिर्विपुत्रो नीलकंठज्योतिर्विदनुजो रामज्योतिर्वित्रिस्कंधज्योतिःशास्त्रसरोजनिचयभास्करो ग्रंथकृन्मुहूर्तचिंतामणिनामकं श्रौतस्मार्ताद्यनेककमौंपयिक संहितास्कंधांतर्गतनानामुहूर्तसंग्रहरूपं ज्यौतिषग्रंथं चिकीर्षुरनेकजन्मोपार्जितदुरितसंभूतविघ्नध्वंसकामो निर्विघ्नग्रंथसमाप्तिप्रचयगमनार्थ विशिष्टशिष्टाचारानुमितश्रुतिबोधितकर्तव्यताककर्माभिमतगणेशदेवताशीर्वादरूपं मंगलमिंद्रवज्राच्छंदसोपनिबध्नाति. गौरीश्रव केतकपत्रभंगमाकृष्य हस्तेन ददन्मुखाग्रे। - विघ्नं मुहूर्ताकलितद्वितीयदंतप्ररोहो हरतु द्विपास्यः ॥१॥ . गौरीत्यादिना । द्विपास्यो विघ्नं हरत्वित्यन्वयः । युष्माकमित्यध्याहारः । द्विपस्य हस्तिन आस्यमिवास्यं मुखं यस्य स द्विपास्यो गणेशो युष्माकं विघ्नं हरतु निराकरोतु । 'आशिषि लिङ्लोटौ' इति लोट। कीदृशो द्विपास्यः? गौरीश्रवः केतकपत्रभंगं गौरी पार्वती तस्याः श्रवसी कौँ तयोः स्थितं यत्केतकपत्रं केतकीवृक्षस्य पुष्पं केतकं तस्य पत्रं तस्य भंगोंऽशस्तं हस्तेन शुंडादंडेन कृत्वा आकृष्य हठाद् गृहीत्वा मुखाग्रे स्वमुखौष्ठे ददाति भक्षणार्थ स्थापयतीति ददत् । अनेन बाललीला गणेशस्य सूचिता। बालो हि मातृसमीपवर्ति यत्किंचित्स्वेष्टं वस्तु बलात्कारेण गृहीत्वा मुखे निक्षिपति । अत एव कीदृशो गणेशः? मुहूर्ताकलितद्वितीयदंतप्ररोहः । मुहूर्तेन क्षणेनाकलितः धातूनामनेकार्थत्वात् अनुहृतो हस्तिद्वितीयदंतसादृश्यं प्रापितो द्वितीयदंतस्य प्ररोह उद्गमो येन सः । अनेनात्याश्चर्य सूचितं भवति । तथा हि-हस्तिनो दृश्यमाना द्विदंता एव । गणेशस्त्वेकदंत एवेति पुराणप्रसिद्धम् । केतकपत्रस्य मुखस्थापन Page #19 -------------------------------------------------------------------------- ________________ मङ्गलाचरणशब्दनिरुक्तिः] शुभाशुभप्रकरणम् । समये यावन्निगरणं करोति तावद्गणेशोऽपि द्विदंत एवालोकि लोकैः । अद्भुतोपमाख्योऽलंकारः। उक्तं च दंडिना काव्यादर्श-'यथाकथंचित्सादृश्यं यत्रोद्भूतं प्रतीयते । उपमा नाम सा तस्याः प्रपंचोऽयं प्रदृश्यते ॥ यदि किंचिद्भवेत्पद्म सुभ्र विभ्रांतलोचनम् । तत्ते मुखश्रियं धत्तामित्यसावद्भुतोपमा ॥' इति, श्लोकाथों व्याख्यातः । अत्र गणेशस्य नमनादिरूपा पूजा ब्रह्मवैवर्तेऽभिहिता-'ढुंढिराजः प्रियः पुत्रो भवान्याः शंकरस्य च । तस्य पूजनमात्रेण त्रयोऽपि वरदाः सदा ॥' त्रयः ब्रह्मविष्णुशिवाः । 'गणेशः सर्वदेवानामादौ पूज्यः सदैव हि । सर्वैरपि, महाविघ्ननाशकोऽन्यो न विद्यते ॥' इति । शिष्टाचारोऽप्येतन्मूलक एव । यथा-'सुमुखश्चैकदंतश्च कपिलो गजकर्णकः। लंबोदरश्च विकटो विघ्ननाशो विनायकः ॥ धूम्रकेतुर्गणाध्यक्षो भालचंद्रो गजाननः । द्वादशैतानि नामानि यः पठेच्छृणुयादपि । विद्यारंभे विवाहे च प्रवेशे निर्गमे तथा । संग्रामे संकटे चैव विघ्नस्तस्य न जायते ॥' इति । गौरीति । 'षिद्वौरादिभ्यश्च' इति ङीष् । केतकं केतक्याः पुष्पसंज्ञेयमवयवार्थे 'अवयवे च प्राण्योषधिवृक्षेभ्यः' इत्यण् । 'पुष्पमूलेषु बहुलम्' इति तस्य लुक् । ददत् । ददातीति ददत् । शतृप्रत्यये जौहोत्यादिकत्वाद्विकरणस्य शपः श्लौ सति 'श्लो' इति द्विर्वचने 'उभे अभ्यस्तम्' इत्यभ्यस्तसंज्ञायां 'भाभ्यस्तयोरातः' इत्याकारलोपः । ततः 'उगिदचां सर्वनामस्थानेऽधातोः' इति प्राप्तस्य 'नाभ्यस्ताच्छतुः' इति नुमोऽभावः। आकलितेति 'निष्ठा' इति बहुव्रीहौ निष्टांतस्य पूर्वनिपातः । द्विपास्य इति । द्वाभ्यां शुंडादंडमुखाभ्यां जलं पिबतीति द्विपः । 'आतोऽनुपसर्गे कः' इति कः । 'आतो लोप इटि च' इत्याकारलोपः । द्विपस्यास्यमिवास्यं यस्यासौ द्विपास्यः । 'सप्तम्युपमानपूर्वस्य वाच्यो वोत्तरपदलोपश्च' इति बहुव्रीहिः समास उत्तरपदलोपश्च । 'हस्तौ तु पाणिनक्षत्रे' इति हस्तशब्दः पाणिनक्षत्रवाचकः,तथाप्युपचाराद्धस्तिशुंडायामपि वर्तते । अत एव 'हस्ताज्जातौ' इति वदन्पाणिनिरप्यत्रानुकूलः। क्षीरखाम्यपि 'बलिहस्तांशवः कराः' इत्यस्य व्याख्याने हस्तिशुंडापि कर उपचारादिति व्याचख्यौ । तद्वत्प्रस्तुतेऽपि । 'हस्तो नक्षत्रभेदे स्यात्करेभकरयोरपि' इति विश्वप्रकाशे हस्तिशुंडावाचकत्वमप्युक्तं हस्तशब्दस्य। अथात्र कवित्वे भंगशब्दोऽनुचितः । तथा हि-'लोकोत्तरवर्णनानिपुणकविकर्म काव्यम्' इति काव्यलक्षणस्यात्र कवित्वे सत्त्वात् यस्मिन्कस्मिंश्चित्पद्ये भंगशब्दोपादानमयुक्तम् । विशेषतो ग्रंथारंभभूते कुतः। 'तददोषौ शब्दार्थों सगुणावनलंकृती पुनः क्वापि' इति काव्यप्रकाशकारोक्तेर्दोषरहितयोः शब्दार्थयोः काव्यताऽवसीयते। तत्र शब्ददोषग्रस्तावे काव्यप्रकाशकारेण दोषोल्लासे-'दुष्टं पदंश्रुतिकटु च्युतसंस्कृत्यप्रयुक्तमसमर्थम् । निहतार्थमनुचितार्थं निरर्थकमवाचकं त्रिधाऽश्लीलम् ॥ संदिग्धमप्रतीतं ग्राम्यं नेयार्थमथ भवेक्लिष्टम् । अविमृष्टविधेयांशं विरुद्धमतिकृत्समासगतमेव ॥' इति शब्ददोषा उक्ताः । तत्र भंगशब्देनासभ्यार्थातरकत्वादश्लीलाख्यो दोषोऽभिहितो भवति । तल्लक्षणं वामनेनोक्तम्-'असभ्याांतरमसभ्यस्मृतिहेतुश्चाश्लीलम्' इति । अस्यार्थः यस्य पदस्यानेकार्थस्यैकोऽर्थो Page #20 -------------------------------------------------------------------------- ________________ मुहूर्तचिंतामणिः। [मङ्गलाचरणशब्दनिरुक्तिः ऽसभ्यः स्यात्तदसभ्यार्थांतरम् । यथा वर्च इति पदं तेजसि पुरीषे च । यत्तु पदमेकदेशद्वारेणासभ्यमर्थ स्मारयति तदसभ्यस्मृतिहेतु, यथा कृकाटिकेति । एवं भंगशब्दोऽपि नानार्थः । तरंगरचनाशकलपराजयनाशादीनामर्थानां प्रकरणं विना स्फुरणादसभ्यार्थातरस्य नाशस्य प्रतीतेरश्लीलत्वम् । काव्यप्रकाशेऽप्यश्लीलोदाहरणम्-'पितृवसतिमहं व्रजामि तां सह परिवारजनेन यत्र मे। भवति सपदि पावकान्वये हृदयमशेषितशोकशल्यकम् ॥' अत्र पितृवसतिशब्देन पितुर्गृहमिति विवक्षितम् । तत्र श्मशानार्थस्यापि प्रतीतेरश्लीलत्वादमंगलार्थत्वम् । कथं तर्हि-'भंगं जयं चापतुरव्यवस्थम्' इति कालिदासः? अत्र भंगशब्देन पराजयो विवक्षित इत्यश्लीलत्वमिति चेत् , सत्यम्, तत्र हि युद्धप्रस्तावे स्वरूपान्वाख्यानाददोषः । प्रस्तुते ग्रंथारंभे प्रकरणमपि नास्त्यतो भंगशब्दपाठोऽनुचितः। तस्मात् 'गौरीश्रवःकेतकबालपत्रम्'इति पाठः साधीयान् (कैल्प्यः । केचिदत्रपाटे बहक्षरपरिवर्तनभयात् 'गौरीश्रवः केतकपत्रभागम्' इति पठंति)। तदेतत्सर्वं मत्सररहितैः सूरिभिर्विवेचनीयम् । अथ काव्यत्वादेव प्रसंगतो वर्णगणशुद्धी विचार्यते । तत्र श्लोकादावसंयुक्तशुभफलदगकारप्रक्षेपादस्ति वर्णशुद्धिः। तदुक्तं भामहेन-'कः खो गो घश्न लक्ष्मी वितरति च यशो ङस्तथा चः सुखं छः प्रीतिं जो मित्रलाभं भयमरणकरोइनो टठौ खेददुःखे । डः शोभा ढो विशोभा भ्रमणमथ च णस्तः सुखं थश्च युद्धं दो धः सौख्यं मुदं नः सुखभयमरणक्लेशदुःखं पवर्गः ॥ यो लक्ष्मी रश्च दाहं व्यसनमथ लवौ शः सुखं षश्च खेदं सः सौख्यं हश्च खेदं व्यसनमथ च ळः क्षः समृद्धिं करोति । संयुक्तं चेह न स्यात्सुखमरणपटुर्वर्णविन्यासयोगः पद्यादौ गद्यवक्रे वचसि च सकले प्राकृतादौ समोऽयम् ॥' इति । तेन नायकादेः सुखं भवति । 'अक्षरे परिशुद्धे तु नायको भूतिमृच्छति' इति वचनात् । प्रस्तुते ग्रंथकर्तुरध्येतुरध्यापकस्य वा सुखं वाच्यम् । अथ गणशुद्धिः। तत्रास्मिन्पद्ये इंद्रवज्राछंदः। तल्लक्षणं वृत्तरत्नाकरेणोक्तम्-'स्यादिंद्रवज्रा यदि तौ जगौ गः' इति । -तत्र गणलक्षणमपि तेनैवोक्तम्-'सर्वगुमौ मुखांतों यरावंतगलौ सतौ। ग्मध्याद्यौ भौ त्रिलो नोऽष्टी भवंत्यत्र गणास्त्रिकाः॥' इति । एषां गणानां फलमन्यैरभ्यधायि-'मकारः श्रियं योऽतिवृद्धिं ररोगं सकारश्च देशाटनं द्रव्यहानिम् । तकारो जकारो रुजं भश्च कीर्ति न आयुः प्रयच्छत्यजस्रं जनानाम् ।' इति वचनादिदं फलमध्यापकाध्येतृप्रभृतीनां ज्ञेयम् । एवं सति द्रव्यहानिरूपफलदस्य तगणस्यादौ प्रयोगाद्दुष्टमिदं काव्यमिति चेत् , सत्यम् ,-'उमा कात्यायनी गौरी' इति वचनाद्गौरीशब्दो देवतावाचकस्तस्यादौ प्रयोगाढुष्टफलत्वं .नास्तीति समाधिः । यथोक्तम्-'देवतावाचकाः शब्दा ये च भद्रादिवाचकाः । ते सर्वे नैव निंद्याः स्युर्लिपितो गणतोऽपि वा ॥' इति । नन्वेवमपींद्रवज्रालक्षणासंगतिः । पादांतस्थाक्षरस्य 'हस्वं लघु' इति लघुसंज्ञकत्वात् 'संयोगे गुरु' .'दीर्घ च' इति विशेषलक्षणानाक्रांतत्वेन गुरुत्वायोगाच्च । उच्यते-पादांतस्थस्य लघोरपि वैकल्पिकगुरुत्वोक्तेरदोषः । यथोक्तं वृत्तरत्नाकरे—'सानुस्वारो . १ कोष्टकस्थोऽयं पाठः क्वचिदृश्यते । Page #21 -------------------------------------------------------------------------- ________________ एतद्न्थप्रयोजनम् ] शुभाशुभप्रकरणम् १ । विसर्गातो दीवों युक्तपरश्च यः । वा पादांते त्वसौ ग्वको ज्ञेयोऽन्यो मात्रिको लजुः ॥' इत्यलमतिप्रसंगेनेति शिवम् ॥ १ ॥ __एवमादिपद्येनेष्टदेवताशीर्वादरूपमंगलमभिधायेदानीं ज्योतिषग्रंथमारभमाणो रामज्योतिर्विद्विषयप्रयोजनसंबंधाधिकारिणः सूचयन् कर्तव्यमुपजातिकया प्रतिजानीतेक्रियाकलापप्रतिपत्तिहेतुं संक्षिप्तसारार्थविलासगर्भम् । अनंतदैवज्ञसुतः स रामो मुहूर्तचिंतामणिमातनोति ॥२॥ क्रियाकलापेति ॥ स प्रसिद्धो जगतीतलेऽनंताख्यो दैवज्ञो ज्योतिर्वित् तस्य सुतः पुत्रो रामो रामज्योतिर्वित् मुहूर्तचिंतामणिं मुहूर्तानां दिनशुद्धिविशेषाणाम् । अथवा मुहूर्तशब्देन दिनस्य रात्रेर्वा पंचदशो विभाग उच्यते । उक्तं च रत्नमालायाम्-'दिनस्य यः पंचदशो विभागो रात्रेस्तथा तद्धि मुहूर्तमानम्' इति । तत्र लक्षणया मुहूर्तापलक्षितः कालो मुहूर्तशब्देन विवक्ष्यते । तस्य चिंता शुभाशुभरूपो विचारस्तस्य मणिरिव मुहूर्तचिंतामणिः । यथा मणि_रकादिः समस्तकांतीनामाधारस्तथायमपि ग्रंथो निखिलमुहर्तानामांधार इत्यन्वर्थनामानं लक्षणया मुहूर्तचिंतामणिं ज्योतिषग्रंथमातनोति । निषेधविध्यादिसंनिवेशविशेषेण निरूपयतीत्यर्थः । ननु जीर्णा अपि मुहूर्तग्रंथाः संति, तैरेव निखिलमुहूर्तविचारनिर्वाहे सिद्ध किमनेन जीर्णमुहूर्तग्रंथानुवादभूतेनेत्यत आह-कीदृशं मुहूर्तचिंतामणिम् ? क्रियाकलापप्रतिपत्तिहेतुम् । क्रिया जातकर्मनामकर्मादिकास्तासां कलापः समूहस्तस्य अमुकस्मिन् शुभदिने कार्यमेतस्मिन्नशुभदिने न कार्यमित्येवंरूपा प्रतिपत्तिः सम्यक् ज्ञानं तस्या हेतुं कारणम् । अयमर्थः-अन्येषु मुहूर्तग्रंथेषु तिथिप्रकरणे कर्मविशेषेषु शुभाशुभतिथयो निरूपिताः । एवं वारप्रकरणे वारा एव । तथा नक्षत्रप्रकरणे नक्षत्राण्येव । योगप्रकरणे योगा एव । लग्नप्रकरणे लग्नान्येवाभिहितानि । एवं सत्यखिलप्रकरणानां पुनःपुनरांदोलनेन मुहूर्तविचारः प्रसिध्येदिति गौरवमस्ति । अत्र त्वेकस्मिन्नेव पद्ये यो यो मुहूर्तो विचार्यते तस्य तस्य तत्रैव निर्वाह इति लाघवम् । यथा-'नवान्नं स्याच्चरक्षिप्रमृदुभे सत्तनौ शुभम् । विना नंदाविषघटीमधुपौषार्किभूमिजान् ॥' इत्यादि । केचित्तु 'क्रियाकलापप्रतिपत्तिहेतोः' इति पंचम्यंतपाठमाहुः। ननु मुहूर्ततत्त्वादावपि क्वचिदेवंविधमुहूर्तनिरूपणाध्यर्थोऽयं श्रम इत्यत आह-कीदृशं मुहूर्तचिंतामणिं? संक्षिप्तसारार्थविलासगर्भम् । संक्षिप्तः शब्दैः सारार्थो निष्कृष्टार्थस्तस्य विलासः प्रकाशः स गर्भे यस्यासौ । संक्षिप्तश्चासौ सारार्थविलासगर्भश्च संक्षिप्तसारार्थविलासगर्भस्तमिति कर्मधारयः । यद्यपीदानींतनग्रंथेषु शब्दलाघवेनार्थबाहुल्यमस्ति तथापि शब्दानां दुरवबोधार्थत्वाद्गुरुमुखादप्यध्ययने सति झटिति मनस्यास्फुरणाचेत्यनुपादेयत्वम् । अत्र तु शब्दतोऽपि लाघवं, तत्रापि निष्कृष्टस्याप्यर्थस्य तादृशशब्दैर्निरूपणाद्यथा गुरुमुखं विनैवार्थज्ञानं सद्यो मनसि जागर्तितरामित्य Page #22 -------------------------------------------------------------------------- ________________ मुहूतचिंतामणिः। [अत्राधिकार्यादिनिर्णयः वश्यमुपादेयत्वमस्य ग्रंथस्य । ननु किमभिधेयार्थकमिदं शास्त्रम् ? प्रयोजनमपि किम् ? 'प्रयोजनमनुद्दिश्य न मंदोऽपि प्रवर्तते' इति न्यायात् । उक्तं च-'सर्वस्यैव हि शास्त्रस्य कर्मणो वापि कस्यचित् । यावत्प्रयोजनं नोक्तं तावत्तत्केन गृह्यते॥' अन्यच्च-'ज्ञातार्थ ज्ञातसंबंधं श्रोतुं श्रोता प्रवर्तते । ग्रंथादौ तेन वक्तव्यः संबंधः सप्रयोजनः॥' इति। उच्यते-मुहूर्तचिंतामणिमित्यनेनैव पदेन सर्व सूचितम् । तथा हि-शुभाशुभप्रकरणनक्षत्रप्रकरणसंक्रांतिगोचरप्रकरणसंस्कारविवाहप्रकरणवधूप्रवेशाग्याधानराजाभिषेकयात्राप्रकरणगृहारंभगृहप्रवेशमुहूर्तसमुदायाः संहितापदार्थाः प्रतिपाद्यत्वेन विषयभूताः। यद्यपि वसिष्ठादिभिः सूर्यचाराद्यत्पातादिकमपि संहितापदार्थेष्वभ्यधायि तथाप्यत्र तेषां मुहूर्तविचारेऽनुपयोगाईथकृता नोक्तमिति तात्पर्यम् । मुहूर्तानां प्रतिक्षणं लौकिकविचाराईत्वेन तदभिधानात् । अत्राभिधेयपदार्थानां मुहूर्त चिंतामणिनामकग्रंथस्य च प्रतिपाद्यप्रतिपादकभावः संबंधः । प्रयोजनं शुभाशुभकथनं विवाहादिकालनिर्णयश्च । यदाह नारदः-'प्रयोजनं तु जगतः शुभाशुभनिरूपणम् ।' कश्यपोऽपि-'ग्रहणग्रहसंक्रांतियज्ञाध्ययनकर्मणाम् । प्रयोजनं व्रतोद्वाहक्रियाणां कालनिर्णयः ॥' एतजिज्ञासुरधिकारी। सच द्विज एव नान्यः। तदुक्तं नारदेनैव-सिद्धांतसंहिताहोरारूपस्कंधत्रयात्मकम् । वेदस्य निर्मलं चक्षुर्योतिःशास्त्रमकल्मषम् ॥ विनैतदखिलं श्रौतं स्मात कर्म न सिध्यति । तस्माजगद्वितायेदं ब्रह्मणा निर्मितं पुरा॥ अत एव द्विजैरेतदध्येतव्यं प्रयत्नतः॥' इति । अत्रैवकारस्य प्रपाठक्रमेण योजने प्रयोजनं विनैव ज्योतिःशास्त्राध्ययनस्यावश्यकत्वं प्रतीयते । द्विजैरेवेति व्याख्याने द्विजव्यतिरिक्तैः शूरै ध्येयमिति च प्रतीयते । व्याख्याद्वयमपि युक्तमेव । द्विजाः ब्राह्मणक्षत्रियवैश्याः । उक्तं च काशीखंडे-'ब्राह्मणाः क्षत्रिया वैश्यास्त्रयो वर्णा द्विजाः स्मृताः । प्रथम मातृतो जन्म द्वितीयं चोपनायनात् ॥' इति । यत्तु वसिष्ठवचने-'अध्येतव्यं ब्राह्मणैरेव तस्माज्जयोतिःशास्त्रं पुण्यमेतद्रहस्यम् । एतद्बुध्वा सम्यगामोति नूनं धर्म चार्थ मोक्षमग्र्यं यशश्च ॥' इति । श्रुतावपि-'ब्राह्मणेन निष्कारणो धर्मः षडंगो वेदोऽध्येयो ज्ञेयश्च' इति । ब्राह्मणग्रहणमध्यापनेऽप्यावश्यकत्वसूचनार्थम् । अत एव महाभारते-'यजनं याजनं चैव तथा दानप्रतिग्रहौ । अध्यापनं चाध्ययनं षट्कर्मा ब्राह्मणः स्मृतः ॥' इति । क्षत्रियविशोस्त्वध्ययन एवाधिकारो नाध्यापने । तदुक्तं मनुना-'प्रजानां रक्षणं दानमिज्याध्ययनमेव च । विषयेष्वप्रसक्तिं च क्षत्रियस्य समादिशेत् ॥ पशूनां रक्षणं दानमिज्याध्ययनमेव च । वाणिज्यं च कुसीदं च वैश्यस्य कृषिरेव च ॥' इति । अत्र प्रजारक्षणाद्युक्तेर्नाध्यापनाधिकारः । ननु कथं ज्यौतिषं श्रौतस्मार्तकौंपयिकं ? इति चेदुच्यते-'अष्टवर्ष ब्राह्मणमुपनयीत तमध्यापयीत', तथा 'वसंते ब्राह्मणोऽग्नीनादधीत', 'दर्शपूर्णमासाभ्यां यजेत' इत्यादिश्रुतयः संति । तत्र वर्षज्ञानमादित्यादिग्रहचारपरिच्छेदसाध्यं, तस्य वसन्तातूनां च दर्शपौर्णमासयोश्च ज्ञानं ज्यौतिष विना सर्वथैव न निर्वहतीत्यवश्यमध्येतव्यं Page #23 -------------------------------------------------------------------------- ________________ हीनोत्तमदैवज्ञलक्षणानि] शुभाशुभप्रकरणम् १ | ज्योतिःशास्त्रम् । उक्तं च वेदांगज्योतिषे - 'वेदा हि यज्ञार्थमभिप्रवृत्ताः कालानुपूर्वा विहिताश्च यज्ञाः । तस्मादिदं कालविधानशास्त्रं यो ज्योतिषं वेद स वेद यज्ञान् ॥' अत एव वेदस्य मुख्यमिदमंगं चक्षूरूपत्वात् । तदयुक्त शिक्षायाम्— 'छंदः पादौ तु वेदस्य हस्तौ कल्पोऽथ पठ्यते । ज्योतिषामयनं चक्षुर्निरुक्तं श्रोत्रमुच्यते ॥ शिक्षा घ्राणं तु वेदस्य मुखं व्याकरणं स्मृतम् ।' तथा — 'यथा शिखा मयूराणां नागानां मणयो यथा । तद्वद्वेदांगशास्त्राणां ज्योतिषं मूर्धनि स्थितम् ॥' इति । एवं मुख्यतायां सत्यां दृष्टांतो वसिष्टसिद्धान्ते - ' वेदस्य चक्षुः किल शास्त्रमेतत्प्रधानतांगेषु ततोऽर्थजाता । अंगैर्युतोऽन्यैः परिपूर्ण मूर्तिश्चक्षुर्विहीनः पुरुषो न किंचित् ॥' तस्माकमैौपयिकत्वादवश्यमध्येयं ज्योतिःशास्त्रम् । तत्राध्ययने समीचीनशिष्या एवाध्याप्या न कृतघ्नादयः । तदुक्तं श्रुतौ - 'विद्या ह वै ब्राह्मणमाजगाम गोपाय मा शेवधिष्टेहमस्मि । असूयकायानृजवेऽयताय न मां ब्रूया वीर्यवती तथा स्याम् ॥' इति । समरसारेऽपि - ' नैतद्देयं दुर्विनीताय जातु ज्ञानं गुप्तं तद्धि सम्यक् फलाय । अस्थाने हि स्थाप्यमानैव वाचां देवी कोपानि नो चिराय ॥ विनयावनताय दीयमानं प्रभवेत्कल्पलतेव सत्फलाय । उपकृत्यनुचिंतकानि शास्त्राण्युपकारस्य पदं हि साधुरेव ॥' इति । सिद्धांतशिरोमणावपि — 'दिव्यं ज्ञानमतींद्रियं यदृषिभिर्ब्राह्मं वसिष्ठादिभिः पारं - पर्यवशाद्वहस्यमत्रनीं नीतं प्रकाश्यं ततः । नैतद्वेषिकृतघ्नदुर्जनदुराचाराचिरावासिनां स्यादायुःसुकृतक्षयो मुनिकृतां सीमामिमामुज्झतः ॥' इति । एवं सत्यस्मिञ्ज्योतिःशास्त्रे सर्वथा न शूद्राणामधिकारः । उक्तं च मनुना - 'एकमेव तु शूद्रस्य प्रभुः कर्म समादिशत् । एतेषामेव वर्णानां शुश्रूषामनसूयया ॥' इति । नारदवाक्यं तु प्रागेवाभिहितम् । तत्र यदि ब्राह्मणः शूद्रं लोभादिना पाठयति तस्माच्च पठति तदा महान् दोषः । यदाह गर्गः - 'स्नेहाल्लोभाच्च मोहाच्च यो विप्रोऽज्ञानतोऽपि वा । शूद्राणामुपदेशं तु दद्यात्स नरकं ब्रजेत् ॥ लग्नं ददाति यः शूद्रः सकृत्षोडशकर्मणाम् । अंधो युगसहस्रांते जायते श्वानयोनिषु । सम्यगाचारयुक्तोऽपि यः शूद्रः सर्वशास्त्रवित् । वर्जयेद्वचनं तस्य कपालस्थोदकं यथा॥' इति । कपालं = मनुष्यशिरोमध्यवर्त्यस्थि । 'भृतकाध्यापको यश्च भृतकाध्यापितश्च यः । तावुभौ पतितौ विप्रौ स्वाध्यायक्रयविक्रयात् ॥' इति सामान्यतो हेमाद्रौ देवल स्मरणाच्च । अथैवंविधस्य ज्योतिःशास्त्रस्याध्येतुमहात्म्यमाह मांडव्यः - ' एवंविधस्य श्रुतिनेत्रशास्त्रस्वरूपभर्तुः खलु दर्शनं वै । निहंत्यशेषं कलुषं जनानां षडब्दजं धर्मसुखास्पदं स्यात् ॥' इति । अत्र ज्ञानविशेषेण ज्योतिर्विदः पूज्यतातारतम्यं जीर्णैरभ्यधायि — 'दशदिनकृतपापं हंति सिद्धांतवेत्ता त्रिदिनजनितदोषं तंत्रविज्ञः स एव । करणभगणवेत्ता हंत्यहोरात्रदोषं जनयति घनमंहश्चात्र नक्षत्रसूची ॥' नक्षत्रसूची दैवज्ञो घनं बहु अंहः पापं जनयति । तल्लक्षणं वाराहसंहितायाम् – 'अविदित्वैव यः शास्त्रं दैवज्ञत्वं प्रपद्यते । स पंक्तिदूषकः पापो ज्ञेयो नक्षत्रसूचकः ॥ अन्यच्च— 1 Page #24 -------------------------------------------------------------------------- ________________ मुहूतचिंतामणिः। [ज्यौतिषस्य दृक्प्रत्ययित्वाच्छैष्ठ्यं 'तिथ्युत्पत्तिं न जानति ग्रहाणां नैव साधनम् । परवाक्येन वर्तते ते वै नक्षत्रसूचकाः' इति । व्युत्पत्तिस्तु-गृहे गृहे गत्वाऽपृष्ट एव नक्षत्राण्यश्विन्यादीनि शुभाशुभफलसूचकानि सूचयतीति नक्षत्रसूची । वराहः-'नक्षत्रसूचकोद्दिष्टमुपवासं करोति यः । स व्रजत्यंधतामिस्रं सार्धमृक्षविडंबिना । मक्षत्रसूचकं पापं भिषजं शुल्कजीविनम् । तादृपौराणिकादींश्च वाङ्मात्रेणापि नार्चयेत् ॥' अत एव वसिष्ठः-'विस्कंधपारंगम एव पूज्यः श्राद्धे सदा भूसुरवृंदमध्ये । नक्षत्रसूची खलु पापरूपो हेयः सदा सर्वसुधर्मकृत्ये॥' वराहोऽपि'ग्रंथतश्चार्थतश्चैव कृत्स्नं जानाति यो द्विजः। अग्रभुक् स भवेच्छ्राद्धे पूजितः पंक्तिपावनः ॥ नासांवत्सरिके देशे वस्तव्यं भूतिमिच्छता । चक्षुर्भूतो हि यत्रैष पापं तत्र न विद्यते ॥ मुहूर्ततिथिनक्षत्रमृतवश्वायनानि च । सर्वाण्येवाकुलानि स्युन स्यात्सांवत्सरो यदि ॥' अत एव यद्धर्मशास्त्रे सुमंतः-तस्करकितवेत्यादिनामहता गद्येन सांवत्सरिकोऽपांक्तेय इत्याह । महाभारतेऽपि-'कितवो भ्रूणहा यक्ष्मी' इत्यादिपद्यषट्कमध्ये-'कुशीलवो देवलको नक्षत्रैर्यश्च जीवति । एतानिह विजानीयाद् ब्राह्मणान् पंक्तिदूषकान् ॥' इत्युक्तं, तन्नक्षत्रसूचकज्योतिविद्विषयम् । यदाह कश्यपः-'दारविंग्भ्रूणहतूंश्च व्यंगानक्षत्रसूचकान् । वर्जयेद्राह्मणानेतान्सर्वकर्मसु यत्नतः ॥' इति । 'नक्षत्रसूचकश्चैव पर्वकारश्च गर्हितः' इति ब्रह्मपुराणेऽप्युक्तेः, अपृष्ट इति वाक्यशेषोऽत्राध्याहार्यः । अत एव मनु:-'तिथिं पक्षस्य न ब्रूयान्न नक्षत्राणि निर्दिशेत्' इत्याह स्म । यमोऽपि-'नक्षत्रतिथिपुण्याहान्मुहूर्तान्मंगलानि च । न निर्दिशंति ये विप्रास्तैर्भुक्तं ह्यक्षयं भवेत् ॥' इति । वसिष्ठवाक्यं तु प्रागभिहितम् । महाप्रयोजनं त्वेतच्छास्त्रस्य सम्यग्ज्ञानाद्ब्रह्मसायुज्यमिति । तदुक्तं गर्गेण-ज्योतिश्चक्रे तु लोकस्य सर्वस्योक्तं शुभाशुभम् । ज्योतिर्ज्ञानं च यो वेद स याति परमां गतिम् ॥ परमां गतिं ब्रह्मसायुज्यमिति । सूर्यसिद्धान्तेऽपि–'दिव्यं चक्षुर्ग्रहाणां दर्शितं ज्ञानमुत्तमम् । विज्ञायार्कादिलोकेषु स्थानं प्राप्नोति शाश्वतम् ॥' वराहसंहितायामपि-'न सांवत्सरपाठी च नरके परिपच्यते । ब्रह्मलोकं प्रतिष्ठां च लभते दैवचिंतकः॥' इति । संवत्सरं वर्षमधिकृत्य कृतो ग्रंथः सांवत्सरः। 'अधिकृत्य कृते ग्रंथे' इत्यण् । आदिवृद्धिः। तं पठितुं शीलमस्य स सांवत्सरपाठी ज्योतिर्विदुच्यते । वसिष्ठेन त्वैहिकामुष्मिकरूपं फलद्वयमप्युक्तं प्राक्-'एतद्बुवा सम्यगामोति नूनं धर्म चार्थ मोक्षमग्र्यं यशश्च ॥' इति । तस्माज्ज्योतिःशास्त्रमवश्यमध्येतव्यमिति स्थितं । ननु ज्योतिःशास्त्राध्ययनं न्यायशास्त्रादिवत् किं वादमात्रफलम् , उत चिकित्साशास्त्रवत्प्रत्यक्षदृश्यफलम् ? उच्यते,-दृष्टे संभवत्यदृष्टकल्पना न न्याय्येति दृष्टार्थताप्यस्य शास्त्रस्य । वादरूपं तु फलं सर्वेष्वपि शास्त्रेषु तुल्यम् । उक्तं च-'अन्यानि शास्त्राणि विनोदमानं न किंचिदेषां भुवि दृष्टमस्ति । चिकित्सितज्यौतिषमंत्रवादाः पदे पदे प्रत्ययमावहंति ॥' प्रत्ययं विश्वास संवादरूपम् । नन्वस्मिन् शास्त्रे के वा प्रत्यया इति चेत्पृच्छसि, तर्हि शृणु Page #25 -------------------------------------------------------------------------- ________________ तिथिस्वामिविचारः] शुभाशुभप्रकरणम् १ । सूर्यचंद्रयोर्ग्रहणं जगतीतले आबालवृद्धेभ्यो महान् प्रत्ययः। उक्तं च--'अप्रत्यक्षाणि शास्त्राणि विवादस्तेषु केवलम् । प्रत्यक्षं ज्योतिष शास्त्रं चंद्राकौं यत्र साक्षिणौ ॥' अथान्येऽपि प्रत्ययाः चंद्रशेगोन्नतिर्ग्रहयुतिश्च सूर्यादीनां ग्रहाणां च्छायागणितागता । यद्यपि भौमादीनां छाया दृग्गोचरा नास्ति तथापि नलिकादियंत्रवेधेन यस्मिन्समये सुषिरमध्ये ग्रह आगच्छति तत्समयसंवादादर्थापत्तिप्रमाणसिद्धा छायापि प्रत्ययः । शुक्रस्य तु महामंडलत्वे छाया दृग्गोचरापि भवति । ग्रहाणां चंद्रादीनां द्विविधा अप्यस्तोदयाः । एके सूर्यासन्नवशेन, अपरे प्रत्यहं क्षितिजसंबंधवशात् । ततोऽपि सूर्यासन्नवशतो भौमगुरुशनीनां प्राच्यामेवोदयः, प्रतीच्यामेवास्तः । बुधशुक्रयोस्त्वनियतः । क्षितिजसंबंधवशेन तु सर्वेषामपि सूर्यादीनां प्राच्यामेवोदयः, प्रतीच्यामेवास्तः । अथायुर्दायस्येयत्ता। यात्रायां शुभशकुने शुभफलम् , अशुभशकुनेऽशुभफलम्। यज्ञोपवीतविवाहादिमंगलकृत्येपु शुभलग्नानुष्ठितेषूक्तफलावाप्तिः । यत्र वचिब्यभिचारः स जन्मकालीनसदसद्रहवशेन । एवमादयोऽपि प्रत्यया ऊह्याः । सर्वेषामपि शास्त्राणामध्ययने मोक्षाद्यदृष्टरूपं फलं तु वाचनिकमेव, तदस्मिअपि शास्त्रे तुल्यमित्यलमतिप्रसक्तानुप्रसत्तेनेति शिवम् ॥ १॥ ' अथ मुहूर्तचिंतामणिनामकग्रंथप्रकरणप्रतिज्ञामभिधायेदानी सामान्यतो मुहूर्तविचारार्थमुत्सर्गापवादरूपा गुणा दोषाश्च तावद्वक्तव्याः, तेषां च तिथ्यायधीनत्वादादौ तिथयो वक्तव्याः, तासां तु लोकप्रसिद्धत्वादेवावक्तव्यतायां सिद्धायां तत्स्वामिन एवानुष्टुप्छंदसाभिदधाति• तिथीशा वह्निको गौरी गणेशोऽहिणुहो रविः । शिवो दुर्गातको विश्वे हरिः कामः शिवः शशी ॥३॥ तिथीशा इति॥ एते पंचदश तिथीनां क्रमेणेशाः स्वामिनस्तानाह-वह्निकावित्यादि । वह्निश्च कश्च वह्निको । वह्निः अग्निः, को ब्रह्मा । अत्र ‘देवताद्वंद्वे च' इत्यानङ् न भवति । एकहविर्भाक्त्वेन प्रसिद्धसाहचर्याभावात् । नन्वेवं 'अल्पाच्तरं' इति द्वंद्वे कशब्दस्य पूर्वनिपातप्राप्तिः । 'ङसिङयोः स्मास्मिनौ' इति ज्ञापन पूर्वनिपातप्रकरणमनित्यमित्यनित्यत्वात्क्रमस्य विवक्षितत्वाच्च न भवति । एवं सति प्रतिपदो वह्निर्द्वितीयाया ब्रह्मा स्वामीत्ययमर्थः सिद्धो भवति । अथवा 'तिथीशोऽग्निर्विधिगैरी' इत्यसंदेहार्थमेवं पठितव्यम् । 'ईश ऐश्वर्ये' इति धातुः कर्बर्थक्विबंतस्तस्माद्बहुवचनं जस् । ईशते इतीशाः, तिथीनामीशास्तिथीशाः, तिथिस्वामिन इत्यर्थः । अथवा 'तिथीशा रो विधिगौरी' इति व्यक्तं पठनीयम् । ईशशब्दोऽकारांतः । रशब्देनाग्निरुच्यते । 'रः पावके च तीक्ष्णांशौ' इति विश्वः । 'रश्च कालेऽनले सूर्ये' इत्येकाक्षरनिघंटः। रोऽग्निः, विधिद्ब्रह्मा, गौरी पार्वती, गणेशः प्रसिद्धः, अहिः सर्पः, गुहः स्वामिकार्तिकेयः, रविः सूर्यः, शिवो महादेवः, दुर्गा जगदंबा, अंतको यमः, विश्वे विश्वेदेवाः, हरिर्विष्णुः, कामो मदनः, शिवः स एव, शशी चंद्रः। Page #26 -------------------------------------------------------------------------- ________________ “मुहूर्तचिंतामणिः । [तिथिकृत्यनिर्णयः तदाह वसिष्ठः-'वह्निर्विधाताऽद्रिसुता गणेशः सर्पो विशाखो दिनपो महेशः । दुर्गा यमो विश्वहरी च कामः शर्वो निशेशश्च पुराणदृष्टाः ॥' इति । स्वामिन इति शेषः । प्रयोजनं तु तत्तद्देवताप्रतिष्ठापूजादि । तथा च वराहसंहितायामुक्तम्-'यत्कार्य नक्षत्रे तदैवत्यासु तिथिषु तत्कार्यम् । करणमुहूर्तेष्वपि तसिद्धिकरं देवतानां च ॥' इति । नारदोऽप्याह'यदिनं यस्य देवस्य तद्दिने तस्य संस्थितिः ।' अग्निपुराणेऽपि'प्रतिपद्यग्निपूजा स्याद्वितीयायां च वेधसः । दशम्यामंतकस्यापि षष्ट्यां पूजा गुहस्य च ॥ चतुर्थां गणनाथस्य गौर्यास्तत्पूर्ववासरे। सरस्वत्या नवम्यां च सप्तम्यां भास्करस्य च ॥ अष्टम्यां च चतुर्दश्यामेकादश्यां शिवस्य च । द्वादश्यां च त्रयोदश्यां हरेश्च मदनस्य च ॥ शेषादीनां फणीशानां पंचम्यां पूजन भवेत् । पर्वणींदोस्तिथिष्वासु पक्षद्वयगतास्वपि ॥' इति । रत्नमालायामपि'अथामरस्थापनमुत्तरायणे स्वदेववारéतिथिक्षणादिषु' इति । अथ प्रत्येक तिथिकृत्यानि ग्रंथकृदनुक्तान्यप्यस्माभिलिख्यते लोकोपयोगित्वात् । तान्याह वसिष्ठः-'नोद्वाहयात्रोपनयप्रतिष्ठासीमन्तचौलाखिलवास्तुकर्म । गृहप्रवे. शाखिलमंगलाचं कार्य हि मासाचतिथी कदाचित् ॥१॥' मासाद्यतिथौ-शुक्लन पक्षप्रतिपदि । अत एव कृष्णपक्षप्रतिपद्येतानि कर्माणि सुखेन भवन्तीत्यर्थः । यद्येषोऽमिप्रायोऽसंमतः स्यात्तदा पक्षाद्यतिथाविति ब्रूयात् । 'सप्तांगचिह्नानि नृपस्य वास्तुव्रतप्रतिष्ठाखिलमंगलानि । यात्राविवाहाखिलभूषणाचं कार्य द्वितीयादिवसे सदैव ॥२॥ संगीतविद्याखिलशिल्पकर्मसीमन्तचौलानगृहप्रवेशम् । कार्य द्वितीयादिवसे यदुक्तं सदा तृतीयादिवसेऽपि कार्यम् ॥३॥ रिक्तासु विद्विड्वधबन्धशस्त्रविषाग्निघातादि च याति सिद्धिम् । यन्मंगलं तासु कृतं च मूविना. शमायाति तदाशु नूनम् ॥ ४ ॥' रिक्तासु-चतुर्थीनवमीचतुर्दशीषु । 'शुभानि कार्याणि चरस्थिराणि चोक्तान्यनुक्तान्यपि यानि तानि । सिद्धिं प्रयांत्याशु ऋणप्रदानं विना सदा नागतिथौ विधेयम् ॥ ५॥ अभ्यंगयात्रा पितृकर्म दन्तकाष्ठं विना पौष्टिकमंगलानि । षष्ठ्यां विधेयानि रणोपयोग्यशिल्पानि वास्त्वंबरभूषणानि ॥ ६ ॥ द्वितीयायां तृतीयायां पंचम्यां कथितान्यपि । तानि सिध्यति कार्याणि सप्तम्यां निखिलान्यपि ॥७॥ संग्रामयोग्याखिलवास्तुशिल्पनृत्यप्रमोदाखिललेखनानि । स्त्रीरत्नकार्याखिलभूषणानि कार्याणि कार्याणि महेशतिथ्याम् ॥ ८॥ द्वितीयायां तृतीयायां पंचम्यां सप्तमीतिथौ । उक्तानि यानि सिध्यंति दशम्यां तानि सर्वदा ॥९॥ व्रतोपवासाखिलधर्मकृत्यं सुरोत्सवाद्याखि• लवास्तुकर्म । संग्रामयोग्याखिलवास्तुकर्म विश्वेतिथौ सिध्यति शिल्पकर्म ॥१०॥ पृथिव्यां यानि कर्माणि धर्मपुष्टिशुभानि च । चरस्थिराणि द्वादश्यां यात्राऽब्रग्रहणं विना ॥११॥ विधातृगौरीभुजगभान्वन्तकदिनेषु च । उक्तानि तानि सिध्यति त्रयोदश्यां विशेषतः ॥ १२ ॥ यज्ञक्रियापौष्टिकमंगलानि संग्रामयोग्याखिलवास्तुकर्म । उद्वाहशिल्पाखिलभूषणाचं कार्य प्रतिष्ठा खलु पौर्णमास्थाम् ॥ १३ ॥ सदैव दशैं पितृकर्म मुक्त्वा नान्यद्विधेयं शुभपौष्टिकाद्यम् । Page #27 -------------------------------------------------------------------------- ________________ तिथीनां सफला नंदादिसंज्ञाः] शुभाशुभप्रकरणम् १ । मूढैः कृतं तत्र शुभोत्सवाद्यं विनाशमायात्यचिरागृशं तत् ॥ १४ ॥' इति । ननु रत्नमालादिग्रंथेष्वादौ संवत्सरप्रकरणमुक्तम् । तदत्र किमित्युत्प्रेक्षितमिति चेत् । उच्यते,-मुहूर्तचिंतामणिरिति नामधेयान्मुहूर्ता एवात्रोच्यते। ते तु प्रतिक्षणविचारार्हाः, तत्र संवत्सराणां वर्षव्यापित्वात् सदसत्फलोक्तावपि विवाहादिकृत्यानि भवत्येव । कुतः सिंहराशिस्थितगुरु-गुरुशुक्रास्तादिष्विव विवाहादिविशेषकृत्यानां प्रतिषेधसत्त्वं, तथा संवत्सरसदसत्फलेषु नेति । किंच सिंहगतगुरौ शुक्रास्तादावपि नित्यानां वस्त्रपरिधानादीनां नैमित्तिकानां च पुंसवनजातकर्मनामकर्मान्नप्राशनादिकर्मणां विहितत्वान्मुहूर्तविचारोऽस्त्येवेत्यतोऽकथनं संवत्सरप्रकरणस्य । अमुमेवाशयं मनस्यभिसंधाय मुहूर्तग्रंथं परित्यज्य स्थलांतरे गुरुचारे वसिष्ठेन फलमुक्तम् ॥३॥ अथ तिथीनां नंदादिसंज्ञाः सफला उपजातिकयाहनंदा च भद्रा च जया च रिक्ता पूर्णेति तिथ्योऽशुभमध्यशस्ताः। सितेऽसिते शस्तसमाधमाः स्युः सितज्ञभौमार्किगुरौ च सिद्धाः ४ नंदा चेति॥नंदाभद्राजयारिक्तापूर्णासंज्ञाः प्रतिपदादिपंचतिथयः स्वनामसदृशफलदाः स्युरित्येवंप्रकारेण सर्वाः षष्ठ्यादय एकादश्यादयश्च तिथयो ज्ञेयाः । ताः सिते शुक्लपक्षे अशुभमध्यशुभफलदाः स्युः । असिते कृष्णपक्षे शुभमध्यमाधमफलदाः स्युः । यदाह नारदः-'नंदाभदाजयारिक्तापूर्णाः स्युम्तिथयः पुनः । पर्यायत्वेन विज्ञेया नेष्टमध्येष्टदाः सिते ॥ कृष्णपक्षेऽपीटमध्यनेष्टदाः क्रमशः स्मृताः' इति । अनिष्टमिति वक्तव्ये नेष्ट इति प्रयोगो निषेधवाचकं न-शब्दमाश्रित्य नैकधेत्यादिवत् साध्यः । अथ मूले 'अशुभमध्यशस्ताः' इति कथं प्रयोगः? यावता 'तिथयो द्वयोः' इत्यभिधानात् स्त्रीपुंसयोरस्ति तिथिशब्दः, तथापि तिथ्य इति 'कृदिकारादक्तिनः' इति कृतङीषस्तिथीशब्दस्य स्त्रीलिंग एव वृत्तिः । ततस्तिथ्य इति बहुवचनान्तस्याशुभमध्यशम्ता इति विशेषणे अशुभाश्च मध्याश्च शस्ताश्चेति द्वंद्वे 'स्त्रियाः पुंवत्' इति वा 'पुंवत् कर्मधारयजातीय-' इति वा समानाधिकरणोत्तरपदाभावात्पुंवद्भावाभावे चिंत्यताप्रसक्तेः । एवं चेत् कथं तर्हि रत्नमालायां 'कनिष्ठमध्येष्टफलाश्च शुक्ले' इति ? यावता कनिष्ठाश्च मध्याश्चेष्ट फलाश्चेति द्वंद्वोऽपि । 'नंदा च भद्रा च जया च रिक्ता पूर्णति सर्वास्तिथयः क्रमात्स्युः' इति सर्वापदविशेषणसामर्थ्यात्स्त्रीलिंग एवेत्युक्तदोषप्रसंगः । मैवं वोचः । नात्र द्वंद्वः । किं तर्हि ? कनिष्टं च मध्यं चेष्टं च कनिष्ठमध्येष्टानि, तादृशानि फलानि यासां ता इति द्वंद्वगर्भबहुव्रीह्याश्रयणादुक्तदोषाप्रसंगः । ननु यद्यप्येवमत्र समाहितं तथापि–'कृष्णे भवंत्युत्तममध्यहीनाः' इति चतुर्थचरणे कथं समाधिः ? यतः फलपदाश्रवणाद्वंद्वगर्भबहुव्रीह्यभावाच्छुद्धो द्वंद्व एव समासः । सर्वापदसमभिव्याहृतस्तिथिशब्दोऽपि स्त्रीलिंग एवेत्युक्तो दोषो वज्रायितः । उच्यते--यथा 'येकयोर्द्विवचनैकवचने' इति पाणिनिसूत्रस्थे Page #28 -------------------------------------------------------------------------- ________________ १२ ..' मुहूर्तचिंतामणिः। [वारेषु निषिद्ध तिथिनक्षत्राणि ब्येकयोरिति पदे संख्याधाचिनोधैकशब्दयोद्वे बहुवचनप्रसंगः, अतो भावप्रधानो निर्देश इत्यभियुक्तस्मरणात् बहुधा काव्येषु दृष्टत्वाचाशुभमध्यशस्ता इत्येवमादीनां शब्दानां भावप्रधानत्वादशुभत्वमध्यत्वशस्तत्वाभिधानात्तादृशानां शब्दानां द्वंद्व विधायाशुभमध्यशस्तानि विद्यते यासां ता इति बहुव्रीहिणा सिद्धमिष्टम् । बहुव्रीहिणा गतार्थत्वान्मतुन्न भवति, "उक्तार्थानामप्रयोगः' इत्युक्तेः । अथवा 'तुण्यतु दुर्जनः' इति न्यायमाश्रित्य मतुपो बाधकः 'अर्शआदिभ्योऽच्' इत्यर्शआदेराकृतिगणत्वान्मत्वर्थेऽच् कार्यः। एतच्च समाधानं शस्तसमाधमा इत्यत्रापि द्रष्टव्यम् । एवं च सति 'कृष्णे भवंत्युत्तममध्यहीनाः' इत्यपि सिद्धम् । अत एव नैषधीये सप्तमसर्गे'येयं भवद्भाविपुरंध्रिसृष्टिः' इति प्रयुक्तम् । द्रुतमध्यविलंबितासु वृत्तिषु' इति महाभाष्यकारो जगाद । अतोऽनेनैवाशयेन-'उभयेऽधममध्यमपूजिता द्रेष्काणैश्चरभेषु चोत्क्रमात् । अशुभेष्टसमाः स्थिरे क्रमादोरायाः परिकल्पिता दश ॥' इति वराहमिहिरोऽपि प्रायुक्त । तथा-'सूर्यसूनुदिवसे स्थिरप्रदम्' इति बसिष्ठोऽपि प्रायुंक्त । स्थिरप्रदमित्यत्र स्थैर्यप्रदमित्यर्थो विवक्षित इत्यलमतिप्रसंगेन ॥ अथ चतुर्थचरणेन. सिद्धियोगानाह-सितेति । ताः कृतसंज्ञा नंदादितिथ्यः शुक्रबुधमंगलशनिगुरुवारेषु सिद्धाः सिद्धिकराः स्युः । यथा-नंदा शुक्रे सिद्धियोगः, एवं भद्रा बुधे, जया भौमे, रिक्ता शनौ, पूर्णा गुरौ । यदाह कश्यपः-'नंदा तिथिः शुक्रवारे सौम्ये भद्रा कुजे जया । रिक्ता मंदे गुरोर्वारे पूर्णा सिद्धाह्वया तिथिः ॥' इति । वसिष्ठोऽपि-'शुक्रज्ञगुरुमंदेज्या वारा नंदादिषु क्रमात् । सिद्धा तिथिः सिद्धिदा स्यात्सर्वकार्येषु सर्वदा ॥' इति । अस्याः फलस्तुतिमाह वसिष्ठ एव-'सिद्धा तिथिहंति समस्तदोषान् यान्मासशून्यानपि मासदग्धान् । दिनप्रदग्धानपि चान्यदोषानेकादशी यद्वदशेषपापान् ॥' इति ॥ ४ ॥ __ अथ रव्यादिवारेषु यथाक्रमं निषिद्धतिथीनिषिद्धनक्षत्राणि च शालिन्याहनंदा भद्रा नंदिकाख्या जया च रिक्ता भद्रा चैव पूर्णा मृतार्कात् । याम्यं त्वाष्ट्र वैश्वदेवं धनिष्ठार्यम्णं ज्येष्ठांत्यं रवेर्दग्धभं स्यात् ॥५॥ नंदेति ॥ यथाक्रममर्कात् 'ल्यब्लोपे पंचमी' इति अर्कमारभ्य वारेषु नंदातिथिर्मृताधमफला स्यात् । यथा सूर्य नंदा मृता, तथा सोमे भद्रा, भौमे नंदा, बुधे जया, गुरौ रिक्ता, शुक्रे भद्रा, शनौ पूर्णा मृतेत्यर्थः ॥ उक्तं च नारदेन-'आदित्यभौमयोनंदा भद्रा शुक्रशशांकयोः । जया सौम्ये गुरौ रिक्ता शनौ पूर्णा मृतिप्रदा ॥' इति । अत्र बहुषु नारदसंहितापुस्तकेषु 'मृतिप्रद' इति पाठमाश्रित्य मृतेति पदं प्रायोजि ग्रंथकृता । तथैवास्माभि ाकृतं च सकलदेशीयशिष्टसंमतत्वादापामरं तथैव व्यवहारदर्शनाच्च । वस्तुतस्तु 'पूर्णा मृतार्कात्'इत्यत्र अकारं प्रश्लिष्य अमृतेति पदं विधेयम् । तत्रा Page #29 -------------------------------------------------------------------------- ________________ द्या योगतिथयः ] शुभाशुभप्रकरणम् १ | 1 मृता अमृतफलदा स्यात् । यथा - नंदा स्वावमृता, एवं सोमवारादिष्वपि व्याख्येयं पूर्ववत् । अत्र संमतिरूपे जीर्णपुस्तकस्थनारदवाक्ये—' शनौ पूर्णामृताह्वया' इत्यकारादिराकारांतः पाठः साधीयान् । अमृतेत्याह्वयं नाम यस्याः सा अमृताह्वयेत्यर्थः । इममर्थं सफलमाह वसिष्ठः - 'नंदा भौमायोद्रा शुद्वोश्च जया बुधे । शुभयोगा गुरौ रिक्ता शनौ पूर्णाऽमृताह्वया ॥' इति । इदं वचनं वसिष्ठेन गुणनिरूपणाध्याये निरूपितमित्यतोऽपि शुभत्वप्रतिपादकम् । कश्यपोऽपि तथैवाह - 'आदित्यभामयोर्नन्दा भद्रा शुक्रशशांकयोः । जया सौम्ये गुरौ रिक्ता पूर्णाssर्कावमृता शुभा ॥' इति । आक= शनौ । एवं सत्यपि शुभत्वे शिष्टाचारेण व्यवस्था ज्ञेया । अथोत्तरार्धेन निंद्यनक्षत्राण्युच्यन्ते – याम्यमिति । रविवारादिषु याम्यं भरणी तदादीनि नक्षत्राणि यथाक्रमं दग्धनक्षत्राणि स्युः । यथा - रवौ भरणी दग्धा, सोमे चित्रा, भौमे उत्तराषाढा, बुधे धनिष्ठा, गुरावुत्तराफल्गुनी, शुक्रे ज्येष्ठा, रानौ रेवती । यदाह नारदः - 'यमर्क्षमर्कवारेऽब्जे चित्रा भौमे तु विश्वभम् । बुभे श्रविष्ठार्यम्णक्ष गुरौ ज्येष्ठा भृगोर्दिने ॥ रेवती शनिवारे तु दग्धयोगा भवंत्यमी ॥' इति । लल्लुः - ' याम्यं चित्रोत्तराषाढा धनिष्ठोत्तरफाल्गुनी । ज्येष्ठा व रेवती चैव जन्मक्षं भानुतः क्रमात् ॥ जन्मर्क्षग्रहसंयोगे न कुर्याच्छोभनं नरः । पाणिग्रहणयात्रादि विनाशमुपयात्यतः ॥ ' इति ॥ ५ ॥ अथ कचादिनिंद्ययोगाननुष्टुभाह षष्ठ्यादितिथयो मंदाद्विलोमं प्रतिपद् बुधे । सप्तम्यर्केऽधमाः षष्ट्याद्यामाश्च रदधावने ॥ ६ ॥ १३ षष्ट्यादीति ॥ षष्ठीसप्तम्यष्टमीनवमीदशम्येकादशीद्वादश्यस्तिथयो मंदाच्छनैश्चराद्विलोमं विपरीतवारगणनयाऽधमाः स्युः । यथा - शनौ षष्ठ्यधमा, शुक्रे सप्तमी, गुरावष्टमी, बुधे नवमी, भौमे दशमी, सोमे एकादशी, खौ द्वादशी; एते योगाः क्रकचाख्या ज्ञेयाः । यदाह नारदः - ' त्रयोदश स्युर्मिलने संख्यायास्तिथिवारयोः । क्रकचो नाम योगोऽयं मंगलेष्वतिगर्हितः ॥' इति । अथ प्रतिपत्तिथिस्तथा सूर्यवारे सप्तमी संवर्तयोगाख्याऽधमा । उक्तं च नारदेन - 'सप्तम्यामर्कवारश्चेत् प्रतिपत्सौम्यवास रे । संवर्तयोगो विज्ञेयः शुभकर्मवि'नाशकृत् ॥' इति । अथ षष्ठी, आद्या=प्रतिपत्, अमा-अमावास्या, एतास्तिथयो दधावने निंबकाष्ठादिभिर्दतमलनिराकरणेऽधमा निषिद्धाः स्युः । उक्तं च रत्नमालायाम् -'नष्टेंदुषष्ठीप्रतिपत्सु धीमान्न जातु दंतोत्कषणं विदध्यात् । कुर्वनवामति तदाशु नूनं लक्ष्मीकुलज्ञातिजनोपघातम् ॥' इति । क्वचिन्नवमी रविवासरेऽपि निषिद्धा । उक्तं च काशीखंडे पंचत्रिंशाध्याये - 'प्रतिपद्दर्शषष्ठीषु नवम्यां रविवासरे । दन्तानां काष्टसंयोगो दहेदासप्तमं कुलम् ॥' इति ॥ ६ ॥ अथ कृत्यविशेषेषु निषिद्धतिथीनिंद्रवंशाछंदसाह - षष्यष्टमीभूतविधुक्षयेषु नो सेवेत ना तैलपले क्षुरं रतम् । २ मु० चि० Page #30 -------------------------------------------------------------------------- ________________ १४ मुहूर्तचिंतामणिः। [कृत्यविशेषेषु निषिद्धतिथयः नाभ्यंजनं विश्वदशद्विके तिथौ धात्रीफलैः स्नानममाद्रिगोष्वसत् षष्ठ्यष्टमीत्यादि ॥ षष्ठी, अष्टमी च प्रसिद्धा, भूतः चतुर्दशी, विधुक्षयः= अमावास्या, एतासु तिथिषु क्रमेण ना पुरुषः, नृशब्दो मनुष्यजात्युपलक्षकः, तेन स्त्रीणामप्ययं निषेधः; तैलं पलं मांसं क्षुरं रतं मैथुनं यथाक्रमं न सेवेत । यथा-पट्यां तैलं, अष्टम्यां मांस, चतुर्दश्यां क्षौरम् , अमावास्यायां मैथुनं नो सेवेतेत्यर्थः । 'षे सेवने' आत्मनेपदी । उक्तं च नारदेन-'षष्ट्यां तैलं तथाष्टम्यां मांसं क्षौरं तिथौ कलेः । पूर्णिमादर्शयो रीसेवनं परिवर्जयेत् ॥' इति । कलेस्तिथौ चतुर्दश्याम् । रत्नमालायां च-'षष्ठीषु तैलं पलमष्टमीषु क्षौरक्रिया चैव चतुर्दशीषु । स्त्रीसेवनं नष्टकलासु पुंसामायुःक्षयार्थ मुनयो वदंति ॥' अत्र वचने 'नष्टकलासु'इति वचनमाश्रित्य 'विधुक्षयेषु'इत्युक्तम् । वयं तु विधुक्षयशब्दः सर्वपर्वोपलक्षक इति व्याकुर्मः । तथा सति पंचपर्वसु मैथुनं न कार्यमित्यर्थः । उक्तं च वसिष्ठसंहितायाम्-'स्त्रीसेवनं पर्वसु पक्षमध्ये पलं च षष्ठीषु च सर्वतैलम् । नृणां विनाशाय चतुर्दशीषु क्षुरक्रिया स्थादसकृत्तदाशु ॥' इति । पक्षमध्ये अष्टम्यां । क्वचित्संक्रांत्यादावपि तैलसंगो निषिद्धः । यदाह नारद:-'व्यतीपाते च संक्रांतावेकादश्यां च पर्वसु । मर्कभौमदिने विष्टयां नाभ्यंगं न च वैधतौ ॥' इति । पर्वाणि तु वसिष्ठनोक्तानि-'चतुर्दश्यष्टमी कृष्णा त्वमावास्या च पूर्णिमा । पुण्यानि पञ्च पर्वाणि संक्रांतिर्दिनपस्य च ॥' इति । अत्र निषिद्धकर्मसु तात्कालिक्यस्तिथयो ग्राह्याः । तथा च स्मृतिः-नाने चाभ्यंजने चैव दन्तधावनमैथुने । तिथिस्तात्कालिकी ग्राह्या तथा मरणजन्मनोः ॥' इति । अथ विश्वदशद्विके तिथौ त्रयोदशीदशमीद्वितीयास्वभ्यंजनं न, तैलाभ्यंगो न कार्य इत्यर्थः । तदुक्तं रत्नमालायाम्-'स्नातुर्जनस्य दशमी तनयांस्त्रयोदश्यर्थ निहंत्युभयमेतदपि द्वितीया' इति । अयं च शरीरमलनिराकरणार्थ निषेधो नित्यनैमित्तिककाम्यव्यतिरिक्तविषयः । निर्णयामृते द्वितीयातिथिनिर्णये भट्टभास्कर इत्युक्त्वा पठितम्-'सातुस्तनूजान् दशमी त्रयोदश्यर्थं द्वितीया द्वितयं निहति । मलापहनाननिषेध एष न नित्यनैमित्तिककाम्यबाधः ॥' एतादृशोऽपि मलापहनाननिषेधो ब्राह्मणव्यतिरिक्तवर्णत्रयस्यैव । उक्तं च भट्टभास्करण'त्रयोदश्यां द्वितीयायां दशम्यां च विशेषतः । शूद्रविदक्षत्रियाः स्नानं नाचरेयुः कथंचन ॥' इति । अर्थात् ब्राह्मणस्य नायं निषेध इत्यर्थः । अथ धात्रीफलैरिति । धात्रीफलैरामलकैः स्नानममाऽदिगोष्वसत् , अमावास्यासप्तमीनवमीष्वसन्निषिद्धमित्यर्थः । उक्तं च रत्नमालायाम्-'सप्तम्यनिंदुनवमीषु च संपदिच्छुः स्नायात्कदाचिदपि नामलकैर्मनुष्यः' । अत्र केचिदामलकैः स्नातुर्दशमी तनयान्निहंति एवं सर्वत्र व्याख्येयम् । एवं सति दशमीद्वितीयात्रयोदशीसप्तम्यनिंदुनवमीष्वामलकस्नाननिषेधोऽस्ति, तत्कथं भिन्नवाक्यतामादाय स्वपये स्पष्टैव भिन्नवाक्यता कृता? अत्राहुः-'स्नातुस्तनूजान् दशमी'इति वचनांतरानुरोधाद्भिन्नवाक्यता स्पष्टैव । तथा च-आमलकस्नान१ पक्षसर्वपापलक्षक इति पाठः । Page #31 -------------------------------------------------------------------------- ________________ विष-हुताशनयोगाः] शुभाशुभप्रकरणम् १ । १५ निषेधे दीपिकाटीकायां स एव भट्टभास्करः-'सप्तम्यचन्द्रानवमीषु देहश्रीसंततीरामलकर्नरस्य । स्नानं निहंत्यन्यदिने तु धत्ते तिलैः श्रियं पुण्यकरं सदैव ॥' इत्याह स्म । अपरे पुनराहुः-सर्वास्वपि तिथिष्वामलकस्नानस्यैव निषेधो नाभ्यंगस्य । यदाह वसिष्ठः-'कामदुर्गातकविधिनष्टेद्वदिनेषु च । सकृदामलकस्नानं संपत्पुत्रविनाशनम् ॥' कामः त्रयोदशी, दुर्गा-नवमी, अन्तकः दशमी, विधिः द्वितीया, नप्टेंदुः=अमावास्या, अर्कदिनं सप्तमी । कश्यपोऽपि-'षष्ट्यां दर्शप्रतिपदि द्वादश्यां च दिनक्षये । कुर्यादामलकस्नानं दशम्यां मूढधीनरः ॥ पुत्रनाशो भवेत्तस्य त्रयोदश्यां धनक्षयः । संपत्पुत्रक्षयस्तस्य द्वितीयायामसंशयम् ॥ सप्तम्यां च नवम्यां च अमायां कुलनाशनम्' इति । दर्शानन्तरं प्रतिपद्दर्शप्रतिपच्छुक्ल प्रतिपदित्यर्थः ॥ ७ ॥ अथ सूर्यादिवारेपु दग्धादियोगचतुष्टयमिंद्रवज्रोपजातिकाभ्यामाहसूर्येशपंचाग्निरसाष्टनंदा वेदांगसप्ताश्विगजांकशैलाः । सूर्यागसप्तोरगगोदिगीशा दग्धा विषाख्याश्च हुताशनाथ ॥८॥ सूर्यादिवारे तिथयो भवंति मघाविशाखाशिवमूलवह्नि । ब्राह्मं करोर्काद्यमघंटकाश्च शुभे विवा गमने त्ववश्यम् ॥९॥ सूर्ये शेति ॥सूर्या द्वादश । लक्षणया तत्संख्या द्वादश्युच्यते । एवमीशादिशब्देष्वपि व्याख्येयम् । तत्र सूर्या-द्वादशी, ईशा एकादशी, पञ्च-पञ्चमी, अग्नयः तृतीया, रसाः षष्टी, अष्ट अष्टमी, नन्दा-नवमी; सूर्यादिवारे. ज्वेतास्तिथयो दग्धा भवंति । यथा-रवौ द्वादशी दग्धा, सोमे एकादशी दग्धा, भौमे पञ्चमी, बुधे तृतीया, गुरौ षष्ठी, शुक्रे अष्टमी, नवमी शनी; शनिरिक्तासिद्धियोगश्चतुर्थीचतुर्दश्योश्चरितार्थः। उक्तं चनारदेनोपग्रहाध्याये'एकादशी चेन्दुवारे द्वादशी चार्कवासरे । षष्ठी बृहस्पतेर्वारे तृतीया बुध. वासरे ॥ अष्टमी शुक्रवारे च नवमी शनिवासरे। पञ्चमी भौमवारे च दग्ध. योगाः प्रकीर्तिताः ॥' वसिष्टोऽपि-द्वादश्येकादशीनागगौरीस्कन्दवसुष्वपि । नवम्यां दग्धयोगाख्या भानुवारादितः क्रमात् ॥' अथ विषयोगाः। वेदा इति । वेदाः चतुर्थी, अंगानि-षष्ठी, सप्त-सप्तमी, अश्विनौ द्वितीया, गजा= अष्टमी, अंका-नवमी, शैलाः सप्तमी; एतास्तिथयः सूर्यादिवारेषु विषाख्या भवंति । यथा-रवौ चतुर्थी विषाख्या, चन्द्रे षष्ठी, भौमे सप्तमी, बुधे द्वितीया। बुधे भद्रारूपः सिद्धियोगस्तु सप्तमीद्वादश्योश्चरितार्थः । गुरावष्टमी, शुक्रे नवमी, शनी सप्तमी । यदाह बृहस्पतिः-'षष्ठी शशांके नवमी च शुक्रे बुधे द्वितीया तपने चतुर्थी । जीवेऽष्टमी सौरिकुजेऽह्नि सप्तमी योगा विषाख्याः कुलनाशनाः स्युः ॥' वसिष्ठोऽपि-'कुजायोः सप्तमी षष्ठी चन्द्रे भानौ चतु र्थिका । द्वितीया शेऽष्टमी जीवे नवमी शुक्रवासरे ॥ अचिकित्स्या गदा योगा मंगलेष्वतिनिंदिताः ॥' अथ हुताशनयोगाः । सूर्येति । सूर्या-द्वादशी, Page #32 -------------------------------------------------------------------------- ________________ मुहूर्तचिंतामणिः। [चैत्रादिषु शून्यतिथयः अंगानि-षष्ठी, सप्त-सप्तमी,उरगा अष्टमी,गावः नवमी, दिशः दशमी, ईशा एकादशी; एतास्तिथयो रविवारादिषु हुताशनाख्या ज्ञेयाः। यथा-रवौ द्वादशी, सोमे षष्ठी, भौमे सप्तमी, बुधेऽष्टमी, गुरौ नवमी, शुक्रे दशमी, शनौ एकादशी हुताशना । यथा हुताशनो निक्षिप्तं वस्तु दहति तथायमुक्तो वारतिथियोगोऽपीत्यर्थः । यदाह गुरुः-'षष्ट्यादितिथयः सप्त चंद्रवारादिभिर्युताः । क्रमात् पक्षद्वयेऽपि स्युः सप्तयोगा हुताशनाः ॥' इति । वसिष्ठोऽपि-'सप्त पथ्यादितिथयः सोमवारादिभिर्युताः । अग्निजिह्वाः सप्त योगा मंगले कुलना. शनाः ॥' इति। अथ यमघंट:-मघा, विशाखा, शिवः आर्द्रा, मूलं, वह्निःकृत्तिका । समाहारद्वंद्वः। ब्राह्म-रोहिणी, करः हस्तः; एतानि नक्षत्राण्यात्सूर्यादिवारेषु यमघंटाः स्युः । यथा-रवी मघा यमघंटः, सोमे विशाखा, भौमे आर्द्रा, बुधे मूलं, गुरौ कृत्तिका, शुक्रे रोहिणी, शनौ हस्तः । उक्तं च दैवज्ञमनोहरे गर्गेण-'मघा विशाखा चार्द्रा च मूलमृक्षं च कृत्तिका । रोहिणी हस्त इत्येवं यमघंटाः क्रमाद्रवेः ॥' इति । अत्र पाठांतरम् । 'सूर्यादिबारे तिथयो हि पित्र्यद्वीशेशमूलाग्निविरिंचिहस्ताः । भवंति सूर्याघमघंटकाच शुभे विवा गमने त्ववश्यम् ॥' इति । अयं पाठः साधीयान् । प्राक्पाठे हि कतिचिन्नक्षत्राणि पूर्वार्धे द्वे तूत्तरार्ध इत्यसामंजस्यात् । एते दग्धादियोगाः शुभे शुभकार्ये विवास्त्याज्याः । तुर्विशेषे । गमने यात्रायां त्ववश्यं वाः । यदाह मार्तड:-'नात्र यात्रा प्रकर्तव्या कार्यातरमथापि वा । यमघंटादियोगोऽयमनहः सर्वकर्मसु॥' इति । आवश्यकत्वे यमघंटपरिहारमाह गर्ग:'विंध्यस्योत्तरभागे तुयावदातुहिनाचलम् । यमघंटकदोषोऽस्ति नान्यदेशे कदा. चन ॥' इति । अन्यच्च-'लग्नाच्छुभग्रहः केंद्रे त्रिकोणे वा स्थितो यदि । चंद्रो बापि न दोषः स्याद्यमघंटकसंभवः ॥' इति । कैश्चिदष्टौ घटिकास्त्याज्या इत्युकम् । तदुक्तं दीपिकायाम्-'यमघंटे त्यजेदष्टौ मृत्यौ द्वादश नाडिकाः' इति । अत्रैषां पापयोगानामपवादो वसिष्ठेनोक्तः-'दिवा मृत्युप्रदाः पापा दोषास्त्वेते न रात्रिषु । शुभकार्ये प्रसूतौ च सर्वदा परिवर्जयेत् ॥ ८ ॥ ९ ॥ अथ चैत्रादिमासे शून्यास्तिथीः शार्दूलविक्रीडितेनानुष्टुप्पूर्वार्धेन चाहभाद्रे चंद्रदृशौ नभस्यनलनेत्रे माधवे द्वादशी पौषे वेदशरा इषे दशशिवा मार्गेऽद्रिनागा मधौ । गोष्टौ चोभयपक्षगाश्च तिथयः शून्या बुधैः कीर्तिता .. ऊजोषाढतपस्यशुक्रतपसां कृष्णे शरांगाब्धयः ॥१०॥ शक्राः पंच सिते शक्रायग्निविश्वरसाः क्रमात् । * भाद्र इति ॥ भाद्रशब्देन भाद्रपद उच्यते । 'स्युर्नभस्यप्रौष्ठपदभादभाद्रपदाः समाः' इत्यमरः । भाद्रे भाद्रपदे मास्युभयपक्षगे शुक्लकृष्णसाधारणे चंद्रदृशौ प्रतिपद्वितीये तिथी शून्ये । तथा नभसि श्रावणे मासि अनल Page #33 -------------------------------------------------------------------------- ________________ तिथिनक्षत्र संबंधिदोषाः ] शुभाशुभप्रकरणम् १ | नेत्रे तृतीयाद्वितीये उभयपक्षगे शून्ये । माधवे वैशाखे द्वादशी तिथिः शून्या । पौषे वेदशराः चतुर्थीपंचम्यौ शून्ये । इषे आश्विने दशशिवाः दशम्येकादश्यौ शून्ये । मार्गे मार्गशीर्षेऽद्विनागाः सप्तम्यष्टम्यौ शून्ये । मधौ चैत्रे गोष्टौ नवम्यष्टम्यौ शून्ये । एषु मासेषु एतास्तिथयः पक्षद्वयगाः शून्या बुधैः कीर्तिताः । अथानुक्तमासानामूर्जाषाढतपस्यशुक्रतपसां कार्तिकाषाढफाल्गुन ज्येष्ठमाघानां कृष्णपक्षे क्रमेण शरांगाब्धयः शकाः पंच तिथयः शून्याख्याः । यथा कार्तिककृष्णपक्षे पंचमी शून्या, आषाढकृष्णपक्षे षष्टी शून्या, फाल्गुन कृष्णपक्षे चतुर्थी शून्या, ज्येष्टकृष्णपक्षे चतुर्दशी शून्या, माघकृष्णपक्षे पंचमी शून्या । अथैषामेव मासानां सिते शुक्लपक्षे शक्राद्यग्निविश्वरसाः क्रमाच्छून्याः । यथाकार्तिक शुक्लपक्षे चतुर्दशी शून्या, आषाढशुक्ले सप्तमी शून्या, फाल्गुनशुक्ले तृतीया शून्या, ज्येष्ठशुक्ले त्रयोदशी शून्या, माघशुक्ले षष्ठी शून्येत्यर्थः । यदाह वसिष्ठः - ' अष्टमी नवमी चैत्रे पक्षयोरुभयोरपि । माधवे द्वादशी त्याज्या पक्षयोरुभयोरपि ॥ ज्येष्ठे त्रयोदशी निंद्या सिते कृष्णे चतुर्दशी | आषाढे कृष्णपक्षस्य षष्ठी शुक्ले तु सप्तमी ॥ द्वितीया च तृतीया च श्रावणे सितकृष्णयोः । प्रथमा च द्वितीया च नभस्ये मासि निंदिते ॥ दशम्येकादशी निंद्या मासीषे शुक्लकृष्णयोः । ऊर्जे चतुर्दशी शुक्ले कृष्णपक्षे तु पंचमी ॥ सप्तमी चाष्टमी सौम्ये पक्षयोरुभयोरपि । पौषे पक्षद्वये चैव चतुर्थी पंचमी तथा ॥ माघे तु पंचमी षष्ठी कृष्णे शुक्ले यथाक्रमम् । तृतीया च चतुर्थी च फाल्गुने सितकृष्णयोः ॥ तिथयो मासशून्याख्या वंशवित्तविनाशदाः । आसु श्राद्धं प्रकुर्वीत नैव मंगलमाचरेत् ॥' इति ॥ १० ॥ I अथ तिथिनक्षत्रसंबंधिदोषान् सार्धानुष्टुब्द्वयेनाह - तथा निंद्यं शुभे सार्प द्वादश्यां वैश्वमादिमे ॥ ११ ॥ अनुराधा द्वितीयायां पंचम्यां पित्र्यभं तथा । व्युत्तराश्व तृतीयायामेकादश्यां च रोहिणी ॥ १२ ॥ स्वातीचित्रे त्रयोदश्यां सप्तम्यां हस्तराक्षसे । नवम्यां कृत्तिकाष्टम्यां पूभा षष्ठयां च रोहिणी ॥ १३ ॥ १७ तथा निंद्यमिति ॥ शुभे कृत्ये द्वादश्यां सार्पमाश्लेषा निंद्यं, आदिमे तिथौ प्रतिपदि वैश्वमुत्तराषाढा निंद्या, द्वितीयायामनुराधा, पंचम्यां पितृभं मघा, तृतीयायां त्र्युत्तराः उत्तराफल्गुन्युत्तराषाढोत्तराभाद्रपदा निंद्याः, एकादश्यां रोहिणी, त्रयोदश्यां स्वातीचित्रे, सप्तम्यां हस्तराक्षसे हस्तमूले, नवम्यां कृत्तिका, अष्टम्यां पूभा पूर्वाभाद्रपदेत्यर्थः । षष्ठ्यां रोहिणी - निंद्येत्यर्थः । यदाह चतुर्भुजमिश्रनिबंधे लल्लः - 'द्वितीयया चानुराधा त्र्युत्तराश्च तृतीयया । पंचमी च मघायुक्ता चित्रास्वात्या त्रयोदशी ॥ एषु कार्यं कृतं चेत्स्यात् षण्मासान्मरणं ध्रुवम् । प्रतिपद्युत्तराषाढा नवम्यां कृत्तिका यदि ॥ । Page #34 -------------------------------------------------------------------------- ________________ मुहूर्तचिंतामणिः । [ चैत्रादिषु शून्यनक्षत्रराशयः पूर्वाभाद्रपदाष्टम्यामेकादश्यां च रोहिणी । द्वादश्यां च यदाश्लेषा त्रयोदश्यां मघा यदि ॥' इति ॥ ११ - १३ ॥ १८ कदा अथ चैत्रादिमासेषु क्रमाच्छून्यनक्षत्राण्यनुष्टुब्द्वयेनाह - त्वाष्ट्रवायू विश्वेज्यौ भगवासवौ । वैवश्रुती पाशिपौष्णे अजपादग्निपित्र्य ॥ १४ ॥ चित्राद्वीशौ शिवाश्रयर्काः श्रुतिले यद्रभे । चैत्रादिमासे शून्याख्यास्तारा वित्तविनाशदाः ॥ १५ ॥ कदास्रभ इति ॥ चैत्रमासे-कदास्रभे= रोहिण्यश्विन्यौ, वैशाखे-त्वाष्ट्रवायू= चित्रास्वात्यौ, ज्येष्ठमासि - विश्वेज्यौ = उत्तराषाढापुष्यौ, आषाढमासे- भगवासवौ = पूर्वाफाल्गुनी धनिष्ठे, श्रावणे - विश्वश्रुती = उत्तराषाढाश्रवणौ, भाद्रपदे - पाशिपौष्णे=पाशी वरुणः शततारकारेवत्यौ, आश्विने-अजपात् = पूर्वाभाद्रपदा, कार्तिके - अग्निपित्र्यभे= कृत्तिकामघे । अत्र 'पाशिपौष्णे अजपात्' इत्यत्र 'ईदूदेद्विवचनं प्रगृह्यम्' इति प्रगृह्यत्वात् 'लुतप्रगृह्या अचि नित्यम्' इति प्रकृतिभावेन संध्यभावः । मार्गशीर्षे - चित्राद्वीशौ = चित्राविशाखे, पौष - शिवाइव्यर्का:=आर्द्राश्विनीहस्ताः, माघे - श्रुतिमूले=श्रवणमूले, फाल्गुनमासेयमेन्द्रभे=भरणीज्येष्ठे; एतास्ताराः क्रमाच्चैत्रादिमासेषु शून्यसंज्ञा ज्ञेयाः । कीदृइयस्ताराः ? वित्तविनाशदाः, धननाशकरा इत्यर्थः । उक्तं च वसिष्ठसंहितायाम्- 'अश्विनी रोहिणी चैत्रे शून्यभे परिकीर्तिते । चित्रा स्वाती च वैशाखे ज्येष्ठे विश्वेज्यतारके ॥ भगवासवमाषाढे श्रावणे हरिविश्वभे । नभस्ये वारुणांत्यर्क्षमजपादश्वयुज्यपि ॥ कार्तिके पितृर्वह्नवृक्षे सौम्ये चित्राद्विदैवते । पौषे दस्रकरार्द्राः स्युर्माघे मूलं च विष्णुभम् ॥ तपस्ये शक्रभरणी शून्यभान्याहुरग्रजाः । एषु यत्तु कृतं कर्म धनैः सह विनश्यति ॥' इति ॥ १४ ॥ १५॥ अथ चैत्रादिमासेषु शून्यराशीननुष्टुभाह घटो झषो गौर्मिथुनं मेषकन्यालितौलिनः । धनुः कर्को मृगः सिंहचैत्रादौ शून्यराशयः ॥ १६ ॥ घट इति ॥ चैत्रे - - घटः = कुम्भः, वैशाखे - झषः =मीनः, ज्येष्ठे –गौः =वृषः, आषाढे - मिथुनं श्रावणे - मेषः, भाद्रपदे - कन्या, आश्विने- अलिः = वृश्चिकः, कार्तिके-तौलिः = तुला, मार्गशीर्षे - धनुः, पौषे - कर्कः, माघे - मृगः=मकरः, फाल्गुने-सिंहः; एते राशयः क्रमेण चैत्रमासादिषु शून्यसंज्ञका इत्यर्थः । उक्तं च वसिष्ठेन - 'घटमत्स्यवृषा युग्ममेषकन्याः सवृश्चिकाः । तुलाचापकुलीराख्यमृगसिंहाश्च राशयः ॥ चैत्रादौ मासशून्याख्या वंशवित्तविनाशदाः । तस्मात्तासंपरित्यज्य शोभनं कारयेत्सुधीः ॥' इति ॥ १६ ॥ १ वह्निपित्र्य इति पाठ: . Page #35 -------------------------------------------------------------------------- ________________ तिथिविशेषेण हस्तार्कादिफलं ] शुभाशुभप्रकरणम् १ | अथ विषमतिथिषु दग्धलग्नानींद्रवज्रयाहपक्षादितस्त्वोजतिथौ धटैणौ मृगेंद्रनक्रौ मिथुनांगने च । चापेन्दुभे कर्कहरी हयांत्या गोंत्यौ च नेष्टे तिथिशून्यलने ॥१७॥ पक्षादित इति ॥ शुक्लकृष्णसाधारण्येन पक्षमंगीकृत्य ओजतिथौ विषमतिथिषु प्रतिपत्तृतीयादिषु धटस्तुला एणो मकर इत्यादीनि लग्नानि क्रमेण दिनदग्धानि ज्ञेयानि । यथा - प्रतिपदि तुलामकरौ, तृतीयायां सिंहमकरौ, पंचम्यां मिथुनकन्ये, सप्तम्यां धनुः कर्को, नवम्यां कर्कसिंहौ, एकादश्यां धनुमनौ, त्रयोदश्यां वृषमीनौ; तस्यां तस्यां तिथौ एते एते लग्ने नेष्टे, अनिष्टे इत्यर्थः । उक्तं च वसिष्ठसंहितायाम् – 'मृगसिंहौ तृतीयायां प्रथमायां तुलामृगौ । पंचम्यां बुधराशी द्वौ सप्तम्यां चापचंद्रभे ॥ नवम्यां सिंहकीटाख्यावेकादश्यां गुरोर्गृहे । वृषमीनौ त्रयोदश्यां दग्धसंज्ञास्त्वमी गृहाः ॥ दुग्धसद्मनि यत्कर्म कृतं सर्वं विनश्यति । तस्माद्दग्धगृहास्त्याज्याः शोभनेष्व'खिलेष्वपि ॥' इति ॥ १७ ॥ अथैषां दुष्टयोगानां शुभकृत्यावश्यकत्वे सति परिहारं नारदवचनेनैवाहनारदः - तिथयो मासशून्याच शून्यलग्नानि यान्यपि । मध्यदेशे विवर्ज्यानि न दूष्याणीतरेषु तु ॥ १८ ॥ पंग्धकाणलग्नानि मासशून्याश्च राशयः । गौडमालवयोस्त्याज्या अन्यदेशे न गर्हिताः ॥ १९ ॥ १९ तिथय इति ॥ स्पष्टार्थमिदं पद्यद्वयम् ॥ पंग्बंधकाणाख्यानि लग्नानि विवाहप्रकरणे वक्ष्यते । मध्यदेशो वराहसंहितायामुक्तः - 'मद्वारिमेदमांडव्यशाल्वनीपोज्जिहानसंख्यानाः । मरुवत्सघोषया मुनसारस्वतमत्स्यमाध्यमिकाः ॥ माथुरकोपज्योतिषधर्मारण्यानि शूरसेनाश्च । गौरग्रीवौ दैहिकपंचगुढाश्वत्थपांचालाः। साकेत ककुकुरुकालकोटिकुकुराश्च पारियात्रनगः । औदुंबरकापिष्ठकगजाह्वयाश्चेति मध्यमिदम् ॥' इति । जगन्मोहनेऽपि - 'केन्द्रे चैव त्रिकोणे च शुभो ह्युपचयेऽपि वा । एकोऽपि बलवांश्चापि शून्यतिथ्युडुनाशकः ॥' इति । अयं देशाचारमनुसृत्य व्यवहारः कर्तव्यः ॥ १८ ॥ १९ ॥ अथ समस्त शुभकार्येषु सिद्धिदानपि हस्तार्कादियोगांस्तिथिविशेषेणातिनिधाननुष्टुब्द्वयेनाह— वर्जयेत्सर्वकार्येषु हस्तार्क पंचमीतिथौ । भौमाश्विनीं च सप्तम्यां षष्ठ्यां चंद्रदेवं तथा ॥ २० ॥ Page #36 -------------------------------------------------------------------------- ________________ २० मुहूर्तचिंतामणिः । [सिद्धिदा अपि योगाः क्वचिन्निद्याः बुधानुराधामष्टम्यां दशम्यां भृगुरेवतीम् । नवम्यां गुरुपुष्यं चैकादश्यां शनिरोहिणीम् ॥ २१ ॥ वर्जयेदिति ॥ सर्वशुभकृत्येषु पंचम्यां हस्तनक्षत्रं सूर्यवारं च युगपद्वर्जयेत् । एवं सप्तम्यां भौमाश्विनीमपि, षष्ठ्यां सोममृगनक्षत्रे, अष्टम्यां बुधानुराधां, दशम्यां भृगुरेवतीं, नवम्यां गुरुपुष्यं, एकादश्यां शनिरोहिणीं, वर्जयेदित्यर्थः । हस्तार्कादीन् सिद्धियोगानाह नारदः - 'हस्तर्क्ष सूर्यवारेंदाविंदुभं प्रथमं कुजे । सौम्ये मित्रभमाचार्ये पुष्यं पौष्णं भृगोः सुते ॥ रोहिणी मंदवारे तु सिद्धियोगाह्वया अमी ॥' इति । तत्र त्रितयनिषेधो दैवज्ञमनोहरे'भादित्ये पंचमीहस्तौ सोमे षष्ठी च चंद्रभम् । भौमाश्विन्यौ च सप्तम्यामनुराधां बुधाष्टमीम् ॥ गुरुपुष्यं नवम्यां च दशम्यां भृगुरेवतीम् । एकादश्यां शनिब्राह्मे विषयोगाः प्रकीर्तिताः ॥' इति । अन्यत्रापि - 'अर्के हस्तं पंचमीं च सोमे षष्ठीं च चंद्रभम् । अश्विनीं सप्तमीं भौमे बुधे मैत्रं तथाष्टमीम् ॥ गुरौ पुष्यं च नवम दशमीं रेवतीं भृगौ । एकादशीं शनौ ब्राह्मं वर्जयेत् सर्वदा बुधः ॥' इति । वसिष्ठेन त्वन्यदेव त्रितयं निषिद्धमुक्तम् —'अर्क - वारेऽग्निपंचम्योः सोमे चित्राद्वितीययोः । कुजे पूर्णेदुरोहिण्योः सप्तमीयाम्ययोर्बुधे । गुरौ मित्रत्रयोदश्योः षष्ठी श्रवणयोः सिते । पौष्णाष्टम्योः शनावेते योगा हालाहलाह्वयाः ॥ एषु योगेषु कर्तव्यं शत्रूच्चाटनमारणम् । विवाहादिषु कार्येषु नियतं निधनप्रदम् ॥' इति । अग्निः = कृत्तिका । पूर्णेदुः = पूर्णिमा ॥ २० ॥ २१ ॥ अथ भौमाश्विनीत्यादिकान् सिद्धियोगान् कार्यविशेषेऽतिनिंद्याननुष्टुभाह-. गृहप्रवेशे यात्रायां विवाहे च यथाक्रमम् । मौमाश्विनीं शनौ ब्राह्मं गुरौ पुष्यं विवर्जयेत् ॥ २२ ॥ गृहेति ॥ नूतनगृहप्रवेशेऽतिसिद्धिदामपि भौमाश्विनीं वर्जयेत् । यात्रायां शनौ रोहिणीं वर्जयेत् । विवाहे गुरुपुष्यं विवर्जयेत् । यदाह राजमार्तेड:'भौमाश्विनीं प्रवेशे च प्रयाणे शनिरोहिणीम् । गुरुपुष्यं विवाहे च सर्वथा परिवर्जयेत् ॥' इति । ननु भौमाश्विनी तु प्रवेशे निषिद्धास्ति । कथम् 'व्यर्का - रवारे तिथिषु रिक्ताऽमावर्जितासु च । दिवा वा यदि वा रात्रौ प्रवेशो मंगलप्रदः ॥' इति नारदोक्तेभौमो निषिद्धः ? अश्विनी क्षिप्रसंज्ञनक्षत्रम्, तेन 'क्षिप्रैश्वरैः स्यात्पुनरेव यात्रा' इति फलम् । ततः सापि निषिद्धा । एवं रोहिणी यात्रायामविहिता, पश्चिमायां चातिशयेन निषिद्धैव । एवं शनिवारोऽपि सामान्यतो नवम्यादियोगे सुतरां निषिद्ध एव । एवं पुष्योऽपि विवाहे निषिद्धः। गुरुवारस्तूत्तम एव । अनयोर्योगस्तु वाय्वग्भिवत्सुतरां निषिद्धस्तत्कथमिदमपवादवचनं ? प्राप्तिपूर्वकत्वात्प्रतिषेधस्य - इति चेत्, उच्यते- 'हस्तक्षमर्कवारे' इत्यादिवचनाद्भौमाश्विनीत्यादेर्वारनक्षत्रयुतेः कार्यमात्रे प्रशस्ततमत्व Page #37 -------------------------------------------------------------------------- ________________ आनंदाद्यष्टाविंशतियोगाः] शुभाशुभप्रकरणम् १ । २१ मस्ति । यदाह राजमार्तड:-'यदि विष्टिय॑तीपातो दिनं वाप्यशुभं भवेत् । हन्यतेऽमृतयोगेन भास्करेण तमो यथा ॥ हत्यमृताख्यो योगः सर्वाः ण्यशुभानि लीलया नियतम् । न भवति पुनरिह शक्तो वैधतिविष्टिव्यतीपातः ॥' इति सामान्यतः कार्यमात्रप्राशस्त्यप्राप्तावपवादवचनं युक्तमेव । अत्र पितृचरणाः-इयं च प्रशंसाऽमृतयोगकारकनक्षत्रवारोक्तकर्मविशेषगतविशिष्टफलाभिधायिकावगंतव्या, नतु निषिद्धकर्मानुविधायिनी । अत एव पठंति-'भौमाश्विनी प्रवेशे च प्रयाणे शनिरोहिणीम् । गुरुपुष्यं विवाहे च सर्वथा परिवर्जयेत् ॥'-इत्याहुः । अत्र समाधिः-अन्यशुभदिवसासंभवे कृत्यस्य चावश्यकत्वे भौमाश्विन्यादौ निषिद्धेऽपि कार्य कार्यम् , अन्यथा नेति ॥ २२ ॥ अथानंदादीनष्टाविंशतियोगान् शालिन्युपजातिभ्यामाहआनंदाख्यः कालदंडश्च धूम्रो धाता सौम्यो ध्वांक्षकेतू क्रमेण । श्रीवत्साख्यो वज्रकं मुद्रश्च छत्रं मित्रं मानसं पालुंबौ ॥२३॥ उत्पातमृत्यू किल काणसिद्धी शुभोऽमृताख्यो मुसलो गदश्च । मातंगरक्षश्चरसुस्थिराख्यप्रवर्धमानाः फलदाः स्वनाम्ना ॥२४॥ आनंदेति ॥ स्पष्टार्थ पद्यद्वयम् । यदाह नारदः-'आनंदः कालदंडोऽथ धूम्रो धाता शुभाह्वयः । ध्वांक्षो ध्वजाख्यश्रीवत्सवज्रमुद्गरछत्रकाः । मित्रमानसपद्माख्यलुंबकोत्पातमृत्यवः । काणः सिद्धिः शुभामृतमुसलातंककुंजराः । राक्षसाख्यश्वरस्थैर्यवर्धमानाः क्रमादमी । योगाः स्वसंज्ञाफलदास्त्वष्टाविंशतिसंख्यकाः ॥ ॥ २३ ॥ २४ ॥ अथैते योगाः कथं ज्ञेया इत्यनुष्टुभाहदास्रादर्के मृगादिंदौ सार्पाद्भौमे कराद्धे । मैत्राद्गुरौ भृगौ वैश्वाद्गण्या मंदे च वारुणात् ॥ २५॥ दानादिति॥ अत्र नक्षत्राणां सामिजितां गणना कार्या। यतोऽष्टाविंशतिरेते योगाः संभवंति । तथा सति अर्कवारे दास्रादश्विनीनक्षत्रात् सामिजिद्दिननक्षत्रं गणनीयं । तद्यत्संख्याकं स्यात्तत्संख्याको योग आनन्दादिर्भवति । यथा-दिननक्षत्रं श्रवणः तदश्विनीतः सामिजिद्गणनया अयोविंशतिसंख्यमस्ति, तथा सति आनन्दादियोगेषु त्रयोविंशतिसंख्यो गदयोगो जातः । एवमिंदो सोमवारे मृगशीर्षात्पूर्ववद्गणनया आनन्दादियोगा ज्ञेया इत्यर्थः । एवं सर्वत्र व्याख्येयम् । सार्पम् आश्लेषा, करः हस्तनक्षत्रं, मैत्रम् अनुराधा, वैश्वम्-उत्तराषाढा, वारुणं-शततारका । यदाह नारद:-रविवारक्रमादेते दास्रभादिंदुभाद्विधौ । सार्पाद्भौमे बुधे हस्तान्मैत्रभाद्देवमंत्रिणि । वैश्वदेवादृगुसुते वारुणागास्करात्मजे ॥' इति ॥ २५ ॥ Page #38 -------------------------------------------------------------------------- ________________ मुहूर्तचिंतामणिः । [वारेषु भविशेषैः सिद्धियोगाः अथानन्दादिषु ये दुष्टयोगास्तेषां कियतां सत्यावश्यकत्वे परिहार शालिन्याह ध्वांक्षे वत्रे मुद्गरे चेषुनाड्यो वर्ज्या वेदाः पद्मलुंबे गदेऽश्वाः । धूम्रे काणे मौसले भूर्द्वयं द्वे रक्षोमृत्युत्पातकालाच सर्वे ॥ २६ ॥ ध्वांक्ष इति ॥ ध्वांक्षवज्रमुद्गरयोगेषु आया इषुनाब्यः पंच घट्यो वर्ज्याः । पद्मलुंबयोगयोर्वेदाश्चतस्रो घटिका वर्ज्याः । एवं गढ़े अश्वाः सप्तघटिकाः, धूम्रे भूरेकैव घटिका, काणे घटिकाद्वयं, मुसलयोगे घटिके द्वे, राक्षसमृत्यूत्पातकालाः षष्टिघटिकात्मकाः सर्वेऽपि वर्ज्याः । अत्र श्लोके अनुक्sपि चरयोगे घटिकात्रयं वर्ज्यम् । उक्तं च ज्योतिः सारसागरे - 'ध्वांक्षेद्रायुधमुद्गरेषु घटिकास्त्याज्यास्तु पंचादितः पद्माऽऽलुंबकयोश्चतस्र उदिता धू सदैका पुनः । द्वे काणे मुसलाह्वयेऽपि च गदे सप्तैव तिस्रश्च रे 'मृत्यूत्पातकरक्षसां दिनगतास्ताः कालदंडे तथा ॥' अत्र दिनशब्देनाहोरात्रमुच्यते । 'पद्मालुंबकयोः' इत्यत्राङ्प्रश्लेषश्छंदोऽनुरोधार्थः ॥ २६ ॥ अथ दोषापवादभूतान् रवियोगाननुष्टुभाहसूर्यभाद्वेदगोतर्क दिग्विश्वनखसंमिते । २२ चंद्र रवियोगाः स्युर्दोषसंघविनाशकाः ॥ २७ ॥ सूर्यभादिति ॥ सूर्यो यस्मिन्नक्षत्रेऽस्ति ततश्चंद्रक्षं दिननक्षत्रमित्यर्थः । तस्मिन् चतुर्नवषदशत्रयोदशविंशतिसंख्याके सति रवियोगाः स्युः कीदृशाः ? दोषाणां संवः समूहस्तस्य विनाशका इत्यर्थः । उक्तं च वसिष्ठेन - 'सूर्याच्चतुर्थे दशमे च षष्ठे विश्वक्षंके विंशतिमे नवर्क्षे । भवंति षड् भानुमदृक्षयोगाः कुयोगविध्वंसकराः शुभेषु ॥' इति ॥ २७ ॥ अथ सूर्यादिवारेषु नक्षत्रविशेषैः सिद्धियोगा निंद्रवज्रोपजातिभ्यामाहसूर्येऽर्कमूलोत्तरपुष्यदात्रं चंद्रे श्रुतिब्राह्मशशीज्यमैत्रम् । भौमेश्य हिर्बुध्यकुशानुसार्प ज्ञे ब्राह्ममैत्रार्ककृशानुचान्द्रम् ॥२८॥ जीवेंऽत्य मैत्राश्वयदितीज्यधिष्ण्यं शुक्रेत्यभाग्याश्वयदितिश्रवोभम् शनौ श्रुतित्राह्मसमीरभानि सर्वार्थसिद्धयै कथितानि पूर्वैः ॥२९॥ सूर्ये इति ॥ रविवारे हस्तमूलत्र्युत्तरापुष्याश्विनी नक्षत्राणि सिद्धियोगाः स्युः । एवं चंद्रे श्रवणरोहिणीमृगशिरः पुष्यानुराधाः सिद्धियोगाः । एवं भौमेऽश्विन्युत्तराभाद्रपदाकृत्तिकाश्लेषाः । ज्ञे बुधे रोहिण्यनुराधाहस्तकृत्तिकामृगाः । गुरौ रेवत्यनुराधाश्विनी पुनर्वसुपुष्याः । शुक्रे रेवतीपूर्वा फल्गुन्यश्विनीपुनर्वसुश्रवणाः । शनौ श्रवणरोहिणीस्वातीनक्षत्राणि सर्वार्थसिद्ध्यै समस्तकार्यसिद्ध्यै पूर्वैराचार्यैः कथितान्युक्तानि । अत्रैते सिद्धियोगाः 'दास्रादर्के मृगादिदौ' (श्रो० २५) इत्यादि - 1 १ शुक्रेऽत्यमैत्राश्ध्यदितिश्रवोभम् इति पाठः । Page #39 -------------------------------------------------------------------------- ________________ २३ उत्पातादियोगाः तत्फलं च] शुभाशुभप्रकरणम् । प्रकारेणानन्दादिसमीचीनयोगसंबंधिनक्षत्रैरुपनिबद्धाः । अत एवानयोः पद्ययोरार्षमूलाभावः । अमुमेवाशयं मनस्यभिसंधाय जगन्मोहनज्योति:सारसागरादिनिबन्धेषु स्वेच्छया न्यूनाधिकनक्षत्रैः सिद्धियोगा उक्ताः । तत्र भीमपराक्रमः-'मूलं रवी पुष्यकरोत्तराणि वेधा मृगांकः श्रवणं च सोमे । कृशानुपुष्योत्तरभानि भौमे बुधेऽनुराधा वरुणः कृशानुः ॥ बृहस्पतौ पुष्यपुनर्वसू च भगोऽश्विनी च श्रवणं च शुक्रे । शनैश्चरे स्वातिपितामही च योगाः किलैते शुभदायिनः स्युः ॥' इति । दीपिकायां च-'ध्रुवगुरुकरमूलपौष्णभान्यर्कवारे' इत्यादिभिर्नक्षत्रैः सिद्धियोगाभिधानं युक्तमेव । 'हस्तक्षमर्कवारेंदाविंदुभं प्रथमं कुजे । सौम्ये मित्रभमाचार्य पुष्यं पौष्णं भृगोः सुते । रोहिणी मन्दवारे तु सिद्धियोगाह्वया अमी' इति नारदोक्तवचनार्थोऽस्मिन्पद्ये उक्त एवेति स्वयं पुनर्नोक्तः ॥ २८ ॥ २९ ॥ अथोत्पातमृत्युकाणसिद्धियोगान् शालिन्याहद्वीशात्तोयाद्वासवात्पौष्णभाच ब्राह्मात्पुष्यादर्यमांद्युगक्षैः । स्यादुत्पातो मृत्युकाणौ च सिद्धिारेऽर्काये तत्फलं नामतुल्यम् ।। द्वीशादिति ॥ आदित्यवारादिषु क्रमात् द्वीशात्-विशाखातः, तोयभात पूर्वाषाढातः, वासवात् धनिष्ठातः, पौष्णभात् रेवतीतः, ब्राह्मात् रोहिणीतः, पुप्यादर्यमति-उत्तराफल्गुनीत आरभ्य, युगः चतुर्भिश्चतुर्भिर्नक्षत्रैः, क्रमादुत्पातमृत्युकाणसिद्धियोगाः स्युः। यथा, रवौ-विशाखा उत्पातः, मैत्रं मृत्युः, ज्येष्टा काणः, मूलं सिद्धिः। एवं सोमे-पूर्वाषाढा उत्पातः, उत्तराषाढा मृत्युः, अभिजित्काणः, श्रवणं सिद्धिः । भौमे-धनिष्ठोत्पातः, शततारका मृत्युः, पूर्वाभाद्रपदा काणः, उत्तराभाद्रपदा सिद्धिः । बुधे-रेवत्युत्पातः, अश्विनी मृत्युः, भरणी काणः, कृत्तिका सिद्धिः । गुरौ-रोहिण्युत्पातः, मृगो मृत्युः, आर्द्रा काणः, पुनर्वसुः सिद्धिः । शुक्र-पुष्य उत्पातः, आश्लेषा मृत्युः, मघा काणः, पूर्वाफल्गुनी सिद्धिः । शनौ-उत्तराफल्गुन्युत्पातः, हस्तो मृत्युः, चित्रा काणः, स्वाती सिद्धियोग इत्यर्थः । तदुक्तं नारदेन-'विशाखादिचतुर्वर्गमर्कवारादिषु क्रमात् । उत्पातमृत्युकाणाख्या योगाश्चामृतसंयुताः ॥' अमृतं-सिद्धिः । ननु चायं पुनरुक्तः श्लोकार्थः । आदित्यवारादिषु हि-'दास्रादर्के मृगादिंदौ' इत्यादिक्रमेणानंदादियोगगणनया उत्पातमृत्युकाणसिद्धियोगा एव संभवंति, नान्ये । किंच-'सूर्येऽर्कमूलोत्तरपुष्यदास्रम्' (श्लो० २८) इति मूलादीनामेव सिद्वियोगाभिधानात्त्र्युक्तिश्च । उच्यते-बालानां शीघ्रबोधनार्थं तथोक्तिः । अथवावश्यवा एते उत्पातमृत्युकाणाः सिद्धियोगोऽप्यतिप्रशस्त इत्येतदर्थ तथोक्तिः । ननु तर्हि देशभेदेन परिहारो वक्ष्यमाणोऽनुपपन्नः। सत्यम् । कार्यस्यावश्यकर्तव्यत्वे समीचीनदिनांतराप्राप्तावपवादप्रवृत्तिरिति युक्तमुत्पश्यामः । तत्फलमिति तेषामुत्पातमृत्युकाणसिद्धियोगानां फलं नामतुल्यम् । यस्य Page #40 -------------------------------------------------------------------------- ________________ : मुहूर्तचिंतामणिः । [शुभकृत्ये वय॑वस्तूनि योगस्य यादृशं नाम तद्योगसत्वे प्रारब्धकार्यफलमपि तादृशमेवेत्यर्थः । उक्तं च नारदेन–'योगाः स्वसंज्ञाफलदास्त्वष्टा विंशतिसंख्यकाः' इति ॥ ३० ॥ अथ दुष्टयोगानां देशभेदेन परिहारमनुष्टुभाह कुयोगास्तिथिवारोत्थास्तिथिभोत्था भवारजाः। हूणवंगखशेष्वेव वास्त्रितयजास्तथा ॥ ३१ ॥ - कुयोगा इति ॥ तिथिवारोत्थाः कुयोगाः दुष्टयोगाः क्रकचादयः, तिथिभोत्थाः='अनुराधा द्वितीयायाम्' (श्लो०२०) इत्यादयः । भवारजाः='याम्यं स्वाष्ट्र वैश्वदेवम्' (श्लो० ५) इत्यादयः, तथा त्रितयजा तिथिवारनक्षत्रजाः 'घर्जयेत्सर्वकार्येषु हस्ताकं पंचमीतिथौ' (लो० १२ ) इत्येवमादयस्ते सर्वे दुष्टयोगा हूणवंगखशेष्वेव । हूणवंगौ-याच्यदेशौ । खशो देश उत्तरस्यां दिशि प्रसिद्धस्तत्रैते वाः । अन्यदेशेषु निषिद्धा न भवंतीत्यर्थसिद्धमेव । उक्तं च नारदेन–'तिथिवारोद्भवा नेष्टा योगा वारर्भसंभवाः । हूणवंगखशेभ्योऽन्यदेशेष्वेते शुभप्रदाः ॥' इति । अथ तिथिवारयोरिक्षयोश्च युतेरुपलक्ष्यत्वादन्ययुतावपि परिहारो शेयः॥३१॥ अथ समस्तशुभकृत्ये वयंपदार्थान् शार्दूलविक्रीडितेनाह- सर्वस्मिन्विधुपापयुक्तनुलवावर्धे निशाह्वोर्घटी- व्यंशं वै कुनवांशकं ग्रहणतः पूर्व दिनानां त्रयम् । उत्पातग्रहतोऽयहांश्च शुभदोत्पातैश्च दुष्टं दिनं __षण्मासं ग्रहभिन्नभं त्यज शुभे यौद्धं तथोत्पातभम् ॥३२॥ - सर्वस्मिन्निति ॥ हे पंडित ! सर्वस्मिन् शुभे कार्ये एतानि वस्तूनि वै निश्चयेन त्यज परिहरेत्यर्थः । कानीत्यत्राह-विध्विति । विधुः चंद्रः, पापा:= क्षीणचंद्रसूर्यभौमशनयः । 'क्षीणेद्वर्कमहीसुतार्कतनयाः पापा बुधस्तैर्युतः' इति वराहोक्तेः। राहुकेत्वोरपि पापत्वं दीपिकायामुक्तम्-'अोनेंद्वर्कसौराराः पापा ज्ञस्तैर्युतोऽपरे । शुभाः पापौ तमःकेतू विष्णुधर्मोत्तरोदितौ ॥' इति । वसिष्ठेनापि–'सूर्यभौमशनिराहुकेतवः पापसंज्ञखचराः क्षयिचंगः । पूर्णचंद्रगुरुशुक्रसोमजाः सर्वकर्मसु हि सौम्यखेचराः ॥' इति । तत्र विधुना पापेन वा पापैर्वा युक्तौ तनुलवौ लग्ननवांशी त्यज । 'पूर्णः क्षीणोऽपि वा चंद्रो लग्ने सर्वत्र गर्हितः' इति कश्यपोक्तेः । श्रीपतिश्च–'सर्वार्थसिद्धिषु शशी न शुभो विलग्ने' इति । दैवज्ञमनोहरे गुरुः-'पापेंदू लग्नगौ त्याज्यौ सर्वेण शुभकर्मसु । अक्षीणं कर्किगोजस्थं केऽप्याहुर्लग्नगं शुभम् ॥' इति । अथ निशाहोरर्धे राज्यर्धे दिनार्धे च घटीत्र्यंशं विंशतिपलानि दश पूर्व दश पश्चाच्च पलानि त्यज । उक्तं च शाीये-'मूर्तः कालो निवसति महानिशायां च दिनदले यस्मात् । दश पूर्व दश परतस्तस्माद्वानि च पलानि ॥' इति । अथो कुनवांशकं पापग्रहनवांशं त्यज । यदाह नारदः-'क्रूरोग्रांशा Page #41 -------------------------------------------------------------------------- ________________ ग्रहणे कार्यावश्यकत्वे परिहारः] शुभाशुभप्रकरणम् । २५ न च ग्राह्या न शस्तास्ते नवांशकाः । कुनवांशकलग्नं यत्त्याज्यं सर्वगुणान्वितम् ॥' इति । क्रूरैः क्रूरग्रहैरुग्रा भयजनका अंशा नवांशा न ग्राह्या इत्यर्थः। अथ ग्रहणतः पूर्व दिनानां त्रयं त्यज । ग्रहणतः सूर्यचंद्रग्रहणदिनात्प्रथमं दिवसत्रयं त्याज्यम् । यदाह गर्गः-'चंद्रसूर्योपरागेषु त्र्यहं प्रागशुभं भवेत् । सप्ताहमशुभं पश्चात्स्मृतं ग्रहणशूलकम् ॥' इति । उपरागः-ग्रहणम् । 'उपरागो ग्रहो राहुग्रस्ते त्विंदौ च पूणि च' इत्यमरोक्तेः । अथ उत्पातग्रहतोऽयहांश्च । उत्पातो नाम स्वभावतो वैपरीत्यम् । यदाह वराहः-'तेषां संक्षेपोऽयं प्रकृतेरन्यथात्वमुत्पातः' इति । ते चोत्पातास्त्रिविधाः-दिव्याः, आंतरिक्षाः, भौमाश्च । तत्र दिव्यःकेत्वादिः, आंतरिक्षः-गंधर्वनगरादिः, भौमः-भूमिकंपादिः । एतदप्याह वराहः-'अपचारेण नराणामुपसर्गः पापसंचयाद्भवति । संसूचयंति दिव्यांतरिक्षभौमास्तमुत्पाताः॥ दिव्यं ग्रहसंवैकृतमुल्कानिर्घातपवनपरिवेषाः। गंधर्वपुरपुरंदरचापादि यदांतरिक्षं तत् । भौमं चरस्थिरभवं तच्छांतिभिराहतं शममुपैति ॥' इति । ते ह्युत्पाता यस्मिन् दिने स्युस्तद्दिनमारभ्य अग्रहान् सप्त दिनानि त्यज। यदाह नारदः–'उत्पातग्रहणादूवं सप्ताहं निखिलग्रहे' इति। दीपिकायां च—'अनिष्टे त्रिविधोत्पाते सिंहिकासूनुदर्शने । सप्तरात्रं न कुर्वीत यात्रोद्वाहादिमंगलम् ॥' इति ।--'अनिष्टे अकालवृष्टयादिदूषिते काले' इति तट्टीकाकारो व्याख्यत् । अव्यहानिति अद्रयश्च तान्यहानि चेति कर्मधारयसमासे 'राजाहःसखिभ्यष्टच्' इति समासांते टचि कृते 'नस्तद्धिते' इति टिलोपे च 'रात्राहाहाः पुंसि' इति पुंलिंगत्वम् । अत एव 'वाहाः प्रदेया अविशुद्धशुद्धौ' इत्यादयः प्रयोगा उपपद्यन्ते । तथा ग्रहतो ग्रहणत ऊर्ध्व सप्त दिनानि त्यज। अत्र ग्रहणशब्देन सर्वग्रहणं विवक्षितम् । ततो न्यूनत्वे त्रैराशिकम् । यदाह वसिष्ठः-'सर्वग्रासे दिनान्यष्टौ सर्वकार्येषु वर्जयेत् । षद दिनानि त्रिभागोने अर्धग्रासे चतुर्दिनम् ॥ चतुर्थांशे त्रिरात्रं स्याग्रहणे चंद्रसूर्ययोः ॥' इति । नारदोऽपि—'निःशेषे सप्त सप्त च' इत्याह । एतच्च यद्यप्यविशेषेणोक्तं तथापि ग्रहणादनंतरमेव ज्ञेयम् । 'उत्पातग्रहणादूर्ध्व सप्ताहं निखिलप्रहे' इति तस्यैवोक्तेः । अंगिरा अपि-'सर्वग्रासे तु सप्ताहमर्धग्रासे दिनत्रयम् । त्रिध्येकांगुलतो ग्रासे दिनमेकं तु वर्जयेत् ॥' इति । अनयोर्वाक्ययोविषयव्यवस्था देशभेदेनाचारभेदादवगंतव्या । क्वचित्सामान्यतो दिनसप्तकमुक्तम् । यदाह गर्गः–'सूर्यचन्द्रोपरागौ द्वौ महादोषाह्वयावुभौ । सप्तरात्रं तयोरूवं सर्वशोभननाशनम् ॥' इति । एतदपि सर्वग्रासपरतया योज्यम् । शाीयविवाहपटले चन्द्रस्य सर्वग्रासे उभयतो दिनसप्तकं त्याज्यमित्युतम्-'कृत्स्नचन्द्रग्रहे त्याज्यं प्राक् पश्चादिनसप्तकम्' इति । उत्पातविशेषे ग्रहणे च बहूनि दिनानि वान्याहुः । यदाह चंडेश्वरः-'ग्रहे रवींद्वोरवनिप्रकंपे केतूद्गमोल्कापतनादिदोषे । व्रते दशाहानि वदंति तज्ज्ञास्त्रयोदशाहानि वदंति केचित् ॥' इति । ग्रहणे तु कार्यस्यावश्यकत्वविशेष परिहार उक्तो ज्योतिर्निवंधे-'पञ्च दिनानि वसिष्टस्त्रिदिनं गर्गस्तु कौशिकस्त्वेकम् । ३ मु० चि० Page #42 -------------------------------------------------------------------------- ________________ २६ .: मुहूर्तचिंतामणिः । [उत्पातनक्षत्रत्यागे कालमर्यादा यवनाचार्यस्य मतं पंच मुहूर्ताश्च दूषयति राहुः ॥' इति । अयं च ग्रहणीयो निषेधो नित्यनैमित्तिकादिकृत्यव्यतिरिक्तविषयः । यदाह गुरुः–'नित्ये नैमित्तिके काम्ये जपहोमक्रियासु च । उपाकर्मणि चोत्सर्गे ग्रहवेधो न वियते॥' इति । ग्रहः अहणम् । अथ शुभदोत्पातैश्च दुष्टं दिनं त्यज । शुभं कल्याणं ददति लोकेभ्य इति शुभदा एतादृशा ये उत्पाता वसंतातुपुरस्कारेणोत्पातविशेषाः शुभा इत्युक्तम् । तादृशैरुत्पातैर्दुष्टं दूषितं दिनं द्वित्वातिरिक्तसंख्याविशेषानवगमादेकत्वस्य च प्रतीतेरेकं दिनं त्याज्यमित्यर्थः। अत्र हेतुः शुभदत्वमुत्पातानाम् । शुभदोत्पातानाह ऋषिपुत्रकृतैः श्लोकैर्वराहः'वज्राशनिमहीकंपाः संध्यानिर्घातनिःस्वनाः । परिवेषरजोधूमरक्तास्तिमनोदयाः ॥ द्रुमेभ्योऽनरसस्नेहमधुपुष्पफलोद्माः । गोपक्षिमधुवृद्धिश्च शिवाय मधुमाधवे ॥ तारोल्कापातकलुषं कपिलादुमंडलम् । अनग्निज्वलनास्फोटधूमरेखानिलाकुलम् ॥ रक्तपझारुणं सांध्यं नभः क्षुब्धार्णवोपमम् । सरितां चांबुसंशोषं दृष्ट्वा ग्रीष्मे शुभं भवेत् ॥ शक्रायुधपरीवेषविद्युच्छुष्कविरोह- . णम् । कंपोद्वर्तनवैकृत्यं रसनं दारणं क्षितेः ॥ नधुदपानसरसां वृक्ष्यतरणप्लवाः । शीरणं चाद्रिगेहानां वर्षासु न भयावहम् ॥ दिव्यस्त्रीभूतगंधर्वविमानाद्भुतदर्शनम् । ग्रहनक्षत्रताराणां दर्शनं च दिवांबरे ॥ गीतवादित्रनिर्घोषो वनपर्वतसानुषु । सस्यवृद्धिरपां हानिरपापाः शरदि स्मृताः । शीतानिलतुषारत्वं नर्दनं मृगपक्षिणाम् । रक्षोयक्षादिसत्त्वानां दर्शनं वागमानुषी ॥ दिशो धूमांधकाराश्च सनभोवनपर्वताः । उच्चैः सूर्योदयेऽस्ते च हेमंते शोभनाः स्मृताः ॥ हिमपातानिलोत्पातविरूपाद्भुतदर्शनम् । कृष्णांजनाभमाकाशं तारोल्कापातपिंजरम् ॥ चित्रगर्भोद्भवाः स्त्रीषु गोऽजाश्वमृगपक्षिषु। पत्रांकुरलतानां च विकाराः शिशिरे शुभाः ॥ ऋतुस्वभावजा ह्येते दृष्टाः स्वतौं शुभप्रदाः । ऋतोरन्यत्र चोत्पाता दृष्टास्ते भृशदारुणाः॥' इति । अथ ग्रहभिन्नभं ग्रहैभौंमादिभिः पंचभिभिन्नं सिद्धांतोक्तरीत्या भेदयोगं प्राहमेतादृशं भं नक्षत्रं त्यज । तथा यौद्धं यन्नक्षत्रं भौमादिपंचग्रहयुद्धमध्यपतितं सहश्यते तत्त्यज । तत्र क्रूरयोगादेव दोषसत्त्वे युद्धोपघातस्तु दोषाधिक्यसूचनार्थः । सौम्यग्रहयुद्धे तु स एव दोषः । अत्र केचित्-यस्मिन् दिननक्षत्रे भौमादीनां युद्धं जातं तन्नक्षत्रं त्याज्यामित्याहुः; तन्न, प्रमाणाभावात् । तथोत्पातभमुत्पातैर्दिव्यांतरिक्षभौमैर्दूषितं भं त्यज । अयमर्थः-भौमांतरिक्षयोरुत्पातयोग्रहयुद्धवत्प्रत्यक्षदृश्यनक्षत्राभावाद्दिननक्षत्रमेव त्याज्यम् । दिव्योत्पाते तु केत्वादिना प्रत्यक्षतो यन्नक्षत्रमाक्रांतं तत्त्याज्यम् , भौमांतरिक्षोत्पातसाहचर्याद्दिननक्षत्रमपि त्याज्यम् । एवं नक्षत्रचतुष्टयं षण्मासम् । 'कालाध्वनोरत्यंतसंयोगे' इति द्वितीया। षण्मासमभिव्याप्येत्यर्थः। यदुक्तं शाीयविवाहपटले'क्रूरैर्भुक्तं युक्तं भोग्यं च तथैव खेटयुद्धगतम् । ग्रहभिन्नकेतुहतभं त्यजेन्महोत्पातदुष्टं यत् ॥ यदाहुसंदर्शनदुष्टमृक्षं शीतांशुयुक्तं च विवाहलग्नम् । आमासषट्कं विदधीत तस्मिन्विवाहयात्रादि शुभं न चैव ॥' इति । नारदोऽपि-ग्रह Page #43 -------------------------------------------------------------------------- ________________ ग्रहणीयनक्षत्रादिवर्ण्य कालः] शुभाशुभप्रकरणम् १ | णोत्पातभं त्याज्यं मंगलेषु ऋतुत्रयम्' इति । मंगलेषु ऋतुत्रयमित्यत्र 'ऋत्यकः' इति प्रकृतिभावः । गुरुरपि - 'उत्पातैः पीडितास्ताराः षण्मासैः प्रकृतिं ययुः । राहुकेतुविभुक्तं यदृक्षचक्रं निपीडितम् ॥ वत्सरार्धेन शुध्येत ग्रहयुद्ध - गतं च भम् । नक्षत्रग्रहयोगेन यदुक्तं दोषसंचयम् ॥ तदिदं सर्वकार्येषु शुभेषु परिवर्जयेत् ॥' इति । ग्रहयुद्धभेदाश्चत्वारः - भेदः, उल्लेखः, अंशुविमर्दनं, अपसव्यं चेति । यथाह वराहः – 'आसन्नक्रमयोगाद्भेदोल्लेखांशुमर्दनासव्यैः । युद्धं चतुष्प्रकारं पराशराद्यैर्मुनिभिरुक्तम् ॥' इति । तल्लक्षणानि सूर्यसिद्धांते— 'उल्लेखस्तारकास्पर्शाद्भेदे भेदः प्रकीर्त्यते । युद्धमंशुविमर्दाख्यमंशुयोगे परस्परम् ॥ अंशादूनेऽपसव्यं स्याद्युद्धमेकोऽत्र चेदणुः ॥' इति । ननु ग्रहयुद्धादिकं सिद्धांतविरुद्धम् । यतः — 'कक्षाः सर्वा अपि दिविषदां चक्रलिप्तांकितास्ता वृत्ते लध्ध्यो लघुनि महति स्युर्महत्यश्च लिप्ताः । तस्मादेते शशिजभृगुजादित्यभौमेज्यमन्दा मन्दाक्रांता इव शशधराद्भांति यांतः क्रमेण ॥ इति भास्कराचार्योक्तेर्महांतरोर्ध्वाधो भावेनावस्थितानां ग्रहाणां युद्धासंभव एव । लोके हि समीपवर्तिनोः पुंसोर्युद्धादि दृश्यते, तत्कथमियमत्र शास्त्रे ग्रहयुद्धोक्तिः ? सत्यम् । अत्र युक्तिपुरःसरं वराह एवं समादधाति स्म - ‘वियतिचरग्रहाणामुपर्युपर्यात्ममार्गसंस्थानाम् । अतिदूराद्दृग्विषये समतामिव संप्रयातानाम् ॥ आसन्नक्रमयोगाद्भेदोलेखांशुमर्दनासव्यैः । युद्धं चतुप्रकारं पराशराद्यैर्मुनिभिरुक्तम् ॥' इति । तेन भूवर्तिनां राज्ञामन्येषां वा शुभाशुभफलसूचनार्थं युद्धसमागमाद्युक्तिः । उक्तं च सूर्यसिद्धांते - 'भावाभावाय लोकानां कल्पनेयं प्रदर्शिता । स्वमार्गतः प्रयात्येते दूरमन्योन्यमार्गतः ॥' इति । ननु यथा ग्रहणं तिथिसंधौ भवति तथा नक्षत्रद्वयसंधौ जायमानं किं नक्षत्रं दूषयति, किं परं किं पूर्वं किमुभयमिति ? अविशेषादुभयमिति वयं ब्रूमः । यदुक्तं शार्ङ्गयविवाहपटले – ' यस्मिन् विधुं राहुरिनं च गृह्णाति तत्याज्यमृतुत्रयं स्यात् । पाणिग्रहे पुंमरणं विधत्ते द्वयोर्भयोश्चेयमेव जह्यात् ॥' इति । अथासन्नपक्षद्वयग्रहणे किं द्वयोस्त्यागः षण्मासमुत कस्यचित्कश्चिद्विशेषः ? अयमपि निर्णयस्तत्रैवाभ्यधायि पक्षांतरेण ग्रहणद्वयं च यदा तदादिग्रहणोपगं भम् । पक्षाद्विशुद्धं भवति द्वितीयं पाणिग्रहे शुध्यति भोगषट्कात् ॥' इत्यलमतिप्रसंगेन ॥ ३२ ॥ " अथ ग्रासभेदेन कियत्संख्याकेषु मासेषु ग्रहणीयनक्षत्रनिषेधं तथा प्रागादिदिवसांश्च निषिद्धानिंद्रवज्रा छन्दसाहनेष्टं ग्रहक्षं सकलार्धपादग्रासे क्रमातर्कगुणेंदुमासान् । - २७ पूर्वं परस्तादुभयस्त्रिघखा ग्रस्तेऽस्तगे वाभ्युदितेऽर्धखंडे ॥ ३३ ॥ नेटमिति । ग्रह ग्रहणनक्षत्रं क्रमात्संपूर्णार्धचतुर्थांशग्रासे सति षट्त्र्येकमासान् नेष्टम् । यथा - ग्रहणभं सर्वग्रासे मासषट्कं, अर्धग्रासे मासत्रयं, चतुर्थांशग्रासे मासमेकं त्यजेदित्यर्थः । यदाह गुरुः - 'सर्वग्रासे तु षण्मासांस्त्रीन् Page #44 -------------------------------------------------------------------------- ________________ २८ - मुहूर्तचिंतामणिः । [जन्मादयः सर्वत्र वाः मासांश्च दलग्रहे। आपादग्रहणे धिष्ण्यं मासमेकं विवर्जयेत् ॥' इति। अथ पूर्वमिति । क्रमादित्यनुवर्तत एव । अत्रापि प्रस्तेऽस्तगे ग्रस्तास्ते पूर्व विघस्रास्त्रिदिन नेष्टम् । पूर्व न सम्यक् त्रिदिनमित्यर्थः । अर्थादग्रेतनानि दिनानि समीचीनानि । तथा ग्रस्तेऽभ्युदिते ग्रस्तोदये परस्तात्पश्चात्रिदिनं नेष्टं पूर्व सम्यक् त्रिदिनमित्यर्थः । तथा अर्धखंडे प्रस्तोदयग्रस्तास्तयोरभावेऽपि अर्धनासे बिंबमानादर्धग्रासे उभयोः कालयोः प्राक्पश्चानिदिनं नेष्टम् । यदाह गुरुः-'प्रस्तास्ते त्रिदिन पूर्व पश्चाद्रस्तोदये तथा। खंडग्रासे वित्रिदिनं निःशेषे सप्त सप्त च ॥' इति । कश्यपोऽपि-'ग्रस्तोदये परो दोषो प्रस्तास्तेऽर्वाक् शशीनयोः । द्युनिशार्धे तूभयं स्यात् खंडिखंडव्यवस्थयोः ॥' इति । वसिष्ठोऽपि-प्रस्तोदये चोर्ध्वमनिष्टमादौ ग्रस्तास्तमानेऽप्युडुमासषट्कम् ॥' इति । अतः खण्डग्रहणादिसद्भावेऽपि ग्रस्तोदयग्रस्तास्तत्वाभावात्पूर्व पश्चाञ्चोक्तदिनानि वानीति सर्वत्र विषयविवेकः ॥ ३३॥ · अथ सामान्यतोऽवश्यवानि पंचांगदूषणादीनि वसंततिलकयानुष्टुभा चाह । जन्मक्षमासतिथिप्रभृतयः पदार्थाः सर्वेषु कर्मसु वा इति द्वितीयश्लोकेनान्वयः । तान् पदार्थानाह जन्मक्षमासतिथयो व्यतिपातभद्रा वैधृत्यमापितृदिनानि तिथिक्षयी । न्यूनाधिमासकुलिकप्रहरार्धपाता विष्कंभवज्रघटिकात्रयमेव वय॑म् ॥ ३४ ॥ परिघाधं पंच शूले षट् च गंडातिगंडयोः। व्याघाते नव नाड्यश्च वाः सर्वेषु कर्मसु ॥ ३५ ॥ • जन्मङ्केति ॥ यस्मिन्नक्षत्रे जन्म भवेत्तजन्मक्षं, यस्मिन् मासे जन्म भवेत् स जन्ममासः, यस्यां तिथौ जन्म भवेत् सा जन्मतिथिः, एते वाः । तदाह वसिष्ठः-'स्वजन्ममासःतिथिक्षणेषु वैनाशिकावृक्षगणेषु भेषु । नोद्वाहमात्माभ्युदयाभिलाषी नैवाद्यगर्भद्वितयं कदाचित् ॥' अयं च जन्मनक्षत्रमासतिथिनिषेध आद्यगर्भस्यैव । यदाह नारदः-'जन्ममासे न जन्मः न जन्मदिवसेऽपि वा । आद्यगर्भसुतस्यापि दुहितुर्वा करग्रहः ॥' इति । अनेनाद्यगर्भव्यतिरिक्तकन्यायास्तादृशवरस्य च जन्मर्भमासतिथिषु शुभफलत्वमुक्तं भवति । अत एवाह च्यवनः-'जन्मः जन्ममासे वा तारायामथ जन्मनि । जन्मलग्ने भवेदूढा पुत्राढ्या पतिवल्लभा ॥' इति । अथ जन्ममासलक्षणम् । जगन्मोहने वृद्धगर्गः-'आरभ्य जन्मदिवसं यावत्रिंशद्दिनं भवेत् । स जन्ममासो विज्ञेयो गर्हितः सर्वकर्मसु ॥' इति । अस्यापि विशेषस्तत्रैव-'जातं दिनं दूषयते वसिष्ठः पंचैव गर्गस्त्रिदिनं तथाऽत्रिः । तजन्मपक्षं किल भागुरिश्च व्रते विवाहे गमने क्षुरे च' इति । वस्तुतस्तु-यस्मिंश्चान्द्रमासे चैत्रादौ Page #45 -------------------------------------------------------------------------- ________________ तिथिक्षयतिथिवृद्धिपरिहारः] शुभाशुभप्रकरणम् । २९ जन्माभूत्स चांद्रमासो जन्ममासतया त्याज्य इति युक्तमुत्पश्यामः । 'इंद्राग्नी यत्र हूयेते मासादिः स प्रकीर्तितः। अग्नीषोमौ स्थिती मध्ये समाप्तौ पितृसोमकौ ॥' इति हारीतवचनात् । 'उपवासव्रतोद्वाहयात्राक्षौरोपनायनम् । तिथिवर्षादि निखिलं चांद्रमानेन गृह्यते ॥' इति कश्यपोक्तेश्च । अथात्र तिथिशब्दो वसिष्टवाक्यस्वरसादुक्तः । अत एव नारदसंहितायां रत्नमालादिग्रंथेषु च दिवसपदं तिथिपरं व्याख्येयम् । अन्यथा जन्मवारेऽप्यतिप्रसंगः स्यात् । अथ व्यतीपातो वर्यः । सप्तविंशतियोगेषु व्यतीपातो नाम योगः स्पष्टसूर्यचंद्रयोगजन्मा सप्तदशसंख्याको निंद्यः । उक्तं च वसिष्टेन-'सवैधृतो यो व्यतिपातयोगः सर्वोऽप्यनिष्टः परिघार्धमाद्यम् ।' इति । तथा भद्रा वा, भद्रा सप्तमं करणं वर्ण्यम् । यदाह वसिष्टः-'न कुर्यान्मंगलं विष्टयां जीवितार्थी कदाचन । कुर्वन्नज्ञस्तदा क्षिप्रं तत्सर्वं नाशतां व्रजेत् ॥' इति । भद्राप्रवृत्तिरंगविभागकल्पनं च विशेषतोऽग्रे वक्ष्यते। तथा वैशतिः पूर्वलक्षणलक्षितः सप्तविंशतिसंख्याको योगो निंद्यः । अत्र संमतिः पूर्वमुक्ता । अथ 'नामैकदेशे नामग्रहणम्' इति न्यायमनुसृत्य 'भीमो भीमसेन' इत्यादिवत् अमा अमावास्या निंद्या । 'सदैव दर्श पितृकर्म चैव नान्यद्विधेयं शुभपौष्टिकाद्यम् । मूढैः कृतं यच्च शुभोत्सवाद्यं विनाशमायात्यचिरादृशं तत् ॥' इति वसिष्ठोक्तेः । अथ पितृदिनं माता च पिता च पितरौ, 'पुमान् स्त्रिया' इत्येकशेषः, पित्रोदिन3 मातापित्रोर्मरणदिनं । श्राद्धदिनमिति यावत् । तदपि निषिद्धम् । यदाह शार्ङ्गधरः-'भद्रार्धयामकुलिकं व्यतिपातं वैशतिं च परिघार्धम् । क्रांतिसमत्वं जह्यासंक्रांति क्षयदिनं पित्रोः ॥' इति । अथ तिथिक्षयी वज्र्ये । क्षयश्च ऋद्धिश्च क्षयर्डी, तिथेः क्षय तिथिक्षयर्डी; तिथिक्षयस्तिथिवृद्धिश्चैते वयें । अनयोः प्रसिद्धत्वाल्लक्षणं नोक्तम् । तत्र तिथिक्षयलक्षणम् । यत्र यो वारस्तिथिद्वयांतं स्पृष्ट्वा तृतीयतिथेः कंचिदादिमभागमपि स्पृशति तत्र वारे मध्यमा तिथिः क्षयसंज्ञा। यथा-नवमी रवौ घटिकाद्वयं पुनर्दशमी रवौ षट्पंचाशद्धटिकाः ५६ एकादश्याश्च घटिकाचतुष्टयं रविवारेण सह संबद्धमिति दशमीतिथिःक्षयसंज्ञिता अवमसंज्ञितेत्यपि चाहुः ॥ अथ तिथिवृद्धिलक्षणम् । यत्र या तिथिर्वारद्वयांतं स्पृष्ट्वा तृतीयवारस्यादिमं कंचिद्भागं स्पृशति तत्र सा तिथिर्वृद्धिसंज्ञा त्रिद्युस्मृगित्यपि चेत्याहुः। यथा-तृतीया रवौ अष्टपंचाशद्धटिकाः ५८, ततश्चतुर्थी सोमे षष्टिघटिकाः ६०, ततो भौमवासरे चतुर्थी घटिकात्रयं ३, अतश्चतुर्थी वारत्रयसंबंधात्तिथिर्वृद्विसंज्ञा । यदाह वसिष्ठः-'स्युस्तिस्रस्तिथयो वारे एकस्मिनवमा तिथिः। तिथिर्वारत्रयं चैका त्रिद्युस्पृक् द्वेऽतिनिंदिते ॥ कृतं यन्मगलं तत्र विद्युस्मृगवमे दिने । भस्मीभवति तत्क्षिप्रमग्नौ सम्यग्य/धनम् ॥' इति । द्वेऽतिनिंदिते इत्यत्र संधिस्त्वार्षः। यत 'ईदेविवचनं प्रगृह्यम्' इति प्रगृह्यसंज्ञायां संध्यभावप्रसक्तः । अथ शुभकृत्यावश्यकत्वे तिथिक्षयतिथिवृद्ध्योः परिहारमाह दोषापवादाध्याये वसिष्ठः- 'अवमाख्यं तिथेदोष केंद्रगो देवपूजितः । हंति यद्वत्पापचयं व्रतं द्वैवार्षिकं यथा ॥ त्रिद्युस्मृगाह्वयं दोषं सौम्यः केंद्गतः सदा । हंति यद्वत्पापचयमशून्यशयनव्रतम् ॥' इति । अथ न्यूनाधि Page #46 -------------------------------------------------------------------------- ________________ मुहूर्तचिंतामणिः । [महापातमध्यकालो वर्ण्यः मासौ क्षयमासाधिकमासौ वज्यौं । 'असंक्रांतिमासोऽधिमासः स्फुटं स्थाविसंक्रांतिमासः क्षयाख्यः कदाचित्' इति द्वयोरपि लक्षणं सिद्धांतशिरोमणावभिहितम् । ग्रंथकृदपि संक्रांतिप्रकरणे (श्लो० २०)-'स्पष्टार्कसंक्रांतिविहीन उक्तो मासोऽधिमासः क्षयमासकस्तु । द्विसंक्रमः-' इति वक्ष्यति । एतच्च तत्रैव सम्यव्याख्यास्यते । तदुक्तं वसिष्ठसंहितायाम्-'यस्सिन्दर्शस्यांतादर्वागेवापरं दर्शम् । उल्लंध्य भवति भानोः संक्रांतिः सोऽधिमासः स्यात् ॥ आद्यंतदर्शयोर्मध्ये भानोरेवांतयोर्यदा । संक्रांतिद्वितयं स्याञ्चेन्यूनमासः स उच्यते ॥ मासप्रधानाखिलमेव कर्म मुक्त्वाखिलं कर्म न कार्यमत्र । यज्ञोपवासव्रततीर्थयात्राविवाहकर्मादि विनाशमेति ॥' इति । अथ कुलिकः वारसंबंधी मुहूर्तदोषो वर्त्यः। तथा प्रहरार्ध वारसंबंधेनार्धयामा वाः । यदाह वसिष्ठः"निधनं प्रहरार्धे तु निःस्वत्वं यमघंटके । कुलिके सर्वनाशः स्याद्रात्रावते न दोषदाः ॥' इति । कुलिकादीन् दोषान् ग्रंथकृदने वक्ष्यति । अथ पातो महापातो महागणितसाध्यो व्यतीपातनामको वैश्तिनामकश्च वयः । यदाह नारदः-'यस्मिन्दिने महापातस्तद्दिनं वर्जयेच्छुभे । अपि सर्वगुणोपेतं दंपत्योर्मरणप्रदम् ॥' इति । कश्यपोऽपि-'महावैधतिपाताभ्यां दूषितं लग्नमुत्तमम् । राजावधूतं पुरुष यद्वत्तसंपरित्यजेत् ॥' इति । पात: व्यतीपातः । महाशब्दः प्रत्येकमभिसंबध्यते । महावैधतिर्महाव्यतीपातश्च ताभ्यामित्यर्थः । महापातो नाम रवींदुक्रांतिसाम्यम् । तदानयनं तु गणितग्रंथेभ्यः सूर्यसिद्धांतादिभ्यो ज्ञेयम् । ततो महापातकालं निर्णीय तत्कालस्यातिसूक्ष्मत्वात्कस्मिन्काले मंगलकृत्यं निषिद्धमित्याशंक्य महापातस्थितिकालानयनमप्युक्तं तत्रैव । तत्प्रयोजनं सूर्यसिद्धांते-'आद्यंतकालयोर्मध्ये कालो ज्ञेयोऽतिदारुणः। प्रज्वलज्वलनाकारः सर्वकर्मसु गर्हितः॥ नानदानजपश्राद्धव्रतहोमादिकर्मसु । प्राप्यते सुमहच्छ्रेयस्तत्कालज्ञानतस्तथा ॥' इति । आयंतकालौ-स्पर्शमोक्षस्थितिरूपौ । सिद्धांतशिरोमणावप्युक्तम्-'पातस्थितिकालांतर्मगलकृत्यं न शस्यते तज्ज्ञैः । नानजपहोमदानादिकमत्रोपैति खलु वृद्धिम् ॥' इति । यत्तु वसिष्ठेनोक्तम्-'महापातो वैधतिश्च उपरागसमस्तदा। तस्माद्दिनत्रयं त्याज्यं मध्यपूर्वापराभिधम् ॥' इति । वराहेणापि बृहद्यात्रायामुक्तम्-'एष्यो धनं क्षपयति व्यतिपातयोगो मृत्युं ददाति नचिरादपि वर्तमानः। संतापशोकगदविघ्नभयान्यतीतस्तस्मादिनत्रयमपि प्रजहीत विद्वान् ॥' इति तदेतद्वचनद्वयमपि महापातोपयोगिगणिताशक्त्या कदा महापातः स्यादिति सूक्ष्ममहापातस्थितिकालाऽज्ञानाद्विवाहप्रकरणे (श्लो०५९) पंचास्याजौ' इति वक्ष्यमाणरीत्या महापातसंभावनापरया पातदिवसं निर्णीय पूर्वापरवर्तमानदिनानां त्यागपरमिति प्रतिभाति । 'यस्मिन्दिने महापातस्तदिनं वर्जयेच्छुभे' इति नारदवाक्यमप्येवमेव व्याख्येयम् । यदा तु महापातस्य स्थितिरूपसूक्ष्मकालज्ञानं स्यात्तदा 'स्थूलात् सूक्ष्मं ज्यायः' इति न्यायेन स एव पातमध्यकालो विवाहादिमंगलकृत्येषु त्याज्यः, अन्यथा गणितग्रंथेषु पात• १ आद्यंतदर्शयोः अंतयोर्मध्ये एकस्मिन्मासे इत्यर्थः । Page #47 -------------------------------------------------------------------------- ________________ पंचांगशुद्धिः ] शुभाशुभप्रकरणम् १ | स्थितिकालानयनस्य वैयर्थ्यप्रसंग इति निष्कृष्टोऽर्थः । विष्कंभेति । विष्कंभवज्रयोगयोः प्रथमातिक्रमे कारणाभावादादिमं घटिकात्रयमेव वर्ज्यम् । तथा परि'घस्य परिघाख्ययोगस्य घटिकानामाद्यमर्थं त्रिंशद्वटिकात्मकं त्याज्यम् । शूले पंचादिमा घट्यो वर्ज्याः । गंडातिगंडयोगयोरादिमाः षड् नाड्यो वर्ज्याः । व्याघातयोगे नवादिमा नाड्यो वर्ज्याः । यदाह श्रीपतिः - 'परिघस्य चार्धम् । तिस्रस्तु योगे प्रथमे सवज्रे व्याघातसंज्ञे नव पंच शूले । गंडेऽतिगंडे च षडेव नाड्यः शुभेषु कार्येषु विवर्जनीयाः ॥' इति । ननु 'सवज्रे' इदं कस्य विशेषणं-प्रथमयोगस्य वा व्याघातयोगस्य वा ? भिन्नभिन्नघटिकानिर्देशादुभयोस्तद्विशेषणमयुक्तम् । अत्र ब्रूमः - प्रथमस्यैव विशेषणम्, वज्रयोगसहिते प्रथमयोगे विष्कंभयोगे तिस्रो नाड्यो वर्ज्या इत्यर्थः । किमत्र प्रमाणम् ? इति चेच्छृणु- कश्यपादिवाक्यस्वरसात् । यदाह कश्यपः - ' - 'विष्कंभवज्रयोस्तिस्रः षट् च गंडातिगंडयोः । व्याघाते नव शूले तु पंच नाड्यस्तु गर्हिताः ॥ ' इति । नारदोऽप्येवमेव । अनेन – विष्कंभादिघटीत्रयं च नवकं व्याघातवज्रोद्भवम्' इति वदन् महेश्वरः प्रत्याख्यातो भवति । एवं च - - " विष्कंभाद्यत्रिनाडीः शुभकृतिषु च षट् गंडयोः पंच शूले व्याघाते वज्रकेंऽकाः' इति केशवज्योतिर्विदुक्तिरपि चिंत्या ॥ ३४ ॥ ३५ ॥ । अथ पक्षरंध्रतिथीरावश्यकत्वे सति तन्निष्ठवर्ज्यघटीश्चानुष्टुभाह ३१ वेदांगाष्टनवाकेंद्रपक्षरन्ध्रतिथौ त्यजेत् । वस्वकमनुतत्त्वाशाशरा नाडीः पराः शुभाः ।। ३६॥ वेदांगेति ॥ चतुर्थी, षष्ठी, अष्टमी, नवमी, द्वादशी, चतुर्दशी; एताः पक्षरंधसंज्ञास्तिथयो ज्ञेयाः । आसु शुभकृत्यावश्यकत्वे सति क्रमादादिमाः वस्त्रंकमनुतत्त्वाशाशरा नाडीस्त्यजेत् । यथा - चतुर्थ्यामादिमा अष्ट घटिकाः, षष्ठ्यां नव, अष्टम्यां चतुर्दश, नवम्यां पंचविंशतिः, द्वादश्यां दश, चतुर्दश्यां पंच 'घटिकास्त्याज्या इत्यर्थः । अथ परा उर्वरिता नाड्यः शुभकृत्ये शुभा ज्ञेयाः । दाह दोषनिरूपणाध्याये वसिष्ठः - ' चतुर्दशी चतुर्थी च अष्टमी नवमी तथा । षष्ठी च द्वादशी चैव पक्षच्छिद्राह्वया इमाः ॥ क्रमादेतासु तिथिषु वर्जनीयाश्च नाडिकाः । भूताष्टमनुतत्त्वांकदश शेषास्तु शोभनाः ॥ दोषनाडीषु यत्कर्म शुभं सर्व विनश्यति । विवाहे विधवा नारी व्रात्यः स्याच्चोपनायने ॥ सीमंते गर्भनाशः स्यात्प्राशने मरणं ध्रुवम् । अग्निना दह्यते क्षिप्रं गृहारंभे विशेषतः ॥ राजराष्ट्रविनाशः स्यात्प्रतिष्ठायां विशेषतः । किमत्र बहुनोक्तेन कृतं कर्म विनश्यति ॥' इति । कश्यपस्तु सर्वसाधारण्येन दशैव घटिकास्त्याज्या इत्याह- 'अष्टमी द्वादशी षष्ठी पक्षरंध्रास्तु तासु च । मंगले सर्वदा त्याज्या नूनं हि दश नाडिकाः ॥' इत्यनेन । एतस्यैव तिथिवारनक्षत्रयोगकरणात्मकस्य पंचांगस्य शुद्धिः पंचांगशुद्धिरित्युक्तं नारदेन - ' तिथिवार क्षेयोगानां करणस्य च मेलनम् | पंचांगमस्य शुद्धिः पंचांगशुद्धिरुदाहृता ॥ यस्मिन्पंचांगदोषोऽस्ति तस्मिलग्नं निरर्थकम् ॥' इति ॥ ३६ ॥ Page #48 -------------------------------------------------------------------------- ________________ ३२ . मुहूर्तचिंतामणिः । [ दुर्मुहूर्ताख्या मुहूर्तदोषाः .. अथ कुलिककालवेलायमघंटकंटकदोषाननुष्टुभाह कुलिका कालवेला च यमघंटश्च कंटकः । वाराविन्ने क्रमान्मंदे बुधे जीवे कुजे क्षणः ॥ ३७॥ - कुलिक इति ॥ वारात् वर्तमानवारात् मंदे शनैश्चरे गणिते सति योऽको भवेत्तस्मिन् द्विगुणे योऽकस्तत्संख्यः क्षणो मुहूर्तः कुलिको भवति । एवं वर्तमानवारात् बुधे जीवे कुजे गणिते ततो द्विगुणिते सति येऽकास्ते क्रमात् कालवेला-यमघंट-कंटक-संज्ञका दुष्टमुहूर्ताः स्युः । यथा-रवितः शनिः सप्तसंख्याकः, स द्विगुणश्चतुर्दश जाताः, अतस्तत्संख्याको मुहूर्तः कुलिकसंज्ञो रविवारे भवति । एवं रवावष्टमो मुहूर्तः कालवेला, तथा रवौ दशमो मुहूर्तो यमघंटः, तथा रवौ षष्ठो मुहूर्तः कंटकसंज्ञ इत्यर्थः । एवं सोमवारादावपि कुलिककालवेलायमघंटकंटकाः स्युरित्यर्थः । यदाह कश्यपः-शैलाक्षवेदा ७-५-४ स्तर्काधिनगाः ६-४-७ पंचाग्निबाहवः ५-३-२। वेदाक्षिबाणा ४-२-५ लोकैकेभा ३-१-८ स्त्वक्षिगिरिवह्नयः २-७-३ ॥ चन्द्रर्तुतर्काः १-६-६ कुलिकयमघंटार्धयामकाः । प्रहरार्धप्रमाणास्ते भानुवारादितः क्रमात् ॥' इति । अत्रार्धयामः संपूर्णस्त्याज्योऽन्वर्थत्वात् । कुलिकयमघंटयोस्तूत्तरार्ध त्याज्यम् । उक्तं च दैवज्ञमनोहरे-'अहनि निशि गजांशः स्वे दिनेशादिकानां भवति तु गुरुभौमज्ञार्किकालक्रमेण । प्रभवति यमघंटः कंटकः कालवेला कुलिक इति विरुद्धस्तत्परार्ध निषिद्धम् ॥' इति । गजांशः अर्धप्रहरः । एते मुहूर्तदोषा दिनषोडशांशत्वेन ज्ञेयाः । गजांश इत्युक्त्वा तत्परार्ध निषिद्धमित्युक्तेः । दोषफलमाह वसिष्ठः'निधनं प्रहरार्धे तु निःस्वत्वं यमघण्टके । कुलिके सर्वनाशः स्याद्रात्रावेते न दोषदाः ॥' इति । कंटक-कालवेलयोरन्वर्थत्वादत्र फलं नोक्तम् । 'रात्रावते न दोषदाः' इत्यस्यार्थवादो रत्नकोशे-'तमस्विनीगंधमुपेत्य वारदोषास्तथा शक्तिमनाप्नुवंतः । अंधं समासाद्य विलासिनीनां कटाक्षबाणा इव निष्फलाः स्युः ॥' इति । तथा च 'न वारदोषाः प्रभवंति रात्रौ देवेज्यदैत्येज्यदिवाकराणाम् । दिवा शशांकार्कजभूसुतानां सर्वत्र निंद्यो बुधवारदोषः' इति ज्योतिनिबंधकृदुक्तिः संगच्छते । अथ शुभकृत्यावश्यकत्वे देशभेदेन यमघंटकंटकादिदोषपरिहारमाह गर्ग:-'विंध्यस्योत्तरकूले तु यावदातुहिनाचलम् । यमघं(क)टकदोषोऽस्ति नान्यदेशेषु विद्यते ॥ मत्स्यांगमगधांधेषु यमघंटस्तु दोषकृत् । काश्मीरे कुलिकं दुष्टमर्धयामस्तु सर्वतः ॥' इति ॥ ३७॥ अथ सूर्यादिवारेषु शिष्याणां सद्य एव दोषज्ञानार्थ दुर्मुहूर्तादिनामकान् मुहूर्तदोषान् शार्दूलविक्रीडितवसंततिलकाभ्यामाहसूर्ये षट्स्वरनागदिमनुमिताश्चंद्रेऽब्धिषट्कुंजरां कार्का विश्वपुरंदराः क्षितिसुते यन्यब्धितर्कादिशः। Page #49 -------------------------------------------------------------------------- ________________ शुभे होलिकाष्टकनिषेधः] शुभाशुभप्रकरणम् १ । सौम्ये धब्धिगजांकदिङ्मनुमिता जीवे द्विषभास्कराः शक्राख्यास्तिथयः कलाश्च भृगुजे वेदेषुतर्कग्रहाः ॥ ३८ ॥ दिग्भास्करामनुमिताश्च शनौ शशिद्वि नागा दिशो भवदिवाकरसंमिताश्च । दुष्टक्षणः कुलिककंटककालवेलाः स्युश्चाधयामयमघंटगताः कलांशाः ॥ ३९ ॥ सूर्य इति॥ दिगिति ॥रविवारे-षष्ठसप्तमाष्टमदशमचतुर्दशसंख्या मुहूर्ता निंद्याः। सोमवारे-चतुर्थषष्ठाष्टमनवमद्वादशत्रयोदशचतुर्दशमुहूर्ता निंद्याः । भौमे-द्वित्रिचतुःषददशसंख्या मुहूर्ता निंद्याः । बुधे-द्विचतुरष्टनवदशचतुर्दशसंख्या मुहूर्ता निंद्याः । गुरौ-द्विषदद्वादशचतुर्दशपंचदशषोडशसंख्या मुहूर्ता निंद्याः । शुक्र-चतुःपंचषदनवदशद्वादशचतुर्दशसंख्या मुहूर्ता निंद्याः । शनौएकद्विवसुदशैकादशद्वादशसंख्याका मुहूर्ता निंद्याः। एषु मुहूर्तेषु केषुचित् दुष्टक्षणो दुर्मुहूर्तो ज्ञेयः । केषुचित्कुलिककंटककालवेलाः स्युः। केषुचिदर्धयामयमघंटाः स्युः । तत्प्रमाणमाह-कलांशा इति । कलांशाः षोडशांशाः । दिनस्येति शेषः। यस्मिन्दिने कुलिकादिजिज्ञासा तद्दिने यद्दिनमानं तत्षोडशभिर्भाज्यं, यल्लब्धं घटीपलात्मकं तन्मुहूर्तपरिमाणं; तेषु मुहूर्तेषु यथासंभवं दुर्मुहर्तादयो दोषा ज्ञातव्याः । तथा हि-रवौ चतुर्दशसंख्यो मुहूर्तो दुर्मुहूर्तः, कुलिकश्च षष्ठः कंटकसंज्ञः सप्तमाष्टमावर्धयामाख्यौ । तत्राष्टमः कालवेलाख्यश्च, दशमो यमघण्टाख्यः । एवं सोमवारादिष्वपि बोद्धव्यम् । तत्र कुलिककंटककालवेलायमघंटज्ञानं पूर्वश्लोकेऽभ्यधायि। दुर्मुहूर्धियामान विवाहप्रकरणे (श्लो०१६) रवावर्यमा-' इत्यादिना वक्ष्यति। ननु दुर्मुहर्तकुलिकादेर्वाचनिकस्यार्थस्य 'सूर्ये षदस्वर-' (श्लो०३८) इत्यादिलघुप्रकारेणाभिधानात्पूर्व परस्ताच्च पुनग्रंथोक्तप्रकाराभिधानमयुक्तमिति प्रतिभाति । तथापि दृष्टांतार्थमिदमभिधानम् । तथा हि-ग्रन्थेषु दुर्मुहूर्तकुलिककण्टककालवेलार्धयामयमघंटानां श्लोकषट्केनाभिधानात् व्याख्यानगम्यार्थत्वाच्चेति गौरवम् । अत्र तु सर्वमप्यर्थं शब्दतः संक्षिप्य श्लोकद्वयेन व्याख्यानानपेक्षमभिधानमिति लाघवमिति दृष्टांतदर्शनद्वारा सर्वत्र लाघवकरणसूचनार्थं शिष्याणामत्र ग्रंथे पठनादरातिशयार्थं च पुनरुक्तिः ॥३८॥३९॥ अथ विवाहादिशुभकृत्ये होलिकाष्टकनिषेधमनुष्टुभाह विपाशेरावतीतीरे शुतुद्याश्च त्रिपुष्करे । विवाहादिशुभे नेष्टं होलिकामाग्दिनाष्टकम् ॥ ४० ॥ विपाशेति ॥ विपाशा इरावती चैते नद्यौ पश्चिमदेशे प्रसिद्ध । एतयोनद्योस्तीरे तीरवर्तिदेशेषु, तथा शुतुद्रिनंदी, सापि तत्रैव प्रसिद्धा,-तस्या अपि Page #50 -------------------------------------------------------------------------- ________________ ३४ मुहूर्तचिंतामणिः। [नेष्टयोगविषयेऽपवादः तीरवर्तिदेशेषु; तथा त्रिपुष्कराख्ये देशे च होलिका फाल्गुनपौर्णमास्यामग्निदाहः, ततः प्राक् दिनाष्टकं विवाहादिशुभकृत्ये नेष्टं निषिद्धमित्यर्थः । अत्र तावद्धोलिकाष्टकनिषेधः शीघ्रबोधे-'शुक्लाष्टमी समारभ्य फाल्गुनस्य दिनाष्टकम् । पूर्णिमावधिकं त्याज्यं होलाष्टकमिदं शुभे ॥' इति । अस्यापवादोऽपि तत्रैव-'शुतुद्यां च विपाशायामैरावत्यां त्रिपुष्करे । होलाष्टकं विवाहादौ त्याज्यमन्यत्र शोभनम् ॥' इति ॥ ४० ॥ . मृत्युक्रकचदग्धादीनिंदौ शस्ते शुभाञ्जगुः। केचिद्यामोत्तरं चान्ये यात्रायामेव निंदितान् ॥ ४१ ॥ मृत्य्विति ॥ मृत्यवो मृत्युयोगा आनंदादिष्वष्टाविंशतियोगेषु 'दास्रादर्के' (लो०२५) इत्यादिना प्रागुक्ताः। क्रकचः 'षष्ट्यादितिथयो मंदाद्विलोमम्' (श्लो०६) इत्युक्तः । दग्धयोगः 'सूर्येशपंचाग्निरसाष्टनंदा' (लो०८) इत्युक्तः । आदिशब्देन विषयोगा हुताशनयोगाश्च गृह्यते । चंद्रे शस्ते समीचीने सति । समीचीनत्वं गोचरप्रकरणे वक्ष्यते । मृत्युक्रकचदग्धादीन् शुभाननिष्टफलमपास्य शुभफलदान् जगुरुचुः । यदाह राजमार्तण्ड:-'क्रकचो मृत्युयोगाख्यो दिनं दग्धं तथैव च । चंद्रे शुभे क्षयं यांति वृक्षा वज्रहता इव ॥' इति । केचिंदाचार्यो यामोत्तरं मृत्युक्रकचदग्धादीन् शुभाञ्जगुः । तथा च दीपिकायां राजमार्तण्ड:-'उत्पाते यमघंटे च काणे च क्रकचे तथा । तिथौ दग्धे च काले च प्राग्यामात्परतः शुभम् ॥' इति । अथान्ये आचार्या मृत्युक्रकचदग्धादीन् यात्रायामेव निंदिताञ्जगुः । विवाहादीनि तु प्रतिषेधाभावादवश्यं कार्याणि । यदाह लल्लः-'वारह्मतिथियोगेषु यात्रामेव विवर्जयेत् । विवाहादीनि कुर्वीत गर्गादीनामिदं वचः ॥' इति । वारह्मतिथियोगेषु नियेष्विति शेषः ॥ ११ ॥ अथ पुनरप्यपवादं भुजंगप्रयातेनाह अयोगे सुयोगोऽपि चेत्स्यात्तदानी___मयोगं निहत्यैष सिद्धिं तनोति । परे लग्नशुध्या कुयोगादिनाशं दिनार्धोत्तरं विष्टिपूर्व च शस्तम् ॥ ४२ ॥ अयोग इति ॥ अयोगे क्रकचादौ सति सुयोगः सिद्धियोगोऽपि चेत्स्या'त्तदा एष सिद्धियोगः अयोगं अयोगफलं निहत्य सिद्धिं कार्यसिद्धिं तनोति निष्पादयति । यदाह राजमार्तण्डः-'अयोगः सिद्धियोगश्च द्वावेतौ भवतो यदि। अयोगो हन्यते तत्र सिद्धियोगः प्रवर्तते ॥' इति । अन्यच्च-'हंत्यमृताख्यो योगः सर्वाण्यशुभानि लीलया नियतम् । न भवति पुनरिह शक्तो वैधतिविष्टिव्यतीपाते ॥' इति । यत्तु दीपिकाकारवचनम्-'यदि विष्टियंतीपातो दिनं वाप्यशुभं भवेत् । हन्यतेऽमृतयोगेन भास्करेण तमो यथा ॥' Page #51 -------------------------------------------------------------------------- ________________ भद्राया मुखपुच्छविभागाः] शुभाशुभप्रकरणम् । इति तदमृतयोगस्यातिप्राशस्त्यसूचनार्थ, न तु भद्राव्यतीपातादिदोषापवादकम् , 'हंत्यमृताख्यो योग' इत्येकवाक्यताबलात् । अथ परे आचार्या लग्नशुद्ध्या समीचीनलग्नबलेन कुयोगानां मृत्युक्रकचादीनां नाशं वदंतीति शेषः । यदाह स एव-'यत्र लग्नं विना कर्म क्रियते शुभसंज्ञकम् । तत्र तेषामयोगानां प्रभावाजायते फलम् ॥' अथावश्यकशुभकृत्ये कालांतरप्रतीक्षाऽयोग्यतायां परिहारमाह-विष्टिपूर्व विष्टिर्भद्रा तत्पूर्वं तदादिव्यतीपातादिकं दिनाओंत्तरं मध्याह्नादनंतरं शस्तं प्राहुः। अर्थान्मध्याह्नं यावत्कालो निषिद्धः। 'विष्टिरंगारकश्चैव व्यतीपातश्च वैधतिः। प्रत्यरं जन्मनक्षत्रं मध्याह्नात्परतः शुभम् ॥' इति तेनैवोक्तत्वात् ॥ ४२ ॥ __ अथ भद्रा निषिद्वेति पूर्वमुक्तं तदधुना प्रस्तावात्तन्निषिद्धकालं शालिनीछंदसाहशुक्ले पूर्वार्धेऽष्टमीपंचदश्योभद्रैकादश्यां चतुर्थ्यां परार्धे । कृष्णेऽत्याधै स्यानृतीयादशम्योः पूर्व भागे सप्तमीशंभुतिथ्योः॥ शुक्ल इति ॥ शुक्लपक्षेऽष्टम्यां पूर्णिमायां च पूर्वार्धे भद्रा भवति । एकादश्यां चतुर्थ्यां चोत्तरार्धे भद्रा । अथ कृष्णे कृष्णपक्षे तृतीयायां दशम्यां चांत्याधं उत्तरार्धे भद्रा स्यात् । सप्तम्यां शंभुतिथौ चतुर्दश्यां च पूर्वभागे पूर्वार्धे भद्रा स्यात् । पूर्व इति 'पूर्वादिभ्यो नवभ्यो वा' इति स्मिनभावपक्षे रूपम् । अष्टम्यादीनां तिथीनां गतभोग्यघटिकायोगाध भद्राप्रमाणमिति यावत् । 'तिथेगतेप्येक्यदलं तन्मानं करणं भवेत्' इति वोपदेवोक्तेः । तिथ्यर्धभागं सर्वेषां करणानां प्रकल्पयेत्' इति सूर्यसिद्धांतोक्तेश्च । उक्तं च दीपिकायाम्-'तृतीयादशमीशेषे तत्पंचम्योस्तु पूर्वतः। कृष्णे विष्टिः सिते तद्वत्तासां परतिथिष्वपि ॥' इति । बृहस्पतिना तु स्पष्टमुक्तम्-'सिते चतुर्थीमंत्यार्धमष्टम्याद्यार्धमेव च । एकादश्यां परार्धे तु पूर्वार्धे पूर्णशीतगौ ॥ कृष्ण तृतीयांत्याधं हि सप्तम्याद्यार्धमेव च । दशम्यामुत्तरार्धं तु चतुर्दश्यर्धमादितः ।। विष्ट्याख्योऽयं महादोपः कथितोऽत्र समस्तगः । तदानीं कृतसत्कर्म का सह विनश्यति ॥' इति । पूर्णशीतगौ पूर्णिमायाम् । रत्नकोशे प्रत्येकं भद्रानामानि-'हंसी नंदिन्यपि च त्रिशिराः सुमुखी करालिकाश्चैव। वैष्णव्यतिरौद्रमुखी चतुर्मुखी विष्टयः क्रमशः ॥' चतुर्थ्यादितिथिसंबंधिभद्रानामाभिधानं नामसादृश्येन फलतारतम्यसूचनार्थम् । भद्रास्वरूपं रत्नमालायाम्-'उद्घद्धोनटतरपिंडिकाऽतिकृष्णा दंष्ट्रोग्रा पृथुहनुगंडदीर्घनासा । कार्यनी हुतवहलक्षमुद्गिरंती विश्वांतः पतति समंततोऽत्र विष्टिः ॥' इति ॥ ४३ ॥ ___ अथ चतुर्थ्यादितिथिपु भद्राया मुखपुच्छविभागादिकं शार्दूलविक्रीडितेनाह-- पंचयद्रिकृताप्टरामरसभूयामादिघट्यः शरा विष्टेरास्यमसद्गजेंदुरसंरामाद्यश्विवाणाब्धिषु । १ तृतीयां दशमी चारभ्य पंचम्योः सप्तमीचतुर्दश्योरित्यर्थः । २ तद्वत्-परपूर्वभागे विष्टिर्भवतीत्यर्थः । ३ तासां=कृष्णपक्षीयतिथीनान् । ४ वैकृतिरौद्रमुखी इति पाठः Page #52 -------------------------------------------------------------------------- ________________ ३६ 'मुहूर्तचिंतामणिः । यामेष्वंत्यघटीत्रयं शुभकरं पुच्छं तथा वासरे विष्टिस्तिथ्यपरार्धजा शुभकरी रात्रौ तु पूर्वार्धजा ॥ ४४ ॥ [ भद्राकृत्यम् पंचेति ॥ चतुर्थ्यादितिथीनां क्रमतः पंचादिप्रहरेषु शराः पंच नाड्यः आदिमा विष्टेर्भद्राया आस्यं मुखं । यथा - चतुर्थ्याः पंचमप्रहरआदिभूताः पंच घट्यो भद्रामुखम् । एवमष्टम्या द्वितीयप्रहरे, एकादश्याः सप्तमप्रहरे, पौर्णमास्याश्चतुर्थप्रहरे, तृतीयाया अष्टमप्रहरे, सप्तम्यास्तृतीयप्रहरे, दशम्याः षष्ठप्रहरे, चतुर्दश्याः प्रथमप्रहरे भद्रामुखमित्यर्थः । तद्भद्राया मुखमसदशुभमित्यर्थः । अथ पुनश्चतुर्थ्यादितिथीनां क्रमेण गजादिप्रहरेषु अंत्यम्, अंते भवमंत्यं 'दिगादिभ्यो यत्' इति यत् । घटीत्रयं पुच्छं पुच्छसंज्ञं तच्छुभकरं समस्तकार्येष्वित्यर्थः । यथा - चतुर्थ्यां अष्टमप्रहरस्यांत्यघटीत्रयं भद्रापुच्छं, एवमष्टम्याः प्रथमप्रहरस्य, एकादश्याः षष्ठप्रहरस्य पूर्णिमायास्तृतीयप्रहरस्य तृतीयायाः सप्तमप्रहरस्य, सप्तम्या द्वितीयप्रहरस्य, दशम्याः पंचमप्रहरस्य चतुर्दश्याश्चतुर्थप्रहरस्यां - त्यघटीत्रयं भद्रापुच्छमित्यर्थः । यदाह गुरुः - 'भूतदस्त्रस्वरांभोधिवसुवह्नयंगरूपकाः । यामेष्वेषु क्रमादास्यं भवेत्तिथ्यर्धविष्टिषु ॥' इति । व्यवहारसमुच्चये – 'दशम्यामष्टम्यां प्रथमघटिकापंचकपरं हरिद्युः सप्तम्यां द्विदश१२ घटिकांते त्रिघटिकम् । तृतीया राकायां खयम २० घटिकाभ्यः परभवं शुभं विष्टेः पुच्छं शिवतिथिचतुर्थ्योस्तु विरमे ॥' इति । हरिद्युः = एकादशी । राका=पूर्णिमा । ननु भद्रा देवतेत्यभिधीयते, तस्याः पुच्छकथनात्तु पशुत्वसिद्धिर्द्दश्यते । देवता च कथं पशुर्भवितुमर्हति ? सत्यम् । दैत्येन्द्रैर्देवेषु पराजितेषु रुद्रस्य ज्वालामालाकुलनेत्रालोकितशरीराद्देवी भद्रासंज्ञा मुखपुच्छादिमत्युत्पन्ना सती दैत्याञ्जघान । यदुक्तं श्रीपतिना - 'दैत्येंद्रैः समरेsमरेषु विजितेष्वीशः क्रुधा दृष्टवान् स्वं कार्यं किल निर्गता खरमुखी लांगूलिनी च त्रिपात् । विष्टिः सप्तभुजा मृगेंद्रगलका क्षामोदरी प्रेतगा दैत्यघ्नी मुदितैः सुरैस्तु करणप्रांते नियुक्ता सदा ॥' इति । करणान्याह गर्ग :'बवं च बालवं चैव कौलवं तैतिलं गरम् । वणिजं विष्टिमित्याहुः करणानि चराणि तु ॥' इति । विष्टिः =भद्रा | 'अंते कृष्णचतुर्दश्याः शकुनिर्दर्शभागयोः । भवेच्चतुष्पदं नागं किंस्तुघ्नं प्रतिपद्दले ॥' इति । अतः 'तिथ्यर्धभागः करणम्' इत्युक्तेः प्रतिपत्पूर्वार्धे स्थिरकरणं किंस्तुघ्नं, ततो बवकरणं प्रतिपद्वितीयार्थे । बालवकौलवकरणे द्वितीयायाः पूर्वोत्तरार्धयोः, तैतिलगरकरणे तृतीयापूर्वोत्तरार्धयोः । चतुर्थीपूर्वार्धे वणिक्, उत्तरार्धे तु भद्रा । एवं पंचमीषष्ठी - सप्तमीषु बवबालवकौलवतैतिलगरवणिक्करणानि भवंति । ततोऽष्टम्या ह्यर्धे भद्रा भवति ॥ एवं पुनः पुनरावृत्तावुक्ततिथिषु भद्रा ज्ञेया । अत एवोक्तम्- 'शुक्ले पूर्वार्धेऽष्टमीपंचदश्योः' (श्लो० ४३) इत्यादि । एवं चतुर्दश्याः पूर्वार्धे भद्रा । उत्तरार्धादारभ्य शकुन्यादीनि स्थिरकरणानि चत्वारि । भद्राकृत्यमाह वसिष्ठः – ' वधबंधविषाम्यस्त्रच्छेदनोच्चाटनादि यत् । तुरंगमहिषोष्ट्रादि " Page #53 -------------------------------------------------------------------------- ________________ भद्रादोषविचारः] शुभाशुभप्रकरणम् १ । कर्म विष्टयां तु सिध्यति ॥ न कुर्यान्मंगलं विष्टयां जीवितार्थी कदाचन । कुर्वन्नज्ञस्तदा क्षिप्रं तत्सर्व नाशतां व्रजेत् ॥' इति । तत्र अंगविभागः फलंच कश्यपसंहितायाम्-'मुखे पंच गले त्वेका वक्षस्येकादश स्मृताः । नाभौ चतस्रः षट् कट्यां तिस्रः पुच्छे तु नाडिकाः ॥ कार्यहानिर्मुखे मृत्युर्गले वक्षसि निःस्वता । कट्यामुन्मत्तता नाभौ च्युतिः पुच्छे ध्रुवो जयः ॥' इति । अयं च भद्रांगविभागो नाडीनां त्रिंशतोक्तः । त्रिंशतो न्यूनाधिकत्वे तु त्रैराशिकेन मुखादीनामंगानां विभागज्ञानम् । यथा-यदि नाडीत्रिंशता इदमुक्तमंगपरिमाणं तदेष्टपरिमाणेन किमिति त्रैराशिकम् । एवं सति उक्तांगपरिमाणं भद्राभोगमितघटीभिः संगुण्य त्रिंशता भाज्यं, लब्धं समोऽगविभागः। त्रैराशिकस्वरूपं लीलावत्यामुक्तम्-'प्रमाणमिच्छा च समानजाती आयंतयोस्तत्फलमन्यजाति । मध्ये तदिच्छाहतमाद्यहृत्स्यादिच्छाफलं व्यस्तविधिर्विलोमे ॥' इति । तत्र मुखादिकालो रत्नमालायाम्-'जलशिखिशशिरक्षःशर्वकीनाशवायुत्रिदशपतिककुप्सु प्रोक्तमास्यं हि विष्टेः । नियतमृषिभिराशासंख्ययामक्रमेण स्फुटमिह परिहार्य मंगलेष्वेतदेव॥' इति। जलं वरुणः, कीनाशः यमः । शुक्लचतुर्थ्या उत्तरार्धे पश्चिमदिशि भद्रामुखं तच्चाशासंख्ययामक्रमेण पंचमे प्रहरे भवति । अर्थादेव भद्रायाः प्रहरचतुष्टयाधिकस्थितिभावादंते एव घटिकात्रयं पुच्छम् । ततोऽष्टम्यां द्वितीयप्रहरे तेन प्रकारेण आनेय्यां दिशि मुखम् । मुखाच्च प्राक् पुच्छमिति प्रथमप्रहरांत एव पुच्छं घटिकात्रयमित्येवं सर्वास्वपि भद्रातिथिप्ववगंतव्यम् । प्रयोजनमपि तत्रैव-'मनुवसुमुनितिथियुगदशशिवगुणसंख्यासु तिथिषु पूर्वस्याः । आयाति विष्टिरेषा पृष्ठे शुभदा पुरस्त्वशुभा ॥' इति । तदेतदात्ययिककार्यसंभवे सति मुखदिक्संमुखयात्रानिषेधकमवधेयम् । ग्रंथांतरे अन्यदप्युक्तम्-'असिते सर्पिणी ज्ञेया सिते विष्टिस्तु वृश्चिकी। सर्पिण्यास्तु मुखं त्याज्यं वृश्चिक्याः पुच्छमेव च ॥' इति । अथ परिहारमाह-तथेति । विष्टिस्तिथ्यपरार्धजा तिथ्युत्तरार्धे संभूता वासरे दिवसे यदि स्यात् तदा शुभकरी । तेनैव प्रकारेण तिथिपूर्वार्धजा भद्रा रात्रौ चेत्स्यात्तदा शुभा शुभकरी स्यात् । उक्तं च'रात्रिभद्रा यदाऽह्नि स्यादिवाभद्रा यदा निशि । न तत्र भद्रादोषः स्यात्सा भद्रा भद्रदायिनी ॥' इति । रात्रिभद्रा-तिथ्युत्तरार्धोद्भवा; दिवाभद्रा-तिथिपूर्वार्धोद्भवा । अमुमर्थ स्पष्टमाह गुरुः–'निशि पूर्वार्धजा विष्टिर्दिवा चापरतः शुभा । क्रमागता तु या विष्टिः सैव हालाहलोपमा ॥' इति । लल्लोऽपि-'दिवा परार्धजा विष्टिः पूर्वार्धात्था यदा निशि । तदा विष्टिः शुभायेति कमलासनभाषितम् ॥' ब्रह्मसिद्धान्तेऽपि-'दिवा परार्धजा विष्टिविष्टिरेव दिवानिशोः । सा त्याज्या त्वन्यथा विष्टिः सर्वकर्मशुभप्रदा ॥' इति । ननु यत्त नारदकश्यपादिभिरुक्तम्-'करणानि बवादीनि शुभसंज्ञानि षट् क्रमात् । क्रमायाताऽक्रमायाता विष्टिर्नेष्टा तु मंगले॥' इति । अत्र क्रमायाता=दिवारात्रिक्रमेणागता; अक्रमायाता=दिवाभट्टा रात्रौ, रात्रिभद्रा च दिवेत्यर्थः । एवं सति ४ मु० चि. Page #54 -------------------------------------------------------------------------- ________________ मुहूर्तचिंतामणिः । [कालाशुद्धौ वानि द्विविधाया अपि भद्राया दोषवत्त्वोक्तेः पूर्वोक्तपरिहाराभिधानमयुक्तम् । उच्यते-इदमेव क्रमायातेति वचनं ज्ञापकमुक्तार्थस्य । अन्यथा सामान्यतो भद्रा दुष्टेत्युक्ते द्विविधभद्राया दोषवत्त्वसिद्धेरनर्थकमिदं स्यात् । तस्माच्छुभकार्याणां भद्रारूपदुष्टदिनव्यतिरिक्तकालप्रतीक्षायोग्यत्वे तदैव कार्य, न दुष्टदिने । 'अबाधेनोपपत्तौ बाधो न न्याय्यः' इति न्यायाद्वचनस्य निषेध एवं तात्पर्याच्च । अवश्यकर्तव्यस्य तु शुभकर्मणः कालांतरप्रतीक्षामसहमानस्यैवमादिपरिहारमाश्रित्य दुष्टदिने कृतिरुचितैव । 'विष्टिरंगारकश्चैव-' इत्यपि परिहार एतत्पर एवेत्यलं पल्लवितेन ॥ ४४ ॥ अथ भद्रानिवासं तत्फलं चानुष्टुभाह कुंभकर्कद्वये मयेऽजे स्वर्गेऽजात्रयेलिगे। स्त्रीधनुर्जूकनकेऽधो भद्रा तत्रैव तत्फलम् ॥ ४५ ॥ कुंमेति ॥ अब्जे चंद्रमसि कुंभद्वये कुंभमीनस्थ कर्कद्वये कर्कसिंहराशिस्थिते सति भद्रा मढं मनुष्यलोके तिष्ठति । अथ मेषादित्रये मेषवृषमिथुनस्थितेऽलिगे वृश्चिकस्थिते चंद्रे स्वर्गे भद्रा तिष्ठति । कन्याधनुस्तुलामकरराशिस्थितेऽधः पाताललोके भद्रा तिष्ठति । अथ यत्र भद्रा तत्रैव मर्त्यस्वर्गपातालेषु फलं स्वोक्तशुभाशुभफलं ददातीत्यपवादद्वारा प्रयोजनमुक्तं भवति । उक्तं च-'मेषोक्षकौZमिथुने घटसिंहमीनकर्केषु चापमृगतौलिसुतासु चंद्रे । स्वर्मय॑नागनगरीः क्रमशः प्रयाति विष्टिः फलान्यपि ददाति हि तत्र देशे ॥' इति । भूपालवल्लभे-'कन्यातुलामकरधन्विषु नागलोके मेषालिवैणिकवृषेषु सुरालये स्यात् । पाठीनसिंहघटकर्कटकेषु मखें चंद्रे वदंति मुनयस्त्रिविधां हि विष्टिम् ॥' इति । पाठीनः मीनः ॥ ४५ ॥ एवं महता ग्रंथसंदर्भण पंचांगदूषणान्युक्तानि, अधुना कालाशुद्धौ निषेध्यवस्तूनि शार्दूलविक्रीडिताभ्यामाहवाप्यारामतडागकूपभवनारंभप्रतिष्ठे व्रता रंभोत्सर्गवधूप्रवेशनमहादानानि सोमाष्टके । गोदानाग्रयणप्रपाप्रथमकोपाकर्मवेदव्रतं नीलोद्वाहमथातिपन्नशिशुसंस्कारान्सुरस्थापनम् ॥४६॥ दीक्षामौजिविवाहमुंडनमपूर्व देवतीर्थेक्षणं __ संन्यासाग्निपरिग्रहौ नृपतिसंदर्शाभिषेकौ गमम् । चातुर्मास्यसमावृती श्रवणयोर्वेधं परीक्षां त्यजे द्वद्धत्वास्तशिशुत्व इज्यसितयोन्यूनाधिमासे तथा॥४७॥ वाप्यारामेति ॥ दीक्षेति ॥ वापी दीर्घिका, आरामः उपवनं, तडागः= १ वैणिकं मिथुनं, तत्स्वरूपे ‘सवीण' मिति वराहोक्तेः । Page #55 -------------------------------------------------------------------------- ________________ अधिमासक्षयमासवानि] शुभाशुभप्रकरणम् । पुष्करिणी, कूपः प्रसिद्धः, भवनं गृहं; एतेषामारंभप्रतिष्ठे-आरंभः निर्माणं, प्रतिष्ठा उत्सर्गः । तत्र गृहप्रतिष्ठा गृहप्रवेशो ज्ञेयः। व्रतारंभोत्सौं-व्रतानां अनंतशिवरात्रिव्रतादीनां आरंभः, उत्सर्गः अनंतव्रतादीनामुद्यापनं, महादानानिषोडशमहादानानि, सोमः सोमयागः, अष्टका अष्टकाश्राद्धं, गोदानं केशांतसंज्ञं कर्म, आग्रयणं नवान्नेष्टिः, प्रपा-जलशाला, 'प्रपा पानीयशालिका' इत्यभिधानात् । महाराष्ट्राः 'पाणपोई' इति वदंति। 'पवसरा' इति कान्यकुब्जाः । प्रथमकोपाकर्म प्रथमारभ्यमाणं श्रावणीकर्म, वेदव्रतं महानाच्यादित्रयं महानाम्नीव्रतं, उपनिषद्रतं, महाव्रतं च; नीलोद्वाहः नीलशब्दवाच्यः काम्यो वृषोत्सर्गः, नत्वेकादशाहे क्रियमाणः; तस्य तदैव विहितत्वान्मुहूर्तविचारानुन्मेषः । अतिपन्नशिशुसंस्कारा:-अतिपन्ना अतिक्रांता जातकर्मनामकर्मादयः शिशूनां संस्काराः, दीक्षा मन्त्रग्रहणादिका, मुण्डनं-चौलं, अपूर्व देवे. क्षणं तीर्थेक्षणं च,अग्निपरिग्रहः अग्निहोत्रमन्याधान,चातुर्मास्यं चातुर्मास्याख्यो यागः, समावृतिः समावर्तनं मौंजीमोक्षः, श्रवणयोर्वेधः कर्णवेधः, परीक्षा तप्तमाषादिरूपा, दिव्यमिति यावत् । अन्यानि कर्माणि नामतः स्पष्टानि । एतानि सर्वाणि कर्माणि त्यजेन्न कुर्यात् । इज्यसितयोवृहस्पतिशुक्रयोवृद्धत्वे अस्तत्वे शिशुत्वे बाल्ये च तथा न्यूनाधिभासे क्षयमासे अधिकमासे च न कुर्यात् । अयं च निषेधः प्रथमोपक्रांतकृत्येषु नतु नित्यवदारब्धवार्षिकयात्रादौ । अत्र मूलवचनानि लिख्यते । तत्र शुक्रास्तादिषु ज्योतिःसारसागरे ऋक्षोच्चयः–'वापीकूपतडागयागगमनं क्षौरं प्रतिष्ठा व्रतं विद्या मंदिरकर्णवेधनमहादानं वनं सेवनम् । तीर्थस्नानविवाहदेवभवनं मन्त्रादि देवेक्षणं दूरेणैव जिजीविपुः परिहरेदस्तंगते भार्गवे ॥ बाले शुक्रे वृद्ध जीवे वृद्धे शुक्र जीवे बाले । जीवे सिंहे सिंहादित्ये जीवादित्ये नष्टे जीवे ॥ तथा मलिम्लुचे मासि सुराचार्य तथाऽस्तगे। वापीकूपतडागादिक्रियाः प्रागुदितास्त्यजेत्॥'इति। वनम् आरामादि । सेवनं-राजादीनाम् । नष्टे जीवे नष्टबले नीचस्थिते गुरावित्यर्थः।लल्ल:--'उपनयनं गोदानं परिणयनगृहप्रवेशगमनानि । अस्तमितेषु न कुर्यात्सुरगुरुभृगुपुत्रचंद्रेषु ॥' इति । शातातपः-'अस्तंगते गुरौ शुक्रे बाले वृद्ध मलिम्लुचे । उद्यापनमुपारंभं व्रतानां नैव कारयेत् ॥' अस्तमयादिफलमाह बादरायणः-'गुरोरस्ते पति हन्याच्छुक्रास्ते चैव कन्यकाम् । चंद्रे नष्टे उभौ हन्यात्तस्मादस्तं विवर्जयेत् ॥' इति । विवाह इति शेषः। 'बालभावे स्त्रियं हन्यादृद्धभावे नरं तथा । तस्माद्वाले च वृद्धे च विवाह नैव कारयेत् ॥' उपलक्षणमेतत्-एवं व्रतबंधादिष्वपि कर्तुमरणं ज्ञेयम् । 'एकत्र निर्णीतः शास्त्रार्थोऽपरत्रापि विनियुज्यते' इति न्यायात् । उक्तं च शाङ्गीयविवाहपटले-'विवाहो व्रतबंधो वा यात्रा वा गृहकर्म च । गुरावस्तमिते शुक्रे ध्रुवं मृत्यु विनिर्दिशेत् ॥' इति । अथाधिमासक्षयमासवानि गृह्यपरिशिष्टे-'सोमयागादिकर्माणि नित्यान्यपि मलिम्लुचे । तथैवाग्रयणाधानचातुर्मास्यादिकान्यपि ॥ महालयाष्टकाश्राद्धोपाकर्माद्यपि कर्म यत् । स्पष्टमासविशेषाख्यविहितं वर्जयेन्मले ॥' इति । गर्ग Page #56 -------------------------------------------------------------------------- ________________ मुहूर्तचिंतामणिः । [ सिंहस्थगुर्वादिदोषाः बृहस्पती अपि - 'अन्याधानं प्रतिष्ठां च यज्ञदानव्रतानि च । वेदव्रतवृषोत्सर्गचूडाकरणमेखलाः ॥ मांगल्यमभिषेकं च मलमासे विवर्जयेत् ॥' मरीचिः'गृहप्रवेशगोदानस्थानाश्रममहोत्सवम् । न कुर्यान्मलमासे तु संसर्पेऽहस्पतौ तथा ॥' इति । वसिष्ठः - 'वापीकूपतडागादिप्रतिष्ठां यज्ञकर्म च । न कुर्यान्मलमासे तु संसर्पाहस्पतौ तथा ॥' इति । यदा क्षयमासो भवति तदा पूर्वोत्तरावधिमासौ भवतः । तत्र पूर्वः संसर्पः । द्वितीयः - अंहस्पतिः । एतान्यधिकमासक्षयमासवर्ज्यानि गुरुशुक्रयोरस्तादावपि वर्ज्यानि । यदाह वृद्धगार्ग्यः - 'बाले वा यदि वा वृद्धे शुक्रे वाऽस्तंगते गुरौ । मलमास इवैतानि वर्जयेदेवदर्शनम् ॥' इति । अत्र देवदर्शनमपूर्वं विवक्षितम् । यदाह गर्ग : - 'अपूर्वदेवतां दृष्ट्वा शुचः स्युर्नष्टभार्गवे । मलमासेष्वनावृत्ततीर्थयात्रां परित्यजेत् ॥' इति । अनावृत्ततीर्थयात्राम् = अपूर्वतीर्थयात्राम् । दीपिकायां- 'नो शुक्रास्तेऽष्टमेऽर्के गुरुसहितरवौ जन्ममासेऽष्टमेन्दौ विष्टौ मासे मलाख्ये कुजश निदिवसे जन्मतारासु चाथ । नाडीनक्षत्रहीने सुरगुरुरजनीनाथताराविशुद्धौ प्रातः कार्या परीक्षा द्वितनुचरगृहांशोदये शस्तलग्ने ॥' इति । गुरुसहितरवौ = गुर्वादित्ये इत्यर्थः । इदं सिंहस्थितमकरस्थितास्तमितगुरूणामुपलक्षणम् । उक्तं च व्यवहारोच्चये'सिंहस्थे मकरस्थे च जीवे चास्तमिते तथा । मलमासे न कर्तव्या परीक्षा जयकांक्षिणा ॥' इति । मलमासग्रहणं क्षयमासस्याप्युपलक्षणम् । नाडीनक्षत्राणि=वैनाशिकनक्षत्राणि । परीक्षा = दिव्यम् । अयमत्र तात्पर्यार्थः - अनियतकालविहितानि चूडाकरणवाप्यारामादिशुभकृत्यानि गुर्वादेरस्तादिषु सर्वथा न कार्याणि । यानि तु नियतकालानि सीमंतनामकरणादीनि तानि गुर्वादेरस्तादिसत्त्वेऽपि स्वोक्तकाल एव भवंति । 'चतुर्थे गर्भमासे स्यात्सीमंतोन्नयनक्रिया । षष्ठेऽष्टमे वा कुर्वीत सूत्रांतरविधानतः ॥ ' इति शौनकादिमुनिवचनेभ्यः कालस्यापि नियामकत्वावगतेः । अत एवाह बृहस्पतिः - 'मासप्रयुक्तकार्येषु मूढत्वं गुरुशुक्रयोः । न दोषकृन्मलो मासो गुर्वादित्यादिकं तथा ॥' इति । यमोऽपि - ' चन्द्रसूर्यग्रहे स्नानं श्राद्धदानजपादिकम् । कार्याणि मलमासेऽपि नित्यं नैमित्तिकं तथा ॥' इति । अन्यत्रापि - 'सीमंतजातकादीनि प्राशनांतानि यानि वै । न दोषो मलमासस्य मौढ्यस्य गुरुशुक्रयोः ॥' इति । एवं सति प्रतिबन्धवशादतिक्रांतकालेषु जातकर्मादिषु सत्सु गौणकाले कार्याणि । तद्वशेन सदसन्मुहूर्तोपलब्धौ बहुदिवसगणैः सन्मुहूर्तोपलब्धिरेवोचिता, गौणकालस्य तुल्यत्वात् । उक्तं च वसिष्टेन - 'अतीतकालान्यखिलानि तानि कार्याणि सौम्यायनगे दिनेशे । सिते गुरौ चाप्यथ दृश्यमाने तदुक्तपंचांगदिनेऽप्यखण्डे ॥' इति । अत एवोक्तं अतिपन्नशिशुसंस्कारानिति ॥ ४६ ॥ ४७ ॥ अथ सिंहस्थगुर्वादिदोषान् शालिन्याह J ४० अस्ते वर्ज्यं सिंहस्थजीवे वर्ज्यं केचिद्वकगे चातिचारे । गुर्वादित्ये विश्वघस्रेऽपि पक्षे प्रोचुस्तद्वद्दतरत्नादिभूषाम् ॥४८॥ अस्ते वर्ज्यमिति ॥ यदस्ते गुर्वादेरस्ते वर्ज्यमुक्तं तत् सिंहनक्रस्थजीवे सिंहस्थगुरौ मकरस्थगुरौ च वर्ज्यं निषिद्धम् । यदाह वराहः - ' उद्यानचूडाव्रतबंध Page #57 -------------------------------------------------------------------------- ________________ गुर्वतिचारेऽपवादः] शुभाशुभप्रकरणम् । दीक्षाविवाहयात्रादि वधूप्रवेशः। तडागकूपत्रिदशप्रतिष्ठा बृहस्पती सिंहगते न कुर्यात् ॥' इति । देवीपुराणेऽपि-'सिंहसंस्थे गुरौ यत्नात्सरिंभान्विवर्जयेत् । प्रारब्धं च न सिध्येत महाभयकरं भवेत् ॥ पुत्रभ्रातृकलत्राणि हन्याच्छीघ्रं न संशयः । कारको व्रजते नाशं संतानं म्रियतेऽचिरात् ॥ देवारामतडागाश्च प्रपोद्यानगृहाणि च । विवाहयज्ञोपनयचूडादि च न सिध्यति ॥ यथा सिंहस्थितो जीवस्तथैव मकरस्थितः ॥' इति । त्रिस्थलीसेतो-'गुर्वादित्ये गुरौ सिंहे शुक्रे वाऽस्तमुपागते । त्यजेद्यानं महादानं व्रतं देवविलोकनम् ॥' इति । लल्लोऽपि-'नीचस्थे वक्रसंस्थेऽप्यतिचरणगते बालवृद्धऽस्तगे वा संन्यासो देवयात्रा व्रतनियमविधिः कर्णवेधस्तु दीक्षा । मौंजीबंधोंऽगनानां परिणयनविधिर्वास्तुदेवप्रतिष्ठा वाः सद्भिः प्रयत्नात्रिदशपतिगुरौ सिंहराशिस्थिते वा ॥' इति । अयमपि निषेधो नियतकालविहितानां न भवति । उक्तं च शाीये-'सीमंतजातकादीनि प्राशनांतानि यानि वै । कर्तव्यानि न दोषोऽस्ति पंचाननगते गुरौ ॥' इति । उपलक्षणमेतत्-एवं मकरस्थेऽपि कार्याणि शुभानि । क्वचिदपूर्वतीर्थयात्रायां मौढ्यादिदोषाभावोऽभिहितः । त्रिस्थलीसेतो-'गोदावयां गयायां च श्रीशैले ग्रहणद्वये । सुरासुरगुरूणां च मौढ्यदोषो न विद्यते ॥' वायपुराणे-'गयायां सर्वकालेषु पिंडं दद्याद्विधानतः । अधिमासे जन्मदिने ह्यस्ते च गुरुशुक्रयोः ॥ न त्यक्तव्यं गयाश्राद्धं सिंहस्थेऽपि बृहस्पती ॥' इति । अत्र श्राद्धस्य यात्रापूर्वकत्वाद्यायात्रापि न निषिद्धति ज्योतिर्निबंधे व्याख्यातम् । गुर्वाद्यस्तस्योपलक्षणत्वात्सिंहस्थगुरावपि गोदावरीयात्रा न निषिद्धेत्याहुः । अन्यच्च-'अधिमासे सिंहगुरावस्ते च गुरुशुक्रयोः । तीर्थयात्रा न कर्तव्या गयां गोदावरी विना ॥' इति । अत्र 'अधिमासे च जन्मक्ष-' इति पठंति, तत्र यात्रायां जन्मनक्षत्रस्यातिनिषिद्धत्वागोदावरीगयायात्रयोरपवादो युक्त एव । तथा ग्रहणार्धोदयकपिलाषष्ठीसंक्रांत्युद्देशनापूर्वतीर्थयात्रायां कर्तव्यायां शुक्रास्तादिमहादोषो नास्तीत्युक्तं त्रिस्थलीसेतौ लल्लेन-'उपप्लवे शीतलभानुभान्वोर|दये वा कपिलाख्यषष्ठ्याम् । सुरासुरेज्यास्तमयेऽपि तीर्थयात्राविधिः संक्रमणेऽपि शस्तः ॥' इत्यलमियता ॥ अथ गुर्वाद्यस्ते यद्वय॑मुक्तं तद्वक्रगे गुरावथवाऽतिचारगे गुरौ वर्ण्यम् । यदाह वात्स्यः-'यात्रोद्वाही प्रतिष्टां च गृहचूडाव्रतादिकम् । वर्जयेद्यनतश्चैव जीवे वक्रातिचारगे ॥ कीर्तिभंगः प्रतिष्ठायां चौरभीतिस्तथाध्वनि । तथोद्वाहे भवेन्मृत्युव्रते हानिर्भयं गृहे ॥' इति । क्वचिदस्यापवादोऽभिहितः राजमातडे-'वक्रातिचारगे जीवे वर्जयेत्तदनंतरम् । व्रतोद्वाहादिचूडायामष्टाविंशतिवासरान् ॥' इति । मुक्तावल्यां त्वतिचारस्यैवापवादः-'अतिचारे सुरपूज्यो भवनाद्भवनान्तरं यदा याति । अष्टाविंशतिदिवसान्विवर्जयेत्परिणये प्रयत्न ॥' इति । परिणय इत्युपलक्षणम् । अस्याप्यपवादो दीपिकायां-'त्रिकोणजायाधनलाभराशौ वक्रातिचारेण गुरुः प्रयातः । यदा तदा प्राह शुभं विलग्नं हिताय पाणिग्रहणं वसिष्ठः ॥' इति । अत एव लल्लः-'प्रतिषिद्धो नोद्वाहो वक्रिणि Page #58 -------------------------------------------------------------------------- ________________ ४२ मुहूर्तचिंतामणिः। [शुभे गुर्वादित्यवज्यविचारः जीवे तथाऽतिचारगते । गोचरबलं प्रधानं लग्ने च पराशरः प्राह ॥' इति । विवाहे एव कर्तव्येऽयमपवाद इति केचित् ; न तु यज्ञोपवीतादौ । लग्ने च पराशरः प्राहेति सामान्योक्तेः सर्वस्यापि कर्मणोऽपवाद इत्यन्ये । विशेषमाह लल्ल:-'यद्यप्यनुपचयस्थो जीवः कन्यातिकालमावहति । गुणवद्वरोपलब्धौ तथापि पाणिग्रहः कार्यः ॥' इति । अथ केचित्-गुर्वादित्ये गुरुसहिते आदित्ये सूर्ये । एकराशिगतौ गुरुसूर्याविति यावत् । स गुर्वादित्यस्तस्मिन्नपि सर्वमस्तोतं शुभकर्म वय॑म् । यदाह शौनकः-'एकराशिगतौ सूर्यजीवौ स्यातां यदा पुनः । व्रतबंधविवाहादि शुभकर्माखिलं त्यजेत् ॥' इति । यत्तु गुरुवचनम्-'गुरुक्षेत्रगतो भानुर्भानुक्षेत्रगतो गुरुः । गुर्वादित्यः स विज्ञेयो गर्हितः सर्वकर्मसु ॥' इत्याहुः, तदविचारितरमणीयम् । तथा हि-गुरुक्षेत्रे धनुर्मीनौ तत्र भानुः सूर्यो गुर्वादित्यस्तदसत् । धनुरर्कस्य दक्षिणायनत्वादेव निषेधसिद्धेः। मीनार्कस्य तु यज्ञोपवीतव्यतिरिक्तकार्यमात्रनिषेधसिद्धेः । तथा भानुक्षेत्रं सिंहस्तत्र गतो गुरुर्गुादित्य इति चेन्न । तत्र सिंहस्थगुरुत्वादेव निषेधसिद्धेः । अथ गणितवशेन यस्मिन्नेव गुरुक्षेत्रे भानुस्तस्मिन्नेव राशौ गुरुः स गुर्वादित्य इति । तन्न । संभवत्येकवाक्यताकरणे मिसवाक्यताकरणस्य वैयापत्तेः । ननु गुरोर्बाल्यवृद्धत्वास्तमयानां पृथनिषेधोऽनर्थकः, गुर्वादित्यनिषेधेनैव सिद्धत्वादिति चेत्-मैवं वोचः । राश्यादौ सूर्यः तदाशेरेवांतेऽष्टाविंशत्यंशे गुरुः तत्राष्टाविंशत्यंशानां व्यवधानात्तावद्गुरोरस्ताभावः। कालांशाश्व गुरोरेकादश ११ तदंतरे ह्यस्तमयत्वोक्तेः सप्तदशांशांतरितत्वाच्च वार्धकमपि नास्ति । यतो बाल्यं वार्धकं च परमं पक्ष १५ मानं नारदादिभिरुक्तं, तत्र दिनद्वयमधिकमवशिष्यते । येषां तु दश वा सप्त वा दिनानि बाल्यं वार्धकं चेति पक्षस्तेषामपि सप्त वा दश वा दिनानि बाल्यवार्धकरहितान्यवशिष्यते। तत्र गुर्वादित्यप्रयुक्तोऽपि दोषो यथा स्यादिति वचनारंभः । एवं बाल्येऽपि द्रष्टव्यम् । नन्वेवं गुर्वादित्य एव तर्हि वक्तव्यो गुरोर्बाल्यवार्धकास्तानां पार्थक्येन दोषाभिधानमनर्थकमिति चेन्न । यदा यत्र राशौ सूर्यस्ततः प्राग्रांशी गुरोरुदयस्तत्र बाल्यदोषः सावकाशः । यदोत्तरराशौ गुरुस्तदा वार्धकदोषः सावकाशः । बढ्शांतरत्वादस्तमयसंभावनापि नास्ति । तत्र गुर्वादित्यदोषेण बाल्यवार्धकास्तमयदोषाणां कथं निरासः कर्तुं शक्यः ? नहि भिन्नराशिस्थयोरपि गुर्वादित्ययोर्गुदित्यदोषाभिधानं कैश्चिदुक्तम् । तस्मात्प्रागुक्तविषय एव गुर्वादित्यदोषः। यदा त्वेकराशिस्थितत्वं तदा यदि बाल्यवार्धकास्तमयदोषाणां संभवस्तदा दोषस्याधिक्यन्यूनतातरतमभावो ध्येयः । तथा हि-बृहस्पतेः खलु पंचावस्थाः संभवंति । पूर्वं गुर्वादित्यसंज्ञा, साऽल्पदोषा । ततो यथा यथा रविसामीप्यं तथा तथा क्षीणताधिक्याद्वार्धकव्यपदेशो गुर्वादित्यव्यपदेशाहृष्टफलः । ततः सूर्यातिसान्निध्येनास्तंगतत्वेऽस्तमयाख्यो व्यपदेशः सोऽत्यंतं दुष्टफलः । ततः पुनरपि कालांशातिक्रमेण रविविप्रकर्षादुदये सति बालत्वव्यपदेशः प्राक्फलात् किंचिन्यूनदोषकरः । ततः पुनरपि राश्यते गुर्वादित्य Page #59 -------------------------------------------------------------------------- ________________ विश्वघस्रपक्षः] शुभाशुभप्रकरणम् । व्यपदेशः सोऽल्पदोष इति । एवं गुरोर्बाल्यवार्धकदिनानामपि बहुत्वाल्पत्वयोरपि व्यवस्था ध्येया। तथा हि-यदाऽस्तोदयाभ्यां प्राक् पश्चाच्च वार्धक बाल्यं च पक्षमभिहितं तदा पक्षांतिमदिनपंचकमल्पदोषदम् । यदा तु दशदिनानीति पक्षस्तदा तदंतिम दिनत्रयं मध्यमदोषम् । यदा तु सप्तदिनानीति पक्षस्तदा तु महादोष एव । एवं धीमद्भिरन्यत्रापि व्यवस्था विरोधे सति महादोपाल्पदोषजनिकावश्यकानावश्यकविषयिणी ध्येयेत्यलमतिप्रसंगेन ॥ ॥ अथ केचित्-विश्वघोऽपि पक्षे त्रयोदशदिने पक्षे यस्मिन् पक्षे तिथिद्वयहासः, स त्रयोदशदिनात्मकः पक्षोऽतिनिंद्यः । तदुक्तं ज्योतिर्निबंधे-'पक्षस्य मध्ये द्वितिथी पतेतां तदा भवेद्रौरवकालयोगः । पक्षे विनष्टे सकलं विनष्टमित्याहुराचार्यवराः समस्ताः ॥' इति । तथा-'त्रयोदशदिने पक्षे तदा संहरते जगत् । अपि वर्षसहस्रेण कालयोगः प्रकीर्तितः॥' इति । एवंविधे काले सर्वं गुर्वाद्यस्तोक्तं शुभकर्म वयं प्रोचुः । तदुक्तं व्यवहारचंडेश्वरे-'त्रयोदशदिने पक्षे विवाहादि न कारयेत् । गर्गादिमुनयः प्राहुः कृते मृत्युस्तदा भवेत् ॥' इति । विवाहे दंपत्योश्चौलोपनयनादौ च शिशोर्मत्युरित्यवधातव्यम् , संस्कार्यतया प्राधान्यात् । ज्योतिर्निबंधेऽपि-'उपनयनं परिणयनं वेश्मारंभादिकर्माणि । यात्रां द्विक्षयपक्षे कुर्यान्न जिजीविषुः पुरुषः ॥' इति । अथ प्रसंगात्रयोदशदिनात्मकपक्षः कथं संभवति, कथं च न संभवतीति विचारः प्रस्तूयते । कस्मिश्चिच्छककाले कस्मिंश्चित्पक्षे प्रतिपत्सोमवासरे घटिकैका दशपलाधिका १।१०, ततो द्वितीया क्षयोन्मुखत्वात्पक्षस्य सोमवार एवांतर्हिता, अत एवाऽवमाख्या जाता घट्यः ५७ पलानि ६, ततः पुनरपचयक्रमेण तिथीनां चतुर्दश्यपि क्षयं गताऽवमाख्या शुक्रवार एव । ततः शनिवारे पूर्णिमा क्षयोन्मुखी चतुर्दशीतुल्या वा; एतादृशः पक्षस्त्रयोदशदिनात्मकः संभवति । यद्यपि 'पक्षपरिग्रहे' इत्यस्माद्धातोः पचाद्यचि पक्षशब्दो निष्पन्नो नानार्थश्चास्ति तथापि ज्योतिःशास्त्रे प्रतिपदाद्यक्षणमारभ्य पंचदश्यंतिमक्षणपर्यंत पंचदशतिथ्यात्मके काले रूढः शिष्टपरिगृहीतत्वाद्गृह्यते । दिनशब्दोऽप्यत्र त्रयोदशपदसमभिव्याहारादहोरात्रवाचकः 'दशाहं शावमाशौचं सपिंडेषु विधीयते' इत्यादावहःशब्दवत् । तत्र दिवसस्तु 'यत्कृच्छ्रसूतकचिकित्सितवासरायं तत्सावनाच घटिकादिकमार्लमानात्' इति भास्करोक्तेःसावन एवात्र ग्राह्यः । स च सूर्योदयमारभ्यापरसूर्योदयं यावत् तावत्कालो रविवाराद्यपरपर्यायः सकललोकप्रसिद्धो गृह्यते । तत्र 'त्रयोदशदिने पक्षे नूनं संहरते जगत्' इति वचनादेतादृशस्य त्रयोदशदिनात्मकस्य पक्षस्य दोषवत्ता मर्यते, कथमस्य पक्षस्य त्रयोदशदिनात्मकत्वम् ? उच्यते, त्रयोदशसंख्याकानि दिनानि यस्मिन्स त्रयोदशदिनस्तादृशे पक्ष इति व्युत्पत्त्या पक्षस्यान्यपदार्थकत्वात्तस्य पंचदशतिथ्यात्मकस्य त्रयोदशाहोरात्रसंबंधोऽभिहितो भवति । प्रस्तुतोदाहरणे तावत्प्रतिपदंतिमघटीसंबंधः प्रातःकाले सोमबारस्य जातः । ततो द्वितीयादितिथिसंबंधः सोमवारमारभ्यैव जातः । ततः क्रमेण पंचदश्याः शनिवारसंबंधोऽभूदिति पक्षस्य Page #60 -------------------------------------------------------------------------- ________________ मुहूर्तचिंतामणिः । [त्रयोदशाहपक्षस्य प्रतिपत्तिः त्रयोदशदिनात्मकत्वमजनिष्ट । यदि प्राग्लक्षणलक्षितस्य पक्षस्य त्रयोदशाहोरात्रसंबंधो विवक्ष्यते तदा पक्षस्य त्रयोदशदिनात्मकता खपुष्पतुल्यैव भवेत् । यतोपचयाभिमुखत्वात्तिथीनां मध्ये एकस्या एव तिथेः क्षयः स्यान द्वयोस्तिथ्योस्तदा पक्षस्य चतुर्दशदिनात्मकता संभवति । 'पक्षस्य मध्ये 'द्वितिथी पतेतां तदा भवेगौरवकालयोगः । पक्षे विनष्टे सकलं विनष्टमित्याहुराचार्यवराः समस्ताः ॥' इति वाक्यावयोस्तिथ्योरेव क्षये पक्षस्य त्रयोदशदिनात्मकता संभवेत् । सा चाल्पावशिष्टप्रतिपत्संभवे एव भवेदिति निष्कृष्टोऽर्थः । अत्रैवंविधमन्यदप्युदाहरणम्-विंशत्युत्तरपञ्चदशशती १५२० मिते शककाले कार्तिकशुक्लपक्षे जातमस्ति तदेवंविधम् । एवं च यदाकदाचिच्छककाले पञ्चदशीतिथिः गुरुवारे घटिकैका १, पुनस्तस्मिन्नेव वारे प्रतिपत् ५८ क्षयगता, ततस्तस्मिन्नेव वारे पुनर्द्वितीया संलग्ना, पुनः प्रातरारभ्य शुक्रवारसंबंधेन द्वितीया संपूर्णाभूत् , पुनः क्षयाभिमुखत्वात्तिथीनां चतुर्दश्याः पंचदश्या वा क्षयः संवृत्तस्तदा पञ्चदशी तिथिर्गुरुवार एव समभूत्तदा चतुर्दशदिनात्मक एव पक्षो भवति । यतः प्रतिपत्संबंधः शुक्रवारे एकपलात्मकोऽपि नाभूत्किंतु गुरुवारेणैव । ननु 'पक्षस्य मध्ये द्वितिथी पतेताम्' इति लक्षणाचयोदशदिनात्मकः पक्षो भविष्यतीति चेन्न । यतोऽत्र मध्यशब्दः पठ्यते स यद्यप्यष्टमीतिथिमुत षष्ट्यादितिथिपञ्चकात्मकविभागमाक्षिपति तथापि 'द्वितिथी पतेताम्' इति वाक्यार्थासंभव एव स्यात् । संभवस्तु वाक्यार्थे लक्षणयोपयुज्यते । अतो 'यदा हि पक्षे' इति सप्तम्यंतपदे वक्तव्ये मध्यपदोच्चारणसामर्थ्यादाक्षिसयोरायंतयोस्तिथ्योर्निवृत्तिमाह स इति वाक्यार्थोऽवगम्यते । एवं सति प्रतिपत्पंचदश्योर्युगपत्क्षये दोषवत्ता नैव भवति किंतु द्वितीयामारभ्य चतुर्दश्यंतं तिथिद्वयहासे त्रयोदशदिनात्मकः पक्षोऽतिदोषावहो भवति । यद्येवं द्वितीयापंचदश्योः क्षयेऽतिदोषवत्ता न स्यादिष्यते च तत्रापि । सत्यम् । नहीदमेव वचोऽतिनिर्णायकं किंतु त्रयोदशदिने पक्ष इत्यनेनैकवाक्यतामापनं सत् । 'संभवत्येकवाक्यत्वे वाक्यभेदो हि दूषणम्' इत्युक्तेः । कथं ? तिथिद्वयक्षयवान् त्रयोदशाहोरात्रसंबंधवान्पक्षः त्रयोदशदिनः पक्ष इत्यनुगतं लक्षणं क्रियते। अतो नात्राऽव्याप्तिरित्यस्त्यतिदोषवत्ता । यत्र चतुर्दशदिनात्मकः पक्ष इति प्रसिद्धिस्तत्र पंचदशतिथीनां त्रयोदशाहोरात्रसंबंधात्पक्षस्य त्रयोदशदिनात्मकता स्यात्सा मा भूदिति तिथिद्वयक्षयवानित्युक्तम् । अतः प्रतिपत्तिथेश्चतुर्दशीपंचदश्योरन्यतरतिथेश्च युगपत्क्षये त्रयोदशदिनात्मकपक्षत्वं नास्त्येवेति सिद्धांतः । अत एव भीष्मपर्वणि कुरुपांडवसैन्यक्षयनिमित्तभूतमुत्पातमाह दुर्योधनं प्रति भीष्मः-'चतुर्दशी पंचदशी भूतपूर्वा च षोडशीम् । इमां तु नाभिजानेऽहममावास्यां त्रयोदशीम् ॥' इति । अस्यार्थः-पूर्व हि पंचांगगणनया प्रतिपदमारभ्यामावस्यां तिथिं चतुर्दशी चतुर्दशाहोरात्रे निष्पनां भूतपूर्वा पूर्व १ प्रतिपत् शनौ घ. १ द्वि. श. घ. ५८ तृ. र. घ. ५६ च. सो. घ. ५२ पं. मं. ४७ ष. बु. ४२ स. गु. ३६ अ. शु. ३१ न. श. २५ द. र. १९ ए. सो. १४ द्वा. मं. ९ त्र. बु. ५ च. गु. १ पूर्णिमा गुरु. घ. ५८ ।। Page #61 -------------------------------------------------------------------------- ________________ सिंहस्थगुरुपरिहाराः] शुभाशुभप्रकरणम् १ । भूतामहमभिजाने, पक्षस्यैकतिथिक्षयसद्भावात् । तथाऽमावास्यां पंचदशी पंचदशाहोरात्रे पूर्व जातामहमभिजाने, पक्षस्य तिथिक्षयवृद्धिराहित्यात् । तथाऽमावास्यां षोडशी षोडशाहोरात्रे पूर्व जातामहमभिजाने, पक्षस्यैकतिथिवृद्धिसद्भावात् । पक्षमध्ये तिथिद्वयवृद्धिस्तु खपुष्पतुल्यैव भूतपूर्वामित्यनेन गणितसाध्यपंचांगेष्वनेकशो दृष्टत्वादाश्चर्याभावोऽभिहितः । अतः फलमप्यस्य वराहेण सामान्यत उक्तम्-'शुक्ले पक्षे संप्रवृद्धे प्रवृद्धि ब्रह्मक्षत्रं याति वृद्धिं प्रजाश्च । हीने हानिस्तुल्यता तुल्यतायां कृष्णे सर्व तत्फलं व्यत्ययेन ॥' इति । व्यत्ययस्तु शुक्लपक्षापेक्षया। अत्रातिदुष्टफलाश्रवणान्नोत्पातरूपत्वमस्य पक्षस्य । परमस्मिन्नवसरे त्विमा पंचांगे मया दृष्टाममावास्यां त्रयोदशी प्रतिपत्तिथिमारभ्य त्रयोदशाहोरात्रे तिथिद्वयहासाजातां कदाप्यननुभूतांनाहमभिजाने इति महानुत्पातो मया दृष्टोऽतो युद्धान्निवर्तस्वेति वाक्यतात्पर्यार्थः॥ ननु 'प्रकृतेरन्यत्वमुत्पातः' इत्युत्पातलक्षणानाक्रांतत्वमत्रास्ति, गणितज्ञानसाध्य. त्वाच्छुक्रास्तादिवत् । नहि शुक्रास्तादिरुत्पातः केनाप्यंगीक्रियते। सत्यम् । यद्यपि पक्षद्वयमध्ये तिथीनां क्षयगामित्वात्तिथिद्वयहासो दृश्यते बहुधा गणितसाध्यत्वात्तथाप्यस्मिन्कालेऽप्यस्मि वैकस्मिन्पक्षे प्रतिपदमारभ्य तिथिद्वयहाससद्भावाबहुभिर्वषरमावास्या त्रयोदशी जाता दृष्टा, तादृशी च मया कदापि नानुभूतेति महोत्पातरूपत्वमस्य पक्षस्य युक्तमेव संपन्नमिति । 'ज्योतिर्विन्नीलकण्ठस्य गोविंदेन तनूभुवा । त्रयोदशाहपक्षस्य तत्त्वं सम्यक् प्रकाशितम् ॥' इति । अथ तद्वत्तेन प्रकारेण दन्तरत्नादिभूषां दन्ता हस्तिदन्तास्तत्संबंधिनी भूषां रत्नसंबंधिनी भूषां तथादिशब्दात्सुवर्णमणिसंबंधिनी भूषामपि वज्यांप्रोचुः। सर्वस्मिन्निषिद्धे काले इत्यर्थः । यदाह राजमार्तड:-'यात्रां चूडां विवाहं श्रुतिविवरविधि शंखसमप्रवेशं प्रासादोद्यानहम्यं सुरनरभवनारंभविद्याविधानम् । मौंजीबन्धं प्रतिष्ठां मणिकनकरदाधारणं कुर्वतो ये मृत्युः सिंहस्थितेज्ये गुरुदिनकरयोरेकराशिस्थयोश्च ॥' इति । सिंहस्थगुरोरुपलक्षणत्वाद्र्वस्तादावपि प्रथमकर्तव्यसुवर्णादिधारणं वय॑मित्यर्थः ॥ ४८ ॥ ___ अथ सिंहस्थगुरोः प्रकारत्रयेण परिहारमिंद्रवज्रयाहसिंहे गुरौ सिंहलवे विवाहो नेष्टोऽथ गोदोत्तरतश्च यावत् । भागीरथीयाम्यतटं हि दोषो नान्यत्र देशे तपनेऽपि मेषे॥४९॥ • सिंह इति ॥ अथ प्रथममंशभेदेन परिहार उच्यते । गुरौ सिंहस्थिते सत्यपि सिंहांशे तृतीयांशसहितत्रयोदशांशकेभ्योऽनन्तरं १३।२० तृतीयांशसहितांशत्रयं ३।२० पंचमो नवांशः सिंहांशस्तत्र गुरौ सति विवाहो नेष्टो निषिद्धः। उक्तं च ज्योतिर्निबंधे राजमार्तडेन-'सिंहराशौ तु सिंहांशे यदा भवति वाक्पतिः । सर्वदेशेष्वयं त्याज्यो दंपत्योर्निधनप्रदः॥' इति । विशेषमाह वसिष्ठः-"सिंहे सिंहांशके जीवे कलिंगे गौडगुर्जरे । कालमृत्युरयं योगो दंपत्योनिधनप्रदः ॥' इति । अतोऽवशिष्टेष्वंशेषु विवाहादि शुभं भवतीत्यर्थः। 'सिंहेऽपि भगदैवत्ये गुरौ पुत्रवती भवेत् । अत्यंतसुभगा साध्वी धनधान्यसम Page #62 -------------------------------------------------------------------------- ________________ मुहूर्तचिंतामणिः। [मकरस्थगुरुपरिहारः न्विता ॥' इति राजमार्तडोक्तेः । अथ देशभेदेन द्वितीयः परिहार उच्यते । अथ गोदोत्तरतः गोदावरी नदी तस्या उत्तरदिशि भागीरथी गंगा तस्या याम्यतटं दक्षिणकूलं यावन्मर्यादीकृत्य गोदावरीगंगांतरालवर्ती यो देशस्तत्र सिंहस्थगुरुर्वयो नान्यत्र देशे। अन्येषु देशेषु न सिंहस्थगुरुदोषः । तदाह लल्ल:-'गोदावर्युत्तरतो यावद्भागीरथीतटं याम्यम् । तत्र विवाहो नेष्टः सिंहस्थे देवपतिपूज्ये ॥' इति । अर्थाद्गोदावरीदक्षिणे देशे भागीरथ्युत्तरे देशे च सिंहस्थगुरुदोषो नास्ति । यदाह वसिष्ठः-'भागीरथ्युत्तरे कूले गौतम्या दक्षिणे तटे। विवाहो व्रतबंधो वा सिंहस्थज्ये न दुष्यति ॥ मृगेंद्रसंस्थिते जीवे मध्यदेशे करग्रहः । मृत्युयोगो मृत्युदः स्याईपत्योः पंचवर्षतः॥' इति । अत्र विवाहव्रतबंधावेव न निषिद्धौ। आभ्यामन्यानि शुभकर्माणि तु निषिद्धान्येव । अपवादस्य संकोचाश्रयत्वादुपलक्षणत्वायोगात् । अथ सूर्यराशिवशेन तृतीयः परिहार उच्यते । तपनेऽपि मेषे सूर्ये मेषराशी विद्यमाने सति वा सिंहस्थगुरोर्दोषो नास्ति । 'मंगलानीह कुर्वीत सिंहस्थो वाक्पतियंदा। भानौ मेषगते सम्यगित्याहुः शौनकादयः ॥' इति ज्योतिर्निबंधोक्तेः। अन्यच्च तत्रैव-सिंहगते सुरमंत्रिणि कन्या मेषगते तपने परिणीता । भूषणरत्नयुता च सुशीला सत्यवती सुतकीर्तिसमेता ॥' इति ॥४९ - सिंहराशिगतगुरुनिषेधवाक्यानां प्रतिप्रसववाक्यानां च निर्गलितार्थमनुष्टुब्द्वयेनाह. मघादिपंचपादेषु गुरुः सर्वत्र निंदितः। गंगागोदांतरं हित्वा शेषांघ्रिषु न दोषकृत् ॥५०॥ मेषे सद्वतोद्वाही गंगागोदांतरेऽपि च । . सर्वः सिंहगुरुर्वर्ण्यः कलिंगे गौडगुर्जरे ॥५१॥ . मघादिपंचेति । मेषेऽर्के इत्यादि च ॥ श्लोकद्वयं स्पष्टार्थम् ॥५०॥५१॥ • अथ मकरस्थितगुरोः प्रकारद्वयेन परिहारं शालिन्याहरेवापूर्वे गंडकीपश्चिमे च शोणस्योदग्दक्षिणे नीच इज्यः । वो नायं कौंकणे मागधे च गौडे सिंधौ वर्जनीयः शुभेषु ॥५२॥ रेवापूर्वे इति ॥ रेवा नर्मदानदी तस्याः पूर्वे भागे गंडकी नदी तस्याः पश्चिमे च विभागे शोणनदस्योत्तरे दक्षिणे च विभागे नीच इज्यः मकरस्थगुरुर्न वयः । एषु देशेषु मकरस्थितगुरोदोषो नास्ति । तदुक्तं लल्लेन'नर्मदापूर्वभागे तु शोणस्योत्तरदक्षिणे। गंडक्याः पश्चिमे भागे मकरस्थो न दोषभाक् ॥' अर्थादन्येषु देशेषु निषिद्ध एव । तद्देशज्ञानार्थं द्वितीयः परिहारः। अयं मकरस्थितगुरुः कौंकणे देशे मागधे देशे च गौडदेशे सिंधुदेशे अटकाख्यनगराधस्तात् सिंधु म नदोऽस्ति तत्पारे शुभेषु शुभकृत्येषु वयों निषिद्धः। उक्तं च दैवज्ञमनोहरे-'मागधे गौडदेशे च सिंधुदेशे च कौंकणे। व्रतं . १ सन्तौ च तौ व्रतोद्वाहौ इति विग्रहः । व्रतोद्वाही संतौ शुभावित्यर्थः । Page #63 -------------------------------------------------------------------------- ________________ लुप्तसंवत्सर-समसप्तकदोषौ ] शुभाशुभप्रकरणम् । . चूडां विवाहं च वर्जयेन्मकरे गुरौ ॥' इति । अतोऽन्येषु देशेषु मंगलं कार्यमेवेत्यर्थतः सिद्धम् । व्यवहारचंडेश्वरे तु विशेषः-'नीचराशिगतो जीवः प्रशस्तः सर्वकर्मसु । नीचांशकगतस्त्याज्यो यस्मादशेषु नीचता ॥' इति । अत एव वामनपुराणे-'वापीकूपतडागादि निषिद्धं सिंहगे गुरौ । मकरस्थेऽपि तत्कार्य न दोषः काललोपतः ॥' इति । काललोपो नाम कालनिषेधः, स इह नास्ति । निषेधवाक्यस्य देशपरत्वादशपरत्वाचेति भावः । गरुडपुराणेऽपि—'यदा सिंहगतो जीवो नैव कल्याणमाचरेत् । मकरस्थेऽपि कर्तव्यं नात्र कार्या विचारणा ॥' इति । अत्रापि पूर्वोक्त एवाशयः ॥ ५२ ॥ अथ लुप्तसंवत्सरदोष सापवाद वंशस्थवृत्तेनाहगोजात्यकुंभेतरभेऽतिचारगो नो पूर्वराशिं गुरुरेति वक्रितः। तदा विलुप्ताब्द इहातिनिंदितः शुभेषु रेवासुरनिम्नगांतरे॥५३॥ गोऽजांत्येति ॥गौः-वृषः, अजः मेषः, अंत्यः मीनः, कुंभः; एभ्यः इतरभे अन्यस्मिन् कस्मिंश्चिद्राशौ स्थितो गुरुराक्रांतराशेः सकाशादग्रिमराशौ महातिचारेण समागतः सन् पश्चात्कियनिर्दिनैर्वक्रितो यदा पूर्वराशिं भुक्तराशिं नो एति तदा विलुप्ताब्दः लुप्तसंवत्सर उच्यते । स विलुप्ताब्द इह शुभकृत्येष्वतिनिंदितः, निषिद्ध इत्यर्थः । तदुक्तं व्यवहारोच्चये- 'अतिचारगतो जीवस्तं राशिं नैति चेत्पुनः । लुप्तसंवत्सरो ज्ञेयो गर्हितः सर्वकर्मसु ॥' इति । यदा तु गोऽजांत्यकुंभेषु पूर्वराशेः सकाशान्महातिचारेणायाति पूर्वराशिं च नैति तदा न लुप्तसंवत्सरदोषः। यदाह गुरुः-'मेषे वृषे झषे कुंभे यद्यतीचारगे गुरौ । न तत्र काललोपः स्यादित्याह भगवान् यमः॥' इति । काललोपः कालदौष्टयं । यदि तु दशैकादश वा मासान्भुक्त्वा यस्मिन्कस्मिंश्चिद्राशावतिचारेण गुरुः समायाति पूर्व राशिं च न गच्छति तदा लुप्तसंवत्सर एव नास्ति । यदाह च्यवनः-'मासान्दशैकादश वा प्रयुज्य राशेर्यदा राशिमुपैति जीवः । भुंक्ते न पूर्व च पुनस्तथापि न लुप्तसंवत्सरमाहुराः ॥' इति । अथ पूर्वराशिभेदेन परिहारमुक्त्वेदानी देशभेदेन परिहारमाह-लुप्तसंवत्सरो रेवा नर्मदा सुरनिम्नगा गंगा तयोर्नद्योरंतरे मध्ये निषिद्धः । उक्तं च-'लुप्ताब्ददोषोऽत्रिमतेन मध्ये सोमोभवायाः सुरनिम्नगायाः।' इति । केषुचिद्राशिषु लुप्तसंवत्सरदोषातिशयोऽस्तीत्युक्तं सारसागरे-'अतिचारगते जीवे धनुःकर्कटमीनगे । लुप्तसंवत्सरो ज्ञेयो विवर्यः सर्वकर्मसु ॥' अन्यैर्विवाहादिनिषेधकं समसप्तकाख्यं दोषांतरमप्युक्तम् । यदाह नारदः–'समदृष्टिगुरुः शुक्रस्तन्मासे तु प्रयत्नतः । विवाहादि न कुर्वीत नर्मदातीर उत्तरे ॥' इति । गुरुरपि-'यदा जीवसितौ चक्रे परस्परनिरीक्षितौ । सप्तमस्थौ तदा दोषो मूढत्वादतिरिच्यते ॥' इति । वसिष्ठोऽपि-'समसप्तकयोर्जीवशुक्रयोश्च परस्परम् । तदा मूढसमो दोषः शुभकार्यविनाशनः ॥' इति ॥ ५३॥ Page #64 -------------------------------------------------------------------------- ________________ मुहूर्तचिंतामणिः । [ वारप्रवृत्तिनिरुक्तिः अथ ग्रहाणां होरां वक्ष्यति, सा च वारप्रवृत्त्यधीना, तदर्थ वारप्रवृत्तिमुप जात्याह ४८ - पादोनरेखापरपूर्वयोजनैः पलैर्युतोनास्तिथयो दिनार्धतः । ऊनाधिका स्तद्विवरोद्भवैः पलैरूध्वं तथाधो दिन पप्रवेशनम् ५४ पादोनेति ॥ रेखा = भूमध्य रेखा । 'पुरी रक्षसां देवकन्याथ कांची सितः पर्वतः पर्यलीवत्सगुल्मम् । पुरी चोज्जयिन्याहया गर्गराटं कुरुक्षेत्रमेरू भुवो मध्यरेखा ॥' इति भास्करेणोक्ता । उपलक्षणं चैतत् - लंकात आरभ्य सुमेरुपर्यंतं यद्दत्तं सूत्रं तदधोवर्तिनो ये देशास्ते मध्यरेखा उच्यंते । तदुक्तं तेनैव - 'यलंकोज्जयिनीपुरोपरि कुरुक्षेत्रादिदेशान्स्पृशत्सूत्रं मेरुगतं बुधैर्निंगदिता सा मध्यरेखा भुवः ।' इति । यस्मिन्देशे वारप्रवृत्तिश्चिकीर्षिता स देशो यदि मध्यरेखातः प्राक्पश्चाद्वा यावंति योजनानि भवंति तानि स्वचतुर्थांशोनानि कृत्वा तावद्भिः पलैस्तिथयः पंचदश युतोनाः कार्याः । यदि मध्यरेखातः प्रत्यग्योजनानि तदा युताः । यदा तु प्राग्योजनानि तदोनाः कार्या इत्यर्थः । अथ यद्दिने वारप्रवृत्तिरिष्टा, तद्दिने 'चरपलयुतहीना नाडिकाः पंचचंद्रादयुदलमथ निशार्ध याम्यगोले विलोमम् ।' इति भास्करोक्तरीत्या दिनार्ध साध्यम् । तस्माद्दिनार्धात्संस्कारविशिष्टाः पंचदश ऊनाधिकाश्चेद्भवंति तद्विवरोद्भवैः पलैर्दिनार्धस्य संस्कारविशिष्टपंचदशानां च यद्विवरमंतरं तत्संबंधेनोत्थैरुत्पन्नैः पलैरूर्ध्वं तथाधो दिनपस्य वारस्य प्रवेशनं वारप्रवृत्तिः स्यात् । यदि दिनार्धात्संस्कारविशिष्टाः पंचदश चेदूनाः स्युस्तदा सूर्योदयादूर्ध्व वारप्रवेशनम् । यदा ह्यधिकास्तदा सूर्योदयात्प्राग्वारप्रवृत्तिरित्यर्थः । यथा वाराणसीप्राकूमध्य रेखाभिधात् कुरुक्षेत्राचिषष्टियोजनानि ६३ पादोनानि ४७ । १५ प्राग्योजनत्वादेतैः ४७ पलैः ऊना: पंचदश जाताः १४ / १३ दिनार्ध १७/२ अस्मात् न्यूना इति विवरं २।४९ सूर्योदयादूर्ध्व वारप्रवृत्तिः । अयमर्थो ग्रंथकृता लाघवायोपनिबद्धः । राजमार्गस्तु वसिष्ठसंहितायाम् - 'प्रभाकरस्योगमनात्पुरे स्याद्वारप्रवृत्तिर्दशकंधरस्य । चरार्धदेशांतरनाडिकाभिरूर्ध्वं तथाधोऽथ परत्र तस्मात् ॥' इति । श्रीपतिरपि — 'चरार्धदेशांतरयोर्वियोगयोगोत्थमानीय पलैश्च सम्यक् । सूर्योदयादूर्ध्वमृणे धनेऽधो वारप्रवृत्तिं मुनयो वदंति ॥' इति । तत्र चरमुत्तरदक्षिणगोलवशाहणं धनं च 'अस्वं, स्वं चरं गोलयोः स्यात्' इति भास्करोतेः । देशांतरमपि पूर्वापरयोजनवशादृणं धनं च । तत्र - 'योगे युतिः स्यात्क्षययोः स्वयोर्वा धनर्णयोरंतरमेव योगः ' इत्युक्तेः ऋणयोर्देशांतरचरयोर्योगे तूर्ध्व वारप्रवृत्तिः । धनयोर्योगे सूर्योदयादुधः धनर्णयोर्योगें तरं कार्यम् । तद्यदि ऋणं धनं च तदा सूर्योदयादूर्ध्वमधश्च वारप्रवृत्तिः । ग्रंथकृता तु चरसंस्कारो मध्याह्नस्य तद्विशिष्टत्वान्न कृतः । देशांतरसंस्कारोऽवशिष्यते स लंकादिनार्थे पंचदशघटीमिते कार्य:, तथा कृते सति यदुभयोरंतरं तावत्सूर्योदयादूर्ध्वमधश्च वारप्रवृत्तिः ॥ ५४ ॥ १ गोलयोः=सौम्ययाम्यगोलयोरित्यर्थः । Page #65 -------------------------------------------------------------------------- ________________ ४९ कालहोराः] शुभाशुभप्रकरणम् । अथ वारप्रवृत्तिप्रयोजनपुरःसरां होरामनुष्टुभाहवारादेटिका द्विघ्नाः स्वाक्षहच्छेषवर्जिताः। सैकास्तष्टा नगैः कालहोरेशा दिनपात्क्रमात् ॥ ५५ ॥ वारादेरिति ॥ वारप्रवृत्तिप्रकारेण यस्मिन् क्षणे वारप्रवृत्तिर्जाता तत इष्टघट्यो द्विगुणाः कार्याः । ता द्विस्थाने स्थाप्याः । तत्र पंचभिर्भक्ते यल्लब्धं तत् त्याज्यं । यच्छेषं तत् द्विगुणघटीमध्ये वर्जितं कार्यम् । एवंविधा घट्यः सैका एकयुक्ताः कार्याः। ततो नगैः सप्तभिस्तष्टा भक्ता अवशिष्टाः कालहोराः स्युस्तद्दिनपाद्वारात्क्रमाद्गणनीयाः। यथा-रविवारे इष्टघटिकाः षद ६ द्विगुणाः १२ पृथगक्षाप्तशेष २ वर्जिताः १० सैकाः ११ नगैस्तष्टाः शेषं ४ रविवारे क्रमगणनया चतुर्थों बुधस्तस्य होरा । अत्र वासना । तत्र वसिष्ठः-'वारप्रवृत्ते. र्गदिता दिनेशात्कालाख्यहोरापतयः क्रमेण । सार्धन नाडीद्वितयेन तष्टः षष्टश्च षष्ठश्च पुनःपुनः स्यात् ॥' इति । तत्र कृतेऽहोराने चतुर्विंशतिः कालहोरा भवन्ति । अत्रानुपातः-यदि घटिकानां षष्टया ६० चतुर्विंशति)रा २४ लभ्यन्ते, तदा एकया किमिति । अत्रैकेन गुणने विशेषाभावाच्चतुर्विंशतः छेदः पष्टिर्जातः । उभयोादशापवर्ते इष्टघटिका द्विगुणाः पञ्चभक्ताः कालहोराः स्युरिति । तथा चोक्तं रत्नमालायाम्-'वारप्रवृत्तेर्घटिका द्विनिनाः कालाख्यहोरापतयः शराप्ताः । दिनाधिपाद्या रविशुक्रसौम्यशशांकसौरेज्यकुजाः क्रमेण ॥' अथ ग्रंथकृदुक्ता वासना-सार्धघटिद्वयेनैका होरा द्विगुणिताः सार्धद्विघव्यः पंच भवंति । अत एवोक्तं 'वारादेर्घटिका द्विघ्नाः' इति । एकयोगे षद जाताः । एवं रविवारे क्रमेण गणनया द्वितीया शुक्रस्य कालहोरा प्रवृत्ता। अत उक्तं 'सैका' इति । भवन्मतेऽपि सूर्याषष्ठः शुक्रस्तस्यैव होरा । इयं च शुक्रहोरा पंचघटीपर्यंत । स्वमते इष्टघटिका ४ द्विगुणाः ८ अत्र पंचभ्य आधिक्यमनुचितमिति द्वितीयस्थाने स्थापयित्वा पंचभक्तावशिष्टत्रयेणोनाः पंच जाताः। अत उक्तं 'स्वाक्षहृच्छेषवर्जिताः' इति । एकयोगे षट् । एवं सति पुनः सैव होरा । एवमिष्टघटीभिः कालहोरानयनं सुगमं । वाराणां सप्तसंख्यात्वात्तदाधिक्यमनुचितमिति 'नगैस्तष्टा' इत्युक्तम् । क्रमगणनायां त्वियं युक्तिः । द्वयो)रास्वामिनोरंतरं पंच संभवति । एकयोगस्तु वर्तमानकालहोराज्ञानार्थ, अतः षष्ठीक्रमगणनया भवद्विवक्षिता सैव होरा भवति ॥ विवाहवृन्दावने तु उदयमारभ्योक्ताः कालहोराः । यथा-'तत्कालार्कन्यूनलग्नांशपिंडो भक्ताः पंच क्षोणिभिर्भुक्तहोराः । भास्वच्छुक्रजेंदुसौरेज्यभौमाः संख्यायेरन वारतस्ते तदीशाः' इति । अनयोर्विषयविभागो वसिष्ठसंहितायाम्-'वारप्रवृत्तेर्विज्ञानं क्षणवारार्थमेव हि । अखिलेष्वन्यकार्येषु दिनादिरुदयाद्भवेत् ॥' इति । क्षणवारः-कालहोरारूपः, तदर्थं वारप्रवृत्तिः । अन्यकार्येषु दिक्शूलादिपु तिथिवारप्रयुक्तेषु नक्षत्रवारप्रयुक्तेषु चायोगेषु सुयोगेषु च सूर्योदयादेव वारा ग्राह्याः ॥ ५५ ॥ ५ मु० चि. Page #66 -------------------------------------------------------------------------- ________________ मुहूर्तचिंतामणिः। [चतुर्दश मन्वादयः अथ कालहोराप्रयोजनमन्यच्च शालिन्याह वारे प्रोक्तं कालहोरासु तस्य धिष्ण्ये प्रोक्तं स्वामितिथ्यंशकेऽस्य । कुर्यादिक्शूलादि चिंत्यं क्षणेषु नैवोल्लंघ्यः पारिश्चापि दंडः॥५६॥ वारे प्रोक्तमिति ॥ यत्कर्म यस्मिन् वारे प्रोक्तं तद्दिनस्य सदोषत्वादत्यावश्यककृत्ये तस्य कालहोरायां कर्तव्यम् । यदाह नारदः-'यस्य खेटस्य यत्कर्म वारे प्रोक्तं विधीयते। ग्रहस्य क्षणवारेऽपि तस्य तत्कर्म सर्वदा ॥' इति। अत्र केचित्-यस्य वारे यत्कर्म प्रोक्तं तस्य बलिनो नवांशे सूर्यश्चन्द्रो वा चेत्तिष्ठेत् तदा तत्कर्म कार्यमित्याहुः। उक्तं च-'यस्य ग्रहदिने कर्म यत्किंचिदभिधीयते । तस्यांशसंस्थिते सूर्ये चंद्रे वा तद्विधीयते ॥' इति । कैश्चित्प्रत्येक होराफलान्युक्तानि-'भानुहोरा मृतिं कुर्याचंद्रहोरा स्थिरासनम् । काराबंधं भौमहोरा बुधहोरा च पुत्रदा ॥ वस्त्रालंकारदा जीवहोरा शौक्री विवाहदा । जडत्वं शनिहोरायां सप्तहोराफलं त्विदं ॥ प्रश्नकाले यदा होरा तदा तत्फलमाप्नुयात् ॥' इति । उदयादारभ्य होरानयनप्रयोजनं तु-'पादं स्ववर्षे च दलं स्वमासे दिने स्वकीये चरणोनरूपम् । रूपं स्वहोरास्विति कालवीर्यमुक्तं हि होरानिपुणैः पुराणैः॥' इति । युक्तं चैतत् ; वर्षेशादीनामुदयादितः प्रवृत्तानां साहचर्याद्वारेशा अप्युदयादेव गणनीयाः ॥ अथ प्रसंगान्नक्षत्रप्रयुक्तानां कर्मणां नक्षत्राभावेनानुष्ठाने प्राप्तेऽपवादमाह-धिष्ण्य इति। यस्मिन्धिष्ण्ये नक्षत्रे यत्कर्म वस्त्रपरिधानादिकमुक्तं तत्सत्यावश्यकत्वेऽस्य धिष्ण्यस्य स्वामितिथ्यंशके स्वामिमुहूर्ते कुर्यात् । उक्तं च नारदेन–'यस्मिनक्षे तु यत्कर्म निखिलं कथितं च यत् । तदैवत्ये तन्मुहूर्ते कार्य यात्रादिक तथा ॥' इति । मुहूर्तस्वामिनो विवाहप्रकरणे वक्ष्यति । अथात्रापि स्वामितिथ्यंशे इदमवश्यं चिंत्यं विचारणीयम् । किं ? दिक्शूलाचं वारशूलं नक्षत्रशूलं च । आदिशब्देन लालाटिकयोगोऽपि । क्षणेषु मुहूर्तेषु इदमवश्यं चिंत्यं विचारणीयम् । एवं पारियो दंडः क्षणेषु नैवोल्लंघ्यः । यदाह वसिष्ठः'यत्कर्म कथितमृक्षे यस्मिंस्तत्कर्म तत्क्षणे कार्यम् । दिक्शूलादिकमखिलं पारिघदंडादि विज्ञेयम् ॥' इति । विज्ञेयं अवश्यं विचारणीयम् । दिक्शूलादिकं तु यात्राप्रकरणे वक्ष्यति ॥ ५६ ॥ . अथ कार्यमात्रनिषिद्धान्मन्वादीन युगादींश्व शार्दूलविक्रीडितेनाहमन्वाद्यास्त्रितिथी मधौ तिथिरवी ऊर्जे शुचौ दिक्तिथी ज्येष्ठेऽन्त्ये च तिथिस्त्विषे नव तपस्यश्वाः सहस्से शिवा । Page #67 -------------------------------------------------------------------------- ________________ ५१ तात्कालिकानध्यायाः] शुभाशुभप्रकरणम् ।। भाद्रेऽग्निश्च सिते त्वमाष्ट नभसः कृष्णे युगाद्याः सिते गोऽग्नी बाहुलराधयोर्मदनदर्शी भाद्रमाघासिते ॥ ५७ ।। मन्वाद्या इति ॥ एते चतुर्दश मन्वाद्या ज्ञेयाः । सिते इति वक्ष्यमाणं पदमनुकृष्य चैत्रादिमासेष्वपि संबध्यते । मधौ-चैत्रमासे, सिते-शुक्लपक्षे, त्रितिथी-तृतीयापूर्णिमे । ऊर्जे-कार्तिके, शुक्लपक्षे तिथिरवी-पूर्णिमाद्वादश्यो। शुचौ आषाढमासे शुक्लपक्षे, दितिथी-दशमीपूर्णिमे । ज्येष्ठे, अंत्ये-फाल्गुने च तिथिः पूर्णिमा । इषे आश्विने शुक्लपक्षे नव-नवमी । तपसि मासे-माघे मासि शुक्लपक्षे, अश्वाः सप्तमी। सहस्ये पौष शुक्लपक्षे,शिवा एकादशी। भाद्रे भाद्रपदमासे शुक्लपक्षे, अग्निः तृतीया। नभसः श्रावणस्य, कृष्णे-कृष्णपक्षे, अमा अमावास्या, अष्ट अष्टमी । अत्राष्टमी जन्माष्टमी तदनंतरभाविनी अमावास्या च गृह्यते । यदाह नारदः-'द्वादश्यूर्जे शुक्लपक्षे नवम्याश्वयुजे सिते । चैत्रे भाद्रपदे चैव तृतीया शुक्लसंज्ञिता ॥ एकादशी सिता पौषेऽप्याषाढे दशमी सिता । माघे च सप्तमी शुक्ला नभस्येऽप्यसिताष्टमी ॥ श्रावणे मास्यमावास्या फाल्गुने मासि पूर्णिमा । आषाढे कार्तिके मासि चैत्री ज्येष्ठस्य पूर्णिमा ॥ मन्वादयः स्नानदानश्राद्धेष्वानंत्यपुण्यदाः ॥' इति । मत्स्यपुराणेऽपि-'आश्वयुक् शुक्लनवमी कार्तिके द्वादशी तथा । तृतीया चैत्रमासस्य तथा भाद्रपदस्य च ॥ श्रावणस्य त्वमावास्या पौषस्यैकादशी तथा । आषाढस्यापि दशमी माघमासस्य सप्तमी ॥ श्रावणस्याष्टमी कृष्णा आषाढस्यापि पूर्णिमा । कातिकी फाल्गुनी चैत्री ज्यैष्टी पंचदशी सिता ॥ मन्वंतरादयश्चैता दत्तस्याक्षयकारिकाः ॥' इति । अत्र नारदवाक्ये-'नभस्येऽप्यसिताष्टमी' इति, तत् कृष्णादिमासाभिप्रायेण । मत्स्यपुराणवचनं तु-'श्रावणस्याष्टमी कृष्णा' इति तच्छुक्लादिमासाभिप्रायेण । एवं सति जन्माष्टमी सिद्धा । उभयमते अमावास्या शुक्लमासाभिप्रायेण जन्माष्टम्यनंतरभाविनी गृह्यते ॥ अथ युगाद्याः युगादयश्चत्वार उच्यन्ते । बाहुल: कार्तिकः, राधः वैशाखः, गोऽग्नी-नवमीतृतीये यथासंख्ये ज्ञेये, सिते-शुक्लपक्षे । कार्तिके-शुक्लपक्षे नवमी, वैशाखेशुक्लपक्षे तृतीया, भाद्रमाघासिते यथासंख्यं मदनदी भाद्रपदकृष्णपक्षत्रयोदशी माघकृष्णामावास्या एते युगादयश्चत्वारः । यदाह नारद:-'कार्तिके शुक्लनवमी चादिः कृतयुगस्य सा । त्रेतादिधिवे शुक्ला तृतीया पुण्यसंज्ञिता ॥ कृष्णा पंचदशी माघे द्वापारादिरुदीरिता । कल्पादिः स्यात्कृष्णपक्षे नभस्ये च त्रयोदशी ॥' शुक्लादिमासाभिप्रायेण श्राद्धपक्षत्रयोदशी प्रसिद्धशिवरात्र्यनंतरभाविन्यमावास्या च गृह्यते। उशनाः-'अयने विषुवे चैव शयने बोधने हरेः । अनध्यायं प्रकुर्वीत मन्वादिषु युगादिषु ॥' इति । याज्ञव ल्यस्त्वष्टत्रिंशत्तात्कालिकाननध्यायानाह-'संध्यागर्जितनिर्धातभूकंपोल्कानिपातने । समाप्य वेदं धुनिशमारण्यकमधीत्य च ॥ पंचदश्यां चतुर्दश्यामठम्यां राहुसूतके । ऋतुसंधिषु भुक्त्वा च श्राद्विकं प्रतिगृह्य च ॥ पशुमंडूक. Page #68 -------------------------------------------------------------------------- ________________ मुहूर्तचिंतामणिः । [ नक्षत्रस्वामिनः नकुलश्वाहिमार्जारमूषकैः । कृतेंतरे त्वहोरात्रं शक्रपाते तथोच्छ्रये ॥ खरोष्ट्र गर्दभोलूकसामबाणार्तनिःस्वने । अमेध्यशवशूद्रांत्यश्मशानपतितांतिके ॥ देशेऽशुचावात्मनि च विद्युत्स्तनितसंप्लवे । भुक्त्वार्द्धपाणिरंभोभिरर्धरात्रेऽतिमारुते ॥ पांसुवर्षे दिशां दाहे संध्यानीहारभीतिषु । धावतः पूतिगंधे च शिष्टे च गृहमागते ॥ खरोष्ट्रयानहस्त्यश्वनौवृक्षेरिणरोहणे । अष्टत्रिंशदनध्यायानेतांस्तात्कालिकान् जगुः ॥' इति । अन्यच्च - ' अहन्येते ह्यनध्यायाः शिष्यत्विग्गुरुबंधुषु । उपाकर्मणि चोत्सर्गे स्वशाखाश्रोत्रिये मृते ॥ एवमादयोऽन्येऽप्यनध्याया धर्मशास्त्रोक्ता अनुसंधेयाः । ते च व्रतबंधे विद्यारंभे व्रतविसर्गादौ नित्याध्ययने च यथायोग्यं वर्जनीयाः । सोपपदादीननध्यायान् ग्रंथकृद्रतबन्धप्रकरणे वक्ष्यतीति शिवम् ॥ ५७ ॥ अथ शुभाशुभप्रकरणं गद्येनोपसंहरति ५२ इति श्रीदैवज्ञानंतसुतदैवज्ञरामज्योतिर्विद्विरचिते मुहूर्तचिंतामणी शुभाशुभप्रकरणं समाप्तम् ॥ १ ॥ 'इति हेतुप्रकरणप्रकारादिसमाप्तिषु' इत्यमरः । श्रीशब्दो वाक्यालंकारे । शुभं = सिद्धियोगादि, अशुभं सिंहस्थादि, तयोः प्रकरणं निरूपणम् । अन्यत् स्पष्टम् । ‘ज्योतिर्विद्वरनीलकंठविदुषः श्रीचंद्रिकायास्तथा पुत्रेणाहिगवीप्रसारितधिया मौहूर्तचिंतामणेः । गोविंदेन विनिर्मिते नयनिधौ पीयूषधाराभिधे व्याख्याने हि शुभाशुभप्रकरणं पूर्णत्वमध्यागमत् ॥' इति श्रीविद्वद्वरदैवज्ञमुकुटालंकारनीलकंठज्योतिर्वित्पुत्रगोविंदज्योतिर्विद्विरचितायां मुहूर्तचिंतामणिटीकायां पीयूषधाराभिधायां शुभाशुभप्रकरणं समाप्तम् ॥ १ ॥ नक्षत्रप्रकरणम् २ । ि शर्वाणीतनयमघाब्धिदावमीशं नत्वा श्रीगुरुपदभक्तिलब्धविद्यः । गोविंदो विबुधवरप्रहर्षिणीं तां नक्षत्रप्रकरणटिप्पणीं तनोति ॥ १ ॥ अथ नक्षत्रप्रकरणं व्याख्यायते । तत्रादौ नक्षत्राणां प्रसिद्धत्वादेवावक्तव्यतायां सिद्धायां तत्स्वामिनः शार्दूलविक्रीडितेनाहनासत्यान्तकवद्विधातृशशभृगुद्रादितीज्योरगा --- 1 ऋक्षेशाः पितरो भगोऽर्यमरवित्वष्ट्राशुगाश्च क्रमात् aarat खलु मित्रशनिर्ऋतिक्षीराणि विश्वे विधिगोविंदो वसुतोयपाजचरणाहिर्बुध्यपूषाभिधाः ॥ १॥ नासत्यान्तकेति ॥ एते क्रमाक्षेशा नक्षत्राधीशा ज्ञेयाः । यथा, अश्विन्याः -- Page #69 -------------------------------------------------------------------------- ________________ नक्षत्रकृत्यानि] नक्षत्रप्रकरणम् २। नासत्यौ-अश्विनीकुमारौ। भरण्याः-अन्तकः यमः। कृत्तिकायाः-वह्निः अग्निः। रोहिण्याः-धाता ब्रह्मा । मृगस्य-शशभृत्-चन्द्रः। आर्द्रायाः-रुद्रः महादेवः। पुनर्वसो:-अदितिः=देवमाता। पुष्यस्य-इज्यः बृहस्पतिः। आश्लेषायाःउरगः सर्पः । मघायाः-पितरः। पूर्वाफल्गुन्याः-भगः सूर्यविशेषः । उत्तराफल्गुन्याः-अर्यमा सूर्यविशेषः । हस्तस्य-रविः सूर्यः । चित्रायाः-त्वष्टा विश्वकर्मा । स्वात्याः-आशुगः वायुः। विशाखायाः-शक्राग्नी-इन्द्राग्नी । अत्र समुदितयोर्देवतात्वं । अनुराधायाः-मित्रः सूर्यविशेषः । ज्येष्ठायाः-शक्रः इन्द्रः । मूलस्य-निर्ऋतिः राक्षसः। पूर्वाषाढाया:-क्षीरं-उदकं । उत्तराषाढायाः-विश्वेविश्वेदेवाः। अभिजितः-विधिः । श्रवणस्य-गोविंद: विष्णुः । धनिष्ठायाःवसवः अष्टौ देवताविशेषाः । शततारकायाः-तोयपः वरुणः । पूर्वाभाद्रपदायाः-अजचरणः रुद्रविशेषः। उत्तराभाद्रपदायाः-अहिर्बुध्न्यः रुद्रविशेषः । रेवत्याः-पूषा-सूर्यविशेषः । यदाह नारद:-'नक्षत्रेशाः क्रमादत्रयमवह्निपितामहाः । चन्द्रेशादितिजीवाहिपितरो भगसंज्ञिताः ॥ अर्यमार्कस्त्वष्ट्रमरुच्छक्राग्नीमित्रवासवाः । निर्ऋत्युदकविश्वेजगोविंदा वसवोंऽबुपः ॥ ततो. ऽजपादहिर्बुभ्यः पूषा चेति प्रकीर्तिताः ॥' इति । प्रयोजनं तु तिथिप्रकरणे प्रोक्तमस्माभिः । अत्र वसव इति बहुवचनांतत्वाद्बहूनामेव व्यासज्यवृत्तिदेवतात्वं प्रतीयते । 'धनिष्ठानक्षत्रं वसवो देवता' इति श्रुत्युक्तेश्च । एवं सति केचिद्दीपिकाकारादयो बहुत्वमविवक्षितमिति मत्वा वसुशब्दं च द्रव्यवाचकं मत्वा स्वं धनं द्रव्यमित्यादिशब्द धनिष्ठानक्षत्रवाचकं मन्यंते, ते चिन्त्योक्तयो वेदितव्याः । अथ प्रसंगात्प्रत्येकं नक्षत्रकृत्यानि ग्रन्थकृदनुक्तान्यप्युच्यते । तान्याह नारदः-'वस्त्रोपनयनक्षौरसीमन्ताभरणक्रियाः । स्थापनाश्वेभयानस्त्रीकृषिविद्यादयोऽश्विभे ॥ वापीकूपतडागादिविषशस्त्रोग्रदारुणाः । बिलप्रवेशगणितनिक्षेपा याम्यभे शुभाः ॥ अन्याधानास्त्रशस्त्रोग्रसंधिविग्रहदारुणाः । संग्रामौषधवादित्रक्रियाः शस्ताश्च वह्निभे ॥ सीमंतोन्नयनोद्वाहवस्त्रभूषास्थिरक्रियाः । हयहस्त्यभिषेकाश्च प्रतिष्ठा ब्रह्मभे शुभाः ॥ प्रतिष्ठाभूषणोद्वाहसीमंतोन्नयनक्रियाः । क्षौरवास्तुगजोष्ट्राश्वयात्राः शस्ताश्च चन्द्रभे ॥ ध्वजतोरणसंग्रामप्राकारास्त्रक्रियाः शुभाः । संधिविग्रहवैराणि रसाद्याः शर्वभे शुभाः ॥ प्रतिष्ठायानसीमन्तवस्त्रवास्तूपनायनम् । क्षौराश्वकर्मादितिभे विधेयं धान्यभूषणम् ॥ यात्राप्रतिष्ठासीमन्तव्रतबन्धप्रवेशनम् । करग्रहं विना सर्व कर्म देवेज्यभे शुभम् ॥ अनृतं व्यसनं द्यूतं धातुवादीषधाहवम् । विवादरसवाणिज्यं कर्म कद्रुजभे शुभम् ॥ कद्रुजः सर्पः। कृषिवाणिज्यगोधान्यरणोपकरणादिकम् । विवाहनृत्यगीताचं निखिलं कर्म पैत्रभे ॥ विवादविषशस्त्राग्निदारुणोग्राहवादिकम् । पूर्वात्रयेऽखिलं कर्म कर्तव्यं मांसविक्रयः ॥ प्रतिष्ठोद्वाहसीमंताभिषेकव्रतबन्धनम् ॥ प्रवेशस्थापनाश्वेभवास्तुकर्मोत्तरात्रये ॥ प्रतिष्ठोद्वाहसीमंतयानवस्त्रोपनायनम् । क्षौरवास्त्वभिषेकाश्च भूषणं कर्म भानुभे ॥ प्रवेशवस्त्रसीमंतप्रतिष्ठाव्रतबंधनम् । खाष्ट्रभे वास्तुविद्याश्च क्षौरभूषणकर्म यत् ॥ प्रतिष्ठोपनयोद्वाहवस्त्रसीमंत Page #70 -------------------------------------------------------------------------- ________________ मुहूर्तचिंतामणिः। [ध्रुव-चरगणौ भूषणम् । विवादाश्वभकृष्यादिक्षौरकर्म समीरभे ॥ वस्त्रभूषणवाणिज्यरसधान्यादिसंग्रहम् । इन्द्राग्निभे नृत्यगीतशिल्पलेखनकर्म यत् ॥ प्रवेशस्थाप्रनोद्वाहव्रतबन्धाष्टमंगलम् । वस्त्रभूषणवास्तुश्च मैत्रभे संधिविग्रहम् ॥ क्रूरोग्रशस्त्रवाणिज्यगोमहिष्यंबुकर्म च । इन्द्रभे नृत्यवादिनशिल्पलोहाश्मलेखनम् ॥ विवाहकृषिवाणिज्यदारुणाहवभेषजम् । निर्ऋतिभे नृत्यशिल्पसंधिविग्रहलेखनम् ॥' इति । पूर्वाषाढोत्तराषाढयोः कृत्यमुक्तम् । 'प्रतिष्ठाक्षौरसीमंतयानोपनयनौषधम् । पुरग्रामगृहारंभा विष्णुभे पटबंधनम् ॥ वस्त्रोपनयनक्षौरप्रतिष्ठायानभूषणम् । वसुभे वास्तुसीमंतप्रवेशास्त्रविभूषणम् ॥ प्रवेशस्थापनक्षौरमौंजीबन्धनभेषजम् । अश्वारोहणसीमंतवास्तुकर्म जलेशभे॥' इति । पूर्वाभाद्रपदोत्तराभाद्रपदयोः कृत्यमुक्तं पूर्वम् । 'विवाहव्रतबन्धाश्च प्रतिष्ठायानभूषणम् । प्रवेशवस्त्रसीमंतक्षौरभेषजमंत्यभे ॥' इति ॥ १ ॥ अथ ध्रुवगणं तत्कृत्यं चानुष्टुभाह- उत्तरात्रयरोहिण्यो भास्करश्च ध्रुवं स्थिरम् । तत्र स्थिरं बीजगेहशांत्यारामादि सिद्धये ॥ २ ॥ उत्तरात्रयेति ॥ उत्तरा उत्तराफल्गुन्युत्तराषाढोत्तराभाद्रपदास्तिस्र उत्तराः रोहिणी च एतानि नक्षत्राणि ध्रुवसंज्ञकानि स्थिरसंज्ञानि चेति संज्ञाद्वयम् । एवमुत्तरत्रापि व्याख्येयम् । तत्र ध्रुवनक्षत्रेषु स्थिरं कर्म कार्यम् । तथा बीज यवादि, गेहं-गृहं, शांतिः विनायकशांत्यादि, आरामः नगरोपकंठवर्ति वनम्। आदिशब्दान्मृदुनक्षत्रोक्तमपि कर्म सिद्धये भवति । तदुक्तं वसिष्ठेन-'स्थिर- . संज्ञं भचतुष्टयमंबुजजसंमुत्तरात्रितयम् । नरपतिपत्तनसदनप्रवेशबीजादि सिध्यते तत्र ॥ मृदुबूंदे कथितान्यपि स्थिरवृंदे तानि कार्याणि ॥' इति । अथ संज्ञाद्वये प्रमाणमुच्यते-'ध्रुवमचलं क्षिप्रं लघु चरं चलं मैत्रमृदुसंज्ञे । साधारणमिश्राख्यं क्रूरोग्रं तीक्ष्णदारुणं तुल्यम् ॥' इति वसिष्ठोक्तेः । एवं भास्करो रविरपि स्थिरः । यदाह वसिष्ठः-'सूर्यः स्थिरः शीतकरश्चरात्मा धराज उग्रः शशिजो विमिश्रः । देवेंद्रपूज्यो लघुरिंद्रशत्रुपूज्यो मृदुस्तीक्ष्णतनुश्च सौरिः ॥' इति । अत्रापि सामान्यतः स्थिरकृत्यं कार्य मूलश्लोकोक्तम् । अन्यदपि वारोक्तं कर्म कार्यमभिधानात् । यदाह नारदः-'नृपाभिषेकमांगल्यसेवायानास्त्रकर्म यत् । औषधाहवधात्वादि विधेयं भानुवासरे ॥' इति ॥२॥ अथ चरगणं तत्कृत्यं चानुष्टुभाह खात्यादित्ये श्रुतेस्त्रीणि चंद्रश्चापि चरं चलम् । तस्मिन्गजादिकारोहो वाटिकागमनादिकम् ॥३॥ खात्यादित्य इति ॥ स्वाती, आदित्यं-अदितिर्देवताऽस्यादित्यम् , 'दित्यदित्यादित्यपत्युत्तरपदापण्यः' इति ण्यः । आदिवृद्धिः । 'यस्येति च' इतीकार Page #71 -------------------------------------------------------------------------- ________________ उग्र- मिश्र-लघुगणाः ] नक्षत्रप्रकरणम् I लोपः । आदित्यं = पुनर्वसुः । श्रुतेः श्रवणमारभ्य त्रीणि श्रवणधनिष्ठाशततारकाः सोमवारश्च चरसंज्ञाश्चलसंज्ञाश्चैते ज्ञेयाः । तस्मिंश्चरनक्षत्रे गजो हस्ती तदादयोऽश्वादयस्तेषामारोहः, वाटिका आरामस्तथा गमनं यात्रा | आदिशब्दाल्लघुनक्षत्रोक्तमपि कर्म सिध्यतीति शेषः । तदाह वसिष्ठः - 'अदितिः श्रुतिभात्रितयं चरसंज्ञं पंचकं मरुद्धं च । वाहनकर्मविभूषणचर कार्योद्यानमंत्र - सिद्ध्यै तत् ॥ कथितान्यपि लघुवृंदे चरसंज्ञे तानि कार्याणि । मणिमुक्ताफलहेमसद्वजतत्रपुसीसकर्माणि ॥' इति । नारदः - ' शंखमुक्तांबुरजतवृक्षेक्षुस्त्रीविभूषणम् । पुष्पगीतक्रतुक्षीर कृषिकर्मेंदुवासरे ॥' इति ॥ ३ ॥ अथोग्रगणमनुष्टुभाह— पूर्वात्रयं याम्यमधे उग्रं क्रूरं कुजस्तथा । तस्मिन्घाताग्निशाठ्यानि विषशस्त्रादि सिध्यति ॥ ४ ॥ पूर्वात्रयमिति ॥ पूर्वात्रयं = पूर्वाफल्गुनीपूर्वाषाढापूर्वाभाद्रपदारूपं नक्षत्रत्रयं, याम्यं=भरणी, मघा च, तथा कुजः = भौमश्च, उग्रसंज्ञः, क्रूरसंज्ञश्च । तस्मिन्=उग्रनक्षत्रे, घातः = हननं, अग्निः = अग्निदाहः, शाठ्यं=खलत्वं, विषं=विषभक्षणादि, शस्त्रं =शस्त्रमारणादि, आदिशब्दादन्यदपि अरिष्टकृत्यं दारुणनक्षत्रोक्तं सिध्यतीति निष्पद्यते । उक्तं च वसिष्ठेन - 'पूर्वात्रितयं पित्र्यभमुग्राख्यमिदं च पंचकं याम्यम् | मारणभेदनबंधनविषहननं पंचभे कार्यम् ॥ यद्दारुणभोक्तं तत्कर्म त्वयोग्रभे कार्यम् ॥' इति । नारदः - 'विषाग्निबंधनस्तेयसंधिविग्रहमासवम् । धात्वाकरप्रवालस्त्रीकर्म भूमिजवासरे ॥' इति ॥ ४ ॥ अथ मिश्रगणमनुष्टुभाह विशाखायभे सौम्यो मिश्रं साधारणं स्मृतम् । तत्राग्निकार्यं मिश्रं च वृषोत्सर्गादि सिद्धये ॥ ५॥ ५५ विशाखेति ॥ विशाखा, आग्नेयं = कृत्तिका, सौम्यः - बुधश्च, एतत्रयं मिश्रसंज्ञ, साधारणसंज्ञं च । तत्र मिश्रसंज्ञेषु नक्षत्रेषु अग्निकार्य = अग्निहोत्रं, मिश्रनक्षत्रांतरोक्तं कर्म, वृषोत्सर्गः - काम्यः । आदिशब्दादुग्रमपि कर्म सिद्धये भवति । तदाह वसिष्ठः - ' भद्वितयं श्वसनसखं सेंद्राग्निभकं च मिश्रसंज्ञ हि । निखिलानि च साधारणकार्याण्युग्राणि तत्र कार्याणि ॥' इति । नारदः'नृत्यशिल्पकलागीतलिपिभूरससंग्रहम् । विवाहधान्यसंग्राहकर्म सौम्यस्य वासरे ॥' इति ॥ ५ ॥ अथ लघुगणमनुष्टुभाह - हस्ताश्विपुष्याभिजितः क्षिप्रं लघु गुरुस्तथा । तस्मिन्पण्यरतिज्ञानभूषाशिल्पकलादिकम् || ६ || हस्ताश्वीति ॥ पूर्वाधं स्पष्टम् । तस्मिन् लघुनक्षत्रे, पण्यं = विक्रेयवस्तु, Page #72 -------------------------------------------------------------------------- ________________ : मुहूर्तचिंतामणिः। [अधोमुखादिनक्षत्राणि रतिः स्त्रीभोगः, ज्ञान-शास्त्रादेः, भूषा आभरणं, शिल्पं चित्रादि, कला:चतुःषष्टिकला नृत्यादिकाः। मादिशब्दाचरनक्षत्रोक्तमपि कार्यम् । तदाह वसिष्ठः-'सुरसचिवाश्विनहस्तास्ताराः स्युः क्षिप्रसंज्ञकास्तासु । औषधपण्यविभूषणशिल्पकलाज्ञानकर्मसिद्धिः स्यात् ॥ चरधिष्ण्ये कथितान्यपि कार्याण्यखिलानि लघुगणे नूनम् ॥' इति । नारदोऽपि-'क्षिप्रं सूर्याश्विपुण्यभम्' इत्याह । अत्राभिजिन्नोक्तः । दैवज्ञमनोहरे-'आर्टिषेण' इत्युक्त्वा पठितम् 'लघुक्षिप्रं करस्तिष्योऽभिजिद्दास्रं बृहस्पतिः' इति । अत एवोक्तं श्रीपतिना-'अश्विनीगुरुभमर्कदैवतं साभिजिल्लघुचतुष्टयं स्मृतम्' इति । वसिष्ठादिभिस्तु प्रत्येकं नक्षत्रकृत्येषु अभिजितोऽनुक्तेरित्यतोऽत्राप्यनुक्तिः । वारकृत्ये नारदः-'यज्ञपौष्टिकमांगल्यस्वर्णवस्त्रादिभूषणम् । वृक्षगुल्मलतायानकर्म देवेज्यवासरे ॥' इति ॥ ६ ॥ अथ मृदुगणमनुष्टुभाह. मृगांत्यचित्रामित्रदं मृदु मैत्रं भृगुस्तथा । तत्र गीतांबरक्रीडामित्रकार्यविभूषणम् ॥७॥ - मृगांत्येति ॥ मृगः, अंत्यं रेवती, चित्रा, मित्रति॑म् अनुराधा, भृगुः= शुक्रः, मृदुसंज्ञं मैत्रसंज्ञं च। तत्र गीतं, अंबरं वस्त्रं, क्रीडा-स्त्रिया सह क्रीडा, मित्रस्येष्टस्य कार्य, विभूषण अलंकारः एतसिध्यति । यदाह वसिष्ठः-'मृदुवृदं भचतुष्टयमंत्यत्वाष्ट्राख्यसौम्यमित्रक्षम् । मंगलवनिताभूषणमंदिरगीतानि सिध्यति ॥' इति । तत्र नारदः-'नृत्यवादित्रगीतादिस्वर्णस्त्रीरत्नभूषणम् । भूपण्योत्सवगोधान्यकर्म भार्गववासरे ॥' इति. ॥ ७ ॥ अथ तीक्ष्णगणमनुष्टुभाह मूलैंद्रााहिभं सौरिस्तीक्ष्णं दारुणसंज्ञकम् । तत्राभिचारघातोग्रभेदाः पशुदमादिकम् ॥ ८॥ मूलैंद्रेति ॥ मूलं, ऐंद्र-ज्येष्ठा, आर्द्रा, अहिभम् आश्लेषा, सौरिः शनैश्वरः, तीक्ष्णसंज्ञं दारुणसंशं च । तत्र तीक्ष्णनक्षत्रे अभिचारकर्माणि, उग्रं भयंकरकृत्यं मारणादि, भेदः अत्यंतमित्रयोः कलहोत्पादनादि, पशूनां हस्त्यादीनां दमः शिक्षा, आदिशब्दाबंधनादीनि । यदाह वसिष्ठः-'दारुणभानि पुरन्दरकोणपशिवसर्पदैवानि । दारुणबंधनंदहनप्रहरणकर्माणि सिद्धिमायांति ॥' इति । नारदः–'त्रपुसीसायसाश्मास्त्रविषपानासवानृतम् । स्थिरकर्माखिलं वास्तुसंग्रहं सौरिवासरे ॥' इति ॥ ८॥ अथाधोमुखोर्ध्वमुखतिर्यड्मुखनक्षत्राणि इंद्रवंशेनाह मूलाहिमिश्रोग्रमधोमुखं भवे... दूर्ध्वास्थमाईज्यहरित्रयं ध्रुवम् । Page #73 -------------------------------------------------------------------------- ________________ सुवर्णवस्त्रधारणमुहूर्तः] नक्षत्रप्रकरणम् २ । तिर्यमुखं मैत्रकरानिलादिति ___ ज्येष्ठाश्विनानीदृशकृत्यमेषु सत् ॥ ९॥ मूलेति॥ मूलं, अहिः आश्लेषा, मिश्रं कृत्तिकाविशाखे, उग्रं-पूर्वात्रयमघाभरण्यः, एतानि नव नक्षत्राण्यधोमुखानि ज्ञेयानि । एष्वीदृशकृत्यमधोमुखकृत्यं वापीकूपादि तत्समीचीनमुक्तम् । तदुक्तं गरुडपुराणे-'भरणीकृत्तिकाश्लेषामघामूलविशाखिकाः । तिस्रः पूर्वास्तथा चैव अधोवक्राः प्रकीर्तिताः ॥' एषु'वापीकूपतडागादिखननं च तृणादिकम् । देवतागारखननं निधानखननं तथा ॥ गणितं ज्यौतिषारंभं खनीबिलप्रवेशनम् । कुर्यादधोगतान्येव कार्याणि वृषभध्वज ॥' इति । अथार्दा, इज्यः-पुष्यः, हरित्रयं श्रवणधनिष्ठाशततारकाः, ध्रुवं-उत्तरात्रयरोहिण्यः; एतन्नक्षत्रनवकमूर्खास्यमूर्ध्वमुखं भवेत् । अत्राप्येतादृशकृत्यं प्रासादादि सत्स्यात् । तदुक्तं गरुडपुराणे-'रोहिण्याा तथा पुष्यो धनिष्ठा चोत्तरात्रयम् । वारुणं श्रवणं चैव नव चोर्ध्वमुखाः स्मृताः ॥ एषु राज्याभिषेकं च पट्टबंधं च कारयेत् ॥' इति । ऊर्ध्वमुखानि उच्छ्रितानि सर्वाणि एषु च कारयेत् । अथ मैत्रं, मृदुनक्षत्रं-मृगरेवतीचित्रानुराधाः, करः हस्तः, अनिल: स्वाती, अदितिः पुनर्वसुः, ज्येष्ठा, आश्विनं अश्विनी, एतन्नक्षत्रनवकं तिर्यमुखं पार्श्वमुखं भवेत् । अत्रापि तादृशमेव कृत्यं चक्ररथहलादिकं भवेत् । तदुक्तं गरुडपुराणे- रेवती चाश्विनी चित्रा स्वाती हस्तः पुनर्वसुः । अनुरा. धामृगज्येष्ठा एताः पार्श्वमुखाः स्मृताः॥ गजोष्ट्राश्वबलीवर्ददमनं महिषस्य च । बीजानां वपनं कुर्याद्गमनारामनादिकम् ॥ चक्रयंत्ररथादीनां नावादीनां प्रवाहणम् । पार्थेषु यानि कर्माणि कुर्यादेतेषु तानि च ॥' इति । ननु सर्वेषामेव कर्मणां पार्थक्येन नक्षत्राभिधानादिदं पुनरुक्तं किमर्थमुक्तमिति चेन्न । विशेषनक्षत्रविहितानां कर्मणामवश्यकर्तव्यत्वे सति कतिपयदिनमध्ये मुहूर्तालब्धौ सत्यां कर्मण आकारमधोमुखादिकं विदित्वा तत्तन्नक्षत्रेषु तानि तानि कर्माणि कार्याणि । यानि सर्वथा विशेषतोऽनुक्तान्येव बिलप्रवेशनिधिखननचक्रयंत्रहलपरिखाद्यूतक्रीडामेषगर्दभगर्तादीनि तेषामेष्वेव नक्षत्रेषु कृतिरुचिता। एवमन्येषामप्यप्रसिद्धानां कर्मणां तिर्यङ्मुखाद्याकारज्ञाने सत्येषु नक्षत्रेषु कर्तव्यतौचित्यात् । सामान्येन विशेषभावेन च सुदिनलब्धिः 'द्विर्बद्धं सुबद्धं भवति' इति न्यायादत्युत्तमैव । सद्यस्कालपक्षे तु 'धिष्ण्ये प्रोक्तं स्वामितिथ्यंशकेऽस्य' ( ११५६) इति वचनात्तन्मुहूर्ते कार्यमित्यलमियता ॥ ९॥ अथ प्रवालदंतशंखसुवर्णवस्त्रपरिधानमुहूर्त वसंततिलकेनाह पौष्णध्रुवाश्विकरपंचकवासवेज्या दित्ये प्रवालरदशंखसुवर्णवस्त्रम् । धार्य विरिक्तशनिचन्द्रकुजेऽह्नि रक्तं भौमे ध्रुवादितियुगे सुभगा न दध्यात् ॥१०॥ Page #74 -------------------------------------------------------------------------- ________________ मुहूर्तचिंतामणिः । [ दग्धादिदोषफलम् पौष्णेति ॥ पौष्णं = रेवती, ध्रुवाणि= रोहिण्युत्तरास्तिस्रः, अश्विनी, करपंचकं = हस्तचित्रास्वातीविशाखानुराधाः, वासवं = धनिष्ठा, इज्यः = पुष्यः, आदित्यं = पुनर्वसुः; अयं समाहारद्वंद्वः । तत्र प्रवालं = विद्रुमं, 'पोवळें' इति महाराष्ट्रभाषायां, 'मूगा' इति कान्यकुब्जाः । रदाः = हस्तिदंताः अर्थाद्वलयादि, शंखः = शंखवलयं, सुवर्णं, वस्त्रं श्वेतं; एतानि वस्तूनि धार्याणि तानि रिक्तातिथिशनिचंद्र भौमरहितेऽह्नि दिने धार्याणि । यदाह श्रीपतिः - ' रोहिणीषु करपंचकेऽश्विभे त्र्युत्तरेऽपि च पुनर्वसुद्वये । रेवतीषु वसुदैवते शुभे नव्यवस्त्रपरिधानमिष्यते ॥' इति । प्रवालादीनां तु विशेष - स्तेनैवोक्तः — 'करादिपंचकेऽश्विभे सपौष्णवासरे स्मृता । धृतिश्च शंखकांचनप्रवालरक्तवाससाम् ॥' इति । वारानप्याह स एव - 'जीर्ण रवौ सततमंबुभिरार्द्धमिंदौ भौमे शुचे बुधदिने च भवेद्धनाय । ज्ञानाय मंत्रिणि भृगौ प्रिय संगमाय मंदे मलाय च नवांबरधारणं स्यात् ॥' इति । अतः परिशेषात् सूर्यभौमशनयो निषिद्धाः । अथ रक्तं कौसुंभादिरंगेण रक्तं वस्त्रं भौमे धार्यम् । ‘मांजिष्ठकौसुंभकरागयोश्च महीसुतः कांचनभूषणेषु' इति तेनैवोक्तत्वात् । ' नासत्यपौष्णवसुभैः करपंचकेन मार्तंडभौमगुरुदानवमंत्रिवारैः । मुक्तासुवर्णमणिविद्रुमशंखदंतरक्तांबराणि विष्टतानि भवंति सिद्धौ ॥' इति दैवज्ञवल्लभोक्तेश्च । अथ स्त्रीणां विशेषः । ध्रुवादितियुगे उत्तरात्रयरोहिणीपुनर्वसुपुष्येषु सुभगा सभर्तृका स्त्री प्रवालरदमुक्तादिकं न दध्यात् । उक्तं च दीपिकायाम् - 'पुष्टेदौ समये शुभे ध्रुवसुराचार्यादितीरोंऽगना नो रवं बिटयात्प्रवालकमाणें शंखेभदंतौ तथा' इति । क्वचित्तु शततारानक्षत्रे स्त्रीणां स्नानमपि निषिद्धम् । उक्तं च- ' रोहिणीगुरुपुनर्वसूत्तरे या बिभर्ति नववस्त्र - भूषणम् । सा न योषिदवलंबते पतिं स्नानमाचरति वारुणेऽपि या ॥' इति । चंडेश्वरोऽपि - 'स्नानं कुर्वति या नार्यश्चंद्रे शतभिषान्विते । सप्तजन्म भवेद्वंध्या विधवा दुर्भगा भृशम् ॥ प्रमादाच्छतभे स्नानं नारीणां यदि जायते । पूजयेत्स्वामिनं तत्र आत्मना च धनेन च ॥' इति । विशेषो राजमार्तंडे'अस्तंगते भृगुसुते शयने च विष्णोर्जन्माद्यचापझषगे दिनपे न दध्यात् । रक्तेंदु भानुदिवसेंऽशकवर्जिते च शंखं च रक्तपटकं युवतिः कथंचित् ॥' इति । दिनपः=सूर्यः, रक्तः=भौमः ॥ १० ॥ ५८ अथ वस्त्रस्य नवधाविभक्तस्य दग्धादिदोषशुभाशुभफलं शार्दूलविक्रीडितेनाह वस्त्राणां नवभागकेषु च चतुष्कोणेऽमरा राक्षसा मध्यत्र्यंशगता नरास्तु सदशे पाशे च मध्यांशयोः । दग्धे वा स्फुटितें बरे नवतरे पंकादिलिप्ते न सद्रaisशे नृसुराशयोः शुभमसत्सर्वांश के प्रांततः ॥ ११ ॥ Page #75 -------------------------------------------------------------------------- ________________ क्वचिन्नेष्टेऽपि वस्त्रपरिधानं सत् ] नक्षत्रप्रकरणम् २ । ५९ वस्त्राणामिति ॥ वस्त्राणां नव भागाः कार्याः । कोणचतुष्टये अमरा देवाः स्थाप्याः । राक्षसा मध्यभूतांशत्रयगता ज्ञेयाः । नराः सदशे दशासहितपाशे च पुनर्मध्ययोरंशयोः स्थाप्याः । एतदुपलक्षणम् ,-शयनासनपादुकास्वप्ययं विचारः । तत्र चेद्रक्षोंऽशे नवतरे अतिनूतने अंबरे वस्त्रे दैवादग्धे स्फुटिते पाषाणधात्वादिभिर्निहते पंकेन कर्दमेन आदिशब्दाद्गोमयादिभिर्लिो उपहते सति तद्वस्त्रं न सत् शुभफलजनकं न भवतीत्यर्थः। किंतु मरणं विदधाति । अथ नृसुरांशयोरेवं वस्त्रस्य दाहादिके सति शुभं कल्याणं स्यात् । मनुष्यांशे पुत्रप्राप्तिर्देवांशे भोगप्राप्तिरित्यर्थः । अथ साशके राक्षसमनुष्यदेवांशेषु प्रांततः प्रांतभागेऽनिष्टमशुभफलजनकम् । एतत्फलं शय्यासनपादुकास्वपि ध्येयम् । तदुक्तं श्रीपतिना-'कर्दमकजलगोमयलिप्ते वाससि दग्धवति स्फुटिते वा । चिंत्यमिदं नवधाविहितेऽस्मिन्निष्टमनिष्टफलं च सुधीभिः ॥ निवसंत्यमरा हि वस्त्रकोणे मनुजाः पाशदशांतमध्ययोश्च । अपरेऽपि च रक्षसां त्रयोंऽशाः शयने चासनपादुकासु चैवम् ॥ भोगप्राप्तिर्देवतांशे नरांशे पुत्राप्तिः स्याद्राक्षसांशे च मृत्युः । प्रांते सर्वाशेष्वनिष्टं फलं स्यात्प्लुष्टे वस्त्रे नूतने साध्वसाधु ॥' अत्र राक्षसांशे छत्रध्वजादिसदृशी छेदाकृतिः शुभफलेति विशेषो ध्येयः । देवांशेऽपि काकोलूकसदृशी छेदाकृतिरशुभफलदेत्यपि विशेषो ज्ञेयः । तदुक्तं तेनैव-'छत्रध्वजस्वस्तिकवर्धमानश्रीवत्सकुंभांबुजतोरणानाम् । छेदाकृतिनैर्ऋतभागगापि पुंसां विधत्ते नचिरेण लक्ष्मीम् ॥ कंकप्लवोलूककपोतकाकक्रव्यादगोमायुखरोष्ट्रसर्पाः। शुष्कद्रुमप्रेतसमा न शस्ता छेदाकृतिर्दैवतभागगापि ॥' इति । अत एव कश्यपः-'नवांशकं समं कृत्वा चिंतयेच्च शुभाशुभम् । वसंति देवताः कोणे चांत्यमध्यद्वये नराः ॥ मध्यांशत्रितये दैत्याश्चैवं शय्यासनादिषु । अर्थप्राप्तिर्देवतांशे पुत्रवृद्धिर्नरांशके ॥ हानिः पीडा पिशाचांशे सर्वप्रांतेष्वशोभनम् । शंखचक्रांबुजच्छनध्वजतोरणसन्निभाः ॥ श्रीवत्ससर्वतोभद्रनंद्यावर्तगृहोपमाः । वर्धमानस्वस्तिकेन मृगकूर्मझषाकृतिः ॥ छेदाकृतिर्दैत्यभागेऽप्यायुरर्थप्रदा नृणाम् । खरोष्ट्रोलूककाकाहिजंबूकश्ववृकोपमाः ॥ त्रिकोणसूर्याकृतयो देवभागेऽप्यशोभनाः । निंदितं वसनं दद्याविजेभ्यः स्वर्णसंयुतम् ॥ आशिषो वाचनं कृत्वा त्वन्यद्वस्त्रं च धारवेत् ॥' इति ॥ ११॥ अथ क्वचिद्दुष्टदिनेऽपि वस्त्रपरिधानमनुष्टुभाह.. विप्राज्ञया तथोद्वाहे राज्ञा प्रीत्यार्पितं च यत् । निंद्येऽपि धिष्ण्ये वारादौ वस्त्रं धार्य जगुर्बुधाः ॥१२॥ विप्रेति ॥ धिष्ण्ये नक्षत्रे वारादौ वारतिथियोगादौ व्यतीपातभद्रादिदुष्टयोगैनियेऽपि दुष्टेऽपि यद्द्वस्त्रं ब्राह्मणानुज्ञया तथोद्वाहे राज्ञा संतोषेणार्पितं दत्तं तद्वस्त्रं धार्यमिति बुधा जगुः । उक्तं च रत्नमालायाम्-'विप्रादेशादुद्वाहे च क्ष्मापालेन प्रीत्या दत्तम् । धिष्ण्ये वारे निंद्येऽप्याहुनूनं नव्यं वस्त्रं Page #76 -------------------------------------------------------------------------- ________________ · मुहूर्तचिंतामणिः। गोक्रयविक्रयमुहूर्ताः धार्य' इति । कश्यपेनापि-'प्रीत्या क्षमापालदत्तं यद्विप्रादेशात्करग्रहे । निये वासरधिष्ण्येऽपि धारयेत्तु नवांबरम् ॥' इति । इदं चोपलक्षणं तुल्यन्यायत्वाद्राज्ञा तथा ब्राह्मणादिभिस्तथा विवाहादिशुभकृत्ये हस्त्यश्वद्रव्यादिकं दत्तं तद्भद्रादिदुष्टदिनेऽपि ग्राह्यम् ॥ १२ ॥ - अथ लतापादपारोपणराजदर्शनमद्यगोक्रयविक्रयमुहूर्तान् शार्दूलविक्रीडितेनाहराधामूलमृदुध्रुवःवरुणक्षिप्रैलतापादपा रोपोऽथो नृपदर्शनं ध्रुवमृदुक्षिप्रश्रवोवासवैः। तीक्ष्णोग्राम्बुपभेषु मद्यमुदितं क्षिप्रांत्यवह्नीन्द्रभा दित्येंद्राम्बुपवासवेषु हि गवां शस्तः क्रयो विक्रयः १३ . राधामूलेति ॥ राधा-विशाखा, मूलं, मृदु-चित्रानुराधामृगरेवत्यः, ध्रुवक्ष रोहिण्युत्तरास्तिस्रः, वरुणः शततारका, क्षिप्रम् अश्विनीपुष्याभिजितः । अत्राभिजित उत्तराषाढायामंतर्भावात् पृथगुक्तिर्न भवतीति ज्ञेयम् । कुतः ? अश्विनीपुष्यहस्तानां लाघवात् क्षिप्रत्वेनाभिधानादभिजिदुक्तिरप्यर्थाक्षिप्ता । एवं चतुर्दशभानि । एतैर्नक्षत्रैलतानां पादपानां वृक्षाणां चारोपो वापनं कार्यम् । उक्तं च वराहेण–'ध्रुवमृदुमूलविशाखा गुरुभं श्रवणं तथाऽऽश्विनं हस्तम् । शस्तानि दिव्यदृग्भिः पादपसंरोपणे भानि ॥' इति । यत्तु वसिष्ठवचनम् –'द्विदैववारीशशशांकमूलध्रुवेषु तिष्यार्कभपौष्णभेषु ॥ वनौषधीगुल्मलतादिकानामारोपणं तूत्तममत्र शस्तम् ॥' इति, तत् पादपव्यतिरिक्तवनाधारोपणविषयम् । यतः पादपारोपणे चतुर्दश नक्षत्राणि, तद्व्यतिरिक्तलताधारोपणे एकादश भानि । ननु-'सावित्रतिष्याश्विनवारुणानि मूलं विशाखा च मृदुध्रुवाणि । लतौषधीपादपरोपणेषु शुभानि भानि प्रतिपादितानि ॥' इति श्रीपतिवचनं कथं संगच्छेत ? उच्यते,वराहपद्यस्थपादपग्रहणं लतादीनामुपलक्षणमिति मत्वा तदुक्तिः । अनेनैवाशयेन ग्रंथकृदुक्तिरपि। अथो राजदर्शनमुहूर्तः। तत्र ध्रुवमृदुक्षिप्रश्रवोवासवैः उत्तरात्रयरोहिणीचित्राऽनुराधामृगरेवत्यश्विनीपुष्यहस्तश्रवणधनिष्ठाभिस्त्रयोदशनक्षत्रैर्नृपदर्शनं राजदर्शनं कुर्यात् । उक्तं च रत्नमालायाम्-'सौम्याश्विपुष्यश्रवणश्रविष्ठाहस्तध्रुवत्वाष्ट्रभपूषभानि। मैत्रेण युक्तानि नरेश्वराणां विलो. कने भानि शुभप्रदानि ॥' अथ मद्यारंभमुहूर्तः। तत्र तीक्ष्णोग्रांबुपभेषु= मूलज्येष्ठाश्लेषापूर्वोत्रयमघाभरणीशततारकासु, मद्यं मद्यप्रारंभः, उदितः । तदाह श्रीपतिः-'रौद्रे पित्र्ये वारुणे पौरुहूते याम्ये साईं नैर्ऋते चैव धिष्ण्ये । पूर्वाख्येषु विष्वपि श्रेष्ठ उक्तो मद्यारंभः कालविद्भिः पुराणैः ॥' इति । अथ गोक्रयविक्रयमुहूर्तः । तत्र क्षिप्रांत्यवह्रींद्रभादित्येंद्रांबुपवासवेषु अश्विनीपुष्यहस्तरेवतीविशाखापुनर्वसुज्येष्ठाशततारकाधनिष्ठासु, गवां Page #77 -------------------------------------------------------------------------- ________________ औषधसूचीकर्ममुहूर्ताः] नक्षत्रप्रकरणम् २ । कयः-मूल्येन परस्माद्ब्रहणं, विक्रयः-मूल्यग्रहणपूर्वकं दानं, स शस्तः । उक्तं च रत्नमालायाम्-'शाक्रवासवकरेषु विशाखापुष्यवारुणपुनर्वसुभेषु । अश्विपूषभयुतेषु विधेयो विक्रयक्रयविधिः सुरभीणाम् ॥' इति । एतानि नव भानि । भीमपराक्रमेण तु पंचदशभान्यभिहितानि-'हस्तेऽनुराधात्रितये सपौष्णे मृगे च पूर्वाश्विविशाखभेषु । पुष्ये धनिष्ठाद्वितयेऽदितीशे गवां क्रयं विक्रयमामनंति ॥' इति। अत्र श्रीपतिवाक्याद्यान्यधिकानि नक्षत्राणि, तान्यात्ययिकंविषयाणि ॥ १३॥ अथ पशूनां रक्षामुहूर्त स्थितिनिवेशयानमुहूर्त चंद्रवंशयाहलग्ने शुभे चाष्टमशुद्धिसंयुते रक्षा पशूनां निजयोनिभे चरे। रिक्ताष्टमीदर्शकुजश्रवोध्रुवत्वाष्ट्रेषु यानं स्थितिवेशनं न सत् १४ लग्ने इति ॥ शुभे शुभस्वामिके लग्नेऽष्टमशुद्धिसंयुते शुभपापाक्रांताष्टमभावरहिते सति स्वीययोनिनक्षत्रे पशूनां चतुष्पदानां रक्षा शस्ता । यदाह श्रीपतिः-'शुभग्रहोदये शुद्ध नैधने स्वयोनिषु । रक्षाविधिक्रिया शस्ता पशूनां मुनिभिः स्मृता॥' इति । स्वीययोनिनक्षत्राणि विवाहप्रकरणे (लो०२५) 'अश्विन्यंबुपयोर्हयः' इत्यादिना वक्ष्यति । तथा चरे चरनक्षत्रेष्वपि रक्षा पशूनां विधेया। 'तीक्ष्णे पशूनां दमनं चरे स्यात्पशुपोषणम्' इति भीमपराक्रमोक्तेः। अथ रिक्ताः चतुर्थीनवमीचतुर्दश्यः, अष्टमी, दर्शः अमावास्या, कुजः=मंगलः, श्रवः श्रवणः, ध्रुवाणि उत्तरात्रयरोहिण्यः, त्वाष्ट्र-चित्रा; एषु भेषु पशूनां यानं गृहाबहिनिःसारणं स्थिति!ष्ठादौ वेशनं प्रवेशनं च न सत् । सत्फलजनकं न भवतीत्यर्थः । उक्तं च वसिष्ठेन-त्वाष्ट्रध्रुवश्रीपतिभेषु रिक्तादर्शाष्टमीभौमदिने पशूनाम् । यात्रां प्रवेशं न कदाचिदेव कुर्याच्च तेषामभिवृद्धिकांक्षी॥' इति । चशब्दात् स्थितिमपि न कुर्यात् । व्यवहारतत्त्वे तु वाराधिक्यमुक्तम्'स्वयोनिधिष्ण्ये विकुजे पशूनां कर्माथ कुर्यादबुधेदुमंदे । यानं प्रवेशं च तिथावशैवे चित्रोत्तरावैष्णवमान्यभेषु ॥' अशैवे-चतुर्दशीरहिते। उपलक्षणत्वादमावास्यादिरहिते । व्यवहारोच्चये-'पूर्वात्रये धनिष्ठेंद्रपौष्णे सौम्यविशाखयोः । आश्लेषायामथाश्विन्यां यात्रासिद्धिश्चतुष्पदाम् ॥' इति ॥ १४ ॥ अथौषधसूच्योर्मुहूर्त मंदाक्रांताछंदसाहभैषज्यं सल्लघुमृदुचरे मूलभे व्यंगलग्ने शुक्रंद्विज्ये विदि च दिवसे चापि तेषां रवेश्च । शुद्धे रिःफधुनमृतिगृहे सत्तिथौ नो जनेर्भ सूचीकर्माप्यदितिवसुभत्वाष्ट्रमित्राश्विधिष्ण्ये ॥१५॥ भैषज्यमिति ॥लघुमृदुचरे अश्विनीपुष्यहस्तचित्रामृगानुराधारेवतीश्रवणधनिष्ठाशततारकास्वातिपुनर्वसुभेषु मूले च भैषज्यमौषधं प्रारब्धं भक्षितं ६ मु. चि. Page #78 -------------------------------------------------------------------------- ________________ ६२ मुहूर्तचिंतामणिः। [क्रयविक्रयनक्षत्राणि वा सत् । शुभफलदं भवतीत्यर्थः । तथा चाह श्रीपतिः-'पौष्णद्वये चादितिभद्वये च हस्तत्रये च श्रवणत्रये च । मैत्रे च मूले च मृगे च शस्तं भैषज्यकर्म प्रवदंति संतः ॥' इति । वसिष्ठोऽपि—'हस्तत्रये पुष्यपुनर्वसौ च विष्णुचये चाश्विनिपौष्णभेषु । मिदुमूलेषु च सूर्यवारे भैषज्यमुक्तं शुभवासरेऽपि॥' इति । अथ व्यंगलग्ने द्विस्वभावराशिषु मिथुनकन्याधनुर्मीनेषु लग्नगतेषु सत्सु शुक्रेद्विज्ये विदि च शुक्रचन्द्रबृहस्पतिबुधेषु द्विस्वभावलग्नस्थेषु सत्सु च पुनस्तेषां शुक्रंद्विज्यबुधानां रवेश्च दिवसे वारे सत्तिथौ रिक्ताऽमारहिते दिने च भैषज्यं सत् । उक्तं च दीपिकायाम्-'व्यंगोदये गुरुबुधेदुसितेषु तेषां वारे रवेश्च सुविधौ सुतिथौ सुयोगे' इति । अथ रिःफधुनमृतिगृहे लग्नावादशसप्तमाष्टमगृहेषु शुद्धेषु शुभपापरहितेषु सत्सु भैषज्यं सत् । तत्र वर्षफलप्रश्नादिना सत्यायुर्दाययोगे औषधसेवनं हितमित्ययं विशेषो ध्येयः। तदुक्तं श्रीपतिना-'धूनशत्रुनिधनव्ययशुद्धौ सद्हेषु नितरां बलवत्सु । आयुषश्च हितकारिणि योगे कीर्तिता नियतमौषधसेवा ॥' इति । कश्यपोऽपि-'षट्सप्ताष्टांत्यशुद्धौ च बलिनः शुभखेचराः । आयुर्दायकरे योगे कर्तव्या ह्यौषधक्रिया ॥' इति । अथ जनेमें जन्मनक्षत्रे नो भैषज्यं सत् । तदुक्तं दीपिकायाम्-'जन्मनक्षत्रगश्चन्द्रः प्रशस्तः सर्वकर्मसु । क्षौरभेषजवादाध्वकर्तनेषु च वर्जयेत् ॥' इति । अथ सूचीकर्ममुहूर्तः । अदितिवसुभत्वाष्ट्रमित्राविधिष्ण्ये पुनर्वसुधनिष्ठाचित्रानुराधाश्विनीषु सूचीकर्म सूच्याः संबंधि घटनसीवनादि सकलं कर्म अपिशब्दात् कवचमपि कुर्यात् । उक्तं च व्यवहारोचये–'अदितिर्वासवं त्वाष्ट्रमैत्रभैंदववाजिनः । सूचीकर्म तनुत्राणमेभिः प्रशस्यते ॥' इति । तनुत्राणं-कवचम् ॥ १५ ॥ अथ क्रयविक्रयनक्षत्रेषु परस्परनिषेधं वदन् क्रयविक्रयनक्षत्राण्यनुष्टुभाह- . - क्रयः विक्रयो नेटो विक्रयः क्रयोऽपि न । पौष्णांबुपाश्विनीवातश्रवश्चित्राः क्रये शुभाः ॥१६॥ क्रयः इति ॥ वक्ष्यमाणक्रयनक्षत्रे विक्रयो न कार्यः। तथा विक्रयः क्रयोऽपि न कार्यः। नन्विदमयुक्तं; विक्रयो नाम मूल्यं गृहीत्वा वस्तुदानं, क्रयो नाम मूल्यं दत्त्वा वस्तुग्रहणं । यदा येन क्रयः कर्तव्यः तदान्येन विक्रयोऽपि कर्तव्यः, तत्र क्रयविक्रयनक्षत्राणां महाभेदादुभयविधमुहूर्तानुपपत्तिः। उच्यते-विक्रेत्रा यदा मुहूर्तो विक्रयार्थ गृह्यते तदा ऋयिणोऽनुज्ञां लब्ध्वा यावदिष्टं वस्तु स्वगृहात्पृथक् क्रियते तत्कर्म विक्रयशब्दवाच्यम् , यदा तु क्रयिणा क्रयमुहूर्तः प्राप्यते तदा विक्रेत्रे मूल्यं द्रव्यं दत्त्वा पृथक्कृतं विक्रीतं वस्तु गृह्यते तत्कर्म क्रयशब्दवाच्यमिति मत्वात्र समाधिः । अथवा ऋयिविक्रेत्रोरन्यतरस्य क्रयिणः कदाचिन्मुहूर्तासंभवो ज्ञेयोऽनावश्यकत्वात् । आवश्यकत्वे तु मुहूर्तगवेषणया कालविलम्बनिष्पत्तावन्येन तृतीयेन मुहूर्तविचारमनंगीकृत्य समर्घवस्तुप्राप्ह्या वस्तुग्रहणसिद्धिसंभवात् । तदा विक्रेतुरेव मुहूर्त Page #79 -------------------------------------------------------------------------- ________________ विक्रयविपणिमुहूर्ताः] नक्षत्रप्रकरणम् २ । विचारः । एवं विक्रेतुरप्यवश्यविक्रेतव्यस्य वस्तुनो यदा ग्रहीता संभवेत्तदैव मुहूर्तमनालोच्य वस्तुदानमावश्यकम् । मुहूर्तविचारतः कालविलम्बे तावद्व्यप्राप्यनुपपत्तेः। तदा तु ऋयिण एव मुहूर्तविचारः । नन्वेवमपि क्रयविक्रयनक्षत्राणां पार्थक्येनाभिधानात्तयोः परस्परगतनिषेधो न युज्यते । तथा राजदर्शनविहितनक्षत्रेभ्योऽन्यनक्षत्रेषु राजदर्शनं निषिद्धमित्यर्थाद्गम्यते । 'सर्व वाक्यं सावधारणं भवतीति न्यायात् । उच्यते,-क्रयनक्षत्रे क्रयः कार्य इत्युक्ते विक्रयस्य स्वतंत्रकर्मत्वात्तत्र क्रया निषेधाभावः । एवं विक्रयङ्केष्वपि क्रयनिषेधाभावः। तत्र निषेधे असत्यन्यनक्षत्राणां मध्यमत्वावगतेः। कदाचित् क्रयनक्षत्राणां मध्यमत्वमंगीकृत्य विक्रयस्य विहितमुहूर्तानुपलब्धौ तत्र मुहूर्तो मध्यमोऽपि ग्राह्यः स्यात्तदर्थमपि वाचनिकस्तन्निषेधः । अतः क्रयविक्रयनक्षवेभ्यो भिन्ननक्षत्रेषु क्रयविक्रययोः मध्यमत्वमनुमिमीमः । निषेधस्य वाचनिकत्वमुक्तं दीपिकायाम्-'यमाहिशक्राग्निहुताशपूर्वा नेष्टाः क्रये विक्रयणेऽतिशस्ताः। पौष्णाश्विचित्राशतविष्णुवाताः शस्ताः क्रये, विक्रयणे निषिद्धाः ॥' इति । अथ ऋयमुहूर्त उच्यते । तत्र पोष्णं रेवती, अंबुपः शततारका, अश्विनी, वातः स्वाती, श्रवः श्रवणः, चित्रा; एतानि भानि कये शुभानि, विक्रयणे निषिद्धानि च । संमतिरत्रोक्तैव ॥ १६ ॥ अथ विक्रयविपण्योर्मुहूतौं शार्दूलविक्रीडितेनाहपूर्वाद्वीशकृशानुसार्पयमभे केंद्रद्विकोणे शुभैः षट्व्यायेष्वशुभैर्विना घटतनुं सन्विक्रयः सत्तिथौ । रिक्ताभौमघटान्विना च विपणिमैत्रध्रुवक्षिप्रभै लग्ने चंद्रसिते व्ययाष्टरहितैः पापैः शुभैायखे ॥१७॥ पूर्वेति॥ पूर्वास्तिस्रः, द्वीशं विशाखा, कृशानुः=कृत्तिका, सार्प आश्लेषा, यमभं भरणी, समाहारद्वंद्वः । एषु नक्षत्रेषु विक्रयः सन् शुभो ज्ञेयः । क्रयो निषिद्धश्च । उक्तैवात्रापि संमतिः । अथ केंद्रे-प्रथमचतुर्थसप्तमदशमस्थानेषु, द्विकोणे द्वितीयपंचमनवमस्थानेषु च, शुभैः शुभग्रहस्थितैः षट्च्यायेषु षष्ठतृतीयैकादशस्थानेषु अशुभैः पापग्रहैः स्थितैः कृत्वा घटतनुं कुंभलग्नं विहाय त्यक्त्वा सत्तिथौ शुभतिथौ विक्रयः सन् ज्ञेयः । तदुक्तं श्रीपतिना—'दशमैकादशे लग्ने वित्तकेंद्रत्रिकोणगैः । शुभैः पण्यस्य कर्मोक्तं वर्जयित्वा घटोदयम् ॥' इति। केंद्रसंज्ञा बृहज्जातके-'कंटककेंद्रचतुष्टयसंज्ञाः सप्तमलग्नचतुर्थखभानाम्' इति । अथ विपणिः । रिक्ताः चतुर्थीनवमीचतुर्दश्यः, भौमः मंगलवारः, घटः कुंभलग्नं; एतान्विना वर्जयित्वेत्यर्थः । अन्येषु तिथिवारलग्नेषु विपणिः हट्टे स्थित्वा क्रयविक्रयाख्यं कर्म तच्छुभम् । तथा मैत्रध्रुवक्षिप्रभैश्चित्रानुराधामृगरेवतीरोहिण्युत्तरात्रयाश्विनीपुष्यहस्तैर्विपणिः लग्ने चंद्रसिते मूर्ती चंद्रे शुक्रे च सतीत्यर्थः । व्ययाष्टरहितः पापैः क्रूरग्रहायखे द्वितीयैकादशदशमे शुभैःशुभ Page #80 -------------------------------------------------------------------------- ________________ ६४ मुहूर्तचिंतामणिः। [भूषाघटनादिमुहूर्ताः ग्रहः । उक्तं च रत्नमालायाम्-'कुंभराशिमपहाय साधुषु द्रव्यकर्म भवमूर्तिवर्तिषु । अव्ययेष्वशुभदायिषूद्गमे भार्गवे विपणिरिंदुसंयुते ॥' इति ॥१७॥ अथाश्वहस्तिमुहूर्तानिंद्रवज्रयाहक्षिप्रांत्यवखिंदुमरुजलेशादित्येष्वरिक्तारदिने प्रशस्तम् । साद्वाजिकृत्यं त्वथ हस्तिकार्य कुर्यान्मृदुक्षिप्रचरेषु विद्वान् ॥१८॥ ' क्षिप्रांत्येति ॥ क्षिप्रं अश्विनीपुष्यहस्ताः, अंत्यं रेवती, वसुः धनिष्ठा, इंदुः मृगः, मरुत्-स्वाती, जलेशः शततारका, आदित्यं पुनर्वसुः; एषु भेषु वाजिकृत्यमश्वसंबंधि क्रयविक्रयादिकृत्यं कार्यम् । तदुक्तं रत्नमालायाम्-'पुष्यश्रविष्ठाश्विनिसौम्यभेषु पौष्णानिलादित्यकराह्वयेषु । सवारुणःषु बुधैः स्मृतानि सर्वाणि कार्याणि तुरंगमाणाम् ॥' इति ॥ अत्र अश्वचक्रं दैवज्ञमनोहरे"अश्वाकारं लिखेच्चक्रं सामिजिद्भानि विन्यसेत् । स्कंधे च सूर्यभात्पंच पृष्ठे च दश भानि च ॥ पुच्छे द्वे स्थापयेत्प्राज्ञश्चतुष्पादे चतुष्टयम् । उदरे विन्यसेत्पंच मुखे द्वे तुरगस्य च ॥ अर्थलाभो मुखे सम्यग्वाजी नश्यति चोदरे । चरणस्थे रणे भंगः पुच्छे पत्नी विनश्यति ॥ अर्थसिद्धिर्भवेत्पृष्ठे स्कंधे लक्ष्मीपतिभवेत् ॥' इति । इदमश्वारोहणे विचार्य, न ग्रहणे। तथा, अरिक्तारदिने-रिक्ताःचतुर्थीनवमीचतुर्दश्यः । आरः=भौमः, 'आरो वक्रः ऋरदृक् चावनेयः' इति वराहोक्तेः। रिक्ताभौमान् वर्जयित्वाऽन्यदिने वाजिकृत्यं प्रशस्तम् । अत्र सामान्य एव निषेध उपनिबद्धो न विशेषतः॥अथेति । अथ विद्वान् ज्ञाता मृदूनि=चित्रानुराधामृगरेवत्यः, क्षिप्राणि-अश्विनीपुष्यहस्ताः, चराणि-श्रवणधनिष्ठाशततारकापुनर्वसुखात्यः; एषु द्वादशनक्षत्रेषु हस्तिकार्य कुर्यात् । तदाह वसिष्ठः'हस्तत्रये सौम्यहरित्रये च पौष्णद्वये पुष्यपुनर्वसौ च । मैत्रेऽपि सर्वाण्यपि कुंजराणां कर्माणि शस्तान्यखिलानि यानि ॥' इति ॥ अथ हस्तिष्वंकुशार्पणमुहूर्तो व्यवहारोच्चये—'शुभतारे शुभे लग्ने शुभाशे शोभने तिथौ । अंकुशाः करिणां योज्याः शनिलग्ने शनेर्दिने ॥' इति । अथाश्वगजाद्यारोहणमुहूर्तोऽपि तत्रैव-पौष्णाश्विनीवरुणमारुतशीतरश्मिचित्रादितिश्रवणपाणिसुरेज्यवित्तैः । वारेषु जीवशशिसूर्यसितेंदुजानामारोहणं गजतुरंगरथेषु शस्तम् ॥' इति । पाणिः हस्तः, वित्तं धनिष्ठा ॥ १८ ॥ .. अथ भूषाघटनादिमुहूर्त शार्दूलविक्रीडितेनाह___ साद्भूषाघटनं त्रिपुष्करचरक्षिप्रध्रुवे रत्नयुक् तत्तीक्ष्णोगविहीनभे रविकुजे मेषालिसिंहे तनौ । तन्मुक्तासहितं चरध्रुवमृदुक्षिप्रे शुभे सत्तनौ । तीक्ष्णोग्राश्विमृगे द्विदेवदहने शस्त्रं शुभं घट्टितम् ॥१९॥ स्याभूषेति ॥ त्रिपुष्करलक्षणं 'भद्रातिथी रविज-' (श्लो० ४९) इत्यादिना वक्ष्यति । एवंविधे त्रिपुष्करदिवसे चरक्षिप्रध्रुवे श्रवणधनिष्ठाशततारकापुनर्वसु Page #81 -------------------------------------------------------------------------- ________________ मुद्रापातनादिमुहूर्ताः] नक्षत्रप्रकरणम् २ । ६५ स्वातिपुष्याश्विनीहस्तरोहिण्युत्तरात्रितयेषु भेषु भूषाघटनं आभरणघटनं शुभं स्यात् । यदाह वसिष्ठः-'क्षिप्रचलाचलऋक्षे रिक्तामावर्जितेषु दिवसेषु । निखिलेपु वासरेप्वपि त्रिपुष्करे भूषणं कार्यम् ॥' इति । अथ तद्भूषाघटनं रत्नयुतं माणिक्यहीरकादिरत्नयुतं चेच्चिकीर्षितं तदा तीक्ष्णोगविहीनभे मूलज्येष्ठाझैश्लेषापूर्वावयभरणीमघास्त्यक्त्वाऽन्येष्वष्टादशनक्षत्रेषु कार्यम् । तथा रविभौमवारे कार्यम् । तथा मेषालिसिंहे मेषवृश्चिकसिंहलग्ने कार्यम् । तदुक्तं वसिष्ठेन'स्थिरसाधारणचरभे लघुमैत्रेष्वर्ककुजवारे । तेषामेव विलग्ने माणिक्यमयं विभूषणं कार्यम् ॥' इति ॥ माणिक्यग्रहणमुपलक्षणं रत्नादेः । अथ चरध्रुवमृदुक्षिप्रसंज्ञकेपु नक्षत्रेषु तद्भूषणघटनं मुक्तासहितं शुभं भवति । मुक्ताफलग्रहणं श्वैत्यात् रजतादेरुपलक्षणम् । अत्र चंद्रशुक्रयोर्वारे कर्कवृषतुलालग्नेषु कार्यमित्यपि विशेषो ध्येयः । तदुक्तं वसिष्टेन-'क्षिप्रमृदुध्रुवचरभे शशिसितयोर्वासरेषु तल्लग्ने । मुक्ताफलरजतमयं भूषणमखिलं सवज्रकं कार्यम् ॥' इति । केचिदिदं निष्पन्नमेवाभरणमस्मिन्नेव मुहूर्तेधार्यमित्याहुः । अथ तीक्ष्णानि चत्वारि भानि, उग्राणि पंच भानि, अश्विनी मृगः द्विदैवं विशाखा दहनः कृत्तिका; एपु नक्षत्रेषु घट्टितं शस्त्रं शुभं स्यात् । 'घट्ट चलने' संयोगांतचुरादिर्धातस्ततः स्वार्थण्यतान्निष्टाक्तः । 'आर्धधातुकस्येवलादेः' इतीद । 'निष्टायां सेटि' इति णिलोपः । उक्तं च ज्योतिःसागरे-'कृत्तिकासु विशाखासु भौमार्कशनिवासरे । तद्दिने घट्टितं शस्त्रं नृपाणां जयदायकम् ॥' इति । दीपिकायाम्-'मूलेंदुपूर्वात्रययाम्यपित्र्यशक्राश्विसनलशूलिनश्च । खड्गादिसाधारणकर्म कुर्यात्तिथौ विलग्ने च शुभे शुभाहे ॥' इति । साधारणं= घट्टनोजवलीकरणादिकम् । अथ सुवर्णरूप्यादिभाजने भोजनमुहूर्तोऽपि प्रसंगादुच्यते । तत्र वसिष्टः–'लघुमैत्रध्रुवमृदुभे सितेंदुबुधजीवबारेषु । हेमरजतादिभाजनभोजनमारोग्यममृतयोगेषु ॥' इति । आरोग्यं नीरोगत्वं, भोजनकर्तुः स्यादित्यर्थः ॥ १९॥ अथ मुद्रापातनवस्त्रक्षालनमुहूर्त स्रग्धराछंदसाहमुद्राणां पातनं सद्भुवमृदुचरभक्षिप्रभैर्वीन्दुसौरे घस्रे पूर्णाजयाख्ये न च गुरुभृगुजास्ते विलग्ने शुभैः स्यात् । वस्त्राणां क्षालनं सदसुहयदिनकृत्यूचकादित्यपुष्ये नो रिक्तापर्वषष्ठीपितृदिनरविजज्ञेषु कार्य कदापि ॥२०॥ मुद्राणामिति ॥ ध्रुवमृदुचरक्षिप्रसंज्ञकैनक्षत्रैः कृत्वा राजमुद्रांकितसुवर्णरूप्यादिनिप्पादनं मुद्रापातनमित्युच्यते । 'टंकसाल' इति यवनभाषयाहुः । तत् सत् शुभमित्यर्थः । तथा वींदुसौरे सोमशनिरहिते दिवसे तथा पूर्णाजयाख्ये पंचमीदशमीपूर्णिमातृतीयाष्टमीत्रयोदश्यः एतत्संज्ञके घस्रे दिवसे एतत्संज्ञितासु तिथिषु शुभम् । तथा गुरुशुक्रास्तयोर्मुद्रापातनं न कार्यम् । तथा विलग्ने शुभैः लग्ने शुभग्रहैः । सद्भिरित्यर्थः । उक्तं च सारसमुच्चये Page #82 -------------------------------------------------------------------------- ________________ दद मुहूर्तचिंतामणिः। [खगादिधारणमुहूर्ताः 'मृदुध्रुवक्षिप्रचरेषु भेषु योगे प्रशस्ते शनिचंद्रवज्ये । वारे तिथौ पूर्णजयाख्ययोश्च मुद्राप्रतिष्ठा शुभदा नराणाम् ॥ गुर्वस्ते वा सितास्ते वा मुद्राया घट्टनं क्वचित् । क्रूरग्रहाशलग्ने न कार्य भूतिमिच्छता ॥' इति । अथ वसुधनिष्ठा, हयः अश्विनी, दिनकृत्पंचकं हस्तचित्रास्वातीविशाखानुराधाः, आदित्यं-पुनवसुः, पुष्यः; एषु नक्षत्रेषु वस्त्राणांक्षालनं स्वतः शक्तौ स्वयं क्षालनं कार्य, नो चेद्रजकाय धावनार्थ देयमित्यर्थः। नो रिक्तेति । रिक्ताः प्रसिद्धाः, पर्वाणि प्राङ्मयोक्तानि, षष्ठी, पितृदिन अमावास्या, रविजज्ञेषु-शनैश्चरबुधदिवसेषु, कदापि वस्त्रधावनं नो कार्य । उक्तं च केशवदैवज्ञैः-'पोष्णादित्यादिपंचाश्विवसुषु च भवेद्वाससां क्षालनाद्यं हित्वा षष्ठीं च पर्वाजसुतशनिदिनं श्राद्धघस्रं शुभं स्यात् ॥' इति । अदितिः पुनर्वसुः, आदिः आदित्यः । क्वचिद्भौमशनिवारौ संक्रांत्यादिकं निंद्यम् । यदाह चंडेश्वरः-शनौ भूमिसुते श्राद्ध षध्यमावास्ययोस्तथा । वस्त्रक्षालनजो दोषो दहत्यासप्तमं कुलम् ॥ संक्रांत्यां पंचदश्यां च द्वादश्यां च स्वेर्दिने । वस्त्रं निष्पीडयेनैव क्षारेणापि न योजयेत् ॥' इति ॥२०॥ अथ खगादिधारणं शय्याधुपभोगं च स्रग्धरयाहसंधार्याः कुंतवर्मेष्वसनशरकृपाणासिपुग्यो विरिक्ते ___ शुक्रेज्यार्केऽह्नि मैत्रध्रुवलघुसहितादित्यशाक्रद्विदैवे । स्युर्लग्ने हि स्थिराख्ये शशिनि च शुभदृष्टे शुभैः केंद्रगैः स्या भोगः शय्यासनादेर्बुवमृदुलघुहर्यतकादित्य इष्टः ॥ २१॥ संधार्या इति॥ विरिक्ते रिक्तावर्जिते शुक्रबृहस्पतिरविवारे तथा मैत्रध्रुवलघुसंज्ञभसहितपुनर्वसुज्येष्ठाविशाखानक्षत्रेषु कुंतादयो धार्याः । कुंतःप्रासः, 'प्रासस्तु कुंतः स्यात्' इत्यमरः । वर्म-कवचं, इषवः बाणाः अस्यंते क्षिप्यन्तेऽनेनेति इष्वसनं-धनुः, शरः बाणः, कृपाण: खगः, असिपुत्री-छुरिका । सन्नाहोऽपीति केचित् ; तथा स्थिराख्ये-वृषसिंहवृश्चिककुंभानामन्यतमे राशी, लग्ने स्थिते सति शशिनि च समीचीनस्थानस्थिते शुभदृष्टे शुभग्रहैः केंद्रगैः सद्भिः कुंतादयो धार्याः स्युः । तदुक्तं व्यवहारोच्चये—'पुष्ये चादितिचित्रपद्मतनये शक्रोत्तरारेवतीवाजीहस्तविशाखमित्रसहिते भानौ गुरौ भार्गवे । कुंभे कीटगृहे वृषे मृगपती चंद्रे शुभैःक्षिते सन्नाहः शरखड्गकुंतछुरिका धार्या नृपाणां हिताः ॥' इति ॥ अथ ध्रुवमृदुलघुनक्षत्रेषु हरौ श्रवणे अंतके भरण्यां आदित्ये पुनर्वसावेषु शय्यासनादेः शय्या खट्दादिरूपा आसनमौर्णपीठमृगत्वगादि आदिशब्दात्पादुकाः एषामुपभोग इष्टो हितः । उक्तं च दीपिकायाम्-'मैलेंदुपुष्ययमभादितिवाजिचित्राहस्तोत्तरात्रयहरीज्यविधातृभानि । एतेष्वतीव शयनासनपादुकानां संभोगकार्यमुदितं मुनिभिः शुभाहे ॥' इति । शुभाहे-शुभग्रहवारे ॥ २१॥ Page #83 -------------------------------------------------------------------------- ________________ ६७ अंधादिनक्षत्रेषु नष्टवस्तुफलं ] नक्षत्रप्रकरणम् २।। अथांधकादिनक्षत्राणि शार्दूलविक्रीडितेनाहअंधाक्षं वसुपुष्यधातृजलभद्वीशांत्यभार्यम्णभं मंदाक्षं रविविश्वमैत्रजलपाश्लेषाश्विचांद्रं भवेत् । मध्याक्षं शिवपित्रजैकचरणत्वा द्रविध्यंतकं स्वक्षं स्वात्यदितिश्रवोदहनभाहिर्बुध्यरक्षोभगम् ॥ २२ ॥ अंधाक्षमिति ॥ अंधाक्षमिति जात्यभिप्रायेणैकवचनम् । एवं मंदाक्षमित्यादावपि । वसुः धनिष्ठा, पुष्यः, धाता-रोहिणी, जलभं-पूर्वाषाढा, द्वीशं= विशाखा, अंत्यभं=रेवती, आर्यम्णभम् उत्तराफल्गुनी; एतान्यंधनक्षत्राणि । अथ रविः हस्तः,विश्वे-उत्तराषाढा,मैत्रं अनुराधा,जलपं-शततारका,आश्लेषा, अश्विनी,चांद्रं-मृगः; एतानि मंदाक्षनक्षत्राणि । अथ शिवः=आ,पितरः मघा, अजैकचरण:=पूर्वाभाद्रपदा, त्वाष्ट्र-चित्रा, ऐंद्रज्येष्ठा, विधिः अभिजित् , अंतकं भरणी; एतानि मध्याक्षनक्षत्राणि । अथ स्वाती, अदितिः पुनर्वसुः, श्रवः श्रवणः, दहनभं-कृत्तिका, अहिर्बुध्य-उत्तराभाद्रपदा, रक्षः मूलं, भगं पूर्वाफल्गुनी; एतानि सुलोचननक्षत्राणि । यदाह वसिष्ठः-'अंधकमथ मंदाक्षं मध्यमसंज्ञं सुलोचनं पश्चात् । पर्यायेण च गणयेच्चतुर्विधं ब्रह्मधिष्ण्यातः॥' इति । धिष्ण्याशब्दः स्त्रीलिंगे आर्षः । ब्रह्मधिष्ण्या रोहिणी । ततश्चतुर्धा पुनःपुनः उक्तान्येव नक्षत्राणि भवंति । ननु लाघवार्थ ग्रंथकृत् प्रवृत्तः, अतो वसिष्ठवचनवल्लघुपद्येनैव तदर्थसिद्धेः प्रत्येकं नक्षत्रगणनारूपं गौरवं व्यर्थ कृतमिति चेन्न । यद्यपि तत्र शब्दलाघवमस्ति तथापि पुनःपुनर्गणनया प्रमादादन्यथापि गणनया मंदाक्षादिनक्षत्राणां विपर्याससिद्धौ गौरवमर्थतोऽस्त्येव । प्रस्तुते यद्यपि शब्दबाहुल्यं तथाप्यर्थस्य निःसंदेहोपनिबंधादतीव लाघवमस्तीत्यस्मिन्पाठे महान् गुणः ॥ २२ ॥ अथांधादिनक्षत्राणां फलान्यनुष्टुप्छंदसाह विनष्टार्थस्य लाभोंऽधे शीघ्रं मंदे प्रयत्नतः । स्थादूरे श्रवणं मध्ये श्रुत्याप्ती न सुलोचने ॥ २३ ॥ विनष्टार्थस्येति ॥ अंधनक्षत्रेषु विनष्टस्यापहृतस्यार्थस्य शीघ्र लाभः प्राप्तिभवति । मंदाक्षनक्षत्रेषु विनष्टार्थस्य प्रयत्नतो लाभो भवति । मध्ये मध्याक्षनक्षत्रेषु विनष्टार्थस्य दूरे स्वनगरादतीव दूरे भूभागे श्रवणं त्वदीयं द्रव्यममुकेन हृतममुकस्मिन् स्थले तिष्ठति' इति लोकश्रुतिर्भवति, लब्धिस्तु नास्त्येव । सुलोचननक्षत्रेपु श्रुत्याप्ती न, श्रवणमपि न लब्धिरपि नेत्यर्थः । उक्तं च रत्नमालायाम्-'लाभोंऽधके निकट एव हृतस्य चौरैर्द्रव्यस्य लब्धिरिह केकरभे प्रयत्नात् । दूरश्रुतिश्चिपिटभेषु कथंचिदेव न प्राप्तिरुत्तमविलोचनभे कदाचित् ॥' इति । केकरभे मंदाक्षनक्षत्रे । चिपिटभे-मध्यनक्षत्रे ॥ २३ ॥ Page #84 -------------------------------------------------------------------------- ________________ ६८ मुहूर्तचिंतामणिः। [जलाशयखननमुहूर्तः अथ धनप्रयोगे निषिद्धनक्षत्राण्यनुष्टुभाहतीक्ष्णमिश्रध्रुवोग्रैर्यद्रव्यं दत्तं निवेशितम् ।। प्रयुक्तं च विनष्टं च विष्ट्यां पाते च नाप्यते ॥ २४ ॥ तीक्ष्णेति ॥ तीक्ष्णमिश्रध्रुवोग्रसंज्ञकैर्नक्षत्रैर्यद्व्यं सुवर्णादि दत्तं कलांतरं विनैव दत्तं न तु स्वसत्तापरित्यागेन तद्दत्तमित्युच्यते । निवेशितं स्वेष्टसमीपे प्रत्ययार्थं स्थापितं, प्रयुक्तं कलांतररीतिपुरःसरोत्तमर्णाधमर्णव्यवहारेण कस्मैचिद्दत्तं, विनष्टं चौरादिना हृतं स्वयमेव वा क्वचित्त्यक्तं, तद् द्रव्यं निश्चयेन कदाचिदपि नाप्यते । तथा विष्ट्यां भद्रायां पाते व्यतीपाते महापाते वा हृतं द्रव्यं न प्राप्यते । चकारागृहणेऽपि न देयमिति व्याख्येयं, वसिष्ठवाक्यस्वरसात् । उक्तं च वसिष्ठेन-'ध्रुवोनसाधारणदारुणः निक्षिप्तमर्थ त्वथवा प्रनष्टम् । चौरैह॒तं दत्तमुपप्लवे वा विष्ट्यां च पाते च न लभ्यते तत् ॥' इति । उपप्लवे ग्रहणे । यत्तु केचिद्वयाकुर्वते-निश्चयेन चौरहृतस्य द्रव्यस्य प्राप्त्यप्राप्तिविचारोंऽधकादिनक्षत्रैरेव वा 'लाभोंऽधके निकट एव हृतस्य चौरैः' इत्युक्तत्वात् । चौरनिर्णये त्वनेनैव विचारः । तच्चिंत्यम् । वसिष्ठवाक्येऽपि 'चौरैर्हत मिति साक्षाच्चौरपदोपादानाद्येनकेनापि विचारः, कर्तव्य इति युक्तमुत्पश्यामः । एवं, चौरनिर्णयेऽपि स्वेच्छया विचारः तत्रोभयैक्ये प्राप्त्यप्राप्तिनिश्चय एव, उभयैक्याभावे तु प्रयत्नेनेति ॥ २४ ॥ अथ जलाशयखनननृत्यारंभयोर्मुहूर्त शार्दूलविक्रीडितेनाहमित्रार्कध्रुववासवांबुपमघातोयांत्यपुष्येंदुभिः पापै_नबलैस्तनौ सुरगुरौ ज्ञे वा भृगौ खे विधौ । आप्ये सर्वजलाशयस्य खननं व्यंभोमधैः सेंद्रभै स्तैर्नृत्यं हिबुके शुभैस्तनुगृहे शेऽब्जे ज्ञराशौ शुभम् ॥२५॥ मित्रार्केति ॥ मित्रः अनुराधा, अर्क: हस्तः, ध्रुवं रोहिण्युत्तरात्रयं, वासवं धनिष्ठा, अंबुपः शततारका, तोयं-पूर्वाषाढा, अंत्यं रेवती, पुष्यः, इंदुः= मृगः; एतैर्नक्षत्रैस्त्रयोदशभिः सर्वेषां जलाशयानां वापीकूपतडागनाम्नां तोयाधाराणां खननं शुभमुक्तम् । उक्तं च व्यवहारतत्त्वे-'आप्यांबुपांत्यपितृमित्रवसूत्तरार्ककेंद्विज्यभेषु खननं सलिलाश्रयाणाम्' इति ॥ अथ जलाशयखनने लग्नविचारः ।पापैः पापग्रहैबलरहितैः सद्भिः, तनौ लग्ने, सुरगुरौ बृहस्पती, ज्ञे बुधे स्थिते सतीत्यर्थः । लग्नात् खे-दशमस्थाने, भृगौ-शुक्र सति, आप्ये= जलचरराशौ विधौ सति, जलाशयखननं हितम् । उक्तं च रत्नमालायाम्'लग्ने जीवे शेऽथवा दुर्बलैश्च क्रूरैः शुक्रे चापि मेषूरणस्थे । आप्ये चंद्रे सर्वतोयाश्रयाणामारंभाः स्युः सिद्धये निर्विकल्पम् ॥' इति । कश्यपेनाप्युक्तम्-'गुरौ ज्ञे वा लग्नगते शुक्रे कर्मगते विधौ । आप्यभे जलकार्याणामारंभः सिद्धिदः स्मृतः ॥' इति । दीपिकायां तु विशेषः-'पुष्ये मित्रकरोत्तरस्ववरुणब्रह्मांबु Page #85 -------------------------------------------------------------------------- ________________ स्वामिसेवा मुहूर्तः ] नक्षत्रप्रकरणम् २ । पित्र्येंदुभिः शस्तेऽर्के शुभवारयोगतिथिषु क्रूरेष्ववीर्येषु च । पुष्ठेदौ जलराशिगे दशमगे शुक्रे शुभांशोदये प्रारंभः सलिलाशयस्य शुभदो जीवेंदुपुत्रोदये ॥ इति । स्वं=धनिष्टा । ग्रंथेषु तु वापीकूपतडागानामाकृतिभेदात्प्रत्येकं भिन्नानि नक्षत्राण्युक्तानि । तत्र वापीखननमाह ऋक्षोच्चयः - 'स्वात्यश्विपुष्यहस्तेषु सर्वदा च पुनर्वसौ । रेवत्यां वारुणे चैव वापीकर्म प्रशस्यते ॥' इति ॥ कूपारंभमाह श्रीपतिः - 'हस्तः पुष्यो वासवं वारुणं च मैत्रं पित्र्यं त्रीणि चैवोत्तराणि । प्राजापत्यं चापि नक्षत्रमाहुः कूपारंभे श्रेष्ठमाद्या मुनींद्राः ॥ इति ॥ तडागारंभमाह वसिष्ठः - 'मैत्रेदुपौष्णोत्तररोहिणीषु देवेज्यवारीश्वरवारिभेषु । प्रारंभणं सर्वजलाशयानां कार्यं सितेंद्वंशकवारलग्ने ॥' इति । अत्र वापीकूपनक्षत्राणां पार्थक्येनाभिधानात् तडागारम्भार्थमिदं वचनमवसीयते । बहुवचनमाश्रयाभिप्रायेण । सर्वशब्दोपादानं छंदः परिपूरणार्थम् । तत्र कूपतडागनक्षत्रेषु सदृशनक्षत्रत्यागादवशिष्टानां मेलने त्रयोदश नक्षत्राणि भवंति । तत्र संक्षेप्तुकामेन व्यवहारतत्त्वकत्र सर्वजलाशयानामारंभे सामान्यतो जलाश्रयत्वसाधर्म्यादेतानि त्रयोदश भान्युक्तानि तान्येव च ग्रंथकर्त्रीक्तानि । तत्र वापीकूपतडागानां भेदो लोकप्रसिद्ध एव । यत्तु पुनर्वसिष्ठेनोक्तम्- 'शशांकतोयेशकरार्यमित्रध्रुवांबुपित्र्ये वसुरेवतीषु । उद्यानवाप्याद्वितडागकूपकार्याणि सिध्यंति जलं ध्रुवं स्यात् ॥ इति, तज्जीर्णोद्धारविषयम् । प्रागुक्तवाक्यं प्रारंभणपदोपादानान्नूतनखननविषयमिति पुनरुक्तिपरिहारः ॥ अथ नृत्यारंभः । तैः प्रागुक्तैर्नक्षत्रैः, व्यंभोमधैः = पूर्वाषाढामधारहितैः, सेंद्रभैः=ज्येष्ठासहितैः मित्रार्कध्रुववासर्वांबुपांत्यपुष्येंदुज्येष्ठानक्षत्रैः नृत्यं शुभम्, नृत्यारंभः शुभ इत्यर्थः । नृत्यं = नर्तनम् । यदाह वसिष्ठः - ' तित्रोत्तरामित्रगुरुश्रविष्टाहस्तेन्द्रवारीश्वरपौष्णभेषु । संगीतनृत्यादिसमस्त कर्म कार्यं विभौमार्कजवासरेषु ॥' इति । श्रीपतिरपि - 'हस्तः पुण्यो वासवं चानुराधा ज्येष्ठा पौष्णं वारुणं चोत्तराश्च । पूर्वाचार्यैः कीर्तितश्चंद्रवर्ती नृत्यारंभे शोभनोऽयं भवर्गः ॥' इति । अथ लग्नशुद्धिः । तत्र हिबुके=लग्नाच्चतुर्थस्थाने, स्थितैः शुभग्रहैर्वीक्षिते इत्यध्याहारः । कश्यपवाक्यानुरोधात् । तनुगृहे=लग्ने, बुधसहि सति, अब्जे=चंद्रे, ज्ञराशौ = मिथुनकन्यास्थे चतुर्थस्यैः शुभग्रहैर्वीक्षिते सति नृत्यारंभः शस्तः । यदाह कश्यपः - 'लग्नसंस्थे बुधे चंद्रे बुधराशौ तु वीक्षिते । शुभग्रहैश्चतुर्थस्थैर्नाक्यारंभः प्रशस्यते ॥' इति । अत एव रत्नमालायामपि - 'बुधे विलग्ने शशिनि ज्ञराशौ शुभवीक्षिते । हिब्रुकस्थैः शुभैर्नाट्यप्रारंभः सद्भिरिव्यते ॥' इति । अत्र पद्य एवमेव व्याख्येयम् ॥ २५ ॥ ६९ अथ सेवकस्य स्वामिसेवायां मुहूर्त शालिन्याह क्षि मैत्रे वित्सितार्केज्यवारे सौम्ये लग्नेऽर्के कुजे वा खलाभे । योने मैत्र्यां राशिपोश्चापि मैत्र्यां सेवा कार्या स्वामिनः सेवकेन २६ क्षिप्रे मैत्र इति ॥ क्षिप्रे मैत्रे - अश्विनीपुष्यहस्तचित्रानुराधामृग रेवतीनक्षत्रेषु, वित्सितार्केज्यवारे=बुधशुक्रसूर्यगुरुवारे, तथा सौम्यग्रहे लग्नसंस्थे सति Page #86 -------------------------------------------------------------------------- ________________ मुहूर्तचिंतामणिः। [ऋणग्रहणमुहूर्तः अर्के सूर्ये वा अथवा कुजे=भौमे, खलाभे=दशमैकादशस्थे सति, सेवकेन भृत्येन स्वामिनो राजादेः सेवा कार्या । राजादिदर्शनं प्रागुक्तम् । वेतनग्रहणकार्याचंगीकाररूपा तु सेवाऽस्मिन्मुहूर्ते कार्या । तत्रापि स्वामिसेवकयोर्योनिमैत्र्यां सत्यां, च पुनः राशिपोः स्वामिसेवकयोयौँ जन्मराशी तयोर्यावधिपती तयोरपि मैत्र्यां प्रीतौ सत्यां कार्या । उक्तं च श्रीपतिना-शुभे विलग्ने दशमायगे च रवी कुजे वाऽथ वशेन योनेः । विद्यायुधाभ्यासरतेन कार्यः समाश्रयः स्वामिनि सेवकेन ॥' इति । कश्यपोऽपि-'दशमैकादशे सूर्ये कुजे वा शुभलग्नगे । विद्यायुधाभ्यासयुक्तसेवाकर्मापि सिद्ध्यति ॥' इति । राशिमैत्रीसाहित्यं तु 'बभ्ररगं श्वैणमिभेद्रसिंहमोत्वाखुसंज्ञं त्वजवानरं च । गोव्याघ्रमश्वोत्तममाहिषं च वैरं नृनार्योर्नुपभृत्ययोश्च ॥' इति वसिष्ठोक्तिमंगीकृत्य तुल्यन्यायत्वादत्राप्युक्तं ग्रंथकृता । योनिमैत्री राशिमैत्री च विवाहप्रकरणे (लो० २५) 'अश्विन्यंबुपयो रिति, 'मित्राणि घुमणेः' (६।२७) इति च वक्ष्यति ॥ २६ ॥ • अथ द्रव्यप्रयोगऋणग्रहणमुहूतौं शार्दूलविक्रीडितेनाहखात्यादित्यमृदुद्विदैवगुरुभे कर्णत्रयाश्वे चरे लग्ने धर्मसुताष्टशुद्धिसहिते द्रव्यप्रयोगः शुभः। - नारे ग्राह्यमणं तु संक्रमदिने वृद्धौ करेऽह्नि यत् .. तद्वंशेषु भवेदृणं न च बुधे देयं कदाचिद्धनम् ॥२७॥ खात्यादित्येति ॥ स्वातीपुनर्वसुचित्रानुराधामृगरेवतीविशाखापुष्यश्रवणधनिष्ठाशततारकाश्विनीष्वेकादशनक्षत्रेषु द्रव्यप्रयोगः शुभः द्रव्यं परस्मै ऋणत्वेन देयम् । यदाह भीमपराक्रमः-'मृदुपुष्याश्विनी चैव विशाखा श्रवणत्रयम् । पुनर्वसौ च शंसंति धनादिनिधिवर्तनम् ॥' इति । वर्तनं ऋणादिरूपेण दानं, मिश्रनक्षत्रत्वाद्विशाखानिषेधे प्राप्त ऋणदाने च न निषेध इति विशेषः । हृतनष्टादौ तु निषिद्धव । अथ लग्ने चरे-मेषकर्कतुलामकराणामन्यतमे, धर्मः=नवमं, सुतः=पंचमं, अष्टशब्देन लक्षणयाष्टमस्थानमुच्यते; तेषां शुद्धिः नवमपंचमस्थानयोः शुभग्रहसत्त्वं पापग्रहराहित्यं च, अष्टमे तूभयराहित्यमित्यर्थः । एवंरूपया शुद्ध्या सहिते लग्ने ऋणं देयम् । उक्तं च रत्नमालायाम्-'शुद्धेषु धर्मात्मजनैधनेषु चरे विलग्ने द्रविणप्रयोगः।' इति । अथ आरे मंगलवारे ऋणं न ग्राह्यम् । तदुक्तं ज्योतिःप्रकाशे-'ऋणं भौमे न गृह्णीयान देयं बुधवासरे । ऋणच्छेदं कुजे कुर्यात्संचयं सोमनन्दने ॥' इति । अथ तुर्विशेषे । संक्रमः संक्रांतिः तदिवसे, वृद्धौ वृद्धियोगे, करेऽऽह्नि =हस्तनक्षत्रसहिते रविवारे हस्तार्के इति यावत् , तत्रापि ऋणं न ग्राह्यमिति प्रत्येकं संबंधः । ननु कुतो न ग्राह्यमित्यत आह-यदिति । यद्यस्माद्धेतोस्तदृणं तद्वंशेषु ऋणग्रहीतृकुलेषु भवेत् । तदृणं तत्पुत्रपौत्रादिभिरपि परिहर्तुमशक्यमित्यर्थः । अर्थादेषु भौमसंक्रांत्यादिदिनेषु ऋणमवश्यं परिहर्तव्य १ मूले द्वादश नक्षत्रगणनादर्शनादत्र 'द्वादशनक्षत्रेषु' इति पाठ उचित इति भाति; स चादर्शेष्वदर्शनान्नादृतः । स्वातिन्यूनो हि भीमपराक्रमपाठ एकादशसंख्यानुगुणः । Page #87 -------------------------------------------------------------------------- ________________ हलप्रवहणमुहूर्तः] नक्षत्रप्रकरणम् २। मिति निष्कृष्टोऽर्थः । 'हस्तेऽर्कवारे संक्रांती यदृणं स्यात्कुलेषु तत् । वृद्धियोगे तथा ज्ञेयमृणच्छेदं तु कारयेत् ॥' इति ज्योति प्रकाशकारोक्तेः । अथ बुधे बुधवारे कदाचिदप्य॒णं न देयम् । 'न देयं बुधवासरे' इत्यधुनैचोक्तत्वात् ॥ २७ ॥ अथ हलप्रवहणमुहूर्त शार्दूलविक्रीडितेनाह मूलद्वीशमघाचरध्रुवमृदुक्षिप्रैर्विनाकं शनिं ___ पापीनबलैर्विधौ जलगृहे शुक्रे विधौ मांसले । लग्ने देवगुरौ हलप्रवहणं शस्तं न सिंहे घटे कर्काजैणधटे तनौ क्षयकरं रिक्तासु षष्ठयां तथा ॥२८॥ मूलेति ॥ मूलविशाखामघाभिः चरध्रुवमृदुक्षिप्रैश्च एकोनविंशतिनक्षत्रैहलप्रवहणं हलप्रवृत्तिं कुर्यात् । यदाह नारदः-'मृदुध्रुवक्षिप्रचरविशाखापितृभेषु च । हलप्रवाहं प्रथमं विदध्यान्मूलभे वृषैः ॥' इति । विशेषमाह श्रीपतिः-'मृदुध्रुवक्षिप्रचरेषु मूले मघाविशाखासहितेषु भेषु । हलप्रवाह प्रथमं विदध्यान्नीरोगमुष्कान्वितसौरभेयैः ॥' इति । नीरोगाः पीडारहिता ये मुष्का वृषणास्तैरन्विता ये सौरभेया वृषास्तैर्विदध्यादित्यर्थः । युक्तं चैतत् । वृषाणां वृषणास्तु फलरूपा अतस्तादृशैर्वृषैः कृतं कर्षणं सफलं स्यात् । चूर्णितवृषणैर्वृषैः कृतं कर्षणं निष्फलमेव भवति । तथाऽर्क सूर्यवारं शनिवारं विना त्यक्त्वाऽन्यवारेषु चंद्रमंगलबुधबृहस्पतिशुक्रवारेषु हलप्रवहणं शुभम् । 'पृथग्विनानानाभिस्तृतीयाऽन्यतरस्याम्' इति विनायोगे द्वितीया । उक्तं च व्यवहारतत्त्वे-'पूर्वाद्वीशयमाग्निभेऽर्कयमयो रिक्तासु नेष्टा कृषिः' इति ॥ अथ सामान्यतो लग्नशुद्धिः। तत्र पापग्रहै नबलैर्निर्बलैरुपलक्षिते लग्ने विधौ चंद्रे शुक्रे मांसले बलिनि पुष्टे उदित इत्यर्थः । तत्र विधौ चंद्रे जलगृहे जलराशिस्थे सति देवगुरौ लग्नस्थे च सति हलप्रवहणं शुभम् । उक्तं च रत्नमालायाम्—'शक्तिशालिनि सितेऽथ शीतगौ दुर्बलैरसितभौमभास्करैः । आश्रिते शशिनि वारिजोदयं लग्नवर्तिनि गुरौ कृषिक्रिया ॥' इति । कश्यपोऽपि—'गुरौ लग्नगते शुक्रे बलिन्याप्योदये विधौ । शस्ता कृषिक्रिया तत्र दुर्बलैः क्रूरखेचरैः ॥' इति । अथ विशेषतो लग्नशुद्धिः । तत्र सिंहे, घटेकुंभे, कर्के, अजेमेषे, एणे-मकरे, धटे-तुलायां; एषु लग्नेषु कृषिकर्म न शस्तम् । इतस्तत्क्षयकरं पीडाकरम् । तथा रिक्तासु-चतुर्थीनवमीचतुर्दशीषु, षष्ठ्यां च, क्षयकरम् । तथाशब्दोऽनुक्तसमुच्चयार्थस्तेनाष्टम्यामपि न शस्तं कृषिकर्म । उक्तं च ज्योतिःसारसागरे-'मेषलग्ने पशून् हंति कर्कटे जलजं भयम् । सिंहे सस्यभयं ज्ञेयं तुलायां हलसंक्षयः ॥ मकरे सस्यनाशः स्यात्कुंभे चौरभयं तथा । हत्यष्टमी बलीवर्दान्नवमी सस्यघातिनी ॥ षष्ठी च कीटजननी पशून्हन्ति चतुर्दशी ॥' इति । चतुर्थ्यामपीदमेव फलं ध्येयम् ॥ २८॥ १ अत्र ‘विंशतिनक्षत्राणि' इति पाठो युक्त इति प्रतीयते । Page #88 -------------------------------------------------------------------------- ________________ मुहूर्तचिंतामणिः । [बीजवापमुहूर्तः .. अथ बीजोतिमुहूर्तफणिचक्रहलचक्राणि शार्दूलविक्रीडितेनाहएतेषु श्रुतिवारुणादितिविशाखोडूनि भौमं विना बीजोतिर्गदिता शुभा त्वगुभतोऽष्टानींदुरामेंदवः । रामेंद्वग्नियुगान्यसच्छुभकराण्युप्तौ हलेकोज्झिता द्भाद्रामाष्टनवाष्टभानि मुनिभिः प्रोक्तान्यसत्संति च ॥२९॥ एतेष्विति ॥ श्रुतिः-श्रवणः, वारुणं शततारका, अदितिः-पुनर्वसुः, विशाखा-प्रसिद्धा; एतैरुडुभिर्नक्षत्रैर्विना न्यूनेष्वेतेषु पूर्वोक्तनक्षत्रेषु मूलमघाध्रुवमृदुक्षिप्रधनिष्ठास्वातीषु पंचदशनक्षत्रेषु बीजोप्तिर्बीजवापनं शुभम् । उक्तं च रत्नमालायाम्—'हस्ताश्विपुष्योत्तररोहिणीषु चित्रानुराधामृगरेवतीषु । स्वातौ धनिष्ठासु मघासु मूले बीजोप्तिरुत्कृष्टफला प्रदिष्टा ॥' इति । वसिष्ठेनाप्येतावंत्येव नक्षत्राण्युक्तानि-धातृद्वये कौणपपित्र्यपुष्ये हस्तत्रये त्र्युत्तरमैत्रभेषु । पौष्णे धनिष्ठास्वथ वाश्विनीषु बीजोतिरुत्कृष्टफलप्रदा स्यात् ॥' इति । कौणपः मूलम् । नारदेनाप्युक्तानि-मृदुध्रुवक्षिप्रभेषु पितृवायुवसूडुषु । समूलभेषु बीजोतिरत्युत्कृष्टफलप्रदा ॥' इति । कश्यपेनापि-'वसुवायुजनैर्ऋत्यक्षिप्रध्रुवमृदूडुषु । सीतां स्मृत्वाथ बीजोतिरत्युत्कृष्टफलप्रदा ॥' इति । अत्र मघा नोक्ता । अथ भौमो मंगलवारो निषिद्धः । अर्थात् सूर्यचंद्रबुधगुरुशुक्रशनीनां वारेषु बीजोप्तिः शुभा । अत्र विनायोगे द्वितीया । 'एप्रूंद्रश्रुतिवारुणेषु च कुजे बीजोप्ति'रिति व्यवहारतत्त्वे उक्तत्वात् । 'नेष्टा कृषिः' इत्यतो नकारोऽत्रानुवर्तते, तेन बीजोप्तिर्नेष्टेत्यर्थः । अत्र कालविशेषनिषेधो राजमातेडे-रवी रौद्राद्यपादस्थे भूमेः संजायते रजः। तस्मादिनत्रयं तत्र बीजवापे परित्यजेत् ॥' इति ॥ अथ बीजोप्तौ फणिचक्रमुच्यते । अगुभतो न विद्यते गावः किरणा यस्यासावगुः, यस्य स्वरूपाभावः तस्य कुतस्तरां किरणाः, तादृशोऽगू राहुस्तस्य भं नक्षत्रं तस्मादित्यर्थः । राधिष्ठितनक्षत्रादष्टौ भानि असंत्यसमीचीनानि । ततस्त्रीणि शुभानि । तत एकमशुभम् । ततः स्त्रीणि शुभानि । ततोऽप्येकमशुभम् । ततस्त्रीणि शुभानि । ततोऽप्येकमशुभम् । ततस्त्रीणि शुभानि । ततश्चत्वार्यशुभानि । एवं बीजोप्तौ सप्तविंशतिनक्षत्राणां शुभाशुभत्वमुक्तम् । उक्तं च नारदेन- भवेद्भत्रितयं मूर्ध्नि धान्यनाशाय राहुभात् । गले त्रयं कजलाय वृद्ध्यै द्वादश चोदरे ॥ निस्तंडुलत्वं लांगूले भचतुष्टयमीरितम् । नाशो बहिःपंचके स्थाबीजोप्ताविति चिंतयेत् ॥' इति । राहुर्यस्मिन्नृक्षेऽस्ति तस्मान्नक्षत्रत्रयं मूर्ध्नि मस्तके स्थाप्यं धान्यनाशकरं भवति। ततस्त्रयं गले स्थाप्यं, कजलाय श्यामिकासंपादकं स्यात् । ततो द्वादशभानि बहिर्नक्षत्ररहितानि उदरे स्थाप्यानि, तानि धान्यवृद्धये स्युः। ततो नक्षत्रचतुष्टयं पुच्छे निस्तंदुलत्वकरं स्यात् । ततोऽवशिष्टं बहिर्नक्षत्रपंचकं धान्यनाशकरं स्यात् । रत्नमालायामपि-'मूर्ध्नि त्रीणि गले त्रयं च जठरे धिष्ण्यानि च द्वादश स्यात्पुच्छे च चतुष्टयं बहिरतो भानां स्थितं पंचकम् । श्वेडं Page #89 -------------------------------------------------------------------------- ________________ हलचक्रम् ] नक्षत्रप्रकरणम् २ | कज्जलमन्नवृद्धिरधिका निस्तंदुलत्वं क्रमात्स्यादीतिप्रभवं भयं च फणिभाद्वीजोप्तिकाले स्फुटम् ॥' इति । अत्र केचित् फणिभात्सूर्यनक्षत्रादिति व्याचख्युः । तत्र युक्तिः-'सूर्यभादुरगः स्थाप्यः' इति स्वरोदयवाक्यैकवाक्यभावात् । तन्न । नारदवाक्ये साक्षाद्राहुभादित्युक्तत्वात् । 'राहुधिष्ण्यात्समारभ्य धिष्ण्येप्वष्टसु निष्फलम्' इति कश्यपोक्तेश्च । 'सूर्य भादुरगः स्थाप्यः' इति तु स्वरोदयवचनम् ॥ बीजवापने लग्नशुद्धिमाह वसिष्ठः - 'भवरिपुसहजे पापैस्त्रिकोणकेंद्रस्थितैश्च शुभैः । कथितेषु च धिष्ण्येष्वपि शुभलग्ने बीजवापनं कार्यम् ॥' इति । अथ हलप्रवहणे चक्रमुच्यते-हले इति । हले हलचक्रेsaज्झितात्सूर्य मुक्ताद्भान्नक्षत्रात् क्रमेण त्रीणि नक्षत्राणि असंति अशुभफलानि । ततोऽष्ट भानि संति शुभफलदानि । ततो नव भान्यसंति । ततोऽष्टौ भानि संति । यथा- - सूर्य आर्द्रायां भुक्तभं मृगः, तत आरभ्य त्रीणि मृगार्द्रापुनर्वसुभान्यशुभानि । ततः पुण्याश्लेषामघापूर्वाफल्गुन्युत्तराफल्गुनीहस्तचित्रास्वातीनक्षत्राणि शुभानि । ततो विशाखानुराधाज्येष्ठा मूल पूर्वाषाढोत्तराषाढाभिजिच्छ्रवणधनिष्टानक्षत्राणि अशुभानि । ततः शततारकापूर्वाभाद्रपदोत्तराभाद्वपदा रेवत्यश्विनी भरणीकृत्तिकारोहिणीनक्षत्राणि शुभानि । एवमष्टाविंशतिभानि भवति । यदाह वसिष्ठः – 'अर्कगतागतसंस्थं भत्रितयं नेष्टमुभयतस्त्विष्टम् । षोडशधिष्ण्यं नवकं शिष्टमनिष्टं च लांगले चक्रे ॥' इति । अर्केण गतं भुक्तं, अगतं भोग्यं संस्थमाक्रांतं; एतद्भत्रितयं नेष्टम् । तत उभयतः षोडशधिष्ण्यं इष्टम् । यथा - सूर्य भुक्तभात्प्राक्तनान्यष्टौ शुभानि, सूर्यभोग्यभा नानि शुभानि स्युरित्यर्थः । शिष्टमुर्वरितं मध्यगतनक्षत्रनवकमनिष्टं, एवमत्राप्यष्टाविंशतिभानि । नारदोऽपि - 'हलादौ वृषनाशाय भत्रयं सूर्यभुक्तभात् । अग्रे ऋक्षत्रयं लक्ष्म्यै सौख्यं पार्श्वस्थपञ्चके || शूलत्रयेऽपि नवकं मरणायान्यपंचकम् । श्रियै पुच्छत्रयं श्रेष्टं स्याच्चक्रे लांगले शुभे ॥' इति । अस्यार्थः- हलप्रवहणसमये सूर्यभुक्तनक्षत्रान्नक्षत्रत्रयं वृषनाशाय स्यात् । तदग्रे नक्षत्रत्रयं लक्ष्म्यै स्यात् । तदग्रे पार्श्वनक्षत्रपंचकं सौख्याय स्यात् । तदग्रे शूलत्र्यगतं नक्षत्रनवकं मरणाय स्यात् । तदग्रेऽन्यत्पार्श्वपंचकं श्रियै स्यात् । तदग्रे पुच्छगतं नक्षत्रत्रयं श्रेष्ठं शुभफलदमिति । अनेनापि प्रकारेण मृगादीनि तान्येव शुभाशुभानि संभवति । तत्र हलचक्राकृतिर्लिख्यते । कश्यपोऽपि — 'त्रिप्वष्टसु नवर्क्षेषु सप्तस्वर्कविमुक्तभात् । हानिर्वृद्धिः कर्तृमृत्युर्लक्ष्मीश्चैव यथाक्रमम् ॥' इति हलनक्षत्रोक्त्यनन्तरमुक्तवान् । अस्यायमर्थः - अर्कविमुक्तभात् त्रिषु भेषु हानिः । ततोऽष्टसु भेषु वृद्धिः । ततो नवसु भेषु कर्तुर्नाशः । ततः सप्तसु भेषु लक्ष्मीप्राप्तिरिति यथाक्रमं फलं ज्ञेयम् । अत्र सप्तविंशतिनक्षत्रोक्तेरभिजिद्गुणना नास्ति । एवं बहुमुनिसंवादे सति 'इनप्रोज्झितत्रिवह्नित्रीपुत्री पुत्रिरामाण्य३ | ३ | ३|५|३|५|३ | ३शुभशुभदानि क्रमाल्लांगलाख्ये' इति यदुक्तं केशवदेवशैर्मुहर्ततत्त्वे तञ्चित्यम् । ऋषिवाक्यमूलाभावात् । ननु 'अर्काक्रांतगतागतान्यनडुहां नाशाय भान्यग्रतो वृद्ध्यै भन्त्रितयं ततश्च कृषि७ मु० चि० ७३ Page #90 -------------------------------------------------------------------------- ________________ ७४ मुहूर्तचिंतामणिः। [धर्मक्रियामुहूर्ता; कृद्धाताय शूलत्रये । धिष्ण्यानां नवकं तदंतरगते स्यातां श्रियै पंचके यच्चान्यत्रितयं तदत्र कथितं चक्रे शुभं लांगले ॥' इति श्रीपतिवाक्यालोचनेनोक्तम् । तथा हि-अर्काक्रांतगतागतानि भान्यनडुहां वृषाणां नाशाय स्युः । तदनतो भत्रयं वृद्ध्यै । ततः शूलत्रये धिष्ण्यानां नवकं लेख्यं कृषिकद्धाताय स्यात् । शूलत्रयमध्यगते पंचके नक्षत्रदशकमित्यर्थः । श्रियै स्याताम् । यच्चान्यत्रितयं नक्षत्रत्रयं शुभं स्यात् । एवं सति हलचक्रन्यासः । अनेन प्रकारेण इनप्रोज्झितात्रीणीत्यादीनि शुभाशुभानि भानि संभवंतीति चेत्, तदेतदविचारितरमणीयम् । न ह्ययं श्रीपतिवाक्ये शब्दार्थ उच्यते, किंतु मूलवाक्यादर्शनाबोधपुरःसरस्वाज्ञानप्रकाशकः। शब्दार्थस्त्वयम्-अर्काक्रांतगतागतानि त्रीणि भानि वृषनाशकराणि स्युः। हलमध्यमभागप्रांते ततस्त्रीणि वृद्ध्यै हलदंडाधोभागे । ततः पंचनक्षत्राण्यपास्याग्रिमाणि नवभानि शूलत्रये त्रिकं त्रिकं कृषिकृद्धाताय स्थाप्यानि । नन्वत्र पंचनक्षत्रत्यागे को हेतुरित्यत आह-तदं-. तरगत इति । तच्छब्देन हलोज़दंडशूलोज़दंडावुच्येते । तयोरंतरगते मध्ये विद्यमाने पंचकं च पंचकं च पंचके श्रियै स्थाप्ये । नक्षत्रदशकमिति यावत् । तञ्चान्यद्भत्रितयं हलदंडोर्ध्वभागे शुभफलदं लेख्यम् । एवं सति ऋषिवाक्यैः सहास्यैकार्थता संपद्यते । यत्तु महेश्वरः-'सूर्याधिष्ठितभात्रिवेदविषयांकांशेशविश्वार्ककैस्तुल्यान्येष्यगतानि भानि मुनिभिः प्रोक्तानि शस्तानि च । आये लांगलयोजने' इत्युवाच, तदपि चिंत्यमेव । यत्त्वेवमेव टोडरानंदे ‘अर्काक्रान्ते' इत्यादिपद्यव्याख्यानं पितृचरणकृतं, तदपि स्पष्टार्थवसिष्ठाषिवाक्यविशेषादर्शनकृतं प्रतिभाति । विशेषवाक्यादर्शने हि सामान्यवाक्यस्य नानाविधोऽर्थो व्याकर्तुं शक्यते । विशेषदर्शने तु सामान्यवाक्यस्य विशेष एव पर्यवसानमित्यलमतिप्रसतानुप्रसक्तेन । अत्र हलचके बीजोप्तिचक्रे वा विहितनक्षत्राणामिष्टफलदस्थानपाते सत्येव परिग्रहो न्याय्यः, अन्यथात्वे त्यागः । निषिद्धानां तु सर्वथैव त्याग इति निष्कृष्टोऽर्थः ॥ २९॥ अथ शिरोमोक्षविरेकादिधर्मक्रियामुहूर्तान् शार्दूलविक्रीडितेनाहत्वाष्ट्रान्मित्रकभावयेंऽबुपलघुश्रोत्रे शिरामोक्षणं भौमार्केज्यदिने विरेकवमनाचं स्यादुधार्की विना । मित्रक्षिप्रचरध्रुवे रविशुभाहे लग्नवर्ग विदो जीवस्यापि तनौ गुरौ निगदिता धर्मक्रिया तदले ॥३०॥ त्वाष्ट्रादिति ॥ त्वाष्ट्रावयं-चित्रास्त्रात्यौ, मित्राद्वयं अनुराधाज्येष्ठे, कभाद्वयं-रोहिणीमृगौ, अंबुपः शततारका, लघूनि-अश्विनीपुष्यहस्ताभिजितः, श्रोत्रं-श्रवणः,-एषु नक्षत्रेषु; तथा भौमार्केज्यदिने=मंगलगुरुरविवासरेषु शिरामोक्षणं रुधिरवाहिनी नाडी शिरा तस्या मोक्षणं सूक्ष्मशस्त्रघातेन शिरातो रक्तमोक्षणं कुर्यादित्यर्थः। उक्तं च ज्योतिःसारसागरे-'चित्रायुगे विधियुगे Page #91 -------------------------------------------------------------------------- ________________ कणमर्दन सस्यरोपणे मुहूर्ता:] नक्षत्रप्रकरणम् २ | मित्रयुगे लघुषु वारुणे विष्णौ । बस्तिविरेचनवेधाः शुभदिनतिथिचंद्रलग्नेषु ॥ इति । वारे संमत्यभावः । अथ बुधार्की बुधशनैश्चरावपास्यान्यवारेषु पूर्वोक्तनक्षत्रेषु च विरेकवमनाद्यम्; औषधेन सुखप्रवृत्तिर्विरेकः, वमनं प्रसिद्धमेव, तदाद्यं कर्म कार्यं उक्तं । अथ मित्रक्षिप्रचरध्रुवे एषु त्रयोदशनक्षत्रेषु तथा रवौ रविवारे शुभाहे चंद्रबुधगुरुशुक्रवारेषु धर्मक्रिया कोटिहोमरुद्रानुष्ठानादिका कार्या । उक्तं च दीपिकायाम् — 'शुभग्रहार्कवारेषु मृदुक्षिप्रश्रुवोडुषु । शुभराशिविलग्नेषु शुभं शांतिकपौष्टिकम् ॥' इति । शांतिकं=धर्मकृत्यं कोटिहोमाद्यम् । अथ विदो बुधस्य जीवस्य गुरोर्लग्नवर्गे यस्मिन् कस्मिंश्चिल्लग्ने गुरुबुधयोः षड्वर्गे सति तनौ लग्ने च गुरौ सति कर्तुश्च गुरुबले सति धर्मक्रिया हिता निगदिता । उक्तं च रत्नमालायाम् - ‘हिबुकेऽर्के गुरौ लग्ने धर्मारंभो रवेर्दिने' इति । अन्यच्च – 'श्रुतिस्मृतिपुराणादिप्रोक्तानां धर्मकर्मणाम् । गुरुज्ञलग्नवर्गेषु प्रारंभस्तद्वले सति ॥' इति । षड्वर्गज्ञानं विवाहप्रकरणे ग्रंथकर्तेव वक्ष्यति ॥ ३० ॥ अथ धान्यच्छेदमुहूर्तं वसंततिलकेनाहतीक्ष्णाजपादकरवह्निवसुश्रुतदुस्वातीमघोत्तरजलान्तकतक्षपुष्ये । मंदाररिक्तरहिते दिवसेऽतिशस्ता ७५ धान्यच्छिदा निगदिता स्थिर विलग्ने || ३१ ॥ तीक्ष्णाजपादेति ॥ तीक्ष्णसंज्ञानि = मूलज्येष्ठार्द्राश्लेषाः, अजपादः=पूर्वाभाद्वपदा, अन्यानि प्रसिद्धानि, तक्षा - चित्रा, पुष्यश्चः एतेष्वेकोनविंशतिनक्षत्रेषु तथा मंदः = शनिः, आरः = मंगलः, रिक्तातिथयः प्रसिद्धाः; एतेषां समाहारो मंदाररिक्तं तेन रहिते विहीने दिवसे तथा स्थिरभे स्थिरराशौ लग्ने सति धान्यच्छिदा धान्यच्छेदनम् । 'षिद्भिदादिभ्योऽङ्' इत्यङ्, स्त्रियां टाप् । धान्यानां यवादीनां छिदा निगदितोक्ता । निष्पन्नधान्यानां छेदनं कार्यमित्यर्थः । यदाह राजमार्तडः - ' रौद्रे पित्र्ये तथा सौम्ये हस्ते पुष्येऽनिले तथा । सस्यच्छेदं प्रशंसंति मूलश्रवणवासवे ॥' इति । दीपिकायां तु - ' याम्याजपादहिधनानलतोयशऋचित्रोत्तरोडुषु कुजार्कजवारवर्ज्यम् । रास्तेंदुयोगकरणेषु तिथावरिक्ते धान्यच्छिदा स्थिरनरस्वगृहोदयेषु ॥' इति । अहिः = आश्लेषा । अत्र पूर्ववाक्ये नव नक्षत्राण्युक्तानि । द्वितीयवाक्ये एकादश भानि । वाक्यद्वये धनिष्टोपादानात्तत्यागे एकोनविंशतिभान्येव संपद्यंते । तानि वचनद्वयप्रामाण्याड्रंथकर्त्रीपनिबद्धानि । व्यवहारतत्त्वे तु वारावुक्तौ - 'धान्यानां लवनं कुर्यारौ शुक्रे च सर्वदा' इति ॥ ३१ ॥ अथ कणमर्दनसस्यरोपणमुहूतौं वसंततिलकेनाह— भाग्यार्यमश्रुतिमघेंद्रविधातृमूलमैत्रांत्यभेषु कथितं कणमर्दनं सत् । Page #92 -------------------------------------------------------------------------- ________________ मुहूर्तचिंतामणिः। [धान्यस्थिति-वृद्धिमुहूर्ताः द्वीशाजपानिक्रतिधातृशतार्यमः . सस्यस्य रोपणमिहार्किकुजौ विना सत् ॥ ३२॥ . भाग्येति ॥ भाग्य-पूर्वाफल्गुनी, अर्यमा उत्तराफल्गुनी, विधाता-रोहिणी, अन्यान्यतिप्रसिद्धानि; एषु नव नक्षत्रेषु कणाश्चणकादयस्तेषां मर्दनं यष्ट्याद्याघातादिना वितुषीकरणं सत्। समीचीनमित्यर्थः। तदुक्तं व्यवहारोच्चये-'फल्गुन्यो श्रवणश्चैव मघा मूलं तथा मता । अनुराधा तथा ज्येष्ठा रेवती धान्यमर्दने ॥ केवले सिंहलग्ने वा गुरुशुक्रोदयेऽथवा ॥' इति । एवमत्राष्टौ भान्युक्तानि, रोहिण्यांमर्दनं कुर्यात्' इति राजमार्तडोक्तेः रोहिण्युपादानं च । तवाक्यमिदम्-'हस्ते च वापयेद्बीजं संग्रहं वैश्वदैवते । रोहिण्यां मर्दनं कुर्यादुत्तरासु प्रवेशयेत् ॥' इति । अत्र कर्मविशेषेष्वेकस्यैव नक्षत्रस्योपादानमतिमुख्यतासूचनार्थ, न वितरनिषेधार्थम् । कुतः? वाक्यांतराणां वैयर्थ्यापत्तेरिति । अथ द्वीशं-विशाखा, अजपात्-पूर्वाभाद्रपदा, नितिः मूलं, धाता-रोहिणी, शत-शततारका, अर्यमर्श उत्तराफल्गुनी; एषु षदसु भेषु सस्यस्य धान्यस्य रोपणं पूर्ववापितस्थानात्स्थलांतर आरोपणं सच्छुभम् । इह सस्यरोपणे आर्किकुजौ शनिभौमौ विना त्यक्त्वाऽन्यवारेषु सूर्यचंद्रबुधगुरुशुक्रवारेषु कार्य सस्यस्य रोपणम् । उक्तं च राजमार्तडे–'पूर्वाभाद्रपदामूलं रोहिण्युत्तरफल्गुनी । विशाखा वारुणं चैव धान्यानां रोपणे वराः ॥' इति ॥ ३२॥ अथ धान्यस्थितिधान्यवृद्धिमुहूतौ वसंततिलकेनाह मिश्रोग्ररौद्रभुजगेंद्रविभिन्नभेषु कर्काजतौलिरहिते च तनौ शुभाहे । धान्यस्थितिः शुभकरी गदिता ध्रुवेज्य द्वीशेंद्रदनचरभेषु च धान्यवृद्धिः ॥ ३३ ॥ • मिश्रोग्रेति ॥ मिश्रं विशाखाकृत्तिके, उग्रं-पूर्वात्रयभरणीमघाः, रौद्रं आर्द्रा, भुजगः आश्लेषा, इंद्रः ज्येष्ठा; एभ्यो दशभ्यो विभिन्नेष्वन्येषु सप्तदशसु मेषु नक्षत्रेषु; तथा कर्कः, अजः मेषः, तौलिः=तुला; एतैर्विहीनतनौ मकरस्थिरद्विस्वभावराशिलनेषु तथा शुभाहे शुभग्रहाणां वारे धान्यानां स्थितिरेकत्र राशीकरणं नाम सा निगदिता। उक्तं च दीपिकायाम्-'याम्याग्निरुद्राहिविशाखपूर्वामाहेंद्रपित्र्येतरभैः शुभाहे । धान्यादिसंस्थापनमेषु शस्तं मृगस्थिरव्यंगगृहोदयेषु ॥' इति । अथ ध्रुवाणि प्रसिद्धानि, इज्यः-पुष्यः, द्वीशं-विशाखा, इंद्रः ज्येष्ठा, दस्रावश्विनी, चराणि प्रसिद्धानि; एषु धान्यवृद्धिः त्वं मह्यमेतावत् धान्यं देहि, ततोऽहं मासद्वयेन तुभ्यं तद्धान्यं सपादं साधं वा दास्यामि इत्येवंरूपा सा निगदिता । उक्तं च दीपिकायाम्-'श्रवणत्रयं विशाखाध्रुवपुष्यपुनर्वसूनि वायुश्च । अश्विन्यथ च ज्येष्ठा धनधान्यविवर्धने शस्ताः ॥' इति ॥३३॥ Page #93 -------------------------------------------------------------------------- ________________ होमाहुतिशुद्धिमुहूर्तः ] नक्षत्रप्रकरणम् २ । अथ शांतिकपौष्टिकादिकृत्येषु मुहूर्त वसंततिलकेनाहक्षिप्रध्रुवांत्यचरमैत्रमघासु शस्तं स्याच्छांतिकं च सह पौष्टिकमंगलाभ्याम् । खेड विधौ सुखगते तनुगे गुरौ नो मौयादिदुष्टसमये शुभदं निमित्ते ॥ ३४ ॥ क्षिप्रेति ॥ क्षिप्रादीनि मघांतानि प्रसिद्धानि तेषु पौष्टिक = पुष्टिकारकं, मंगलं=विनायकशांत्यादि, शांतिकं = दुष्टफलदमूलनक्षत्राद्युत्पन्नशांत्यादि; एतानि कर्माणि कार्याणि । उक्तं च दीपिकायाम्— 'मित्रादित्यमघोत्तराशतभिषक्स्वातीविरंच्यच्युतस्वर्गाधीश्वरपूज्यपौष्णरविषु स्फीते तुषारत्विषि । रिक्तां पर्व विहाय सौम्यदिवसे शस्तं नृणां भूतये सर्वं शांतिकपौष्टिकं निगदितं गर्गादिभिर्निश्चयात् ॥' इति । अथ लग्नशुद्धिः । तत्रार्के सूर्ये खे दशमे सति विधौ चंद्रे सुखगते चतुर्थस्थे गुरौ तनुगे लग्नस्थे सति शांत्यादिकं कर्म कार्यम् । उक्तं च रत्नमालायाम् —' पूर्ण चंद्रे वेश्मगेऽर्केऽम्बरस्थे लग्ने जीवे वाक्पतेर्वासरे च । श्रीमंत्यायुष्याणि कार्याणि कार्याणि' इति । तच्छांतिकादि मौये गुरुशुक्रयोरस्तादिके बाल्यवार्धकसिंहस्थ गुर्वादिरूपे दुष्टसमये नो शुभदम् । तथा निमित्ते केत्वाद्युत्पातदर्शने सति गुरुशुक्रास्तादिदुष्टसमयेऽपि शुभदम् । उक्तं च दीपिकायाम् — 'शांतिकर्माणि कुर्वीत रोगे नैमित्तिके तथा । गुरुभार्गवमौढ्येऽपि दोषस्तत्र न विद्यते ॥' इति । युक्तं चैतत्, यतोऽस्तीदं शांतिकं नैमित्तिकम् । 'अनिमित्तकृता शांतिर्निमित्तायोपजायते ।' इति स्मरणात् । तत्र निमित्ते रोगरूपे केत्वाद्युत्पातांतरदर्शनरूपे च भवति नैमित्तिकं, तच्च बहुदिनव्यापके गुरुशुक्रास्तादिदोषेऽप्यवश्यं विधेयम् । यतो जन्मांतरीयदुरदृष्टसूचकमिदं निमित्तमुत्पन्नं तस्य शान्त्या निरासादशुभादृष्टस्यापि निरासः । बहुदिनप्राप्ये निर्दूषणे काले क्रियमाणं शांतिकं किंचिद्दुरदृष्टशामकं यद्यपि भवति तथापि तावद्भिर्दिनैर्दुरदृष्टस्य प्राबल्याद्दुःखप्राप्तिः । यथाल्पोऽप्यग्निरल्पेनैव जलेन शांतो भवति, तथा सकलनगरदाहको मनुष्यैर्बहुभिर्युगपद्गृहीतजलपूर्णघटैरेकदेशनिर्वापितोऽपि सकलोऽग्निर्न निर्वाप्यते इत्यतः सर्वथा मौढ्यादिदोषं विनैव यथाकथंचित्कथितप्रकारेण दिनशुद्धिमंगीकृत्य शांतिकाद्यवश्यं विधेयम् ॥ ३४ ॥ अथ होमाहुतिशुद्ध मुहूर्तमनुष्टुप्छंदसाह ७७ सूर्यभात्रित्रि चंद्रे सूर्यविच्छुक पंगवः । चंद्रा रेज्यागुशिखिनो नेष्टा होमाहुतिः खले || ३५ ॥ सूर्यभादिति ॥ सूर्यः स्पष्टमानेन यन्नक्षत्रेऽस्ति तस्मात्रित्रिके आदितो भत्रयमेककिमेवं सप्तविंशतिभेषु नवत्रिकानि भवति । तत्र सूर्यनक्षत्रादारभ्य Page #94 -------------------------------------------------------------------------- ________________ ७८ मुहूर्तचिंतामणिः । [होमदिने वह्निवासवशेन फलं प्रथमद्वितीयादित्रिकस्थे चंद्रे सति क्रमादेषां मुखे आहुतिः पतति । यथा प्रथमत्रिके सूर्यस्य, ततो बुधस्य, ततःशुक्रस्य, ततः पंगोः शनेः, ततश्चंद्रस्य, तत आरस्य भौमस्य, तत इज्यस्य गुरोः, ततोऽगो राहोः, ततः शिखिनः केतोः । एवं सति यद्दिने पापग्रहमुखे होमाहुतिः पतति सा नेष्टा न शुभदा । अर्थादेव शुभग्रहमुखे आहुतिपातः शुभफलदः । उक्तं च कश्यपेन-'नक्षत्रे यत्र भानुः स्यात्तदायूक्षत्रिकं त्रिकम् । सूर्यज्ञशुक्रसौरीणामिंदुभौमबृहस्पतेः ।। राहोः केतोश्च निर्दिष्टं वदनादौ शुभाशुभम् । सौख्यार्थनाशः सूर्ये स्यादिंदौ जलमयी कृषिः ॥ भौमेऽग्निदाहो राष्ट्रस्य बुधे बुद्धिविवर्धनम् । गुरौ लब्धिरभीष्टस्य राज्यं सौभाग्यनंदितम् ॥ भार्गवे कार्यसंपत्तिरैहिकामुष्मिकी भवेत् । शनेर्मुखाहुतौ ज्ञेयो राज्यभंगो धनक्षयः । राहोर्मुखाहुतौ हानिः सर्वस्य परिकीर्तिता । केतोर्मुखाहुतौ ज्ञेयं दुर्भिक्षं देशविप्लवम् ॥ मरणं प्राणिनां चैव राज्यभंगं तथैव च । तस्मात्सर्वप्रयत्नेन ग्रहनक्षत्रसंगमे ॥ दुष्टे न कुर्याद्धवनमित्याहुर्भार्गवादयः ॥' इति । तदयमत्र निष्कृष्टोऽर्थः-सूर्याक्रांतनक्षत्रात् चंद्रनक्षत्रस्य त्रिकत्रिकगणनया पापमुखे आहुतिनिद्या । शुभग्रहमुखे समीचीना । अत एव पितृचरणैरप्युक्तम्-'विवस्वदृक्षात्रिकमेकमेवं विधौ स्थितेऽकंज्ञसितार्कजानाम् । चंगारजीवागुशिखावदास्ये होमाहुतिः पापमुखे निषिद्धा ॥' इति । गुर्जरदेशे प्रसिद्धमिदम् । अथ दैवात्कृतस्य पापग्रहमुखे हवनस्य शांतिरुक्ता विष्णुधर्मोत्तरे—'ऋरग्रहमुखे चैव संजाते हवने शुभे । शांति विधाय गां दद्याद्राह्मणाय कुटुंबिने ॥ आयसी प्रतिमां कृत्वा निक्षिपेत्तामधोमुखीम् । गोमूत्रमधुगंधाद्यैरर्चितां प्रतिमां ततः । कुंडे निधाय संपूज्य तत्र होमो विधीयते ॥' इति ॥ ३५ ॥ अथ यद्दिने होमश्चिकीर्षितस्तहिने वह्निवासवशेन शुभाशुभफलमिंद्रवज्रयाहसैका तिथिर्वारयुता कृताप्ता शेषे गुणेऽभ्रे भुवि वह्निवासः । सौख्याय होमे शशियुग्मशेषे प्राणार्थनाशौ दिवि भूतले च ३६ सैकेति ॥ शुक्लादिमासगणनया वर्तमानतिथिर्गण्यैकयुता वर्तमानवारयुता चतुर्भक्ता यच्छेषं तद्गुणमितं शून्यमितं चेत्तदा वह्वेर्वासो वसतिस्थान भुवि वर्तते । तत्फलमाह-सौख्यायेति । होमदिवसे भुवि वह्निवासः सौख्यजनको भवतीत्यर्थः । अथ शशियुग्मशेषे क्रमेणैकमिते शेषेऽग्निवासो दिवि स्वर्गे, तत्फलं कर्तुः प्राणनाशो मरणं भवेत् । द्विमिते शेषेऽग्निवासो भूतले पातालेऽस्ति, तत्फलं कर्तुरर्थनाशो द्रव्यनाशः । उक्तं च-'तिथिवारयुतिः सैका वेदभक्तावशेषकात् । निवासोऽग्नेयाम्नि रूपे वित्तप्राणविनाशकः । पाताले द्विकशेषेण धनसंचयनाशकः । गुणवेदावशेषेण भूमौ विपुलसौख्यदः ॥ संस्कारेषु विचारोऽस्य न कार्यों नापि वैष्णवे । नित्ये नैमित्तिके कार्य न चान्दे मुनिभिः स्मृतः ॥' इति ॥ ३६ ॥ Page #95 -------------------------------------------------------------------------- ________________ ७९ वेतालाभिचारसिद्धिमुहूर्ताः] नक्षत्रप्रकरणम् २ । अथ प्रतिवर्षोत्पन्ननवान्नभक्षणमुहूर्तमनुष्टुभाह नवान्नं स्याचरक्षिप्रमृदुभे सत्तनौ शुभम् । विना नंदाविषघटीमधुपौषार्किभूमिजान् ॥ ३७॥ नवानमिति ॥ चरक्षिप्रमृदुसंज्ञकद्वादशभेषु तथा सत्तनौ समीचीनलग्ने शुभग्रहैर्युते दृष्टे चेत्यर्थः । परंतु नंदाः प्रतिपत्षष्ट्यैकादश्यः, विषघटीर्विवाहप्रकरणे वक्ष्यमाणाः, मधु-चैत्रमासं, पौषं च, आर्कि-शनि, भूमिजं मंगलवारं, एतान्विना वर्जयित्वा नवान्नभक्षणं शुभं स्यात् । यदाह भुजबल:-'नवान्नभोजनं नृणां मृदुक्षिप्रचरैः शुभम् । शुभेक्षितयुते लग्ने विषनाडी विवर्जयेत् ॥ नवान्नं न च नंदायां मासे पौषे मधौ तथा ॥' इति ॥ ३७ ॥ अथ नौकाघटनमुहूर्तमनुष्टुभाह याम्यत्रयविशाखेन्द्रसार्पपित्र्येशभिन्नभे। भृग्वीज्यार्कदिने नौकाघटनं सत्तनौ शुभम् ॥ ३८ ॥ याम्येति ॥ याम्यत्रय भरणीकृत्तिकारोहिण्यः, विशाखा, इन्द्रः-ज्येष्टा, सार्प-आश्लेषा, पित्र्यं-मघा, ईशः आः; एतैर्वर्जिते रहिते अवशिष्टेष्वष्टादशनक्षत्रेषु तथा शुक्रगुरुसूर्यवारे सत्तनौ प्राग्व्याख्यातगुणविशिष्टे लग्ने नौकायाः घटनं निर्माणं शुभम् । उक्तं च दीपिकायाम्-'ज्ञभहरिघटलग्ने शक्रपित्र्यद्विदैवत्रिनयनविधियाम्यद्वंद्वसापात्यभेषु । सुकरणतिथियोगे शुक्रजीवार्कवारे तरणिघटनमिष्टं चंद्रताराविशुद्धौ॥' इति । ज्ञभे=मिथुनकन्ये, हरिः= सिंहः । तरणिः नौः । अथ घटनस्थानान्नौचालनमुहूर्ता मयोच्यते । तत्र दीपिका-'शुभाहे विष्णुयुग्मेंदुभगमैत्राश्विपाणिषु । चालनं घटनस्थानान्नावः शुभतिथींदुषु ॥' इति । अथ दीपिकायां नौकायात्रामुहूर्तोऽपि- अश्विकरेज्यसुधानिधिपूर्वामित्रधनाच्युतभे शुभलग्ने । तारकयोगतिथींदुविशुद्धौ नौगमनं शुभदं शुभवारे ॥' इति ॥ ३८॥ अथ वीरसाधनाभिचारयोर्मुहूर्तमनुष्टुभाह मूलार्द्राभरणीपित्र्यमृगे सौम्ये घटे तनौ । सुखे शुक्रेऽष्टमे शुद्धे सिद्धिर्वीराभिचारयोः॥ ३९॥ मूलेति ॥ मूलादिनक्षत्रपंचके तथा घटे तनौ कुंभलग्ने तत्र स्थिते सौम्ये बुधे सति तथा शुक्र सुखे चतुर्थस्थे अष्टमे शुद्धे । शुद्धत्वं प्राग्व्याख्यातम् । तादृशे लग्ने वीरस्य वीरसाधनाया अभिचारकर्मणश्च सिद्धिनिष्पत्तिः । उक्तं च वसिष्टेन-'शशिनैर्ऋतयमपितृभेष्वष्टमशुद्धौ भृगौ च पाताले । घटलग्नगते शशिजे निखिला वेतालसिद्धिः स्यात् ॥' इति । आर्दाग्रहणं रत्नमालायाम्-'पित्र्येशयाम्यमूलेंदुभेषु शुद्धेऽष्टमेऽपि च । वेतालसिद्धिः पाताले भृगौ से घटलग्नगे ॥' इति । वेतालो नाम वीरसाधना ॥ ३९ ॥ १ अत्र ‘अवशिष्टेष्वष्टादशनक्षत्रेषु' इति पाठो विचार्योऽभियुक्तैः; यतो ग्रंथकृदुक्तान्यटनक्षत्राण्यष्टादशैमिलितानि समस्तनक्षत्राणां षडिशतिसंख्यापादकानि स्युः । Page #96 -------------------------------------------------------------------------- ________________ मुहूर्तचिंतामणिः। [शिल्पविद्यामुहूर्तः अथ रोगनिर्मुक्तस्नानमुहूर्त वसंततिलकेनाह व्यंत्यादितिध्रुवमघानिलसार्पधिष्ण्ये . रिक्तातिथौ चरतनौ विकवींदुवारे । स्नानं रुजा विरहितस्य जनस्य शस्तं हीने विधौ खलखगैर्भवकेंद्रकोणे ॥४०॥ व्यंत्येति ॥ अंत्यं रेवती, अदित्यादीनि भानि प्रसिद्धानि; एतानि नव धिष्ण्यानि विगतानि येषु तान्यवशिष्टान्यष्टादश भानि तेषु तथा रिक्तासंज्ञासु तिथिषु तथा कविः शुक्रः, इंदु: चंद्रः, आभ्यां रहितेषु वारेषु तथा विधौ= चंद्रे, हीने निषिद्धस्थानस्थिते । निषिद्धस्थानानि गोचरप्रकरणे वक्ष्यति । तथा भवे-एकादशे, केंद्रे प्रथमचतुर्थसप्तमदशमस्थाने,कोणे नवपंचमे; एषु स्थानेषु स्थितैः पापग्रहैरुपलक्षिते लग्ने सति रुजा रोगेण विरहितस्य निर्मुक्तस्य जनस्य स्नानं आरोग्यस्त्रानं शस्तं शुभम् ॥ उक्तं च कश्यपेन-'पितृमारतसत्यस्थिरष्विदुशुक्रयोः । न कुर्याद्वारयो रोगमुक्तः स्नानं कदाचन ॥' इति । पुनर्वसोरपि निषेधो रत्नमालायाम्-'इंदोर्वारे भार्गवे च ध्रुषेषु सादित्यस्वातियुक्तेषु भेषु । पित्र्ये चांत्ये चैव कुर्यात्कदाचिन्नैव स्नानं रोगमुक्तस्य जंतोः ॥' इति । पुष्यशततारकयोर्निषेधो नारदसंहितायाम्-'स्थिरेज्यादितिसात्यपितृवारुणभेषु च । न कुर्याद्रोगमुक्तस्य स्नानं वारेऽजशुक्रयोः ॥' इति । अर्थादन्यनक्षत्रेषु कार्यमित्यर्थः । अथ लग्नादिशुद्धिमाह श्रीपतिः'लग्ने चरे सूर्यकुजेज्यवारे रिक्तातिथौ चंद्रबले च हीने । त्रिकोणकेंद्रायगतैश्च पापैः स्नानं हितं रोगविमुक्तकानाम् ॥' इति । दीपिकायां तु विशेषः'व्यादित्येषु चरेषु शकदिनकृत्पुष्योगचंद्रेषु च क्रूराहव्यतिपातविष्टिदिवसेविंदावशस्ते तिथौ । केंद्रस्थेष्वशुभेष्वकामतिथिषु स्नानं गदान्मुक्तिदं शस्तं नात्र सुशोभना विधिभुजंगःदुसद्वासराः ॥' इति । अकामतिथिषु-त्रयोदशीरहितासु तिथिषु ॥ ४०॥ अथ शिल्पविद्यामुहूर्तमनुष्टुभाह मृदुध्रुवक्षिप्रचरे से गुरौ वा खलग्नगे । विधौ ज्ञजीववर्गस्थे शिल्पविद्या प्रशस्यते ॥४१॥ मृदुधुवेति॥मृदुगणध्रुवगणक्षिप्रगणचरगणेषु शिल्पं काष्ठतक्षणपाषाणादिघटननानावर्णनिर्मितमूर्त्यादिकं तद्विद्यायाःप्रारंभः प्रशस्यते । अथ लग्नशुद्धिः। तत्र ज्ञे बुधे खलग्नगे दशमस्थे लग्नस्थे च वा अथवा गुरौ बृहस्पतौ खलग्नगे दशमस्थे लग्नस्थे च सति तथा विधौ चंद्रे ज्ञजीववर्गस्थे बुधगुरुषड्वर्गस्थे च सति शिल्पविद्या प्रशस्यते । उक्तं च रत्नमालायाम्-'लग्नकर्मगते सौम्ये जीवे वामृतदीधितौ । तयोर्वर्गस्थिते शिल्पविद्यारंभः प्रशस्यते ॥' इति । कश्यपेन त्वेवमुक्तम्-'लमधर्मगते सौम्ये गुरौ वा हिमदीधितौ । तयोर्वर्गस्थिते शिल्प Page #97 -------------------------------------------------------------------------- ________________ परीक्षामुहूर्तः] नक्षत्रप्रकरणम् २। कारंभः प्रशस्यते ॥' इति ॥ वसिष्ठेन त्वन्यथैवोक्तम्-'शशितनये जीवे वा चंद्रे वा लमगे बलिनि धर्मे । तद्वर्गे लग्नगते शिल्पारंभः प्रशस्यते सततम् ॥' इति ॥४१॥ अथ संधानमुहूर्तमनुष्टुभाह- मंगेज्यमित्रभाग्येषु चाष्टम्यां तैतिले हरौ। शुक्रदृष्टे तनौ सौम्यवारे संधानमिष्यते ॥ ४२ ॥ मृगेज्येति ॥ मृगेज्यमित्राः प्रसिद्धाः, भाग्यं पूर्वाफल्गुनी; एषु भेषु तथाऽष्टम्यां हरौ द्वादश्यां वा तैतिले करणे वा तथा शुक्रदृष्टे शुक्रयुत इत्यपि द्रष्टव्यम् । तादृशे तनौ लग्ने तथा सौम्यग्रहाणां वारे संधानं प्रीतिरिष्यते । उक्तं च रत्नमालायाम्-'भाग्ये मैत्रे शीतरश्मौ सपुष्य द्वादश्यां वा शुक्रदृष्टे च लग्ने । अष्टम्यां वा तैतिलाख्ये प्रदिष्टा पूर्वाचार्यैस्तत्र संधानसिद्धिः॥' अत्र केचिदेवं व्याकुर्वते-पुष्येण सहिते सपुष्ये भाग्ये मैत्रे च एतन्नक्षत्रत्रयसंस्थे शीतरश्मौ चंद्रे सति संधानं कार्यम् । अनेन भाग्यमैत्रपुष्यात्मकं नक्षत्रत्रयमुक्तं भवति । यदाह वसिष्ठः-'सुरगुरुमैत्रे भाग्ये द्वादश्यां वाथ पक्षमध्यतिथौ । सितयुतवीक्षितलग्ने तैतिलकरणे च संधिः स्यात् ॥' इति । कश्यपोऽपि-'भाग्ये पुष्ये समैत्रे च लग्ने शुक्रेक्षिते युते । करणे तैतिलेऽष्टम्यां द्वादश्यां संधिरिष्यते ॥' इति । एतदेव रत्नमालापद्यव्याख्यानं ज्यायः। संमतिवाक्ययोरार्षत्वात् । 'भाग्ये मैत्रे शीतरश्मौ' इति वक्रोक्तावाशयं न विद्मः। एवं च मूलपद्ये 'देवेज्यमित्रभाग्येषु' इत्येव पठनीयम् ॥ ४२ ॥ अथ परीक्षामुहूर्त वसंततिलकेनाह त्यक्त्वाष्टभूतशनिविष्टिकुजाञ्जनुर्भ• मासौ मृतौ रविविधू अपि भानि नाड्याः । यंगे चरे तनुलवे शशिजीवतारा शुद्धौ करादितिहरींद्रकपे परीक्षा ॥ ४३ ॥ त्यक्त्वेति ॥ अष्ट=अष्टमी, भूतः चतुर्दशी, शनिकुजौ वारौ प्रसिद्धौ, विष्टिः भद्रा, जनुर्भमासौ-जननकालीननक्षत्रं जन्ममासं च, मृतौ अष्टमस्थाने, रविविधू-जन्मराशेः सकाशादष्टमं सूर्य चंद्रं च; तथा नाड्याः भान्यपि नाडीनक्षत्राण्यपि । रविविधू अपीत्यत्र 'ईदूदेट्विवचनं प्रगृह्यम्' इति प्रगृह्यसंज्ञायां 'प्लुतप्रगृह्या अचि नित्यम्' इति प्रकृतिभावः । एतावत्पदार्थकदंबकं त्यक्त्वा परीक्षा कार्या । परीक्षा नाम सुवर्णस्तेयादिमहापातकाभिशस्तशुद्ध्यशुद्धिविचारात्मिका तप्तमाषादिरूपा । दिव्यमिति यावत् । सामा. न्यतो भद्रानिषेधेऽपि पुनर्भद्रानिषेधो 'रात्रिभद्रा यदाह्नि स्यात्' इत्यादिपरिहाराणामप्यनवकाशतां सूचयितुमुपात्तः। जन्मभस्य नाडीनक्षत्रत्वादेव निषेधे पुनरुपादानमावश्यकत्वं द्योतयितुम् । जन्ममासस्य तु पुननिषेधो नाद्यगर्भ१ अत्र ‘सुरेज्यमित्रभाग्येषु' इत्यपि पाठो लभ्यते । २ ‘जीर्णाः' इति पाठः। . Page #98 -------------------------------------------------------------------------- ________________ मुहूर्तचिंतामणिः। [ज्वरनिवृत्तौ दिनसंख्या विषये यथा स्यादित्येवमथं सामान्यवाक्यमाद्यगर्भविषयमेव । एतच्चाने निणेप्यते । एवं परीक्षायां निषिद्धनिमित्तान्यभिधाय विहितनिमित्तान्याह-चंग इति । तनुलव इति प्रत्येकं संबंधः। व्यंगे द्विस्वभावे मिथुनकन्याधनुर्मीनरूपे, तनौ लग्ने, अंशे नवांशे च द्विस्वभावे, तथा चरे-मेषकर्कतुलामकररूपे लग्ने नवांशे च, तथा शशिजीवताराशुद्धौ-चंद्रशुद्धौ गुरुशुद्धौ ताराशुद्धौ च सत्यां । एषां शुद्धिश्च गोचरप्रकरणेऽभिधास्यते । तथा करादितिहरींद्रकपे-करः हस्तः, अदितिः पुनर्वसुः, हरिः श्रवणः, इंद्रः ज्येष्ठा, कपः वरुणः, तद्भ-शततारका; एषु च भेषु परीक्षा स्यादित्यर्थः । अत्रानुक्तोऽपि प्रातःकालोऽतिशस्तः । उक्तं च दीपिकायाम्-'नो शुक्रास्तेऽष्टमा गुरुसहितरवौ जन्ममासेऽष्टमेंदौ विष्टौ मासे मलाख्ये कुजशनिदिवसे जन्मतारासु चाथ । नाडीनक्षत्रहीने सुरगुरुरजनीनाथताराविशुद्धौ प्रातः कार्या परीक्षा द्वितनुचरगृहांशोदये शस्तलग्ने ॥' इति । व्यवहारोच्चयः-'अष्टम्यां च चतुर्दश्यां प्रायश्चित्तपरीक्षणे । न परीक्षाधिवासश्च शनिभौमदिने भवेत् । ज्येष्ठाश्रवणहस्ताश्च तथा ज्ञेयः पुनर्वसुः। तद्वच्छतभिषा प्रोक्ता त्वभियुक्तविचारणे॥' इति । अभियुक्तः सुवर्णस्तेयादिपातकसंभावनावान् , तस्य विचारणे शुद्ध्यशुद्धिनिर्णये । नाडीनक्षत्राणि दीपिकायामुक्तानि—'जन्माचं कर्म ततो दशमं सांघातिकं च षोडशकम् । समुदायमष्टादशभं विनाशसंशं त्रयोविंशम् ॥ आद्यात्तु पंचविंशं मानसमेवं नरः षडक्षः स्यात् । नवनक्षत्रो नृपतिः स्वजातिदेशाभिषेकक्षैः ॥' इति । एतानि नाडीनक्षत्राणीति वाक्यशेषो दीपिकाकृताभिहितः । जातिाह्मणादिका तन्नक्षत्राणि 'पूर्वात्रयं सानलमग्रजानां' इति वराहोक्तानि । तद्वाक्यं च मया यात्राप्रकरणे लिखिष्यते । देशोऽर्गलापुरादिकस्तनक्षत्राणि शतपदचक्रानुसारेण ज्ञेयानि । तद्वाक्यं च नामकर्मप्रकरणे मया लिखिष्यते । यस्मिन्पुष्यादिके नक्षत्रेऽभिषिक्तो राजा तदभिषेकक्षम् ॥ ४३॥ अथ सामान्यतः समस्तशुभकार्येषु लग्नशुद्धिमनुष्टुभाह व्ययाष्टशुद्धोपचये लग्नगे शुभदृग्युते । चंद्रे त्रिषड्दशायस्थे सर्वारंभः प्रसिध्यति ॥ ४४ ॥ व्ययेति॥ व्ययः-द्वादशस्थानं, अष्ट अष्टमस्थानं; एतत्स्थानद्वयं शुद्धं शुभपापग्रहसाहित्यदोषरहितं यस्मिन् तादृशे स्वजन्मराशेः स्वजन्मलग्नाद्वा उपचयभवने त्रिषडेकादशदशमस्थाने लग्नगते शुभग्रहैदृष्टे युते च; तथा चंद्रे त्रिषड्दशमायस्थानस्थिते सति सर्वेषां शुभकार्याणामारंभः प्रसिध्यति । यदाह वसिष्ठः-'उपचयभे लग्नगते व्ययनैधनशुद्धिसंयुते लग्ने । उपचयगे शीतकरे मंगलकर्माणि कार्याणि ॥' इति ॥ ४४ ॥ - अथ नक्षत्रेषु ज्वरोपत्तौ सत्यां तन्निवृत्तौ दिनसंख्यादिकं द्वितीयोपजातिकयोपेंद्रवज्रया चाहखातींद्रपूर्वाशिवसापेमे मृतिवरेऽत्यमैत्रे स्थिरता भवेद्रुजः । याम्यश्रवोवारुणतक्षभे शिवा घस्रा हि पक्षो द्वयधिपार्कवासवे४५ Page #99 -------------------------------------------------------------------------- ________________ ८३ सर्पदंशेऽवश्यमारकनक्षत्राणि] नक्षत्रप्रकरणम् २ । मूलाग्निदास्रे नव पित्र्यभे नखा बुध्न्यार्यमेज्यादितिधातृभे नगाः। मासोऽब्जवैश्वेऽथ यमाहिमूलभे मिश्रेशपित्र्ये फणिदंशने मृतिः॥ स्वातीति ॥ मूलाग्नीति ॥ स्वाती, इंद्रः ज्येष्ठा, पूर्वास्तिस्रः, शिवः= आर्द्रा, सार्पभं-आश्लेषा; एषु भेषु ज्वरे पुंसः स्त्रियो वा ज्वरोत्पत्तौ मृतिरेव स्यात् । उक्तं च वसिष्ठेन-'पूर्वात्रयस्वातिभुजंगरौद्रसुरेश्वरःषु च यस्य रोगः। स्याद्रक्षितुं देवचिकित्सकोऽपि क्षितावशक्तः खलु रोगिणं तम् ॥' इति । देवचिकित्सकः देववैद्यो धन्वंतरिः । अथांत्यमैत्रे रेवत्यनुराधयोर्वरोत्पत्तौ रुजो रोगस्य स्थिरता भवेत् । बहुकालेन रोगनिवृत्तिः स्यादित्यर्थः। तथा भरण्यादिनक्षत्रचतुष्के शिवा एकादश घस्रा दिवसाः रोगस्थैर्य स्यात् , तदनंतरं रोगमुक्तिरिति सर्वत्र व्याख्येयम् । 'घस्रो दिनाहनी वा तु' इत्यमरः । व्यधिपंविशाखा, अर्कः हस्तः, वासवं धनिष्ठा; एषु त्रिषु भेषु पक्षः पंचदश दिवसा रोगस्थैर्यस्य । मूलाग्निदात्रे मूलकृत्तिकाश्विनीषु त्रिषु नव दिवसाः। पित्र्यभे मघायां नखा विंशतिर्दिवसाः। 'नामैकदेशे नामग्रहणम्' इति न्यायेन बुद्धयःअहिर्बुध्न्य उत्तराभाद्रपदा, अर्यमा उत्तराफल्गुनी, इज्यादितिधातृभानि प्रसि• द्धानि; एषु पंचभेषु नगाः सप्तदिवसाः। अजवैश्वे मृगोत्तराषाढयोर्द्वयोर्मासस्त्रिंशद्दिनानि रोगस्थैर्य, ततो रोगनिवृत्तिः । यदाह वसिष्ठः-'कृच्छ्रात्स्फुटं प्राणिति मित्रपौष्णधिष्ण्ये च मासाच्छशिविश्वधिष्ण्ये । रोगस्य मुक्तिः पितृदेवधिष्ण्ये वारैर्भवेद्विंशतिभिश्च नूनम् ॥' इति । प्राणिति जीवतीत्यर्थः । 'पक्षाद्वसुद्वीशकरेषु भेषु मूलाश्विनाग्नित्रितये नवाहात् । तोयेशचित्रांतकविष्णुभेषु नैरुज्यमेकादशभिर्दिनैश्च ॥ पुष्ये त्वहिर्बुध्यपुनर्वसौ च ब्रह्मार्यमःषु च सप्तरात्रात् ॥' इति । अत्र शीघ्र रोगविमुक्तये संक्षिप्ता शांतिरप्यभिहिता वसिष्ठेन-'ऋक्षेशरूपं कनकेन कृत्वा तलिंगमंत्रैश्च सुगंधिपुष्पैः । वस्त्राक्षतैर्गुग्गुलधूपदीपनैवेद्यतांबूलफलैश्च सम्यक् । पूजां च कृत्वाऽऽमयनाशनाय द्विजाय दद्यादतुलं शिवाय ॥' इति । आमयः-रोगः । अतुलं अपरिमितद्रव्यम् । प्रत्येकनक्षत्रशांतिर्विशदा नक्षत्रशांत्यध्याये वसिष्ठेनोक्ता, सा तत एव सम्यगवधार्या । अथ सर्पदंशे नक्षत्राण्याह-अथेति ॥ अथानंतरं यमाहिमूलभे= भरण्याश्लेषामूलेषु; तथा मिश्रेशपित्र्ये कृत्तिकाविशाखामघासु एवं सप्तसु भेषु यस्य कस्यचित्फणिर्दशने सर्पदंशे मृतिर्मरणमेव भवेदित्यर्थः । यदाह वसिष्ठः-'मघाविशाखानलसार्पयाम्यनैर्ऋत्यरौद्रेषु च सर्पदष्टः । सुरक्षितो विष्णुरथेन सोऽपि प्राप्नोति कालस्य मुखं मनुष्यः ॥' इति । विष्णुरथेन= गरुडेन । अत्र सर्पदंशे यस्यैषु नक्षत्रेषु गोचरवशेन चंद्रबलं न भवति तस्यैव सर्पदंशेऽवश्यं मरणं स्यात् । उक्तं च दीपिकाटीकाकृताच्युतभट्टेन'यद्यत्र चन्द्रस्तस्यैव गोचरे चाशुभप्रदः । तदा नूनं भवेन्मृत्युः सुधासंसिक्तदेहिनः ॥' इति ॥ ४५ ॥ ४६॥ . Page #100 -------------------------------------------------------------------------- ________________ : मुहूर्तचिंतामणिः । [प्रेतदाहे निषिद्धदिनादि अथ शीघ्रं रोगिमरणे विशिष्टं योग द्वितीयोपजातिकयाह... रौद्राहिशाक्रांबुपयाम्यपूर्वाद्विदैववस्वग्निषु पापवारे । रिक्ताहरिस्कंददिने च रोगे शीघ्रं भवेद्रोगिजनस्य मृत्युः४७ रौद्राहीति ॥ रौद्रादीनि भानि प्रसिद्धानि, पापवाराः सूर्यभौमशनयः, रिक्ताः प्रसिद्धाः, हरिः द्वादशी, स्कंददिन षष्ठी; एतास्तिथयः एवं विधे विशिष्टयोगे यस्य रोगोत्पत्तिर्भवेत्तस्य रोगिजनस्य शीघ्रं मृत्युर्भवेत् । उक्तं च दैवज्ञमनोहरे-'उरगवरुणरुद्रा वासवेंद्रत्रिपूर्वा यमदहनविशाखाः पापवारेण युक्ताः । तिथिषु नवमिषष्ठी द्वादशी वा चतुर्थी सहजमरणयोगो रोगिणां कालहेतुः ॥' इति । चतुर्थीग्रहणं चतुर्दश्युपलक्षकं मत्वा मूले रिक्ताग्रहणं कृतम् । अत एवाह वसिष्ठः-'आश्लेषात्रिपूर्वीयमवरुणमरुच्छक्रवारानलाः स्युर्दादश्यां स्कंदरिक्तातिथिषु च रविजार्कारवारेषु येषाम् । रोगः संजायते ते यमपुरमचिरात्प्रामवंत्येव चंद्रे जन्मन्यष्टाख्यबंधुव्ययभवनगते मृत्युलग्ने च राशौ ॥' इति ॥ ४७ ॥ ___ अथ प्रेतदाहमुहूर्त प्रेतदाहादिनिषिद्धदिनं चंद्रवंशाछंदसाहक्षिप्राहिमूलेंद्रहरीशवायुभे प्रेतक्रिया स्याज्झषकुंभगे विधौ। प्रेतस्य दाहं यमदिग्गमं त्यजेच्छय्यावितानं गृहगोपनादि च ४८ क्षिप्रेति ॥ अश्विनीपुष्यहस्ताश्लेषामूलज्येष्ठाश्रवणार्दास्वातीनक्षत्रेषु प्रेतक्रिया प्रेतानां प्रेतत्वविमुक्तिपूर्वकोत्तमलोकप्राप्तिकारकं श्राद्धादिकर्म क्रियाशब्देनोच्यते, सा यदि कारणवशाच्छवदाहसमये अकृता सती एषु भेषु कार्या स्यात् । उक्तं च हेमाद्रौ ज्योतिःपराशरेण-'साधारणध्रुवोमैत्रेषु न शस्यते मनुष्याणाम् । प्रेतक्रिया न शस्ता त्रिपुष्करे यमलधिष्ण्ये च॥' इति । अत्रैतानि निषिद्धानि-कृत्तिका विशाखा रोहिण्युत्तरात्रयं पूर्वात्रयं मघाभरणी मृगश्चित्रानुराधा रेवतीत्येवं पंचदश भानि; तथा त्रिपुष्करे त्रिपादनक्षत्रे तत्रान्येषु त्रिपादनक्षत्राणां उक्तभेष्वंतर्भूतत्वात्पुनर्वसुरवशिष्टः; तथा यमलधिष्ण्ये द्विपादनक्षत्रे इति हेमाद्रिणा व्याख्यातम् । तत्र मृगचित्रयोमैत्रनक्षत्रेष्वंतर्भावाद्धनिष्ठायमलधिष्ण्ये अत्र गृह्यते । धनिष्ठापंचकनिषेधश्चाधुनैव वक्ष्यते । एवमष्टादश भानि प्रेतक्रियायां निषिद्धानि । अवशिष्टानीमानि-अश्विनीपुष्यहस्ताश्लेषाज्येष्ठामूलश्रवणास्वातीषु नवऋक्षेषु प्रेतक्रिया कार्येत्यर्थादुक्तं भवतीति । अत एतान्येव ग्रंथकोंपनिबद्धानि क्षिप्राहीत्यादिना। अत एव 'कराच्यहिरुद्रपुष्यस्वातींद्रमूलहरिभेषु मृतक्रियेष्टा' इति व्यवहारतत्त्वकोक्तम् । अथ झषकुंभगे मीनकुंभराशिस्थिते चंद्रे सति धनिष्ठोत्तरार्धादारभ्य शततारकापूर्वाभाद्रपदोत्तराभाद्रपदारेवतीषु प्रेतस्य मृतस्य दाहं ज्वलनं त्यजेन्न कुर्यात् । च पुनर्यमदिग्गस दक्षिणदिशि गमनं यात्रां त्यजेत् । तथा शय्यायाः खवाया वितानं वयनं तथा गृहगोपनं गृहाच्छादनं आदिशब्देन तृणकाष्ठसंग्रहं च Page #101 -------------------------------------------------------------------------- ________________ i पंचकमृतौ शांतिः] - नक्षत्रप्रकरणम् २ । त्यजेत् । यदाह वसिष्ठः-'वस्वपरार्धात्पंचकधिष्ण्ये गेहस्य गोपनं नैव । दक्षिणदिसुखगमनं दाहं प्रेतस्य काष्ठसंग्रहणम् ॥' इति। नारदः-'वखंत्यार्धादिपंचः संग्रहं तृणकाष्ठयोः । याम्यदिग्गमनं शय्यां न कार्य गृहगोपनम् ॥' इति । श्रीपतिरपि-'वासवोत्तरदलादिपंचके याम्यदिग्गमनगेहगोपनम् । प्रेतदाहतृणकाष्ठसंग्रहं शय्यकावितननं च वर्जयेत् ॥' इति । त्रिविक्रमोऽपि'शय्यावितानं प्रेतादिक्रियां काष्ठतृणार्जनम् । याम्यदिग्गमनं कुर्यान चंद्रे कुंभमीनगे ॥' इति । ननु प्रेतदाहे किं नक्षत्रांतरे मृतस्य धनिष्ठोत्तरार्धादिके दाहो न कार्य इति, उत पंचक एव मृतस्य पंचके दाहो न कार्य इति, माहोस्विद्यस्मिन्कस्मिंश्चिन्नक्षत्रे पंचकातिरिक्ते पंचके वा मृतस्य पंचके दाहो न कार्य इति त्रयः पक्षाः संभवंति । तत्र यदि विज्ञायते नक्षत्रांतरे मृतस्य पंचके दाहो न कार्य इति तर्हि तत्र पंचके मरणस्य दोषवत्ता न प्राप्नोति । तञ्चायुक्तम् । यस्मादुक्तं ब्रह्मपुराणे-'कुंभमीनस्थिते चंद्रे मरणं यस्य जायते । न तस्योर्ध्वगतिर्दृष्टा संततौ न शुभं भवेत् ॥' इति । अथ विज्ञायते पंचक एवं मृतस्य पंचके दाहो न कार्य इति, तदपि न । श्रवणे धनिष्ठापूर्वार्धे च मृतस्य पंचके दाहनिषेधो न प्रामोति किंतु दाहः कर्तव्य इत्येव प्रामोति; अस्त्वेवमिति चेन्न । 'प्रेतस्य दाहं त्यजेत्' इति दाहस्यैव क्रियाकारकसंबंधेन प्राधान्यतो निषेधात् । किंच 'त्रिगुणफलदो वृद्धौ नष्टे हृते च मृतेऽपि वा' इति त्रिपुष्करयोगफलवत्पंचकमरणनिषेध एव वक्तव्ये दाहनिषेधस्य पृथगुपादानात्कर्तव्यतापत्तिः । तस्माद्यस्मिन्कस्मिंश्चिन्नक्षत्रे मृतस्य पंचके दाहो न कार्य इति तृतीयः पक्षः साधीयान् । प्राधान्यादाहस्यैव निषेध इत्युक्तं प्राक् । अतः पंचकात्प्राङ्मरणदोषो नास्ति, तथा तत्रैव दाहोऽपि न दोषाय । यदि क्रियाकरणवशात्कालातिकमे सति पंचकप्रवृत्तिस्तदा शांति विधाय दाहः कार्यः । पंचके तु द्वयमपि निषिद्धं मरणं दाहश्चेति । उक्तं च ब्रह्मपुराणे-'कुंभमीनस्थिते चंद्रे मरणं यस्य जायते । न तस्योर्ध्वगतिर्दृष्टा संततौ न शुभं भवेत् ॥ न तस्य दाहः कर्तव्यो विनाशः स्वेषु जंतुषु । पंचकानंतरं कार्य कार्य दाहादिकं खलु ॥ अथवा तद्दिने कार्यो दाहस्तु विधिपूर्वकम् ॥' रेवतीप्रांते मृतस्य रेवतीमपहाय दाहः कार्य इत्यर्थः । धनिष्ठोत्तरा'र्धादिमृतस्य दाहस्तु सद्य एव । पंचकस्य बहुकालव्यापित्वात्पर्युषितदाहनिषेधाच्च । स च दाहः शांतिविधिपूर्वकः कार्यः। स विधिरुत्तो ब्रह्मपुराणे“दाहदेशे शवं नीत्वा स्नापयेच्च प्रयत्नतः। दर्भाणां प्रतिमाः कार्याः पंचोर्णासूत्रवेष्टिताः। यवपिष्टेनानुलिप्तास्ताभिः सह शवं दहेत् ॥ प्रेतवाहःप्रेतसखःप्रेतपः प्रेतभूमिपः । प्रेतहर्ता पंचमश्च नामान्येतानि च क्रमात् ॥' इति । विशेषस्त्वंत्येष्टिपद्धत्यादौ द्रष्टव्यः। नन्वत्र-'त्रिगुणफलदो वृद्धौ नष्टे हृते च मृतेऽपि वा' इतिवत् मरणनिषेध एव वक्तव्ये किं पुनर्दाहनिषेधेन ? उच्यते,-दोषाधिक्यसूचनार्थ हि पुनर्दाहनिषेधः । अत एव पंचके मृतस्य पुत्तलकविधानं कृत्वा दाहः कार्यः । ततः सूतकांते पुत्रादिभिः शांतिकं च विधेयम् । उक्तं च ८ मु. चि. Page #102 -------------------------------------------------------------------------- ________________ • मुहूतचिंतामणिः । [त्रिपुष्करपोगः बत्फलंच गरुडपुराणे-'ततो दाहः प्रकर्तव्यस्तैश्च पुत्तलकैः सह । सूतकांते तदा पुत्रैः कार्य शांतिकपौष्टिकम् ॥ पंचके तु मृतो योऽसौ न गतिं लभते नरः। तिलांश्चैव हिरण्यं च तमुद्दिश्य घृतं दहेत् ॥' इति । अतो नक्षत्रांतरे मृतस्य पंचके दाहप्राप्तौ पुत्तलकविधिरेव भवति । नतु सूतकांते शांतिकं च । एवं पंचकांते मृतस्याश्विन्या दाहप्राप्तौ पुत्तलकविधिर्न किंतु सूतकांते शांतिकमेव विधेयमित्यलमतिप्रसंगेन । अथात्र दीपिकायाम्-'छेदनं संग्रहं चैव काष्ठादीनां न कारयेत् । श्रवणादौ बुधः षढे न गच्छेदक्षिणां दिशम् ॥' इति यदुक्तं तचित्यम् । मार्षमूलवाक्यानुपलब्धेर्वसिष्ठादिमुनिवाक्यविरोधाच । अत एव तट्टीकाकृताच्युतभट्टेनाप्यस्य श्लोकस्य व्याख्यानांते कदाचिच्छ्रवणधनिष्ठापूर्वार्धयोरेतानि समाचरेत् नतु जातु धनिष्ठोत्तरार्धादिपंचके । तथा च रत्नमालायाम्-'वासवोत्तरदलादिपंचके' इत्यादिसंमतिवाक्यमुक्तम् । काष्ठादीनामित्यत्रादिशब्देन गृहगोपनं प्रेतदाहं खटाया वयनं च न कुर्यादिति व्याख्यातम् ॥ ४८ ॥ मर्थ त्रिपुष्करयोगं सफलं वसंततिलकयाहभद्रातिथी रविजभूतनयार्कवारे द्वीशार्यमाजचरणादितिवह्निवैश्वे । ..... त्रैपुष्करो भवति मृत्युविनाशवृद्धौ त्रैगुण्यदो द्विगुणकद्वसुतक्षचांद्रे ॥४९॥ भनेति ॥ भद्रासंज्ञिका तिथिः द्वितीयासप्तमीद्वादशी । अत्र 'रोरि' इति रेफलोपे 'ठूलोपे पूर्वस्य दीर्घोऽणः' इति पूर्वस्याणो दीर्घः । तथा शनिभौमसूर्यवारे, तथा द्वीशं विशाखा, अर्यमा उत्तराफल्गुनी, भजचरणः पूर्वाभाद्रपदा, अदितिः पुनर्वसुः, वह्निः कृत्तिका, वैश्वं उत्तराषाढा; एषु षण्नक्षत्रेषु उक्ततिथिवारनक्षत्ररूपे विशिष्टयोगे सति त्रिपुष्कर एव त्रैपुष्करः। 'प्रज्ञादिभ्यश्च' इति स्वार्थेऽण् । त्रिपुष्करनामा योगो भवतीत्यर्थः । कीदृशः? मृत्युविनाशवृद्धौ त्रैगुण्यदः, तद्दिने यदि कश्चिन्नियेत तदा तदीयास्तसहितास्त्रयो म्रियेरन् । यदि किंचिद्वस्तु विनष्टं तदा तस्य वस्तुत्रयनाशः । तथा किंचिद्वस्तु लब्धं तदा त्रिगुणतद्वस्तुलाभ इत्यर्थः । उक्तं च वसिष्ठेन-'रविरविजभौमवारे भद्रायां विषमपादमृक्षं चेत् । त्रैपुष्कराख्ययोगस्त्रिगुणफलो यमलभैर्द्विगुणः ॥' इति । नारदेनापि 'अर्कार्किभौमवारे चेगद्रायां विषमांघ्रिभम् । त्रिपुष्करस्त्रिगुणदो द्विगुणो यमलांघ्रिभे ॥' इति । अत्र यस्मिनक्षत्रे प्रथमपादांते तृतीयपादांते वा राशिसमाप्तिस्तद्विषमपादमृक्षमुच्यते । तदेव स्पष्टं 'द्वीशार्यमा-' इत्यादिनोपनिबद्धम् । अथ वासवः धनिष्ठा, तक्षा-चित्रा, चांद्र-मृगः; एतानि भानि भद्रास्तिथयः रविभूतनयार्कवाराश्च । अत्रापि विशिष्टयोगे सति द्विपुष्करनामा योगो भवति, तत्फलं मृत्युविनाशवृद्धौ द्वैगुण्यकृत् मृते नष्टे वृद्धौ का द्वि Page #103 -------------------------------------------------------------------------- ________________ प्रेतसंस्कारस्य द्वैविध्यम् ] नक्षत्रप्रकरणम् २ | गुणतां करोतीत्यर्थः । 'द्विगुणो यमलांघ्रिभे' इत्युक्तेः । यन्नक्षत्रे द्वितीयचरणांते राशिसमाप्तिस्तद्यमलांत्रिभं तच्च मृगचित्राधनिष्ठारूपमेव । अथ दैवात्रिपुष्करादिके तिथिवारनक्षत्रात्मके विशिष्टयोगे सति कस्यचिन्मरणसंभवस्तदा तोषशांत्यर्थं दानं विधेयम् । यदाह वसिष्ठः - 'त्रितयं गवां हि दद्यादोषत्रितयापनुत्तये विद्वान् । द्वितयं द्विपुष्करेऽपि च तिलपिष्टैर्विप्रमुख्येभ्यः ॥' इति । द्वितयं गवामिति शेषः । अत्र तिथिवारयोरभावे केवलं विषमांघ्रिभे यमलांघ्रिभे वा मरणसंभवे दोषो नास्तीत्यर्थः । अमुमर्थं स्पष्टमाह नारदः - 'दद्यात्तद्दोषनाशाय गोत्रयं मूल्यमेव वा । द्विपुष्करे द्वयं दद्यान्न दोषस्त्वर्क्षमात्रतः ॥ इति । अत्र त्रिपुष्करयोगे क्वचिद्वृहस्पतिवारोऽप्युक्तः । यदाह कश्यपः'भद्रातिथिशनीज्यारवा रे चेद्विषमांघ्रिभम् । त्रिपुष्करं त्रिगुणदं द्विगुणं व्यंघ्रिभे मृतौ ॥' इति । इदमेव दृष्ट्वा श्रीपतिनाप्युक्तम् - विषमचरणं धिष्ण्यं भद्रातिथिर्यदि जायते सुरगुरुशनिक्ष्मापुत्राणां कथंचन वासरे । मुनिभिरुदितः सोऽयं योगस्त्रिपुष्करसंज्ञितस्त्रिगुणफलदो वृद्धौ नष्टे हृते च मृतेऽपि वा ॥' इति । अस्य पूर्वोक्तवाक्यस्य चैकवाक्यतां देवाः कर्तुमर्हति । कश्यपवाक्ये मृताविति पदोपादानान्मरणं एवायं विचारो न तु नष्टे वृद्धौ च । यदुक्तं ब्रह्मपुराणेsपि - 'धनिष्ठापंचके जीवो मृतो यदि कथंचन । त्रिपुष्करे याम्यभे च कुलजान्मारयेद् ध्रुवम् ॥ तदनिष्टविनाशार्थं विधानं समुदीरयेत् ॥' इति । ग्रंथकर्त्रा तु श्रीपत्युक्तिमंगीकृत्य मृत्युविनाशवृद्धावित्युक्तम् । वसिष्ठनारदवाक्ययोः सामान्यतोऽभिधानं दानं च मृतावेवेति विषयविवेकः ॥ ४९ ॥ अथ शवप्रतिकृतिदाहे निषिद्धकालं शार्दूलविक्रीडिताभ्यामाह-शुक्राराकिंषु दर्शभूतमदने नंदासु तीक्ष्णोग्रमे पौष्णे वारुणभे त्रिपुष्करदिने न्यूनाधिमासेऽयने । याम्येऽब्दात्परतश्च पातपरिघे देवेज्यशुक्रास्त के भद्रावैधृतयोः शवप्रतिकृतेर्दा हो न पक्षे सिते ॥ ५० ॥ जन्मप्रत्यरितारयोर्मृतिसुखांत्येऽब्जे च कर्तुर्न स न्मध्य मैत्रभगादितिध्रुव विशाखाद्व्यंघ्रिमे ज्ञेऽपि च । श्रेष्ठोऽर्केज्यविधोर्दिने श्रुतिकरस्वात्यश्विपुष्ये तथा त्वाशौचात्परतो विचार्यमखिलं मध्ये यथासंभवम् ॥ ५१ ॥ शुक्राति ॥ जन्मेति ॥ एवंविधे दिने शवस्य मृतस्य प्रतिकृतिः पर्णशरादिना सावयवत्वकल्पनं तस्य दाहो न कार्यः । कुतः ? यतो द्विविधः प्रेतसंस्कारः-प्रत्यक्षशरीरस्यैकः, :, प्रतिकृतेरन्यः । तत्र प्रत्यक्षशरीरसंस्कृतौ शुभाशुभदिनविचाराभावः । यदाह गार्ग्य:- 'प्रत्यक्षशवसंस्कारे दिनं नैव विशोधयेत्' Page #104 -------------------------------------------------------------------------- ________________ : मुहूर्तचिंतामणिः। [प्रतिकृतिदाहे वयंकाल इति । प्रतिकृतिसंस्कारस्य हि कालत्रय, आशौचमध्ये वर्षमध्ये वर्षानंतरं चेति । अत्राशौचमध्ये यदि प्रतिकृतिसंस्कारश्चिकीर्षितस्तदा यथासंभवं दिनशुद्धिर्विचार्या । वर्षमध्ये वर्षानंतरं वा प्रतिकृतिसंस्कारे अवश्यं कालशुद्धिविचार्या । एतदप्याह गार्ग्य एव–'आशौचमध्ये क्रियते पुनःसंस्कारकर्म चेत् । शोधनीयं दिनं तत्र यथासंभवमेव तु ॥ आशौचविनिवृत्तौ चेत्पुनः संस्क्रियते मृतः । संशोध्यैव दिनं ग्राह्यमूर्ध्व संवत्सरायदि ॥ प्रेतकार्याणि कुर्वीत' इति । अत एवोक्तम्-'आशौचात्परतो विचार्यमखिलं मध्ये यथासंभवम्' इति । एतद्वाक्यमत्रैव स्पष्टं व्याख्यास्यते । तत्र दिनशुद्धिरुच्यते-शुक्रारेत्यादिना। शुक्रः प्रसिद्धः, आरः मंगलः, आर्किः-शनिः; एषां वारे प्रतिकृते हो नेति प्रत्येकं संबंधः। तथा दर्शः अमावास्या, भूतः चतुर्दशी, मदनः= त्रयोदशी, नंदा प्रतिपत्षष्ठ्येकादश्यः; आसु तिथिषु दाहो न कार्यः । यदाह मरीचिः-'नंदायां भार्गवदिने चतुर्दश्यां त्रिपुष्करे । पितृश्राद्धं न कुर्वीत गृही पुत्रधनक्षयात् ॥ एकादश्यां तु नंदायां सिनीवाल्यां भृगोर्दिने । नभस्ये च चतुदश्यां कृत्तिकासु त्रिपुष्करे॥' इति । द्वितीयवाक्यमतिदुष्टताकथनार्थम् । सिनीवाल्याममावास्यायां भृगोर्दिने शुक्रवारे इति संबंधो व्याख्येयः। अत्र श्राद्धं न कुर्वीतेत्यनुषंगः । श्राद्धशब्देनात्र प्रेतक्रिया विवक्षिता। तथा तीक्ष्णोप्रमे-मूलज्येष्ठाश्लेषास्तीक्ष्णानि,उग्राणि-पूर्वानयभरणीमघाः,पौष्णे रेवत्यां,वारुणभे= शतभे, त्रिपुष्करदिने भद्रातिथयः सूर्यभौमशनिवाराः कृत्तिकापुनर्वसूत्तराफाल्गुनीविशाखोत्तराषाढापूर्वाभाद्रपदाः एतत्रितयसंहतिरूपे दिने, प्रतिकृतेर्दाहो न कार्य इति केचियाकुर्वते । तन्न; पूर्वपद्येनैव निषेधसत्त्वात् । ननु प्रत्यक्षमृतौ स निषेधो नतु प्रतिकृतिदाहे । एवं तर्हि संमतिवाक्याभावामायमर्थ इति ब्रूमः। यदुक्तं ज्योतिःपराशरेण-'साधारणे ध्रुवोग्रे मैत्रे नो शस्यते मनुष्याणाम् । प्रेतक्रिया कथंचित्रिपुष्करे यमलधिष्ण्ये वा ॥' इति । अत्र त्रिपुष्करशब्देन विशिष्टयोगो विवक्षित इति चेत् । अत्र ब्रूमः-त्रिचरणनक्षत्राण्येव त्रिपुष्करपदेनोच्यते, अतो हेमाद्रिणापि कृत्तिकादीन्येव त्रिचरणानि भानि त्रिपुष्करशब्देन व्याख्यातानि । अत एवाह कश्यपः-'भरण्याा मघाश्लेषा मूलं त्रिचरणानि च । प्रेतक्रियासु दुष्टानि धनिष्ठाद्यं च पंचकम् ॥' इति । पराशरवाक्ये बहूनि प्रेतकृत्ये सामान्यतो निषिद्धानि । कश्यपवाक्येऽल्पान्यतिदुष्टान्युक्तानि । इदमेवाभिप्रेत्य ग्रंथकृतोक्तानि । तत्र धनिष्ठाया अग्रहणं मध्यमेषु भेषु-प्रवक्ष्यमाणत्वात् । अथ न्यूनाधिमासे क्षयमासे अधिकमासे च शवप्रतिकृतिदाहो न कार्यः । उक्तं च ज्योतिर्निबंधे गरुडपुराणे-'न कुर्याद्गुरुशुक्रास्ते पौषे स्वापे मलिम्लुचे । विलंबितं प्रेतकार्य गयां गोदावरी विना ॥' इति । मेधातिथि:-'अस्तं गते गुरौ शुक्र पौषाषाढाधिमासके । प्रेतकार्य न कुर्वीत गयां गोदावरी विना ॥' इति । अधिमासस्योप: लक्षणत्वात्क्षयमासेऽपि न कार्य प्रेतकार्यमित्यर्थः ॥ मत एव मूले न्यूनमासनिषेधः । अथाब्दादेकरमाद्वर्षात्परत ऊर्ध्व याम्येऽयने दक्षिणायने कर्कादि: Page #105 -------------------------------------------------------------------------- ________________ शवप्रतिकृतिदाहे वर्ण्यकालः] नक्षत्रप्रकरणम् । षड़ाशिस्थिते सूर्ये न दाहः कार्यः । अर्थादुत्तरायणं सम्यक् । उपलक्षणत्वादवमदिनमपि निषिद्धम् । उक्तं च गार्येण-'अवं संवत्सराद्यदि । प्रेतकार्याणि कुर्वीत श्रेष्ठं तत्रोत्तरायणम् । कृष्णपक्षश्च तत्रापि वर्जयेत्तु दिनक्षयम् ॥' इति । गरुडपुराणेऽपि-'न कुर्याद्गुरुशुक्रास्ते पौषे स्वापे मलिम्लुचे । विलंबितं प्रेतकार्य गयां गोदावरी विना ॥' इति । अत्र वाक्ये पौषस्वापयोनिषिद्धत्वान्मार्गशीर्षस्य मध्यमत्वं प्रतीयते तदावश्यकविषयम् । प्रथमवर्षे तु दक्षिणायनमपि शुभमेव । अथ पातपरिघे व्यतीपाताख्ये योगे गणितागते । व्यतीपाताख्ये महापात इत्यपि केचित् । परिघाख्ये योगे तथा देवेज्यशुक्रास्तके गुरुशुक्रयोरस्ते । अत्र स्वार्थे कः । तथा भद्रावैधतयोः भद्रावैश्तौ प्रसिद्धौ । गणितसाध्ये वैश्ताख्ये महापाते इत्यपि केचित् । तथा सिते पक्षे शुक्लपक्षे शवप्रतिकृतेर्दाहो न कार्यः । यदुक्तं नारदेन-श्राद्धलक्षणाध्याये-'चतुर्दशी तिथिं नंदां भद्रां शुक्रारवासरौ । सितेज्ययोरस्तमयं यंघ्रिभं विषमांघ्रिभं । शुक्लपक्षं च संत्यज्य पुनर्दहनमुच्यते॥' इति । अन्यत्रापि 'नंदामदनभूतामापातवैधतिविष्टिषु । शुक्रार्किभौमपरिघध्रुवमिश्रोग्रमैत्रभे ॥ कर्तुश्चंद्रेऽष्टवेदांत्ये जन्मप्रत्यरितारके । त्रिपादभे सिते पक्षेऽयने याम्येऽब्दतः परम् ॥ शवप्रतिकृतेर्दाहः शुक्रेज्यास्ताधिमासके । नेष्टो मध्यो द्विपान्मैत्रद्वीशादितिभगध्रुवे ॥' इति । तथा कर्तुः प्रेतश्राद्धाद्यधिकारिणो जन्मप्रत्यरितारयोः जन्मतारा-उत्पत्तिनक्षत्रं दशममेकोनविंशं चेति । प्रत्यरितारा जन्मभात्पंचम चतुर्दशं त्रयोविंशं चेति; तथा कर्तुतिसुखांत्येऽजे स्वजन्मराशेरष्टमचतुर्थद्वादशस्थे चंद्रे सति दाहो न सन् न प्रशस्तः । तदुक्तं वाराहपुराणे-'चतुर्थाष्टमगे चंद्रे द्वादशे च विवर्जयेत् । प्रेतकृत्यं व्यतीपाते वैश्तौ परिघे तथा । करणे विष्टिसंज्ञे च शनैश्चरदिने तथा॥त्रयोदश्यां विशेषेण जन्मतारात्रये तथा॥' इति। विष्टिसंशं करणं भद्रा। महाभारते-'नक्षत्रेण न कुर्वीत यस्मिजातो भवेन्नरः। नप्रोष्ठपदयोः कार्य तथाग्नेयेऽपि भारत। दारुणेषु च सर्वेषु प्रत्यरे च विवर्जयेत् ॥' इति । प्रोष्ठपदयोः पूर्वाभाद्रपदोत्तराभाद्रपदयोः, आग्नेये कृत्तिकायां । कालविशेषादिकं नारदेनोक्तम्-'दिनोत्तरार्धे तत्कर्तुश्चंद्रताराबलान्विते । पापग्रहे बलयुते शुक्रलग्नांशवर्जिते ॥ तत्पुनर्दहनं प्रोक्तम्' इति । अथ शवप्रतिकृतिदाहे मध्यनक्षत्राण्युच्यते। मैत्रं अनुराधा, भगः पूर्वाफल्गुनी, अदितिध्रुवविशाखाः प्रसिद्धाः, यंघ्रिभं-मृगचित्राधनिष्ठाः, शेऽपि बुधवारेऽपि, शवप्रतिकृतिदाहो मध्यमः; न शुभफलदो नाप्यनिष्टफलद इत्यर्थः। उक्तं च कश्यपेन-'फल्गुनीद्वितयं रोहिण्यनुराधा पुनर्वसुः । द्वे आषाढे विशाखा च भानि द्विचरणानि च । एतानि किंचिद्दष्टानि वर्जयेत्सति संभवे॥' इति । 'नेष्टो मध्यो द्विपान्मैत्रद्वीशादितिभगध्रुवे' इति चेत्युक्तेर्बुधे संमत्यभावः । अथार्केज्यविधोरर्केज्याभ्यां सहितो विधुरिति मध्यमपदलोपी समासः । सूर्यगुरुचंद्राणां दिने वारे दाहः श्रेष्ठस्तथा तेन प्रकारेण श्रुतिकरस्वात्यश्विपुष्ये एषु निषिद्धनक्षत्रगणादुर्वरितेषु पंचसु भेषु शवप्रतिकृतेर्दाहः श्रेष्ठोऽनुष्ठीयमानः शुभफलद इत्यर्थः । आशौचात्परतं इत्यादि व्याख्यातार्थम् । ननु प्रतिकृतिसंस्कारः किंनिमित्तः ? उच्यते,दैवान्मानुषाद्वापराधान्मृतस्य विधिवद्दाहो नाभूत्किंतु काष्टवद्दाहो जातोऽथवा Page #106 -------------------------------------------------------------------------- ________________ मुहूर्तचिंतामणिः। [पालाशप्रतिकृतिदाहविधिः परदेशगतस्य चौरदंष्ट्रयादिहतस्य तद्भीतेरेव केनचित्काष्ठवहाहोऽपि न कृतोऽथवैकाकित्वाच जातस्तदा प्रतिकृतिदाहो विधेयः । उक्तं च ब्रह्मपुराणे'अनाहिताग्नेर्देहस्तु दाह्यो गृह्याग्निना द्विजैः । तदभावे पलाशोत्थैः पत्रैः कार्यः पुमानपि ॥ सुपिष्टैर्जलसंमित्रैर्दग्धव्यश्च तथाग्निना । असौ स्वर्गाय लोकाय स्वाहेत्युक्त्वा सबांधवैः ॥ एवं पर्णशवं दग्ध्वा त्रिरात्रमशुचिर्भवेत् ॥' इति। तदभावे-देहाभावे, तथाग्निना-गृह्याग्निना; अपिशब्दात्स्वीमरणे तद्देहाभावे त्यपि पलाशोत्थैः पत्रैः कार्येत्यर्थः । आहिताग्नेस्तु श्रौतसूत्रे विधिमाहापस्तंबः-'यद्याहिताग्निः प्रोषितः प्रमीतो न प्रज्ञायेत स यां दिशमभिप्रस्थितस्तां दिशमस्याग्निभिः कक्षं दहेयुरपि वा त्रीणि षष्टिशतानि पलाश तानि तैः कृष्णाजिने पुरुषाकृतिं कृत्वा तामस्याग्निभिर्दहेयुरिति वाजसनेयकमिति । अत्र पक्षद्वयं यथा-प्रवासगतो यदि न प्रज्ञायेत प्रमीत इति यतो मृत इत्येव निर्णये स यां दिशं प्रति प्रस्थितो भवेत्तां दिशं प्रति यः कक्षोऽकृष्टो भूमिप्रदेशस्तृणवांस्तं देशमस्य मृतस्य श्रौताग्निभिस्तूष्णीं दहेयुर्बोधवाः पितृमेधविधिना । अयमेकः पक्षः । अपि वा अथवा त्रीणि षष्ट्युत्तराणि शतानि ३६० पलाशतानि पालाशानि पर्णानि यत्र तिष्ठति तादृशानि तानि संपाद्य तैर्वृतैः पलाशवृक्षीयैस्त्रिपत्रैवृतैः कृष्णाजिने पुरुषाकृतिं कृत्वा तामाकृतिमस्यामिभिः पितृमेधविधिना दहेयुरिति वाजसनेयिनां मतमिति द्वितीयः पक्षः ॥ पराशरेण तु कुशैः प्रतिकृतिः कार्येत्युक्तम्-'कृष्णाजिने समास्तीर्य कुशैस्तु पुरुषाकृतिम्' इति । कुर्यादिति शेषः। अत्र पलाशवृंतकुशविध्योरन्यतरेणानुष्ठानं बीहियववत्तुल्यबलत्वात् । शवप्रतिकृतिदाहानुष्ठानविधिस्तु शौनकायुक्तदिशा ज्ञेयः । नात्राप्रस्तुतत्वाल्लिख्यते । अयं च पलाशवृतादिभिः प्रतिकृतिविधिरस्थ्यलाभे । यदा तु मृतास्मां लाभस्तदा तैरेव प्रतिकृतिः कार्या। तदुक्तं छंदोगसूत्रे-'अथातः पुनर्दाहविधि व्याख्यास्यामः । यदि शरीरं नश्येदस्थीन्यादायास्थीनि क्षीरोदकेन प्रक्षाल्यास्थिभिः कृष्णाजिने पुरुषाकृतिं कृत्वा पूर्ववद्दहेत् । तेषामलाभे पलाशवृतैः कृष्णाजिने पुरुषाकृतिं चत्वारिंशता शिरो दशभिग्रीवां विंशत्योरास्त्रंशतोदरं पंचाशता पंचाशता बाहू तयोरेव पंचभिः पंचभिरंगुलीन् सप्तत्या सप्तत्या पादौ तथैवांगुलीरष्टाभिः शिश्नं द्वादशभिर्वृषणं तां कुशैर्वेष्टयित्वा तस्मिन्नेव पूर्ववद्दहेत्' इति । अस्यार्थः-चत्वारिंशत्पलाशवृतैः शिरः संपाद्य दशभिर्सवां विंशत्योरस्त्रिंशता जठरं पंचाशतैकबाहुं (तथैव पंचाशताऽपरबाई) तत एव पंचभिः पंचभिरंगुलीः, एवं पंच; चत्वारिंशतैको बाहुःसंपन्नः, तथा सप्तत्या सप्तत्या पादद्वयं, तत एव पंचभिः पंचभिरंगुलीः; एवं चपंचषष्ट्यैकः पादः संपन्नः। अष्टाभिः शिश्नं,द्वादशभिर्वृषणद्वयं एवं च षष्ट्यधिकत्रिशत्या पलाशतैरवयवकल्पना भवति । तां प्रतिकृति तस्मिन्नेव कृष्णाजिने एव पूर्ववदिति पितृमेधविधिना दहेदित्यर्थः । एतादृशे विषये कालनियमः १ धर्मसिंधौ तु-शिरसि ४०, ग्रोवायां १०, बाह्रोः प्रत्येकं पंचाशदेवं १००, करांगुलीषु १०, उरसि २०, जठरे ३०, शिश्न ४, अंडयोस्रयं त्रयं ६, ऊर्वोः प्रत्येक पंचाशत् एवं १००, जंघांतः पादतलांतं प्रत्येकं पंचादश, एवं ३०, एवं ३६० दर्भः पलाशसमिद्भिर्वा शरीरं कुर्यादित्युक्तम् । Page #107 -------------------------------------------------------------------------- ________________ आपत्तावाशौचविचारः ] नक्षत्रप्रकरणम् २ । 'शुक्रारार्किषु'इत्यादिनोक्तः । यतः-'अथातः संप्रवक्ष्यामि यत्पुनर्दहनं नृणाम्' इत्यादिना पद्यसमुदायेन कालशुद्धिमुक्त्वा 'अतीतविषये काम्ये न्यूने श्राद्ध महालये । एतत्सर्व विचिंत्याशु कुर्याच्छ्राद्धमतंद्रितः ॥' इति कश्यपेन कालातीतविषयत्वेनाभिधानात् । तत्राधिकारी पुत्रादिर्यस्मिन्नेव क्षणे पित्रादिमरण शृणुयात्तद्दिनमारभ्यैव यथोक्ताशौचाधिकारी भवति ॥ तदाह पैठीनसिः-'पितरौ चेन्मृतौ स्यातां दूरस्थोऽपि हि पुत्रकः । श्रुत्वा तद्दिनमारभ्य दशाहं सूतकी भवेत् ॥' इति । अन्येषां तु देशांतरमरणे विशेषमाह वृद्धवसिष्ठः-'मासत्रये त्रिरात्रं स्यात्षण्मासात्पक्षिणी तथा । अहस्तु नवमादगूिज़ सानेन शुध्यति ॥' इति । पक्षिणी-सार्ध दिनम् । 'आगामिवर्तमानाहर्युक्तायां निशि पक्षिणी' इत्यमरोक्तेः । अत्र श्रुत्वेत्युक्तेर्मरणश्रवणमेवाशौचनिमित्तम् । 'निर्दशं ज्ञातिमरणं श्रुत्वा' इति मनूक्तेश्च । दशाहेभ्यो निर्गतं निर्दशम् । दशाहेभ्यो बहिरित्यर्थः । दशाहपदं स्वस्ववर्णाशौचोपलक्षणम् । षट्त्रिंशन्मतेऽपि–'उभाभ्यामपरिज्ञाते सूतकं नैव दोषकृत् । एकेनापि परिज्ञाते भोक्तुर्दोषमुपावहेत् ॥' इति । यदि तु दशाहमध्ये शृणुयात्तदा शेषैरहोभिरेवाशौचं तस्य स्यात् । उक्तं च मिताक्षरायाम्-'विगतं तु विदेशस्थं शृणुयाद्यो ह्यनिर्दशम् । यच्छेषं दशरात्रस्य तावदेवाशुचिर्भवेत् ॥' इति । दशरात्रस्येत्युपलक्षणम् । वर्णापेक्षया वयोवस्थापेक्षया वा यस्य यावानाशौचकाल उक्तस्तन्मध्ये एव विदेशगतमरणश्रवणे सत्याशौचावशिष्टैरेवाहोभिर्विशुध्यतीत्यर्थः । अत एव-'जनने मरणे नित्यमाशौचमनुधावति । सपिंडांश्चैव बंधूंश्च यत्र क्वचन गच्छति ॥' इत्याद्येवंविधानि देवलादिमुनिवाक्यानि श्रवणनिमित्ताशौचपराणि व्याख्येयानि । तत्र वर्णाशौचदिनसंख्यामाह दक्षः-'शुद्येद्विप्रो दशाहेन द्वादशाहेन भूमिपः । वैश्यः पंचदशाहेन शूद्रो मासेन शुद्ध्यति ॥' इति । तत्र यदा मरणदिनादारभ्य यथोताशौचदिनमध्ये एव चेन्मरणं शृणुयात्तदाऽवशिष्टाशौचदिनमध्ये अथवा स्वस्ववर्णोक्ताशौचदिवसातिक्रमानंतरं चेन्मरणं शृणुयात्तदा तद्दिनादारभ्य यथोक्ताशौचदिनमध्ये प्रतिकृतिसंस्कारश्चिकीर्षितः तदा यथासंभवं दिनशुद्धिविचार्या । अत एवोक्तं गर्गेण–'आशौचमध्ये क्रियते' इत्यादि । भद्राभरणीधनिष्ठापंचकादिदोषराहित्यमपेक्षितम् । नैव बहुकालव्यापिशुक्रास्तादिदो'षापेक्षा कार्येति गर्गवाक्ये यथासंभवपदस्यार्थः। सर्वथा त्वाशौचदिनेषु दुष्टेषु दोषतारतम्येन महादोषत्यागोऽल्पदोषांगीकारो यथालोकप्रसिद्धिः तादृशे दिने शवप्रतिकृतिदाहो विधेयः । सर्वथा दोषरहिते दिने तूत्तम एव सः । अथ यदि मरणश्रवणानंतराशौचदिनानां राजिकदैविकब्राह्मणाद्यलाभरूपप्रतिबंधादतिक्रमणमभूत्तदाशौचमस्ति न वेति विचारः । राजिकदैविकोपद्रवसंभावनायां सद्य एव शौचं स्यान्नत्वाशौचम् । यदाह पराशरः-'दुर्भिक्षे राष्ट्रसंतापे आपदां च समुद्भवे । उपसर्गमृते चैव सद्यःशौचं विधीयते ॥' इति । यमबृहस्पती-'दैवे भये समुत्पन्ने प्रधानांशे विनाशिते । Page #108 -------------------------------------------------------------------------- ________________ मुहूर्तचिंतामणिः । . [अभुकमूलनक्षत्रदोषः सद्यः शौचं समाख्यात कांतारापदि संयति ॥' इति । पैठीनसिरपि 'विवाहदुर्गयज्ञेषु यात्रायां तीर्थकर्मणि । न तत्र सूतकं तद्वत्कर्म यज्ञादि कारयेत् ॥' इति । कालांतराऽलभ्यायां गयादियात्रायां तादृशे एव तीर्थकर्मणि तीर्थस्नानदानादिकर्मणि तादृशे विषये आशौचग्रहाभावादेव शवप्रतिकृतिदाहाभावः । यदा तु ब्राह्मणाद्यलाभस्तदाशौचपरिग्रहः स्यादेव । परं त्वाशौचदिनानंतरं वर्षमध्ये दिनशुद्धिमपेक्ष्यैव शवप्रतिकृतिदाहो विधेयः । 'आशौचस्य निवृत्तौ चेत्पुनः संस्क्रियते मृतः । संशोध्यैव दिनं ग्राह्यम्' इति गर्गेणैवकारसहितदिनपदोक्तेः । अयमर्थः - 'अत्रापि भद्राभरणीपंचकादिर्दोषः कतिपयदिनव्यापी त्याज्य एव, नतु शुक्रास्तादिकबहुकालव्यापिदोषप्रतीक्षा | तदुक्तं ज्योतिर्निबंधे पितृखंडे - 'शुक्रस्यास्तमने चैव देवेज्यस्य तथैव च । प्रेतकार्य प्रदुष्येत प्रथमं वत्सरं विना ॥' इति । अथ यदि वर्षमध्ये राजिकदैविकाद्युपद्रवः संपन्नस्तदा वर्षोत्तरं निरवधिके दक्षिणायनशुक्रास्तादिमहादोषरहिते भद्राभरणीपंचकादिदोषरहिते च काले शवप्रतिकृतिदाहः कार्यः । उक्तं च गाग्र्येण - 'ऊर्ध्वं संवत्सराद्यदि । प्रेतकार्याणि कुर्वीत श्रेष्ठं तनोत्तरायणम्' इत्यादीनि मूलवाक्यानि प्रागभिहितानि । अत एव मूलपद्येऽप्यब्दात्परतो याम्येऽयने तथा देवेज्यशुक्रास्तके शवप्रतिकृतिदाहो न कार्य इति व्याख्येयम् । प्रथमे वर्षे तु नायं दोषः । सर्वत्रापि गयागोदावर्योस्तीर्थयोः प्राप्तयोः सतोरयं शुक्रेज्यास्तदक्षिणायनादिमहादोषविचारः कोऽपि नास्ति । तदुक्तं ज्योतिर्निबंधे प्रेतमंजर्याम्- 'प्रेतकार्याणि सर्वाणि व्रतस्नानजपादिकम् । वर्ज्यं शुक्रेज्ययोरस्ते गयां गोदावरीं विना ॥' इति । अन्यानि तु गयागोदावरीविषयाणि वचांसि प्रागुक्तानीत्यलमतिप्रसंगेन ॥ ५० ॥ ५१ ॥ ९२ अथ नक्षत्रसंबंधेन मुहूर्तानुक्त्वा नक्षत्रप्रसंगान्नक्षत्रविशेषोत्पन्नस्याभुक्तमूलदोषमनेकविधं सफलमुपजातिकाभ्यामाह - अभुक्तमूलं घटिकाचतुष्टयं ज्येष्ठांत्यमूलादिभवं हि नारदः । वसिष्ठ एकद्विघटीमितं जगौ बृहस्पतिस्त्वेकघटीप्रमाणकम् ॥ ५२ ॥ अथोचुरन्ये प्रथमाष्टघट्यो मूलस्य शाक्रान्तिमपंचनाड्यः । जातं शिशुं तत्र परित्यजेद्वा मुखं पितास्याष्टसमा न पश्येत् ॥ ५३ ॥ अभुक्तमूलमिति ॥ अथोचुरिति च ॥ अत्राभुक्तमूलस्यानेके भेदाः, तन्त्रैकस्तावदयं भेदः-ज्येष्ठानक्षत्रांते भवं ज्येष्ठांत्यं, मूलादौ भवं मूलादिभवं, ज्येष्ठांत्यजातं घटीचतुष्टयं मूलादिजातं घटीचतुष्टयं मिलित्वाष्टौ घटिकाः प्रहर इति यावत्तावान्कालोऽभुक्तमूलाख्यमिति नारद आह- उपलक्षणत्वादाश्लेषांतिमघटीचतुष्टयं मघादिमघटीचतुष्टयं चाभुक्तमूलाख्यः कालः । यदाह नारदः – 'यो ज्येष्ठामूलयोरंतरालप्रहरजः शिशुः । अभुक्तमूलजः सार्पमघानक्षत्रयोरपि ॥' इति ॥ अथापरो भेदः - एकेति । ज्येष्ठांते एकघटीमिà Page #109 -------------------------------------------------------------------------- ________________ ९३ पादवशेन मूलाश्लेषाजन्मफलं ] नक्षत्रप्रकरणम् २ । मूलादौ घटीद्वयमितमेवं मिलित्वा विघटिकमभुक्तमूलं स्यादिति वसिष्ठो मुनिर्जगौ । यदाह वसिष्ठः-'ज्येष्ठांत्यपादघटिकामितमेव केचिन्मूलं ह्यभुक्ता मपरे पुनरामनंति । मूलाद्यपादघटिकाद्वितयेन सार्धमष्टौ समाः परिहरेदिह जन्मभाजाम् ॥' इति ।समाः वर्षाणि ॥ अथान्यो भेदः-एकेति । ज्येष्ठांत्याघटिका मूलादावर्धघटिका मिलित्वा एकघटीप्रमाणमस्य तदेकघटिप्रमाणकम् । 'शेषाद्विभाषा' इति कप् । तादृशमभुक्तमूलं स्यादिति बृहस्पतिर्जगौ । तदाह गुरुः-ज्येष्ठांत्यघटिकाधं च मूलादौ घटिकार्धकम् । तयोरंतर्गता नाडी ह्यभुक्तं मूलमुच्यते ॥' इति ॥अथेतरो भेदः-अथेति । अथशब्दः पादपूरणे। मूलनक्षत्रस्य प्रथमा आदिमा अष्टघटिकाः, शाक्रस्य ज्येष्ठाया अंतिमाः पंच नाड्यो घटिकाः; एवमुभयोज्येष्ठामूलयोरंतरालवर्तिन्यस्त्रयोदश घटिका अभुक्तमूलमिति लोका ऊचुः, 'ज्येष्ठान्त्यघटिकाः पञ्च मूलाद्या वसुनाडिकाः । अभुक्तमूलमित्युक्तं तत्र जातं शिशुं त्यजेत् ॥' इति स्मरणात् । एवमभुक्तमूल: स्थानेकभेदसंभवे कः साधीयान् पक्ष इति चेत् । उच्यते,-नारदोका पक्ष एव साधीयान् । किमत्र प्रमाणमिति चेच्छृणु । बहुमुनिसंवाद एवात्र प्रमा णम् । तदाह कश्यपः-'ज्येष्ठांत्यमूलयोरंतरालयामोद्भवः शिशुः । अभुक्त मूलजः सोऽप्याश्लेषापितृभयोरपि ॥' इति । वसिष्ठोऽपि-'भुजंगपौरदरपौष्णभानां तदनभानां च यदंतरालम् । अभुक्तमूलं प्रहरप्रमाणं त्यजेत्सुतं तत्र भवां सुतां च ॥' इति । अत एव पूर्वमुक्तं वसिष्ठवाक्यं केचिन्मताभिप्रायेण । यतस्तद्वाक्ये केचिदिति अपर इति चेत्युक्तिरस्ति । यद्येवं घटीन्यूना, धिकभावाभिधायिनां प्रागुक्तवाक्यानां का गतिरिति चेत् , उच्यते,-दोषस्याधिक्याल्पत्वसूचनमेव गतिः । अथाभुक्तमूलसंज्ञाकथनस्य प्रयोजनमाहजातमिति । तत्राभुक्तमूलाख्ये काले जातं शिशुं बालकं उपलक्षणत्वात्तत्र जातां कन्यां वा पिता परित्यजेनिष्कासयेत् । 'त्यजेत्सुतं तत्र भवां सुतांच' इति वसिष्ठोक्तेः । यद्यशक्यनिष्कासनं स्यात्तदा किं कार्यमित्यत आहवेति । वा अथवा पूर्वपक्षकर्तव्यताशक्तौ पिताऽस्य शिशोः कन्याया वा मुखमष्टसमाः अष्टौ वर्षाणि । 'संवत्सरो वत्सरोऽब्दो हायनोऽस्त्री शरत्समाः।' इत्यमरः । तावत्कालं न पश्येत् । यदाह नारदः-'अभुक्तमूलजं पुत्रं पुत्रीमपि परित्यजेत् । अथवाब्दाष्टकं तातस्तन्मुखं न विलोकयेत् ॥' इति । च्यवनोऽपि-'अभुक्तमूलभे भवं परित्यजेच बालकम् । समाष्टकं पिताथवा न तन्मुखं विलोकयेत् ॥' इति । गंडांतदोषस्तु विवाहप्रकरणे व्रक्ष्यत इति कृत्वात्र नोक्तः ॥ ५२ ॥ ५३॥ अथ प्रसंगान्मूलाश्लेषाजातस्य बालस्य चरणवशेन शुभाशुभफलमुपजात्याहआधे पिता नाशमुपैति मूलपादे द्वितीये जननी तृतीये । धनं चतुर्थोऽस्य शुभोऽथ शांत्या सर्वत्र सत्स्यादहिभे विलोमम् । • आधे इति ॥ मूलनक्षत्रस्याचे पादे प्रथमे चरणे चतुर्थाशे इति यावत् Page #110 -------------------------------------------------------------------------- ________________ ९४ मुहूर्तचिंतामणिः । [मूलांत्यपादेऽपि शान्तिः कार्या तत्र जातस्य शिशोः कन्याया वा पिता नाशं मरणमुपैति प्रामोति । तथा मूलद्वितीये पादे जननी माता नाशमुपैति । तथा तृतीये मूलपादे धनं द्रव्यं नाशमुपैति । चतुर्थो मूलपादोऽस्य शिशोः शुभः शुभफलदः । उक्तं च ब्रह्मपुराणे-'मूलायेंऽशे पितु शो द्वितीये मातुरेव च । तृतीये धनधान्यादिनाशस्तुयें धनागमः ॥' इति । तुर्य चतुर्थे । रत्नमालायाम्-'तदाद्यपादके पिता विपद्यते जनन्यथ । तृतीयके धनक्षयश्चतुर्थकः शुभावहः ॥' इति । अत्र पितुर्बहुस्त्रीत्वेऽपि स्वमातुरेव नाशो वाच्यो म सापत्रमातुः । यदाह कश्यपः-'मूलाद्यपादजो हंति पितरं तु द्वितीयजः । मातरं स्वां तृतीयोअर्थान्सुहृदश्च तुरीयजः ॥ इति । यतो मातृशब्दः सापत्नमातुरपि वाचकः । यदाह गौतमः-'पितृपत्यः सर्वा मातरस्तद्रातरो मातुलास्तदपत्यानि मातुलेयानि' इति । अतः स्पष्टार्थमेव कश्यपवाक्ये स्वामिति पदोपादानम् ॥ अत्र विशेषो वसिष्ठसंहितायाम्-'मूलाद्यपादो दिवसे यदि स्यात्तजः पितुनाशनकारणं स्यात् । द्वितीयपादो यदि रात्रिभागे तदुद्भवो मातृविनाशकः स्यात् ॥ मूलाधपादो यदि रात्रिभागे तदात्मनो नास्ति पितुर्विनाशः । द्वितीयपादो दिनगो यदि स्थान मातुरल्पोऽपि तदास्ति दोषः ॥' इति । नारदसंहितायां च-'दिवाजातस्तु पितरं रात्रौ तु जननी तथा । आत्मानं संध्ययोहंति नास्ति गंडो विपर्यये ॥' इति । एतदेव मातापितृगंडमिति जीर्णा व्यवहरंति ॥ अथ दोषसत्त्वे किं कार्यमत आह-अथेति । अथानंतरं शांत्या मूलाश्लेषाशांत्या स्वनुष्ठितया सर्वत्र चरणचतुष्टयेऽपि शुभमनिष्टफलनाशकं कल्याणं स्यात् । उक्तं च वसिष्ठेन-'नैर्ऋत्यभौजंगमगंडदोषनिवारणायाभ्युदयाय नूनम् । पितामहोक्तां रुचिरां च शांतिं प्रवच्मि लोकस्य हिताय सम्यक् ॥ शास्त्रोक्तरीत्या खलु सूतकांते मासे तृतीयेऽप्यथ वत्सरान्ते ॥' इति। नैर्ऋत्य-मूलं तदोषः, भौजंगमं=आश्लेषा तद्दोषः; गंडो वक्ष्यमाणस्तद्दोषश्व 'द्वंद्वांते श्रूयमाणं पदं प्रत्येकमभिसंबध्यते' इति न्यायात् । अतस्तदोषाणां निवारणं तदर्थ। अत एव कश्यपेन-'तद्दोषशमनार्थ हि शांतिं कुर्यात्प्रयत्नतः' इति सामान्यत उक्तम् । अत्र वसिष्ठवाक्ये कालत्रयकथनं सामर्थ्यासामर्थ्यकृतं ध्येयम् । तथा हि-यदि मातुः शीतोदकस्राने सामर्थ्य स्यात्तदा सूतकान्त एव शान्तिः, तत्राप्यशक्तौ तृतीये मासि शांतिः, दीर्घरोगादिना तदाप्यशक्तिश्चेत्तर्हि वर्षसमाप्तिदिवसे शांतिः । मातृगंडे तु विशेषस्तेनैवोक्तः-'मातृगंडे सुते जाते सूतकांते विचक्षणः । कुर्याच्छांतिं तदृक्षे वा तद्दोषस्थापनुत्तये ॥' इति । शिष्टास्तु सर्वत्र यस्मिनक्षत्रे जन्म तनक्षत्र एव शांतिरिति व्यवहरंति । ननु मूलपादचतुष्टयेऽपि शांतिः कर्तव्येत्युक्तं तत्र चतुर्थचरणस्य शुभफलत्वाच्छांतिरयुक्तेति प्रतिभाति ॥ 'अनिमित्तकृता शांतिर्निमित्तात्रोपजायते' इति सरणात् । उच्यते,-यद्यपि चतुर्थचरणे धनागमरूपं शुभफलमभिहितं तथापि कश्यपेन-'सुहृदश्च तुरीयजः' इति सुहृवाशरूपस्य फलस्यानिष्टस्योचेस्तदपाकरणार्थमवश्यं कर्तव्या शांतिः । नहि कस्यचिद्वैरि Page #111 -------------------------------------------------------------------------- ________________ मूलोद्भूतकन्याया मूलांगविभागः] नक्षत्रप्रकरणम् २ । नाशवन्मातुलाधनेकसुहन्नाश इष्टः। किंच मूलवृक्षविचारेऽपि चतुर्थपादे पुरुषकन्ययोरशुभफलकथनाच । मूलवृक्षस्तु समनंतरमेव मया वक्ष्यते । यदि मूलाश्लेषादिदोषसंभवे शांतिर्न क्रियते तदानिष्टं भवत्येवेत्याह नारदः"वत्सरात्पितरं हंति मातरं तु त्रिवर्षतः । द्युम्नं वर्षद्वयेनैव श्वशुरं नववर्षतः ॥ जातं बालं वत्सरेण वषैः पंचभिरग्रजम् । शालकं चाष्टभिर्वरनुक्तान् हंति सप्तभिः । तस्साच्छांतिं प्रकुर्वीत प्रयत्नाद्विधिपूर्वकम् ॥' इति । घुम्नं धनम् । तस्मादवश्यं चरणचतुष्टयेऽपि शांतिर्विधेयेति । अहिभे विलोममिति । अहिमे आश्लेषायामुक्तं फलं विलोमं विपरीतं ज्ञेयम् । तद्यथा-मूलस्य प्रथमे पादे पितृनाश इति फलमुक्तं तत्फलमाश्लेषाचतुर्थपादोत्पन्नस्य स्यात् । मूलस्य द्वितीयपादेमातृनाश इत्युक्तं फलं तदाश्लेषातृतीयचरणोत्पन्नस्य स्यात् । मूलस्य तृतीयचरणे धननाश इत्युक्तं तदाश्लेषाद्वितीयचरणोत्पन्नस्य स्यात् । मूलस्य चतुर्थपादः शुभ इत्युक्तं तदाश्लेषाप्रथमचरणोत्पन्नस्य स्यादित्यर्थः । यदाह कश्यपः-‘फलं तदेव सार्पः प्रतीपं त्वंत्यपादतः' इति । वसिष्ठोऽपि'मूलाद्यपादजनितः पितरं निहंति द्वैतीयजः स्वजननी त्रिपदेऽर्थवृंदम् । तौरीयजः शुभकरः फलमेतदेव वैलोमतो भुजगधिष्ण्यभवस्य सर्वम् ॥' इति । द्वितीय एव द्वैतीयः । प्रज्ञादेराकृतिगणत्वात्स्वार्थेऽण् । एवं तौरीयवैलोमशब्दौ साध्यौ । अयमर्थः स्पष्टमुक्तो भास्करव्यवहारे-'सापाशे प्रथमे राज्य द्वितीये तु धनक्षयः । तृतीये जननीनाशश्चतुर्थे मरणं पितुः ॥' इति । अंश:-चरणः । अत्र लग्नदौष्ट्ये सति दुष्टं फलमविकलं भवतीत्याह बादरायणः-'मूलसादिज दौष्ट्यं स्यात्संपूर्ण तु लग्नपे । सक्रूरेऽजे च विबले शुभदृष्टिविवर्जिते ॥' इति । अत आश्लेषादौष्ट्येऽपि शांतिकं विधेयम् । तथाश्लेषांत्यमघादिस्थांतरालप्रहरात्मकोऽभुक्तमूलाख्यकालो विहितस्तत्रोत्पन्नस्थापि शांतिकं विधेयम् । अत्र संमतिवाक्यं प्रागभिहितम् । तत्र मूलशांतिराश्लेषाशांतिश्च 'गंडांतेंद्रभ-' (लो० ५६) इति पद्यव्याख्यानानंतरं लिख्यते ॥ अथात्र प्रसंगान्मूलवृक्षविचारोऽभिधीयते । जयार्णवे-'मूलं स्तंभस्त्वचा शाखा पत्रं पुष्पं फलं शिखा । मुनयोऽष्टौ दिशो रुद्राः सूर्याः पंचांघ्रयोऽग्नयः ॥ मूले ७ तु मूलनाशः स्यात्स्तंभे ८ वंशविनाशनम् । त्वचि १० मातुर्भवेत्क्लेशः शाखायां ११ मातुलस्य च ॥ पत्रे १२ राज्यं विजानीयात्पुष्पे ५ मंत्रिपदं स्मृतम् । फले ४ च विपुला लक्ष्मीः शिखाया ३ मल्पजीवितम् ॥' इति । अथ मूलाख्यस्य पुरुषस्यांगेषु घटीविन्यासस्तत्रैव-'मूलस्य घटिकान्यासो मूर्ध्नि पंच ५ नृपो भवेत् । मुखे सप्त ७ मृतिः पित्रोः स्कंधे वेदा ४ महाबलः ॥ बाह्वोरष्टौ ८ बली पाण्योस्तिस्रो ३ हत्यान्वितो भवेत् । हृदि खेटा ९ भूपमंत्री नाभौ द्वौ २ ब्रह्मविद्भवेत् ॥ गुह्ये दशा १० ऽतिकामी स्याजानुनोः षण् ६ महामतिः । पादयोः षण् ६ मृतिस्तस्येत्युक्तवान्कमलासनः ॥' इति । अथ मूलोद्भतायाः कन्यायाः फलार्थ मूलांगविभागस्तत्रैव-'चतस्रो ४ नाडिकाः शीर्षे कुर्वति पशुनाशनम् । मुखे षड् ६ १ हृत्यान्वित, हस्तान्वित इति पाठांतराणि । Page #112 -------------------------------------------------------------------------- ________________ ... मुहूर्तचिंतामणिः। [खलादिधारणमुहूर्ताः धनहानिश्च कंठे पंच ५ धनागमः ॥ कौटिल्यं हृदये पंच ५ बाह्वोर्वित्तागर्म च तत् ५। वेदाः ४ पाण्योर्दयाधर्म वेदा ४ गुह्येऽतिकामिनी ॥ ज्येष्ठमातुलनाशश्च जंघयोर्युग ४ नाडिकाः।ज्येष्ठभ्रातृविनाशश्च चतस्रो ४ जानुयुग्मके॥ पादयोर्दश १०.नाड्यश्च तत्र वैधव्यमादिशेत् । इति मूलप्रसूतायाः फलमीरितमीदृशम् ॥' इति ।मस्यार्थः-शीर्षे चतस्रो ४ घटिकाः, मुखे षट् ६, कंठे पंच ५, हृदये पंच ५, बाहोर्बाहुद्वये पंच पंच ५।५ इति वीप्सा । पाण्योर्मणिबंधादधोभागयोश्चतस्रश्वतस्र ४१४ इत्यत्रापि वीप्सा। गुह्ये चतस्रः ४ जंघयोजघाद्वये द्वे द्वे शर एवं चतस्रः जानुद्वये द्वे द्वे एवं चतस्रः । पादयोः पादद्वये पंच पंचेत्येवं दश १०; एवं मिलित्वा षष्टि ६० घटिका भवंति ॥ अथाश्लेषाजातयोः पुत्रकन्ययोरंगविभागेन फलं तत्रैवोक्तम्-'मूर्ध्नि पंच ५ सुपुत्राप्तिर्मुखे सप्त ७ पितृक्षयः । नेत्रे द्वे २ जननीनाशो ग्रीवायां त्रिषु ३ लंपटः ॥ स्कंधे वेदा ४ गुरौ भक्तिहस्तेऽष्टौ ८च बली भवेत् । हृद्येकादश ११ भिश्चात्मघाती संजायते नरः ॥ स्त्री वा नाभौ भ्रमः ६ षभिर्गुदे नंदै ९ स्तपोधनः । पादे पंच ५ धनं हंति सार्पादेतत्फलं क्रमात् ॥' इति । अथाश्लेषावृक्षोऽपि तत्रैवोक्तः-'फलं पुष्पं दलं शाखा त्वग्लताकंद एव च । सार्पवल्लयां दशा १० क्षां ५ क ९ स्वर ७ विश्वा १३ ऽर्क १२ सागराः ४ । नाडिकास्तद्वे बाले फलं ज्ञेयं यथाक्रमम् । श्रीः श्रीराजभयं हानिर्मातृपित्रात्मसंक्षयः ॥' इति । अयं च विभागो नक्षत्रस्य षष्टि ६० घटिकात्मकत्वे ज्ञेयः । न्यूनाधिकत्वे तु त्रैराशिकमूह्यम् । वसिष्ठेन त्वन्येष्वपि कियत्सु नक्षत्रेषु जातस्यारिष्टमुक्तम्-'चित्राद्यर्धे पुष्यमध्ये द्विपादे पूर्वाषाढाधिष्ण्यपादे तृतीये । जातः पुत्रश्चोत्तराये विधत्ते पित्रोातुः खस्यचापि प्रणाशम् ॥ द्विमासस्योत्तरादोषः पुष्ये चैव त्रिमासिकः । पूर्वाषाढाष्टमे मासि चित्रा पाण्मासिकं फलम् ॥' इति । अनोत्तराशब्देनोत्तराषाढा गृह्यते पूर्वाषाढासाहचर्यात् । अत एष्वपि नक्षत्रेषु यथाशक्ति मूलवच्छांतिकं दोषपरिहारार्थ विधेयम् । परं त्वत्र देवताभेद एव केवलं ध्येयः । स च तत्स्वामिकृतः, तत्तन्मंत्राश्च वेदादेवावगंतव्याः, तच्छांतिकं च तिथिगंडांतशांतावसामिर्वक्ष्यत इत्यलमतिप्रसंगेन ॥ ५४ ॥ · अथ मूलनिवासं सफलमिंद्रवज्राछन्दसाहवर्ग शुचिप्रौष्ठपदेषमाघे भूमौ नभःकार्तिकचैत्रपौषे । मूलं ह्यधस्तात्तु तपस्यमार्गवैशाखशुक्रेष्वशुभं च तत्र ॥ ५५ ॥ खर्गे इति॥ शुचिः आषाढः, प्रौष्ठपदः भाद्रपदः, इषः आश्विनः, माघः प्रसिद्धः, एषु मासेषु मूलं मूलनक्षत्रं स्वर्गेऽस्ति, स्वर्गे निवासस्तस्य । नभाः= श्रावणः, अन्ये प्रसिद्धाः, श्रावणकार्तिकचैत्रपौषेषु भूमौ मूलं तिष्ठति । तपस्यः= फाल्गुनः, शुक्रः-ज्येष्ठः, अन्यौ प्रसिद्धौ; फाल्गुनमार्गशीर्षवैशाखज्येष्ठेष्वधस्तात्पाताले मूलं तिष्ठति । एष मूलनिवास उक्तः । एतत्फलं च मूलनक्षत्रं यदा यस्मिन्मासे यन्न वसति तत्रैव स्वर्गभूमिपातालेष्वेव स्वोक्तशुभाशुभफलं Page #113 -------------------------------------------------------------------------- ________________ वीरप्रसवशान्तिः ] नक्षत्रप्रकरणम् २ । ददाति । अयमत्र तात्पर्यार्थः - द्रव्याद्यभावेन शांतिकं कर्तुमशक्नुवतः पुंसः स्वर्गपातालनिवासित्वेन मूलस्यारिष्टदोषस्तथा न प्रभवेत् । यदा तु भूमावेव निवासस्तदा दोषनिवारणं नैव स्यादित्यशक्तेनापि शांतिकं विधेयम् । नैता - वा प्रागुक् विषये शांत्यभाव एव किंतु यथाशक्ति तत्रापि शांतिकं विधेयम् । शक्तेन तु सर्वत्रैव विधेयम् । तदुक्तं ज्योतिषार्णवे — 'मार्गफाल्गुनवैशाखज्येष्ठे मूलं रसातले । माघाश्विननभस्येषु शुचौ मूलं सुरालये ॥ पौषश्रावणचैत्रेषु कार्तिके भूमिसंस्थितम् । भूमिष्ठं दोषबहुलं स्वल्पमन्यत्र संधितम् ॥' इति । कचित्संक्रांतिपरत्वेन मूलनिवासोऽभिहितः - 'वृषालिसिंहेषु घटे च मूलं दिवि स्थितं युग्मतुलांगनांत्ये । पातालगं मेषधनुः कुलीरनक्रेषु मृत्याविति संस्मरन्ति ॥ स्वर्गे मूले भवेद्राज्यं पाताले च धनागमः । मृत्युलोके यदा मूलं तदा शून्यं समादिशेत् ॥ इति ज्योतिषरत्नेऽभिहितत्वात् ॥ ५५ ॥ अथ मूलप्रसंगाद्दुष्टेषु गंडांतादिनिमित्तेषु सत्सु जातस्यारिष्टं सपरिहारं शार्दूलविक्रीडितेनाह— ९७ गंडांतेंद्र भशूलपातपरिघव्याघातगंडावमे संक्रांतिव्यतिपातवैधृतिसिनीवाली कुहूदर्शके । वज्रे कृष्णचतुर्दशीषु यमघंटे दुग्धयोगे मृतौ विष्टौ सोदर जनर्न पितृभे शस्ता शुभा शांतितः ५६ गंडांतेति ॥ एतेषु पदार्थेषु सत्सु जनिः शिशोरुत्पत्तिर्न रास्ता दुष्टफलदा । गंडांतः=संधिविशेषः । स त्रिविधः - नक्षत्र - तिथि - लग्नभेदेन । तल्लक्षणं 'ज्येष्ठा पौष्णभ-' (श्लो० ४१) इत्यादिना विवाहप्रकरणे वक्ष्यति । इंद्रभं=ज्येष्ठानक्षत्रं । शूलः =शूलाख्यो दुष्टयोगः । पातः = महापातो गणितसाध्यो व्यतीपाताख्यो वैष्टताख्यश्च । परिघव्याघातगंडा अपि दुष्टयोगाः । अवमः = तिथिक्षयः । संक्रान्तिः=सूर्यस्य राज्ञ्यंतरसंक्रमपुण्यकालः । व्यतीपातवैधृती - सप्तदशसप्तविंशतितमौ दुष्टयोगौ । सिनीवाली - दृष्टेंदुरमावास्या । कुहूः=नष्ठेदुरमावास्या । 'स्याद्दृष्टेदुः सिनीवाली सा नष्टेंदुकला कुहूः' इत्यभिधानात् । दर्शः = चंद्रदर्शनादर्शनरहितामावास्या । एतच्चाग्रे सम्यक् प्रतिपादयिष्यते । वज्रे दुष्टयोगे । कृष्णे = कृष्णपक्षे चतुर्दशी | बहुवचनमावृत्त्यभिप्रायम् । यमघंटे = 'मघाविशाखा' इत्युक्ते दुष्टयोगे । दग्धयोगे= 'सूर्येशपंचाग्निरसाष्टनंदा' इत्युक्ते दुष्टयोगे । केचित्तु - 'चापांत्यगे गोघटगे पतंगे' इति वक्ष्यमाणे दुष्टयोग इति व्याचख्युः । मृतौ-'द्वीशातोयात् ' (१।३० ) इत्यादिनोक्ते मृत्युयोगे । विष्टौ =भद्रायां । सोदरस्य भ्रातुर्भगिन्या वा भे नक्षत्रे | पितृभे= माता च पिता च पितरौ तयोर्भे मातृभे पितृभे च । एषु निमित्तेषु सुतस्य सुताया वा जन्म चेत्स्यात्तदनिष्टकृत्स्यादित्यर्थः । दुष्टनिमित्तस्योपलक्षणत्वात्सूर्यचंद्रग्रहणजन्मत्रीतरजन्माप्यनिष्टम् । सजातीयापत्यत्रयप्रस्रवानंतरं विजातीयापत्यप्रसवस्त्रीतरः । यथा - पुत्रत्रयप्रसवानंतरं कन्याया जननं, क्रन्यान्रयप्रसवानंतरं पुत्रस्य जननम् । अत एव त्रिभ्यः सजातीयेभ्य ९ मु० चि० Page #114 -------------------------------------------------------------------------- ________________ मुहूर्तचिंतामणिः । [ मूलनक्षत्रजननशान्तिः इतरो विजातीयस्त्रीतरः, स्त्री च त्रीतरेति व्युत्पत्तिश्च । त्रीतरश्च त्रीतरा च श्रीतरौ, 'पुमानूस्त्रिया' इत्येकशेषः । अथ परिहारोऽप्युच्यते । सा जनिः शांतितो वसिष्ठायृषिप्रोक्तायाः शांत्याः स्वनुष्ठिताय हेतुतः शुभा परिणामे सुखदायिनी । शारीरक्लेशानुभवपूर्वकनीरोगदीर्घायुषं शिशोः स्यादित्यर्थः । ९८ अत्र मूलवाक्यानि सशांतिकानि लिख्यंते । अत्र प्राक्पद्यप्रतिज्ञाता सकलशांतिसामान्यकमौपयिकी च मूलशांतिस्तावदुच्यते ॥ शौनक उवाच'अथातः संप्रवक्ष्यामि मूलजातहिताय च । मातापित्रोर्धनस्यापि कुले शांतिं हिताय च ॥त्यागो वा मूलजातस्य स्यादष्टाब्दात्प्रदर्शनम् । अभुक्तमूलजातानां परित्यागो विधीयते ॥ अदर्शने वापि पितुः स तु तिष्ठेत्समाष्टकम् । एवं च दुहितुर्ज्ञेयं मूलजातफलं बुधैः ॥ मुख्यकालं प्रवक्ष्यामि शांतिहोमस्य यत्नतः । जातस्य द्वादशाहे तु जन्मक्षं वा शुभे दिने ॥ समाष्टके वा मतिमान्कुर्याद्वै शांतिमादरात् । यदैव शांतिकं कुर्यात्कर्म तत्र प्रचक्ष्महे ॥ सुसमे पुण्यदेशे तु मंडपं कारयेद्बुधः ॥' इति । मंडपपरिमाणं च वसिष्ठेनोक्तम्- 'ऐशान्यामथवा प्राच्यामुदीच्यां दिशि कल्पयेत् । मंडपं त्वष्टभिर्हस्तैश्चतुर्भिर्वा समंततः ॥ चतुर्द्वारसमायुक्तं तोरणाद्यैरलंकृतम् । कदलीस्तंभसंयुक्तमाम्रपल्लवराजितम् ॥ पुष्पमालायुतं सम्यक्तूर्य घोष निनादितम् । पिष्टेन कल्पयेत्सर्वं तथा गोमयमंड ॥ कुंडं च तद्बहिः कुर्याग्रहयज्ञोक्तमार्गतः ॥' इति । पुनः शौनकः - 'पुण्यग्भिर्मंत्रितैस्तोयैः प्रोक्षितायां क्षितौ ततः । तत्रोदकुंभं सुश्लक्ष्णं रक्तं व्रणविवर्जितम् ॥ अकृष्णमूलं निर्णिक्तं पूरयेन्निर्मलांभसा । वस्त्रावगुंठितं कुर्यात्पूरयेत्तीर्थवारिणा ॥ कूर्चहेमसमायुक्तं चूतपल्लवसंयुतम् । स्वस्तिकोपरि विन्यस्य क्षीरिद्रुमसपल्लवैः ॥ द्रोणव्रीहींश्च निक्षिप्य ऐशाने च निधापयेत् । पंचरत्नानि निक्षिप्य सर्वैषधिसमन्वितम् ॥ अर्चितं गंधपुष्पाद्यैः श्रीरुद्रं स्थापयेत्ततः । तत्राप्रतिरथं सूक्तं शतरुद्वानुवाककम् ॥ रक्षामंत्रं तथा पुण्यं राक्षोघ्नं च स्पृशञ्जपेत् । त्रियंबकं जपेत्सम्यगष्टोत्तरसहस्रकम् ॥ एकैकवारं जापी च पावमानीः स्पृशञ्जपेत् । जपस्य पंचकुंभाश्च द्वयं वा तदलाभतः॥ श्रीरुद्रस्यैककुंभश्च सर्वसूक्तानि तत्र तु । तथान्यं पंचमं कुंभं पूर्वोक्तर्लक्षणैर्युतम् ॥ चतुःप्रस्रवणं कुर्यात्पंचवक्त्रं च तद्भवेत् । वस्त्रावगुंठितं कुर्यात्पूरयेत्तीर्थवारिणा ॥ पंचरत्त्रसमायुक्तमाम्रपल्लवसंयुतम् । गजाश्वरथ्यावल्मीकसंगमहृदगोकुलात् ॥ राजद्वारप्रदेशाच्च मृदमानीय निक्षिपेत् । कुंभस्य नैर्ऋते देशे होमदेश प्रकल्पयेत् ॥ गोमयालेपिते देशे कुर्यात्स्थंडिलमुत्तमम् । कृत्वाभिमुखपर्यंतमुल्लेखादि स्वशाखतः ॥ पूर्णपात्रनिधानांतं कृत्वा पूजां समारभेत् । नक्षत्रदेवतारूपं सुवर्णेन प्रयत्नतः ॥ निष्कमानेन वार्थेन पादेनापि स्वशक्तितः । प्रतिमां लक्षणेनैकां कारयित्वा विचक्षणः ॥ यद्वा मूल्यं सुवर्णस्य स्थापयित्वा प्रपूजयेत् । सुवर्णं सर्वदैवत्यं सर्वदेवात्मकोऽनलः ॥ सर्वदेवात्मको विप्रः सर्वदेवमयो हरिः । संस्मरेन्निर्ऋतिं श्यामं सुमुखं नरवाहनम् ॥ रक्षोभिपं खड्गहस्तं दिव्याभरणभूषितम् । प्रतिमापूजनार्थाय वस्त्रयुग्मं प्रकल्पयेत् ॥ 1 Page #115 -------------------------------------------------------------------------- ________________ तत्राभिषेकविधिः] नक्षत्रप्रकरणम् २ । पंकजं कारयेद्भूमौ रक्ताभै!हितंडुलैः । चतुर्विंशहलोपेतं शुक्लैर्वा कर्णिकान्वि. तम् ॥ तस्योपरि न्यसेत्पात्रं स्वर्ण वा रौप्यमृन्मयम् । शुद्धवस्त्रेण संकाय तत्र मूलानि निक्षिपेत् ॥ (मूलानीति शतमूलानि । तदलाभे-) विष्णुकांता सहदेवी तुलसी तु शतावरी। मूलानीमानि गृह्णीयाच्छतालाभे विशेषतः ॥ स्थापयेत्कर्णिकामध्ये वस्त्रगंधायलंकृतम् । कूर्चहेमजलोपेतं कुंकुमौषधिसंयुतम् । कुंभोपरि न्यसेद्विद्वान्मूलनक्षत्रदैवतम् । अधिप्रत्यधिदेवौ च दक्षिणोत्तरदेशयोः ॥ अधिदेवं जपेदादौ ज्येष्ठानक्षत्रदैवतम् । (पूर्वाषाढायां जलं उत्तराषाढाक्षे विश्वेदेवाः विष्णुः वसवः वरुणः अजैकपात् अहिर्बुध्यः पूषा अश्विनौ यमः अग्निः प्रजापतिः सोमः रुद्रः अदितिः बृहस्पतिः सर्पाः पितरः भगः अर्यमा सविता त्वष्टा वायुः इंद्राग्नी मित्रः इत्याद्यनुराधांतमर्चयेत् ।) ऐंद्रादीशानपर्यंतं पूजयेत्स्वस्वनामतः। स्वलिंगोक्तैश्च मंत्रैश्च प्रधानादीन्प्रपूजयेत् ॥ पंचामृतेन संस्त्राप्य आवाह्याथ समर्चयेत् । उपचारैः षोडशभिर्यद्वा पंचोपचारकैः । रक्तचंदनगंधाढ्यैः पुष्पैः कृष्णसितादिभिः ॥ मेषशंगादिधूपैश्च घृतदीपैस्तथैव च ॥ सुरापोलिकमांसाद्येनैवेद्यैर्भोजनादिभिः । मत्स्यमांससुरादीनि ब्राह्मणानां विवर्जयेत् ॥ सुरास्थाने प्रदातव्यं क्षीरं सैंधवमिश्रितम् । पायसं लवणोपेतं मांसस्थाने प्रकल्पयेत् ॥ उक्तगंधाद्यलाभे तु यथालाभं समर्पयेत् । पुष्पांतं तु समभ्यर्च्य होमं कुर्याद्यथोदितम् ॥ निर्वापप्रोक्षणादीनि चरोः कुर्याद्यथाविधि । हविर्गृहीत्वा विधिवन्नैर्ऋत्यां च ऋचा हुनेत् ॥ मोषुणः परापरेति यत्ते देवेति वा पुनः। पायसं घृतसंमिश्रं हुनेदष्टोत्तरं शतम् ॥ (हुनेत्-होमयेत् ) समिदाज्यचरून् पश्चाच्छक्तितः संख्यया हुनेत् ॥ अधिदैवतयोश्चैव जुहुयात्स्वस्वमंत्रतः ॥ चतुर्थ्यतैर्नमोंतैश्च स्वाहांतैः स्वस्वमंत्रकैः । नक्षत्रदेवताभ्यश्च पायसेन तु होमयेत् ॥ कृणुष्वेति पंचदशभिर्जुहुयात्कृसरं ततः। गायत्र्या जातवेदेति त्रियंबकमिति क्रमात् ॥ सीरायुंजंति तामग्निं वास्तोष्पत्यग्निमेव च। तामग्निवर्णां तपसा ज्वलंती वैरोचनी कर्मफलेषु जुष्टां ॥ दुर्गा देवीं शरणमहं प्रपद्ये सुतरसितरसे नमः सुतरसितरसे नमः ॥ क्षेत्रस्य पतिना गृणानाग्निं दूतं तथैव च । श्रीसूक्तेन तथा विद्वान् समिदाज्यचरून्क्रमात् ॥ अष्टोत्तरशतैर्वापि अष्टाविंशतिभिः क्रमात् । अष्टाष्टसंख्यया. वापि जुहुयाच्छक्तितो बुधः ॥ त्वं नः सोमेन पायसं जुहुयात्तु त्रयोदश। चतुर्गृहीतमाज्यं च यातेरुद्रेति मंत्रतः ॥ सुवेण जुहुयादाज्यं महाव्याहृतिभिः क्रमात् । हुत्वा स्विष्टकृतं पश्चात्प्रायश्चित्ताहुतीर्खनेत् ॥ आचार्यों यजमानो वा अग्नौ पूर्णाहुति हुनेत् । होमशेषं समाप्याथ वह्निमारोपयेहुधः ॥ कुंभाभिमंत्रणं कुर्याद्दक्षिणेनाभिमंत्रयेत् ॥ मृत्युप्रशमनार्थाय जपेश्रेयंबकं शतम् । रुद्रकुंभोक्तमार्गेण रुद्रमंत्रं स्पृशअपेत् । धूपं दीपं च नैवेद्यं कुम्भयुग्मे निवेदयेत् ॥ प्रसादयेत्ततो देवमभिषेकार्थमादरात् । तस्मिन्काले ग्रहातिथ्यं कर्तव्यं भूतिमिच्छता ॥ पृथक् प्रशस्तं तच्चैव नक्षत्रेष्टया सहैव च । अभिषेकविधिं वक्ष्ये सर्वाचार्यैरुदीरितम् । भद्रासनोपविष्टस्य यजमानस्य ऋत्विजः । दारपुत्रसमेतस्य कुर्युस्तस्याभिषेचनम् ॥ अक्षीभ्यामिति सूक्तेन Page #116 -------------------------------------------------------------------------- ________________ १०० मुहूर्तचिंतामणिः। [आश्लेषाजननशान्तिः पावमानीभिरेव च । आपोहिष्टेति नवभिरापइद्वाद्वयेन च ॥ सहस्राक्षतके मापि देवस्यत्वेति मंत्रकैः । शिवसंकल्पमंत्रेण वक्ष्यमाणैश्च मंत्रकैः ॥ योऽसौ वज्रधरो देवों महेंद्रो गजवाहनः । मूलजातशिशोर्दोष मातापित्रोयंपोहतु ॥ योऽसौ शक्तिधरो देवो हुतभुङ् मेषवाहनः। सप्तजिह्वश्च देवोऽग्निर्मूलदोषं व्यपोहतु ॥ योऽसौ दंडधरो देवो धर्मो महिषवाहनः । मूलजातशिशोर्दोष ग्यपोहतु यमो मम ॥ योऽसौ खड्गधरो देवो निती राक्षसाधिपः। प्रशामयतु मूलोत्थदोषं गंडांतसंभवम् ॥ योऽसौ पाशधरो देवो वरुणश्च जलेश्वरः । नक्रवाहः प्रचेताबो मूलोत्थाचं व्यपोहतु ॥ योऽसौ देवो जगत्प्राणो मारुतो मृगवाहनः। प्रशामयतु मूलोत्थं दोषं बालकशांतिदः ॥ योऽसौ निधिपतिदेवः खड्गभृद्वाजिवाहनः । मातापित्रोः शिशोश्चैव मूलदोषमपोहतु ॥ योऽसौ पशुपतिर्देवः पिनाकी वृषवाहनः । आश्लेषामूलगंडांतदोषमाशु व्यपोहतु ॥ विघ्नेशः क्षेत्रपो दुर्गा लोकपाला नवग्रहाः। सर्वदोषप्रशमनं सर्वे कुर्वन्तु शांतिदाः ॥ तच्छंयोरभिषेकं तु सर्वदोषोपशांतिदम् । सर्वकामप्रदं दिव्यं मंगलानां च मंगलम् ॥ वस्त्रांतरितकुंभाभ्यां पश्चात्तु नापयेत्ततः ॥ ततः शुक्लांबरधरः शुक्लमाल्यानुलेपनः । यजमानो दक्षिणाभिस्तोषयेदृत्विगादिकान् ॥ धेनुं पयस्विनीं दद्यादाचार्याय सवत्सकाम् । निर्ऋतिप्रतिमां वसं कुंभं हेम च दापयेत् ॥ ग्रहार्थं वस्त्रप्रतिमास्तत्तद्गोभूश्च दापयेत् ॥ श्रीरुद्रजापिने देयः कृष्णोऽनड्वान् प्रयत्नतः । तत्कुम्भवस्त्रप्रतिमास्तस्मै दद्यात्प्रयत्नतः ॥ इतरेभ्योऽपि विप्रेभ्यो दद्याच्छक्त्या च दक्षिणाम् । उक्तालाभे ततो दद्यादाचार्यब्रह्मऋत्विजाम् ॥ तत्तन्मूल्यं प्रदातव्यं शक्त्या वापि प्रदापयेत् । आचार्याय च यद्दत्तं तदर्धे ब्रह्मणे भवेत् ॥ सदस्याय ब्रह्मणोऽर्धमृत्विग्भ्यश्च तदर्धकम् । आशीश्च तेभ्यो गृह्णीयात्प्रणम्याथ क्षमापयेत् ॥ दद्यादझं पायसादि ब्राह्मणाभोजयेच्छतम् । अलाभे सति पंचाशद्दशकं तदभावतः ॥ सर्वशांतेश्च पठनं ब्राह्मणैराशिषस्तथा।गृही क्षमापयेद्विद्वान्निर्ऋतिःप्रीयतामिति ॥ विधाने चरितेऽस्मिंस्तु ततः शांतिर्भवेद् ध्रुवम् । गंडांतेऽप्येवं कर्तव्यं पुष्यार्धे तद्वदेव तु। समाष्टके द्वादशाहे कुर्याद्वा शांतिमादरात् । इत्युक्तं मनुना सम्यङ्मलजातहिताय च । मातापित्रोर्धनस्यापि बंधोः शोकोपशांतये ॥' इति श्रीशौनकप्रोक्तो मूलशांतिविधिः॥ . अथाश्लेषाशांतिविधिरुच्यते-'आश्लेषायां तु जातानां शांति वक्ष्याम्यतः परम् । जातस्य द्वादशाहे च शांतिहोम समाचरेत्.। असंभवे तु जन्मः अन्यस्मिन्वा शुभे दिने ॥ स्नातोऽभ्यंगादिभिस्तस्मिन्वरयेत्तु द्विजोत्तमान् । विभवे पंच कुंभांस्तु द्वयं वा तदलाभतः ॥ देवतास्थापने चैकमेकं रुद्राभिमंत्रणे ॥ मूलहॊक्तप्रकारेण कुंभे निक्षिप्य पूजयेत् ॥ गोमयालेपिते देशे धात्वाद्यैः परिशोभिते । पंकजं कारयेत्तत्र चतुर्विशद्दलान्वितम् ॥ तंदुलैः कारयेद्यद्वा रक्तपीतसितासितैः। कर्णिकायां न्यसेद्रीहीन्स्थापयेत्तेषु कुंभ. कम् ॥ आकलशेष्वित्यनया कलशस्थापनं शुभम् । इसमे इति मंत्रेण पूरये. Page #117 -------------------------------------------------------------------------- ________________ गंडांतजननशांतिः] नक्षत्रप्रकरणम् । तीर्थवारिणा ॥ कुंभं च वस्त्रगंधायैस्तत्तन्मत्रैश्च पूजयेत् ॥ याः फलिनीरित्यनया क्षिपेत्रौषधादिकान् ॥ कुंभोपरिस्थपात्रे तु आश्लेषाप्रतिमा प्रजेत् । निष्कनिष्कार्धपादैर्वा कारयित्वा स्वशक्तितः ॥ तत्पूर्वोत्तरनक्षत्रे दक्षिणोत्तरयोर्यजेत् । ऐंद्रादीशानपर्यंतमितराणि पूजयेत् ॥ मूलोक्तेन विधानेन कुंभयोरभिमंत्रणम् । रुद्रार्चा रुद्रकुंभे तु पूर्ववच्छेषमाचरेत् ॥ नमोऽस्तु सभ्य इति पूजामंत्र इतीरितः । सो रक्तस्त्रिनेत्रश्च द्विभुजः पीतवस्त्रकः ॥ फलकासिघरस्तीक्ष्णो दिव्याभरणभूषितः । एवं ध्यात्वा ततोऽभ्यर्च्य होमकर्म समाचरेत् ॥ कर्तुः शाखोक्तमार्गेण आचार्यस्याथवा चरेत् ॥ मुखांतं कर्म निर्माय हविरादाय शास्त्रतः । इदं सर्पेभ्यो जुहुयात्साधिप्रत्यधिदैवतम् ॥ अष्टोत्तरशतं वाथ अष्टाविंशतिमेव च । मूलनक्षत्रवच्छेषं होमशेष समापयेत् ॥ पूर्णाहुत्यंतकर्माणि कृत्वा संपातकं तथा । कुंभाजलं तु प्रक्षिप्य अभिषेकमथाचरेत् । दारपुत्रसमेतस्य यजमानस्य पूर्ववत् ॥ अभिषिंचेत्तदाचार्यऋत्विग्भिः सहितस्ततः ॥ अभिमंत्रितकुम्भाद्भिरभिषेचनमाचरेत् । तथा पौराणमंत्रैश्च पल्लवैरभिषेचयेत् ॥ आश्लेषाऋक्षजातस्य मातापित्रोर्धनस्य च । भ्रातृज्ञातिकुलस्थानां दोषं सर्व व्यपोहतु ॥ योऽसौ वागीश्वरो नाम अधिदेवो बृहस्पतिः । मातापित्रोः शिशोश्चैव गंडांतं च व्यपोहतु ॥ पितरः सर्वभूतानां रक्षतु पितरः सदा । सर्पनक्षत्रजातस्य वित्तं च ज्ञातिबांधवान् ॥ एवं कृतेऽभिषेके तु सर्पशांतिर्भवेढुवम् ॥ ततः शुक्लांबरधरो यजमानः सुभूषितः॥ दक्षिणाभिस्ततो विप्रान्मूलवच्च प्रतोषयेत् । भुक्तवयश्च विप्रेभ्यः स्वीकुर्यादाशिषं गृही ॥ इत्युक्तेन विधानेन सर्वारिष्टं व्यपोहति । सर्वे कामाश्च सिचंति वेदोक्तायुभविष्यति ॥ इत्युक्तं सर्पशांत्यर्थ सारमागमचोदितम् । मानवानां हितार्थाय मनुना सार्वकामिकम् ॥ साधीश नमस्तुभ्यं नागानां च गणाधिप । गृहाणायं मया दत्तं सारिष्टप्रशांतये ॥' इत्यर्घ्यमंत्रः । 'मूलनक्षत्रवत्कुर्यात्सर्पगंडे स्वनामतः' । इति श्रीमानवसंहितायामाश्लेषाशांतिविधिः । एतच मूलाश्लेषाशांतिकद्वयं विवाहे उपस्थिते श्वशुरस्य श्वश्वाश्च सत्त्वे मूलाश्लेषोत्पनयोरपि वधूवरयोस्तत्तदनिष्टनिवृत्त्यर्थं विधेयम् । उपलक्षणत्वाच्च ज्येष्ठाविशाखोत्पन्नाया वध्वा वरस्य ज्येष्ठबंधुकनिष्ठबंधुपीडाशांतये च । यदाह वसिष्ठः'नैर्ऋत्यभोद्भूतसुतः सुता वा क्षिप्रादवश्यं श्वशुरं निहंति । तदंत्यपादे जनिता निहंति नैवोत्क्रमेणाहिभवः कलत्रम् ॥' इति । अहिः आश्लेषा । अहिभव इति पुंस्त्वमविवक्षितम् । 'सुरेशताराजनिता धवाग्रजं द्विदैवताराजनिता तु देवरम्' इति । नारदोऽपि-'मूलजा श्वशुरं हंति व्यालजा च तदंगनाम् । ऐंद्री पत्यग्रजं हंति देवरं तु द्विदैवजा ॥ शांतिर्वा पुष्कला चेत्स्यात्तर्हि दोषो न कश्चन ॥' इति ॥ - अथान्याः शांतयः श्लोकक्रमेणोच्यते । तत्र तावन्नक्षत्रगंडांतशांतिविधिरुच्यते-'गंडशांतिं प्रवक्ष्यामि सोममंत्रेण भक्तिमान् । कांस्यपात्रं प्रकुर्वीत पलैः षोडशभिर्नवम् ॥ अष्टभिश्च चतुर्भिर्वा द्वाभ्यां वा शोभनं तथा । तन्मध्ये पायसं शंखे नवनीतेन पूरिते ॥ राजतं चंद्रमर्चेनु Page #118 -------------------------------------------------------------------------- ________________ १०२ मुहूर्तचिंतामणिः। [ज्येष्ठानक्षत्रजननशांतिः सितपुष्पसहस्त्रकैः । दैवज्ञः क्षौमवासाश्च शुक्लमाल्यांबरार्चितः ॥ सोमोऽहमिति संचिंत्य पूजां कुर्यादतंद्रितः । जपेत्साहस्रक मंत्रं श्रद्दधानः समाहितः ॥ आप्यायस्वेति मंत्रेण पूजां कुर्यात्समाहितः । दद्याद्वै दक्षिणामिष्टां गंडदोषप्रशांतये ॥ शुक्लं वागीश्वरं चैव ताम्रपात्रसमन्वितम् । गंडदोषोपशांत्ययं दद्याद्वेदविदे शुचिः ॥' इति श्रीमानवसंहितायां नक्षत्रगंडांतशांतिविधिः ॥ ॥ अथ नक्षत्रगंडांतलक्षणमन्यैर्मुनिभिरेवमुक्तम्'अश्विनीमघमूलादौ त्रिषट्कनवनाडिकाः । रेवतीसार्पशाक्रांते मासाश्च ऋतुसायकाः॥अश्विनीमघमूलादौ नाडिकाद्वितयं तथा। रेवतीसार्पशाक्रांते नाडिकाद्वितयं तथा ॥ अश्विनीमघमूलानां पूर्वार्धे बाध्यते पिता । पूषाहिशक्रपश्चार्धे जननी बाध्यते शिशोः ॥ पितृहा तु दिवाजातो रात्रिजातस्तु मातृहा । मात्मधुक संध्ययोर्जातो नास्ति गंडो निरामयः ॥ सर्वेषां गंडजातानां परित्यागो विधीयते । वर्जयेद्दर्शनं तावत्तञ्च पाण्मासिकं भवेत् ॥' इति ॥ __ अथ तिथिलग्नगंडांतशांतिविधिरुच्यते-'भभुक्तेतरजातस्य सूतकात्यदिने पिता । शांतिं शुभेऽह्नि वा कुर्यात्तावत्पुत्रं न लोकयेत् ॥ तिथिगंडे त्वनड्वाहं नक्षत्रे धेनुरुच्यते । कांचनं लग्नगंडे तु गंडदोषो विनश्यति ॥ आयभागे पितुर्गडं त्रयाणामभिषेचनम् । इतरत्र शिशोर्मातुरभिषेकं च कारयेत् ॥ उत्तरे तिलपात्रं स्यात्तिष्ये गोदानमुच्यते । अजाप्रदानं त्वाष्ट्रे च पूर्वाषाढे च कांचनम् ॥ उत्तरातिष्यचित्रासु पूर्वाषाढोद्भवस्य च । कुर्याच्छांतिं प्रयत्नेन नक्षत्राकारजां बुधः ॥ सुवर्णेन तदर्धेन यथावित्तानुसारतः । नक्षत्राधिपते रूपं कृत्वा वस्त्रद्वयान्वितम् ॥ वरुणस्यार्चनं कार्य स्वस्तिवाचनपूर्वकम् । शतौषधानि रत्नानि मृत्त्वपल्लवसंयुतान् ॥ पूजांते समिदनाज्योमं तिलयवैस्तथा । ततः पूर्णाहुति हुत्वा वेदाध्यायिकुटुंबिने ॥ उत्तराप्रथमे पादे तिलपात्रं तथैव च । तिष्ये तु गां सवत्सां च सुशीलां च पयस्विनीम् ॥ अजां चित्रासु वै दद्यात्पूर्वाषाढे तु कांचनम् । यवांश्च व्रीहिमाषांश्च तिलमुद्गांश्च दापयेत् ॥ यथा वित्तानुसारेण कुर्याद्राह्मणभोजनम् । पितुरायुष्यवृद्ध्यर्थ शांतिरत्र विधीयते ॥ एवं यः कुरुते सम्यक् शांतिकर्म समाहितः । न दोषैर्लिप्यते नूनं पद्मपत्रमिवांभसा ॥ आयुरारोग्यमैश्वर्य संप्राप्नोति दिने दिने । धनधान्यसमृद्धिं च पुत्रपौत्रसमृद्धिमान् ॥' इत्युत्तरगार्योक्ततिथ्यादिगंडांतशांतिविधिः ॥ .. अथ ज्येष्ठाशांतिविधिरुच्यते । तत्र प्रत्येकं घटिकाषट्कस्य फलान्याह भरद्वाजः-'ज्येष्ठादौ मातृजननी मातामहं द्वितीयके । तृतीये मातुलं हंति चतुर्थे जननी तथा ॥ आत्मानं पंचमे हंति षष्ठे गोत्रक्षयो भवेत् । सप्तमे कुलनाशः स्यादष्टमे ज्येष्ठसोदरम् । नवमे श्वशुरं हंति सर्वस्वं दशमे तथा ॥' इति । 'सुखासीनमृषिश्रेष्ठं गर्ग मुनिगणान्वितम् । कृतांजलिपुटो भूत्वा पप्रच्छ किल शौनकः ॥ शौनक उवाच-ज्येष्ठानक्षत्रसंभूतगंडदोषविनिर्णयम् । तस्य शांतिविधानं च वद मे मुनिसत्तम ॥ शौनकस्य वचः श्रुत्वा प्रत्युवाच महामुनिः । शृणु शौनक यत्नेन गंडदोषविनिर्णयम् ॥ तस्य Page #119 -------------------------------------------------------------------------- ________________ १०३ ज्येष्ठानक्षत्रजननशांतिः] नक्षत्रप्रकरणम् २ । शांतिविधानं च यथावत्कथयाम्यहम् । घटिकैका च मैत्रांते ज्येष्ठादौ घटिकाद्वयम् ॥ तयोः संधिरिति ज्ञेयं शिशुगंडं समीरितम् । प्रथमे च द्वितीये च ज्येष्ठः च तृतीयके ॥ पादत्रये जातनरः श्रेष्ठोऽप्यत्र प्रजायते । ज्येष्ठांत्यपादजातस्तु पितुः स्वस्य विनाशनः । जायते नात्र संदेहो दशाहाभ्यंतरे तथा । ज्येष्ठः कन्यका जाता हंति शीघ्रं धवाग्रजम् ॥ तच्छांतिं तस्य वक्ष्यामि गंडदोषप्रशांतये। सुदिने शुभनक्षत्रे चंद्रताराबलान्विते । सूतकांते तथा कुर्याज्येष्ठाशांतिं विधानतः । वज्रांकुशधरं देवमैरावतगजान्वितम् ॥ कुर्याच्छचीपति रम्यं देवेंद्र सुरनायकम् । कर्षमात्रसुवर्णेन कर्षार्धनाथ पादतः ॥ तद्विधानं प्रकुर्वीत वित्तशाठ्यं न कारयेत् । शालितंदुलसंपूर्णकुंभस्योपरि पूजयेत् ॥ इंद्रायेंदोमरुत्वते इति मंत्रेण वाग्यतः। गंधपुष्पैधूपदीपैर्नानाभक्ष्यनिवेदनैः ॥ पूजयेद्विधिना विप्र लोकपालगणान्वितम् । रक्तवस्त्रद्वयोपेतं पूजयेत्सुरनायकम् ॥ तत्र संस्थापयेत्कुंभांश्चतुर्दिक्षु विशेषतः । पुण्योदकसमायुक्तान् वस्त्रयुग्मेन वेष्टितान् ॥ तन्मध्ये स्थापयेत्कुंभं शतच्छिद्रसमन्वितम् ॥ कुंभेषु विन्यसेद्धीमान पंचगव्यं समंत्रकम् । पंचामृतं पंचरत्नं मृत्तिकाः पंचसंख्यकाः । पंचवृक्षकषायांश्च पंचपल्लवकांस्तथा ॥ सुवर्णकुशदूर्वाश्च शतौषधिं विनिक्षिपेत् । पूजयेद्वारुणैर्मत्रैः कुंभान्धीमान्प्रयत्नतः ॥ त्वं नो अग्ने जपेदादौ सत्वं नोऽपि द्वितीयकम् । समुद्रज्येष्ठा इति चेमं मे गंगे चतुर्थकम् ॥ पूजयेद्वस्त्रयुग्माद्यैश्चतुरः कलशानपि । जपं कुर्युः प्रयत्नेन मंत्रैरेभिर्द्विजोत्तमाः ॥ आनोभद्राजपं चादौ भद्राअग्नेर्द्वितीयकम् । इंद्रसूक्तं रुद्रजाप्यं जपं मृत्युंजयं ततः ॥ इत्थं संपूज्य देवेशं वरुणं कुंभसंस्थितम् । सुसंकल्पविधानेन होमकर्म ततश्चरेत् ॥ समिद्भिर्ब्रह्मवृक्षस्य शतमष्टोत्तरं तथा । सर्पिषा चरुणा चैव मूलमंत्रेण वाग्यतः ॥ हुनेजाप्यं च तेनैव यतइंद्रभयेति च । तिलान् व्याहृतिभिर्तुत्वा शतमष्टोत्तरं पृथक् ॥ भार्याशिशुसमोपेतं यजमानं विशेषतः। अभिषेकं प्रकुर्वीत सूक्तैर्वारुणसंज्ञितैः ॥ समुद्रज्येष्ठादिभिर्मरिमं मे वरुणस्तथा। द्यौः शांतेत्यादिभिर्मत्रैरभिषेकं समाचरेत् ॥ अभिषेकनिवृत्तौ तु यजमानः समाहितः। शुक्लांबराणि धृत्वा च कुर्यादाज्यावलोकनम् ॥ रूपंरूपेति मंत्रेण चित्रं तच्चक्षुरेव च । देवतापुरतः स्थित्वा धूपदीपनिवेदनम् ॥ दद्यादाचमनं सम्यक् तांबूलाचं तथैव च । नमस्ते सुरनाथाय नमस्तुभ्यं शचीपते ॥ गृहाणायं मया दत्तं गंडदोषप्रशांतये। कार्य तत्पूजकादीनां कारितं यत्फलं शुभम् ॥ लब्ध्वा तु तत्फलं सर्व देवेंद्राय समर्पयेत् । आचार्याय च गां दद्यात्सुशीलां च पयस्विनीम् ॥ रक्तवर्णा वत्सयुतां सर्वालंकारभूषिताम् । वस्त्रयुग्मपिधानां च यथाविभवसारतः ॥ यक्षगंधर्वसिद्धैश्च पूजितोऽसि शचीपते । दानेनानेन देवेश गंडदोषं विनाशय ॥ अष्टोत्तरशतं संख्यां कुर्याद्राह्मणभोजनम् । तेभ्योऽपि दक्षिणां दत्त्वा प्रणिपत्य क्षमापयेत् ॥ ज्येष्ठाशांतिमिमां कृत्वा यथाविध्युक्तमार्गतः। गंडदोषं विनिर्जित्य आयुष्मान् जायते नरः ॥ इत्युक्तं वृद्धगाग्र्येण शौनकाय विशेषतः । ज्येष्ठानक्षत्रसंभूतगंडदोषप्रशांतये ॥ अज्ञानाद्वाऽथवा ज्ञानाद्वैकल्याद्वा धनस्य Page #120 -------------------------------------------------------------------------- ________________ १०४ मुहूर्तचिंतामणिः। [ सूर्यसंक्रांत्यादिजन्मशांतिः च । यम्यूनमतिरिक्तं च तत्सर्व क्षेतुमर्हसि ॥' इति श्रीवृद्धगार्ग्यसंहितायां ज्येष्ठानक्षत्रप्रसूतिशांतिः ॥ .. अथ शूलयोगस्य महागणितसाध्ययोतिव्यतीपाताख्ययोः पातयोश्च परिघव्याघातगंडावमानां च भद्रायाश्च वज्रस्य यमघंटस्य मृत्युयोगदग्धयोगयोश्च शांतिविधिरभिधीयते –'अथातः संप्रवक्ष्यामि जन्मकाले विशेषतः। गंडांतानां च नामानि महादोषकराणि च ॥ दिनक्षये व्यतीपाते व्याघाते विष्टिवैश्तौ । शूले गंडे च परिघे वज्रे च यमघंटके ॥ कालगंडे मृत्युयोगे दग्धयोगे सुदारुणे। तस्मिन्गंडदिने प्राप्ते प्रसूतिर्यदि जायते ॥ अतिदोषकरी प्रोक्ता तत्र पापयुते सति । विचार्य तत्र दैवज्ञान शांतिं कुर्यायथाविधि ॥ यजनं देवतानां च ग्रहाणां चैव पूजनम् ॥ दीपं शिवालये भक्त्या घृतेन परिदापयेत् ॥ अभिषेकं शंकराय अश्वत्थस्य प्रदक्षिणम् । आयुवृद्धिकरं जाप्यं सर्वारिष्टविनाशनम् ॥ गुरुदैवतविप्राणां पूजनं गोत्रवर्धनम् । पुष्टयायुस्तुष्टिशांत्यर्थमभीष्टफलसिद्धये ॥ सर्वारिष्टपरीहारार्थाय यज्ञं समाचरेत् । शिवाय विधिवद्भक्त्या दीपदानं करोति यः ॥ अखंडं गोघृतेनैव स वै मृत्युं जयेन्नरः । विष्णुमूर्ति महापुण्यमश्वत्थं श्रीकरं सदा । प्रदक्षिणं नरो भक्त्या कृत्वा मृत्युंजय जपेत् । सर्वसंपत्समृद्ध्यर्थं नित्यं कल्याणवृद्धये ॥ अभीष्टफलसिद्ध्यर्थ कुर्याद्राह्मणभोजनम् । अभिषेकं शिवे शांतिं कृत्वा भक्त्या नरोत्तमः ॥ अकालमृत्युं निर्जित्य दीर्घायुर्जायते नरः। गाणपत्यं पुरुषसूक्तं सौरं मृत्युंजयं शुभम् ॥ शांतिजाप्यं पुनश्चैव कृत्वा मृत्युंजयी भवेत् । मूले वा सार्पगंडे वा कुर्यादेतानि यत्नतः । आयुर्वृद्धिकरार्थाय गंडदोषप्रशांतये ॥' इति श्रीउत्तरगार्ग्यप्रोक्तशूलादिदुष्टयोगशांतिविधिः॥ ___ अथ सूर्यसंक्रांतिव्यतीपातवैधृतियोगानां शांतिरभिधीयते'अथातः संप्रवक्ष्यामि जन्मकाले विशेषतः । वैश्तौ च व्यतीपाते महादोषोऽभिजायते ॥ कुमारजन्मकाले तु व्यतीपातश्च वैधतिः । संक्रांतिश्च रवेस्तत्र जातो दारिद्यकारकः ॥ दरिद्राणां महदुःखं व्याधिपीडा महद्भयम् । अश्रियं मृत्युमामोति नात्र कार्या विचारणा ॥ स्त्रीणां च शोको दुःखं च सर्वनाशकरं भवेत् । शांतिर्वा पुष्कला चेत्स्यात्तत्र दोषो न कश्चन ॥ गोमुखप्रसवं कुर्याच्छांतिं कुर्यात्प्रयत्नतः। जपाभिषेकदानैश्च होमादपि विशेषतः ॥ नवग्रहमुखं कुर्यात्तस्य दोषोपशांतये । प्रथमं गोमुखाजन्म ततः शांति समाचरेत् ॥ गृहस्य पूर्वदिग्भागे गोमयेनानुलिप्य च । स्खलंकृतप्रदेशे तु व्रीहिराशिं प्रकल्पयेत् ॥ पंचद्रोणमितं धान्यं तदर्ध तंडुलेन च । तदधं तु तिलैः कुर्यादन्योन्योपरि कल्पयेत् ॥ द्रव्यत्रितयराशौ तु अष्टपत्रं लिखेबुधः । पुण्याहं वाचयित्वा तु आचार्य वृणुयात्पुरा ॥ आचारवंतं धर्मज्ञं कुलिनं च कुटुंबिनम् । मंत्रतत्त्वार्थतत्त्वशं शांतिकर्मणि कोविदम् ॥ पंचांगं भूषणं दद्यापट्टवस्त्रांगुलीयकम् । राशौ प्रतिष्ठितं कुंभमवणं सुमनोहरम् ॥ तीर्थोदकेन संपूर्य समृदौषधिपल्लवम् । पंचगव्यं पंचरत्नं वस्त्रयुग्मेन वेष्टयेत् ॥ तस्योपरि न्यसेत्पानं सूक्ष्मवस्त्रेण संयुतम् । प्रतिमा स्थापयेद्धीमान्साधिप्रत्यधिदेवताम् ॥ Page #121 -------------------------------------------------------------------------- ________________ दर्शादिप्रसूतौ शांतिः] नक्षत्रप्रकरणम् । चंद्रादित्याकृती पार्श्वे मध्ये वैधतिमर्चयेत् । एवमेव व्यतीपातशांती संक्रमणस्य च ॥ भानोरुत्तरतो रुद्रमग्निं दक्षिणतो यजेत् । निष्कमात्रेण वार्धेन पादेनापि स्वशक्तितः ॥ प्रतिमाः कारयेद्धीमांस्तत्तल्लक्षणलक्षिताः । प्रतिमापूजनार्थाय वस्त्रयुग्मं निवेदयेत् । अधिदैवं भवेत्सूर्यचंद्रः प्रत्यधिदैवतम् । तत्तव्याहृतिपूर्वेण तत्तन्मंत्रेण पूजयेत् ॥ त्रयंबकेन मंत्रेण प्रधानप्रतिमा यजेत् । उत्सूर्य इति मंत्रेण सूर्यपूजा समाचरेत् ॥ आप्यायस्वेति मंत्रण सोमपूजा समाचरेत् । उपचारैः षोडशभिर्यद्वा पंचोपचारकैः ॥ अर्चितं गंधपुष्पाद्यैर्गुडनैवेद्यमर्पयेत् । मृत्युंजयेन मंत्रेण प्रधानप्रतिमां स्पृशन् ॥ अष्टोत्तरसहस्रं वा अष्टोत्तरशतं तु वा । अष्टाविंशति वा चाथ प्रजप्याथ स्वशक्तितः । सर्वसौरं प्रजप्याथ सोमार्थ सोममंत्रतः । आनोभद्रेतिसूक्तं च भद्राअग्नेश्च सूक्तकम् ॥ जपेञ्च पौरुषं सूक्तं त्रैयंबकमतः परम् । कुंभं स्पृष्ट्वा चतु. दिक्षु जपं कुर्युस्त्वर्विजः ॥ कुंभस्य पश्चिमे देशे स्थंडिलेऽग्निं प्रकल्पयेत् । स्वगृह्योक्तविधानेन कारयेत्संस्कृतानलम् ॥ त्रयंबकेण मंत्रेण समिदाज्यचरू न्हुनेत् । अष्टोत्तरसहस्रं वा अष्टोत्तरशतं तु वा ॥ अष्टाविंशति वा कुर्यात्स्वस्वशक्त्यनुसारतः । मृत्युंजयेन मंत्रेण तिलहोम समाचरेत् । ततः स्विष्टकृतं हुत्वा मभिषेकं च कारयेत् । समुद्रज्येष्ठाःसूक्तेन आपोहिष्ठातृचेन च ॥अक्षीभ्यामिति सूक्तेन पावमानीभिरेव च । त्रैयंबकेण उत्सूर्य आप्यायस्वेति मंत्रतः ॥ सुरास्त्वामिति मंत्रेण अभिषेकं समाचरेत् । अभिषेकाप्लुतं वस्त्रमाचार्याय प्रदापयेत् ॥ श्वेतवस्त्रधरो भूत्वा भूषणाद्यैरलंकृतः। यजमानः स्त्रिया युक्त आज्यावेक्षणमाचरेत् ॥ आचार्य पूजयेत्पश्चाद्वस्त्रहेमांगुलीयकैः । गोदानं वस्त्रदानं च स्वर्णदानं विशेषतः ॥ तद्दोषशमनार्थाय आचार्याय प्रदापयेत् । प्रच्छादनपटं दद्यात्ततः शांतिर्भविष्यति ॥ जापकेभ्यो ब्राह्मणेभ्यो दक्षिणाभिश्च तोषयेत् । दीनांधकृपणेभ्यश्च प्रदद्याद्भूरिदक्षिणाः ॥ ब्राह्मणान् शतसंख्याकामिष्टान्नैर्भोजयेच्च तान् । बंधुभिः सह भुंजीत यथाविभवसारतः । एवं यः कुरुते मयों नैव दुःखमवाप्नुयात् ॥ आयुरारोग्यमैश्वर्य मातापित्रोः शिशोरपि॥ सर्वदुःखनिवृत्त्यर्थं पुत्रपौत्रप्रवर्धनम् । सर्वान्कामानवाप्नोति शांतिं कुर्वन् हि मानवः ॥' इति श्रीउत्तरगार्योक्तव्यतीपातवैधतिसंक्रांतिशांतिविधिः ॥ • अथ कुहूसिनीवालीदर्शशांतिरुच्यते । तत्रेयमुपपत्तिः-यत्रिविधो दर्शः कुहूरूपः सिनीवालीरूप उभयलक्षणव्यतिरिक्तश्चेति । यतो द्विविधामावास्या । 'अमावास्या त्वमावस्या दर्शः सूर्यंदुसंगमः । स्यादृष्टेदुः सिनीवाली सा नष्टंदुकला कुहूः॥' इत्यमरोक्तेः। 'निशि चंद्रवती सा तु पूर्णिमानुमतिश्च सा। दिवा चंद्रवती राका तद्वदेव द्विधाप्यमा । सिनीवाली चंद्रवती नष्टचंद्रा कुहूर्मता' इति कश्यपोक्तेश्चामावास्याया द्विविधत्वमेवावसीयते । युक्तं चैतत्, दृष्टचंद्रात्वं नष्टचंद्रात्वं वाऽमावास्यायाः संभवति न पुनरुभयाभावेन तृतीयाऽमावास्येति । नन्विदमप्ययुक्तं, यतो रवेदिशांशविप्रकर्षे चंद्रदर्शनं कालांशवशेनोक्तम् । तदाह भास्करः-'दख्दवः शैलभुवश्व शक्रा रुद्राः खचंद्रा Page #122 -------------------------------------------------------------------------- ________________ १०६ · मुहूर्तचिंतामणिः। [अमावास्याकुहूविचारः स्तिथयः क्रमेण । चंद्रादितः काललवा निरुक्ता ज्ञशुक्रयोर्वक्रगतौ द्विहीनाः ॥' इति । द्वादशांशमितेन चांतरेणामावास्यालक्षणस्य तिथेर्निष्पत्तिः । उक्तं च सूर्यसिद्धांते-'अर्काद्विनिःसृतः प्राची यद्यात्यहरहः शशी । तच्चांद्रमानमंशस्तु ज्ञेयो द्वादशभिस्तिथिः ॥' इति । एवं च कथं दृष्टचंद्रा सिनीवालीत्युक्तं, कथं च नष्टचंद्रा कुहूरिति, कथं चानयोर्भेद इति विनाप्रयोजनं चैकस्य वस्तुनोऽनेकसंज्ञाकरणं न युक्तमिति चेत् । उच्यते-'नहि कालांशवशेन ग्रहाणामस्तोदयौ, किं तर्हि क्षेत्रांशवशेन । तदुक्तं सूर्यसिद्धांते-'अष्टादशशताभ्यस्ता दृश्यांशाः स्वोदयांशुभिः । विभज्य लब्धं क्षेत्रांशास्तैदृश्यादृश्यता मता ॥' इति । तथा च-'सूर्यास्तकालिको पश्चात्प्राच्यामुदयकालिकौ । दिवाकरग्रही कुर्यादृकर्माथ ग्रहस्य तु ॥' इत्यादिना प्रकारेण द्विविधटक्कर्मसंस्कारसंस्कृताचंदादेः राश्युदयवैषम्येण देशभेदेन चाऽनियतत्वात्कदाचिदमावास्यायामपि साधैर्दशभिरंशैरंतरितश्चंद्रो दर्शनगोचरो भवति । कदाचित्षोडशांशांतरितो द्वितीयायामपि चंद्रो दृग्गोचरो न भवति । एवमेव कदाचिञ्चतुर्दशीशेषे च न दृश्यते । कदाचिदल्पावशिष्टायां प्रतिपद्यपि दृश्यते । अत एव गर्गेण प्रतिपदुदितस्य चंद्रस्य फलविशेषोऽभिहितः। तथा च गर्गसंहितायाम्-'यदा चंद्रः प्रतिपदि नौस्थाय संप्रदृश्यते। उत्तरोज्जवलशंगः स्यात्स्निग्धश्चातिमनोहरः। क्षेमं सुभिक्षमारोग्यं सर्वभूतेषु निर्दिशेत् ॥' इति । अतएव भारविणापि'प्रणमन्त्यनपायमुत्थितं प्रतिपच्चंद्रमिव प्रजा नृपम्' इति किरातार्जुनीये प्रयुक्तम् । अत्रैतस्य टीकाकाराः प्रतिपच्छब्देन प्रतिपत्सहचरिता द्वितीया गृह्यते । प्रतिपदि चंद्रदर्शनाभावादिति व्याचख्युस्ते चिंत्योक्तयो ध्येयाः । ननु प्रतिपदि चंद्रोदय उत्पातस्तदर्शनमशुभफलमिति चेन्न । गणितविसंवादिबुधादिदर्शनं गणितज्ञानाशक्यमेव, केत्वादिदर्शनं चोत्पात इति तल्लक्षणं प्रागुक्तं मया । चंद्रोदयस्तु कदापि गणितं न व्यभिचरति इति प्रत्यक्षदर्शनात् प्रतिपदुदितचंद्रस्य गर्गेण प्रशस्तफलाभिधानाच्च । नद्युत्पातानां समीचीनं फलं कुत्राप्युक्तं स्वर्तुजानुत्पातान्विहाय वचनात् । येन प्रतिपदि चंद्रोदय उत्पात इत्युच्यते तेन चतुर्दशीशेषेप्रातश्चंद्रोदयाभावे ह्युत्पातो वाच्य इति। तच्चायुक्तं उक्तादेव हेतोः । तस्मात् क्षेत्रांशवशेनैव ग्रहाणामस्तोदयौ भवतः । कालांशोक्तिस्तु क्षेत्रांशनिदानभूतत्वाय सामान्यत उदयास्तज्ञानसिद्ध्यै च। तदेतपितृचरणैस्तोडरानंदे चंद्रचारविलासे सम्यक् प्रतिपादितं । तस्मादृकर्मसंस्कारवशेन चतुर्दशीशेषे प्रातश्चंद्रोदये दृश्यते न दृश्यते च । एवं प्रातरमावास्यायामपि चंद्रोदयो न दृश्यते दृश्यते च । तस्मात्सुष्ठूक्तम्-'स्यादृष्टंदुः सिनीवाली सा नष्टेंदुकला कुहूः' इति । 'तद्वदेव द्विधा ह्यमा । सिनीवाली चंद्रवती नष्टचंद्रा कुहूर्मता।' इति कश्यपोऽपि द्विधैवामावास्येत्याह स । तस्मादिदं युक्तमेव । यद्यमावास्यायां चंद्रो दृश्यते तदामावास्या सिनीवाली, यदा चंद्रोऽमावास्थायां न दृश्यते तदा कुहूरिति। परंत्विदमयुक्तम् । यदुभयराहित्येनामावास्यांतरमप्यस्तीति । असंभवात् । अत्र समाधिं वैदिकास्तावदाहुः यस्याः कस्या Page #123 -------------------------------------------------------------------------- ________________ दर्शादिप्रसूतौ शांतिः ] नक्षत्रप्रकरणम् २। श्चिदमावास्याया अष्टौ विभागान् कृत्वा प्रथमविभागे चंद्रदर्शनमस्ति नवेति । यदा चंद्रदर्शनं तदा सिनीवाली, यदा चंद्रदर्शनं तदामावास्या, सकलचंद्रक्षये कुहूरिति । तदेतदुक्तं छंदोगपरिशिष्टे 'इंदुक्षयकालः श्राद्धकाल' इति प्रस्तुत्येंदुक्षयकालपरिमाणमुक्तम्- 'अष्टमेंऽशे चतुर्दश्याः क्षीणो भवति चंद्रमाः । अमावास्याष्टमे भागे पुनः किल भवेदणुः ॥ आग्रहायण्यमावास्या तथा ज्येष्ठस्य या भवेत् । विशेषमाभ्यां ब्रुवते चंद्रचारविदो जनाः ॥ अत्रें दुराधे प्रहरेऽवतिष्ठते चतुर्थभागोन कलावशिष्टः । तदंत एव क्षयमेति कृत्स्न एवं ज्योतिश्चक्रविदो वदति ॥' इति । आभ्यामिति ल्यब्लोपे पंचमी। एते अमावास्ये प्रकृत्येत्यर्थः । एतत्कारिकात्रयं तद्भाष्यकारेण व्याख्यातम् - ' प्रहरनवात्मकश्चंद्रक्षयकालः' इति । तत्रामायाः सप्तमाष्टमयामौ कृत्स्त्रक्षयकालः चतुर्दशीशेषयामदर्शादियामौ चंद्रसूक्ष्मताकाल इति । पुनः किलशब्दाभ्यामयमर्थो द्योत्यते । चतुर्दश्यां क्षैण्यं सूक्ष्मं अमात्यभागे कृत्स्त्रक्षयकाल इति । अमावास्याविशेषे ज्येष्ठादवमाद्ययामे चंद्रो दृश्यत इत्यर्थः । ज्योतिश्चक्रविद इत्यस्यार्थः पितृचरणैरभिहितः । देशकालगणनाकुशला यथा गणयंति तदेवांगीकार्यमिति सूच्यते । ततश्च ज्येष्ठादिकालभिन्नकालेऽप्येवंविधोपलंभः ज्येष्ठादौ च नोपलंभो देशकालभेदेन संभवतीति । तदयमत्र विषयविवेकःयस्याममावास्यायां प्रथमे प्रहरे शास्त्रात्प्रत्यक्षतो वा चंद्रदर्शनं स्यात्सा सिनी - वाली सर्ववादिसिद्धा । तत्रोत्पन्नस्य सिनीवालीजननफलमादेश्यं सिनीवाली - प्रयुक्ता शांतिश्च विधेया । अथ तस्यामेवामावास्यायां यदा नष्टेंदुकलावं स्यात्तदा कुहूरिति । तन्त्रैकस्याश्चंद्रकलायाः किंचिन्नाशो वाखिलनाशो वेति संदेहे विनिगमनाविरहात्कृत्स्नकलाक्षय एव विवक्षितो मुख्यत्वात् । यत्किंचिन्नाशस्त्वपचीयमानत्वाद्गौणः 'गौणमुख्ययोर्मुख्ये कार्यसंप्रत्ययः' इति न्यायान्मुख्यस्यैव ग्रहणं युक्तं । स च कृत्स्त्रक्षयकालोऽमावास्यांतिमक्षण एव । तस्य चातिसूक्ष्मत्वाद्दुर्ज्ञानत्वात्संक्रांति कालवदित्यमावास्यायाः सप्तमाष्टमप्रहरयोः कृत्स्नक्षयकालस्य भाष्यकारेण परिभाषितत्वात्सप्तमाष्टमप्रहरात्मकः कालः कुहूशब्दवाच्यः । तत्रोत्पन्नस्य कुहूजननफलं तच्छांतिश्चादेश्या । पुनस्तस्यामेवामावास्यायां प्रथमप्रहरादनंतरं सप्तमप्रहरादर्वाक् प्रहरपंचकात्मकः कालो दर्शशब्दवाच्यः । इति तन्रोत्पन्नस्य दर्शजननफलं तच्छांतिश्चादेश्या । एवमेकस्यामेवामावास्यायां कालभेदेन त्र्यं संभवति । यदा त्वमावास्यायां चंद्रदर्शनाऽभावः तदा द्वयमेव दर्शत्वकुहुत्वरूपं संभवति । अत्र केचित्सिनीवाल्यां विशेषमाहुः - चतुर्दशीशेषे सूर्योदयात्प्राक् चंद्रदर्शने जाते सति परदिने याऽमावास्या सा सिनीवाली । तथा च जगन्मोहने बौधायन इत्युक्त्वा पठितम् — 'मध्याह्नसमयं यावच्चतुर्दश्यनुवर्तते । सिनीवालीति सा त्वेषा पितृकर्मणि शस्यते ॥' इति । धर्मशास्त्रेऽप्येतादृशानि भूयांसि वचनानि संति, तेषामिदं श्राद्धकालनिर्णयोपयोगि पारिभाषिकं सिनीवालीत्वं न पुनर्जननादौ । कृतः ? निरुक्तिविरोधात् । तथा हि- 'दृष्टेदुः सिनीवाली' इत्यादिवाक्येषु दृष्टचंद्रो यस्यां सा सिनीवालीति बहुव्रीहिः । स च ' अनेकमन्यपदार्थे' इति विहित १०७ Page #124 -------------------------------------------------------------------------- ________________ मुहूर्तचिंतामणिः । [ अमावास्याकुलक्षणं स्तत्रान्यपदार्थतयोपस्थिताऽमावास्यैव गृह्यते प्रकरणात् । नं चैवं सति चतुर्दश्यां चंद्रोदये सिनीवालीत्वं स्यात् । दृष्टचंद्रा सिनीवालीत्येतावतैव लक्षणेन सर्वासामपि दृष्टेंदुत्वात्सिनीवालीत्वे तच्छांतिकोक्तिरनर्थिका स्यात् । ननुच दृष्टश्चंद्रो यस्यामित्यन्यपदार्थे सप्तमी सामीप्यपरेति व्याख्यायते इति चेन्न । तस्याः सामीप्यसप्तम्या गौणाधारपरत्वात् मुख्यासंभवे हि गौणग्रहणं युक्तम् । अत्र तु मुख्य एवाधारः संभवत्यमावास्यारूप इति गृह्यते । 'गौणमुख्ययोमुख्ये कार्य संप्रत्ययः' इति न्यायात् । ननु दृष्टश्चंद्रो यस्या इति षष्ठ्यतेऽन्यपदार्थे बहुव्रीहौ संबंधमात्रं मुख्य एव षष्ठ्यर्थ इति सामीप्यसंबंधवाचिषष्ठ्यंतेऽन्यपदार्थे बहुव्रीहिरयं भविष्यतीति चेत् । सामीप्यादिसंबंधे मत्वर्थीयः प्रत्ययो बहुव्रीहिर्वा न कैरपि वैयाकरणैरिष्यते । तदेतत् ' तदस्यास्त्यस्मिन्निति मतुप्’ इत्यत्र महाभाष्यकारेण प्रत्यपादि । ननुच येष्वपि - 'कुहूः सिनीवाल्यपि नष्टदृष्टे चंद्रे स्मृते चासितपंचदश्यौ' इत्यादिवाक्येषु बहुव्रीहिनिर्देशो मतुनि - देशो वा नास्ति, तत्र कृष्णचतुर्दश्यामपि चंद्रोदयस्य दृष्टत्वादमावास्यायाः सिनीवालीति संज्ञा स्यादिति चेन्न । संभवति सामानाधिकरण्ये वैयधिकरव्यस्यान्याय्यत्वात् चंद्रोदयसमानाधिकरणामावास्याग्रहणस्यैव युक्तत्वात् । किंच सिनीपदेन श्वेतचंद्रकलोच्यते । सितशब्दः श्वेतवर्णवाची तस्मात्स्त्रियाम् । 'वर्णादनुदात्तात्तोपधात्तोन:' इति ङीप्नकारौ । सिनी तां वलते प्राप्नोतीति सिनीवालीति व्युत्पत्तिश्चतुर्दश्युदितचंद्राश्रयायाममावास्यायां न युज्यते 'कृत्तद्धितसमासानामभिधानं नियामकम्' इति भाष्यकारस्मरणादिति । तस्मादृष्टेदुः सिनीवालीत्यमावास्यैवाभिधीयते इति यत्प्रागुक्तं तदेव ज्यायः । एवमेकस्यामेवामावास्यायां सिनीवाली - कुहू -दर्शरूपं भेदत्रयं युक्तम् । अथ सिद्धांतविदोऽन्यथा समादधुः । तत्र 'स्याद्दृष्टेदुः सिनीवाली सा नष्टेंदुकला कुहूः' इत्यादिषु हि दर्शनशब्देन चाक्षुषं दर्शनं विवक्षितं, तच्चोदयास्ताधिकाररीत्या दर्शनयोग्यत्वे सति पूर्वक्षितिजक्रांतिवृत्त संबंधवत्त्वं ग्रहादेर्दर्शनशब्दवाच्यम् । मेघाद्यावरणे हि शास्त्रीये दर्शने दृशिर्वर्तते । 'आत्मा द्रष्टव्यः' इत्यादिवत् । अत्रार्थे 'पश्याथैश्वानालोचने' इति पाणिनिरप्यनुकूलः । अतो भास्करेणाप्युक्तम् — 'निजनिजोदयलग्नसमुद्गमे समुदयोऽपि भवेद्भनभःसदाम्' । इति । तयैव रीत्या दर्शनायोग्यत्वे पूर्वक्षितिज - क्रांतिवृत्तसंबंधवत्त्वमदर्शनशब्दवाच्यम् । यत्तु - ' भवति चास्तविलग्नसमुद्गमे प्रतिदिनेऽस्तमयः प्रवहभ्रमात्' इति भास्करेणोक्तम्, तद्भनभःसदां क्रांतिवृत्तपश्चिमक्षितिजसन्निधिवशेनास्तलक्षणमुक्तं नतु पूर्वक्षितिजे दर्शनाभाव १०८ १ अस्यार्थः एवं सति ( प्रकरण | दमावास्याया अन्यपदार्थत्वेन ग्रहणे ) चतुर्दश्यां चंद्रोदये ( जाते रात्रौ अमावास्यायाः सिनीवालीत्वं ( केचित्सिनीवाल्यां इत्यादिरीत्या प्रागुक्तं ) न च स्यात् । ( नैव भवति ) किंच ' दृष्टचंद्रा ( अमावास्या ) सिनीवाली' 'एतावतैव लक्षणेन सर्वासामपि ( सर्वविधामावास्यानामपि ) दृष्टदुत्वात्सिनीवालीत्वे (सिनीवालीसंज्ञायां प्राप्तायां सत्यां ) तच्छांतिकोक्तिः ( दर्शकुहूशांतिकविधानं) अनर्थिका स्यात्, सर्वासामपि सिनीवालीत्वेन दर्शकुहूसंज्ञानामेवाभावात् । तस्मात्केचिन्मतोक्तं सिनीवालीत्वं जननादौ नोपयुज्यते इति । Page #125 -------------------------------------------------------------------------- ________________ कुहूप्रसूतिशान्तिः] नक्षत्रप्रकरणम् २ । १०९ लक्षणमिति मयोक्तं दर्शनाभावलक्षणम् । अतो दर्शनलक्षणवत्यमावास्या सिनीवालीनाम । अदर्शनलक्षणवत्यमावास्या कुहूर्नाम । लक्षणद्वयानाक्रांता अमावास्या दर्शशब्दवाच्या इति । यदा खल्वमावास्या सूर्योदयात्प्राग्घटिकात्रयवती तदा दृकर्मसंस्कारवशेन चंद्रस्य दृश्यत्वमागतं चेत्तदा सा संपूर्णामावास्या सिनीवालीनाम । तादृश्याममायां द्वितीयसूर्योदयावधिकायामुत्पन्नस्यारिष्टशांतये सिनीवालीशांतिस्तत्फलं चादेश्यम् । अतिवृद्धौ वा तस्या अमावास्याया द्वितीयसूर्योदयानंतरमवशिष्टामावास्याघटीपूत्पन्नस्य कुहूशांतिरेव, चंद्रादर्शनलक्षणसत्वात् । यदि सैवामावास्या सूर्योदयात्प्राग्घटिकात्रयं घटिकाचतुष्टयं वा प्रतिपत्संबद्धा तदा सिनीवाल्येव । अथ तादृश्यामेव न्यूनायां वाऽधिकायां वाऽमावास्थायां तु दृकर्मसंस्कारवशेन चंद्रस्यादृश्यत्वमागतं सामावास्या संपूर्णा कुहूर्नाम चंद्रादर्शनलक्षणसत्त्वादेव । तत्र कुहूजननफलं शांतिश्चादेश्या । यदा तु सूर्योदयानंतरं कियतीषु घटीष्वतिक्रांतास्वमावास्याप्रवृत्तिस्ततः पूर्वं च चतुर्दश्येवावस्थिता तस्यामुषसि दृकर्मवशतश्चंद्रो दृष्टो मा वा दर्शि तथाप्यमावास्यायां चन्द्रदर्शनादर्शनलक्षणानाक्रांतत्वात्सामावास्या संपूर्णा दर्शो नाम । तत्र दर्शजननफलं शांतिश्च विधेयेति । एवममावास्याभेदेन सिनीवालीकुहूदर्शरूपसंज्ञानयं सावकाशमित्यस्मन्मतम् ॥अथ सुगमप्रकारेण भेदत्रयं ब्रूमः ॥ तत्र सिनीवाली सर्ववादिसिद्धा सैव । कुहूस्तु प्रकारांतरेण पारिभाषिकी । यदाह वसिष्ठः-'नक्षत्रे यस्य दर्शातो विषनाड्यां भवेद्यदि । कुहूयोग इति ख्यातो व्याधिमृत्युभयादिकृत् ॥' इति । अयमर्थः-यस्मिन्नक्षत्रे या विषनाड्य उक्तास्तस्मिन्काले यदि दर्शस्य समाप्तिदर्शचरमनाडी भवेत् तनक्षत्रं यस्य पुरुषस्य जन्मक्षे जन्मकाले कालांतरे वा स्यात्तस्य पुंसो व्याधिमृत्युभयकृत्कुहूयोगो ध्येयः । तत्र कुहूजननफलं शांतिश्च स्यात् । कालांतरेऽपि कुहूयोगसंभवे शांतिर्विधेया । अत्र कुहूयोगे विशेषमाह स एव-'कुहूः स्याद्यदि जन्मांशे षण्मासान्मृत्युमामुयात् । जन्मलग्नेऽथ जन्मांशे मृत्युर्मासत्रयाद्भवेत् ॥' इति । पूर्वोक्तकुहूयोगकाले यदि जन्मनवांशे चंद्रस्तदा षण्मासमध्ये मृत्युः । यदि जन्मलग्नं तस्मिन्काले जन्मांशगश्चंद्रश्चेत्युभयसंभवे मासत्रयेण मृतिरिति भावः। अत एवोक्तं जगन्मोहने वसिष्ठेन-'यस्य जन्मभंगश्चंद्रो विषनाड्यां कुहूर्भवेत् । अभिचारेण किं तस्य स्वयमेव मरिष्यति ॥' इति । अतो विषघटिकातः पूर्वकालो दर्शशब्दवाच्य इति । एवमस्माभिः प्रकारत्रयेण सिनीवालीकुहू-दर्शानां भेद उपपादितस्तत्र यथासंप्रदायं व्यवस्थेत्यलमतिप्रसंगेन । __ ज्योतिःशास्त्रमहोदन्वदवगाह निविष्टधीः। नीलकंठांशगोविंदहनूमान्केन वार्यताम् ॥ • अथ प्राक् प्रतिज्ञाता सिनीवालीकुहूशांतिस्तावदुच्यते ॥ 'सिनीवाल्यां प्रसूता स्याद्यस्य भार्या पशुस्तथा । गवाश्वं महिषी चैव शक्रस्यापि श्रियं हरेत् ॥ ये च संति द्विजाश्चान्ये स्वप्रसादोपजीविनः । वर्जयेत्तानशेषांस्तु पशुपक्षिमृगादिकान् ॥' द्विजाः पक्षिणः । 'कुहूप्रसूतिरत्यर्थं सर्वदोषकरी १० मु० चि. Page #126 -------------------------------------------------------------------------- ________________ ११० मुहूर्तचिंतामणिः। [दर्शप्रसवशांतिः नृणाम् । यस्य प्रसूतिरत्र स्यात्तस्यायुर्धननाशनम् ॥ सर्वगंडसमस्तत्र दोषस्तु प्रबलो भवेत् । नारी विनाऽवशेषाणां परित्यागो विधीयते ॥' गो. महिष्यादीनां सिनीवालीकुहूप्रसवे तासां त्यागो नतु नारीणामिति भावः। 'परित्यागात्तत्र शांतिं कुर्याद्धीमान्विचक्षणः । तत्फलं तत्क्षणार्धेन पुनरेव विलीयते ॥ न त्यजेत्पंडितो मोहादर्धादज्ञानतोऽपि वा। तद्योगं नाशयेदाशु स्वयं वा नाशमृच्छति ॥ कल्पोक्तशांतिः कर्तव्या शीघ्र दोषापनुत्तये ॥ रुद्रः शक्रश्च पितरः पूज्याः स्युर्देवताः क्रमात् । कर्षमात्रसुवर्णेन तदर्धार्धेन वा पुनः ॥ अथवा शक्तितः कुर्याद्वित्तशाठ्यविवर्जितः । प्रतिमां कारयेच्छंभोचतुर्भुजसमन्विताम् ॥ त्रिशूलखड्गवरदाभयहस्तां यथाक्रमात् । श्वेतवर्णा श्वेतपुष्पां श्वेतांबरवृषस्थिताम् ॥ त्रयंबकेण मंत्रेण पूजां कुर्याद्यथाविधि । इंद्रश्चतुर्भुजो वज्रांकुशचापससायकः ॥ रक्तवर्णो गजारूढो यतइंद्रेति मंत्रतः। पितरः कृष्णवर्णाश्च चतुर्हस्ता विमानगाः ॥ यष्ट्यक्षसूत्रकमंडल्वभयानां च धारिणः । ये सत्या इति मंत्रण पूजां कुर्यादनंतरम् ॥ आग्नेयीं दिशमारभ्य कुंभान्कोणेषु विन्यसेत् । तन्मध्ये स्थापयेत्कुंभं शतच्छिद्रसमन्वितम् ॥ तेष्वेव पंचगव्यादींस्तत्तन्मत्रैश्च निक्षिपेत् । कल्पोक्तशांतिः कर्तव्या कुर्याच्छीघ्र प्रयत्नतः ॥ गोदानं वस्त्रदानं च सुवर्ण चौर्णकं शुभम् । दशदानानि चोक्तानि क्षीरमाज्यं गुडं तथा॥आज्यावेक्षणमेतानि तत्तन्मंत्रैश्च कारयेत् । समिदाज्यचरोहोमं तिलमाषैश्च सर्षपैः ॥ अश्वत्थप्लक्षपालाशसमिद्भिः खादिरैः शुभैः । अष्टोत्तरशतं मुख्यं प्रत्येक जुहुयाविजः ॥ त्रयंबकेण मंत्रेण तिलान्व्याहृतिभिः पुनः । चतुर्भिः कलशैर्युक्तं बृहत्कुंभसमन्वितम् ॥ शांतिवत्कलशे कार्यमभिषेकं च कारयेत् । पितृमातृशिशूनां च अभिषिचेत्तु वारुणैः ॥ शंकरस्याभिषेकं च कुर्याद्राह्मणभोजनम् ॥ अन्येषां चैव सर्वेषां ब्राह्मणानां च तर्पणम् ॥ यथाशक्त्यनुसारेण द्विजवाचनकं तथा॥' इत्युत्तरगार्योक्तसिनीवालीकुहूशांतिविधिः॥ ___ अथ दर्शशांतिविधिरुच्यते-'अथातो दर्शजातानां मातापित्रोदरिद्रता । तदोषपरिहारार्थ शान्ति वक्ष्यामि नारदः ॥ पुण्याहं वाचयित्वादौ ऋतुसंकल्पपूर्वकम् ॥ कुंडं वा मंडलं कुर्यात्तद्देशे स्थापयेद्भटम् ॥ तत्कुंभे निक्षिपेद्रव्यं दधिक्षीरघृतादिकम् । न्यग्रोधोदुंबराश्वत्थाः सचूतनिंबकास्तथा ॥ एतेषां वृक्षमूलानां त्वगादीन्पल्लवांस्तथा । पंचरत्नानि निक्षिप्य वस्त्रयुग्मेन वेष्टयेत् ॥ सर्वे समुद्राः सरितस्तीर्थानि जलदा नदाः । आयांतु यजमानस्य दुरितक्षयकारकाः ॥ आपोहिष्ठातृचेनाथ कयानश्चित्र इत्युचा । यत्किंचेदमृचा चैव समुद्रज्येष्ठ इत्युचा ॥ अभिमंत्र्योदकं पश्चादग्नेः पूर्वप्रदेशके ।' उदकमभिमंत्र्य पश्चाद्दर्शदेवताः स्थापयेदित्यर्थः । मंडलं कुर्यादिति यदुक्तम् । 'हारिद्रं रक्तकं चैव कृष्णं श्वेतं च नीलकम् । एतेषां तंदुलैश्चैव सर्वतोभद्रमुद्धरेत् ॥ दर्शस्य देवतायाश्च सोमसूर्यस्वरूपकाः । प्रतिमाः स्वर्णजा नित्यं राजतीं ताम्रजां तथा ॥ सर्वतोभद्रमध्ये च स्थापयेद्दर्शदेवताम् । दर्शदेवतारूपसोमसूर्यस्वरूपप्रतिमाः स्थापयेदित्यभेदेनान्वयः। कुहूमपि तत्रापीदम् 'ग्रहवर्ण वस्त्रयुग्मं तद्वर्ण गंधपुष्पकम् ॥ आप्यायस्वेति मंत्रेण सवितापश्चात्तमेव च । उपचारैः समाराध्य ततो होम समाचरेत् ॥ Page #127 -------------------------------------------------------------------------- ________________ कृष्णचतुर्दशीशांतिविधिः] नक्षत्रप्रकरणम् २ । १११ कृत्वा वह्नि प्रतिष्ठाप्य ऋतुसंकल्पमीदृशम् । आयुरारोग्यसिद्ध्यर्थं सर्वारिष्टप्रशां. तये ॥ पुत्रस्य दर्शजननदोषनिहरणाय च । मातापित्रोः कुमारस्य सर्वारिष्टप्रशांतये ॥ तेषामायुः श्रियं चैव शांतिहोमं करोम्यहम् । समिधश्च चरुद्रव्यं क्रमेण जुहुयाद्गृही ॥ हुनेत्सवितृमंत्रेण सोमोधेनुं च मंत्रतः । एतैमत्रैश्च प्रत्यकें हुनेदष्टोत्तरं शतम् ॥ दर्शस्य देवताहोममष्टाविंशतिसंख्यया । होममेवं तु कृत्वाथ विध्याचाराभिषेचनम् ॥ श्रीसूक्तमायुष्यसूक्तं समुद्रज्येष्ठषडचा ॥ एतैमंत्रैरभिषेकं मातापित्रोः शिशोस्तथा । ततः स्विष्टकृदादि स्याडोमशेष समापयेत् । हिरण्यं रजतं चैव कृष्णधेनुश्च दक्षिणा ॥ अन्येभ्योऽपि यथाशक्ति दातव्या दक्षिणा तथा । ब्राह्मणान्भोजयेत्तत्र कारयेत्स्वस्तिवाचनम् ॥' इति श्रीनारदोक्तो दर्शशांतिविधिः ॥ अथ कृष्णचतुर्दशीशांतिविधिरुच्यते-'मंदरस्थं सुखासीनं गर्ग मुनिवरं शुभम् । नमस्कृत्वाथ पप्रच्छ शौनको मुनिपुंगवः ॥ शांतिकर्माणि सर्वाणि त्वत्तो जानाम्यहं पुरा । अधुना श्रोतुमिच्छामि कृष्णपक्षचतुर्दशीम् । दिवा वा यदि वा रात्रौ प्रसूतेः किं फलं वद ॥ गर्ग उवाच-कृष्णपक्षे चतुर्दश्यां प्रसूतेः षड्विधं फलम् । चतुर्दशी च षड्भागां कुर्यादादौ शुभं स्मृतम् ॥ द्वितीये पितरं हंति तृतीये मातरं तथा । चतुर्थे मातुलं हंति पंचमे वंशनाशनम् । षष्ठे तु धनहानिः स्यादात्मनो वंशनाशनम् । तस्मात्सर्वप्रयत्नेन शांति कुर्याद्विधानतः ॥ आचार्य वरयेद्धीमान् पुत्रदारसमन्वितम् । स्वकर्मनिरतं शांतं श्रोत्रियं वेदपारगम् ॥ सर्वालंकारसंयुक्तं सर्वलक्षणसंयुतम् । ब्राह्मणानृत्विजश्चैव स्वस्तिवाचनपूर्वकम् ॥ रुद्रोऽधिदेवता तस्याः कर्षमात्रसुवर्णतः । तदर्धेन च वा कुर्याद्वित्तशाठ्यविवर्जितः ॥ प्रतिमां कारयेच्छंभोः सर्वलक्षणसंयुताम् । वृषभे च समासीनं वरदाभयपाणिकम् ॥ शुद्धस्फटिकसंकाशं श्वेतमाल्यांबरान्वितम् । त्रैयंबकेण मंत्रेण पूजां कुर्याद्विधानतः ॥ स्थापयेच्चतुरः कुभांश्चतुर्दिक्षु यथाक्रमम् । पुण्यतीर्थजलोपेतान् धान्यस्योपरि विन्यसेत् ॥ तन्मध्ये स्थापयेत्कुंभं शतच्छिद्रसमन्वितम् । पंचमृत्पंचरत्नानि पंचत्वपंचपल्लवान् ॥ पंचधान्यं सुवर्ण च तत्तन्मंत्रैर्विनिक्षिपेत् ॥ शतौषधानि निक्षिप्य श्वेतवस्त्रैश्च वेष्टयेत् । सुरभीणि च पुष्पाणि श्वेतानि परिवेष्टयेत् । सर्वे समुद्राः सरितस्तीर्थानि जलदा नदाः ।-आयांतु यजमानस्य दुरितक्षयकारकाः ॥ आवाह्य वारुणमंत्रैरनेन च विधानतः । इमं मे वरुणेत्यनया तत्त्वायामीत्यूचा तथा ॥ त्वं नो अग्ने इत्यनयास त्वं न इति मंत्रतः । आग्नेयकुंभमारभ्य पूजा कुर्याद्यथाक्रमम् । आनोभद्राख्यसूक्तेन भद्राअग्नेश्च सूक्तकम् । जप्त्वा पुरुषसूक्तं च कद्रुद्रं तु क्रमाजपेत् ॥ ईश्वरस्याभिषेकं च ग्रहपूजां च कारयेत् । पूजाकर्म सुनिवर्त्य होमं कुर्याद्विधानतः ॥ गेहस्येशानदिग्भागे कुंडं कुर्याद्विधानतः । विस्तारायामखातं च अरनिद्वयसंयुतम् ॥ कुंडकंठं परित्यज्य समंतादंगुलिक्रमात् । मेखलोच्छ्रायविस्तारौ चतुस्त्रियंगुलिक्रमात् ॥ पश्चिमे मध्यभागे तु योनि कुर्याद्विधानतः। योनि षडंगुलां तिर्यग्द्वादशांगुलदैर्घ्यकाम् ॥ अश्वत्थ Page #128 -------------------------------------------------------------------------- ________________ मुहूर्तचिंतामणिः । [ एकनक्षत्रजननशांतिः दलसंकाशां किंचिनिम्नायतां शुभाम् । कुर्यादाघारपर्यंतं स्वगृयोक्तविधानतः ॥ सम्रिद्राज्यचरूंश्चैव तिलमाषांश्च सर्षपैः । अश्वत्थलक्षपालाशसमिद्भिः खादिरैः शुभैः ॥ अष्टोत्तरसहस्रं वा अष्टोत्तरशतं तु वा । अष्टाविंशतिमेतैश्च होमं कुर्यात्पृथक्पृथक् ॥ त्र्यंबकेण मन्त्रेण तिलान् व्याहृतिभिः क्रमात् । ग्रहा एवं च होतव्या अस्मदुक्तविधानतः ॥ एवं क्रमेण होतव्यं होमशेषं समापयेत् । सर्वालंकारयुक्तानां त्रयाणामभिषेचनम् ॥ चतुर्भिः कलशैरद्भिर्बृहत्कुंभसमन्वि तम् । धौताम्बराणि धृत्वाथ कुर्यादाज्यावलोकनम् ॥ पूर्णाहुतिं च जुहुयाद्यजमानः समाहितः । तत्सर्वं परया भक्त्या ईश्वराय निवेदयेत् ॥ सर्वालंकारसंयुक्त सुवत्सां गां पयस्विनीम् । प्रतिमां वस्त्रयुग्मं च आचार्याय निवेदयेत् ॥ अन्येषां चैव सर्वेषां कुर्याद्ब्राह्मणभोजनम् । तस्मादनेन विधिना वित्तशाठ्यविवर्जितः । एवं यः कुरुते शांतिं सर्वपापैः प्रमुच्यते । सर्वान् कामानवाप्नोति चिरंजीवी सुखी भवेत् ॥' इत्युत्तरगाग्र्योक्ता कृष्णचतुर्दशीशांतिः ॥ अथैकनक्षत्रजातानां शांतिविधिरुच्यते- 'एकस्मिन्नेव नक्षत्रे भ्रात्रोव पितृपुत्रयोः । प्रसूतिश्च तयोर्मृत्युर्भवेदेकस्य निश्चयः ॥ तद्दोषनाशाय तदा प्रशस्तां शांतिं च कुर्यादभिषेचनं च । संपूज्य ऋक्षप्रतिमां तदग्रे दानं च कुर्याद्विभवानुरूपम् ॥ तत्र शांतिं प्रवक्ष्यामि सर्वाचार्यमतेन तु । शुभक्ष शुभवारे च चंद्रताराबलान्विते ॥ रिक्ताविष्टिविवर्ज्ये तु प्रारभेद्दिवसे सुधीः । आचार्य वरयेत्पूर्वं चतुरोऽथ द्विजोत्तमान् ॥ पुण्याहं वाचयित्वा तु शांतिकर्म समाचरेत् । अग्नेरीशानदिग्भागे नक्षत्रप्रतिमां ततः ॥ तन्नक्षत्रोक्तमंत्रेण अर्चयेत्कलशोपरि । रक्तवस्त्रेण संछाद्य वस्त्रयुग्मेन वेष्टयेत् ॥ स्वशाखोक्तेन मार्गेण कुर्यादग्निमुखं ततः । अनेनैव तु मंत्रेण हुनेदष्टोत्तरं शतम् ॥ प्रत्येकं समिदनाज्यैः प्रायश्चित्तांतमेव च । अभिषेकं ततः कुर्यादाचार्यः पितृपुत्रयोः । वस्त्रालैकारगो दानैराचार्यं पूजयेत्पुनः । ऋत्विग्भ्यो दक्षिणां दद्यान्माषत्रयसुवर्णकम् ॥ देवताप्रतिमादानं धान्यवस्त्रादिभिः सह । यानशय्यासनादींश्च दद्यातद्दोषशांतये ॥ भोजयेद्ब्राह्मणान्सर्वान्वित्तशाठ्यविवर्जितः ॥' इति गायकनक्षत्रजननशांतिविधिः ॥ ॥ अत्र - 'एकस्मिन्नेव नक्षत्रे भ्रात्रोर्वा पितृपुत्रयोः' इति गवाक्ये भ्रात्रोरिति पदे किं भ्राता च स्वसा च भ्रातरौ, 'भ्रातृपुत्रौ स्वसृदुहितृभ्याम्' इत्येकशेषः, उत भ्राता च भ्राता च भ्रातरौ, 'सरूपाणामेकशेष एकविभक्तौ' इत्येकशेषः । तत्र प्रथमपक्षे सोदयोर्भ्रातृभगिन्यो रेवैकनक्षत्रजनननिषेधः स्यान्नतु पुंभ्रात्रोः । द्वितीयपक्षे तु सोदरयोः पुंभ्रात्रोरेव निषेधः स्यात् नतु भ्रातृभगिन्योः । इष्यते च द्वयोरपि भ्रात्रोर्निषेधः । न च भ्रातरौ च भ्रातरौ चेति द्वंद्वे सत्येकशेषेण सिद्धमिति वाच्यम् । तथा सति तेषां चतुष्ट्वा तृणामिति पाठ्यं स्यात् । एवं पितृपुत्रयोरित्यत्रापि पिता च पुत्रश्चेति द्वंद्वे पितापुत्रयो रेकनक्षत्रजनननिषेधः स्यात्, न तु मातापित्रोः । न च माता च पिता च पितरौ । 'पिता मात्रा' इत्येकशेषः । पितरौ च पुत्रश्चेति द्वंद्वे मातापित्रोः पुत्रस्यैकनक्षत्रनिषेधः स्यात् । तथा पुत्रश्च दुहिता च पुत्रौ 'भ्रातृपुत्रौ' इत्यादिनैकशेषः । पितरौ च पुत्रौ चेति द्वंद्वे मातापित्रोः पुत्रस्ख 1 ११२ Page #129 -------------------------------------------------------------------------- ________________ ११३ ग्रहणप्रसूतिशांतिः] नक्षत्रप्रकरणम् २ । कन्यायाश्चैकनक्षत्रजनननिषेधः स्यादिति वाच्यम् । यतः प्रथमपक्षे पितृपुत्राणामिति बहुवचनांतं पदं पाठ्यं स्यादिति । द्वितीयपक्षे तु स दोषोऽस्त्येव । परंतु यथासंख्यमपि लगति। यथा मातापुत्रयोरेव पितादुहिनोरेव चैकनक्षत्रजनननिषेधः स्यात् । नतु मातादुहित्रोः पितापुत्रयोश्चेति । इष्यते चानयोरपि निषेध इत्यतो नैतद्वचनं निर्णयपदवीमवगाहते । सत्यम् । गर्गवाक्यस्य त्वेतावानेवार्थः, परं तु वचनांतरानुरोधादिष्टविषयोऽपि संगृहीतो भवति । यदाह वसिष्ठः-'पित्रोस्तु जन्मकर्मः जातस्तु पितृमातृहा । जन्मांशे च तल्लग्ने जातः सद्यो मृतिप्रदः ॥' इति । देवकीर्तिः-'यद्येकसिन्धिष्ण्ये जायंते दुहितरोऽथवा पुत्राः । पितुरंतकरा ह्येते यद्यपरे प्रीतिरतुला स्यात् ॥' इति । अपरे=अन्यनक्षत्रे । 'पूर्वादिभ्यो नवभ्यो वा' इति मिनभावपक्षे रूपम् । गर्गसंहितायामपि-'यस्यैव जन्मनक्षत्रे जायेद्राता सुतोऽपि वा । सजातीयः सजात्या वा सोऽस्य प्राणान्प्रसाधयेत् ॥' इति । यस्येति पुंस्त्वमविवक्षितं, तेन मातुरपि निषेधो वसिष्ठवाक्यस्वरसात् ॥ ॥ अथ मूलश्लोके दुष्टनिमित्तस्योपलक्षणत्वेन व्याख्यानात् सूर्यचंद्रग्रहणसमयजननशांतिविधिरुच्यते-'ग्रहणे चंद्रसूर्यस्य प्रसूतिर्यदि जायते । व्याधिपीडा तदा स्त्रीणामादौ तु ऋतुदर्शनात् ॥ इत्थं संजायते यस्तु तस्य मृत्युन संशयः । व्याधिपीडा च दारिद्र्यं शोकश्च कलहो भवेत् ॥ शांतिं तेषां प्रवक्ष्यामि नराणां हितकाम्यया। यस्मिन्नक्षे विशेषेण ग्रहणं संप्रजायते ॥ तदृक्षाधिपते रूपं सुवर्णेन प्रकल्पयेत् । यथाशक्त्यनुसारेण वित्तशाख्यं न कारयेत् ॥ सूर्यग्रहे सूर्यरूपं सुवर्णेन स्वशक्तितः। चांद्रं चंद्रग्रहे धीमान् रजतेन विशेषतः॥ राहुरूपं प्रकुर्वीत नागेनैव विचक्षणः ॥' नागेन=सीसकेन । 'शुचौ देशे प्रयत्नेन गोमयेन प्रलेपयेत् । तस्योपरि न्यसेद्धीमान्नववस्त्रं सुशोभनम् । त्रयाणां चैव रूपाणां स्थापनं तत्र कारयेत् ॥ रक्ताक्षतान् रक्तगंधं रक्तपुष्पांबराणि च । सूर्यग्रहे प्रदातव्यं सूर्यप्रीतिकरं च यत् ॥ श्वेतवस्त्रं श्वेतमाल्यं श्वेतगंधाक्षतादिकम् । चंद्रग्रहे प्रदातव्यं चंद्रप्रीतिकरं च यत् ॥ राहवे चैव दातव्यं कृष्णपुष्पांबराणि च । दद्यान्नक्षत्रनाथाय श्वेतगंधानुलेपनम् ॥ सूर्य संपूजयेद्धीमानाकृष्णेति च मंत्रतः। चंद्रग्रहे च पालाशैः समिद्भिर्जुहुयान्नरः॥ दूर्वाभिर्जुहुयाद्धीमान् राहोः संप्रीणनाय च । समिद्भिर्ब्रह्मवृक्षोत्थैर्भशाय जुहुयाद्धः ॥' भेशाय नक्षत्राधिपतये । 'भाज्येन चरुणा चैव तिलैश्च जुयात्ततः । पंचगव्यैः पंचरत्नैः पंचत्वपंचपल्लवैः ॥ जलैरोषधिकल्कैश्च सहितैः कलशोदकैः । (ओषधिकल्कैः सौंषधिकल्कैः)। अभिषेकं प्रकुर्वीत यजमाने प्रयत्नतः ॥ मंत्रैर्वारुणदैवत्यैरापोहिष्टादिभिस्त्रिभिः । इमंमेगङ्गे पितरस्तत्त्वायामीति मंत्रकैः ॥ अभिषेके निवृत्ते तु यजमानः समाहितः । आचार्य पूजयेत्पश्चात्सुशांतो विजितेंद्रियः ॥ तस्मै दद्यात्प्रयत्नेन भक्त्या प्रति. कृतित्रयम् । दक्षिणाभिश्च संयुक्तं यथाशक्त्यनुसारतः । ब्राह्मणान्भोजयित्वा तु प्रणिपत्य क्षमापयेत् । तेभ्योऽपि दक्षिणां दद्याद्यजमानः समाहितः ॥ अनेन Page #130 -------------------------------------------------------------------------- ________________ . मुहूर्तचिंतामणिः। [अश्विन्यादीनां तारकामानं विधिना शांतिं कृत्वा सम्यग्विशेषतः । अकालमृत्यु शोकं च व्याधिपीडां न चामुयात् ॥ सौख्यं सौमनसं नित्यं सौभाग्यं लभते नरः । इत्थं ग्रहणजातानां सर्वारिष्टविनाशनम् ॥ कथितं भार्गवेणेदं शौनकाय महात्मने ॥' इति श्रीशौनकविरचितः सूर्यचंद्रग्रहणसमयजननशांतिविधिः ॥ .. अथ त्रीतरशांतिरप्युच्यते । सा च शांतिसर्वखेऽभिहिता-'सुतत्रये सुता चेत्स्यात्तत्रये वा सुतो यदि । मातापित्रोः कुलस्यापि तदारिष्टं महद्भवेत् ॥ ज्येष्ठनाशो धने हानिर्दुःखं वा सुमहद्भवेत् । तत्र शांति प्रकुर्वीत वित्तशाठ्यविवर्जितः ॥ जातस्यैकादशाहे वा द्वादशाहे शुभे दिने । आचार्यमृत्विजो वृत्वा ग्रहयज्ञपुरःसरम् ॥ सह वा ग्रहयज्ञः स्याद्यथावित्तानुसारतः । ब्रह्मविष्णुमहेशेंद्रप्रतिमाः स्वर्णतः कृताः ॥ पूजयेद्धान्यराशिस्थकलशोपरि शक्तितः । पंचमे कलशे रुद्रं पूजयेदुद्रसंख्यया ॥ रुद्रसूक्तानि चत्वारि शांतिसूक्तानि सर्वशः। द्विज एको जपेद्धोमकाले शुचिसमाहितः । आचार्यों जुहुयात्तत्र समिदाज्यतिलांश्वरम् । अष्टोत्तरं सहस्त्रं वा शतं वा विंशतिं तु वा॥ देवताभ्यश्चतुर्वक्रादिभ्यो ग्रहपुरःसरम् । ब्रह्मादिमंत्रैरिंद्रस्य यतइंद्रभयामहे ॥ ततः स्विष्टकृतं हुत्वा बलिं पूर्णाहुतिं ततः । अभिषेक कुटुंबस्य कृत्वाचार्य प्रपूजयेत् ॥ हिरण्यं धेनुरेका च ऋत्विग्भ्यो दक्षिणा ततः । प्रतिमा गुरवे देया उपस्कारसमन्विता। कांस्याज्यवीक्षणं कृत्वा शांतिपाठं तु कारयेत् । ब्राह्मणान्भोजयेच्छक्त्या दीनानाथांश्च तर्पयेत् ॥ एवं शांतिविधानेन सर्वारिष्टं प्रलीयते ॥' इति ॥५६॥ आलोक्यार्षान्पौरुषांश्च ग्रंथान्मूलादिशांतयः । नीलकंठतनूजेन गोविंदेनोदिताः क्रमात् ॥ अथ नक्षत्रप्रसंगादेवाविन्यादिभानां तारकामानमुपजातिकयाहत्रित्र्यंगपंचाग्निकुवेदवह्वयः शरेषुनेत्राश्विशरेंदुभूकृताः। वेदानिरुद्राश्वियमामिवह्नयोऽब्धयः शतं द्विद्विरदा भतारकाः५७ त्रीति ॥ अश्विन्यादीनां भानां तारकाः क्रमतो ज्ञेयाः । यथा अश्विन्यास्तारकास्तिस्रः ३, भरण्यास्तिस्त्रः ३, कृत्तिकायाः षद ६, रोहिण्याः पंच ५, मृगस्य तिस्रः ३, आदीया एका १, पुनर्वसोश्चतस्त्रः ४, पुष्यस्य तिस्रः ३, आश्लेषायाः पंच ५, मघायाः पंच ५, पूर्वाफल्गुन्या द्वे २, उत्तराफल्गुन्या ढे २, हस्तस्य पंच ५, चित्राया एका १, स्वात्या एका १, विशाखायाश्चतस्त्रः ४, अनुराधायाश्चतस्त्रः ४, ज्येष्ठायास्तिस्त्रः ३, मूलस्यैकादश ११, पूर्वाषाढाया द्वे २, उत्तराषाढाया द्वे २, अभिजितस्तिस्रः ३, श्रवणस्य तिस्रः ३, धनिष्ठायाश्चतस्रः ४, शततारकायाः शतं १००, पूर्वाभाद्रपदाया द्वे २, उत्तराभाद्रपदाया द्वे २, रेवत्या द्वात्रिंशत्तारकाः ३२, एतावतीभिस्तारकाभिरश्विन्यादीनां स्वरूपं ज्ञेयम् । उक्तं च रत्नमालायाम्-'वह्नित्रिऋत्विषुगुणेंदुकृताग्निभूतबाणाश्विनेत्रशरभूकुयुगाब्धिरामाः । रुद्राब्धिरामगुणवेदशतद्वियुग्मं दंता बुधैर्निगदिताः क्रमशो भताराः ॥' इति । नन्व Page #131 -------------------------------------------------------------------------- ________________ अश्विन्यादीनामाकृतिः] नक्षत्रप्रकरणम् २ । ११५ स्मिन् श्रीपतिवाक्ये सप्तविंशतिभानि प्रतीयते, ग्रंथकृद्वाक्येष्टाविंशतिरिति विरोधः। अत्र समाधिः-उत्तरार्धे रुद्राब्धीत्यत्र अब्धयः चतस्रस्ताराः पूर्वाषाढोतराषाढयोस्तत्र द्वे पूर्वाषाढाया द्वे तूत्तराषाढाया इत्यर्थः । एवमष्टाविंशतिनक्षत्राणि । नारदेनापि द्वयोराषाढयोर्द्वितारकत्वमुक्तम् । 'रामाग्निऋतुबाणाग्निभूवेदाग्निशरेषवः। नेत्रबाहुशरद्वीन्दुयुगवेदाग्निशंकरः ॥ बाहुनेत्राम्यब्धिशतं बाहुनेत्ररदाः क्रमात् । भानां संख्या च विज्ञेया दस्रादीनां पृथक्पृथक् ॥' इति । अवश्यं चैतदेवं विज्ञेयम् । अन्यथा-'तुरगमुखसदृक्षम्' इत्यादिनाष्टाविंशतिनक्षत्राणामाकृतिकथनात्सप्तविंशतिनक्षत्राणां च तारामानोक्तेरिति पूर्वापरविरोधः शंक्येत । तारकामानोक्तिप्रयोजनं विवाहे नक्षत्रतारकातुल्यैर्वरुक्तसदसत्फलावाप्तिरित्यादि । तदुक्तं वराहेण-'नक्षत्रजमुद्वाहे फलमब्देस्तारकामितैः सदसत् । दिवसैवरस्य नाशो व्याधेरन्यस्य वा वाच्यः ॥' इति । तद्यथा शौनकेन विवाहे प्रत्येकं नक्षत्रफलान्यभिहितानि । तत्र-'प्राजापत्ये सुभगा भोगयुताऽतिप्रिया भर्तुः। पुत्रधनानि च लभते सा कन्या पंचमे वर्षे ॥' इति रोहिण्यामुद्वाहफलमुक्तं तद्रोहिण्यास्ताराः पंच तावद्भिर्वर्भवति । 'अब्दात्प्राणवियोग स्वाष्ट्र प्रामोति भूतसंसर्गात् । त्यक्त्वा स्वज्ञातिकुलं कामपरा याति दासत्वम् ॥' इति चित्राया असत्फलं तच्चित्रातारैकाऽत एकेन वर्षेण भवति । एवं ज्वराद्युत्पत्तावपि तारकामानदिवसैवरस्य वान्यस्य व्याधेः अन्यरोगस्य वा नाशो वाच्य इत्यायूह्यम् । ननु नक्षत्रभेदेन पूर्वमपि ज्वरनाशका दिवसाः प्रोक्ताः । अत्र तु तारकामितसंख्यादिवसा उक्ता इति ग्रंथविरोध इति चेन्न । चरणभेदान्न विरोध इति वयं ब्रूमः ॥ ५७ ॥ अथाश्विन्यादीनामाकृतिमुपजात्या रथोद्धतया चाहअश्यादिरूपं तुरगास्ययोनिक्षुरोऽन एणास्यमणिगृहं च । पृषत्कचक्रे भवनं च मंचः शय्या करो मौक्तिकविद्रुमं च ५८ तोरणं बलिनिभं च कुंडलं सिंहपुच्छगजदंतमंचकाः । व्यसि च त्रिचरणाभमर्दलो वृत्तमंचयमलाभमर्दलाः ॥५९॥ अश्यादिरूपमिति । तोरणमिति ॥ अश्विन्यादीनां नक्षत्राणां रूपमाकृतिरुच्यते-तत्राश्विन्यास्तुरगास्यमश्वमुखसदृशं रूपं, भरण्या योनिर्भगस्तद्वद्रूपं, कृत्तिकाया नापितक्षुराकृति, रोहिण्या अनः शकटरूपं, मृगस्य एणास्यं हरिणमुखसदृशं,आद्रीया मणिसदृशं, पुनर्वसोगुहतुल्यं,पुष्यस्य पृषत्को बाणस्तत्सदृशं, माश्लेषायाश्चक्राकारं, मघाया भवनं गृहसदृशं, पूर्वाफल्गुन्या मंचः खट्वा तदाकारं, उत्तराफल्गुन्याः शय्याकारं, हस्तस्य हस्ताकारं, चित्राया मौक्तिकाकारं, खात्या विद्रुमं प्रवालस्तदाकारं, विशाखायास्तोरणाकारं, अनुराधाया बलिभक्तपुंजस्तदाकारं, ज्येष्ठायाः कुंडलाकृति, मूलस्य सिंहपुच्छाकारं,पूर्वाषाढाया गजदंतसदृशं,उत्तराषाढाया मंचकसदृशं,अभिजितस्त्रिकोणाकार,श्रवणस्य त्रिविक्रमस्त्रिचरणो वामनस्तत्स्वरूपं, धनिष्ठाया मर्दलसदृशं, शततारकाया वृत्तं वर्तुलं, Page #132 -------------------------------------------------------------------------- ________________ ११६ मुहूर्तचिंतामणिः। [जलाशयादिप्रतिष्ठामुहूर्तः पूर्वाभाद्रपदाया मंचसदृशं, उत्तराभाद्रपदाया यमलाभ, रेवत्या मर्दलाकारं स्वरूपमित्यर्थः । उक्तं च रत्नमालायाम्-'तुरगमुखसदृशं योनिरूपं भुराभं शकटसममथैणस्योत्तमांगेन तुल्यम् । मणिगृहशरचक्राभानि शालोपमाभंशयनसदृशमन्यच्चात्र पर्यकतुल्यम् ॥ हस्ताकारमतश्च मौक्तिकसमं चान्यत्प्रवालोपमं धिष्ण्यं तोरणवस्थितं बलिनिभं सत्कुंडलाभं परम् । क्रुध्यत्केसरिणः क्रमेण सदृशं शय्योसमानं परं चान्यइंतिविषाणवस्थितमतः शंगाटकव्यक्ति च ॥ त्रिविक्रमाभं च मृदंगरूपं वृत्तं ततोऽन्यद्यमलद्वयाभम् । पर्यकरूपं मुरजानुकारमित्येवमश्यादिभचक्ररूपम् ॥' इति ॥ ५८ ॥ ५९॥ अथ जलाशयारामदेवप्रतिष्ठामुहूर्त सपादोपजातिकयाहजलाशयारामसुरप्रतिष्ठा सौम्यायने जीवशशाङ्कशुक्रे । दृश्ये मृदुक्षिप्रचरध्रुवे स्यात्पक्षे सिते स्वतंतिथिक्षणे वा॥६०॥. रिक्तारवये दिवसेऽतिशस्ताजलाशयेति॥जलाशयोत्सर्गः भारामोत्सर्गश्च देवानां विष्ण्वादीनांप्रतिष्ठा वक्ष्यमाणप्रकारेणोच्यते-तत्र त्रयाणामपि सामान्यतो दिनशुद्धिरियं विचार्या । यथा सौम्यायने उत्तरायणे मकरादिषडाशिस्थिते सूर्ये सति तथा जीवशशांकशुक्रेषु दृश्यमानेषु सत्सु तथा मृदुगणक्षिप्रगणचरगणध्रुवगणनक्षत्रेषु तथा सिते शुक्ल पक्षे स्वर्मतिथिक्षणे यस्य देवस्य प्रतिष्ठा कर्तुमिष्टा तस्य तत्स्वामिके नक्षत्रे तिथौ वा क्षणे मुहूर्ते वा, तथा रिक्तारवये रिक्ताः पूर्वमुक्तास्तिथयः, आरः भौमः; एतान्वर्जयित्वान्यतिथिषु अन्यवारेषु च एवं विधेषु दिनेषु जलाशयः तडागादिः,मारामः उपवन,सुराः देवाः, तेषां प्रतिष्ठा क्रमेण कर्माहत्वोपभोगयोग्यत्वपूजायोग्यत्वरूपातिप्रशस्तातिविहितास्ति । अत्र दक्षिणायनगुर्वस्तशुक्रास्तचंद्रास्तानां सामान्यतः शुभकार्येषु निषेधात् परिशेषतो गुरुशुक्रचंद्रोदयोत्तरायणानि प्रशस्तानि । दक्षिणायननिषेधश्चौले वक्ष्यते । तत्र जलप्रतिष्ठायां दीपिका-'मार्तडेंदूडुशुद्धौ मुरजिदशयने माघषट्कस्य शुक्ले मूलाषाढोत्तराश्विश्रवणगुरुकरे पोष्णशाकाजंचांद्रे । मैत्रे बाहो च पूर्णामदनरवितिथौ सद्वितीयातृतीये कार्या तोयप्रतिष्ठा ज्ञगुरुसितदिने कालशुद्ध सुलग्ने ॥' इति । मुरजिद्विष्णुस्तस्य अशयनं शयनाभावः । विष्णुशयनव्यतिरिक्ते काले इत्यर्थः । 'देवतारामवाप्यादिप्रतिष्ठामुत्तरायणे । माघादिपंचमासेषु कृष्णेऽप्यापंचमीदिनम् ॥ दक्षिणे त्वयने कुर्वन्न तत्फलमवाप्नुयात् ।' इति । अयं चोत्तरायणे जलं जलाशये स्थास्यतीत्येवं निश्चिते निषेधः । मत्स्यपुराणेऽपि-'चैत्रे वा फाल्गुने वापि ज्येष्ठे वा माधवेऽपि वा । माघे वा सर्वदेवानां प्रतिष्ठा शुभदा भवेत् ॥ प्राप्यं पक्षं शुभं शुक्लमतीते चोत्तरायणे।' देवानामित्युपलक्षणं, तेन देवारामवाप्यादिप्रतिष्ठा शुभदेत्यर्थः । मकरसंक्रम उत्तरायणपदेनोपलक्ष्यते । १ आजम्=अभिजित् । अथवा आप्येति पाठः, आप्य-पूर्वाषाढा । Page #133 -------------------------------------------------------------------------- ________________ नाडीनक्षत्राणि] नक्षत्रप्रकरणम् २ । अतो मकरसंक्रमोत्तरः कालः शुभ उच्यते । अन्यथा माघादिपंचकं साक्षाद्विहितम् । उत्तरायणातिक्रमे हि दक्षिणायनसंग्रह इति सर्वकालसंग्रहे वाभावात्कालोपदेशानर्थक्यमापद्येत । उपलक्षणत्वं च 'भविष्यत्ययने पुण्यमतीते चोत्तरायणे' इत्यत्र दृश्यते । यदा तु दक्षिणायन एव जलस्थितिसंभवस्तदा न कालनियमः । 'न कालनियमस्तत्र प्रमाणं सलिलं यतः' इति भविष्यत्पुराणोक्तेः । तत्रापि कार्तिकमासे शुभफलदसंक्रांतो वा शुभतिथौ मेषधनुःसिंहवर्जिते लग्ने वापीकूपतडागादि प्रतिष्ठाप्यमिति ध्येयम् । उक्तं च भविष्यत्पुराणे-तस्मिन्सलिलसंपूर्णे कार्तिके च विशेषतः । तडागस्य विधिः कार्यः स्थिरनक्षत्रयोगतः॥' इति । अग्निपुराणे संक्रांतिभेदेन फलभेदोऽभ्यधायि-'वापीकूपतडागानां तस्मिन्काले विधिः स्मृतः। सुदिने शुभनक्षत्रे प्रतिष्ठा शुभदा स्मृता ॥ कर्कटे पुत्रलाभश्च सौख्यं तु मकरे भवेत् । मीने यशोऽर्थलाभश्च कुंभे च सुबहूदकम् ॥ वृषे च मिथुने वृद्धिवृश्चिके च जलं भवेत् । पितृतृप्तिश्च कन्यायां तुलायां शाश्वती गतिः॥ सिंहे मेषे धनुर्लग्ने लक्ष्मीश्च द्विज गच्छति ॥' इति ॥ देवप्रतिष्ठायां तु विशेषस्तत्र वसिष्ठः-अथ प्रतिष्ठां कथयामि सम्यक्शिवस्य विष्णोस्त्वथवा परेषाम् । सौम्यायने देवगुरौ च शुक्रे संदृश्यमाने परिचारकाणाम् ॥' इति । शिवविष्णुग्रहणं प्राधान्यख्यापनार्थम् । अत्र सौम्यप्रकृतीनां देवानामुत्तरायणे स्थापनमुक्तम् । उग्रप्रकृतीनां तु दक्षिणायनेऽपि कार्यम् । तदुक्तं वैखानससंहितायाम्-'मातृभैरववाराहनारसिंहत्रिविक्रमाः। महिषासुरहंत्री च स्थाप्या वै दक्षिणायने ॥' इति । शैवसिद्धांतशेखरे तु-'श्रेष्ठोत्तरे प्रतिष्ठा स्यादयने मुक्तिमिच्छताम् । दक्षिणे तु मुमुक्षूणां मलमासे न सा द्वयोः ॥' इत्युक्तम् । अत्र 'दक्षिणे तु मुमुक्षूणाम् इत्यपि मातृभैरवेत्यादिपरतया योज्यम् , अन्यथा प्रतिपदं मासगणना वसिष्ठादिषु न युज्येत । यदाह वसिष्ठः-'मासे तपस्ये तपसि प्रतिष्ठा धनायुरारोग्यकरी च कर्तुः। चैत्रे महारुग्भयदा च शुक्रे समाधवे पुत्रधनाप्तये स्यात् ॥' इति । नारदोऽपि-'विचैत्रेष्वेव मासेषु माघादिषु च पंचसु ॥' इति । वसिष्ठः'आषाढमासादिचतुष्टयेऽपिकलनसंतानविनाशदा स्यात् । ऊर्जे च कर्तुनिधनप्रदा च सौम्ये सपौषेऽखिलदुःखदा स्यात् ॥ वलक्षपक्षः शुभदः समस्तः सदैव तत्राथदिनं विहाय । अंत्यत्रिभागं परिहत्य कृष्णपक्षोऽपि शस्तः खलु पक्षयोश्च ॥ रिक्तावमत्यक्तदिनेष्वनिंद्ययोगेषु वैनाशिकवर्जितेषु । दिने महादोषविवर्जिते च शशांकताराबलसंयुते च ॥' इति । वैनाशिकनक्षत्राणि नारदेनोक्तानि'जन्मभादशमं कर्मसंघातक्षं च षोडशम् । अष्टादशं सामुदायं त्रयोविंशं विनाशभम् ॥ मानसं पंचविंशरूं नाचरेच्छुभमेषु तु ॥' इति । अथ तिथीनाह नारदः-'यद्दिनं यस्य देवस्य तद्दिने तस्य संस्थितिः । द्वितीयादिद्वयोः पंचम्यादितस्तिसृषु क्रमात् ॥ दशम्यादिचतसृषु पौर्णमास्यां विशेषतः ॥' इति । मुख्यतिथ्यसंभवे उक्ततिथौ स्थापन कार्यमित्यर्थः । अथ वारानाह नारदः-'कुजवर्जितवारेषु कर्तुः सूर्ये बलप्रदे। चंद्रताराबलोपेते पूर्वाह्ने Page #134 -------------------------------------------------------------------------- ________________ मुहूर्तचिंतामणिः। [प्रतिष्ठायां लमशुख्यादि शोभने दिने ॥' इति । प्रत्येकं वारफलमाह वसिष्ठः-'कीर्तिप्रदं क्षेमकर कृशानुभयप्रदं वृद्धिकरं दृढं च । लक्ष्मीकर सुस्थिरदं विनादिवारेषु संस्थापनमामनंति ॥' इति । अथ नक्षत्रविवेकः । तत्र जलप्रतिष्ठार्थ दीपिकायामुक्तान्यधुना नक्षत्राणि आरामप्रतिष्ठार्थ नक्षत्राणि ॥ अथ देवप्रतिष्ठानक्षत्राणि वसिष्ठेनोक्तानि-'हस्तत्रये मित्रहरित्रये च पौष्णद्वयादित्यसुरेज्यभेषु । तिस्रो त्तराधातृशशांकभेषु सर्वोमरस्थापनमुत्तमं तत् ॥' इति । अत्र षोडश भानि ध्रुवमृदुक्षिप्रलघुरूपाण्येवोक्तानि, तत्र ग्रंथका जलाशयारामसुरप्रतिष्ठानक्षत्राणि बहुधा तुल्यत्वादेतानि उक्तानि । द्वित्राणि तु भिन्नानि तान्युक्तविशेषबचनेभ्योऽवसेयानि इति । तत्र जलाशयारामयोर्निर्मित्यधीनत्वात् तन्मुहूर्तः प्रागुक्तः । देवताघटनमुहूर्तस्तु उच्यते मया । तत्र दीपिका-'ध्रुवलघुमृदुवर्गे वारुणे विष्णुदैवे मरुददितिधनिष्ठे शोभने वासरे च । त्रिदशमदनजन्मैकादशे ३।१०।७।१।११ शीतरश्मौ विबुधकृतिरभीष्टा नाडिनक्षत्रहीने ॥' इति । नाडिनक्षत्राणि-वैनाशिकनक्षत्राणि ॥ ६०॥ · अथ देवताप्रतिष्ठायां सामान्यतो लग्नशुद्धिं देवताविशेषाणां लग्नविशेष नक्षत्रविशेषं च पादोनोपजातिकाभ्यामाह शशांकपापैस्त्रिभवांगसंस्थैः । व्यष्टांत्यगैः सत्खचरैर्मृगेंद्रे सूर्यो घटे को युवतौ च विष्णुः ६१ शिवो नृयुग्मे द्वितनौ च देव्यः क्षुद्राश्चरे सर्व इमे स्थिरः । पुष्ये ग्रहा विघ्नपयक्षसर्पभूतादयोऽत्ये श्रवणे जिनश्च ॥६२॥ शशांकेति ॥ जलाशयप्रतिष्ठायामारामप्रतिष्ठायां च सुलग्नमात्रं विचार्यम् । देवप्रतिष्ठायां शशांकश्चंद्रः पापाः सूर्यभौमशनिराहुकेतवस्तैस्त्रिभवांगसंस्थैस्तृतीयषष्ठैकादशस्थानस्थितैरुपलक्षिते लग्ने तथा सत्खचरैः सोमबुधगुरुशुक्रय॑ष्टांत्यगैरष्टमद्वादशव्यतिरिक्ताखिलस्थानस्थैः सद्भिर्देवप्रतिष्ठाऽतिप्रशस्ता । तदुक्तं रत्नमालायाम्-'केंद्रत्रिकोणभवमूर्तिषु सद्हेषु चंद्रार्कभौमशनिषु त्रिषडायगेषु । सांनिध्यमेति नियतं प्रतिमासु देवः कर्तुः सुखार्थसुतसंपदरोगता च ॥ सौम्या लग्नाद्याश्रिता मूर्तिपूर्वान्भावान् वीर्यैरुत्कटा वर्धयति । षष्ठं हित्वा भावमेते हि तत्र शत्रुध्वस्तिं कर्तुरुत्पादयंति ॥' इति । शनिग्रहणं राहुकेत्वोरप्युपलक्षणम् । यदाह वसिष्ठः-'सूर्येन्दुभौमाय॑हिकेतवश्च लग्नस्थिता नैधनदाश्च भर्तुः। सौम्यग्रहा लग्नगतास्तदैव ह्यायुर्बलारोग्यकराश्व नूनम् ॥' इति । अन्यच्च तत्रैव-'सर्वे ग्रहा नैधनदास्त्वजस्रं सौम्या असौम्याः खलु मृत्युसंस्थाः' इति । अथ प्रसंगानवांशविचारः। तत्र स्थिरद्विस्वभावनवांशा ग्राह्या न चरांशास्तत्रापि तुलांशः साधीयान् । यदाह वसिष्ठः-'पंचेष्टके जीवशशांकसूर्यमुख्यग्रहैः सौम्यनवांशयुक्तैः । लग्ने स्थिरे चोभयराशियुक्ते नवांशके चोभयगे स्थिरे वा ॥' उभयगे द्विस्वभावे । 'चरो १ तत्रापि चरांशेष्वपि । Page #135 -------------------------------------------------------------------------- ________________ शवप्रतिकृतिदाहे वयंकालः] नक्षत्रप्रकरणम् २ । ११९ दये लग्नगते न कार्य संस्थापनं नैव चरांशकेऽपि। चरोऽपि मुख्यः सतुलांशकश्च सदा मृदुत्वात्सुरसंनिवेशे॥' इति । मृदुत्वात् शुभस्वामित्वात् । नारदोऽपि'शुभलग्ने शुभांशे च कर्तुर्न निधनोदये । राशयः सकलाः श्रेष्ठाः शुभग्रहयुतेक्षिताः ॥' इति ॥ अथ लग्नदौष्टयेऽपवादो वसिष्ठेनोक्तः'एकोऽपि जीवो बलवांस्तनुस्थः सितोऽपि सौम्योऽप्यथवा बली चेत् । दोषानशेषान्विनिहंति सद्यः स्कंदो यथा तारकदैत्यवर्गम् ॥' इति । नारदः"गुणाधिकतरे लग्ने दोषेऽत्यल्पतरे यदि । सुराणां स्थापनं तत्र कर्तुरिष्टार्थसिद्धिदम् ॥' इति । मृगेंद्र इति । सूर्यो मृगेंद्रे सिंहलग्ने स्थाप्यः । तथा को ब्रह्मा घटे कुंभलग्ने, विष्णुर्युवतौ कन्यालग्ने, शिवो महादेवो नृयुग्मे मिथुनलग्ने, च पुनर्द्वितनौ मिथुनकन्याधनुर्मीनलग्नेषु देव्यो दुर्गादक्षिणामूर्त्यादयः, चरे मेषकर्कतुलामकरलग्नेषु क्षुद्रा देव्यश्चतुःषष्टियोगिनीप्रभृतयः सर्व इमे उक्ता अनुक्ताश्च देवा इत्यर्थः। उक्ता महादेवादयः, अनुक्ता इंद्रादयः, ते स्थिरः वृषसिंहवृश्चिककुंभलग्नेषु स्थाप्याः । यदाह श्रीपतिः-'सिंहोदये दिनकरो मिथुने महेशो नारायणश्च युवतौ घटभे विधाता। देव्यो द्विमूर्तिभवने च निवेशनीयाः क्षुद्राश्चरे स्थिरगृहे निखिलाश्च देवाः ॥' इति । पुष्ये ग्रहा इति । ग्रहाश्चंद्रादयोऽष्टौ पुष्यनक्षत्रे स्थाप्या इत्यर्थः । उपलक्षणं चैतत्-तत्र सूर्यस्य हस्तनक्षत्रे स्थापनं, महादेवब्रह्मणोः पुष्यश्रवणाभिजित्सु स्थापनं, कुबेरस्कंदयोरनुराधायां दुर्गाप्रभृतीनां मूले स्थापनं, सप्तर्षीणां स्वाधिष्ठितनक्षत्रे, लक्ष्मीव्यासवाल्मीक्यगस्त्यानामपि सप्तय॑धिष्ठितनक्षत्रे स्थापनम् । उक्तं च रत्नमालायाम्-'पुष्यश्रुत्यभिजित्सु चेश्वरकयोर्वित्ताधिपस्कंदयोमैत्रे तिग्मरुचेः करे निर्ऋतिभे दुर्गादिकानां शुभम्' इति । कः ब्रह्मा । तथा 'सप्तर्षयो यत्र चरंति धिष्ण्ये कार्या प्रतिष्ठा खलु तत्र तेषाम् । श्रीव्यासवाल्मीकिघटोद्भवानां तथा स्मृता वाक्पतिभे ग्रहाणाम् ॥' इति । सप्तर्षयस्तु-कश्यपोऽनिर्भरद्वाजो विश्वामित्रोऽथ गौतमः। जमदग्निर्वसिष्ठश्च सप्तैते ऋषयः स्मृताः॥' इति स्मृतेः। ते यस्मिन्नक्षन्ने संचरंतो दृश्यते तस्मिन्नक्षत्रे तेषां स्थापनम् । श्रीव्यासवाल्मीकिघटोद्भवानां तथा सप्तर्ण्यधिष्ठितनक्षत्रे ग्रहाणां वाक्पतिभे पुष्ये । घटोद्भवः अगस्त्यः । विघ्नपेति । विन्नपः गणेशः, यक्षः=देवयोनिः, सर्पा: वासुक्यादयः, भूतः देवयोनिः । 'विद्याधराप्सरोयक्षरक्षोगंधर्वकिन्नराः । पिशाचो गुह्यकः सिद्धो भूतोऽमी देवयोनयः ॥' इत्यभिधानात् । मादिशब्देन राक्षसासुरप्रमथसरस्वतीप्रभृतयो गृह्यते । ते रेवत्यां स्थाप्याः ॥ तथा श्रवणे श्रवणनक्षत्रे जिनो बुद्धः स्थाप्यः । उपलक्षणं चैतत्-इंद्रकुबेरवर्जिताना लोकपालानां धनिष्ठायां स्थापनम् । इतोऽवशिष्टानां देवानां ध्युत्तरारोहिणीषु स्थापनं स्यादित्यर्थः। एतदप्युक्तं रत्नमाला १ वस्तुतस्त्वत्र सप्तय॑धिष्ठितनक्षत्रे लक्ष्मीस्थापनं यदुक्तं तदनुचितम् । ग्रंथांतरसंवादाभावात् । मूलादर्शनाच्च । रत्नमालायां-श्रीव्यासेत्यत्रत्यपूज्यताबोधकश्रीशब्ददर्शनाट्टीकाकूदुक्तिरियं भ्रान्तिप्रसूतेति भाति । Page #136 -------------------------------------------------------------------------- ________________ १२० मुहूर्तचिंतामणिः। भभुक्तमूलनक्षत्रदोषः याम्-'गणपरिवृढरक्षोयक्षभूतासुराणां प्रमथफणिसरस्वत्यादिकानां च पौष्णे । श्रवसि सुगतनानो वासबे लोकपानां निगदितमखिलानां स्थापनं हि स्थिरेषु ॥' इति । परिवृढः स्वामी, 'प्रभौ परिवृढ' इति साधुः ॥ गणपरिवृढः गणेशः। प्रमथा-महादेवस्य पारिषदाः। श्रवसि-श्रवणनक्षत्रे । सुगतः बुद्धः। 'सर्वज्ञः सुगतो बुद्धः' इत्यमरः । स्थिरेषु-रोहिणीव्युत्तरास्वित्यर्थः ॥ ६१ ॥ ६२॥ . .. अथ नक्षत्रप्रकरणं गयेनोपसंहरतिइति श्रीदैवज्ञानंतसुतदैवज्ञरामज्योतिर्विद्विरचिते मुहूर्तचिंतामणौ __नक्षत्रप्रकरणं समाप्तम् ॥२॥ इदं पूर्ववयाख्येयम् । ज्योतिर्विद्वरनीलकंठविदुषः श्रीचंद्रिकायास्तथा पुत्रेणाहिगवीप्रसारितधिया मौहतचिंतामणेः ॥ गोविंदेन विनिर्मिते नयनिधौ पीयूषधाराभिधे व्याख्याने तिथिवारभप्रकरणं संपूर्णतामध्यगात् ॥ १ ॥ इति श्रीविद्वदैवज्ञमुकुटालंकारनीलकंठज्योतिर्वित्पुत्रगोविंदज्योतिर्विद्विरचिवायां मुहूर्तचिंतामणिटीकायां पीयूषधाराभिधायां सविचारं तिथिवारनक्षत्रप्रकरणं समाप्तम् ॥ २॥ संक्रांतिप्रकरणम् ३। गौरीनंदनमिष्टसिद्धिसदनं विन्नावलीभेदनं नत्वा ज्योतिषिकायरामरविते मौहूर्तचिंतामणौ। . गोविंदो बुधनीलकंठविधिवित्सूनुः सतामग्रणी र्बह्वयं खलु संक्रमप्रकरणं व्याख्याति विद्वन्मुदे ॥ १॥ अथ संक्रांतिप्रकरणं व्याख्यायते । तत्र ग्रहाणां प्राग्राशितोऽपरराशौ संक्रमणं संक्रांतिरिति संक्रांतिलक्षणम् । सा च द्विविधा-मध्यमा स्पष्टा च । षट्कर्मसंस्कृतो मध्यमग्रहो राश्यंतरं यदा संक्रामति सा मध्यमसंक्रांतिरुच्यते । यदा तु स्पष्टीकृतसंस्कारविशिष्टो ग्रहो राश्यतरं गच्छेत्सा स्पष्टसंक्रांतिरुच्यते।। तत्र मध्यममानस्य स्पष्टीकरणार्थत्वादेव तजनितसंक्रांत्यनुपयोगादत्र तत्त्यागे स्पष्टसंक्रांतिरेव गृह्यते।सापि द्विविधा-सायनांशा निरयनांशा चेति । तत्र यदा सिद्धांतगणनागतायनांशसंस्कृता ग्रहाराश्यंतरगमनमुररीकुर्वतेसा सायनांशा संक्रांतिरुच्यते । यदा त्वयनांशसंस्काररहिता ग्रहाराश्यंतरगास्तदा निरयनांशा संक्रांतिरुच्यते । तत्रान्यासां चंद्रादिसंक्रांतीनां तु 'देवयंकर्तवोऽष्टाष्टौ नाड्योंऽकाः खनृपाःक्रमात् । वाः संक्रमणेऽर्कादेःप्रायोऽर्कस्यातिनिंदिताः॥' इति वयंघटीत्वमेव विवाहप्रकरणे वक्ष्यति । नतु फलकथने मासां संक्रांतीनां कश्चिदुपयोगः । सूर्यसंक्रांतीनां तु नक्षत्रवारसमयमेदेन बवादिकरणभेदेन च शुभाशुभफलकथनयोग्यता पुण्यकालता संक्रांतिविशेषे वयंघटीन्यूनाधिक Page #137 -------------------------------------------------------------------------- ________________ सूर्यसंक्रांतिफलम् ] संक्रांतिप्रकरणम् ३ । १२१ भावश्चास्तीत्यतो बहुवक्तव्यत्वात्स्वतंत्रमेव सूर्यसंक्रांतिप्रकरणमारिप्सुनक्षत्रवारभेदेन फलं तावत्सार्धवसंततिलकयाह घोरार्कसंक्रमणमुग्ररवौ हि शूद्रा ध्वांक्षी विशो लघुविधौ च चरर्भभौमे । चौरान्महोदरयुता नृपतीन्ज्ञमैत्रे ___ मंदाकिनी स्थिरगुरौ सुखयेच मंदा ॥१॥ विप्रांश्च मिश्रभभृगौ तु पशृंश्च मिश्रा तीक्ष्णार्कजेऽन्त्यजसुखा खलु राक्षसी च । घोरेति॥ अर्कस्य सूर्यस्य संक्रमणं निरयनांशा संक्रांतिरुपरवावुअसंज्ञकनक्षत्रे रविवारे वा चेत् स्यात्तदा घोरेति नान्नी सा शूद्रान्सुखयेत् सुखमुत्पादयेत् । अत्रार्कसंक्रमणमिति पदोपादानसामर्थ्यात्सूर्यसंक्रांतिष्वेवायं विचारो नाखिलग्रहसंक्रांतिष्विति फलितोऽर्थः । ननूगरवावित्यत्र सप्तम्यंतो द्वंद्वसमासोऽस्ति स किमितरेतरयोगद्वंद्वः समाहारद्वंद्वो वा? नाद्यः। इतरेतरयोगद्वंद्वस्योद्भूतावयवत्वाविवचनांतता स्यात्तथा सत्युग्ररव्योरिति भवितव्यम् । उग्रनक्षत्राणां बहुत्वादुग्ररविष्विति बहुवचनांतता च स्यादिति केचिदाहुः । उभयथापि पाटे छंदोभंगदोषः प्रामोति । न द्वितीयः । समाहारद्वंद्वस्य 'सवों द्वंद्वो विभाषयैकवद्भवति' इत्येकवद्भावविधानात् ‘स नपुंसकम्' इति नपुंसकलिंगतायां सत्यां समाहारस्यैकत्वादेकवचनं डिस्तस्मिन्परतः 'इकोऽचि विभक्तौ' इति नुमागमे उग्ररविणीति स्यात् । तादृशपाठेऽपि छंदोभंग एव दूषणम् । अत्र समाधिःइतरेतरयोगद्वंद्वोऽत्र नो कार्यः किंतु समाहारद्वंद्वः कार्यः । तथा हि-'स्तोः श्चना श्वः' इत्यत्र सूत्रे स्तोरिति ज्ञापकादागमशासनस्यानित्यत्वावगतेर्नुमभावे 'अञ्च घेः' इत्यौत्वे अत्वे च सिद्धमुग्ररवाविति । अथवोग्रैः सहितो रविरुणरविरिति शाकपार्थिवादेराकृतिगणत्वान्मध्यमपदलोपी तत्पुरुषः समासः, ततः सप्तम्येकवचने पूर्ववत्सिद्धमिष्टमतश्छंदोभंगाभावोऽपि सिद्धः । एवं लघुविधावित्यादावपि समाधेयम् । अनेनैवाशयेन 'मर्यादाभिविधौ च यः' इति काशिकाप्रयोगोपपत्तिरित्यलमतिप्रसंगेन । अथ लघुनक्षत्रे विधौ चंद्रवारे वा सूर्यसंक्रांतिवांक्षीनानी विशो वैश्यान्सुखयेत् । चरः चरनक्षत्रे भौमे मंगलवारे वा संक्रांतिर्महोदरयुता महोदरीनाम्नी चौरान्सुखयेत् । ज्ञमैत्रे बुधे मैत्रसंज्ञकनक्षत्रे वा संक्रांतिमंदाकिनीनाम्नी नृपतीन्राज्ञः सुखयेत् । स्थिरनक्षत्रे गुरुवारे वा संक्रांतिमंदानाम्नी विप्रान्सुखयेत् । मिश्रनक्षत्रे भृगुवारे वा संक्रांतिर्मिश्रानाम्नी पशून्सुखयेत् । तीक्ष्णनक्षत्रे अर्कजे शनिवारे वा संक्रांतिः खलु निश्चयेन राक्षसीनाम्नी अंत्यजांश्चांडालान्सुखयतीत्यंत्यजसुखा स्थादित्यर्थः । यदाह कश्यपः-'घोराध्वांक्षीमहोदर्यो मंदा मंदाकिनी तथा। मिश्रा राक्षसिका सूर्यसंक्रांतिस्त्वर्कवासरात् ॥' वसिष्ठः-'घोरोग्रः ११ मु० चि. Page #138 -------------------------------------------------------------------------- ________________ मुहूर्तचिंतामणिः । [ रात्रिसंक्रांतिफलम् ध्वांक्षी लघुभे चरमे महोदरी मृदुभे । मंदाकिन्यचरर्क्षे मंदा मिश्रा मिश्र च राक्षसी तीक्ष्णे ॥' अत्र छंदोभंगस्त्वार्षः । देवीपुराणे - 'मंदा ध्रुवेषु विज्ञेया मृदौ मंदाकिनी तथा । क्षिप्रे ध्वांक्षी विजानीयादुप्रे घोरा प्रकीर्तिता ॥ चरे महोदरी ज्ञेया तीक्ष्णैर्ऋक्षैस्तु राक्षसी । मिश्रिता चैव विज्ञेया मिश्रैर्ऋक्षैस्तु संक्रमे ॥' इति । रत्नमालायाम् – 'उग्रक्षिप्रचरैर्मित्रध्रुवमिश्राख्यदारुणैः । ऋक्षैः संक्रांतिरर्कस्य घोराद्या क्रमशो भवेत् ॥' नारदकश्यपौ – 'शूद्रतस्करवैश्यक्ष्मादेव भूपगवां क्रमात् । अनुक्तानां च सर्वेषां घोरायाः सुखदाः स्मृताः ॥' क्ष्मादेवाः= ब्राह्मणाः । अनुक्तानां = चांडालादीनाम् । ननूक्तं वक्ष्यमाणं वा शुभाशुभफलं सायनांशसंक्रांतितः कुतो न विचार्यत इति चेत् । उच्यते, - सायनांशसंक्रांतेः स्नानदानजपादावेव कार्यं न सर्वत्र । यदाह पुलस्त्यः - 'स्नानदानजपश्राद्धव्रतहोमादिकर्मसु । सुकृतं चलसंक्रांतावक्षयं पुरुषोऽनुते ॥' इति । चलसंक्रांतिः =सायनांशसंक्रांतिः । अतश्चलसंक्रांतेः परिगणितस्नानादिकविषयत्वादेव कृत्यांतरेषु विवाहादिशुभकर्मसु संक्रांतिमासांगी-कारे शुभाशुभफलकथने च नास्या उपयोग इति युक्तमुत्पश्यामः । इदं चाग्रे सम्यक्तया निर्णेष्यते ॥ १ ॥ अथ दिनरात्रिविभागेन संक्रांत्यशुभफलमुत्तरायणदक्षिणायनसंज्ञां च सार्धवसंततिलकयाह १२२ त्र्यंशे दिनस्य नृपतीन्प्रथमे निदंति मध्ये द्विजानपि विशोऽपरके च शूद्रान् ॥ २ ॥ अस्ते निशाप्रहर के च पिशाचकादीनक्तंचरानपि नटान्पशुपालकांश्च । सूर्योदये सकललिंगिजनं च सौम्य - याम्यायनं मकरकर्कटयोर्निरुक्तम् ॥ ३ ॥ त्र्यंशे इति ॥ अत्रार्कसंक्रमणमित्यनुवर्तते । दिनप्रमाणं त्रिभिर्भक्तं घट्यात्मकस्तृतीयांशो भवति, तत्र दिनस्य प्रथमत्र्यंशेऽर्कसंक्रमणं नृपतीन्हंति । मध्ये द्वितीयत्र्यंशे द्विजान्ब्राह्मणान्हंति । अपरके तृतीयत्र्यंशे वैश्यान्हं त्येवं सर्वत्र व्याख्येयम् । अस्ते सूर्यास्तसमयेऽर्कसंक्रमणं शूद्रान् । अथ रात्रिसंक्रांतिफलम् । तत्र रात्रिप्रथमप्रहरे पिशाचकादीन् आदिशब्देन भूतादीन्, द्वितीयप्रहरे नक्तंचरान् राक्षसान् तृतीयप्रहरे नटान्नर्तकान्, चतुर्थप्रहरे पशुपालकानाभीरान्, सूर्योदयसमयेऽर्कसंक्रमणं सकललिंगिजनं पाखंडादिकं हंतीत्यर्थः । 'पाखंडाः सर्वलिंगिनः' इत्यभिधानात् । यदाहतुर्नारद कश्यपौ - 'पूर्वाह्णे नृपतीन्हंति विप्रा - न्मध्यंदिने विशः । अपराह्नेऽस्तगे शूद्रान् प्रदोषे च पिशाचकान् ॥ निशि रात्रिचरान्नाढ्यकारानपररात्रके । गोचारिणश्च संध्यायां लिंगिनं रविसंक्रमे ॥' इति । संक्रांतः क्रूरसौम्यवारपरत्वेन फलविशेषमाह वसिष्ठः – 'रविरविजभौम I '१ निशाप्रहरकेषु इति पाठः । २ गोपानुत्तरसंध्यायामिति पाठः । Page #139 -------------------------------------------------------------------------- ________________ दशसंक्रांतीनां संज्ञाः] संक्रांतिप्रकरणम् ३ । १२३ कारे संक्रांतौ दिनकरस्य तन्मासे । पित्तकफानिलजामयनरपतिकलहस्त्ववृष्टिश्च ॥ बुधगुरुसितचंद्राहे सति संक्रांतावनामयं नृणाम् । क्षितिपतिनिकरक्षेमं सस्यविवृद्धिर्विधर्मिणां पीडा ॥' अत्र मेषसंक्रांती विशेषमाह कश्यपः'यदा मेषगतः सूर्यो भरण्यादिचतुष्टये । सस्यवृद्धिर्भवेत्तत्र वृद्धिराज़्चतुष्टये ॥ मघादिदशके हानिः क्षेमं चानुक्तभेषु च ॥' अस्यार्थः-यस्मिन्दिने मेषसंक्रमस्तद्दिने चंद्रो यदि भरण्यादिनक्षत्रचतुष्टये स्यात्तदा सस्यवृद्धिः फलम् । एवमप्रेऽपि व्याख्येयम् । अथ जन्मनक्षत्रे संक्रांतिफलं दीपिकायाम्—'यस्य जन्मक्षमासाद्ये रविसंक्रमणं भवेत् । तन्मासाद्यंतरे तस्य रोगः क्लेशोधनक्षयः॥' इति । तत्र शांतिकमपि दीपिकायामुक्तम्-'तगरसरोरुहपत्रै रजनीसिद्धार्थलोध्रसंयुक्तैः । स्नानं जन्मन्य॒क्षे रविसंक्रांती नृणां शुभदम् ॥' इति । अथ संक्रांतिषु वृष्टौ जातायां फलमुक्तं वसिष्ठेन–'अजकन्याझषकर्किणि संक्रांती यदि भवेद्वर्षम् । अतुलं क्षेम सुभिक्षं नृपसजनगोकुलक्षेमम् ॥ घटचापसिंहमिथुनसंक्रांती यदि भवेद्वर्षम् । आमयडामरभूभृद्युद्धमनघे त्ववृष्टिश्च ॥ वृषवृश्चिकतुलमकरे वृष्टिः स्यात्संक्रमे समये । विस्फोटामयतस्करपीडा वृष्टिः कृशानुभयम् ॥' इति । अथ सौम्येति । मकरकर्कटयोः संक्रांतिश्चेत्तदा क्रमेण सौम्ययाम्यायनं निरुक्तं कथितम् । मकरे उत्तरायणं कर्कटे याम्यायनं स्यादित्यर्थः। यदाह नारदः-'सौम्ययाम्यायने नूनं भवतो मृगकर्किणोः' इति ॥२॥३॥ अथावशिष्टानां दशसंक्रांतीनां षडशीतिमुखाः संज्ञा अनुष्टुभाह षडशीत्याननं चापनृयुकन्याझषे भवेत् । तुलाजौ विषुवं विष्णुपदं सिंहालिगोघटे ॥ ४ ॥ षडशीतीति ॥ धनुर्मिथुनकन्यामीनेषु संक्रांतिश्चेत्तदा षडशीतिमुखनाम्नी संक्रांतिः । तुलामेषयोः संक्रांतिर्विषुवनानी । सिंहवृश्चिकवृषकुंभेषु संक्रांतिविष्णुपदाख्या । उक्तं च नारदेन–'स्थिरभेष्वर्कसंक्रांतिज्ञेयं विष्णुपदाह्वयं । षडशीतिमुखं ज्ञेयं द्विस्वभावेषु राशिषु॥ तुलाधराजयो यं विषुवं सूर्यसंक्रमे ।' संज्ञाप्रयोजनं च-'याम्यायने विष्णुपदे चाद्या मध्यास्तुलाजयोः । षडशीत्यानने सौम्ये परा नाड्योऽतिपुण्यदाः ॥' इति ग्रंथकृदने वक्ष्यति । अथ ननु'संक्रांती यानि दत्तानि हव्यकव्यानि दातृभिः । तानि नित्यं ददात्यर्कः पुनजन्मनि जन्मनि ॥ रविसंक्रमणे पुण्ये न स्नायाद्यदि मानवः। सप्तजन्मसु रोगी स्थादुःखभागी हि जायते ॥' इति शातातपोक्तेः स्नानदानश्राद्धादिकृत्यस्य संक्रांतिकालेऽवश्यकर्तव्यता प्रतीयते । तत्र श्राद्धादेरनेकक्षणसाध्यत्वादननुष्ठानलक्षणमप्रामाण्यमापद्येत, संक्रांतिकालस्यातिसूक्ष्मत्वात् । तदुक्तं देवीपुराणे–'सुस्थे नरे सुखासीने यावत्स्पंदति लोचनम् । तस्य त्रिंशत्तमो भागस्तत्परः परिकीर्तितः । तस्माच्छततमो भागस्युटिरित्यभिधीयते । त्रुटेः सहस्रभागो यः स कालो रविसंक्रमे ॥' इति । देवलोऽपि-'संक्रांतिसमयः सूक्ष्मो दशेयः पिशितेक्षणैः' इति । पिशितेक्षणैःमनुष्यैः। अतो मुख्यकालानुपलब्धौ गौणकालेऽपि कार्य, वचनप्रामाण्यात् ॥ ४ ॥ Page #140 -------------------------------------------------------------------------- ________________ १२४ मुहूर्तचिंतामणिः । [ रात्रिसंक्रांतौ विशेषः स च गौणकालो निरवधिरित्यतो गौणकालमुपजातिकाछंदः पूर्वार्धेनाह— संक्रांतिकालादुभयत्र नाडिकाः पुण्या मताः षोडश षोडशोष्णगोः । संक्रांतीति ॥ गणितमार्गेण यः उष्णगोः सूर्यस्य संक्रांतिकाल भगतस्तत उभयत्र पूर्वतः परतश्च षोडश नाड्यो घढ्यः पुण्यसंपादकत्वात्पुण्या मताः संमताः । सूर्य संक्रांतिसमयात् पूर्वं षोडश पश्चाच्च षोडश घटिकाः पुण्यकालो मिलित्वा द्वात्रिंशद्वटिका भवतीत्यर्थः । तदाह वसिष्ठः - 'दिनपतिसंक्रमणाप्राक् षोडश नाड्यश्च पुण्यकालः सः । परतः षोडश नाड्यः सर्वत्र स्नानदानकार्येषु ॥' ब्रह्मसिद्धांतेऽपि - 'संक्रांतेः प्राक् परस्ताच्च सार्धाः षोडश नाडिकाः । त्रयस्त्रिंशत्संक्रमस्य पुण्याः सर्वस्य नाडिकाः ॥' भनेन - 'संक्रांतेः पुण्यकालस्तु षोडशोभयतः कलाः' इति स्मृतिवाक्ये यैः पूर्वतः परतश्चाष्टावष्टौ घटिकाः पुण्यकाल इत्येवं षोडशेति व्याख्यातं तदपाकृतं भवति । किंचायमर्थो वासनासिद्धः सूर्यसिद्धांतेऽभिहितः - 'अर्कमानकलाः षष्ट्या गुणिता भुक्तिभाजिताः । तदर्धनाड्यः संक्रांतेरर्वाक् पुण्यं तथा परे ॥' इति । सिद्धांतशिरोमणावपि - 'षष्टिघ्नबिंबं ग्रहभुक्तिभक्तं संक्रांतिनाड्योऽखिलधर्मकृत्ये । रवेस्तु ताः पुण्यतमा ग्रहः स्वसंक्रांतिगो मिश्रफलं विधत्ते ॥' इति । वासना चेयम्-यदि ग्रहस्पष्टगतितुल्यकलाभिरहोरात्रमानरूपाः षष्टिघटिका लभ्यंते तदा ग्रहबिंबकलाभिः किमिति त्रैराशिकेन, ग्रहे बिंबकलानां षष्टिर्गुणको ग्रहभुक्तिर्भाजको निष्पन्न इत्यर्थः । एवं सर्वग्रहाणामपि संक्रांतिः स्यात् । तत्र सामान्यतः सूर्यबिंबं त्रयत्रिंशत्कलाः । ग्रहगतेर्हासवृद्धिभ्यां बिंबस्यापि हासवृद्धिसंभवात् । तदुक्तं सिद्धांत एव । अत्र तु विस्तरभयादनुपयुक्तत्वाश्च नास्माभिरलेखि । अत एव त्रिंशदेकत्रिंशत्सार्धद्वात्रिंशत्रयस्त्रिंशदादिभेदेन स्मृतिषु पुण्यघटिकाभिधानं स्पष्टीकृत्या भेदसंभवाद्भिन्नम् । तदेवं सामान्यतः संक्रांतिषु द्वात्रिंशद्वटिकारूपः पुण्यकालो निर्णीतः । देवीपुराणे तु मंदादिसंज्ञा भेदात्पुण्यकालविशेष एवोक्तः - 'द्विचतुष्पंचसप्ताष्ट नव द्वादश एव च । क्रमेण घटिका ह्येतास्तत्पुण्यं पारमार्थिकम् ॥' इति । अस्यार्थः - मंदायामंतरालवर्ति घटिकाद्वयं, मंदाकिन्यां चतस्रो घटिकाः, ध्वांक्ष्यां पंच, घोरायां सप्त, महोदर्यामष्टौ, राक्षस्यां नव, मिश्रायां द्वादश । प्रागभिहितदेवीपुराणोक्तमंदादिसंज्ञावाक्यान्नक्षत्रजनितसंज्ञासु मंदादिष्वयं विचारो न वारप्रयुक्तास्ववचनात् ॥ एवं संक्रांतिषु पुण्यकालमभिधाय इदानीं रात्रिसंक्रांतौ विशेषमुपजात्युत्तरार्धेनाह निशीथतोsarपरत्र संक्रमे पूर्वापराहांतिमपूर्वभागका ॥ ५ ॥ निशीथत इति ॥ निशीथमर्धरात्रं तस्मादर्वाक् पूर्वत्र अपरत्र पश्चाश्च संक्रमे संक्रांतिकाले सति पूर्वापरयोर होः क्रमेणांतिमपूर्वभागको पुण्यौ स्याताम् । १ स्पष्टीकृत्याः स्पष्टीकरणस्य अथवा स्पष्टीकृत्या स्पष्टीकरणेनेत्यर्थः । Page #141 -------------------------------------------------------------------------- ________________ मकरसंक्रमादिपुण्यदिनविचारः] संक्रांतिप्रकरणम् ३ । १२५ भागकाविति स्वार्थे कः' । यद्यर्धरात्रात्प्राक् संक्रांतिस्तदा पूर्वदिनस्योत्तरार्ध पुण्यम् । यद्यर्धरात्रादुपरि संक्रांतिस्तदोत्तरदिनस्य पूर्वार्धमेव पुण्यमित्यर्थः । उक्तं च ब्रह्मसिद्धांते—'भवनांतं बिंबमध्य रात्र्यर्धात्प्रागुदेति चेत् । स्नानदानादि मध्याह्नात्कुर्यादूर्ध्व गते दिने ॥ राज्यर्धादुपरि क्षेत्रं याति चेदन्यथार्यमा । अयागामिनि मध्याह्वात्पूर्व स्नानादि पुण्यदम् ॥ भवन राशिः। बिंबमध्यं-रवेः । क्षेत्रं-राशिः। वृद्धवसिष्ठोऽपि-'अह्नि संक्रमणे पुण्यमहः कृत्स्त्रं प्रकीर्तितम् । रात्रौ संक्रमणे भानोदिनाधं स्नानदानयोः ॥ अर्धरात्रादधस्तस्मिन्मध्याह्नस्योपरिक्रिया । ऊर्ध्व संक्रमणे चोर्ध्वमुदयात्प्रहरद्वयम् ॥' इति । ननु रात्रौ दिनसंक्रांतिवत् रात्रावपि पुण्यकालसत्त्वात्तदा स्नानादि कुतो न क्रियते यदर्थमयमुद्यम आरब्धः? उच्यते,-'रात्रौ स्नानं न कुर्वीत दानं चैव विशेषतः' इति सुमंतुवाक्याद्रात्रौ स्नानाद्यधिकारासत्त्वात् । यत्तु नैमित्तिकं ग्रहणादिप्रयुक्तं तद्भवत्येव । 'नैमित्तिकं च कुर्वीत स्नानं दानं च रात्रिषु ।' इति सुमंतुवाक्यशेषात् ॥ ५॥ अर्धरात्रसमये संक्रमणे मकरकर्कटयोश्च विशेषमुपजातिकयाहपूर्णे निशीथे यदि संक्रमः स्यादिनद्वयं पुण्यमथोदयास्तात् । पूर्व परस्ताद्यदि याम्यसौम्यायने दिने पूर्वपरे तु पुण्ये ॥ ६॥ पूर्ण इति ॥ 'अर्धरात्रनिशीथौ द्वौ द्वौ यामप्रहरी समौ' इत्यभिधानादर्धरानं निशीथशब्दवाच्यम् । तस्मिन्निशीथे पूर्ण रात्रिद्वितीयमहरांतिमपलावच्छिन्ने यदि संक्रमः स्यात्तदा प्रागपरं दिनद्वयं पुण्यमुक्तम् । उक्तं च वृद्धवसिष्टेन- पूणे चेदर्धरात्रे तु यदा संक्रमते रविः । प्राहुर्दिनद्वयं पुण्यं मुक्त्वा मकरकर्कटौ ॥' इति । ब्रह्मसिद्धांतेऽपि-'यद्यर्धरात्र एव स्यात्संपूर्णे संक्रमो रवेः। तदा दिनद्वयं पुण्यं स्नानदानादिकर्मसु ॥' अथ 'मुक्त्वा मकरकर्कटौ' इत्युक्तं, तत्र मकरकर्कटयोस्तु कथमित्यत आह-अथेति । अथानंतरमुदयास्तात्सूर्योदयास्ताच्च पूर्व परस्ताच्च यदि याम्यसौम्यायने कर्कमकरसंक्रांती भवतस्तदा पूर्वपरदिने पुण्ये स्याताम् । यदि सूर्योदयात्पूर्व कर्कसंक्रमणं स्यात्तदा पूर्वदिन एव पुण्यकालो न परदिने ॥ तथा यदि सूर्यास्तादनंतरं मकरसंक्रांतिः स्यात्तदोत्तरदिने एव पुण्यकालो न पूर्वदिने । तदाह वृद्धगार्ग्य:-'यदास्तमयवेलाया मकरं याति भास्करः। प्रदोषे वार्धरात्रे वा स्नानं दानं परेऽहनि ॥ अर्धरात्रे तदूर्ध्व वा संक्रांती दक्षिणायने । पूर्वमेव दिनं ग्राह्यं यावन्नोदयते रविः ॥' इति । अस्तसमयवेलाया इति पंचम्यंतं पदम् । वाशब्द इवार्थे । भविष्योत्तरपुराणेऽपि-'कार्मुकं तु परित्यज्य मृगं संक्रमते रविः । प्रदोषे चार्धरात्रे वा स्नानं कुर्यात्परेऽहनि ॥ मिथुनात्कर्कसंक्रान्तियदि स्यादंशुमालिनः । प्रभाते वा निशीथे वा कुर्यादहनि पूर्वतः ॥' इति । प्रदोषलक्षणं स्कंदपुराणे-'त्रिमुहूर्तः प्रदोषः स्यादवावस्तंगते सति' इति ॥ ६ ॥ 'अथोदयास्तात्' इति वचनस्याप्यपवादमिंद्रवज्राछंदसाह - संध्या त्रिनाडीप्रमितार्कबिंबाद|दितास्तादध ऊर्ध्वमत्र । चेद्याम्यसौम्ये अयने क्रमात्स्तः पुण्यौ तदानीं परपूर्वघस्रौ ॥७॥ .१ समयावच्छिन्ने इति पाठः । Page #142 -------------------------------------------------------------------------- ________________ मुहूर्तचिंतामणिः । [मकरसंक्रमे रात्रावेवानुष्ठानं अर्धेति ॥ भर्कबिंवादर्कमंडलादर्धोदितास्तादर्धोदितादर्भास्ताच्चाध ऊर्ध्वं च क्रमात् त्रिनाड्यः त्रिघटिकास्ताभिः प्रमिता संध्या संध्याकालः स्यात् । अर्धीदितार्क बिंबात्पूर्वं त्रिघटीप्रमिता प्रातः संध्या तथार्धास्तादर्कबिंबादुपरि त्रिनाडीप्रमिता सायंसंध्येत्यर्थः । तदाह वराहः - 'अर्धास्तमितानुदितात्सूर्यादस्पष्टभं नभ यावत् । तावान्संध्याकालश्चिद्वैरेतैः फलं ब्रूयात् ॥' इति । तत्प्रमाणमाह नारदः - 'अर्धास्तमयसंध्या हि घटिकान्त्रय संमिता । तथैवार्धोदयात्प्रातर्घटिकात्रयसंमिता ॥' इति । स्कंदपुराणेऽपि - ' उदयात्प्राक्तनी संध्या घटिकात्रयमुच्यते । सायंसंध्या त्रिघटिका ह्यस्तादुपरि भास्वतः ॥ ' इति । अत्र संध्यालक्षणे अर्धास्तमितानुदितवाक्यस्य स्कंदपुराणीयवाक्यस्य च ब्रीहियववद्विकल्पः । अथ संध्यालक्षणप्रयोजनमाह-अत्रेति । अत्र संध्यायां प्रातः संध्यायां सायंसंध्यायां च क्रमाचेद्याम्यसौम्ये अयने दक्षिणोत्तरायणे स्तः तदानीं परपूर्वी घत्रौ दिवसौ पुण्यौ । ' याम्यसौम्ये अयने' इत्यत्र 'ईदूदेद्विवचनं प्रगृह्यम्' इति प्रगृह्यत्वात् 'लुतप्रगृह्या अचि -' इति प्रकृतिभावः । यदि प्रातः संध्यायां दक्षिणायनप्रवृत्तिस्तदा सूर्योदयादनंतरं संपूर्णमहः पुण्यम् । तथा यदि सायंसंध्यायामुत्तरायणप्रवृत्तिस्तदा सूर्यास्तात्पूर्वं संपूर्णमहः पुण्यं स्यादि`त्यर्थः । यदाह नारदः - 'सूर्यस्योदय संध्यायां यदि याम्यायनं भवेत् । तदोदयादहः पुण्यं पूर्वाहः पूर्वतो यदि ॥ सूर्यास्तमयसंध्यायां यदि सौम्यायनं भवेत् । तदहः पुण्यकालः स्यात्परतश्चोत्तरेऽहनि ।' इति । अत्र यद्युदयसंध्यातः प्राक्कर्क संक्रमस्तदा प्राग्दिन एव पुण्यकालो नोत्तरदिने । तथा यद्यस्तसंध्यामतिक्रम्य मकरसंक्रातिस्तदोत्तरदिन एव पुण्यकालो नतु प्राग्दिने इति निष्कृष्टोsर्थः । अतो वृद्धगार्ग्यादिवाक्यनारदवाक्ययोः प्रदोषसंध्यापदोपादानेन सामान्यविशेषभावोऽवगंतव्यः । यत्तु हेमाद्रौ स्कंदपुराणीयं वाक्यम्'धनुर्मीनावतिक्रम्य कन्यां च मिथुनं तथा । पूर्वापरविभागेन रात्रौ संक्रमते यदा ॥ दिनांते पंच नाड्यस्तु तदा पुण्यतमाः स्मृताः । उदये च तथा पंच दैवे पित्र्ये 'च कर्मणि ॥' इति, तदपि संध्याविषयकमेवेत्याहुरभियुक्ताः । विषुवे तु यथाश्रुतमेवेति । अन्यदपि संध्यालक्षणप्रयोजनम् - 'प्राक्संध्या गर्जित - ' ( ५।४८ ) इत्यादिषु वक्ष्यति । ननु नायमयनपुण्यका लोक्त्युद्यमः सफलः, शास्त्रांतरविरुद्धत्वात् । तथा हि- 'अह्नि संक्रमणे पुण्यमहः कृत्स्नं प्रकीर्तितम् । रात्रौ संक्रमणे भानोदिनार्थं स्नानदानयोः ॥ अर्धरात्रादधस्तस्मिन्मध्याह्नस्योपरि - क्रिया । ऊर्ध्वं संक्रमणे चोर्ध्वमुदयात्प्रहरद्वयम् ॥ पूर्णे चेदर्धरात्रे तु यदा संक्रमते रविः । प्राहुर्दिनद्वयं पुण्यं मुक्त्वा मकरकर्कटौ ॥' इति वृद्धवसिष्ठेनायनव्यतिरिक्तेषु दशसु संक्रमेषु रात्रिगतेषु ' या याः सन्निहिता नाड्यस्तास्ताः पुण्यतमाः स्मृताः ॥ इति कश्यपोक्तसामान्यवाक्याद्रात्रावेवानुष्ठानं प्रसक्तं 'अह्नि संक्रमणे' इत्यादिनाऽपोह्य दिवैवाऽनुष्ठानं विहितं तस्यापि पर्युदासः क्रियते 'मुक्त्वा मकरकर्कटी' इति । तस्मान्मकरकर्कटयोः संक्रमणे रात्रावेवानुष्ठानं कर्तव्यमित्युक्तं भवति । अत एवाह याज्ञवल्क्यः १२६ Page #143 -------------------------------------------------------------------------- ________________ संक्रमणे विष्णुपदादौ विशेषः] संक्रांतिप्रकरणम् ३ । १२७ राहुदर्शनसंक्रांतिविवाहात्ययवृद्धिषु । स्नानदानादिकं कार्य निशि काम्यव्रतेषु च ॥' इति । वसिष्ठोऽपि-'सुतजनने संक्रांतावुपरागे चंद्रसूर्ययोर्नियतम् । रात्रावपि कर्तव्यं स्नानं दानं विशेषतो नृणाम् ॥' इति । सुमंतुश्च-'ग्रहणोद्वाहसंक्रांतियात्रार्तिप्रसवेषु च । श्रवणे चेतिहासस्य रात्रौ दानं प्रशस्यते ॥' इति । एषु वाक्येषु सामान्यवाचिनोऽपि संक्रांतिपदस्य मकरकर्कटसंक्रांतिपरत्वमवसीयते । यस्तु- रात्रौ स्नानं न कुर्वीत दानं चैव विशेषतः।' इति निषेधः स संक्रांत्यंतरे व्यवतिष्ठते । अत एवोक्तं कश्यपेन-'स्नानं दानं ग्रहणवत्सौम्ययाम्यायनद्वये' इति । तस्मादयनसंक्रमे रात्रौ सत्यां तत्रैव स्नानदानाधनुष्टातव्यमिति । अत्राहः-शास्त्रद्वयेन तुल्यबलत्वाद्विकल्पसिद्धौ तत्तद्देशप्रसिद्धशिष्टाचारेण व्यवस्था द्रष्टव्या। तत्र गौर्जरास्तु-कश्यपादिवाक्यमभ्युपेत्य रात्रावयनसंभवे सति रात्रावेव स्नानदानादिकं कुर्वति । दाक्षिणात्यास्तु-वृद्धगाादिवाक्यमंगीकृत्य दिवस एव स्नानदानादि कुर्वन्तीत्यलमतिप्रसंगेन । यदा तु दिने कर्कमकरसंक्रमस्तदा क्रमेण पूर्वोत्तरघटिकानियममाह वृद्धवसिष्ठः-'अतीतानागते पुण्ये द्वे तूदग्दक्षिणायने । त्रिंशस्कर्कटके नाड्यो मकरे विंशतिः स्मृताः ॥' इति । उत्तरायणमतीतं सत्पुण्यं कर्कटायनमागामि पुण्यम् । तत्र कर्कटसंक्रांतेः प्राक् त्रिंशद्धटिकाः पुण्याः, मकरे तूत्तरा विंशतिघटिकाः पुण्या इत्यर्थः । अत्र वाक्ये यद्यपि दिनपदानुपादानं तथापि 'यदास्तमयवेलायाम्' इति रात्रिपरविशेषवाक्यालोचनादिदं दिनपरं प्रतिभाति । तथासति केनापि हेतुना समीपघटीषु श्राद्धाद्यनुष्ठानासंभवे परमावधित्वेन त्रिंशदादयो घटिका अभ्यनुज्ञायते । यदा तु प्रतिबंधाभावस्तदा 'या याः सन्निहिता नाड्यस्तास्ताः पुण्यतमाः स्मृताः' इति कश्यपोक्तेः समीपघटिकास्वेव श्राद्धादि विधेयम् । 'सन्निहितपरित्यागे कारणाभावात्' इति न्यायाञ्च ॥ ७ ॥ अथ पूर्वपराः षोडशघटिकाः पुण्या इति पूर्व सामान्येनोक्तमिदानीं विष्णुपदादिषु संक्रमेषु विशेषमनुष्टुभाह याम्यायने विष्णुपदे चाद्या मध्यास्तुलाजयोः । षडशीत्यानने सौम्ये परा नाड्योऽतिपुण्यदाः ॥८॥ याम्येति ॥ याम्यायने कर्कसंक्रांती तथा विष्णुपदे वृषसिंहवृश्चिककुंभसंक्रांतिषु संक्रांतिकालादाद्या नाड्यः प्रथमाः षोडशघटिकाः अतिपुण्यदाः खानदानादावनंतफलदा ज्ञेयाः । अग्रिमास्तु न तथेति निष्कृष्टोऽर्थः । तुलाजयोस्तुलामेषयोः मध्या उभयतः षोडश षोडश घटिकाः पुण्याः। अथवा षोडशैव घटिकाः पुण्याः । षडशीत्यानने मिथुनकन्याधनुर्मीनसंक्रांतिषु तथा सौम्ये मकरसंक्रांती संक्रांतिकालात्परा अनिमाः षोडश घटिका अतिपुण्यदाः । प्रथमास्तु न तथेति निष्कृष्टोऽर्थः । यदाह श्रीपतिः–'याम्यायने Page #144 -------------------------------------------------------------------------- ________________ १२८ मुहूर्तचिंतामणिः । [ चंद्रसंक्रमणादौ पुण्यकालः विष्णुपदे तथादौ दानाद्यनंतं विषुवे च मध्ये । वदंत्यतीते षडशीतिवत्रे महर्षयः खल्वयने च सौम्ये ॥' तत्र कर्के प्रागेव मकरसंक्रांतौ पश्चादेव पुण्यकाल इति तु प्राङ्गिरणायि । विष्णुपदे तु अग्रिमादिमघटीनां पुण्यकाले तरतमभावः । ‘पुण्यायां विष्णुपद्यां च प्राक् पश्चादपि षोडश' इति वृद्धवसिष्टोक्तवाक्येनास्यैकवाक्यतावशात् । विषुवे तु सामान्यनिर्णय एवेति केचित् । दीपिका टीकाकारस्त्वेवमाह - 'मेषे तुलायां च संक्रांतिमध्ये एव संक्रांतिकालात्पूर्वमष्टौ घटिकाः परतश्चाष्टौ घटिकाः पुण्यकालः' इति । युक्तं चैतत् । 'विषुवे च मध्ये' इति मध्यपदोपादानान्मध्ये षोडश घटिकाः पुण्या इत्युच्यते । कस्मात्कालान्मध्य इत्यपेक्षायां संक्रांतिकालादेवेत्यतः पूर्वमष्टौ पश्चाच्चाष्टौ घटिकाः पुण्या इत्यर्थः । यदुक्तं बृहस्पतिना - 'वर्तमाने तुला मेषे नाड्यस्तूभयतो दश' इति तुला मेष संक्रांति कालात्प्राक् पश्चाश्च पंच पंच घढ्यः पुण्या इति । यदप्युक्तं आद्यंतसापेक्षत्वान्मध्यशब्दस्य गणितागतपुण्यकालघटिकानां मध्यत्रिभागः स्थूलदृशा दशघटिकात्मको भवतीति तदतिपुण्यतमत्वसूचनार्थम् । 'या याः सन्निहिता नाड्यः' इति कश्यपोक्तेः । षडशीतिमुखेsप्याद्याग्रिमघटीनां पुण्यकाले तरतमभावः । यत्तु 'षडशीत्यां व्यतीतायां षष्टिस्तुल्यास्तु नाडिकाः' इति वृद्धवसिष्ठवाक्यं तत्प्राग्घटीषु प्रतिबंधवशाच्छ्राद्धादेरसंभवे सत्यंतिमघटीषु श्राद्धादिक्रियाभ्यनुज्ञायाः परमावधिकालेयत्तार्थम् । इदं सर्वं दिनसंक्रांतिविषयं वेदितव्यम् । 'अह्नि संक्रमणे पुण्यमहः कृत्स्नं प्रकीर्तितम्' इति सामान्यवाक्यस्य 'सौ (या ?) म्यायने विष्णुपदे' इत्यस्य च विशेषवाक्यस्यैकवाक्यतावशतः । अत एव - ' रात्रौ संक्रमणे भानोर्दिनार्ध स्नानदानयो:' इति रात्रिपरविशेषस्य सत्त्वाच्च । एवं निर्णीते पुण्यकाले स्नानदानाद्यवश्यं विधेयमिति फलितोऽर्थः । तत्र स्नानदानाद्य कुर्वतश्च प्रत्यवायमाह वसिष्ठः - ' इति संचिंत्य विनिर्णयमादेष्टव्यं सदैव दैवज्ञैः । विषुवत्ययने ग्रहणे संक्रांतौ पुण्यदिवसे वा ॥ पितृतृप्तिं न करोति हि दत्त्वा शापं व्रजति तस्य पिता । आगतगतसमयेऽपि च करोति यद्दानजपहोमाद्यम् ॥ ऊषरवापितबीजं यद्वत्तद्वच्च निष्फलं भवति ॥' इति । अयने अयनप्रवृत्त्याख्ये चलसंक्रमण आगतगतसमये निर्णीते पुण्यकालातिरिक्तसमये स्नानादि निष्फलमित्यर्थः । संक्रांतिषु स्नानदानादेः फलमाह भारद्वाजः - 'षडशीत्यां तु यद्दानं यद्दानं विषुवद्वये । दृश्यते सागरस्यांतस्तस्यांतो नैव दृश्यते ॥' वृद्धवसिष्ठोऽपि - 'अयने कोटिपुण्यं च सहस्रं विषुवे फलम् । षडशीत्यां सहस्रं तु फलं विष्णुपदेषु च ॥' इत्यलमतिप्रसंगेन । इति सूर्यसंक्रांति - निर्णयः ॥ अथ नायं केवलं सूर्यसंक्रमण एव पुण्यकालः किंतु चंद्रादीनां ग्रहाणां नक्षत्रसंक्रमे राशिसंक्रमे च पुण्यकालो भवति, सोऽपि सोपपत्तिकः प्रसंगतः प्रोच्यतेऽस्माभिः । यदाह जैमिनिः - ' नक्षत्रराइयो रविसंक्रमे स्युरर्वाक् परत्रापि रसेंदुनाड्यः । पुण्यास्तथेदोस्त्रिधरापलैर्युगेकैव नाही मुनिभिः शुभोक्ता ॥ १ ॥ नाड्यश्चतस्रः सपलाः कुजस्य बुधस्य तित्रो मनवः पलानि ॥ अब्ध्यब्धिनाड्यः पलसप्तयुक्ता गुरौ च शुक्रे सपलाश्चतस्रः । १ र्युक् युगैकनाडी मुनिभिः शुभोक्ता इति पाठः । Page #145 -------------------------------------------------------------------------- ________________ प्रहाणां मानकलाः ] संक्रांतिप्रकरणम् ३ । १२९ ॥ २ ॥ द्विनागनाड्यः पलसप्तयुक्ताः शनैश्चरस्याभिहिताः सुपुण्याः । भाद्यंतमध्ये जपदानहोमं कुर्वन्नवाप्नोति सुरेंद्रधाम ॥ ३ ॥ अस्यार्थः - सूर्यस्य नक्षत्रसंक्रमे राशिसंक्रमे च प्राक् परतश्च षोडशघटिकाः पुण्याः । एवं चंद्रस्यैका घटी त्रयोदश पलानि । भौमस्य चतस्रो घटिका एकं पलम् | बुधस्य तिस्रो घटिकाश्वतुर्दश पलानि । गुरोश्चतुश्चत्वारिंशद्वटिकाः सप्त पलानि । शुक्रस्य चतस्रो घटिकाः पलमेकम् । शनेर्व्वशीतिर्घटिकाः सप्त पलानि चोभयतः पुण्यकाल इत्यर्थः । यथा-सू. चं. मं. बु. गु. शु. श. ग्रहाः । अत्रोपपत्ति: 1 सू. चं. मं. १६ १ ० १३ ४ ३१ १ बु. गु. शु. श. ग्रहाः घटी. ३ १४ ७ ४४ ४ ६ ४५ १५ १ ७४ भक्ता ॥ 'भानोर्गतिः स्वदशभागयुतर्द्धिता वा बिंबं विधोस्त्रिगुणिता युगशैल तिथ्यद्वि७१५ हीनशशिभुक्तिरिषुद्वि २५ भक्ता नंदाक्षि२९ युग्भवति वा विधुबिंबमेवम् ॥' इति सिद्धांतशिरोमण्युक्तप्रकारेण रविचंद्रयोर्मांनकला आनेयाः । ‘व्यंघ्रीषवः सचरणा ऋतवस्त्रिभागयुक्ताद्वयो नव च सत्रिलवेषवश्च । स्युर्मध्यमास्तनुकलाः क्षितिजादिकानां त्रिज्याशुकर्णविवरेण पृथग्विनिघ्नाः ॥' इति तत्रैवोक्ताः भौमादीनां मानकलास्तत्र क्रमेण मानकलाः ॥ सू.चं.मं. बु. गु.शु.श. सू. चं. मं. ३२ ३२ ४ बु. गु. शु. श. ७ ८२ ७ ९ -- ५ २० ० २० पला. तत्र ' षष्टिनबिंबं ग्रहभुक्तिभक्तं संक्रांतिनाड्योऽखिलधर्मकृत्ये । रवेस्तु ताः पुण्यतमा ग्रहः स्वसंक्रांतिगो मिश्रफलं विधत्ते ॥' इति भास्करोक्त दिशा संक्रांतिनाढ्यः स्युः । तत्र ग्रहभुक्तयस्तेनैवोक्ताः 'नंदाक्षा भुजगा रवेः शशिगतिः खांकाद्वयोऽक्षाग्नयस्तुंग स्यांगकलाः कुवेदविकलाः पातस्य रामाभवाः । माहेयस्य महीगुणा रसकरा ज्ञस्येषुसिद्धा रदाः पंचेज्यस्य सितस्य षण्णवमिता अष्टौ शनेर्द्वे कले ॥' इति । बुधशुक्रयोस्तु संक्रांतिघटिकानयने सूर्यगतिरेव हारः कल्प्यस्तद्गतितुल्यत्वात्तयोः । वासना भाष्ये हि । 'बुधशुक्रौ तु रवेरासन्नावेव कदाचिदग्रतः कदाचित्पृष्ठतस्तस्यानुचराविव सदा व्रजंतौ दृश्येते ऽतस्तयोरपि रविभगणतुल्या एव भगणा इत्युपपन्नम्' इति भास्करेणाभिहितत्वात् । पठ्यमाना तु गतिस्तच्छीघ्रोच्चयोः शीघ्रफलानयनार्थं Page #146 -------------------------------------------------------------------------- ________________ मुहूर्तचिंतामणिः । [ ग्रहाणां नियतमध्यगतयः वासनासिद्धा जीर्णैः कल्पिता । तदेवं ग्रहगतय इमाः अतो यथोक्त चं. मं. बु. गु. शु. १३० सू. ५९ ७९० ३१ ५९ ५ १६ ४ | ३ | ४४ ८ ३५ २६ ፡ कला. प्रकारेण साधिताः पुण्यकालघटिका : सूर्यस्य त्रयस्त्रिंशद्वटिका एव, चंद्रस्य द्वे घटिके षडविंशतिपलानि, भौमस्य नव घटिकाश्चत्वारि पलानि, बुधस्य षट्घटिका विंशतिपलानि, गुरोरष्टाशीतिर्घटिकाः, एवं शुक्रस्य नवघटिका अष्टौ पलानि, शनेः षष्ट्यधिकं शतं घटिकाः, पूर्वापरकालौ मिलित्वा पुण्यकाल इत्यर्थः । यथा र. चं. मं. बु. गु. शु. श. र. चं. मं. बु. गु. शु. | श. 20 ० ४ ३४ ५९ ० ० ० ८ श. ग्र. २ २६ ४ ८० ३३ २ ९ ६ ८८ ९ १६० ० अं. ३० १३ ३२ १० अत्र वासना प्रागुक्ता । एतदर्धनाड्यः प्राक्परतश्च पुण्याः । अत्र गणितागत - घटीपलेषु लिखितजैमिनिवाक्ये च क्वचित्किंचित्पलभेदो घटिकाभेदश्च स गतिस्पष्टकृतिवशतः । युक्तं चैतत् । आकाशे हि वेधादिना स्पष्टा एव खगा दृइयंते न मध्यमाः । ‘दिनद्वयस्पष्टखगांतराल कालः स्फुटस्तु स्फुटभुक्तिबिंबै: " इति स्पष्टत्यैव बिंबसंक्रांति घट्यानयनमुचितम् । उक्तं च केशवार्केण'कुजादिकानामपि बिंबलिप्ताः षष्ट्या गुणाः स्वस्वजवेन भक्ताः । नाड्यादिकः संक्रमणांतरालकालः स्फुटस्तु स्फुटभुक्तिबिंबैः ॥' इति । अपिशब्दात्सूर्याचंद्रमसोर्ग्रहणं । तथासति मध्यमापेक्षया स्पष्टगतिबिंबयोरुपचयापचयसाम्यैस्तत्तद्वटिकानामप्युपचयापचयसाम्यानि क्रमेणापतंति । तेषां चानियतत्वात्पद्ये उपनिबंधायोगात् जीर्णैर्नियतमध्यगत्या सूर्यादीनां ग्रहाणां पुण्यकाल - घटीरानीयोपनिबंधः कृतः । अत्र मत्कृतं पद्यम्- 'नाड्यो रामगुणा ३३ रवेरथ विधोः षट्दोःपलैर्युग्द्वयं २।२६ भौमस्याब्धिपलैर्युता नव ९।४ विदो युक्ताः पलैः खाश्विभिः । षण्णाड्यो ६।२० ऽष्टगजा ८८ गुरोरथ भृगोर्नदाः पलैरष्टभिः ९।८ पुण्याः स्युः खनृपाः १६० शनेरुभयतो राश्यृक्षयोः संक्रमे ॥' अतो यो जैमिनिवाक्ये - 'सार्धाश्चतस्रः पलसप्तयुक्ता गुरो:' इति पाठो माधवादिभिरपाठि । तथा हेमाद्रिणापि - 'द्विनागनाड्यो' इति पदे नागा अष्टौ द्विरावृत्ता नागा द्विनागाः षोडशनाडिकाः शनैश्चरसंक्रांतौ पुण्यकाल इति यत् व्याख्यायि च तदुभयमपाकृतं भवति । तथा च रामचंद्राचार्या अपि कालनिर्णयदीपिकायां हेमाद्र्यादिमुलकममुमर्थं स्वपद्येनोपनियत २० ० ८ ० Page #147 -------------------------------------------------------------------------- ________________ सायनांशसंक्रांतिपुण्यकालः] संक्रांतिप्रकरणम् ३ । श्चिंत्योक्तयो ज्ञेयाः। तस्मात्सर्वग्रहाणां राशिनक्षत्रयोः संक्रांतिषु पुण्यकालताऽस्ति । भास्करोऽपि-रवेस्तु ताः पुण्यतमाः' इति वदंश्चंद्रादिसंक्रांतिषु नाड्यः पुण्या इत्यसूचयत् । 'अतिशायने तमबिष्ठनौ' इति पाणिनिवचनात् 'ग्रहः स्वसंक्रांतिगो मिश्रफलं विधत्ते' इति सूर्यादिसंक्रांतिसाधारणं, तत्र सकलसंक्रांतिषु दिनरात्रिविष्णुपदादिभेदेन सूर्यसंक्रमवनिर्णयो ध्येयः । एतत्संक्रांतिमान्यता हि गुर्जरदेशेऽस्तीत्यलं प्रसक्तानुप्रसक्तेन ॥ इति सकलग्रहसंक्रांतिनिर्णयः ॥ ८॥ अथैवं निरयनांशसंक्रांतिकालमभिधायेदानीं सायनांशग्रहसंक्रांतिषु पुण्यकालमुपजातिकयाहतथायनांशाः खरसाहताश्च स्पष्टार्कगत्या विहता दिनाद्यैः। मेषादितः प्राक्चलसंक्रमाः स्युदाने जपादौ बहुपुण्यदास्ते ॥९॥ तथायनांशा इति ॥ यथा राशिसंक्रमाः बहुपुण्यदास्तथा चलसंक्रमा अपीति व्यवहितस्तथाशब्दः अयनांशाः षष्टया गुण्याः स्पष्टसूर्यगत्या विहृता लब्धैः दिनाद्यैः दिनघटीपलैः कृत्वा मेषादिद्वादशराशिसंक्रांतिकालाप्राक् चलसंक्रमाः स्युस्ते चलसंक्रमा दाने ब्राह्मणेभ्यो दक्षिणादाने जपादौ जपश्राद्धहोभादौ बहुपुण्यदा भवंति । तदुक्तं वसिष्टसिद्धांते-चलसंस्कृततिग्मांशोः संक्रमो यः स संक्रमः। अजागलस्तन इव राशिसंक्रांतिरुच्यते ॥' इति । पुलस्त्यः-'अयनांशसंस्कृतो भानुर्नाले चरति सर्वदा । अमुख्या राशिसंक्रांतिस्तुल्यः कालविधिस्तयोः॥ स्नानदानजपश्राद्धव्रतहोमादिकर्मभिः । सुकृतं चलसंक्रांतावक्षयं पुरुषोऽश्नुते ॥' इति । रत्नमालायां-'यावद्भिरंशैरयनच्युतिः स्यात्तद्भोग्यकालेन दिवाकरस्य । च्युतिर्भवेद्विष्णुपदादिकानां रहस्यमेतन्मुनिभिः प्रदिष्टम् ॥' इति । जावालिरपि-'संक्रांतिषु यथा कालस्तदीयेऽप्ययने तथा। अयने विंशतिः पूर्वा मकरे विंशतिः परा' इति । अयनेचलसंक्रमे । अत्र चलसंक्रमाख्ये मकरायणे पूर्वा विंशतिघटिकाः पुण्यकालः । मकरसंक्रांती तु परा विंशतिघटिकाः पुण्यकालः। मकरव्यतिरिक्तैकादशचलसंक्रमेषु तत्तत्संक्रमवत् पुण्यकालो ज्ञेय इत्यर्थ इति माधवो व्याख्यत् ॥ अथायनांशानयनं तु सूर्यसिद्धांते-'त्रिंशत्कृत्वो युगे भानां चक्रं प्राक् परिलंबते । तद्गणाभूदिनभक्तायुगणाद्यदवाप्यते ॥ तद्दोस्त्रिघ्ना दशाप्तांशा विज्ञेया अयनाभिधाः । तत्संस्कृताद्रहात् क्रांतिच्छायाचलदलादिकम् । स्फुटं दृक्तुल्यतां गच्छेदयने विपुवद्वये। प्राक् चक्रं चलितं हीने छायात्किरणागते ॥ अंतरांशैरथावृत्त्य पश्वाच्छेषैस्तथाधिके ॥' इति च । ते च सांप्रतं सार्धषोडशायनांशा धनगताः संति छायात्किरणागतस्य सूर्यस्याल्पत्वात्। अत एव प्राक् इत्युक्तं ग्रंथकर्ता । अत्र प्रागित्युपलक्षणम् । कदाचित्संक्रांतिकालात्परतोऽप्ययनांशवशेन चलसंक्रमसंभवात् । तथा च ‘पश्चाच्छेषैस्तथाधिक' इत्युक्तम् । वेदांगज्योतिषेऽपि'प्रपद्येते श्रविष्ठादौ सूर्याचंद्रमसावुदक् । सार्धे दक्षिणार्कस्तु माघश्रावणयोः Page #148 -------------------------------------------------------------------------- ________________ १३२ मुहूर्तचिंतामणिः । [निरयनैव गणनोक्ता फलादौ सदा ॥' इति । तत्र मेषादिसंक्रांतिकालस्य सौरसावनघटिकात्मकस्य अयनांशानां च सौराणामतुल्यजातीयत्वाद्योगवियोगौ न स्तः । इत्ययनांशानां दिनीकरणायानुपातः। यदि सूर्यस्य स्पष्टगतिभोगेन षष्टिघटिकात्मकं दिनं लभ्यते तदायनांशैः किमिति । तत्रायनांशानां षष्टिर्गुणकः सूर्यस्पष्टगतिर्भाजक इत्युपपनम् । लब्धानि सौरसावनदिनानि सघटीपलानि अतस्तुल्यजात्योोगो वियोगो वा कार्यः । ननु चैकस्यैव सूर्यस्यैकस्मिन्नेव राशौ राशिसंक्रमणं चलसंक्रमणं च कथं संभवति ? कुतः स्वकक्षास्थिताकाशभागस्य द्वादशधा विभक्तस्य राशिरिति संज्ञा ? तत्र रविमंडलस्य तत्तद्राश्यादिमप्रदेशस्पर्शो राशिसंक्रमणमित्युच्यते तस्मिन्नेव राशौ चलसंक्रमस्तु कीदृश इति चेच्छृणु,-ईश्वरेच्छालोकादृष्टवशतस्तद्राश्यादिभागस्य सूर्यतेजःसंपर्कश्चलसंक्रमो मंडलमध्यसंपकश्च राशिसंक्रम इति विषयविवेकः । तद्यथा-रथ्यां प्राक् पश्चाच नीयमानस्य दीपस्याग्रे दीपप्रभा यस्मिन् प्रदेशे गच्छति तस्मिन्नेव प्रदेशे क्षणांतरे दीपोऽपि गच्छति । एवं सर्वेषामपि ग्रहाणां चलसंक्रमा द्रष्टव्याः । एवं चलसंक्रमस्य मुख्यत्वमुक्तं रोमशसिद्धांतेऽपि–'दिनरात्रिप्रमाणानां निर्णयो नभसंक्रमात् । यतः सकलकर्माणि पुण्योऽतश्चलसंक्रमः ॥' नन्वेवमयनसंक्रमस्य मुख्यत्वे तेन मानेन पंचांगगणना स्यात् , चंद्रादीनामप्ययनचलनदर्शनात् । न . च सायनांशाभ्यां निरयनांशाभ्यां वा सूर्याचंद्रमोभ्यां तिथेस्तुल्यत्वादस्तु पंचांगगणनेति वाच्यम् । अश्विन्यादिभानां विष्कंभादियोगानां च विसंवादात् । किंच सायनसंक्रमरहितस्य चांद्रमासस्याधिमासत्वव्यवहारप्रसंगः । तथा ताहकूसंक्रांतिद्वययुतस्य क्षयमासत्वव्यवहारप्रसंगः । विवाहादौ च सौरमासगणनाप्यनेनापि मानेन स्यादिति चेत् । उच्यते,-सायनसंक्रमस्तु पुण्यकालार्थमेवोपयुज्यते न सर्वत्र । नानदानजपश्राद्धेतिपरिगणितविषयपुलस्त्यवाक्यालोचनात् । तेन पंचांगगणना न्यूनाधिमाससौरमासादि किमप्यनेन मानेन न भवति । तथा सति यात्रादिमुहूर्तेषु भरणीव्यतीपातादिदुष्टयोगानां गुरुपुष्यादिशुभयोगानां च व्यवहारो निरयनेनैवोपपद्यते न सायनेन । किंच सायनगणनया सर्वथा ग्रहणविसंवादः। तद्यथा-षोडशोत्तरपंचदश१५१६शतीमिते शालिवाहनशककाले वैशाखपूर्णिमायां पंचत्रिंशन्नाडीमितायामिन्दूपराग उपलब्धः । तत्र चंद्रः ६।२६।१८ राहुः १।३।५८ अत्र निरयनगणनया शरांगुलानि १२ मानैक्यखंडं २० ग्रासांगुलानि ८ यद्यत्रायनांशाश्चंद्रे योजयित्वा शर आनीयेत तदा शरोंऽगुलादिः ३० अस्य मानैक्यखंडाधिक्याद्रहणं नायातीति सर्वजनप्रत्यक्षविसंवादः। सायनगणनया त्वयोग्येऽपि काले ग्रहणोपलंभः स्यात् । अन्यच्च स्पष्टीकरणेन साधितो भौमादिर्ग्रहो यन्नक्षत्रे गणितेनागतस्तनक्षत्रसमीप एवोपलभ्यते प्रत्यक्षतः । सायनत्वे हि ग्रहः कदाचिदेकनक्षत्रांतरे नक्षत्रद्वयांतरे वोपलभ्यते । सूर्यचंद्रयोस्तु तेजोबाहुल्यान्नक्षत्रतेजःपरिभवातन्नक्षत्रसन्निधौ उपलंभाभावो यद्यपि तथापि कदाचित्क्षीणचंद्रस्याप्युपलंभो दृश्यते । एवं संहितासु मीनशनैश्चरादिविषयकदुष्टफलानि एकराश्यवस्थित Page #149 -------------------------------------------------------------------------- ________________ संज्ञाप्रयोजनम् ] संक्रांतिप्रकरणम् ३ | १३३ 1 ग्रहयोगफलानि च निरयनेनैव । तथा वसिष्ठसंहितायाम् - 'षट् पौष्णभाङ्कादशरौद्रधिष्ण्यात्सुराधिपानानि नव क्रमेण । पूर्वार्धमध्यापरभाक्तदूर्ध्व भुंक्तेऽखिलव्योमचरास्तथैव ॥' इति ग्रहाणां पूर्वार्धमध्यापरभागयोगत्वमपि निरयनेनैवोपलभ्यते । तस्मात् निरयनगणनयैव सर्वोऽपि व्यवहारो युक्तः । ननु सायनगणना दत्ततिलांजलिरिति चेत् । उच्यते, सायनगणना हि नियतविषया । उक्तं च- 'अयनांशाः प्रदातव्या लग्ने क्रांतौ चरागमे सत्रिभे वित्रिभे याते तथा दृक्कर्मपातयोः ॥' इति । सूर्यसिद्धांतेऽपि - 'तत्संस्कृतामहाक्रांतिच्छायाचरदलादिकम् । स्फुटं दृक्तुल्यतां गच्छेदयने विषुद्वये ॥' इति । आदिशब्देन लग्नम् । अतोऽयनांशानां वासनासिद्धनियतविषयत्वाद्वयोरपि मानयोरसंकीर्णो व्यवहार इति सर्वमनाकुलम् । पुण्यकालस्तूभयविधसंक्रमेऽपि ज्ञेयः । पूर्वलिखितवसिष्ठादिवाक्यस्वरसात् । यत्तु वसिष्ठ सिद्धांते - 'पुण्यदां राशिसंक्रांति केचिदाहुर्मनीषिणः । नैतन्मम मतं यस्मान्न स्पृशेत्क्रांतिकक्षया ॥' इति, तदयनसंक्रमपुण्यकालाऽतिस्तुतिपरं; नतु राशिसंक्रांतिपुण्यकालनिराकरणार्थम् । अन्यथा - 'दिनपतिसंक्रमणात्प्राकूषोडश नाट्यश्च पुण्यकालः सः । परतः षोडश नाड्यः सर्वत्र स्नानदानकार्येषु ॥' इति स्वसंहितोत्तराशिसंक्रमपुण्यकालप्रतिपादकवचनस्यानेन सह विरोधो दुष्परिहरः स्यादित्यलमतिप्रसंगेन ॥ ९ ॥ अथ संक्रांत्युपयोगित्वाज्जघन्यबृहत्समनक्षत्राण्युपजातिकयाहसमं मृदुक्षिप्रवसुश्रवोऽग्निमघात्रिपूर्वास्रपभं बृहत्स्यात् । ध्रुवद्विदैवादितिभं जघन्यं सापवुपार्द्रानिलशाक्रयाम्यम् ॥१०॥ सममिति ॥ मृदूनि=मृगरेवत्यनुराधाचित्राः, क्षिप्राणि= अश्विन्यभिजित्पुव्यहस्ताः, वसुः = धनिष्ठा, श्रवः = श्रवणः, अग्निः = कृत्तिका, मघा प्रसिद्धा, त्रिपूर्वा=पूर्वाफल्गुनीपूर्वाषाढापूर्वाभाद्रपदाः, अस्रपः = राक्षसः, 'राक्षसः कौणपः क्रव्याद् क्रव्यादोऽस्रपः' इत्यमरः । तस्य भं मूलम् । अत्र समाहारद्वंद्वः । एतानि 'पंचदश भानि समसंज्ञानि । ध्रुवाणि = रोहिणी त्र्युत्तराः, द्विदैवं= विशाखा, अदितिभं= पुनर्वसुः; एतानि षड्भानि बृहत्संज्ञानि । सार्प = आश्लेषा, अंबुपः शततारका, आर्द्रा प्रसिद्धा, अनिलः = स्वाती, शाक्रं = ज्येष्ठा, याम्यं = भरणी; एतानि षड्भानि जघन्यसंज्ञानि । उक्तं च नारदेन - 'तारा जघन्याः सापैद्रा वातादन्तिकतोयपाः । ध्रुवादितिद्विदैवत्यं बृहत्ताराः पराः समाः ॥' इति । वसिष्ठेनापि 'जघन्यधिष्ण्यानि जलेशसर्परौद्रयाम्यानिलदैवतानि । अध्यर्धधिष्ण्यान्यदितिद्विदैवस्थिराणि शेषाणि समाह्वयानि ॥' इति ॥ १० ॥ अथ संज्ञाप्रयोजनमुपेंद्रवज्रयाह जघन्यभे संक्रमणे मुहूर्ताः शरेंदवो १५ बाणकृता ४५ बृहत्सु । खराम ३० संख्याः समभे महार्घसमर्धसाम्यं विधुदर्शनेऽपि ११ १ अत्र प्राचीनादर्शेषु 'अश्विनीपुष्यहस्ताः' इति पाठो लभ्यते, अत एवाग्रे - ' एतानि पंचदश भानि समसंज्ञानि ' इति टीकाकृद्भिरभिजिन्नक्षत्रविरहितैव गणनान्यत्रवदत्राप्यु'ति युज्यते । १२ मु० चि० Page #150 -------------------------------------------------------------------------- ________________ १३४ मुहूर्तचिंतामणिः। [रविसंक्रमफलविचारः जघन्यभ इति ॥ जघन्यनक्षत्रे यदि संक्रमणं तदा शरेंदवः पंचदश मुहूर्त क्षेयाः । बृहनक्षत्रे संक्रमणे सति बाणकृताः पंचचत्वारिंशन्मुहूर्ता ज्ञेयाः। समनक्षत्रे संक्रमणे सति खरामसंख्यात्रिंशन्मुहूर्ता ज्ञेयाः । उक्तं च नारदेन-'तासां प्रमाणं घटिकास्त्रिंशनवतिषष्टयः' इति । अत एव त्रिंशद्धटिकाः पंचदशमुहूर्ताः, नवतिघटिकाः पंचचत्वारिंशन्मुहूर्ताः, षष्टिघटिकारिंशन्मुहूर्ताः स्युरित्यर्थः । अथास्य फलमुच्यते-महार्घसमर्घसाम्यमिति । यदा पंचदशमुहूर्ता संक्रांतिस्तदा सर्वमन्नं महार्य दुर्लभं भवति । यदा पंचचत्वारिंशन्मुहूर्ता संक्रांतिस्तदा समर्घ सुलभमन्नम् । यदा तु त्रिंशन्मुहूर्ता संक्रांतिस्तदा साम्यं न महा न समर्घ किंतु यथास्थितमित्यर्थः । इदं तु मुहूर्तानां न्यूनाधिकसमभावाजायते । उक्तं च संवित्प्रकाशे-'मुहूर्ताः पंचभूतुल्या जघन्यानां परामिधा । बृहतां पंच वेदास्ते समानां ते खवह्वयः॥ पंचेंदुषु मुहूर्तेषु दुर्भिक्षं रविसंक्रमे । पंचाब्धिषु समर्घ स्याधिशसु समता मता ॥' इति । अथ विधुदर्शनेऽपीति । चंद्रदर्शनेऽप्येवमेव फलं वाच्यम् । अयमर्थः-यदि जघन्यनक्षत्रे चंद्रोदयस्तदा महाघम् । बृहनक्षत्रे चंद्रोदयस्तदा समर्धम् । समनक्षत्रे चंद्रोदयस्तदा साम्यमन्नस्य । उक्तं च रत्नमालायाम्-'बृहत्सु धान्यं कुरुते समर्घ जघन्यधिष्ण्याभ्युदितो महाघम् । समेषु धिष्ण्येषु समं हिमांशुर्वदंत्यसंदिग्धमिमं महांतः ॥' वसिष्ठोऽपि-'ज्ञात्वैवमेवं मणिजीवधातुमूलोणकर्पूररसादिकानाम् । अर्घ वदेज्योतिषिकः प्रजानां समर्घवस्तूत्तमसंग्रहार्थम् ॥' इति ॥ ११ ॥ अथ प्रसंगात्कर्कसंक्रांतावब्दविंशोपकाननुष्टुभाहअर्कादिवारे संक्रांती कर्कस्याब्दविंशोपकाः । दिशो नखा गजाः सूर्या धृत्योऽष्टादश सायकाः॥१२॥ अर्कादिवारे इति ॥ कर्कसंक्रांती सूर्यादिवारे सत्यामेते वक्ष्यमाणा अब्दविंशोपका ज्ञेयाः । तद्यथा-रविवारे दश, सोमवारे विंशतिः, भौमेऽष्टौ, बुधे द्वादश, गुरौ धृत्योऽष्टादश, शुक्रेऽप्यष्टादश, शनिवारे कर्कसंक्रांती सत्यामब्दसर्वशोपकाः पंचेत्यर्थः ॥ १२॥ __ अथ कीदृशस्य रवेः संक्रमो जातस्तं सफलमिंद्रवज्रयाहस्यात्तैतिले नागचतुष्पदे रविः सुप्तो निविष्टस्तु गरादिपंचके । किंस्तुघ्न ऊवं शकुनौ सकौलवेऽनिष्टः समः श्रेष्ठ इहार्धवर्षणे १३ स्यादिति ॥ करणानि भद्राव्याख्याने मयोक्तानि । तत्र रविः तैतिलनागचतुष्पदाख्यकरणेषु सुप्तः सन् संक्रमितः स्यात् । गरादिपंचके गरवणिजभद्राबवबालवाख्यकरणेषु निविष्ट उपविष्टः सन्संक्रमितः स्यात् । किंस्तुघ्नशकुनिकौलवाख्यकरणेषु ऊर्ध्वमूर्ध्वस्थितः सन् संक्रमितः स्यात् । इह करणाधिकरणकसंक्रांतौ रविः अर्धवर्षणे अर्धे मूल्ये वर्षणे वृष्टौ अनयोरुपलक्षणत्वाद्धान्ये Page #151 -------------------------------------------------------------------------- ________________ १३५ रविसंक्रमस्य वाहनादि] संक्रांतिप्रकरणम् ३ । ऽपि, क्रमादनिष्टः समः श्रेष्ठः स्यात् । अयमर्थः-सुप्तरविसंक्रमोऽर्धवर्षणधान्येष्वनिष्टः महार्घवृष्टयभावाखान्याभावकारको भवति । एवं निविष्टरवि. संक्रमोऽर्घवर्षणधान्येषु समो न शुभो नाप्यशुभः । तथोर्ध्वरविसंक्रमो. ऽर्धवर्षणधान्येषु श्रेष्ठः समर्घवृष्टिबाहुल्यधान्यबाहुल्यकारक इति । उक्तं च नारदेन-निविष्टो वणिजे विष्ट्यां बालवे च बवे गरे । कौलवे शकुनी भानुः किंस्तुन्ने चोर्ध्वसंस्थितः ॥ चतुष्पातैतिले नागे सुप्तः क्रांति करोति सः । धान्यावृष्टिषु समं श्रेष्ठं हीनं भवेत्क्रमात् ॥' क्रांति संक्रांतिम् । रत्न. मालायामपि-'चतुष्पदे तैतिलनागयोश्च सुप्तो रविः संक्रमणं करोति । विष्ट्यां बवाख्ये च गराह्वये च सबालवाख्ये वणिजे निविष्टः ॥ किंस्तुघ्ननानि शकुनावपि कौलवाख्ये चोर्ध्वस्थितस्य खलु संक्रमणं रवेः स्यात् । धान्यार्ष. वृष्टिषु भवेत्क्रमशस्त्वनिष्टमध्येष्टतेति मुनयः प्रवदंति पूर्वे ॥' इति । अस्यान्यदपि फलमने वक्ष्यति ॥ १३॥ ' अथ रविसंक्रांतेः करणपरत्वेन वाहनवस्त्रायुधभक्ष्यलेपनजातिपुष्पाणि स. फलानि शार्दूलविक्रीडितत्रयेणोपजातिकया चाहसिंहव्याघ्रवराहरासभगजावाहद्विषद्घोटकाः श्वाजो गौश्वरणायुधश्च बवतो वाहा रवेः संक्रमे । - वस्त्रं श्वेतसुपीतहारितकपाण्ड्वारक्तकालासितं । चित्रं कंबलदिग्घनाभमथ शस्त्रं स्याद्भुशुंडी गदा ॥१४॥ खड्गो दंडशरासतोमरमथो कुंतश्च पाशोऽङ्कुशो____ऽखं वाणस्त्वथ भक्ष्यमनपरमान्नं भैक्षपक्कानकम् । दुग्धं दध्यपि चित्रितानगुडमध्वाज्यं तथा शर्करा_ ऽथो लेपो मृगनाभिकुंकुममथो पाटीरमृद्रोचनम् ॥१५॥ यावश्चोतुमदो निशांजनमथो कालागुरुश्चंद्रको जातिर्दैवतभूतसर्पविहगाः पश्वेणविप्रास्ततः । क्षत्तावैश्यकशुद्रसंकरभवाः पुष्पं च पुन्नागकं जातीबाकुलकेतकानि च तथा बिल्वार्कांबुजम् ॥१६॥ सान्मल्लिका पाटलिका जपा च संक्रांतिवस्त्राशनवाहनादेः। नाशश्व तद्वृत्त्युपजीविनां च स्थितोपविष्टखपतां च नाशः ॥१७॥ सिंहेति ॥ खनेति ॥ यावश्चेति ॥ स्यान्मल्लिकेति ॥ बवतो ल्यब्लोपे पंचमी । बवमारभ्य सप्त चरकरणानि स्थिराणि चत्वारि शकुन्यादीनि एते. ध्वेकादशसु करणेषु क्रमेण वाहनानि वस्त्राणि तथाऽऽयुधानि भक्ष्याणि लेप Page #152 -------------------------------------------------------------------------- ________________ १३६ मुहूर्तचिंतामणिः। [रविसंक्रमस्य वाहनादि नानि जातयश्च पुष्पाणि च ज्ञेयानीत्यर्थः। तत्र वाहनानि-सिंहव्याघ्रौ प्रसिछौ, वराहः शूकरः, रासभो गर्दभः, गजो हस्ती, वाहद्विषत् महिषः, 'लुलायो महिषो वाहद्विषत्कासरसैरिभाः' इत्यमरः । घोटकोऽश्वः, श्वा कुक्कुरः, अजो मेषः, गौषः, चरणायुधः कुक्कुटः; एतान्येकादशकरणेषु वाहनानि । एवं वस्त्रादीन्यपि व्याख्येयानि । तदाह कश्यपः-'सिंहशार्दूलवाराहखरकुंजर. माहिषाः । तुरगवाजवृषभकुक्कुटाश्च बवादिषु ॥ तिथ्यर्धजेषु संक्रांतिवाहनानि यथाक्रमात् ॥' तिथ्य करणं । नारदेन तु विशेषोऽभिहितः-'खशबाहीकवंगेषु संक्रांतेर्धिष्ण्यवाहनम् । अन्यदेशेषु तिथ्यर्धवाहनाः स्युर्बवादयः ॥' इति । यदि संक्रांतिरश्विन्यां तदाऽश्विन्या योनिरश्वस्तद्वाहनं स्यात् खशबाहीकबंगदेशेषु । एवं सर्वनक्षत्रेषु ध्येयम् । अमुमर्थं स्पष्टमाह कश्यपः-'भयोनिकाहनं वंगबाहीकविषये खशे।' इति । अतोऽन्यदेशेषु करणैरेव वाहननिर्णय इत्यर्थः ॥ अथ वस्त्रमुच्यते-श्वेतं शुभ्रं, सुपीतं प्रसिद्धं, हारितकं नीलवर्ण, प्रांडु अरुणवर्ण, आरक्तमलतकवणं, कालं श्यामवर्ण, असितं कजलवर्ण, चित्रमनेकवर्ण, कंबलः प्रसिद्धः, दिक् वस्नाभाका, नग्नत्वमित्यर्थः । घनाभं मेघवर्णम् । उक्तं च-श्वेतपीतहरितपांडुररक्तं श्यामवर्णमसितं बहुवर्णम् । कंबलो विवसनांबुदवर्णान्यंशुकानि च रवेः करणेषु ॥ ॥ अथ शस्त्रमुच्यतेतत्र भुशुंड्यादीन्येकादशायुधानि प्रसिद्धानि । शरासः धनुः । यदाहतुनारदकश्यपौ-'भुशुंडीभिदिपालासिदंडकोदंडतोमरान् । कुंतपाशांकुशास्त्रेषून्बिभर्ति करणेष्विनः ॥' भिंदिपालं गदा, इषुर्बाणः ॥ अथ भक्ष्यमुच्यतेतत्रानं मोदकादि, परमानं पायसं, भैक्षं भिक्षाणां समूहो भैक्षम्, 'भिक्षादिभ्योऽण्' इत्यण् । संन्यासिवद्गहे गृहे गत्वा यत्किंचिदत्रं प्राप्यते तद्वेक्ष. मुच्यते । पक्कानकं अपूपादि, दुग्धं दधि च प्रसिद्धमेव, चित्रितानं बहुभिस्तंदुलमुद्गमसूरिकाहरिद्रादिभिः पक्कमन्नं, गुडमध्वाज्यशर्कराः प्रसिद्धाः। उक्तं च नारदेन 'अन्नं च पायसं भैक्ष्यमपूपं च पयो दधि । चित्रानगुडमध्वाज्यशर्करा च बवादविः ॥ ॥ अथ लेपो विलेपनमुच्यते-तत्र मृगनाभिः कस्तूरी, कुंकुमं प्रसिद्धं, पाटीरं रक्तचंदनं, मृत् प्रसिद्धा, रोचनं गोरोचनं, यावोऽलक्तकः, ओतुमदो मार्जारधर्मः, दक्षिणदेशभाषया 'जवादी'त्युच्यते, निशा हरिद्रा, अंजनं स्रोतोंजनं, 'सुरमे ति भाषायां, कालागुरुः अगरुविशेषः, चंद्रकः कर्पूरः । उक्तं च-'कस्तूरिकाकुंकुमचंदनं मृद्गोरोचनं यावक ओतुधर्मः। निशाजनं चागुरुरिंदुरेभिर्विलेपनं संक्रमणे बवात्स्यात् ॥' अथ जातिरुच्यतेदैवतांदयो दश प्रसिद्धाः, संकरभवाः अनुलोमजाः प्रतिलोमजाश्च । उक्तं च-'देवभूताहिविहगाः पशवो मृग एव च । ब्राह्मणक्षत्रियौ वैश्याः शूद्रा मिश्रा बवादिषु ॥ तज्जातीया विनश्यति षण्मासाभ्यंतरे ध्रुवम् ॥' इति ॥ अथ पुष्पाण्युच्यते-पुन्नागकं नागकेसरवृक्षस्य पुष्पं, जात्यादीन्यंबुजांतानि प्रसिद्धानि, मल्लिका वेलिः, पाटलिका पाटलिः, जपा ओंडूपुष्पम् । उक्तं च-पुन्नागजातीबकुलाः सुकेतकीबिल्वार्कदूर्वाशतपत्र IHHTHHTHHHHI Page #153 -------------------------------------------------------------------------- ________________ कार्यविशेषे ताराबलादि] संक्रांतिप्रकरणम् ३ । मल्लिकाः । ततो भवेत्पाटलिकाजपा ततः पुष्पाणि सूर्यस्य बवादिषु क्रमात् ॥' शतपत्रं-कमलम् । क्वचिद्वयोऽप्युक्तम्-'शिशुः कुमारश्च गतालका युवा प्रौढा प्रगल्भा च ततश्च वृद्धा । वंध्यातिवंध्या च सुतार्थिनी च प्रवाजिका चेति बवादिकानाम् ॥ यद्यद्वयोनुरूपं स्यात्तस्य तस्य महद्भयम्' इति । क्वचिदवस्था अप्युक्ताः-'पंथाश्च भोगो रतिहास्यदुर्मुखी ज्वरान्विता भुक्तसुकंपिता मृता । ध्यानस्थिता कर्कशवृद्धरूपा बवाद्यवस्थाः कथिता मुनींद्रैः ॥' एवं च संक्रमकाले यानि वस्त्राशनवाहनादीन्यभिहितानि, आदिशब्देनायुधलेपनजातिपुष्पाणि, तेषां नाशो भवेत् । च पुनस्तद्वृत्युपजीविनां नाशो भवेत् । स्थितोपविष्टस्वपतां च 'स्यात्तैतिले' इत्यादिना सुप्तत्वादीन्युक्तानि तद्गुणविशिष्टानां नाशः स्यादित्यर्थः । उक्तं च नारदेन-'आयुधं वाहनाहारौ यजातीयं धनं च यत् । सुप्तोपविष्टतिष्ठंतस्ते लोकाः क्षयमाप्नुयुः ॥' इति ॥ १४-१७ ॥ अथ संक्रांतिवशेन प्रतिमनुष्यं शुभाशुभफलमुपजात्याहसंक्रांतिधिष्ण्याधरधिष्ण्यतस्त्रिभे स्वभे निरुक्तं गमनं ततोऽङ्गमे । सुखं त्रिभे पीडनमंगभेऽशुकं त्रिभेऽर्थहानी रसभे धनागमः॥१८॥ संक्रांतीति ॥ संक्रांतिर्यस्मिन्धिष्ण्ये नक्षत्रे स्यात्ततोऽधरधिष्ण्यं पूर्वनक्षत्रं तस्मात्स्वजन्मनक्षत्रं गण्यं, तञ्चत्प्रथमे त्रिभे भवति तदा गमनं यात्रा स्यात् । ततः प्रथमत्रिकादनंतरमंगभेषु षण्नक्षत्रेषु यदि स्वभं तदा सुखं स्यात् । ततस्त्रिभे स्वभे पीडनं शरीरपीडा, पुनरंगभे स्वभे अंशुकं वस्त्रादिप्राप्तिः स्यात् । ततस्त्रिभे स्वभेऽर्थहानिः द्रव्यनाशः । ततो रसभे षण्नक्षत्रे स्वभे धनागमो द्रव्यप्राप्तिः स्यादित्यर्थः । उक्तं च नारदेन–'संक्रांतर्ग्रहणक्षं वा जन्मन्युभयपार्श्वयोः । नेष्टं त्रयं षट् शुभदं पर्यायाच्च पुनः पुनः ॥ हानिर्वृद्धिः स्थानहानिस्तथा प्राप्तिरिति क्रमात् ॥' संक्रांतेर्यनक्षत्रं ग्रहणनक्षत्रं वा यदि जन्मभं भवेदथवा ताभ्यामुभयपार्श्वगतं जन्मभं भवेत्तदा अनिष्टमेव नक्षत्रअयं निषिद्धम् । ततो नक्षत्रषवं शुभं, ततस्त्रिकेऽर्थहानिः, ततः षढे वृद्धिः, ततस्निके स्थानहानिः, ततः षट्सु वृद्धिः (?) षदसु स्थानप्राप्तिरिति । अत एव पठंति दाक्षिणात्याः-'संक्रांत्यधरनक्षत्राद्गणयेजन्मभावधि । त्रिकं षटुं त्रिक षदं त्रिकं षट्कमिति क्रमात् । पंथा भोगो व्यथा वस्त्रं हानिश्च विपुलं धनम् ॥' इति । त्रिकमशुभं षवं शुभमिति फलितोऽर्थः । अत्राशुभफलदायां संक्रांती सत्यां दानमाह नारदः-'तिलोपरि लिखेच्चक्रं त्रित्रिशूलं त्रिकोणकम् । तत्र हेम विनिक्षिप्य दद्याद्दोषापनुत्तये ॥' इति । अत्र चक्राकृतिरियम् । एवं संक्रांतिसंबंधि फलमभिहितम् ॥ १८॥ " अथ कार्यविशेषे बलं सामान्यतः संक्रममाणग्रहबलं चोपजात्याहनृपेक्षणं सर्वकृतिश्च संगरः शास्त्रं विवाहो गमदीक्षणे रवेः । वीर्येऽथ ताराबलतः शुभो विधुर्विधोर्बलेऽर्कोऽर्कबले कुजादयः१९ १ वीर्येऽथ ताराबलतो विधुर्विधोर्बलाद्रविस्तद्वलतः शुभात्परे ॥' इति पाठो दृश्यते स एव टीकानुगुणो लिखितपुस्तकानुसारी चेति ज्ञेयम् । Page #154 -------------------------------------------------------------------------- ________________ मुहूर्तचिंतामणिः । [ क्षयाधिमासयोर्लक्षणं नृपेक्षणमिति ॥ रवेरिति ल्यब्लोपे पंचमी, रविमारभ्येत्यर्थः । रवेः सूर्यस्य वीर्ये बले सति सूर्यवारे वा नृपेक्षणं राजदर्शनं विधेयम् । एवं चंद्रादावपि व्याख्येयम् । ततश्चंद्रे सर्वकृतिः सर्वकृत्यानि, भौमे संगरो युद्धं, बुधे शास्त्रमध्येतव्यमध्याप्यं वा, गुरौ विवाहः, शुक्रे गमो गमनं, शनी दीक्षणं यागादिदीक्षा विधेयेत्यर्थः । उक्तं च श्रीपतिना - 'रविर्नृपविलोकने सुरगुरुविवाहोत्सवे रणे धरणिनंदनो भृगुसुतः प्रयाणे बली । शनिश्च मखदीक्षणे सकलशास्त्रबोधे बुधः शशी सकलकर्मसु ध्रुवमुदाहृतः सूरिभिः ॥' वसिष्ठेनापि - 'राजालोकनसमये रविरार्यः करतलग्रहे सुबली । रणसमये धरणिसुतः प्रयाणसमये सितोऽतिबली ॥ दीक्षणसमयेऽर्कसुतः शशितनयो ज्ञानशिल्पविधौ । निखिलेष्वपि कार्येषु च चंद्रबलं मुख्यमखिलनृणाम् ॥' इति । एतान्यपि कार्याणि सबलग्रहवारे क्रियमाणानि सिध्यतीत्याह वसिष्ठः – 'बलप्रदस्य ग्रहवासरे यद्यच्चोपदिष्टं समुपैति सिद्धिम् । सुदुर्बलस्य ग्रह वासरे तत्प्रयत्नपूर्व त्वपि नैव साध्यम् ॥' इति । ग्रहेति लुप्तषष्ठीकं पृथक्पदं ग्रहस्येत्यर्थः । बलप्रदत्वदुर्बलत्वे गोचरप्रकरणोक्तविहितानुक्तस्थानवशेन ज्ञेये । तदाह श्रीपतिः - 'वारे ग्रहस्योपचयावहस्य कार्य यथोद्दिष्टमुपैति सिद्धिम् । भवेत्तदेवापचयावहस्य प्रयत्नतो निर्मितमप्यसाध्यम् ॥' इति ॥ अथेति । ताराबलतो विधुः शुभो ज्ञेयः । यदा चंद्रसंक्रमणं स्यात्तत्र ताराबलं चेत्स्यात्तदा सपाददिनद्वयं चंद्रोऽशुभोऽपि शुभः । तारादौष्ट्ये तु शुभोऽप्यशुभ इत्यर्थः । एवं विधोर्बलाद्रविः संक्रमणेऽशुभोऽपि मासपर्यंतं शुभः, शुभस्तु सुतरां समीचीन एव, चंद्रदौष्ट्ये तु शुभोऽप्यशुभ इत्यर्थः । परे भौमादयः संक्रांतिं चिकीर्षतः संतः तद्वलतः सूर्यबलादशुभा अपि शुभा ज्ञेयाः । स्वराशिभोगकालावधिरविदौष्ट्ये तु शुभा मप्यशुभा इत्यर्थः । यदाह कश्यपः - बलेन शीतांशुर्बलवांस्तद्वशाद्रविः । बली संक्रममाणस्य वशात्खेटा बलाधिकाः ॥ यादृशेनेंदुना भानोः संक्रांतिस्तादृशं फलम् । नरः प्राप्नोति तद्वाशेः शीतांशोः साध्वसाधुते ॥' इति । संक्रममाणस्य रवेरित्यध्याहारः । यत्तु दीपिकायाम् – 'याशेन शशांकेन ग्रहः संचरते नृणाम् । तादृशं फलमामोति शुभं वा यदि वाऽशुभम् ॥' इति चंद्रवशेनैवाखिलग्रह संबंधि शुभाशुभत्वमुक्तम् । तत्र ग्रह इत्येकवचननिर्देशाल्लिखितकश्यपवाक्यस्वरसाच्च सूर्य एव ग्रा नान्य इति तट्टीकाकारो व्याख्यत् । अन्यथा 'संचरेयुर्ब्रहा नृणाम्' इत्यवक्ष्यत् ॥ १९ ॥ - 'तारा १३८ अथाधिमा सक्षयमासयोः संक्रांत्यधीनत्वात्तयोर्निर्णयः प्रस्तूयते, तत्र तलक्षणमुपजात्याह - स्पष्टार्कसंक्रांतिविहीन उक्तो मासोऽधिमासः क्षयमासकस्तु । द्विसंक्रमस्तत्र विभागयोः स्तस्तिथेर्हि मासौ प्रथमांत्य संज्ञौ ॥२०॥ स्पष्टार्केति ॥ शुक्लपक्षप्रतिपदादिदर्शातश्चांद्रो मासः स चेत्स्पष्टसूर्य Page #155 -------------------------------------------------------------------------- ________________ क्षयमासे विहितकार्यादि] संक्रांतिप्रकरणम् ३ । संक्रांत्या विहीनो रहितो भवेत्तदाधिकमास उक्तः । उक्तं च ब्रह्मसिद्धांते'चांद्रो मासो ह्यसंक्रांतों मलमासः प्रकीर्तितः।" इति । तुर्विशेषे कदाचिच्छब्दापरपर्यायः । कदाचित्स चांद्रो मासो द्विसंक्रमः द्वौ संक्रमौ सूर्यसंक्रमौ यस्मिन्नसौ द्विसंक्रमः स्पष्टसूर्यसंक्रांतिद्वययुतः क्षयमास उक्तः । यदाह वसिष्ठः-'यस्मिन्दर्शस्यान्तादगेवापरं दर्शम् । उल्लंघ्य भवति भानोः संक्रांतिः सोऽधिमासः स्यात् ॥ आद्यंतदर्शयोर्मध्ये भानोरेवं तयोर्यदा। संक्रांतिद्वितयं स्याञ्चेश्यूनमासः स उच्यते ॥' एतौ चाधिमासक्षयमासौ स्पष्टमानेनैव ज्ञेयौ । तदाह कश्यपः-'यस्मिन्मासेऽर्कसंक्रांतिदर्शान्तात्प्राक् पुनः परम् । दर्शमुलंघ्य भवति स संसोऽधिमासकः ॥ आरभ्य शुक्लप्रतिपत्प्र. वेशात्संक्रमद्वयम् । आगामींदुक्षयस्यांतात्प्राङ्न्यूनाख्यस्त्वहर्पतिः। स्फुटाकेसंक्रमाद्विद्याम्न्यूनमासाधिमासकौ । मासौ न्यूनाधिकौ तौ तु सर्वकर्मबहिस्कृतौ ॥' इति । सिद्धांतशिरोमणावपि-असंक्रांतिमासोऽधिमासः स्फुटः स्थाद्विसंक्रांतिमासः क्षयाख्यः कदाचित्' इति । स्फुटः स्फुटेंदुमासः । स्फुटत्वमपि तत्रैव-'स्पष्टोऽधिमासः पतितोऽप्यलब्धो यदा यदा वाऽपतितोऽपि लब्धः । सैकैर्निरेकैः क्रमशोऽधिमासैस्तदा दिनौधः सुधिया प्रसाध्यः ॥' इति । इदमग्रे स्पष्टं व्याख्यास्यते। अत्राधिमासक्षयमासलक्षणप्रयोजनं नोक्तम् , माघप्रकरणे (श्लो०४७) 'वृद्धत्वास्तशिशुत्व इज्यसितयोन्यूनाधिमासे तथा' इत्यादिनोक्तत्वात् । क्षयमासे परः कश्चिद्विशेषो वक्तव्योऽस्ति, सोऽत्रैवाभिधातुमुचित इत्याह-तत्रति । तत्र क्षयमासे मासद्वयसंज्ञा शुक्ल-कृष्णपक्षभेदेन । तस्याः सप्रयोजनविषयकल्पनोच्यते । विभागयोरिति । तत्र क्षयमासे जातानां वर्धापने मृतानां श्राद्धे च तिथेर्विभागयोः पूर्वोत्तरदलयोः संबंधेन प्रथमांत्यसंज्ञौ मासौ स्तः स्याताम् । तिथिपूर्वार्धे जातानां मृतानां च पूर्वमासे वर्धापनं श्राद्धं च विधेयम् । तिथेरुत्तरार्धे जातानां मृतानां चोत्तरमासे वर्धापनं श्राद्धं च विधेयम् । तदुक्तम्-तिथ्यर्धे प्रथमे पूर्वोऽपरस्मिन्नपरस्तथा। मासाविति बुधैश्चित्यौ क्षयमासस्य मध्यगौ ॥' इति । एवं यथाश्रुतोऽर्थो व्याख्यातः । तत्र न्यूनाधिमासविषयको भूयान् विचारो वक्तव्योऽस्ति । सोऽस्मत्पितृचरणैस्तोडरानंदे कालशुद्धिसौख्ये सप्रपंचं निरूपितस्तत एवाऽवधार्यः । इह तु ग्रंथगौरवभयाप्रस्तुतविचारानहत्वाञ्च नामाभिरुक्त इति शिवम् ॥ इति श्रीदेवज्ञानंतसुतदैवज्ञरामज्योतिर्विद्विरचिते मुहूर्तचिंतामणौ संक्रांतिप्रकरणं समाप्तम् ॥३॥ स्पष्टार्थम् । 'ज्योतिर्विद्वरनीलकंठविदुषः श्रीचंद्रिकायास्तथा पुत्रेणाहिगवीप्रसारितधिया मौहूर्तचिंतामणेः ॥ गोविंदेन विनिर्मिते नयनिधौ पीयूषधाराभिधे व्याख्याने खलु संक्रमप्रकरणं संपूर्णतामध्यगात् ॥ १॥' इति श्रीविद्वहैवज्ञमुकुटालंकारनीलकंठज्योतिर्वित्पुत्रगोविंदज्योतिर्विद्विरचितायां मुहूर्त चिंतामणिटीकायां पीयूषधाराभिधायां संक्रांतिप्रकरणं समाप्तम् ॥ ३ ॥ Page #156 -------------------------------------------------------------------------- ________________ १४० मुहूर्तचिंतामणिः। [ग्रहाणां गोचरफलम् गोचरप्रकरणम् ४। . . विघ्नराजमभिवंद्य सिद्धिदं नीलकंठतनयेन धीमता । शिष्यमोहविनिवृत्तिकारणं गोचरप्रकरणं विविच्यते ॥ अथ गोचरप्रकरणं व्याख्यायते । तत्र जन्मराशितः प्रोक्तनिषिद्धस्थानस्थितेदानींतनग्रहवशेन शुभाशुभनिरूपणं गोचर इत्युच्यते । तत्र ग्रहाणां गोचरफलं शुभाशुभरूपमुपजातिकाद्वयेनेंद्रवज्रयोपजातिकापूर्वार्धेन चाहसूर्यो रसांत्ये खयुगेऽग्निनंदे शिवाक्षयोभॊमशनी तमश्च । रसांकयो भशरे गुणांत्ये चंद्रोऽम्बराब्धौ गुणनंदयोश्च ॥१॥ लाभाष्टमे चायशरे रसांये नगद्वये ज्ञो द्विशरेऽब्धिरामे । रसांकयोनागविधौ खनागे लाभव्यये देवगुरुः शराब्धौ ॥२॥ यंत्ये नवांशेऽद्रिगुणे शिवाही शुक्रः कुनागे द्विनगेऽग्निरूपे । वेदांबरे पंचनिधौ गजेषौ नंदेशयोभानुरसे शिवानौ ॥३॥ क्रमाच्छुभो विद्ध इति ग्रहः स्यापितुः सुतस्यात्र न वेधमाहुः । सूर्य इति ॥ लाभाष्टमे इति॥ यंत्ये इति॥क्रमादिति ॥ 'सूर्यो रसांत्ये' इत्यादौ 'सर्वो द्वंद्वो विभाषयकवद्भवति' इति समाहारद्वंद्व एकवचनांतः । शिवाक्षयोरित्यादावितरेतरयोगद्वंद्वः। अंबराब्धावित्यादिषु तु 'अनित्यमागमशासनम्' इति नुमभावो ज्ञेयः। एवं सर्वत्र व्याख्येयम् । अत्र चतुर्थश्लोकेनान्वयः। स्वजन्मराशेरिति पंचमश्लोकस्थपदमत्राध्याहार्यम् । तत्र सूर्यो ग्रहः स्वजन्मराशेः रसांत्ये क्रमाच्छुभो विद्धश्च स्यात् । सूर्यः स्वजन्मराशेः सकाशाद्यदि षष्ठस्थाने तदा शुभः, तत एव जन्मराशे दशस्थानस्थिताश्चेदन्ये ग्रहाः स्युस्तदा विद्धः । शुभोऽप्यशुभफलदाता। अत्र शनैश्चरस्य सूर्यपुत्रत्वात्तद्वेधो नांगीकार्यः। यतः पितुर्जनकस्य सुतसंबंधिनं वेधं नाहुः । सुतस्यापि पितृसंबंधिवेधं नाहुः । तथा खयुगे जन्मराशेर्दशमे सूर्यः शुभश्चतुर्थस्थानस्थिताश्चेदन्ये ग्रहाः शनिवर्जिताश्च स्युस्तदा विद्ध इत्येवं श्लोकत्रयं सम्यग्व्याख्येयं । तथा अग्निनंदे तृतीयनवमयोः शिवाक्षयोरेकादशपंचमयोः सूर्यः क्रमाच्छुभो विद्धश्च ज्ञेयः। उक्तं च नारदेन-'शुभोऽकों जन्मतस्यायदशषट्सुन विध्यते। जन्मतो नवपंचांबुव्ययगैार्किभिस्तदा ॥' अथ भौमेति । भौमशनी तमो राहुश्चैते ग्रहाः स्वजन्मराशितः रसांकयोः षष्ठनवमस्थानयोः लाभशरे एकादशपंचमयोः गुणांत्ये तृतीयद्वादशयोः क्रमाच्छुभा विद्धाश्चेत्यर्थः, परंतु शनेः सूर्यवेधो नास्तीत्युक्तमेवेति । यदाह वसिष्ठः-'त्रिषडेकादशसहितो धरासुतो रिःफधर्मसुतसंस्थैः । दिनकरतनयोऽपि शुभो न विध्यते खेचरैर्विनोष्णकरम् ॥' इति । शनिवद्राहु Page #157 -------------------------------------------------------------------------- ________________ १४१ महाणां स्थानफलानि] गोचरप्रकरणम् ४ । ज्ञेय इति वचनादाहोरप्येवमेवैष विचारः । राहोरुपलक्षणत्वात्केतोरपि । उक्तं च शार्ङ्गधरेण-'राहुकेतुफलं सर्व मंदवत्कथितं बुधैः । वेधोऽपि तद्वदेवोह्यो वामवेधस्तथैव च ॥ अथ चंद्र इति । जन्मराशितः अंबराब्धौ दशमचतुर्थयोः गुणनंदयोस्तृतीयनवमयोः लामाष्टमे एकादशाष्टमयोः आद्यशरे प्रथमपंचमयोः रसांत्ये षष्ठद्वादशस्थानयोः नगद्वये सप्तमद्वितीययोः स्थानयोश्चंद्रः क्रमाच्छुभो विद्धश्च ज्ञेयः। परंतु चंद्रस्य बुधवेधो नास्ति । उक्तं च नारदेन-'विध्यते जन्मतो नेंदुचूनाद्यायारिखत्रिषु । स्वेष्वष्टांत्यांबुधर्मस्थैविबुधैर्जन्मतः शुभः ॥' इति ।ज्ञ इति। जन्मराशेः द्विशरे द्विपंचमयोः अब्धिरामें चतुर्थतृतीययोः रसांकयोः षष्ठनवमयोः नागविधौ अष्टमप्रथमयोः खनागे दशमाष्टमयोः लाभव्यये एकादशद्वादशयोः स्थानयोझै बुधः क्रमाच्छुभो विद्धश्च ज्ञेयः । परं त्वत्र चंद्रवेधो नास्ति । यदाह नारदः-'ज्ञः स्वाब्ध्यर्यष्टखायेषु जन्मतश्चेन्न विध्यते । सुतळ्यकाद्याष्टमांत्यसंस्थितैरिंदुजः शुभः॥' इति । देवगुरुरिति । जन्मराशितः शराब्धौ पंचमचतुर्थयोः यंत्ये द्वितीयद्वादशस्थानयोः नवांशे नवमदशमयोः अद्विगुणे सप्तमतृतीययोः शिवाही एकादशाष्टमयोः स्थानयोः देवगुरुव॒हस्पतिः क्रमाच्छुभो विद्धश्च ज्ञेयः । उक्तं च नारदेन–'जन्मतः स्वायगोध्यद्रिष्वंत्याष्टखजलत्रिभैः । जन्मराशेर्गुरुः श्रेष्ठो ग्रहैयदि न विध्यते ॥' इति । धीः पंचमं । शुक्र इति । जन्मराशेः कुनागे प्रथमाष्टमयोः द्विनगे द्विसप्तमयोः अग्निरूपे तृतीयप्रथमयोः वेदांबरे चतुर्थदशमयोः पंचनिधौ पंचमनवमयोः गजेषौ अष्टसंपंचमयोः नंदेशयोनवमैकादशयोः भानुरसे द्वादशषष्ठयोः शिवाग्नौ एकादशतृतीययोः स्थानयोः शुक्रः क्रमाच्छुभो विद्धश्च ज्ञेयः। यदाह नारद:-'जन्मभादासुताष्टांकात्यायेष्विष्टो न विध्यते । भार्गवो मृत्युसप्ताद्यखांकेष्वायारिपुत्रिगैः ॥' इति । मासुतेत्यभिविधावाङ् । 'सह तेनेत्यभिविधि'रिति । तेन प्रथमद्वितीयतृतीयचतुर्थपंचमानां ग्रहणमित्यर्थः । इदमत्राकृतम्-'सूर्यो रसांत्ये' इत्यादौ प्राक्पठितेषु स्थानेषु विद्यमानः स ग्रहः शुभदः। शुभस्थानव्यतिरिक्ताखिलस्थानेषु विद्यमानः स स ग्रहोऽशुभफलदाता। अत एवाह श्रीपतिः'सर्वे लाभगृहस्थितास्त्रिखरिपुष्वर्कः कुजार्की विषप्राप्ती व्याद्यखमन्मथारिषु शशी खास्तारिवज्यं भृगुः । धीधर्मास्तधनेषु वाक्पतिररिस्वाष्टांबुखस्थो बुधः श्रेष्ठो जन्मग्रहाद्धि गोचरविधौ विद्धो न चेत्स्याङ्कहैः ॥' इति । अर्थादेवानुक्तस्थानेष्वशुभः स स ग्रहः । अत्र ग्रहाणां विहितनिषिद्धस्थानफलानि विधिरत्नेस्थानं जन्मनि नाशयेद्दिनकरः कुर्याद्वितीये भयं दुश्चिक्ये श्रियमातनोति हिबुके मानक्षयं यच्छति । दैन्यं पंचमगः करोति रिपुहा षष्ठोऽर्थहा सप्तमे पीडामष्टमगः करोति परुषां कांतिक्षयं धर्मगः॥ कर्मसिद्धिजनकस्तुकर्मगो वित्तलाभकृदथायसंस्थितः। द्रव्यनाशजनितां महापदं यच्छति व्ययगतो दिवाकरः॥' -इति रविः । 'जन्मन्यन्नं दिशति हिमगुर्वित्तनाशं द्वितीये दद्याद्रव्यं सहजभवने कुक्षिरोगं चतुर्थे । कार्यभ्रंशं तनयगृहगो वित्तलाभं च षष्ठे छूने द्रव्यं युवतिसहितं मृत्युसंस्थोपमृत्युम् । नृपभयं कुरुते नवमः शशी दशमधामगतस्तु महत्सु Page #158 -------------------------------------------------------------------------- ________________ १४२ मुहूर्तचिंतामणिः । [ ग्रहाणां स्थानफलानि खम् । विविधमासगतः कुरुते धनं व्ययगतस्तु रुजं धनसंक्षयम् ॥' - इति चंद्रः । 'प्रथमगृहगः क्षोणीसूनुः करोत्यरिजं भयं क्षपयति धनं वित्तस्थाने तृतीयगतोऽर्थदः । अरिभयमतः पातालेऽर्थान्क्षिणोति हि पंचमो रिपुगृहगतः कुर्याद्वित्तं रुजं मदनस्थितः ॥ जनयति निधनस्थः शत्रुबाधां धराजो दिशति नवमसंस्थः कायपीडामतीव । शुभमपि दशमस्थो लाभगो भूरिलाभं व्ययभवनगतोऽसौ व्याध्यनर्थार्थनाशान् ॥ ' - इति भौमः । 'बुधः प्रथमगो भयं दिशति बंधमर्थ धने धनं रिपुभयान्वितं सहजगश्चतुर्थोऽर्थदः । अनिर्वृतिकरो भवेत्तनयगोऽरिगः स्थानदः करोति मदनस्थितो बहुविधां शरीरव्यथाम् ॥ अष्टमे शशिसुतो धनवृद्धिं धर्मगस्तु महतीं तनुपीडाम् । कर्मगः सुखमथायगतोऽर्थ द्वादशे भवति वित्तविनाशः ॥ ' - इति बुधः । ' भयं जन्मन्यार्यो जनयति धनस्थोऽर्थमतुलं तृतीयेऽङ्गक्लेशं दिशति च चतुर्थेऽर्थविलयम् । सुखं पुत्रस्थाने रुजमपि च कुर्यादरिगृहे गुरुर्द्यूने पूजां धननिचयनाशं च निधने ॥ धर्मगतो धनवृद्धिकरः स्यात्माप्तिहरो दशमेऽमरपूज्यः । स्थानधनानि ददाति स चाये द्वादशगस्तनुमानसपीडाम् ॥' - इति गुरुः । 'जन्मन्यरिक्षयकरो भृगुजोऽर्थदोऽर्थे दुश्चिक्यगः सुखकरो धनदश्चतुर्थः । स्यात्पुत्र दस्तनयगोऽरिगतोsरिवृद्धिं शोकप्रदो मदनगो निधनेऽर्थदाता ॥ जनयति विविधांबराणि धर्मे न सुखकरो दशमस्थितस्तु शुक्रः ॥ धननिचयकरः स लाभसंस्थो व्ययभवनेऽपि धनागमं करोति ॥ ' - इति शुक्रः । 'वित्तभ्रंशं रुगाप्तिं दिनकरतनये जन्मराशि प्रपन्ने वित्तक्लेशं द्वितीये धनहरणकृतं वित्तलाभं तृतीये । पाताले शत्रुवृद्धिं सुतभवनगतः पुत्रभृत्यार्थनाशं षष्ठे स्थानेऽर्थलाभं जनयति मदने दोषसंघात - मार्किः ॥ शरीरपीडां निधने च धर्मे धनक्षयं कर्मणि दौर्मनस्यम् । उपांत्यगो वित्तमनर्थमंत्ये शनिर्ददातीत्यवदद्वसिष्ठः ॥ ' - इति शनिः । ' राहुर्जन्मगतो भयं च कलहं सौभाग्यमानक्षयं वित्तभ्रंशमहासुखं नृपभयं चार्थक्षयं यच्छति । संतापं कलहं च वित्तमधिकं शीघ्रं विनाशं नृणां केतुस्तत्फलमेव राशिषु वदेच्छं संति गर्गादयः ॥ ' - इति राहुः । एतच्च शुभाशुभफलं ग्रहा ऋक्षसंधिगतास्तथा राशिसंधिगता एप्यराशेः फलं ददति, वक्रिणस्तु प्राप्राशेरित्याह कमलासनः — 'ऋक्षसंधिगताः खेटा राशिसंधिगता ग्रहाः । एष्यराशेः फलं दद्युर्व तद्विपरीतगम् ॥' इति । राशिग्रहणं नक्षत्रस्याप्युपलक्षणम् । वसिष्ठोऽपि - 'भवनांत्यगताश्च यदा धिष्ण्यांतगताश्च गगनचराः । दधुः परभवनफलं प्राग्भवनफलं च वक्रिता ये च ॥' इति । अस्यार्थः - ऋक्षं नक्षत्रं तस्य संधिः एकस्मान्निर्गत्यापरत्र संक्रमणं संधिरेवं राशिसंधिश्च । तत्र संधिज्ञानम् - 'देवद्व्यंकर्तवोऽष्टाष्टौ नाड्योंकाः खनृपाः क्रमात् । वर्ज्याः संक्रमणेऽर्कादेः प्रायोऽर्कस्थातिनिंदिताः ॥' इति विवाहप्रकरणे वक्ष्यति ग्रंथकृत् । संक्रमणकाल एव संधिकालः, सर्वेषां ग्रहाणां ' षष्टिघ्नबिंबं ग्रहभुक्तिभक्तम्' इत्यादिना भास्करेणोक्तत्वात् । तदेतदस्माभिः संक्रांतिप्रकरणे सप्रपंचं निरूपितं तत एवावधार्यम् । तत्र सूर्यादिग्रहाः देवद्वयंकेतिपद्येोक्तार्धघटिकोपलक्षिते नक्षत्रांते १ प्रीतिहर इति पाठः । Page #159 -------------------------------------------------------------------------- ________________ द्विविधवेधे मतद्वयम् ] गोचरप्रकरणम् ४ । १४३ राश्यते वा स्थिता जिगमिषितस्य नक्षत्रस्य राशेर्वा फलं प्रयच्छंति । वक्रिणस्तु पूर्वोक्तलक्षणोपलक्षिते नक्षत्रादौ राश्यादौ वा स्थिता भुक्तस्य नक्षत्रस्य राशेर्वा फलं ददति । तत्र भौमाद्या ग्रहाः वक्रातिचारयोः प्रामाशिफलं कियंति दिनानि प्रयच्छंतीत्याह वसिष्ठः-'दशदिवसं पंचदिनं त्रिपक्षमतिचारर्वक्रयोदंद्युः । भौमायाः पंच दिन प्रामाशिफलं च पंचमासांश्च ॥' इति । भौमाद्याः स्वगत्या यावता कालेन राशिं जहति न ततोऽल्पन्यूनाधिकभावेन स्पष्टगत्या राशि जहति स चारः । यदा स्वसमये एव राशिं जहति सोऽतिचारः । वक्र प्रसिद्धमेव ॥ १-३॥ अथ वामवेधं शुक्लपक्षे चंद्रबलं चोपजात्युत्तरार्धेनाहदुष्टोऽपि खेटो विपरीतवेधाच्छुभो द्विकोणे शुभदःसितेऽजः॥४॥ दुष्टोऽपीति ॥ दुष्टोऽपि स्वजन्मराशेः सकाशादनिष्टस्थानस्थितोऽपि खेटो ग्रहो विपरीतवेधात् वामवेधाच्छुभः शुभफलदाता।अयमर्थः-तेषु षष्ठदशमतृतीयैकादशेषु स्थितः सूर्यः शुभफलदाता तद्भिन्नान्यष्टौ स्थानान्यशुभान्येव । तत्र द्वादशचतुर्थनवमपंचमाख्येष्वनिष्टस्थानेषु स्थितः सूर्यस्तदैवानिष्टफलद: स्थायदा प्राक् पठितैः क्रमेण षष्ठादिस्थानस्थितैः शनिवर्जितैर्ग्रहैन विद्धः । यदा तु विद्धस्तदाऽशुभफलदोऽपि षष्ठादिस्थानशुभफलदातैव स्यात् । अन्येषु स्थानेषु प्रयमद्वितीयसप्तमाष्टमेषु स्थितः सूर्योऽनिष्फलदातैव । एवं चंद्रबुधयोः षडेव विरुद्धस्थानानि षडेव शुभस्थानानीति क्रमवेधवामवेधौ स्याताम् । भौमस्य तु त्रीण्येव शुभस्थानानीतराण्यशुभान्येव,तत्र नवमपंचमद्वादशस्थानस्थितभौमस्थाशुभस्य क्रमेण षष्ठैकादशतृतीयस्थानस्थैर्ग्रहैर्वामवेधेन शुभत्वमेव । अन्येष्वशुभस्थानेष्वशुभ एवं भौमः। एवं शनिराहुकेतवो ध्येयाः। गुरोरप्येवमेव । तत्र तु प्रथमषष्ठस्थानस्थो गुरुरशुभ एव । शुक्रस्य तु नवस्थानानां शुभत्वात्तद्यतिरिक्तानि त्रीणि षष्ठसप्तमदशमस्थानान्यशुभानि, तेषामेव क्रमेण द्वादशद्वितीयचतुर्थस्थानस्थग्रहजनितवामवेधेन शुभत्वमेव । अन्येषां तूत्तरपठितस्थानानां शुभत्वादेव न वामवेधविचारार्हत्वमिति परिच्छिन्नोऽर्थः । यदाह कश्यपः–'अपि विद्धो ग्रहः कश्चिन्न ददाति शुभं फलम् । वामवेधविधानेन त्वशुभोऽपि शुभप्रदः । अतस्तद्विविधं मूलं विचार्यैव फलं वदेत् ॥' इति । वसिष्ठोऽपि-वेधसमन्वितखचरा न नृणांप्रदिशंति सत्फलं किंचित् । व्यत्ययवेधविधानादप्यशुभास्ते शुभप्रदाः सततम् ॥' इति । व्यत्ययवेधः वामवेधः। द्विकोण इति । सिते शुक्लपक्षेऽनश्चंद्रो द्विकोणे द्वितीयनवमपंचमस्थानेषु स्थितः शुभदः । अत्रापि क्रमेण षष्ठाष्टमचतुर्थस्थानस्थितैर्बुधवर्जितैर्ग्रहैयदि न विद्ध इत्यपि ध्येयम् । उक्तं च नारदेन-'शुक्लपक्षे शुभश्चंद्रो द्वितीयनवपंचमैः । रिपुमृत्यंबुसंस्थै श्चेन्न विद्धो गगनेचरैः ॥' इति । यदि विध्यते तदाशुभफलद एव ॥४॥ मथ द्विविधवेधे मतद्वयमुपजात्याहखजन्मराशेरिह वेधमाहुरन्ये ग्रहाधिष्ठितराशितः सः। हिमाद्रिविंध्यांतर एव वेधो न सर्वदेशेष्विति कश्यपोक्तिः ॥५॥ Page #160 -------------------------------------------------------------------------- ________________ मुहूर्तचिंतामणिः । [ ग्रहणनक्षत्रादिफलानि स्वजन्मेति ॥ इह द्विविधवेधविधावन्ये नारदादयः स्वजन्मराशेः सकाशाद्विविधं वेधं क्रामिकं वेधं वामवेधं चाहुः । तथा चोभयत्रापि नारदेन जन्मत इत्युक्तम् । अथ कश्यपादिमतमुच्यते । स पुनर्द्विविधोऽपि वेधो ग्रहाधिष्ठितराशितो ज्ञेयः । यथा सूर्यो जन्मराशेः सकाशात्षष्ठस्थितः शुभः स सूर्यः स्वाक्रांतराशितो द्वादशस्थानस्थितैः शनिवर्जितैर्ग्रहैर्न विद्ध:, तथा सूर्यो जन्मराशेर्द्वादशस्थोऽनिष्टः, स सूर्यः स्वाक्रांतराशिषष्ठस्थित्यैव शनिवर्जितैर्ग्रहैर्विद्धश्चेत्तदा शुभफलद इत्यर्थः । अथैतस्य द्विविधवेधस्य देशविशेषविषयत्वमुच्यते । हिमाद्रिविंध्यनामानौ पर्वतौ प्रदेशविशेषावस्थित्या प्रसिद्धौ, तयोरंतरालवर्तिन्येव देशे स द्विविधोऽपि वेधो ज्ञेयः, न सर्वदेशेषु । हिमाद्रिविंध्यांतरालबहिर्भूतसर्वदेशेषु द्विविधोऽपि वेधदोषो नास्तीति कश्यपस्य मुनेरुक्तिर्वचनमस्ति । यदाह कश्यपः - ' ज्ञातव्यं जन्मराशेस्तु निखिल यद्बलाबलम् । हिमाद्रिविन्ध्ययोर्मध्ये वेधजं तग्रहालयात् ॥' इति । वयं तु - 'सूर्यो रसान्त्ये' इति क्रामिको वेधो जन्मराशित एव ज्ञेयः, वामवेधस्तु अधिष्ठितराशितः - इति ब्रूमः । तदाह गुरुः - ' जन्मतः क्रमवेधः स्याद्वामवेधो ग्रहालयात् ॥' इदमपि हिमाद्रिविंध्यांतरविषयमेवेत्यन्ये । एतज्ज्ञानं दुर्घटमित्याहतुर्नारदकश्यपौ - 'अज्ञात्वा द्विविधं वेधं यो ग्रहज्ञो बलं वदेत् । स मृषावचनाभाषी हास्यं याति जनैः सदा ॥' इति । एवं प्रकारेण गोचरबलं ज्ञात्वा ग्रहदौष्ट्ये यात्रादिकं न कार्यम् । तदुक्तं श्रीपतिना - 'अकालचर्यां मृगयां च साहसं सुदूरयानं गजवाजिवाहनम् । गृहे परेषां गमनं विवर्जयेहेषु राजा विषमस्थितेषु हि ॥' अत एव तत्र ग्रहशान्तिरपि विधेया । यदाह नारदः - 'ग्रहेषु विषमस्थेषु शांतिं यत्वात्समाचरेत् । हानिवृद्धी ग्रहाधीने तस्मात्पूज्यतमा ग्रहाः ॥' इति । विपर्यये चानिष्टमित्याह वसिष्ठः – 'ग्रहेषु विषमस्थेषु यः शान्तिं न करोति सः । अर्थहानिं च मरणं चानुते सर्वसंकटम् ॥' इति । सा च शान्तिर्वसिष्ठसंहितोक्तप्रकारेण मत्स्यपुराणोक्तप्रकारेण वाऽनुष्ठेया । तत्र शान्तिकालमाह वसिष्ठः - 'मासि मास्ययने चैव चन्द्रसूर्यग्रहेऽपि वा । विषुवत्यर्कसंक्रांतौ व्यतीपाते दिनक्षये ॥' इति । कदाचिच्छांत्यविषयग्रहकृतशुभपापफलाभावोऽपि भवतीत्याह नारदः - 'सौम्येक्षितोऽनिष्टफलः शुभदः पापवीक्षितः । निष्फलौ तौ ग्रहौ, स्वेन शत्रुणा चावलोकितः ॥ नीचराशिगतः स्वस्य शत्रुक्षेत्रगतोऽपि वा । शुभाशुभफलं नैव दद्यादस्तंगतोऽपि वा ॥' इत्येतादृशस्थले 'दुष्टत्वाभावादेव शान्त्यभावः निमित्तापाये नैमित्तिकस्याप्यपाय' इति न्यायात् । 'अनिमित्तकृता शांतिर्निमित्तायोपजायते' इति विपक्षबाधकस्मरणाच्चेति भावः ॥ ५ ॥ १४४ अथ गोचरप्रस्तावाग्रहणनक्षत्रफलं ग्रहणीयराहुकेतु गोचरफलं ग्रहणाशुभप्रतीकारं च दुष्ट ग्रहणदर्शननिषेधं च शार्दूलविक्रीडितेनाहजन्मर्थे निधनं ग्रहे जनिभतो घातः क्षतिः श्रीर्व्यथा चिंतासौख्यकलत्र दौःस्थ्यमृतयः स्युर्माननाशः सुखम् । लाभोsपाय इति क्रमात्तदशुभध्वस्त्यै जपः स्वर्णगो दानं शांतिरथो ग्रहं त्वशुभदं नो वीक्ष्यमाहुः परे ॥ ६ ॥ Page #161 -------------------------------------------------------------------------- ________________ ग्रहणीयनक्षत्रादिफलानि ] गोचरप्रकरणम् । . जन्मः इति ॥ अत्र ग्रहणीयनक्षत्रनिषेधस्तावदुच्यते । यस्य पुंसो जन्मनक्षत्रे ग्रहो ग्रहणं 'उपरागो ग्रहो राहुग्रस्ते त्विदौ च पूणि चे'त्यमरः। तस्मिन्ग्रहणे सति निधनं मृतिः स्यात् । यदाह वसिष्ठः-'यस्यैव जन्मनक्षत्रे अस्येते शशिभास्करौ । तस्य व्याधिभयं घोरं जन्मराशौ धनक्षयः' इति । ज्योतिर्निबंधे फलप्रदीपे-'ग्रहणं जन्मनक्षत्रे जायते शशिसूर्ययोः। यस्य तस्याशुभं हानि?ररोगोऽपि संभवेदिति । ज्योतिःपराशरः-'यन्नक्षत्रगतो राहुर्घसते शशिभास्करौ । तजातानां भवेत्पीडा ये नराः शांतिवर्जिताः' इति ॥ भार्गवीये विशेषोऽपि-'यस्य राज्यस्य नक्षत्रे स्वर्भानुरुपरज्यते ।राज्यभंगं सुहृन्नाशं मरणं चात्र निर्दिशेत् ॥' इति ॥ राज्यस्य नक्षत्रे-अभिषेकनक्षत्रे। यदा कदाचिद्गाहुभुज्यमाननक्षत्रमुपरागनक्षत्रं चैकमेव तदाऽसंदिग्धः फलनिर्देशः । यदा तु नक्षत्रभेदस्तदोपरज्यमाननक्षत्रेणैव फलनिर्देशः। एवं राशिमेदेऽप्युपरज्यमानराशिनैव जायते। अस्मन्मते राहोर्दिग्देशकालावरणादिभेदाद्वेधकत्वमेव नास्ति। तदुक्तं सिद्धांतशिरोमणी-'दिग्देशकालावरणादिभेदे न वेधको राहुरिति बुवंति ।' एतदुपपत्तिर्भास्करेण स्वपथैरेव निरूपिता। पितृचरणैश्च तोडरानंदे राहुचारविलासे प्रपंचेनाभ्यधायि । परंतु राहुसाहित्यं विना ग्रहणानयनस्य शरसंस्कृतिमानैक्यखंडाद्यानयनविशिष्टस्यासुकरत्वादिति साहित्यविवक्षयैव राहोरुपरक्तत्वमुच्यते । अत एवोक्तं वराहेण-तस्मिन्काले सानिध्यमस्य तेनोपचर्यते राहुः । याम्योत्तरा शशिगतिर्गणिते ह्युपचर्यते तेन ॥' इति ॥अथ राशिकलमुच्यते-जनिभत इति । पंचम्यास्तसिल । जन्मराशेरारभ्य द्वादशसु राशिषु ग्रहणे सति क्रमादनुक्रमेण घातादिफलं भवति । यथा जन्मराशौ ग्रहणे सति घातः शरीरपीडा, द्वितीयराशौ क्षतिः द्रव्यनाशः, तृतीयराशौ श्रीः लक्ष्मीः, चतुर्थराशौ शरीरपीडा, पंचमराशौ चिंता पुत्रादीनां, षष्ठराशौ सौख्यं, सप्तमराशौ कलत्रदौःस्थ्यं स्त्रीमरणं, अष्टमराशौ मृतिमरणं, नवमराशौ मान. .नाशः, दशमराशौ सुखं, एकादशराशौ लाभः, द्वादशराशौ अपायो नाशः । मात्मन इति केचित् । दुव्यस्येत्यपरे । इदं च फलं षण्मासपर्यंतमित्यनुक्तमपि ध्येयम् । तदुत्तरं हि ग्रहणांतरसंभवात् । उक्तं दैवशमनोहरे-'घातं हानिमथ त्रियं जननभावस्तिं च चिंता क्रमात्सौख्यं दारवियोजनं च कुरुते व्याधि च मानक्षयम् । सिद्धिं लाभमपायमर्कशशिनोः षण्मासमध्ये ग्रहः' इति । क्वचित्तु स्थानान्येव शुभमध्यमाधमान्युक्तानि । तदुक्तं दैवक्षमनोहरे-'पासात्तृतीयोऽष्टमगश्चतुर्थस्तथायसंस्थः शुभदः स्वराशिः । नवांत्यधीसप्तमगश्च मध्योऽपूज्यो द्विषदगो दशमाद्यसंस्थः॥' इति । अत्र वाक्ये ग्रासराशेर्गणनोक्ता। कचित् स्वराशेरपि। तद्वाक्यं च-'विषददशायोपगतं नराणां शुभप्रदं स्थाद्रहणं रवींद्वोः। द्विसप्तनंदेषु च मध्यम स्याच्छेषेष्वनिष्टं मुनयो वदंति ॥' इति । अत्रावध्यपेक्षायां स्वजन्मराशेरित्यध्याहार्यमेव । अत्र ग्रहणीयराशेर्देशविशेषेणाशुभफलानि वराहसंहितायाममिहितानि । 'तथा च भफलं कूर्मोपदेशाद्वदेदिति वराहोक्तेअहणीयनक्षत्राशुभफलानि स्वरोदयाभिहितकर्मचक्रे पराशरसंहितायां चाभिहितानि, तथा मंडलभेदेनाप्यशुभफलानि. गर्गसंहितायामभिहितानि, तानि मु. चि० १३ Page #162 -------------------------------------------------------------------------- ________________ ११६ मुचितामणिः। [जन्मराशिग्रहणे शांतिः सर्वाण्यपि पितृवरणकृततोडरानंदेराहुचारविलासतोऽवधार्याणि । नात्रामस्तुतत्वाद लिख्यतेऽस्माभिः ॥ भयाशुभसूचकग्रहणप्रतीकारमाह-तदशुमेति । लस्य सूर्यचंद्रयोहणस्य संबंधि यदशुभं दुष्टफलं तस्य ध्वस्त्यै नाशाय जपः स्वर्णगोदानम्।जपो गायत्र्यादीनां मंत्राणां, स्वर्ण प्रसिद्धं, गौः प्रसिद्धा, भूमि; उपलक्षणत्वादन्येषां रूप्यादीनां यथाशक्ति दानं कार्यमिति शेषः । उक्तं च दैव मनोहरे-'तद्दौःस्थ्यप्रणुदुक्तवजपविधिः स्वर्णादिदानं भवेदिति। ज्योतिनिबंधे कालनिर्णये-'यस्मिन राशौ तपनशशिनोः सैहिकेयावमर्दस्तद्राश्यानां भवति नियतं ग्रासपुंसां विनाशः । तस्माच्छांतिं मुनिमिरुदितां तत्तदालोकपूर्वा कुर्याद्दानादिभिरिह नृणां नाशमायात्यरिष्टम् ॥' इति । दानमपि तत्रैव-'सुवर्णनिर्मितं नाग सतिलं ताम्रभाजनम् । सदक्षिणं सवस्त्रं च श्रोत्रियाय निवेदयेत् ॥ सौवर्ण राजतं वापि बिंबं कृत्वा स्वशक्तितः । उपरागोद्भवक्लेशच्छिदे विप्राय कल्पयेत् ॥' दानमंत्रश्च-'तमोमय महाभीम सोमसूर्यविमर्दन । हेमनागप्रदानेन मम शांतिप्रदो भव' इति ॥ स्कंदपुराणे-'गोदानं भूमिदानं च स्वर्णदानं विशेषतः । ग्रहणक्लेशनाशाय दैवज्ञाय निवेदयेत् ॥' इति । किंचात्र देशविशेषः पात्रविशेषो द्रव्यविशेषश्च नापेक्षित इत्याह व्यासः-- 'सर्व गंगासम तोयं सर्वे ब्रह्मासमा द्विजाः । सर्वा भूमिः कुरुक्षेत्र ग्रहणे चंद्रसूर्ययोः ॥' इति । तत्र स्नानदानादिकं कस्मिन्काले कर्तव्यमित्याह माधवः'प्रस्यमाने भवेत्स्वानं ग्रस्ते होमो विधीयते । मुच्यमाने भवेद्दानं मुक्ते स्नानं विधीयते ॥' इति । तस्मिन्काले जपादिकमपि विधेयम् । 'सूर्येन्दुग्रहणं याव'त्तावत्कुर्याजपादिकम्' इति शिवरहस्योक्तेः । आदिशब्दात्सुरार्चनमपि । अत्र जन्मनक्षत्रजन्मराश्योहणे शांतिमाह वसिष्ठः-'यस्यैव जन्मनक्षन्ने अस्येते शशिभास्करौ। तस्य व्याधिभयं घोरं जन्मराशौ धनक्षयः ॥ द्रव्यमंत्रविधानेन तस्य दोषापनुत्तये। उपरागस्नानविधि सम्यग्वक्ष्ये समासतः॥ मंडलं चतुरस्रं तु गोमयेन विलेपयेत् । ग्रहस्येशानदिग्भागे वर्णकैः समलंकृते ॥ स्थापयेच्चतुरः कुंभांस्तत्र तान्सागरात्मकान् । सर्ववेदात्मकान्स्मृत्वा सर्वतीर्थात्मकान्शुभान् ॥ पंचत्वपल्लवोशीरशतोषधिसमन्वितान् । मृत्तिकाहेमरत्नेभदंतगुग्गुलुचंदनैः॥ पंचगव्यामृतनाजत्स्फटिकैः सर्पपांबरैः । शंखकुंकुमतीर्थाम्बुरोचकैः पनकैर्युतान् ॥ चत्वारः प्राङ्मुखा विप्राः प्रार्थयेयुः पृथक् पृथक् ॥ आलिगैर्वारुणैः सूक्तैः स्वस्तिवाचनपूर्वकम् ॥ तिलहोमं चाहुतिभिः सहस्रं चाष्टसंयुतम् । एवं कृत्वा प्रयत्नेन स्नानकर्म समाचरेत् ॥ आमंत्र्य नवभिमत्रः कुंभान्संकल्पपूर्वकान् । एतानेव ततो मंत्रान्स्वर्णपट्टे च संलिखेत् ॥ कर्तुः शिरसि तं बध्वा चालिगैर्वेदमंत्रकैः । सुमंत्रितैः कुंभजलैः साप्य नीराजयेत्ततः ॥ दद्यात्पदं ग्रहशेभ्यः शुक्लमाल्यांबरः शुचिः । ऋत्विग्भ्यो दक्षिणां दद्याच्छिष्टेभ्यश्च स्वशक्तितः ॥ योऽसौ वज्रधरो देव आदित्यानां प्रभुर्मतः । सहस्रनयनश्चंद्रग्रहपीडां व्यपोहतु ॥ मुखं यः सर्वदेवानां सप्ताचिरमितद्युतिः । चंद्रोपरागसंभूतामग्निः पीडां व्यपोहतु ॥ यः कर्मसाक्षी १ सर्व भूमिसमं दानमित्येव पाठः प्रायो लिखितपुस्तकाद्यनुगुणः । Page #163 -------------------------------------------------------------------------- ________________ ग्रहणे नानदानादिविचारः] ' गोचरप्रकरणम् । १४७ लोकानां धर्मो महिषवाहनः । यमचंद्रोपरागोत्थग्रहपीडां व्यपोहतु ॥ रक्षोगणाधिपः साक्षात्प्रलयानलसंनिभः । खड्गव्यमोऽतिकायश्च रक्षःपीडां व्यपोहतु ॥ नागपाशधरो देवः सदा मकरवाहनः। वरुणोंऽबुपतिः साक्षात् ग्रहपीडां व्यपोहतु ॥ प्राणरूपो हि लोकानां सदा कृष्णमृगप्रियः । वायुश्चंद्रोपरागोत्यां पीडामत्र व्यपोहतु ॥ योऽसौ निधिपतिर्देवः खगशूलगदाधरः। चंद्रोपरागकलुषां पीडां चापि व्यपोहतु ॥ योऽसाविंदुधरो रुद्रः पिनाकी वृषवाहनः । चंद्रोपरागपापानि स नाशयतु शंकरः ॥ त्रैलोक्ये यानि भूतानि चराणि स्थावराणि च । ब्रह्मविष्ण्वकयुक्तानि तानि पापं दहंतु मे ॥ आमंत्रणे लेखनोक्तास्त्वेते वै नवमंत्रकाः । अर्चयित्वा पितॄन्देवान्गोभूस्वर्णाबरादिभिः ॥ अनेन विधिना यस्तु ग्रहस्नानं समाचरेत् । न तस्य ग्रहपीडा स्याद्यानबंधुधनक्षयः ॥ परमां सिद्धिमानोति पुनरावृत्तिदुर्लभाम् । सूर्यग्रहेऽप्येवमेव सूर्यनाना विधीयते ॥' इति वृद्धवसिष्ठप्रोक्ता ग्रहणशांतिः॥ अत्र यद्यपि 'जन्मराशौ धनक्षय' इत्युक्तं तत्र च दोषाल्पताप्रतिभानेन शांतेरकर्तव्यता प्रतीयते, तथापि प्राग्विलिखितबहुवचस्सु विरुद्धफलाभिधानादवश्यं जन्मराशावपि ग्रहणे शांतिर्विधेया । उभयानुवादेन शायभिधानात् । उक्तं च मत्स्यपुराणे-'यस्य राशि समासाद्य भवेद्रहणसंभवः । तस्य शांतिं प्रवक्ष्यामि मंत्रौषधिविधानतः ॥' इति । अतो जन्मनक्षत्रजन्मराशिव्यतिरिक्त विरुद्ध ग्रहणे शांतिन विधेया, वचनाभावात् ; किंतु स्वविभवरूपं दानादि विधेयमिति तात्पर्यार्थः । सूर्यग्रहेऽप्येवमेवेति-'योऽसौ वज्रधरो देव आदित्वानां प्रभुर्मतः । सहस्रनयनः सूर्यग्रहपीडां व्यपोहतु ॥' इत्युक्तदिशा चंद्रपदस्थाने सूर्यपदं पूर्वमंत्रश्लोकेषु प्रयोज्यमित्यर्थः ॥ अथेदं ग्रहणं स्थानविशेषेणानिष्टजनकमित्युक्तं तत्र किं ग्रहणं दृष्टमदृष्टमित्याह-अथो इति । उक्तं च-'जन्मसप्ताष्टरिःफांकदशमस्थे निशाकरे । दृष्टोऽनिष्टप्रदो राहुर्जन्म: निध. नेऽपि च ॥' इति । जन्मक्षं जन्मनक्षत्रं, निधनं वधतारा सप्तमी । अत्र दृष्ट इति पदश्रवणाद्दुष्ट स्थानावस्थितो राहुः दृष्टश्चेत् पुंसां दोषजनकः । यदा तु मेघायावरणेन गृहमध्यावस्थित्या वा चक्षुष्मतोऽपिपुंसो राहुदर्शनाभावेन सत्यप्यरिष्टेऽरिष्टं नास्ति इति । एवं चांधस्य यत्र कुत्राप्यवस्थितस्य गृहाबहिर्गतुमशक्कुवतो वृद्धातुरादेश्च सर्वथाऽरिष्टं स्नानादि वा नास्ति इति तेषां नाशयः ॥ अत्रेदं चिंत्यते-किमिदं ग्रहणं दृष्टमेव स्नानाद्यधिकारसंपादकम् , उत मेघाद्यावर नादृष्टमपि ? कुतः ? उभयथा वचनोपलब्धेः । तथा हि-वृद्धवसिष्ठः'सर्वेषामेव वर्णानां सूतकं राहुदर्शने । सचैलं तु भवेत्नानं सूतकानं विव. जयेत् ॥' इति । षट्त्रिंशन्मते-'सर्वेषामेव वर्णानां सूतकं राहुदर्शने। स्नात्वा कर्माणि कुर्वीत शृतमन्नं विवर्जयेत् ॥' इति । शृतं-पकम् । 'शृतं पाके' इति निपातनात् । यद्यपि तस्मिन् सूत्रे क्षीरहविषोरेवेति महाभाष्यकृतोक्तम् , तथापि महामुनिप्रयोगादन्यस्मिन्नपि द्रव्य ओदनादौ पाकसामान्यवदृत्तिः । विष्णुः-'राहुदर्शनदत्तं हि श्राद्धमाचंगतारकम्' इति । शातातपः-'मान Page #164 -------------------------------------------------------------------------- ________________ । मुहूर्तचिंतामणिः। [राहुदर्शनशब्दनिरुक्तिः दानतपःश्राद्धमनंतं राहुदर्शने' इति । एवमादीनि वांसि दर्शनपदसहितान्युपलभ्यन्ते । अन्यथापि वसिष्ठः-'ग्रहणे संक्रमे वापि न सायाद्यदि मानवः । सप्तजन्मसु कुष्ठी स्याहुःखभागी च जायते ॥' इति । लिङ्गपुराणेऽपि-'चंद्रसूर्यग्रहे स्नायात्सूतके मृतकेऽपि च । अस्नायी मृत्युमामोति स्नायी पापं न विंदति ॥' इति । एवमादीनि दर्शनपदानाक्रांतानि वचांस्युपलभ्यते। तत्र दर्शनवादिन आहुः-दर्शनपदानाक्रांतेषु वचस्सु ग्रहणस्य निमित्तत्वं च प्रतिपाद्यते, 'ग्रहणे संक्रमे वापि' इति निमित्तसप्तम्युपलंभात् । ज्ञातमेव च ग्रहणं स्नानदानादिकं प्रति निमित्तं भवति, तज्ज्ञानापेक्षायां च राहुदर्शनपदोपेतवचनालोचनेन चाक्षुषज्ञानस्यैव निमित्तत्वम् । यतश्चाक्षुष एव ज्ञाने दर्शनमुख्यत्वं, ज्योतिःशास्त्रीयज्ञाने तु लक्षणाप्रसक्तिः । एवं सति मेघाच्छन्नग्रहणदिवसजातचंद्रग्रहणरात्रिभवसूर्यग्रहणेषु न सानदानादावधिकारः । तस्माद्रहणं दृष्ट्वा स्नानदानादिकं विधेयमित्यर्थः संपन्नो भवति । नैतत्सहृदयहृदयंगमम् । यतो वचनेषु राहुदर्शन-ग्रहपदयोः समानार्थकता नास्ति । कथम् ? 'अदृश्यरूपाः कालस्य मूर्तयो भगणाश्रिताः । शीघ्रमंदोच्चपाताख्या ग्रहाणां गतिहेतवः ॥' इति सूर्यसिद्धांते चंद्रादिग्रहपातानामदृश्यतोक्ता । पातो राहुश्च पर्यायः । उक्तं च तत्रैव-'दक्षिणोत्तरयोरेवं पातो राहुश्च रहसा। विक्षिपत्येष विक्षेपश्चंद्रादीनामपक्रमात् ॥' इति । केशवाणाप्युक्तम्'पर्यायेण ननु राहुपातयो मनी विदधुरेव तांत्रिकाः ॥' इति । अतो राहुदर्शनमेव गगनकुसुमायमानम् । ननु ग्रहणे सूर्यचंद्रयोश्छादको राहुद्देश्यत एव । अत एव 'राहुप्रस्ते निशाकरे' इत्यादिपुराणोक्तिः साधीयसीति चेन । 'भानोर्भार्घमहीच्छाया तत्तुल्येऽर्कसमेऽपि वा । शशांकपाते ग्रहणं कियदागाधिकोनके ॥' इत्युपक्रम्य,-'छादको भास्करस्येंदुरधःस्थो घनवद्भवेत् । भूच्छायां प्राङ्मुखश्चंद्रो विशत्यस्य भवेदसौ ॥' इति । असौ भूच्छायाऽस्य चंद्रस्य च्छादको भवेदित्यर्थः । इति सूर्यसिद्धांतोक्तः स्पष्ट एव छायाच्छादकभावोऽभिहितः । पुराणेन सह विरोधपरिहारस्तु-'दिग्देशकालावरणादिभेदान्न च्छादको राहुरिति ब्रुवंति । यन्मानिनः केवलगोलविद्यां स्वसंहितावेदपुराणवाक्यम् ॥' इति पूर्वपक्षं विधाय ततो 'राहुः कुभामंडलगः शशांक शशांकगच्छादयतीनबिंबम् । तमोमयः शंभुवरप्रदानात् सर्वागमानामविरुद्धमेतत्' इति भास्कराचा रेवोक्तः । तस्मिन्काले सान्निध्यमस्य तेनोपचर्यते राहुरिति वराहेणाप्युक्तम् । तस्मादाहुदर्शनं तु नास्त्येव । भवन्मते दर्शनं चाक्षुषमेवोच्यते नान्यत् । एवं सति राहोर्दर्शनं राहुदर्शनमिति तत्पुरुषोऽनुपपन्नः । अथ तु समीपलक्षकदर्शनशब्दमंगीकृत्य चेदर्थः क्रियते, तथापि यस्य स्वरूपमेवानुपपन्नं तस्य सामीप्यं तु सुतरामिति बालैरप्येतद्बुध्यते। तस्माद्दर्शनशब्देन नोपरागो लक्ष्यते, राहुदर्शनं राहूपरागस्तस्मिन् राहुदर्शने इति । अयमर्थः-राहु म पातः, तस्य तत्संबंधेन दर्शनमुपराग इति । नच राहुरेव लक्षणयोपरागपरस्तस्य दर्शनमिति पूर्वपक्षाभिमतार्थसिद्धिरिति वाच्यम्। Page #165 -------------------------------------------------------------------------- ________________ ग्रहणे पुण्यकालः] गोचरप्रकरणम् ४ । १४९ लक्षणा त्वर्थातरासंभषे सति वक्तव्या, 'अत्यंतादर्शनं राहोस्तथा चात्यतदर्शने । प्रजापीडा विनिर्देश्या व्याधिदुर्भिक्षतस्करैः ॥' इति विष्णुधर्मोत्तरादिवाक्येषु पदांतरासन्निधानादाहुशब्देनोपरागो लक्ष्यते । इह च राहोः पातनामकं ग्रहगतिहेतुरूपमर्थातरमस्तीत्यतो राहुदर्शन-ग्रहपदयोः समानार्थकताऽस्तीत्येव सिद्धमिति प्रागुक्तानां सर्ववचसां ग्रहणे नायादित्येव वाक्यार्थः फलितो भवति । किंच ग्रहणे चाक्षुषमेव दर्शनं विवक्षितं चेत्तदा 'नेक्षेतोद्यतमादित्यं नास्तं यन्तं कथंचन । नोपरक्तं न वारिस्थं न मध्यं नभसो गतम् ॥' इति मनतोपरक्तसूर्यदर्शननिषेधो नोपपद्येत । नन्वयं निषेधः सूर्योपरागदर्शन एव, न चंद्रोपराग इति चेन्न । 'नाशुची राहुतारक' इत्यत्र राहुमात्रग्रहणाद्रविचंद्रोपरागद्वयविषयकोपसंहारस्य युक्तत्वात् । अशुचे रजस्वलापतितादेग्रहणं तु दोषाधिक्यसूचनार्थम् । यथा श्राद्ध कुलीनानां ब्राह्मणानामामंत्रणे उक्ते अन्येषां निषिद्धत्वादेव कुंडगोलकब्राह्मणानामामंत्रणेऽसिद्धे पुनर्निषेधो दोषाधिक्यार्थमेव । 'भास्करालोकनाश्लीलपरिवादं विवर्जयेत्' इति स्मृतिवाक्यस्य तूद्यदस्तगाम्यादित्यदर्शनपरतया व्याख्यानस्य युक्तत्वात् । केचित्तु दर्शनादर्शनविषयकयोर्विध्योस्तुल्यबलत्वात्सकृद् दृष्ट्वा स्नायादिति व्याचख्युः । तञ्चित्यम् । 'जन्मसप्ताष्टरिःफांक-' इत्यादिना सामान्यतो निषिद्धस्योपरक्तदर्शनस्य पुनर्निषेधात् । प्रागुक्तदिशा राहुदर्शनपदस्य राहूपरागलक्षकत्वेन तुल्यबलत्वाभावाच्च । तस्मादुपरक्तयोः सूर्याचंद्रमसोर्यस्य कस्यापि दर्शननिषेधसत्त्वात् ग्रहणे च स्नानदानाद्युक्तेस्तज्ज्ञानं च ज्योतिःशास्त्रैकदेशगणितग्रंथेभ्यो बुद्धा तस्मिन्काले. स्नानदानादि विधेयमिति सिद्धांतः।अत एव मेघाद्यावृतेऽप्युपरागे स्नानादिकं विधेयमेव । ननु गणितग्रंथाधीनमुपरागज्ञानमेव चेत्स्नानादिप्रयोजकं तदा रात्रौ सूर्यग्रहणस्य दिवा चंद्गग्रहणस्य जायमानत्वात्तदापि नानादिकं स्यात् । सत्यमेवैतत् । वचनात्त तथा न क्रियते । तदुक्तं निगमे–'सूर्यग्रहो यदा रात्री दिवा चंद्रग्रहो यदि । तत्र स्नानं न कुर्वीत दद्यादानं न च क्वचित् ॥' इति । अत एव तादृशे ग्रहणे दृष्टेऽपि दौष्ट्यं नास्तीत्यपि सूच्यते । न चैतदभागिप्रतिषेधादित्यधिकरणेन पृथिव्यामग्निश्चेतव्यो नांतरिक्षे न दिवीत्युदाहृतवाक्यवन्नित्यानुवाद इति वाच्यम् । विधिशेषत्वाभावात् । यथा पृथिव्यामग्निर्न चेतव्य इति निषेधविधिरस्ति तत्र नांतरिक्षे न दिवीति दृष्टांतो निषेधविधेः शेषस्तथात्र सूर्यग्रहो यदा रानावित्येतद्वाक्यं कस्य विधेः शेष इति । किंचैवं ब्रुवतस्तव मतेऽनर्थकमेव वाक्यं स्यात् ? नचैतधुक्तम् । अत एवाह जाबालि:-'संक्रांतेः पुण्यकालस्तु षोडशोभयतः कलाः । चंद्रसूर्योपरागे तु यावद्दर्शनगोचरः ॥' इति । ग्रस्तस्यास्तमनपर्यंत दर्शनगोचरत्वात्तावान्कालः पुण्यकालो भवतीति माधवो व्याचख्यौ । तदुक्तं विश्वरूपनिर्णये-'दिवा चंद्रग्रहो रात्रौ सूर्यपर्व न पुण्यदम् । संधिस्थं पुण्यवज्ज्ञेयं यावद्दर्शनगोचरम् ॥' इति । अन्ये तु मेघावृते तदनावृते. चोपरागे गणितागतस्थितिघटिकाः पुण्यकाल इत्याहुः । Page #166 -------------------------------------------------------------------------- ________________ १५० मुहूर्तचिंतामणिः । [ चंद्रबले वैशिष्ट्यं 1 दर्शने त्वेवंविधे निर्णये भूजवृत्तादुपरिस्थितत्वमेव विवक्षितम् । तदाह वसिष्ठः स्वसिद्धांते - 'सूर्यस्यादर्शनं रात्रिर्दिनं तद्दर्शनात्मकम् । भूजवृत्तादुपरि च स्थितोsssदर्शनं स्मृतम् ॥' इति । अर्क इत्युपलक्षणं चंद्रादिग्रह-. नक्षत्राणाम् । आकाशप्रदेशः समंताद्भूसंलग्न इव यत्र भाति स प्रदेशो भूजशब्दवाच्यः । अत एव विष्णुधर्मोत्तरे - 'अहोरात्रं न भोक्तव्यं सूर्यचंद्रग्रहो यदा । मुक्तिं दृष्ट्वा तु भोक्तव्यं स्नानं कृत्वा ततः परम् ॥' इति । ग्रस्तास्ते भृगुः - 'प्रस्तावेवास्तमानं तु रवींदू प्रामुतो यदि । तयोः परेद्युरुदये स्नात्वाभ्यवहरेन्नरः ॥' इत्यनयोर्वाक्ययोर्दर्शनोदयशब्दौ भूजवृत्तोपरिस्थितत्वोपलक्षकौ । अन्यथा मेघाद्यावरणेन परदिवसेऽपि दर्शनाभावे उपवासः प्रसज्येत । तथा च यत्र स्पर्शकाले ग्रहणं दृष्ट्वा स्नानं विहितं तत्रांतरा मेघाद्यावरणात्सूर्यचंद्रयोर्दर्शनाभावो दिवसद्वयं त्रयं वा स्यात्तत्राप्युपवासप्रसंग: । न च सर्वे शिष्टास्तथाचरंति । तस्माददर्शनार्थमभ्युपेत्य शास्त्रीयज्ञानपरतैव कर्तव्या । तस्यां च सत्यां पूर्वोक्तरीत्या च मेघानावृतेऽप्युपरागे तमदृद्वैव प्रशस्तचक्षुषा अंधेन च गंतुमशक्नुवद्भिर्वृद्धातुरैश्च स्नानदानादिकं विधेयमिति - फलितोऽर्थः । अत एव भागवते रविग्रहे कुरुक्षेत्रे स्नानाद्यर्थं मिलितानां पांडवीयलोकानां मध्ये धृतराष्ट्रोऽपि परिगणित इति, शिष्टाचारोऽप्यस्ति । एवं च सत्यरिष्टजनकत्वाभावेऽपि ग्रहणदर्शननिषेधः किं पुनररिष्टजनकत्वे । तस्मात् 'जन्मशशांके'त्यादिपद्यं निर्मूलत्वाद्युक्त्यसहत्वाच्चोपेक्ष्यम् । प्रत्यक्षोपलभ्यमानवसिष्ठमत्स्यपुराणादिवाक्येषु दर्शनपदाभावाच्च । अत एव मूले परे इति पदं प्रयुक्तम् । शांतिस्तु दर्शनाभावेऽपि विधातुमुचिता, यतोऽरिष्टयोगानां स्वरूपसतामेवारिष्टजनकत्वमस्ति । अन्यथा ग्रहवैषम्योत्पातादिसूचिताऽरिष्टनिवृत्तिहेतु: शांतिर्दर्शनाभावे न विधीयेतेत्यलमतिप्रसक्तानुप्रसक्तेन ॥ ६ ॥ अथ चंद्रबले विशेषमनुष्टुभाह पापांतः पापयुग्यूने पापाच्चन्द्रः शुभोऽप्यसन् । शुभांशे चाधिमित्रांशे गुरुदृष्टोऽशुभोऽपि सन् ॥ ७ ॥ पापांत इति । शुभोऽपि शुभफलदोऽपि चंद्रः पापांतः पापयुक् द्यूने । कोऽर्थः ? पापद्वयमध्यवर्ती पापग्रहयुक्तः पापात् द्यूने सप्तमस्थाने वर्तमानश्चेत्स्यात्तदाभसन्नशुभ एव । यदा त्वशुभोऽप्यशुभफलदातापि चंद्रः शुभांशे सौम्यग्रहनवांशे स्यादथवाऽधिमित्रस्य नवांशे स्यात्तथा गुरुणा बृहस्पतिना दृष्टः सन् शुभफल - दाता भवेत् । यदाह राजमार्तड : - 'पापग्रहेण संयुक्तः पापजामित्रसंस्थितः । पापद्वयान्तरगतः शुभोऽप्यशुभदः शशी ॥ भनिष्टस्थानसंस्थोऽपि भवेच्छुभ-करः शशी । सौम्यभागेऽधिमित्रांशे गुरुणा वापि वीक्षिते ॥' इति ॥ ७ ॥ अथ चन्द्रबलस्य विधानांतरमनुष्टुभाह सितासितादौ सदुष्टे चन्द्रे पक्षी शुभावुभौ । व्यत्यासे चाशुभौ प्रोक्तौ संकटेऽब्नबलं त्विदम् ॥ ८ ॥ सितेति ॥ सितादौ शुक्लपक्षप्रतिपदि समीचीने चंद्रे सति संपूर्णः शुक्ल Page #167 -------------------------------------------------------------------------- ________________ १५१ महदीध्ये नवरत्नधारण ] गोचरप्रकरणम् । पक्षः शुभः । असितादौ कृष्णपक्षप्रतिपदि चंद्रे दुष्टे सति संपूर्णः कृष्णपक्षः शुभः। व्यत्यासे च पूर्वोक्तादर्थाद्वैपरीत्ये द्वावपि पक्षावनिष्टौ। यदा शुक्लपक्षप्रतिपदि चंद्रो दुष्टश्वेत्तदा सकलः शुक्लपक्षोऽनिष्टः। यदा कृष्णपक्षप्रतिपदि चंद्रः शुभश्चेत्तदा संपूर्णः कृष्णपक्षोऽनिष्ट इति । उक्तं च रत्नमालायाम्-'वलक्षपक्षादिगते हिमांशौ शुभे शुभं पक्षमुदाहरति । सितेतरादा बशुभे शुभं च पक्षावनिष्टौ भवतोऽन्यथा तौ ॥' कश्यपोऽपि-'मासादींदुः शुभो यस्य तत्पक्षस्तस्य शोभनः । कृष्णादींदौ त्वशुभदे शुभं तब्यत्ययेऽन्यथा ॥' इति । इदमेतादृशमजबलं, चंद्रबलं तु संकटे विवाहयात्रादाववश्यकर्तव्ये तात्कालिकचंद्रबलाभावे एव ग्राह्यं नान्यथेत्यर्थः ॥ ८ ॥ अथ ग्रहाणां दौष्टयपरिहारपूर्वकं तुष्टिसंपादनार्थ नवरत्नसमुदायधारणं मालिन्याहवजं शुक्रेऽब्जे सुमुक्ता प्रवालं भौमेगौ गोमेदमाकौ सुनीलम् । केतौ वैडूर्य गुरौ पुष्पकं ज्ञे पाचिः प्रामाणिक्यमर्के तु मध्ये ॥९॥ वजं शुक्र इति ॥ भत्रैका सुवर्णमुद्रिकां कृत्वा तत्र दृश्यभागे वर्तुलाकारे नवधा विभक्ते प्रागादिक्रमेण नवरत्नानि दृढं निधेयानि । तत्र प्रागिति पंचम्यन्तमव्ययम् । पंचमी चेयं ल्यब्लोपे । अतः प्रागादिदिक्षु इत्ययमों जातः । तत्र शुक्रप्रीतये पूर्वस्यां दिशि वज्रकं हीरकं निधेयम् । एवं चंद्रप्रीत्यर्थ शोभनं मुक्ताफलमाग्नेय्याम् । भौमप्रीत्यर्थं प्रवालं दक्षिणस्याम् । अगौ गहुप्रीत्यर्थ गोमेदं नैर्ऋत्याम् । आकौं शनिप्रीतये शोभनं नीलं पश्चिमान याम् । केतुप्रीतये वैडूर्य वायव्याम् । गुरुप्रीतये पुष्पकं पुष्परागं उत्तरसाम् । बुधप्रीतये पाचिः गरुडपाचिरैशान्याम् । सूर्यप्रीतये माणिक्यं मध्यम कोष्ठे इति ॥ ९॥ .. अथ सति द्रव्यसामर्थे नवरत्रसमुदायधारणस्य शक्यत्वात्तदुक्त्वेदानीमसति व्यसामर्थ्य यगृहकृतं दौष्ट्यं तद्हरनधारणमिंद्रवज्रयाहमाणिक्यमुक्ताफलविद्रुमाणि गारुत्मतं पुष्पकवज्रनीलम् । गोमेदवैडूर्यकमर्कतः स्यू रत्नान्यथो ज्ञस्य मुदे सुवर्णम् ॥१०॥ माणिक्येति ॥ सूर्यप्रीत्यर्थ माणिक्यं धार्य, एवं चंद्रस्य मुक्ताफलं, भौमस्य विद्रुमं, बुधस्य गारुस्मतं गरुडपाचिः, गुरोः पुष्पकं पुष्परागः, शुक्रस्य वज्रं, अनेर्नीलं, 'लहसुनिया' इति कान्यकुब्जभाषयाहुः ।राहोर्गोमेदं, केतोवैडूर्यम् ; इत्येवमर्कतोऽर्कादीनां ग्रहाणां रत्नानि धार्याणि स्युः । तत्र यगृहकृतं दौष्टयं तस्य ग्रहस्य तुष्ट्यै तगलं धार्यमित्यर्थः । यदाह कश्यपः-'सूर्यादीनां च संतुष्ट्यै माणिक्यं मौक्तिकं तथा । सुविद्रुमं मरकतं पुष्परागं च वज्रकम् ॥ नीलगोमेदवैडूर्य धार्य स्वस्वदृढक्रमात् ॥' अथो ज्ञस्य मुदे सुवर्णमित्यस्याग्रिमलोकेन संबंधः ॥ १०॥ Page #168 -------------------------------------------------------------------------- ________________ १५२ मुहूर्तचिंतामणिः। ताराणां बलसंज्ञादि __अथ महामूल्यरत्नधारणे यस्य सामर्थ्याभावस्तदर्थमल्पमूल्यानि रवानि ताराबलं च शालिन्याहधार्य लाजावर्तकं राहुकेत्वो रौप्यं शुक्रेद्वोश्च मुक्ता गुरोस्तु । लोहं मंदस्यारभान्वोः प्रवालं ताराजन्मांत्रिरावृत्तितः स्यात् ११ धार्यमिति ॥ अथो ज्ञस्य बुधस्य मुदे संतोषार्थ सुवर्ण यथाशक्ति धार्य, राहुकेत्वोः प्रीत्यै लाजावर्तकं मणिविशेषो धार्यः, एवं शुक्रेद्वोस्तुष्टयै रौप्यं, गुरोस्तुष्टयै मुक्ता, मंदस्य शनेस्तुष्टयै लोहं, भारभान्वोमंगलसूर्ययोः प्रीत्यै प्रवालं धार्यम् । उक्तं च श्रीपतिना-'धार्य तुष्ट्यै विद्रुमं भौमभान्वो रूप्यं शुक्रंदोश्च हेमेंदुजस्य । मुक्ता सूरेलॊहमर्कात्मजस्य लाजावर्तः कीर्तितः शेषयोश्च ॥' इति । सूरेः सुरगुरोः। शेषयोः राहुकेत्वोः। दीपिकाकारस्तु औषधीमूलानि धार्याणीत्याह-'मूलं धार्य त्रिशूल्याः सवितरि विगुणे क्षीरिकामूलमिंदौ जिह्वाहेभूमिपुत्रे रजनिकरसुते वृद्धदारोश्च मूलम् । भाी जीवेऽथ शुक्र भवति शुभकर सिंहपुच्छस्य मूलं विच्छोलं (!) चार्कपुत्रे तमसि मलयजं केतुदोषेऽश्वगंधम् ॥' इति । त्रिशूली-बिल्वः, क्षीरिका-क्षीरिणी, जिह्वाहिः=नागजिह्वा, वृद्धदारु: विधारः, भाङ्गी प्रसिद्धा, सिंहपुच्छं-वाघोटं, 'चरिवार' इति मध्यदेशभाषया प्रसिद्धम् , मलयज-चंदनं, अश्वगन्धं प्रसिद्धं, एतदोषधीमूलधारणं सर्वथा रनधारणाशक्ती वेदितव्यम् । तारेति । यद्दिने ताराबलमस्ति वा न वेति विचारश्चिकीर्षितस्तद्दिने या तारा सा जन्माजन्मनक्षत्रा त्रिरावृत्तितः पुनःपुनरावृत्तित्रयेण गणनीया स्यात् । त्रिरिति 'द्वित्रिचतुर्य: सुच्' इति सुजतमव्ययम् । स्वजन्मनक्षत्रादिननक्षत्रे गणिते नवभिभक्त तिस्त्र भावृत्तयो भवंत्यवशिष्टतारया शुभमशुभं च वाच्यमिति फलितोऽर्थः ॥११॥ अथ शेषक्रमेण सफलास्तारासंज्ञा अनुष्टुभाह- जन्माख्यसंपद्विपदः क्षेमप्रत्यरिसाधकाः ।। वधमैत्रातिमैत्राः स्युस्तारा नामसदृक्फलाः ॥ १२ ॥ . जन्माख्येति ॥ स्पष्टार्थमिदं पद्यम् । यदाह नारदः-जन्मसंपद्विपक्षेमप्रत्यरिः साधको वधः । मित्रं परममित्रं तु जन्मभाच्च पुनः पुनः ॥' इति । एवं तारा गणनीया इति शेषः। तत्र तृतीयापंचमीसप्तम्यस्तारा निषिद्धाः, अनिष्टफलश्रवणात् । अर्थादन्याः समीचीनाः, समीचीनफलश्रवणात् । उक्तं च-'जन्मतारा द्वितीया च षष्ठी चैव चतुर्थिका । अष्टमी नवमी चैव षद स्युस्ताराः शुभावहाः ॥' इति । जन्मनक्षत्रं तु कार्यविशेषे गृहीतं प्रतिषिद्धं च तच्चाग्रे निर्णेष्यते । तदिदं ताराबलं कृष्णपक्षविषयं नतूभयपक्षसाधारणम् । तदाह नारदः-'कृष्णे बलवती तारा शुक्लपक्षे बली शशी' इति । युक्तं चैतत् । यतोऽत्रार्थवादो रत्नमालायाम्-'न खलु बहुलपक्षे शीतरश्मेः प्रभावः कथितमिह हि तारावीर्यमायः प्रधानम् । अतिविकल Page #169 -------------------------------------------------------------------------- ________________ दुष्टतारापरिहारः] गोचरप्रकरणम् ४ । १५३ शरीरे प्रेयसि प्रोषिते वा प्रभवति खलु कर्तुं सर्वकार्याणि योषा ॥ शुक्ले पक्षे शीतरश्मिर्बलीयान प्राधान्यं तारकायास्तु तत्र । शक्त्या युक्त विद्यमानेऽपि कांते न स्वातंत्र्यं योषितः क्वापि दृष्टम् ॥' इति ॥ १२॥ ..... ' अथावश्यककृत्ये दुष्टताराणां प्रकारद्वयेन परिहारं शार्दूलविक्रीडितेनाहमृत्यौ स्वर्णतिलान्विपद्यपि गुडं शाकं त्रिजन्मखथो दद्यात्प्रत्यरितारकासु लवणं सर्वो विपत्प्रत्यरिः । मृत्युश्चादिमपर्यये न शुभदोऽथैषां द्वितीयेऽशका नादिप्रांत्यतृतीयका अथ शुभाः सर्वे तृतीये स्मृताः १३ मृत्यौ वर्णतिलानिति ॥ मृत्यौ सप्तम्यां वधतारायां स्वर्णतिलान् यथाशक्ति सुवर्णयुक्तांस्तिलान् ब्राह्मणाय दद्यात् । विपद्यपि विपत्संज्ञायां तृतीयतारायां गुडमिक्षुविकारं दद्यात् । त्रिजन्मसु तिसृषु जन्मतारासु शाकं प्रसिद्ध वृताकादि दद्यात् । अथो प्रत्यरितारकासु पंचम्यां तारायां लवणं दद्यात् । तदाह नारदः-'जन्मत्रिपंचसप्ताख्या तारानिष्टफलप्रदा । अनिष्टपरिहाराय देवादानं द्विजातये । शाकं गुडं च लवणं सतिलं कांचनं क्रमात् ॥' इति । अत्र सतिलमिति विशेषणं कांचनपदस्य न लवणपदस्य, तेन वंधतारायां सतिलं कांचनं देयम् । उक्तं च दीपिकायाम्-'प्रत्यरे लवणं दद्याच्छाकं दद्यात्रिजन्मसु । विपत्तारे गुडं दद्यानिधने तिलकांचनम् ॥' इति । अथ द्वितीयः परिहार उच्यते । तत्रादिमपर्यये प्रथमावृत्तौ विपत्प्रत्यरिमृत्युश्च तृतीयपंचमीसप्तम्यस्ताराः सर्वा अपि सामान्यतः षष्टिघटिकात्मिका अपि न शुभदाः स्युः । अथ द्वितीये पर्यये द्वितीयावृत्तौ विपत्प्रत्यरिमृत्यूनामादिप्रांत्यतृतीयका अंशा न शुभदाः । विपत्तारायां प्रथमविंशतिर्घटिकास्याज्याः । इतराश्चत्वारिंशच्छुभाः । प्रत्यरितारायां मध्यमा विंशतिघटिकास्त्याज्याः, तदुभयतो विंशतिर्विंशतिर्घटिकाः शुभाः। वधतारायामंतिमा विंशतिर्घटिकास्त्याज्याः, आद्याश्चत्वारिंशच्छुभा इति नवीना व्याकुर्वते । जीर्णास्त्वंशशब्देन नक्षत्रचतुर्थाशमाहुः । तथा सति आदिप्रांत्यतृतीयकाश्चरणाः क्रमेण निषिद्धा इतरे शुभाः । अथ तृतीये पर्यये तृतीयावृत्तौ विपत्प्रत्यरिमृत्यवश्वते सर्वे षष्टिघटिकात्मका अपि शुभाः शोभनफलदाः स्मृताः । तथा च जगन्मोहने-गुरुरित्युक्त्वा पठितम्-'पर्याये प्रथमे वा विपत्प्रत्यरिनैधनाः। द्वितीये त्वंशका वास्तृतीये त्वखिलाः शुभाः ॥' द्वितीये पर्यये अंशकानाह स एव-'आद्यांशो विपदि त्याज्यः प्रत्यरे चरमोऽशुभः । वधे त्याज्यस्तृतीयोऽशः शेषा अंशास्तु शोभनाः॥' इति । अत्रांशो नक्षत्रचतुर्थांश उच्यते । किमत्र प्रमाणमिति चेत् । 'जन्माद्दशमं कर्म संघातर्फ तु षोडशम् । अष्टादशं सामुदायं त्रयोविंशं विनाशभम् ॥ मानसं पंचविंशसं नाचरेच्छुभमेषु तु ॥' इति नारदोक्ते(नाशिकाख्यत्रयोविंशभस्य दुष्टत्वम् । Page #170 -------------------------------------------------------------------------- ________________ मुहूर्तचिंतामणिः । [द्वादशावस्थानामानि तदपवादमाह च्यवनः-'वैनाशिकाख्ये नक्षत्रे अष्टाशीत्यंशकं विना । शेषांशाः शुभदा ज्ञेया जन्मनींदुगतांशकात् ॥' इति । अत्र वैनाशिक प्रत्यरिसंज्ञं तस्य चरमांशस्यानिष्टता प्राप्ता, साऽष्टाशीत्यंशकं विनेत्यनेन बाध्यते इत्यतः 'एकत्र दृष्टः शास्त्रार्थोऽपरत्रापि विनियुज्यते' इति न्यायादत्रापि सैव व्याख्येति न नवीनमतं ज्यायोऽप्रमाणकत्वात् ॥ १३ ॥ अथ चंद्रावस्था वक्ष्यस्तद्गणनोपायमनुष्टुभाहषष्टि ६० नं गतभं भुक्तघटीयुक्तं युगा ४ हतम् । शराब्धि ४५ हल्लब्धतोऽर्कशेषेऽवस्थाः क्रियाद्विधोः॥१४॥ षष्टिनमिति ॥ अत्र चंद्रस्य राशौ राशौ द्वादश अवस्थाः संति । यदाह नारदः-'चंद्रस्य द्वादशावस्था राशौ राशौ यथाक्रमात् । यात्रोद्वाहादिके कार्ये संज्ञातुल्यफलप्रदाः ॥' तत्राश्विनीमारभ्य गतभानि षष्ट्या ६० गुण्यानि वर्तमाननक्षत्रभुक्तघटीयुक्तानि कार्याणि, तानि पुनर्युगैश्चतुर्भिराहतानि शराब्धिहृत् पंचचत्वारिंशता भाज्यानि, यल्लब्धमागतं गतावस्थास्ताः शेषं वर्तमानावस्थाः, तत्र लब्धांकस्यापि द्वादशाधिक्ये द्वादशभिर्भागे प्रवासाद्यवस्थाः चंद्रस्य गताः स्युः। ता अवस्था मेषराशिस्थे चंद्रे प्रवासादिसंज्ञाः, वृषराशिस्थे चंद्रे नष्टादिसंज्ञाः स्युः। एवं मिथुनादिदशराशिषु मृतादिसंज्ञा ह्यवस्थाः क्रमेण भवंतीत्यर्थः । यदाह नारदः-'षष्टिघ्नं चंद्रनक्षत्रं तत्कालघटिकान्वितम् । वेदनमिषुवेदाप्तमवस्था भानुभाजिताः ॥' इति । अत्रोपपत्तिः-एकैकस्मिन् राशौ द्वादशावस्थाः संति । सामान्यतो नक्षत्रभोगः षष्टिघटिकात्मक इत्येवं सति राशिभोगघटिकाः पंचत्रिंशदधिकशतं भवंति। तत्र त्रैराशिकं यद्येताभि१३५ घंटीभिदिशावस्था लभ्यते तत्रेष्टघटीभिः किमिति तत्रैकयाघव्या गुणतायां विकारानापत्तेर्वादशानामयमंको १३५भाजको जातः? यथा१२.अत्रानयोर्गुणकभाजकयोस्त्रिभिरपवर्तने गुणकाश्चत्वारः ४ भाजकाः पंचचत्वारिंशत् ४५ तत्कालघटीयोगस्तु न्यायप्राप्त एव । तथा द्वादशभागोऽपि, तदाधिक्यस्य निष्प्रयोजनत्वात् । अत्रेदमवधार्यम्-यद्यपि नक्षत्राणां घटीन्यूनाधिकभावः संभवति तथापि षष्टिघटिकात्मकेन व्यवहारः कार्यः । विद्यमाननक्षत्रं भुक्तं तु स्वभोग ज्ञात्वा षष्टिघटिकात्मकं कृत्वा तत्र योज्यम् । यथा यदि स्वभोगेन षष्टिघटिका लभ्यते तदेष्टघटीभिः किमिति त्रैराशिकेनेष्टघटीनां षष्टिगुणको नक्षत्रभोगो भाजक इति ॥ १४ ॥ अथ द्वादशावस्थानामानि सफलान्युपजात्याहप्रवासनाशौ मरणं जयश्च हास्यारतिक्रीडितसुप्तभुक्ताः । ज्वराख्यकंपस्थिरता अवस्था मेषात्क्रमानामसदृक्फलाः स्युः१५ प्रवासनाशाविति ॥ स्पष्टार्थमिदं पद्यम् । उक्तं च कश्यपेन–'प्रवा१ सपादनक्षत्रद्वयं राशिसंशम् । Page #171 -------------------------------------------------------------------------- ________________ अहदोव औषधखानं ] गोचरप्रकरणम् ४ । सनेष्टी च मृता जया हास्या रतिर्मुदा । सुप्ता भुक्ता ज्वरा कंपा सुस्थितिर्नाम - सन्निभाः ॥' इति । मुदा 'षिद्भिदादिभ्योऽङ्' ततष्टाप् ॥ १५ ॥ अथ ग्रहाणां वैकृतपरिहारार्थं सौषधजलस्नानं दक्षिणाश्च शार्दूलविक्रीडितेनाह - १५५ लाजा कुष्ठबला प्रियंगुघन सिद्धार्थैर्निशादारुभिः पुंखा लोधयुतैर्जलैर्निगदितं स्नानं ग्रहोत्थाघहृत् । धेनुः कंब्वरुणो वृषश्च कनकं पीतांबरं घोटकः श्वेतो गौरसितामहासिरज इत्येता वेदक्षिणाः ॥ १६ ॥ लाजाकुष्ठमिति ॥ लाजा भृष्टशालय इति केचित् । वस्तुतस्तु ओषधीसाहचर्या लाजाशब्देन लज्जावती गृह्यते । कुष्ठं प्रसिद्धं, बला 'वरियाग' इति कान्यकुब्जभाषयाऽऽहुः । प्रियंगुः = फलिनी, घनः = मुस्ता, सिद्धार्थाः = सर्षपाः, 'शिरसिव' इति महाराष्ट्राः, 'सरिषः' इति कान्यकुजाः । निशे = हरिद्राद्वयं, दारुः = देवदारुः, पुंखा-शरपुंखा, लोध्रं प्रसिद्धं, एतैरौषधैर्युतानि गंगादिजलानि तैः कृत्वा स्नानं दुष्टमहसूचितारिष्टनाशकं स्यात् । उक्तं च दीपिकायाम - 'सिद्धार्थ लोध्ररजनीद्वय मुस्तधान्यं लामज्जकं सफलिनी सवचा च मांसी । स्वानं कुरु ग्रहगणप्रशमाय नित्यं सर्वे रविप्रभृतयः सुमुखीभवंति दैवज्ञमनोहरेऽपि - 'सप्रियंगुरजनीद्वयमांसीकुष्ठलाज सितसर्षपखंडैः। वारिभिः सहवचैः सहलोध्रैः स्नानमत्ति निखिलग्रहपीडाम् ॥' इति । वारिभिः=तीर्थोदकैः । रत्नमालायां तु प्रत्येकं ग्रहाणामौषधस्नानमुक्तम् । यथा - 'मन:शिलैलासुरदारुकुंकुमैरुशीरयष्टीमधुपद्मकान्वितैः । सताम्रपुष्पैर्विषमे स्थिते स्वौ शुभावहं स्नानमुदाहृतं बुधैः ॥ - सूर्यस्येदम् | पंचगव्यगजदानविमित्रैः शंखयुक्तिकुमुदस्फटिकैश्च । शीतरश्मिकृतवैकृतहंतु स्नानमेतदुदितं नृपतीनाम् ॥' - चंद्रस्येदम् । 'बिल्वचंपकबलारुणपुष्पैर्हिं गुकल्कफलिनीबकुलैश्च । स्नानमद्भिरिह मांसियुताभिभौमदौःस्थ्यविनिवारणमाहुः ॥ - भौमस्येदम् | 'गोमयाक्षतफलैः सरोचनैः क्षौद्रशुक्तिभवमूल हेमभिः । स्नानमुक्तमिदमत्र भूभृतां बोधेनाशुभविनाशनं बुधैः ॥ ' - बुधस्येदम् | 'मालतीकुसुमयुक्तसर्षपैः पल्लवैश्च मदयंतिकोद्भवैः । क्षिप्रमंबुमधुकेन च स्फुटं वैकृतं गुरुकृतं विनिर्हति ॥ ' -गुरोरिदम् । 'एलया च शिलया समन्वितैर्वारिभिः सकलमूलकुंकुमैः । स्नानतो भृगुसुतोपपादितं दुःखमेति विलयं न संशयः ॥ ' - शुक्रस्येदम् । 'असिततिलांजनलोध्रबलाभिः शतकुसुमाघनलाजयुताभिः । रवितनये कथितं विषमस्थे दुरितहृदावनं मुनि मुख्यैः ॥ ' - शनेरिदम् । 'लोध्रगर्भतिलपत्रकमुक्ताइस्तिदानमृगनाभिपयोभिः । स्नानमार्तिमिह कृंतति राहोः साजमूत्रमिदमेव च केतोः ॥' राहुकथितद्रव्यमजमूत्रसहितं केत्वर्थं स्यात् ॥ - राहुकेत्वोरिदम् । अत एवोक्तं दीपिकायाम् - 'प्रयोज्यमौषधस्त्रानं ग्रहविप्रसुरार्चनम् । ग्रहानु १ नष्टिः = नाशः । नष्टी इति क्तिन्नंतस्य द्विवचनमिदम् । २ बोधनः = बुधः । Page #172 -------------------------------------------------------------------------- ________________ मुहूर्तचिंतामणिः । [गंतव्यराशेः प्राक्फलमर्यादा दिश्य होमो वा ग्रहाणां प्रीतिमिच्छता n' तत्र ग्रहपूजाहोमौ वसिष्ठसंहितायां महता प्रबंधेनोक्तो तत एवावगंतव्यौ इत्यलमतिविस्तरेण । अथ रवेरिति । रविमारभ्य दक्षिणा उच्यते-तत्र सूर्यप्रीत्यर्थ धेनुगौंः, चंद्रप्रीत्यर्थ कंबु शंखः । कंबु इति नपुंसकलिंगं पृथक्पदम् । शंखः स्यात्कंबुरस्त्रियाम्' इत्यमरोक्तेः, मंगलप्रीत्यर्थमरुण भारतो वृषः, बुधप्रीत्यर्थ कनकं सुवर्ण । गुरुप्रीत्यर्थ पीतांबरं, तच्च यथाविभवं कार्पासं कोशजंच; शुक्रप्रीत्यर्थ श्वेतो घोटकः, शनिप्रीत्यर्थमसिता श्यामवर्णा गौः, राहुप्रीत्यर्थ महाऽसिर्बहुमूल्यखगः, केतुप्रीत्यर्थमजः छागो दक्षिणेत्यर्थः । यदाह वसिष्ठः-'धेनुं शंख रक्तवृष हेम पीतांबरद्वयम् । श्वेताश्वं कृष्णधेनुं च कृष्णलोहमजं क्रमात् ॥ स्वर्णेन वा समीकृत्य दातव्या दक्षिणा ततः । आचार्यार्थ जापकेभ्यो ब्राह्मणेभ्योऽथ शक्तितः ॥' इति । अत्र प्रत्येकं दानमंत्रास्तत्रैवोक्ताः ग्रंथभूयस्त्वभयानात्र लिख्यते । 'एवं यः कुरुते सम्यग्ग्रहयज्ञं नृपोत्तमः । सर्वान्कामानवामोति शुभस्थानफलं लभेत् ॥' नृपोत्तम इत्युपलक्षणम् । तेन यः कश्चिद्गृहस्थोऽपि कुर्यात् । तत्र स्वविभवानुरूपाणि ग्रहदानानि प्रोक्तानि कैश्चित् , यथा-'कौमुंभवस्त्रं गुडहेमतानं माणिक्यंगोधूमसुवर्णवस्त्रम् । सवत्सगोदानमिति प्रणीतं दुष्टाय सूर्याय मसूरिकाश्च ॥'-सूर्यायेदम् । 'घृतकलशं सिंतवस्त्रं दधिशखौ चैव मौक्तिकसुवर्णे । रजतं च संप्रदद्याञ्चंद्रारिष्टोपशमनाय ॥'-चंद्राये. दम् । 'प्रवालगोधूममसूरिकाश्च वृषश्व ताम्रः करवीरपुष्पम् । भारक्तवस्त्र गुडहेमतानं दुष्टाय भौमाय सचंदनं हि ॥'-भौमायेदम् । 'नीलं वनं मुगदानं बुधाय रत्नं पाची दासिका हेम सर्पिः । कांस्यं दंतः कुंज़रश्चाथ मेषो रौप्य सर्व पुष्पजात्यादिकं च ॥'-बुधायेदम् । 'अश्वः सुवर्ण शुभपीतवस्त्रं सुपीतधान्यं लवणं सपुष्पम् । सशर्करं तगजनीप्रयुक्तं दुष्टाय शांत्यै गुरवे प्रदेयम् ॥'गुरव इदम् । रजनी-हरिद्रा । 'चित्रवस्त्रमपि दानवार्चिते दुष्टगे मुनिवरैः परिगीतम् । तदुलं घृतसुवर्णरूप्यकं वज्रकं परिमलो धवलोऽश्वः ॥'-शुक्रायेदम् । 'नीलकं महिषं कृष्णं वस्त्रं लोहं सदक्षिणम् ॥ दद्याच्च दक्षिणायुक्त शनिदौष्ट्यप्रशांतये॥'-सूर्यजायेदम् । 'राहोर्दानं बुधैर्मेषो गोमेदं लोहकंबलौ। सुवर्ण नागरूप्यं च सतिलं ताम्रभाजनम् ॥'-राहव इदम् । 'केतौ वैडूर्यममलं तैलं मृगमदस्तथा ॥ ऊर्णा तिलाश्च संयुक्ता दद्यात्क्लेशापनुत्तये ॥-केतव इदम् । अन्यच्च संहिताप्रदीपे-'भानुस्तांबूलदानादपहरति नृणां वैकृतं वासरोत्थं सोमः श्रीखंडदानादवनिवरसुतो भोजनात्पुष्पदानात् ॥ सौम्यः शक्रस्य मंत्री हरिहरनमनाभार्गवः शुभ्रवस्त्रैस्तैलस्नानात्प्रभाते दिनकरतनयो ब्रह्मनत्या परौ च ॥' इति । ब्रह्म-ब्राह्मणः । परौ=राहुकेतू ॥ १६ ॥ अथ सूर्यादयो ग्रहा गंतव्यराशेः प्राक् कियद्भिर्दिनैः फलं दथुरित्येतदुपजात्याहसूर्यारसौम्यास्फुजितोक्षनागसप्ताद्रिघस्रान्विधुरग्निनाडीः । तमोयमेज्यास्त्रिरसाश्विमासान्गंतव्यराशेः फलदाः पुरस्तात् १७ Page #173 -------------------------------------------------------------------------- ________________ राश्यंतरगग्रहफलावालिकालः ] गोचरप्रकरणम् ४ । १५७ सूर्यारसौम्येति ॥ सूर्यादयो ग्रहा गंतव्यराशेजिंगमिषितराशेः पुरस्तात्पूर्वमेवैतत्संख्याकदिवसघटीमासान् । अत्र 'कालाध्वनोरत्यंतसंयोगे' इति द्वितीया । ततो नैरंतर्येण तावंतं कालं फलदाः स्युः । तद्यथा-सूर्यो गंतव्यराशेः प्राक् अक्षघस्रान्पंचदिवसान् फलदः, एवमारो भौमोऽष्टदिवसान्पूर्वं फलदः, बुधः सप्तदिवसान्, शुक्रोऽपि सप्तदिवसान्, विधुश्चंद्रः अग्निनाडीर्घटिकात्रयमेव प्राकूफलदः, राहुर्गंतव्यराशेः प्रात्रिमासं फलदः, एवं शनिः षण्मासान्गुरुद्विमासान्पूर्व फलद इत्यर्थः । उक्तं च- 'सूर्यः पंचदिनं शशी त्रिघटिकं भौमोsष्ट वै वासरान्सप्ताहानि भृगुः ससोमतनयो मासद्वयं वै गुरुः । षण्मासान्पुरतोsपि सूर्यतनयो राहुश्च मासत्रयं केतुश्चैव ददाति भावि सकलं गंतव्यराशेः कलम् ॥' इति । जगन्मोहने वेवमुक्तम्- 'आदित्यादिग्रहा दद्युर्लग्ने वा गोचरेऽपि वा । सप्तविंशति २७ भागोर्ध्वं परराशिफलं खलु ॥' इति ॥ १७॥ अथ प्रसंगादावश्यकमंगलयात्रादिकृत्येषु कर्तव्येषु सत्सु तिथ्यादिविषयकदुष्टयोगसद्भावे तद्दोषनिवारणार्थं दानं शालिन्याहदुष्टे योगे हेम चंद्रे च शंखं धान्यं तिथ्यर्धे तिथौ तंडुलांच | वारे रत्नं भे च गां हेम नाड्यां दद्यात्सिधूत्थं च तारासु राजा १८ दुष्ट इति ॥ दुष्टे व्यतीपातादिरूपे योगे सति हेम सुवर्ण यथाशक्ति राजा दद्यात् । च पुनश्चंद्रे दुष्टे विहितान्यस्थानस्थिते शंखं दद्यात् । तिथ्यर्धे करणे भद्राख्ये दुष्टे धान्यं दद्यात् । तिथौ दुष्टे चतुर्थ्यादिरूपे तंडुलान्, वारे दुष्टेऽनुपचयरूपे रत्नं प्रवालमुक्तादि दद्यात् । भे राशौ दुष्टे क्रूरग्रहाधिष्ठितत्वादिदोषसहिते सति गां दद्यात् । नाड्यां घटिकायां दुर्मुहूर्तादिना दुष्टायां सत्यां हेम सुवर्णं दद्यात् । च पुनस्तारासु दुष्टासु विपत्प्रत्यरिवधरूपासु सिंधूत्थं सैंधवं लवणं दद्यात् । पूर्वं दुष्टतारासु प्रत्येकं विशिष्य दानमुक्तमिदानीं तदशक्तौ लवणमेव देयमिति पुनरुक्तिपरिहारः । उक्तं च दीपिकायाम् — 'योगस्य हेम करणस्य च धान्यमिंदोः शंखं च तंदुलमणी तिथिवार - योश्च । ताराबलाय लवणान्यथ गां च राशेर्दद्याद्विजाय कनकं शुचि नाडि - कायाम् ॥' इति ॥ १८ ॥ अथात्र गोचरप्रसंगात्सूर्यादयो ग्रहा राश्यंतरगाः संतः कदा शुभाशुभफलदातारो भवंति तथा चांद्रमासाधिकरणकरविवासरादौ स्वजन्मनक्षत्रप्रवेशे सति फलविशेषं च वसंततिलकावृत्तेनाह - राश्यादिगौ रविकुजौ फलदौ सितेज्यौ मध्ये सदा शशिसुतश्चरमेऽब्जमंदौ । अध्वान्नवह्निभयसन्मतिवस्त्रसौख्य दुःखानि मासि जनिभे रविवासरादौ ॥ १९ ॥ राश्यादिगाविति ॥ रविकुजौ सूर्य मंगलौ राइयादिगौ राशिप्रथमदशांशमध्यस्थितौ संतौ फलदौ निखिलफलदातारौ अवशिष्टशेष्वीषदीषत्फलदौ । १४ मु० चि० Page #174 -------------------------------------------------------------------------- ________________ मुहूर्तचिंतामणिः । [ अष्टचत्वारिंशत्संस्काराः एवं सितेज्यौ शुक्रबृहस्पती मध्ये मध्यगतांशदशके निखिलफलदातारावम्यषत् । शशिसुतो बुधः सदा त्रिंशदंशेषु निखिलफलदाता । अजमंदौ चंद्रशनैश्वरौ चरमे राज्यंतिमांशदशके निखिलफलदातारावन्यत्रेषत् । उक्तं च वसिष्ठेन - 'भवनादिगतौ फलदौ रविभौमौ मध्यगौ च गुरुशुकौ ॥ अंत्यगतौ शशिरविजौ सदैव फलदः शशांकसुतः ॥' वराहेणापि - 'दिनकररुधिरौ प्रवेशकाले गुरुभृगुजौ भवनस्य मध्ययातौ । रविसुतशशिनौ विनिर्गमस्थौ शशितनयः फलदस्तु सर्वकालम् ॥' इति । रुधिरः = भौमः । अध्वेति । यस्मिन्मासे स्वीयजन्मनक्षत्रप्रवेशे सूर्यादिवाराश्चेत्स्युस्तदा तस्मिन्मासेऽध्वादीनि फलानि वाच्यानि । तद्यथा —– रविवारे जन्मनक्षत्रप्रवेशे सति तस्मिन्मासे अध्वा मार्गोsटनमिति यावत् फलं तस्य पुंसो भवेत् । एवं चंद्रवारे जन्मनक्षत्रप्रवेशे अन्नं भक्ष्यं तत्प्राप्तिः स्यादित्यर्थः । एवं भौमवारे वह्निभयं भवेत् । बुधवारे सम्मतिः सती समीचीना धर्मयुक्ता बुद्धिर्भवेत् । गुरुवारे वस्त्रप्राप्तिर्भवेत् । भृगुवारे सौख्यं भवेत् । शनिवारे दुःखप्राप्तिः स्यादित्यर्थः । उक्तं च ज्योतिषरत्नसंग्रहे वामनेन - 'अध्वा भोजनमग्निभीः सुमतिता वस्त्रं सुखं चासुखं मासे मासि फलं भवेज्जननभे सूर्यादिवारे स्थिते' इति । अत्र 'मासास्तथा च तिथयस्तुहिनांशुमानात्' इति भास्कराचार्यवाक्याच्चद्रः शुक्लप्रतिपदादिदर्शातो मासो गृह्यत इति शिवम् ॥ १९ ॥ " अथ गोचरप्रकरणं गद्येनोपसंहरति इति श्रीदैवज्ञानंतसुतदैवज्ञरामज्योतिर्विद्विरचिते मुहूर्त - चिंतामणी गोचरप्रकरणं समाप्तम् ॥ ४ ॥ ज्योतिर्विद्वरनीलकंठविदुषः श्रीचंद्रिकायास्तथा पुत्रेणाहिंगवीप्रसारितधिया मौहूर्तचिंतामणेः । गोविंदेन विनिर्मिते नयनिधौ पीयूषधाराभिधे व्याख्याने ग्रहगोचरप्रकरणं संपूर्णतामध्यमात् ॥ १ ॥ 1 १५८ इति श्रीमद्दैवज्ञ मुकुटालंकारनीलकंठज्योतिर्वित्पुत्र गोविंदज्योतिर्विद्विरचितायां मुहूर्तचिंतामणिटीकायां पीयूषधारायां ग्रहगोचरप्रकरणं समाप्तम् ॥ ४ ॥ अथ संस्कारप्रकरणम् ५ । அலறலில் शर्वाणीतनयमघाब्धिदावमीशं नत्वा श्रीगुरुपदभक्तिलब्धविद्यः । गोविंदो विबुधजनप्रहर्षिणीं तां संस्कारप्रकरणटिप्पणीं तनोति ॥ अथ संस्कारप्रकरणं व्याख्यायते । तत्र संस्क्रियतेऽनेन श्रौतेन कर्मणा स्मार्तेन च पुरुष इति संस्कारः । स्वीयस्वीयजातौ सामान्यविशेषविहितवैदिकस्मार्तकर्मानुष्ठानद्वाराऽदृष्टविशेषाधायक इति यावत् । लक्षणया तदर्थोक्तदिनशुद्ध्यादिकं संस्कारशब्देनोच्यते । तस्य प्रकरणमुपक्रमः । ते च संस्काराः अष्टचत्वारिंशत् । यदाह गौतमः - 'गर्भाधानं पुंसवनं सीमंतोन्नयनं जात Page #175 -------------------------------------------------------------------------- ________________ गर्भाधानसंस्कारविचारः] संस्कारप्रकरणम् ५ । कर्मनामकरणान्नप्राशनचौलोपनयनं चत्वारि वेदव्रतानि स्नानं सहधर्मचारिणीसंयोगः पंचानां यज्ञानामनुष्ठानमष्टका पार्वणश्राद्धं श्रावण्याग्रहायणीचैत्री आश्वयुजीति सप्त पाकसंस्थाः अन्याधानमग्निहोत्रं दर्शपौर्णमासौ चातुर्मास्थान्याग्रयणेष्टिर्निरूढपशुबंधः सौत्रामणीति सप्त हविर्यज्ञसंस्थाः अग्निष्टोमोऽत्यग्निष्टोम उक्थ्यः षोडशी वाजपेयोऽतिरात्रोऽप्तोर्याम इति सप्त सोमयज्ञसंस्था इत्येते चत्वारिंशत्संस्काराः । अष्टावात्मगुणाः दया सर्वभूतेषु क्षांतिरनसूया शौचमनायासो मांगल्यमकार्पण्यमस्पृहेति । यस्यैते चत्वारिंशत् संस्काराः अष्टावात्मगुणाश्च स ब्रह्मणा सायुज्यमाप्नोति ।' इति । तत्रैते पुंसः संस्काराः समीचीनदिवसेष्वनुष्ठिताः संतोऽभिहितफलदातारो भवंति । तत्र प्रथमं गर्भाधानाख्यसंस्कारोऽभिहितः । स च रजस्वलाख्यधीनः । उक्तं च भरद्वाजसंहितायाम्-'रजस्वला यदा नारी योग्या स्याद्गर्भधारणे । ततः कुर्वीत तत्संगं गर्भार्थ बुद्धिमान्नरः ॥' तत्रापि पुत्रोत्पत्त्यर्थमवश्यं संगः कार्यः । अन्यथा परलोकाभावः । उक्तं च श्रुतौ-'नह्यपुत्रस्य लोकोऽस्ति तत्सर्वे पशवो विदुः' इति । पशवः देवाः । अत एव पुन्नानो नरकाचायत इति पुत्र इत्यन्वर्थतापि प्रतीयते । तदुक्तं महाभारते आदिपर्वणि शाकुंतले-'यदागमवतः पुंसो यदपत्यं प्रजायते । तत्तारयति संतत्या पूर्वप्रेतापितामहान् ॥ पुन्नाम्नो नरकाद्यस्मात्पितरं त्रायते सुतः । तस्मात्पुत्र इति प्रोक्तः स्वयमेव स्वयंभुवा ॥' इति । अनेनामुष्मिकं फलमुक्तं संततेः । ऐहिकमपि फलमुक्तं भारते-'इष्टं दत्तमधीतं च यज्ञाश्च बहुदक्षिणाः । सर्वमेतदपत्यस्य कलां नार्हति षोडशीम् ॥ व्रतोपवासैर्बहुभिः कृतं भवति भीष्म यत् । सर्वं तदनपत्यस्य मोघं भवति निश्चितम् ॥' अतो गर्भाधानमवश्यं कर्तव्यं । तच्च रजोदर्शनतः प्राङ् न विधेयम् । तदुक्तं भविष्यत्पुराणे'रजोदर्शनतः पूर्वं न स्त्रीसंसर्गमाचरेत् । संसर्ग यदि कुर्वीत नरके परिपच्यते ॥' युक्तं चैतत्-रजो हि पुष्परूपं, तद्विना फलरूपसंतानानुत्पत्तेः । ननु कचिद्गजोदर्शनं विनापि गर्भसंभवो दृश्यते, क्वचित्तु सत्यपि रजसि गर्भानुपलंभ इति । नैष दोषः । गर्भधारणं हि रजो विना न भवतीत्येषा व्याप्तिः । तच्च क्वचित्प्रकटं वचिदप्रकटमंतरेव तिष्ठति, तत्राप्रकटेऽपि रजस्यंतर्गतरजःसत्त्वाद्गर्भधारणसंभवोऽतः प्रागुक्तदोषाभावः । उक्तं च कश्यपसंहितायाम् - 'वर्षद्वादशकादूचं यदि पुष्पं बहिर्नहि । अंतःपुष्पं भवत्येव पनसोदुंबरादिवत् । अतस्तु तत्र कुर्वीत तत्संगं बुद्धिमानरः॥' इति । यत्र तु सत्यपि रजसि गर्भधारणं न दृश्यते तत्र पुष्पबीजक्षेत्रादिदोषा द्रष्टव्याः ॥ तस्मात्स्थितमेतद्रजोदर्शनानंतरं स्त्रीसंगः कार्य इति । तत्र-'प्रथमरजोदर्शनतः शुभाशुभं भवति सर्ववनितानाम् ॥' इति वसिष्ठोक्तेः । तत्र शुभफलसूचकं प्रथमरजोदर्शने मासाद्यनुष्टुभाह आय रजः शुभं माघमार्गराधेषफाल्गुने । ज्येष्ठश्रावणयोः शुक्ले सद्वारे सत्तनौ दिवा ॥१॥ आद्यमिति ॥राधः वैशाखः, इषः आश्विनः, शेषं स्पष्टम् । माद्यं प्रथमो Page #176 -------------------------------------------------------------------------- ________________ १६० मुहूर्तचिंतामणिः। [प्रथमरजोदशनफलं द्भवं रजः स्त्रीधर्मो माघमार्गशीर्षवैशाखाश्विनफाल्गुनमासेषु तथा ज्येष्ठश्राव. णमासयोश्चेत्तदा शुभं भविष्यच्छुभसूचकन् । अर्थाच्चैत्राषाढभाद्रपदकार्तिक पौषमासा अशुभाः ॥ उक्तं स्मृतिचंद्रिकायाम्- 'चैत्रे स्यात्प्रथमतौँ तु नारी वैधव्यभागिनी । वैशाखे धनपुत्राढ्या ज्येष्ठे रागान्विता तथा । शुचौ मृतप्रजा प्रोक्ता श्रावणे धनधान्यदा ॥ नभस्ये दुर्भगा क्लिष्टा आश्विने च तपस्विनी । ऊर्जेऽल्पायुष्मती नारी मार्गशीर्षे बहुप्रजा ॥ पौषे तु पुंश्चली नारी माघे पुत्रसुखान्विता। फाल्गुने श्रीमती साध्वी क्रमान्मासफलं स्मृतम् ॥' इति । तथा शुक्ले शुक्लपक्षे सत् अर्थात्कृष्णपक्षे रजोदर्शनं दुष्टम् । तदुक्तं स्मृतिचंद्रिकायाम् –'शुक्लपक्षे सुशीला स्यात्कृष्णे सा कुलटा भवेत् । कृष्णस्य दशमी यावन्मध्यमं फलमादिशेत् ॥' अतः कृष्णपक्षदशम्युत्तरं कुलटात्वं स्यादित्यर्थः । अथ सद्वारे सतां चंद्रबुधगुरुशुक्राणां वारे आद्यं रजः शुभम् , अर्थादन्यवारेषु दुष्टफलम् । यदाह कश्यपः-'रोगिणी रविवारे तु सोमवारे पतिव्रता । दुःखिता भौमबारे तु बुधे सौभाग्यसंयुता ॥ श्रीसंयुता गुरोर्वारे पतिभक्ता भृगोर्दिने । मलिना मन्दवारे तु रात्रावपि तथैव च ॥' वसिष्ठोऽपि-'सदा गदार्ता सुपतिव्रता सा वंध्या प्रजावत्यतुलार्थयुक्ता । आनन्दकी त्वसती च पुष्पवती क्रमाद्भास्करवासरेषु ॥' भास्करवासरेष्वित्यत्र 'अर्धर्चाः पुंसि च' इत्यादिवत् बहुवचनादाद्यर्थोऽवगम्यते । तेन भास्करवासरादिष्वित्यर्थः फलितः । अथ सत्तनो समीचीनलग्ने शुभस्वामिकराशावित्यर्थ इति केचित् । तत्र शुभफलमाद्यं रजः । यदाह नारदः-'कुलीरवृषचापांत्यनृयुक्वन्यातुलाधराः । राशयः शुभदा ज्ञेया नारीणां प्रथमातवे ॥' केचित्तु सत्तनौ सद्भिदृष्टे युक्ते वा तनौ इति व्याकुर्वते । तदुक्तं दैवज्ञमनोंहरे-'मेषे सव्यभिचारा स्यादृषभे परभोगिनी। मिथुने धनभोगाड्या कर्कटे व्यभिचारिणी ॥ पुत्राढ्या सिंहराशौ तु कन्यायां श्रीमती भवेत् ॥ विचक्षणा तुलायां च वृश्चिके तु पतिव्रता ॥ दुश्चारिणी धनुःपूर्व अपरे च पतिव्रता । मकरे मानहीना च कुंभे निर्धनवंध्यता ॥ मीने विलक्षणा लग्ने ग्रहसंस्था विवाहवत् ।' अत्राऽशुभफलापवादमाह वसिष्ठः-'अशुभमपि समस्तं चार्तवं संप्रभूतं सुरगुरुसितयुक्ते वीक्षिते वाथ लग्ने । तिमिरमिव कठोरज्योतिरुत्पत्तिकाले क्षयमथ समुपैति प्राप्नुयादीप्सितानि ॥' कठोरज्योतिः सूर्यः। अथ दिवा दिवसे आद्यं रजः शुभम् । 'मलिना मंदवारे तु रात्रावपि तथैव च' इति नारदोक्तेः दिवा रजोदर्शनं शुभमित्यर्थः । स्मृत्यंतरेऽपि विशेष उक्तः'प्रातःकाले तु सधना सायाह्ने सर्वभोगिनी । मध्याह्ने च भवेद्वेश्या निशीथे विधवा भवेत् ॥' इति ॥ १॥ १ अत्र कैश्चित् 'रोगान्विता' इति पाठो ग्रन्थान्तरेऽपि चादृतो दरीदृश्यते, स तु मूलविगुण इति ज्ञेयः। Page #177 -------------------------------------------------------------------------- ________________ नियमाघरजोदर्शनं] संस्कारप्रकरणम् ५। अथ प्रथमे रजोदर्शने शुभमध्याशुमनक्षत्राण्यनुष्टुभाह श्रुतित्रयमृदुक्षिप्रध्रुवस्वातौ सितांबरे। : : मध्यं च मूलादितिभपितृमिश्रेऽपरेष्वसत् ॥ २॥ श्रुतित्रयेति॥श्रुतित्रयं श्रवणधनिष्ठाशतभिषाः, मृदुक्षिप्रध्रुवाणि-चित्रानुराधामृगरेवत्यश्विनीपुष्यहस्तरोहिण्युत्तरात्रयस्वाती च; एतेषु भेषु आद्यं रजः शुभमिति पूर्वेण संबंधः । अत्र समाहारद्वंद्वः । आगमशासनस्यानित्यत्वात्रुमभावः । मूलेति ।मूलपुनर्वसुमघाविशाखाकृत्तिकासु मध्यं मध्यफलम् । अपरेषु भरणीज्येष्ठार्दाश्लेषापूर्वात्रयेषु असदनिष्टफलम् । उक्तं च गर्गेण'सुभगा चैव दुःशीला वंध्या पुत्रसमन्विता। धर्मयुक्ता व्रतनी च परसंतानमोदिनी ॥ सुपुत्रा चैव दुष्पुत्रा पितृवेश्मरता सदा । दीना प्रज्ञावती चैव पुत्राढ्या चित्रकारिणी ॥ साध्वी पतिव्रता नित्यं सुपुत्रा कष्टचारिणी । स्वकर्मनिरता हिंस्रा पुत्रपौत्रादिसंयुता ॥ नित्यं धनकथासक्ता पुत्रधान्यसमन्विता । मूर्खार्थाढ्या गुणवती दास्रादेः क्रमात्फलम् ॥' इति । व्यवहारनिबंधे श्रीपतिनापि–'करादिपंचोत्तरमूलपूषविष्णुत्रयाश्वीज्यविधींदुभेषु । आर्य रजः सौख्यसुतायुरर्थसौभाग्यवृद्धिं कुरुतेऽङ्गनानाम् ॥ मधेशयोः शोकमथादितेर्भ सा बंधकींद्रेऽप्यनले दरिद्रा । पूर्वात्रये याम्यभुजंगधिष्ण्ये वैधव्यमस्या भवतीति नूनम् ॥' अत्र यद्यपि लिखितयोर्द्वयोरपि संमतिवाक्ययोरैकार्य तथापि ग्रंथकृता विशाखामूलयोर्मध्यत्वाभिधानं वसिष्ठवाक्यस्यानुरोधात्कृतम् । उक्तं च वसिष्ठेन-'द्विदैवभे पुष्पवती प्रमत्ता कृत्यैव मोघामयवैरिसंघा । मूले प्रकामाधिकहीनसत्त्वा स्यात्सर्वभक्षोद्धतदोषचित्ता ॥' इति । अथ सितांबरे श्वेतवस्त्रे आद्यं रजः शुभमिति पूर्वेण संबंधः । उपलक्षणं चैतरक्षौमनूतनवस्त्रयोः । अर्थादन्यादृशेषु वस्त्रेषु रजोदर्शनं निंद्यमित्यर्थः । तदाह वसिष्ठः-'सुभगा श्वेतवस्त्रा स्थाढवस्त्रा पतिव्रता । क्षोमवस्त्रा क्षितीशा स्यान्नववस्त्रा सुखान्विता ॥ दुर्भगा जीर्णवस्त्रा स्याद्रोगिणी रक्तवाससा । नीलांबरधरा नारी विधवा पुष्पिता यदि । मलिनांबरतो नारी दरिद्रा स्याद्रजस्वला ॥' क्षौमवस्त्रं-पट्टवस्त्रम् । क्वचिद्रक्तबिंदुभिः फलमुक्तम्'वस्ने स्युर्विषमा रक्तबिंदवः पुत्रमाप्नुयात् । समाश्चेत्कन्यका चेति फलं स्यात्प्रथमार्तवे ॥' इति वसिष्ठोक्तेः। अन्यच्च-'संमार्जनं काष्ठतृणाग्निशूर्पान्हस्ते दधाना कुलटा तदा स्यात् । तल्पोपभोगे तपसि स्थिता चेदृष्टं रजो भाग्यवती तदा स्यात् ॥' ॥२॥ ___ अथ निंद्यरजोदर्शनं शालिन्याहभद्रानिद्रासंक्रमे दर्शरिक्तासंध्याषष्ठीद्वादशीवैधृतेषु ।। रोगेऽष्टम्यां चन्द्रसूर्योपरागे पाते चाचं नो रजोदर्शनं सत् ॥३॥ भद्रेति॥भद्रा प्रसिद्धव, निद्रा स्वापः, संक्रमः संक्रांतिः, दर्शोऽमावास्या, १ व्यसुर्बुभुक्षोद्धतदोषचित्ता इति गठः । Page #178 -------------------------------------------------------------------------- ________________ ६६६ मुहूर्तचिंतामणिः । [प्रथमरजोवत्याः नाममुहूर्तः रिक्ताः प्रसिद्धाः, संध्याप्रातःसंध्या मध्याह्नसंध्या सायंसंध्या च, षष्ठीद्वादश्यौ प्रसिद्ध, वैश्ताख्यः सप्तविंशतितमो योगःमहापातश्च,रोगोज्वरादिःप्रदरादिश्च, अष्टमी,चन्द्रसूर्योपरागो ग्रहणं, पातः व्यतीपातः सप्तदशयोगो महापातश्च; एषु दुष्टयोगेष्वायं रजोदर्शनं नो सत् । अनिष्टफलदमित्यर्थः । यदाह कश्यपः'अष्टमी षष्ठ्यमा रिक्ता द्वादशी संक्रमेऽपि वा । वैश्तौ च व्यतीपाते ग्रहणे चंद्रसूर्ययोः ॥ विष्टयां संध्यासु निद्रायां दुर्भगा प्रथमार्तवे ।' नारदेन तु प्रतिपत्तिथिः परिघपूर्वाधं च निषिद्धम्-'अमारिक्ताष्टमीषष्ठीद्वादशीप्रतिपस्वपि । परिघस्य तु पूर्वार्धे व्यतीपाते च वैश्तौ ॥ संध्यासूपप्लवे षष्ट्यामशुभं प्रथमार्तवम् ॥' रोगे संमतिर्नास्ति । वसिष्ठेन तु स्थलभेदेन फलविशेषोऽभिहित:-'ग्रामाबहिः परग्रामे वा चेत्स्यायभिचारिणी । पतिव्रता पतिस्थाने सुशीला गृहमध्यमे ॥ ग्राममध्ये च वृद्धिश्च विधवा च दिगंबरा । उपरागे च दुःशीला आयुष्यं जलसन्निधौ॥धनमध्ये तु कन्याया धनधान्यसमृद्धिदा॥' प्रथमार्तवं स्यादिति पूर्वेण संबंधः । अत्र रजस्वलायाः कन्याया मात्रादिकृतप्रश्नलग्नाच्छुभाशुभविशेषो भूयान्वसिष्ठेनोक्तः सोऽस्माभिग्रंथबाहुल्यभयानालेखि स तत एवावधार्यः ॥३॥ अथ प्रथमरजस्वलायाः स्नानमहतं वसंततिलकयाहहस्तानिलाश्विमृगमैत्रवसुध्रुवाख्यैः शक्रान्वितैः शुभतिथौ शुभवासरे च । मायादथार्तववती मृगपौष्णवायु हस्ताश्विधाभिररं लभते च गर्भम् ॥ ४ ॥ हस्तेति ॥ हस्तस्वात्यश्विनीमृगानुराधाधनिष्ठारोहिण्युत्तरात्रयज्येष्ठाभिः शुभतिथौ 'भगा निद्रासंक्रमे' (श्लो०३) इत्याद्यनिष्टदिनव्यतिरिक्तदिवसे शुभवारे शुभानां चंद्रबुधगुरुशुक्राणां वासरे च आर्तववती ऋतुरेवार्तवम्, प्रज्ञादित्वात्स्वार्थेऽण् । तद्विद्यते यस्याः सा तथोक्ता सा रजोवती स्नायात् । उक्तं च दैवज्ञवल्लभे-'ब्राह्मानुराधाश्विनसोमभेषु हस्तानिलाखंडलवासवेषु । विश्वार्यमोत्तरभाद्रभेषु वराङ्गनास्नानविधिः प्रदिष्टः ॥' माखंडलः ज्येष्ठा, वासवधनिष्ठेत्यपुनरुक्तिः । वारफलमपि तत्रैव-'सरुक्पतिव्रता दीना पुत्रिणी भोगभागिनी । पतिव्रता केशयुक्ता ऋतुस्नानेऽर्कवारतः ॥' इति । केचित्त्वन्यथा वारफलं वदंति-'काकीव वंध्या भवतीह शुक्रे नष्टप्रजा स्नानविधौ बुधे च । सौरे च मृत्युः पयसोऽल्पतेंदौ भौमार्कजीवे बहुपुत्रलाभः ॥' इति । एतत्प्रसूतास्नानविषयम् । तदुक्तं दैवज्ञवल्लभे–'नाता प्रसूताप्यसुता बुधेन स्नाता च वंध्या भृगुनंदनेन । सौरे मृतिः क्षीरहृतिस्तु सोमे पुत्रार्थलाभो रविजीवभौमे ॥' इति । विशेषमाह-मृगेति ॥ मृगरेवतीस्वातीहस्ताश्विनीरोहिणीभिर्नक्षत्रैः स्नातार्तववती अरं शीघ्र गर्भ लभते । तदुक्तं दैवज्ञमनोहरे-वायुः पूषा च सौम्यश्च करो ब्रह्मा तथाश्विनी । एभिः स्नाने तु Page #179 -------------------------------------------------------------------------- ________________ १६३ गर्भाधानमुहूर्तः] संस्कारप्रकरणम् ५। नारीणां गर्भः संपद्यते पुनः ॥' इति । अत्रैकादश नक्षत्राणि स्नानविधावुक्तानि । तत्रापि षट्सु भेषु शीघ्रं गर्भोत्पत्तिर्भवेत् , अन्येषु किंचिद्विलंबेनेत्यर्थः । सर्वथा विहितभिनेषु स्नानं न कार्यमिति निष्कृष्टोऽर्थः । उक्तं च'कृत्तिका भरणी मूलमार्दा पुष्यः पुनर्वसुः । मघा चित्रा विशाखा च श्रवणो दशमस्तथा ॥ एताः प्राणहरास्तारास्तासु स्नानं न कारयेत् । यदि स्नानं प्रकुीत पुनःसूतिर्न विद्यते ॥' इति । अर्थाच्छतताराश्लेषापूर्वात्रयेषु मध्यममिति । इयं च देशाचारतो व्यवस्थानुसंधेया, शिष्टाचारस्यापि स्मृतिवत्प्रामाण्यात् । दाक्षिणात्यास्तु-चतुर्थे एव दिवसे स्नानमाहुः-'चतुर्थेऽहनि शुध्यति' इति, ‘भर्तुः स्पृश्या चतुर्थेऽह्नि स्नानेन स्त्री रजस्वला' इति स्मृतिवचनात् ॥४॥ अथ गर्भाधानमुहूर्त शार्दूलविक्रीडितशालिनीभ्यामाहगंडांतं त्रिविधं त्यजेनिधनजन्मः च मूलांतकं दास्र पौष्णमघोपरागदिवसान् पातं तथा वैधृतिम् । पित्रोः श्राद्धदिनं दिवा च परिघाद्याध स्वपत्नीगमे भान्युत्पातहतानि मृत्युभवनं जन्मर्मतः पापभम् ॥५॥ भद्राषष्ठीपर्वरिक्ताश्च संध्या भौमार्कार्की नाद्यरात्रीश्चतस्रः। गर्भाधान व्युत्तरेंद्वकमैत्रब्राह्मस्वातीविष्णुवस्खंबुपे सत् ॥ ६॥ गंडांतमिति ॥ अत्र यदि दुष्टफलतिथ्यादिषु रजोदर्शनमुद्भूतं तत्र चतुर्थदिनानंतरं शांतिक विधेयम् । यदाह वसिष्ठः-'प्रभूतदोषं यदि दृश्यते तत्पुष्पं ततः शांतिककर्म कार्यम् । विवर्जयेदेव तदैकशय्यां यावद्गजोदर्शनमन्यघस्ने ॥ ईशानतो गोमयमंडलेन परिस्तृतेऽग्नौ जुहुयात्स दूर्वाम् । युग्मां धृताक्तां च समित्प्रमाणां गायत्रिका साष्टसहस्रसंख्याम् ॥ शतप्रमाणामथवाऽघहंत्री शुभैर्यवाहृतिभिस्तिलैश्च । ततः सुरान्भूमिसुरान्पितॄश्च संतर्पयेदन्नसुवर्णवस्त्रैः ॥' इति । शांतिकप्रकारस्तु शांतिपद्धत्यादौ द्रष्टव्यः । एवं शांतिकं विधाय गर्भाधान विधेयम् । तत्र स्वपत्नीगमे स्वपत्नीगमने एतान्दोषान् त्यजेदिति सर्वत्र संबंधः । एतान्कान् ? त्रिविधं गंडांतम् । गंडांतलक्षणं रत्नमालायाम्-'नक्षत्रतिथिलग्नानां गंडांतं त्रिविधं स्मृतम् । नवपंचचतुर्थानां व्येकार्धघटिकामितम् ॥' इति । निधनभं जन्मर्शात् सप्तमी वधतारां, जन्मनक्षत्रं जन्मसंज्ञकनक्षत्रत्रय,मूलं,अंतकं भरणी,दास्रमश्विनी, पौष्णं रेवती मघां, उपरागदिवसं ग्रहणदिनं, पातं व्यतीपातं महापातं च, वैशति योग महापातं च, पित्रोर्मातापित्रोः श्राद्धदिनं, दिवा सूर्यावच्छिन्नकालं परिघयोगस्य, पूर्वाध; तथोत्पातैर्दिव्यांतरिक्षभौमैस्त्रिविधैरुत्पातैर्हतं दूषितं जन्मक्षतः जन्मलग्नाजन्मराशेर्वा मृत्युभवनमष्टमं लग्नं पापभं पापग्रहयुक्तभं नक्षत्रं लग्नं वा इति । भद्रेति । भद्रा प्रसिद्धा, षष्ठीतिथिश्च,पर्वाणि चतुर्दश्यष्टम्यमावास्यापूर्णिमासंक्रमणानि । उक्तं च विष्णुपुराणे-'चतुर्दश्यष्टमी चैव अमावास्या च Page #180 -------------------------------------------------------------------------- ________________ : मुहूर्तचिंतामणिः । [पंचमेऽह्नि रजस्वलाशुद्धिः पूर्णिमा | पर्वाण्येतानि राजेंद्र रविसंक्रांतिरेव च ॥' इति । रिक्ताः = चतुर्थीनवमीचतुर्दश्यः । संध्यां प्रातःसंध्यां सायंसंध्यां च, भौमं मंगलवारं, अर्कमादित्यबारं, आर्किं शनैश्चरवारं चतस्रः आद्यरात्रीः रजोदर्शन दिनमारभ्य दिनचतुष्टयं त्यजेदित्यर्थः । तदनंतरमपि पुत्रार्थी रजोदर्शनतो विषमदिवसं त्यजेत् । उक्तं चाधानाध्याये वसिष्ठेन निषेधजातम् -' पौष्णद्वये पित्र्यभयाम्यसार्पविष्णुद्वये नैधनजन्मभेषु । उत्पातपापग्रहदूषितेषु न कार्यमाधानमनिष्टलग्ने ॥ उपप्लवे वैधृतिपातयोश्च विष्ट्यां दिवा पारिघपूर्वभागे । संध्यासु पर्वस्वपि मातृपित्रोर्मृतेऽह्नि पत्नीगमनं विवर्ज्यम् ॥ दिनेषु युग्मेषु च वक्ष्यमाणयोगैः सुतार्थी स्वसतीमुपेयात् । दिनेष्वयुग्मेषु च कन्यकार्थी हित्वा च गंडांस्तिथिलग्नभानाम् ॥' इति । वक्ष्यमाणयोगैः पुंयोगेः स्त्रीयोगैश्च । अत्र ग्रंथकृता श्रवणधनिष्ठयोर्न निषेधः कृतः । बार्हस्पत्यसंहितायां तयोर्विशेषतो विहितत्वात् । तद्वचनमधुनैव वक्ष्यते । ननु षोडशिग्रहणाऽग्रहणवद्विहितप्रतिषिद्धत्वाद्विकल्पः कस्मान्न भवति ? सत्यम् । बहूनामनुरोधो न्याय्य इति विधिरेवोचितः । अत एवोक्तं नारदेन - 'शुचिर्भूत्वा युग्मतिथावनग्नां कामयेत्प्रियाम् । पुत्रार्थी पुरुषस्त्यक्त्वा पौष्णमूलाहिपित्र्यभम् ॥' इति । ' त्यक्त्वा पर्वतिथिं मूलमाश्लेषां पैत्रभं त्विति ॥' इति कश्यपोक्तेश्च । तिथ्यादयः कश्यपेन कालविधाने उक्ताः - ' षष्ठ्यष्टमीं पंचदशीं चतुर्थी चतुर्दशीमप्युभयत्र हित्वा । शेषाः शुभाः स्युस्तिथयो निषेके वाराः शशांकार्यसितेंदुजानाम् ॥' इति । अन्न वाक्ये चंद्रबुधगुरुशुक्रवारा निषेककार्ये शुभा उक्ताः । अर्थादन्ये सूर्य भौमशनिवारा निषिद्धाः । उक्तं च कालनिर्णये - 'रिक्ता पर्वाष्टमी षष्ठी दिवा जन्मत्रयं तथा । पापग्रहाणां वाराश्च त्याज्या याश्चैवानृतौ गतिः ॥' इति । अत एव बृहस्पतिसंहितायाम् - ' शेषाण्यृक्षाणि दुष्टानि स्युर्निषेकाख्यकर्मणि' इत्युक्तम् । 'सोमज्ञगुरुशुक्राणां वारवर्गोदयाः शुभाः । तेषां च दृष्टयश्चैव नेतरेषां कदाचन ॥' इति । अत्र केचिन्निषेके पुंवारा उत्तमाः, स्त्रीवारौ मध्यमौ, नपुंसकवारौ निषिद्धौ । उक्तं च व्यासेन - 'पुरुषग्रहवाराः स्युः शुभाः सीमंतकर्मणि । मध्यौ स्त्रीग्रहवारौ तु वर्जयेत्त नपुंसकौ ॥' इति । अत्र सीमंतग्रहणमुपलक्षणं गर्भाधानस्येत्याहुः । युक्तं चैतत् - 'पुंस्त्रीवारेषु स्त्रीगमने पुरुषाः स्त्रियो वोत्पद्यते' इति तावदिष्टम् । नपुंसकवारगमने तु नपुंसकस्योत्पत्तिः स्यात्, नहि सा कस्यचिदिष्टा भवेदिति नपुंसकबुधवार निषेध एवोचितः, शनिनिषेधस्तूभयवादिसिद्ध एव । दाक्षिणात्यशिष्टसमाचाराच्चातो बुधशन्योरेव निषेधोऽन्येषां ग्रहणमिति प्रतीमः । प्रायास्तु नैतत्सहते, तन्मते तु सूर्य भौमशनीनामेव निषेधः । नारदः - 'रजोदर्शनतोऽस्पृश्या नार्यो दिनचतुष्टयम् । ततः शुद्धाः क्रियास्वताः सर्ववर्णेष्वयं विधिः ॥' अत्रार्थवादमाह भारद्वाजः - ' प्रथमेऽहनि चांडाली द्वितीये ब्रह्मघातिनी । तृतीये रजकी प्रोक्ता चतुर्थेऽहनि शुध्यति ॥' धर्मशास्त्रेऽपि - ' भर्तुः स्पृश्या चतुess स्नानेन स्त्री रजस्वला । पंचमेऽहनि योग्या स्याद्दैवे पित्र्ये च कर्मणि ॥ 1 १६४ Page #181 -------------------------------------------------------------------------- ________________ गर्भाधाने लग्नबलं] संस्कारप्रकरणम् ५ । १६५ तस्मादेतावतो दोषांस्त्यक्त्वा स्त्री गमने हिता ॥' इति । ऋतुकालावधिमाह याज्ञवल्क्यः-'षोडशर्तुर्निशाः स्त्रीणां तस्मिन्युग्मासु संविशेत् । युग्मासु पुत्रा जायते स्त्रियोऽयुग्मासु रात्रिषु ॥' अतः षोडश दिनमध्ये गर्भाधानं विधेयं, तत्रैव गर्भसंभवात् । तत्र वाराः समीचीनाः प्रागुक्ता एव । अधुना नक्षत्राण्याह-गर्भाधानमिति । उत्तरात्रयमृगहस्तानुराधारोहिणीस्वातीश्रवणधनिष्ठाशततारकासु गर्भाधानं सत् शुभदम् । उक्तं च बार्हस्पत्यसंहितायाम्-'हरिहस्तानुराधाश्च स्वातीवारुणवासवम् । उत्तरात्रितयं सौम्यं रोहिणी च शुभाः स्मृताः ॥ आधाने मूलसापांत्यमशुभं सममन्यभम् ॥' इति । एवं विहितनक्षत्रे सति चंद्रबले गर्भाधानार्थं सकृदेव पत्नीगमनं कार्यमित्याह याज्ञवल्क्यः -एवं गच्छन् स्त्रियं क्षामां मघां मूलं च वर्जयेत् । सुस्थिरेंदौ सकृत्पुत्रं लक्षण्यं जनयेत्पुमान् ॥' चकाराद्रेवतीम् । भीमपराक्रमोऽपि-'पित्र्यं पौष्णं नैर्ऋतं चापि धिष्ण्यं त्यक्त्वा नारी सुप्रसन्नः प्रसन्नाम् । पुष्टः क्षामां पुत्रकामोऽभिगच्छन् सल्लक्षण्यं पुत्रमामोति पुण्यम् ॥' इति । तच्च गमनं मंत्रपूर्वकम् । तदुक्तं विष्णुपुराणे-'ऋतावुपगमः शस्तः स्वपत्यां मंत्रतो द्विज' इत्युक्तेरिदं त्रैवर्णिकविषयं प्रतीयते । मंत्रास्तु-'विष्णुर्योनि कल्पयतु' इत्येवमादयः। एतैमन्त्रैर्दक्षिणेन पाणिनोपस्थमभिमृशेदिति गोभिलोक्तिः ॥ ५॥ ६ ॥ ___ अथ गर्भाधाने लग्नबलमिंद्रवज्रयाहकेंद्रत्रिकोणेषु शुभैश्च पापैख्यायारिगैः पुंग्रहदृष्टलग्ने । ओजांशगेंदावपि युग्मरात्रौ चित्रादितीज्याश्विषु मध्यमं तत् ॥७॥ - केंद्रेति ॥ अथ सामान्यतः शुभलग्नानि वसिष्ठोक्तानि–'वृषभमिथुनकर्कसिंहकन्यातुलधरचापझषाः शुभा भवंति । यदि शुभफलशालिनोऽनुकूला निधनविशुद्धियुता निषेककाले ॥' इति । तत्र केंद्रत्रिकोणेषु लग्नचतुर्थसप्तमदशमपंचमनवमस्थानेषु स्थितैः शुभग्रहैस्तथा व्यायारिगैस्तृतीयैकादशषष्ठस्थानस्थितैः पापग्रहैरुपलक्षिते पुंग्रहः सूर्यभौमगुरुभिदृष्टे लग्ने तथा ओजांशगेंदौ ओजो विषमराशिमषमिथुनादिः । अंशोऽप्योज एव, तत्र स्थिते चंद्रे सति युग्मरात्रौ समरात्रौ गर्भाधानं कार्यम् । यदाह जगन्मोहने वसिष्ठः'केंद्रत्रिकोणेषु शुभस्थितेषु लग्ने शशांके च शुभैः समेते । पापैस्त्रिलाभारिगतैश्च यायात्पुंजन्मयोगेषु च संप्रयोगम् ॥' इति । नारदः-ओजराश्यंशगे चंद्रे लग्ने पुंग्रहवीक्षिते । शुचिर्भूत्वा युग्मतिथौ ह्यनग्नां कामयेत्रियम् ॥' इति । युंग्रहानाह नारदः–'पुंग्रहाः सूर्यजीवाराः स्त्रीग्रही शशिभार्गवौ । नपुंसको सौम्यसौरी शिरोमानं विधुतुदः ॥' इति । अत्र पुंस्त्रीनपुंसकयोगा वसिष्टेनोक्ताः-'आधानलग्ने विषमांशराशौ जीवेंदुजाभ्यां युतवीक्षिते वा । नान्यैः सुपुत्रस्त्वथ पापखेटैः पापी च मित्रैर्बलिभिश्च मिश्रः ॥ ओजाशे लग्नगे वीर्ययुक्ते जीवेंद्वकैंरोजराश्यंशसंस्थैः । पुंजन्म स्याद्व्यत्यये कन्यका - १ अत्र 'आधाने मूलपित्र्यांतम्' इति पाठश्चेत्साधीयान् । मूलानुगुणो ग्रंथांतरसंवादी च भवेत् । Page #182 -------------------------------------------------------------------------- ________________ . मुहूर्तचिंतामणिः। [ऋतावगमने प्रत्यवायः स्यान्मित्रैः षंढो ब्यंगगैर्द्वित्रिजन्म ॥' षंढः नपुंसकः । 'ओजांशकाद्विषमासंस्थः पुंजन्मकारी रविसूनुरेव । विचार्य वीर्य पुरुषग्रहाणां वाच्योऽथ पुत्रस्त्वथ पुत्रिका वा ॥ युग्मांशलग्ने बलयुक्तशुक्रनिशाकराभ्यां युतवीक्षिते वा ॥ नान्यैः सुकन्या त्वथ पापरूपा पापैश्च शेष सुविचिंत्य वाच्यम् ॥' इति । एवमन्येऽपि पुंजन्मादियोगा जातके द्रष्टव्याः । एषु यस्मिन्कस्मिन्पुंजन्मयोगे पुत्रार्थी युग्मरात्री पत्नी गच्छेत् । कन्याजन्मयोगे तु कन्यार्थी विषमरात्रौ पत्नीं गच्छेत् इति फलितोऽर्थः । अथ गर्भाधाने विहितनक्षत्राप्राप्तौ मध्यमनक्षत्राण्याहचित्रेति । चित्रापुनर्वसुपुष्याश्विनीषु तद्गर्भाधानं मध्यमं मध्यमफलदमित्यर्थः । यदाह बृहस्पतिः-'चित्रादित्ये तथा तिष्यतुरगौ चेति मध्यमाः। शेषाण्यक्षाणि दुष्टानि स्युनिषेकाख्यकर्मणि ॥' इति । अत्र केचिदैवान्मानुषाद्वा प्रतिबंधाद्भर्तुरसन्निधानेऽनेकेषु ऋतुषु व्यतीतेषु गर्भाधानाख्यः संस्कारो नाभूत्तदानीं दैवान्मध्ये भर्ता समागतश्चेत्तदा दक्षिणायनशुक्रगुर्वस्तन्यूनाधिमासादिमहादोषसद्भावस्तदा गर्भाधानं नैव भवतीत्याहुः-अतीतकालत्वाद्यथा कालातीतेषु जातकर्मनामकर्मान्नप्राशनचौलादिसंस्काराः पूर्वोक्तदोषसद्भावे नैव भवंति । उक्तं च वसिष्ठेन-'अतीतकालान्यखिलानि यानि कार्याणि सौम्यायनगे दिनेशे । गुरौ भृगौ वाप्यथ दृश्यमाने तदुक्तपंचांगदिनेऽप्यखंडे ॥' इति । सत्यम् । सत्यपि ऋतूनामतिक्रमे 'निमित्तानंतरमेव नैमित्तिकम्' इति न्यायेन 'षोडशर्तुनिशाः स्त्रीणां तस्मिन्युग्मासु संविशेत्' इति याज्ञवल्क्यवचसा षोडशदिनमध्ये एव चेत् भर्तुः सान्निध्यमभूत्तदा तत्रैव यथाकथंचित्कालशुद्धिं विचार्य गर्भाधानं कर्तव्यं । षोडशदिनातिक्रमे तु ऋत्वंतरमपेक्ष्य प्रागुक्तदिशा कालशुद्धिं विचार्य कार्यमेव, तदा बहुकालव्यापिनी कालशुद्धिरुपेक्ष्यैव । यतो विज्ञानेश्वरेण-तस्मिन्युग्मासु संविशेत्' इत्यस्य व्याख्यानावसरे किमयं विधिनियमः परिसंख्या वेति त्रयः पक्षा उपन्यस्तास्तत्र स्त्रीगमने रागत एव प्रवृत्तेनियम एवायमिति सिद्धांतितम् । 'ऋतौ गच्छेदेव' इति यममरणात् 'ऋतावुपेयात्सर्वत्र वा प्रतिषेधवय॑म्' इति गौतमस्मरणाच्च । ऋत्वगमने प्रत्यवायोऽपि स्मयते । 'ऋतुस्नातां तु यो भायाँ सन्निधौ नोपगच्छति । घोरायां भ्रूणहत्यायां युज्यते नात्र संशयः ॥' इति शातातपोक्तेः। अत एवैतषणभयादेवाधिकारिणा पित्रादिना कन्या गुणवते वरायावश्यं देयेत्याह याज्ञवल्क्यः -पिता पितामहो भ्राताकुल्यो वा जननी तथा। कन्याप्रदः पूर्वनाशे प्रकृतिस्थः परः परः ॥अप्रयच्छन्नवामोति भ्रूणहत्यामृतावृतौ ॥' इति वीप्सोक्तिः कैमुतिकन्यायसूचनार्थम् । यत्र पित्रादेरदातुचेदयंदोषस्तदा भर्तुरयं दोषो भवत्येवेति किं वाच्यमित्यर्थः। भ्रणः गर्भः। अथ गर्भाधानं विधाय पुंसा निद्रासमये किं कार्यमित्याह विष्णुः-निद्रासमयमासाद्य तांबूलं वदनात्त्यजेत् । पर्यकात्प्रमदां भालात् पुंडूं पुष्पाणि मस्तकातू ॥' इति । अथानया गर्भो तो न वेति प्रश्ने गर्भधारणयोगा जातके द्रष्टव्याः । प्रस्तुतेऽप्रसंगान लिख्यतेऽस्माभिः ॥ इति गर्भाधानं समाप्तम् ॥ ७ ॥ Page #183 -------------------------------------------------------------------------- ________________ सीमंते कालनिर्णयः] संस्कारप्रकरणम् ५। अथ प्रसिद्ध गर्भे सीमंतोन्नयनाख्यसंस्कारमुहूर्त शार्दूलविक्रीडितेनाहजीवारिदिने मृगेज्यनिक्रतिश्रोत्रादितिबनभै रिक्तामार्करसाष्टवर्ण्यतिथिभिर्मासाधिपे पीवरे । सीमंतोऽष्टमषष्ठमासि शुभदैः केंद्रत्रिकोणे खलै लाभारित्रिषु वा ध्रुवांत्यसदहे लग्ने च पुंभांशके ॥८॥ जीवार्केति ॥ जीवः बृहस्पतिः, अर्कः सूर्यः, आरः मंगलः, एषां वारे; तथा बध्नः सूर्यः, 'भास्कराहस्करबध्न' इत्यभिधानात् । तस्य भं हस्तः, अन्यरस्पष्टं नामत एव । एवं मृगपुष्यमूलश्रवणपुनर्वसुहस्तनक्षत्रैः सीमंतो लक्षणया सीमंतोन्नयनाख्यः संस्कारः कार्यः । सीमंत उन्नीयते यस्मिन्कर्मणि तत्सीमंतोन्नयनमिति शब्दव्युत्पत्तिः, सीमंत: केशमध्यभागः। उक्तं च सीमबाध्याये कश्यपेन- शुक्लपक्षादिदिवसं रिक्त पर्वस्य मध्यमाम्। तिथिं त्यक्त्वाकभूसूनुसुरेज्यानां च वासरे ॥' इति ॥ रत्नमालायाम्-'श्रवणः सकरः पुनर्वसुर्निर्ऋतेभं च सपुष्यको मृगः । रविभूसुतजीववासराः कथिताः पुंसवनादिकर्मसु ॥' आदिशब्देन सीमंतोन्नयनादि । व्यासः-'पुरुषग्रहवाराः स्युः शुभाः सीमंतकर्मणि । मध्यौ स्त्रीग्रहवारौ तु वर्जयेत्तु नपुंसकौ ॥' इति । तत्र तिथयो निषिद्धा उच्यते-रिक्तेति। रिक्ताः प्रसिद्धाः,अमा अमावास्या,अर्का:= द्वादशी, रसाः षष्ठी, अष्ट=अष्टमी; एताभिस्तिथिभिर्वा न्यूना अवशिष्टा यास्तिथयस्ताभिरुपलक्षिते दिने । यदाह गुरुः–'पक्षच्छिद्रां च रिक्तां च विना पंचदशी शुभाः । चतुर्दशी चतुर्थी च कदाचित्तु शुभप्रदे॥ शुभसंस्थे निशा. नाथे चतुर्थी च चतुर्दशी । पौर्णमासी प्रशंसंति केचित्सीमंतकर्मणि ॥' इति । किंच मासाधिपे 'मासेश्वरा' इत्यग्रिमश्लोकेन ज्ञाते गर्भमासस्वामिनि पीवरे पुष्टे उदिते सतीत्यर्थः । यदाह नारदः-'चतुर्थे मासि षष्ठे वाप्यष्टमे वा तदीश्वरे । बलोपपन्ने दंपत्योश्चंद्रताराबलान्विते ॥' कश्यपोऽपि-'मासेश्वरे बलोपेते नास्तगे न पराजिते' इति । यदि मासाधिपो निर्बलस्तदा दोष इत्याह गर्गः-'यस्य मासाधिपो रिक्तो नीचो वास्तंगतोऽपि वा । तस्मिन्मासे क्षयं याति प्रसवो वा भविष्यति ॥' स च सीमंतो गर्भधारणसमयादष्टमषष्ठमासि अष्टममासि षष्ठमासि वा कार्यः । अयं चेच्छया विकल्पः । 'षष्ठेऽष्टमे वा सीमंतो मासि' इति याज्ञवल्क्योक्तेः। नारदेन चतुर्थोऽपि मासोऽभ्यधायि, तद्वाक्यं प्रदर्शितं । शौनकेनापि-'चतुर्थे गर्भमासे स्यात्सीमंतोन्नयनक्रिया । षष्ठेऽष्टमे वा कुर्वीत सूत्रांतरविधानतः ॥' सूत्रांतरं स्वस्वगृह्यसूत्रम् । एवं स्वेच्छयोक्तमासे एव विधेयम् । तञ्च शुद्धपक्षे पूर्वाह्न एव नापराह्ने । यदाह नारदः-'शुक्ल पक्षे च पूर्वाह्ने सीमंताख्यो विधिः स्मृतः' इति । बृहस्पतिरपि–'पूर्वपक्षः शुभः प्रोक्तः कृष्णश्चांत्यत्रिकं विना। पूर्वाह्न एव तत्रापि नापराह्ने कथंचन ॥' इति । अथ लग्नमुच्यते-केंद्रेति । केंद्र १४७११० त्रिकोण ९।५ स्थानेषु शुभदैः सौम्यग्रहैस्तथा लाभारित्रिषु ११।६।३ खलैः पापग्रहैरुपलक्षिते लग्ने तत्रापि च पुनः पुंभांशके पुरुषराशि Page #184 -------------------------------------------------------------------------- ________________ १६८ मुहूर्तचिंतामणिः । [सीमंते शुक्रास्तदोषविचारः लग्ने पुरुषनवांशके च कार्यः । यदाह वसिष्ठः-'केंद्रत्रिकोणोपगतैश्च सौम्यैदुश्चिक्यलाभारिगतैश्च पापैः । षडष्टलग्नांत्यविवर्जितेंदौ सीमंतकार्य शुभदं तथैव ॥' इति ॥ रत्नमालायाम्-'षष्ठे मास्यथवाष्टमे तदधिपे वीर्योपपन्ने विधौ चेष्टैईष्टतनौ नृनामभवने पुंलग्नभागेषु च । धीधर्माख्यचतुष्टयेऽपि च-गुरौ पापैश्च तद्बाह्यगैर्मृत्युद्वादशवर्जितैश्च मुनिभिः सीमंतकर्म स्मृतम् ॥' अन विशेषमाह कश्यपः-'चंद्रोऽपि शुभदो ज्ञेयस्त्यक्त्वा षष्ठाष्टमव्ययान् । सीमंतलग्नादेकोऽपि करः पंचाष्टरिःफगः । हंति सीमंतिनी सोऽपि तद्गर्भ वा न संशयः ॥' अत्रापि जन्मराशिजन्मलग्नाभ्यामष्टमभवनमिष्टलग्नादष्टमलग्नं च शुद्धं ग्राह्यम् । यदाह सीमंताध्याये कश्यपः-'न नैधने तयोर्लग्ने नैधने शुद्धिसंयुते । पंचभिश्च चतुर्भिर्वा सूर्येदुगुरुपूर्वकैः । ग्रहैरिष्टैः शुभे लग्ने राशावपि न नैधने ॥' इति । सीमंतोन्नयनमित्यनुषंगः। तयोः स्त्रीपुंसयोः । अस्यापवादः प्रयोगपारिजाते नृसिंहोक्तः- लग्नादष्टमराशीशः केंद्रगः शुभवीक्षितः । यद्यप्यष्टमभस्योक्तं दोषमाशु व्यपोहति ॥' अपिशब्दो भिन्नक्रमोऽष्टमभस्येत्यस्यानंतरं द्रष्टव्यः । स च कैमुतिकन्यायेनान्यदोषनिवारणार्थोऽपि संपन्नः । क्वचित्सत्यपि ग्रहबले सिंहवृश्चिकलग्ने निंदिते अभिहिते इत्ययमप्यत्र विशेषो ध्येयः । यदाह गुरुः-'मूलः केचिदि. च्छंति सीमंतं शुभदं बुधाः। सिंहालि वर्जयेल्लग्नं ग्रहैरष्टमवर्जितम् ॥' ग्रहैः= क्रूरग्रहैः । क्वचिद्राशिवयं निषिद्धम् । यदाह गर्गः-'सीमंतोन्नयनं कार्य शुभांशे शुभलग्नगे । कुलीरमृगकन्याश्च वाः शेषाश्च शोभनाः ॥' इति । अथ मतांतरेण नक्षत्राणि वारांश्चाह-ध्रुवेति । ध्रुवाणि रोहिण्युत्तरात्रयं, अंत्यं रेवती, तथा सदहे सतां शुभग्रहाणां चंद्रबुधगुरुशुक्राणामह्नि वासरे, ध्रुवांस्यनक्षत्रेषु प्रागुक्तनक्षत्रेषु वा कार्यम् । एवं शुभग्रहवारे वा कार्यमित्यर्थः । यदाह गुरुः-'रोहिण्यैदवमादित्यं पुष्यहस्तोत्तरात्रयम् । पौष्णं वैष्णवभं चैव सीमंतादिषु संमतम् ॥' इति । श्रीधरः-'सौम्यानां वारवर्गाः स्युः सीमंतादिषु शोभनाः ॥' इति । अत्र जन्मनक्षत्रं यदि विहितमपि संभवेत्तदा तदपि वयमित्याह वसिष्ठः-'बालानभुक्तो व्रतबंधने च राजाभिषेके खलु जन्मधिष्ण्यम् । शुभं त्वनिष्टं सततं विवाहसीमंतयात्रादिषु मंगलेषु ॥' एवं निर्णीते सीमंतोन्नयनमुहूर्ते शुक्रास्तादिदोषविचारो नास्ति, नियतमासविहितत्वात् । तदाह गुरु:-'मासप्रयुक्तकार्येषु मूढत्वं गुरुशुक्रयोः । न दोषकृन्मलो मासो गुर्वादित्यादिकं तथा ॥' इति । अयमत्र तात्पर्यार्थःयत्र नियतकाल एव कालो विहितः । यथा-तृतीये मासि पुंसवनं तत्र शुक्रास्तादिदोषाभाव एव । यत्र तु सीमंतादौ चतुर्थषष्टाष्टममासरूपं कालत्रयविधानं तत्र शुक्रास्तादिदोषरहितेतरकालो ग्राह्यः संभवात् । क्वचित्कुलाचारवशात्सीमंतादौ नियत एव कालो विवक्षितो भवेत्तदा न दोषः, कुलाचारवशादेव तदतिरिक्तो नियत एव कालः स्यात्तदापि न दोषः । यत्र बहुकालविधानेऽपि बहुदिनन्यापकसिंहस्थगुर्वादिदोषसगावे सत्यनन्यगतिकत्वान्नैव Page #185 -------------------------------------------------------------------------- ________________ स्त्रीणां चन्द्रबलं मासेशाच] संस्कारप्रकरणम् ५। १६९ दोषः । एवं नामकर्मानप्राशनादिष्वपि द्रष्टव्यम् । उक्तं च-'सीमंतजातकादीनि प्राशनांतानि यानि वै । न दोषो मलमासस्य मौढ्यस्य गुरुशुक्रयोः॥' इति । मौल्यस्येत्यादि दोषोपलक्षणम् । एवं च कालप्रतीक्षायोग्येषु चूडाकरणादिषु मलमासादिदोषो विचारणीय एवेति । अथैते गर्भाधानादयः संस्काराः किं गर्भसंस्कारकत्वात्प्रतिगर्भमावर्तते उत सकृदेव कार्या इति । तत्रेदृशं भृगुवाक्यम्-'प्राप्ते तृतीयमासे स्फुरदिंदुकलापपक्षे च । पुंसवनं पुत्रेप्सुर्गर्भ गर्ने प्रकुर्वीत' इति । पुंसवनमुपलक्षणं सर्वगर्भसंस्काराणाम् । गर्भे गर्भे इति वीप्साग्रहणात्प्रतिगर्भमावृत्तिरिति केचिदाहुः । अपरे च सकृदेव कार्या इत्याहुः । यदाह हारीत:-'सकृच्च कृतसंस्काराः सीमंतेन द्विजस्त्रियः। यं यं गर्भ प्रसूर्यते स सर्वः संस्कृतो भवेत् ॥' इति । एतेन क्षेत्रसंस्कारकत्वमुक्तं भवति । यथा भूरेकवारं दाहायनेकसंस्कारवती सर्वकाले कर्षणयोग्या भवति तद्वदनापीत्यर्थः । क्वचित्तु कोंकणदेशादौ प्रतिवर्ष दाहादिसंस्कारं विधाय कर्षणं क्रियते। इत्येवं पक्षद्वयसंभवे देशाचारतो व्यवस्था ध्येया। ननु तृतीयमासविहितत्वादादौ पुंसवनमुहूर्तो विचारणीयस्ततश्चतुर्थषष्ठाष्टममासविहितः सीमंतमुहूर्तो विचार्यः, वैपरीत्योक्तौ किं बीजमिति चेत् । उच्यते,-सीमंते विहितस्य तिथिनक्षत्रवारलग्नादिसमुदायस्य पुंसवनेऽप्युपयोगात्सर्वदेशप्रसिद्धसीमंतानुष्ठानाचारदर्शनाच्चादौ सीमंतस्योक्तिः । पुंसवनं स्वतंत्रकर्तव्यत्वेनोक्तमपि शिष्टाः सीमंतेन सहैव कुर्वति । यदाह जातूकर्ण्यः-'सीमन्तेन सहाथवा' इति । नृसिंहोऽपि-सीमंतोन्नयनस्योक्ततिथिवासरराशिषु । पुंसवं कारयेद्विद्वान्सहैवैकदिनेऽथवा ॥' इति । अत एवानवलोभनाख्यं कर्मास्मिन्नेव दिने क्रियत इति शिष्टाचारोऽप्यत्रार्थे प्रमाणम् ॥ इति सीमंतविचारः ॥ ८॥ अथ प्रसंगेन मासेश्वरान् स्त्रीणां चंद्रबलं च वसंततिलकयाहमासेश्वराः सितकुजेज्यरवींदुसौर चंद्रात्मजास्तनुपचंद्रदिवाकराः स्युः । स्त्रीणां विधोर्बलमुशंति विवाहगर्भ ___ संस्कारयोरितरकर्मसु भर्तुरेव ॥९॥ मासेश्वरा इति ॥ गर्भप्रथममासादारभ्य दशमप्रसूतिमासपर्यंतं सितादयो मासेश्वरा ज्ञेयाः । यथा-प्रथममासेश्वरः शुक्रः, द्वितीये मंगलः, तृतीये गुरुः, चतुर्थे रविः, पंचमे चंद्रः, षष्ठे शनिः, सप्तमे बुधः, अष्टमे आधानलग्नाधिपतिः, नवमे चंद्रः, दशमे सूर्यः। अत्र प्रथममासमारभ्य दशममासं यावद्गभस्य कललादिरूपावस्था भवतीत्यपि विशेषो ध्येयः । यदाह वराहः'कललघनांकुरास्थिचांगजचेतनताः सितकुजबीजसूर्यचंद्रार्किबुधाः परतः । उदयपतिचंद्रसूर्यनाथाः क्रमशो गदिता भवंति शुभाशुभं च मासाधिपतेः सदृशम् ॥' इति । शुक्रशोणितसन्निपातः कललम् । अंगजानि-लोमानि । १५ मु० चि. Page #186 -------------------------------------------------------------------------- ________________ मुहूर्तचिंतामणिः। [पुंसवनमुहूर्तः वसिष्ठोऽपि-सितावनेयामरपूज्यसूर्यचंद्रार्किसौम्योदय–दुसूर्याः । मासाधिपाः स्युः क्रमशो दशैते निपीडितो नाशयति स्वमासि' ॥ स्त्रीणामिति ॥ गोचरप्रकरणे यद्यप्युभयोः स्त्रीपुंसयोः सामान्यतो ग्रहबलमुक्तं तथाप्यत्र स्त्रीणां चंद्रबले विशेषोऽभिधीयते। विवाहे गर्भसंस्कारे गर्भाधानपुंसवनसीमतादिरूपे स्त्रीणामपि बलं ग्राह्यम् , इतरकर्मसु वस्त्रपरिधानालंकारधारणादिषु कृत्येषु भर्तुर्धवस्यैव चंद्रबलं ग्राह्यं नतु स्त्रीणाम् । यदा तु भर्ता मृतस्तदा स्त्रीणामेव चंद्रबलं ग्राह्यमित्यर्थसिद्धम् । उक्तं च-'पाणिपीडनविधेरनंतरं भर्तुरेव बलमैंदवादिकम् । चिंतनीयमिह योषितां क्वचिन्नाष्टमंगलमृते मनीषिभिः ॥' इति । राजमार्तड:-'विवाहकार्य कुसुमप्रतिष्ठा गर्भप्रतिष्ठा वनिताविशुद्धौ। भन्यानि कार्याणि धवस्य शुद्धौ पत्यौ विहीने प्रमदात्मशुद्ध्या ॥' कुसुमप्रतिष्ठा= गर्भाधानम् । गर्भप्रतिष्ठा-सीमंतादिः ॥९॥ ___ अथ येषामाचारः पृथगेव पुंसवनं विधेयमिति तदर्थ पुंसवनमुहूर्त विष्णुपूजामुहूर्त चंद्रवज्रयाहपूर्वोदितैः पुंसवनं विधेयं मासे तृतीये त्वथ विष्णुपूजा। मासेऽष्टमे विष्णुविधातृजीवलग्ने शुभे मृत्युगृहे च शुद्धे ॥१०॥ पूर्वोदितैरिति ॥ पूर्व सीमंतोन्नयने उदितैः प्रोक्तैस्तिथिवारनक्षत्रलग्नैरुपलक्षिते तृतीये मासि पुंसवनं विधेयमिति तदर्थ पुंसवनाख्यं कर्म विधेयम् । पुमान् सूयतेऽनेन कर्मणेति न्युत्पत्त्या पुंसवनकर्मणः पुंस्त्वहेतुता । यदाह शौनकः-'व्यक्ते गर्भ तृतीये तु मासे पुंसवनं भवेत् । गर्भोऽव्यक्तस्तृतीये चेञ्चतुर्थे मासि वा भवेत् ॥' नृसिंहः-'सीमंतोन्नयनस्योक्ततिथिवासरराशिषु । पुंसवं कारयेद्विद्वान्सहेवैकदिनेऽथवा॥' इति। विशेषमाह वसिष्ठः'कुर्यात्पुंसवनं प्रसिद्धविषये गर्भे तृतीयेऽथवा मासि स्फीततनौ तुषारकिरणे पुष्येऽथवा वैष्णवे । हित्वा कर्कटकं नृयुग्ममबलामन्येष्वरिक्ते तिथौ शुद्ध नैधनधाम्नि शुक्रशशभृद्विन्मत्रिणां वासरे ॥' इति । नैधनधानि-अष्टमस्थाने सर्वग्रहरहिते । यदाह वसिष्ठः-'अष्टमस्था ग्रहाः सर्वे नेष्टाः स्युस्तेऽशुभा. वहाः । एवं सम्यक्परीक्ष्यैव कुर्यात्पुंसवनक्रियाम् ॥' इति । वारास्त्वत्र सौम्यग्रहाणामुक्ताः । बृहस्पतिरप्यत्र विशेषमाह-'गुरुशुक्रबुधेदूनां द्रेष्काणदिवसांशकाः । तेषामुदयहोराश्च पुंसवेऽतिशुभावहाः ॥' इति । अन्यैस्तु श्रीपत्यादिभिः पुंवारा एव प्रशस्ता अभिहिताः। तत्फलान्याह गर्गः-'सौम्ये मृतप्रजा मंदे मृत्युर्वध्या च भार्गवे । सोमे दुग्धविहीना स्याच्छेषाः सर्वार्थसिद्धिदाः ॥' इति । अत्र वचनद्वयप्रामाण्याद्विकल्पः । केचित्तु यदा तृतीये मासि पुंसवनं चिकीर्षितं तदा सौम्यवारा एव ग्राह्याः । यदा तु चतुर्थे मासि गर्भस्य व्यक्तत्वात्पुंसवनं चिकीर्षितं तदा पुंवारा एव ग्राह्या इत्याहुः । नक्षत्राणि ह्यत्र पुंनामानि ग्राह्याणि, तानि 'श्रवणः सकर' इति श्रीपतिनोक्तानि । वसिष्ठेन तु पुनामान्यभिहितानि । यथा-'पुंनाम श्रवणं तिष्यः स्वाती हस्तः Page #187 -------------------------------------------------------------------------- ________________ जातकर्ममुहूर्तः] संस्कारप्रकरणम् ५। पुनर्वसुः । मूलं प्रोष्ठपदं चानुराधा मृगशिरोऽश्विनी ॥' विशेषमाह ऋक्षो. ञ्चयः-'हस्तातिष्यमूलानि सौम्यं विष्णुः पुनर्वसुः। प्रोष्ठपदाद्वयं प्रोक्तमाषाढद्वयमेव च ॥ श्रेष्ठानि कथितान्येव धिष्ण्यान्येकादशैव तु । स्वाती तथा मघायां च रेवत्यां फल्गुनीद्वये ॥ अश्विन्यां चैव नक्षत्रे यदा पुंसवनं भवेत् । नरः संपद्यते दैवाद्यदा स्याद्गुरुतल्पगः । लुब्धो हृस्वतनुः क्रूरो नारी चेत्कुलटा भवेत् ॥ शेषाणि दश धिष्ण्यानि निंदितानि विशेषतः ॥' तदेतयोर्द्विरुक्तार्थयोर्वाक्ययोर्देशाचारतो व्यवस्था । तत्र वसिष्ठवाक्येन दाक्षिणात्या व्यवहरंति । प्राच्यास्तु ऋक्षोच्चयवाक्येन ॥ अथ लग्नशुद्धिमाह ऋक्षोच्चयः-'मीनवृश्चिककुंभेषु चापगोसिंहकन्यकाः। उक्ताः पुंसवनायेषु सुखपुत्रादिवांछया ॥ केंद्रत्रिकोणभवनेषु शुभस्थितेषु पापेषु षदत्रिदशलाभगृहस्थितेषु ॥ जीवेंदुभानुभृगुभूमिजमंदिरेषु लग्नेषु लग्नपरिशुद्धशुभांशकेषु ॥' अत्रापि स्त्रीपुंसयोश्चंद्रबलमावश्यकमित्याह नृसिंहः–'अपि पुंसवनं कार्य दंपत्योरनुकूलभे। जन्मादिं वर्जयेद्राशिं चांशकं विपदादिषु ॥' इति । अथ गर्भरक्षार्थ विष्णुपूजामुहूर्त उच्यते-अथेति । सीमंतानंतरमष्टमे मासि विष्णुविधातृजीवैः श्रवणरोहिणीपुष्यैरुपलक्षिते दिवसे तथा लग्ने शुभे शुभस्वामिके शुभयुक्ते वा सति तथा मृत्युगृहेऽष्टमस्थाने शुद्ध सर्वग्रहरहिते च सति विष्णुपूजा कार्या । यदाह प्रयोगपारिजाते वसिष्ठः-'मास्यष्टमे च गर्भस्य कुर्याद्विष्णुबलि क्रियाम् । श्रवणे चैव रोहिण्यां पुष्ये चैव प्रशस्यते ॥ द्वितीया सप्तमी चैव द्वादशी च शुभा तिथिः। शुभग्रहोदयाः शस्तास्तेषां च दिवसा अपि ॥ पापाख्यायारिगाः श्रेष्ठा नेष्टाः सर्वेऽष्टमे स्थिताः ॥' इति । अष्टमग्रहदोषापवादमाह गुरुः-'रंध्रेशः स्वांशगः स्वोच्चस्वक्षेत्रोपचयसंगः । अष्टमस्थस्य दोषोऽयं विनश्यति न संशयः ॥' इति । नारदोऽपि-'लग्नाष्टमेशयोमैत्रे लग्नेशे बलसंयुते । अस्तगे निधनेशे च निधनेऽपि शुभग्रहे ॥' इति । वसिष्ठसंहितायां तु संक्षिप्योक्तम्-'रोहिण्यां वा वैष्णवे पूर्वपक्षे द्वादश्यां वा सप्तमे वा तिथौ वा । मध्ये चाह्नः पूर्वभागेऽनुकूले विष्णोः पूजां कारयेद्गर्भपुष्ट्यै ॥' तत्र पूजाप्रकारस्तेनैवोक्तः-'पीतांबरं कृष्णवर्ण शंखचक्रगदांबुजम् । वैकुंठवासिनं विष्णुं मृत्कुंभे स्थापयेत्ततः ॥ विष्णोः स्वरूपं कनकेन कृत्वा तलिंगमंत्रैरथ गंधपुष्पैः । वस्त्राक्षतैर्गुग्गुलुधूपदीपैनैवेद्यतांबूलफलैश्च सम्यक् ॥ विष्णुं च देवतापूजां गर्भाणां रक्षणाय च । ब्राह्मणाय प्रदातव्या प्रतिमा वस्त्रसंयुता ॥' इति गर्भरक्षार्थ विष्णुपूजा ॥१०॥ अथ जातकर्म-नामकरणयोर्मुहूर्तमुपजात्याहतजातकर्मादि शिशोविधेयं पर्वाख्यरिक्तोनतिथौ शुभेऽह्नि । एकादशे द्वादशकेऽपि घस्रे मृदुध्रुवक्षिप्रचरोडुषु स्यात् ॥११॥ तजातकर्मेति ॥ नन्विदमयुक्तं यजातकर्म शुभदिने कार्यमिति । कुतः ? जातस्योत्पन्नस्य कर्म वैदिकः संस्कारविशेषः स जातकर्मशब्देनोच्यते । तच्च Page #188 -------------------------------------------------------------------------- ________________ १७२ ' मुहूर्तचिंतामणिः। [नामकर्ममुहूर्तः शब्दप्रवृत्त्योत्पन्नक्षण एव विधेयम् । यदाह वसिष्ठः-'यस्मिन्मुहूर्ते जनितः कुमारस्तस्मिन्विधेयं खलु जातकर्म । संतर्य देवान्सपिवृन्द्विजांश्रा सुवर्णगोभूतिलकांस्यवस्त्रैः ॥' इति । विष्णुरपि-'जातकर्म ततः कुर्यात्पुत्रे जाते यथोदितम्' इति । यथोदितं स्वस्वगृह्यानुसारेणेत्यर्थः । तच्च श्रवणानंतर सचैलं स्नानं विधाय कार्यम् । उक्तं च ज्योतिःसागरे वसिष्ठेन-'श्रुत्वा जातं पिता पुत्रं सचैलं स्नानमाचरेत् । उत्तराभिमुखो भूत्वा नद्यां वा देवखातके ॥' इति, तदपि नालच्छेदनात्प्रागेव कार्यम् । उक्तं च मनुनाप्राङ्गाभिवर्धनात्पुंसो जातकर्म विधीयते' इति । वर्धनं छेदनम् । 'वृधु छेदने' इति धात्वर्थानुसारात् । अत्र हेतुमाह जैमिनि:-'यावन्न छिद्यते नालं तावन्नामोति सूतकम् । छिन्ने नाले ततः पश्चात्सूतकं तु विधीयते ॥' इति । तस्माजातकर्ममुहूर्तोऽनुपपन्नः । उच्यते,-संक्रांत्यादिदुष्टकालेषु शुभकर्माचरणं नास्ति । यदाह गर्ग:-'व्यतीपाते च संक्रान्तौ ग्रहणे वैधतावपि । श्राद्धं विना शुभं कर्म प्राप्ते कालेऽपि नाचरेत् ॥ अन्यच्च-'अमासंक्रांतिविष्ट्यादौ प्राप्ते कालेऽपि नाचरेत् । किंच मूलज्येष्ठागंडांतादिषु जन्मसंभवे शांतिविधानात् । अथवा पिता देशांतरगतो राजगृहादौ निरुद्धो वा जातकर्मादि कर्तुमशक्नु वन्पश्चात्प्रतिबंधापवाहनेन गृहमागतोऽपि तत्रैव करोति; तदैव जन्माभावासूतकप्रवृत्तेश्च । तदाह बैजवाप:-'जन्मतोऽनंतरं कार्य जातकर्म यथाविधि । दैवादतीतः कालश्वेदतीते सूतके भवेत् ॥' इति । अत एव कालविकल्पोऽभिहितो नारदसंहितायाम्-'तस्मिञ्जन्ममुहूर्ते तु सूतकांते तथा शिशोः । जातकर्म च कर्तव्यं पितृपूजनपूर्वकम् ॥' इति । इदं च तुल्यन्यायत्वानामकर्मण्यपि ध्येयम् । तस्मादतिक्रांतकाले अवश्यं जातकर्मादिमुहूर्तो विचार्य इत्यलमतिप्रसंगेन । तज्जातकर्मादीति । पर्वाण्युक्तानि मया। रिकाः चतुर्थीनवमीचतुर्दश्यः, ताभिरूने वर्जिते तिथौ । जात्यभिप्रायेणैकवचनम् । शुभेऽह्नि व्यतीपातादिदोषरहिते दिवसे शुभग्रहवासरे च तथैकादशे द्वादशे वा घस्ने दिने, तथा मृदुध्रुवक्षिप्रचरभानि प्रसिद्धानि, तेषु च शिशोर्बालस्य तजन्मसमयातिक्रांतं जातकर्मादि । आदिशब्देन नामकर्माप्युच्यते । तद्विधेयं कर्तव्यं स्यात् । उक्तं च वसिष्ठेन-मृदुध्रुवक्षिप्रचरेषु भेषु चारिक्तपर्वाख्यदिनेषु कार्यम् । शुभग्रहाणां दिनलग्नवर्गे तजातकर्म त्वथ नामधेयम् ॥' इति। रत्नमालायाम्-'मृ. दुध्रुवक्षिप्रचरेषु भेषु सूनोर्विधेयं खलु जातकर्म । गुरौ भृगौ वापि चतुष्टयस्थे संतः प्रशंसंति च नामधेयम् ॥' चतुष्टयं केंद्रम् । जातकर्मप्रयोजनमाह गुरुः-'जातकर्मक्रियां कुर्यात्पुत्रायुःश्रीविवृद्धये । ग्रहदोषविनाशाय सूतिकाऽशुभविच्छिदे ॥ कुमारग्रहनाशाय पुंसां सत्त्वविवृद्धये ॥' इति । अथ नामकर्मणि विशेषविचारः। नारदः-'सूतकांते नामकर्म विधेयं स्वकुलोचितम्' इति । तत्र नक्षत्रादिनियमाभावो नियतकालविहितत्वात् । तदुक्तं सारसंग्रहे–'एकादशेऽह्नि विप्राणां क्षत्रियाणां त्रयोदशे । वैश्यानां षोडशे नाम मासांते शूदजन्मनः ॥' इति। मनुस्तु-'नामधेयं दशम्यां तु द्वादश्यां Page #189 -------------------------------------------------------------------------- ________________ नामकर्मण्यक्षरविचारः] संस्कारप्रकरणम् ५। १७३ चास्य कारयेत् । पुण्ये तिथौ मुहूर्ते वा नक्षत्रे वा गुणान्विते ॥' दशम्यामतीतायामेकादशे दिवसे इत्यर्थः । एतच्च ब्राह्मणविषयं, पूर्वोदीरितवाक्यस्वरसात् । अत्र नामकर्मणोऽपि विहितकालातिकमे शुक्रास्तादिदोषरहिते शुभकाले तत्कार्यम् । यदाह कश्यपः-'उक्तकाले प्रकर्तव्या द्विजानामखिलाः क्रियाः । अतीतेषु च कालेषु कर्तव्याश्चोत्तरायणे ॥ सुरेज्येऽप्यसुरेज्ये वा नास्तगे न च वार्धके । शुभलग्ने शुभांशे च शुभेऽह्नि शुभवासरे ॥ चंद्रताराबलोपेते नैधनोदयवर्जिते । पूर्वाह्ने क्षिप्रनक्षत्रे चरस्थिरमृदूडुषु ॥ नाम मंगलघोषैश्च रहस्यं दक्षिणश्रुतौ ॥' बृहस्पतिः- पूर्वाह्नः श्रेष्ठ इत्युक्तो मध्याह्नो मध्यमः स्मृतः । अपराहं च रात्रिं च वर्जयेन्नामकर्मणि ॥' तथा जगन्मोहने गुरुः–'पक्षच्छिद्रां च नवमी हित्वा पंचदशीं तथा । शेषाः स्युस्तिथयः सर्वा नामकर्मणि पूजिताः ॥ भास्कराजभौमानां वर्जयेदंशकोदयौ । धनकर्मसुतभ्रातृनवमस्थः शुभः शशी ॥ शुद्धव्ययेऽष्टमे लग्ने पापाश्च व्यरिलाभगाः । शुभेषु शेषसंस्थेषु नामकर्म शुभावहम् ॥' इति । प्रयोजन च स्मर्यते-'नामाखिलस्य व्यवहारहेतुः शुभावहं कर्मसु भाग्यहेतुः । नाम्नैव कीर्ति लभते मनुष्यस्ततःप्रशस्तं खलु नामकर्म ॥' तञ्च नाम जन्मनक्ष चरणलक्षितस्वरोदयाभिहितशतपदचक्रांतर्गताक्षरादिकमेव कार्यम् । उक्तं च गृह्यपरिशिष्टे-'तदक्षरादिकं नाम यस्मिन्धिष्ण्ये यदक्षरम्' । शतपदचक्रसारोद्धारो ज्योतिषार्केऽभिहितो यथा-'चूचेचोला पदेऽश्वाभे लीलूलेलो यमस्य भे। आईउए इमेग्नेर्भे ओवावीवू च धातृभे ॥ वेवोकाकी मृगे ख्याताः कूघङच्छास्तु रौद्रभे । केकोहाही त्वदितिभे हुहेहोडा च पुष्यभे ॥ डीडूडेडो इमे सापें मामीमूमे मघाभिधे । मोटाटीटू तथा भाग्ये टेटोपाप्यर्यमाके ॥ पूषाणाठा तथा हस्ते पेपोरारीति चित्रभे । रूरेरोता तथा स्वात्यां तीतूतेतो द्विदैवभे ॥ नानीनूने क्रमान्मैत्रे नोयायीयू इतींद्रभे । येयोभाभीति मूलाख्ये भूधाफाढा जलस्य भे ॥ भेभोजाजीति विश्वः जूजेजोखाभिजिनवेत् । खीखूखेखो श्रुतौ ज्ञेया गागीगूगे च वासवे ॥ गोसासीसू जलेशः सेसोदादीत्यजांघ्रिमे । दूजझथा तथोपांत्ये देदोचाचीति पौष्णभे ॥ इति प्रोक्ता इमे पद्ये वर्णानामादिजाः स्फुटाः । ज्ञेया मेषादिराशीनां नवभिनवभिः पदैः॥' एतैरादिमाक्षरैश्चूडामणिरित्यादिनामानि स्थाप्यानि । तदुक्तं शंखेन-'कुलदेवतानक्षत्रादिमाससंबद्धं नाम पिता वा कुर्यादन्योऽपि वा कुलवृद्धः' इति । मत्र केचित्-'जन्मनाम तु गोपयेत्' इति स्मरणाजन्मनक्षत्रसंबंधि नाम गुप्त संस्थाप्य व्यवहारार्थमन्यन्नाम कुर्यादित्याहुः । तच्च नाम कीदृशं कार्यमित्याह वसिष्ठः-'तद्वयक्षरं वा चतुरक्षरं वा यथेप्सितं चांतलकाररेफम् । विवयं नामादिकमेव कार्य स्फुटं वदेहक्षिणकर्णरंध्रे ॥' इति । याज्ञिका अपि पठंति-'घोषवदाद्यंतरंतस्थं त्रिपुरुषानेकमनरिप्रतिष्ठित व्यक्षरं वा कृतं कुर्यान तद्धितम्' इति । कृतं कृदंतं तद्धितं तद्धितांतं घोषवदादीनां वर्णानां कृदंततद्धितानां च ज्ञानं व्याकरणशास्त्राज्ज्ञेयम् । विश्वप्रकाशपद्धतौ तु विशेषः १ अश्वाभे अश्विनीनक्षत्रे इत्यर्थः । तस्य अश्वमुखसदृशत्वात् । २ त्रिपुरुषाननु कायति अभिधत्ते इति त्रिपुरुषानूकम् । अन्येषामपीति पूर्वपददीर्घः । Page #190 -------------------------------------------------------------------------- ________________ १७४ मुहूर्तचिंतामणिः । [प्रसूताना मुहूर्तः 'कुमार्या अप्ययुजाक्षरेण नाम दद्याताम्' इति । मासनामानि वसिष्ठनोकानि-'चैत्रादिमासनामानि वैकुंठोऽथ जनार्दनः । उपेंद्रो यज्ञपुरुषो वासुदेवस्त्रिविक्रमः । योगीशः पुंडरीकाक्षः कृष्णोऽनंतोऽच्युतस्तथा । चक्रधारीति चैतानि क्रमादाहुर्मनीषिणः ॥' इति । कुलदेवतास्तु वंशपरंपरया प्रसिद्धाः । अत्रान्यो नामप्रयुक्तो विशेषः स्मृतिभ्योऽनुसंधेयः॥इति नामकर्म ॥ ११ ॥ -- अथ बालजन्मानंतरं प्राच्यशिष्टाचारप्राप्तं प्रसूतास्नानमुहूर्त वसंततिलकयाह पौष्णध्रुवेंदुकरवातहयेषु सूती खान समित्रभरवीज्यकुजेषु शस्तम् । नाात्रयश्रुतिमघांतकमिश्रमूल त्वाष्ट्रे ज्ञसौरिवसुषइरविरिक्ततिथ्याम् ॥ १२ ॥ पौष्णेति ॥पौष्णं रेवती, ध्रुवाणि प्रसिद्धानि, इंदुर्मुगः, करो हस्तः, वातः . स्वाती, हयोऽश्विनी; एषु समित्रभरवीज्यकुजेषु अनुराधानक्षत्रसूर्यगुरुभौमवारसहितेषु सूत्याः प्रसूतायाः स्नान प्रशस्तमुत्तमफलदम् । तदुक्तं दैवशवल्लभे'उत्तरात्रयरोहिण्यः सौम्यः पवनरेवती । प्रसूता वनिता स्नायाद्धस्तमैत्राश्विनीषु च ॥ स्नाता प्रसूताप्यसुता बुधेन स्नाता च वंध्या भृगुनंदनेन । सौरे मृतिः क्षीरहतिश्च सोमे पुत्रार्थलाभो रविजीवभौमे ॥' अन्ये तु पूर्वाफल्गुनीज्येष्ठाधनिष्ठास्वपि सूतीनानं वदंति । 'करेंद्रभाग्यानिलवासवांत्यमैत्रेन्दवाश्विध्रुवभेऽह्नि पुंसाम् । तिथावरिक्ते शुभमामनंति प्रसूतिकास्नानविधि मुनींद्राः ॥' इति । अथ निषिद्धनक्षत्राण्युच्यन्ते।आत्रयमाापुनर्वसुपुष्याः, श्रुतिमघांतकमिश्रमूलत्वाष्ट्राणि प्रसिद्धानि । द्वंद्वैकवद्भावः । एषु दशनक्षत्रेषु सूतीस्नानं न शस्तं, पुनःसूतेरभावादिति तात्पर्यार्थः । तथा ज्ञो बुधः, सौरिः शनिः, तथा वसुः अष्टमी, षट् षष्ठी, रविदशी, रिक्ताः ४।९।१४, बुधशनिवारयोरेतासु तिथिषु च न शस्तम् । तदप्युक्तं दैवज्ञमनोहरे-भरणी कृत्तिका मूलमार्दा पुष्यः पुनर्वसुः । मघा चित्रा विशाखा च श्रवणो दशमस्तथा ॥ एषु मंदे बुधे वारे सूतीस्नानं न कारयेत् । यदि सानं प्रकुर्वीत पुनःसूतिर्न विद्यते ॥' इति । एतच्च दाक्षिणात्या नानुमन्यते यत्सूतिकास्नानं वदन् प्राच्य इति प्रष्टव्यःकिं सूतकमध्ये सूतिकास्नानं सूतकाबहिर्वा ? नायः कल्पः । यदि सूतकमध्ये, षष्ठिकापूजार्थं क्रियमाणमपि स्नानं चांडालहस्तश्तपुष्पवन्निष्फलमेव शुध्यभावात् । नापि द्वितीयः । सूतकानंतरमेव शुद्ध्यापादकस्नानस्य विहितत्वात् । यदपि दैवज्ञवल्लभवाक्यं तदाचारमूलकं, न स्मृतिमूलकमिति मत्वा संतोष्टव्यम् । अथ प्राच्यमतेनैव जन्मानंतरं बालस्य स्तनपानमुहूर्त उच्यतेऽस्माभिः"रिक्तां भौमं परित्यज्य विष्टिं पातं सवैधतिम् । मृदुध्रुवक्षिप्रभेषु स्तन्यपानं हितं शिशोः ॥' इति दैवज्ञवल्लभोक्तेः॥ इति सूतीस्नानम् ॥ १२ ॥ १ ‘मातापितरौ' इत्यत्र कर्ता बोध्यः । Page #191 -------------------------------------------------------------------------- ________________ अकालीनदंतोत्पत्तिस्तच्छांतिश्च ] संस्कारप्रकरणम् ५। १७५ अथ प्रसंगतः संस्कारानंतर्गतमपि प्रथमादिमासोत्पन्नदंतफलं प्रसंगतः शार्दूलविक्रीडितेनाहमासे चेत्प्रथमे भवेत्सदशनो बालो विनश्येत्स्वयं हन्यात्स क्रमतोऽनुजातभगिनीमात्रग्रजान्यादिके। षष्ठादौ लभते हि भोगमतुलं तातात्सुखं पुष्टता लक्ष्मी सौख्यमथोजनौ सदशनो वोर्ध्व स्वपित्रादिहा ॥१३॥ मासे चेदिति ॥ बालकश्चेजन्मानंतरं प्रथमे मासे सदशनो दंतयुक्तो भवेत्स्यात्तदा स्वयं विनश्येत् । ततो न्यादिके द्वितीयादिके मासे स बालको दंतयुक्तो भवेत्तदाऽनुजातभगिनीमात्रग्रजान्हति । यथा-द्वितीयमासेऽनुजातं कनिष्ठभ्रातरं हंति । तृतीयमासे भगिनीं हति । चतुर्थमासे मातरं हंति । पंचमे मासि अग्रज ज्येष्ठभ्रातरं हंति । षष्टादिमासेषु दंतजन्म समीचीनफलम् । यथा-षष्ठे अतुलं बहुलं भोग लभते। सप्तमे तातात्पितृतः सुखं लभते। अष्टमे पुष्टताम् , नवमे लक्ष्मीम् , दशमे सौख्यम् । एतच्चोपलक्षणं एकादशेऽपि भासे सौख्यमेव, द्वादशे मासे सुखबाहुल्यं लभते इत्यर्थः। यदाह चंडेश्वरः-'प्रथमे दंतजननात्स्वयमेव विनश्यति । द्वितीये भ्रातरं हंति तृतीये भगिनीं तथा ॥ चतुर्थे मातरं हंति पंचमे चात्मनोऽग्रजम् । षष्ठे च मंत्रजीवी स्यात्सप्तमे पितृसौख्यदः ॥ अष्टमे पुष्टिजनको नवमे लभते धनम् । लभते दशमे मासि सौख्यमेकादशेऽपि वा ॥ द्वादशे धनसंपत्तिर्दन्तानां जनने फलम् ॥' इति । अथो इति । अथो जनौ जन्मकाल एव सदशनो दंतयुक्तः स्यात्तदा स्वपित्रादिहा स्वमात्मानं पितरं च आदिशब्देन मातरं च हंति नाशयतीति स्वपित्रादिहा । केचिदादिशब्देन भ्रात्रादीनामपि नाशं व्याचक्षते । वोर्ध्वमिति । वा अथवा ऊर्ध्व ऊर्ध्वपत्तौ स्वजन्मानंतरं निषिद्ध विहितेऽपि वा काले सदशनश्चेत्स्यात्तदापि स्वपित्रादिहा। आत्मपितृनाशक इत्यर्थः । उक्तं च पद्मपुराणे विष्णुधर्मोत्तरखंडे परशुरामं प्रत्याह पुष्करः'दंतजन्मनि बालानां लक्षणं तन्निबोध मे । उपरि प्रथमं यस्य जायंते व शिशोर्द्विजाः ॥' उपरि-उपरिपंक्तौ । द्विजाः दताः। 'दंतविप्रांडजा द्विजाः' इत्यभिधानात् । 'दतैर्वा सह यस्य स्याजन्म भार्गवसत्तम । मातरं पितरं चाथ खादेदात्मानमेव च ॥' इति । एवं विधे दंतजनने शांतिरप्युक्ता तत्रैव । 'तत्र शांति प्रवक्ष्यामि तन्मे निगदतः शृणु । गजपृष्ठगतं बालं नौस्थं वा सापयेविज ॥ तदभावे तु धर्मज्ञ कांचने तु वरासने ।' तदभावे-गजायभावे । 'सर्वोषधैः सर्वगंधै/जैः पुष्पैः फलैस्तथा ॥ पंचगव्येन रत्नैश्च मृत्तिकाभिश्च भार्गव । स्थालीपाकेन धातारं पूजयेत्तदनंतरम् ॥ सप्ताहं चात्र कर्तव्यं तथा ब्राह्मणभोजनम् । अष्टमेऽहनि विप्राणां तथा देया च दक्षिणा । कांचनं रजतं गाश्च भुवं वा धनमेव च । दंतजन्मनि मासान्यसंभवे सप्तमादपि ॥ अष्टमेऽहनि विप्राणां शृणु स्नानमतः परम् ॥ भद्रासने निवेश्यैनं मृद्भिर्मूलफलै Page #192 -------------------------------------------------------------------------- ________________ १७६ .., मुहूर्तचिंतामणिः। [दोलारोहणमुहूर्तः स्तथा । सर्वोषधैः सर्वबीजैः सर्वगंधैस्तथैव च ॥ नापयेत्पूजयेच्चात्र वह्निं सोमं समीरणम्' । समीरणं वायुं । 'पर्वतांश्च तथा ख्यातान् देवदेवं च केशवम् ॥ एतेषामेव जुहुयाइतमग्नौ यथाविधि । ब्राह्मणानां तु दातव्या यथाशक्त्या च दक्षिणा ॥ ततः स्वलंकृतं बालमासने तूपवेशयेत् । आसीनं छत्रमूर्धानं बीजैः सुस्तापयेत्ततः । सुस्त्रीभिर्बालकानां च तैः सुकार्य च पूजनम् । पूज्याश्चाविधवा नार्यों ब्राह्मणाः सुहृदस्तथा ॥' इति । एवं पद्मपुराणोक्ता सदंतजननशांतिर्विधेया, ततोऽशुभफलनाशपूर्वकशुभफलावाप्तिर्भवतीति ॥ इति प्रथमादिमासे दंतजननफलम् ॥ १३ ॥ अथ दोलारोहणमुहूर्त विवक्षुस्तत्संबंधिशुभाशुभफलदातृदोलाचक्रमनुष्टुभाहदोलारोहेऽर्कभात्पंचशरपंचेषुसप्तभैः। नैरुज्यं मरणं काय व्याधिः सौख्यं क्रमाच्छिशोः॥१४॥ दोलारोह इति ॥ काष्ठलोहायाधारोपनिबद्धः पुरुषाघातवशादंतरिक्ष गतागतं कुर्वनल्पो बालकयोग्यः पर्यकविशेषो दोलाशब्देनोच्यते । तत्र शिशोर्बालस्य दोलारोहे दोलास्थापने चिकीर्षिते सति अर्कभात्सूर्यनक्षत्रात्पंचनक्षत्रै रुज्यं नीरोगता स्यात् ,तदग्रिमपंचनक्षत्रैमरणं स्यात् , तदग्रिमपंचनक्षत्रैः काश्यं देहे कृशत्वं स्यात् , तदग्रिमैरिषुभिः पंचनक्षत्रैाधिः स्यात् , तदग्रिमससनक्षत्रैः सौख्यं स्यादिति यथासंख्यं योजना । फलं चेदं शिशोरेव संस्कार्यत्वात् । उक्तं च-'सूर्यभाञ्चंद्रभं यावत्पंचपंच चतुर्दिशम् । मध्ये तु सप्त देयानि दोलिकाचक्र उत्तमे ॥ पूर्वभागे निरोगत्वं दक्षिणे मरणं ध्रुवम् । पश्चिमे तु कृशो बाल उत्तरे व्याधिसंभवः ॥ शेषेषु सप्तधिष्ण्येषु बालकस्य सुखं भवेत्' इति ॥ १४ ॥ __ अथावसरप्राप्तं दोलामुहूर्त वसंततिलकायाः पूर्वार्धेनोत्तरार्धेन निष्क्रमणमुहूर्त चाह दंतार्कभूपधृतिदिमितवासरे स्या द्वारे शुभे मृदुलघुध्रुवभैः शिशूनाम् । दोलाधिरूढिरथ निष्क्रमणं चतुर्थ मासे गमोक्तसमयेऽर्कमितेऽति वा स्यात् ॥१५॥ दंतार्केति ॥ दंताः द्वात्रिंशत् , अर्काः द्वादश, भूपाः षोडश, पृतयोऽष्टादश, दिशो दश; एतन्मितदिवसेषु तथा शुभे वारे सोमबुधगुरुशुक्राणां वारे तथा मृदुगणलघुगणध्रुवगणनक्षत्रैरुपलक्षिते शिशूनां बालानां दोलाधिरूढिः दोलायामधिरूढिरारोहः स्यात् । यदाह प्रयोगपारिजाते गुरुः-'दोलारोहस्तु कर्तव्यो दशमे द्वादशेऽपि वा । षोडशे दिवसे वापि द्वात्रिंशद्दिषसेऽपि वा।' इति । भविष्यपुराणे-'अभीष्टे पुण्यदिवसे चंद्रताराबलान्विते । Page #193 -------------------------------------------------------------------------- ________________ सूतिकाया जलपूजा मुहूर्तः ] संस्कारप्रकरणम् ५ । मृदुध्रुवक्षिप्रभेषु माता वा कुलयोषितः । योगशायिहरिं स्मृत्वा प्राक्शीर्ष विन्यसेच्छिशुम् ॥' इति ॥ अथ प्रसंगतोऽन्येषामपि दोलारोहणमुहूर्तः प्रोच्यते । तत्र दीपिका – 'उमेंद्र मूलाहिशिवाग्निवर्ण्य शस्तेंदुतारातिथिलग्नयोगे । विष्टिक्षमापुत्रयमाहवर्ण्यमांदोलकारोहणमत्र शस्तम् ॥' इति । यमः=शनिः । अथ निष्क्रमणमुहूर्तः । तत्र चतुर्थमासे गमोक्तसमये यात्राभिहितसमीचीनतिथिवारनक्षत्रादिसहिते काले शिशूनां निष्क्रमणं निष्कमाख्यसंस्कारं पूर्वं गृहाद्बहिर्गमनं कुर्यात् । वा अथवार्कऽमितेऽह्नि द्वादशे दिवसे निष्क्रमणं कुर्यात् । यदाह मनुः - 'चतुर्थे मासि कर्तव्यं शिशोर्निष्क्रमणं गृहात्' । गुरुरपि — 'गृहान्निष्क्रमणं सूनोश्चतुर्थे मासि कारयेत् | यात्रोक्ते समये मासि तृतीये द्वादशेऽहनि ॥' अत्र तृतीयमासोऽप्युक्तः । राजमार्तंडेनापि - 'मासे तृतीये शशिवृद्धिपक्षे क्षपाकरे शोभनगोचरस्थे । उत्पातपापग्रहवर्जिते भे निष्कासनं सौख्यकरं शिशूनाम् ॥' तदेतयोः पक्षयोर्यथागृह्यं व्यवस्था | मुहूर्तसंग्रहे तु विशिष्य तिथ्याद्युक्तं निष्क्रमणे - 'पूर्वपक्षः शुभः प्रोक्तः कृष्णश्चांत्यत्रिकं विना । रिकाषष्ट्यष्टमी दर्शद्वादशीश्च विवर्जयेत् ॥ चत्वार्यर्यमतस्त्रीणि वैश्वान्त्रीणि च बुध्यभात् । बुध्यभादुत्तराभाद्रपदात स्त्रीणि भानि च । मैत्रमादित्यपुष्यौ च रोहिणी च शुभावहाः ॥ झषालिमेषा वर्ज्याः स्युस्तथैवाधोमुखानि च । सतां तु वारवर्गाश्च शुभदास्तूद्यास्तथा ॥ केंद्रत्रिकोणगाः सौम्याः पापाः षष्ठत्रिलाभगाः । उपनिष्क्रमणे शस्ता मातुलो वाहयेच्छिशुम् ॥' इति । अधोमुखानि 'मूलाहिमिश्रोग्रमधोमुखं भवेत् ' (२।१) इत्युक्तानि । उदया:= लग्नानि । एवंविधे सुलग्ने क्रियमाणस्य शिशुनिष्क्रमणकर्मणः फलमाह बृहस्पतिः - 'अथ निष्क्रमणं नाम गृहात्प्रथमनिर्गमः । अकृतायां क्रियायां स्यादायुः श्रीनाशनं शिशोः ॥ कृते संपद्विवृद्धिः स्यादायुवर्धनमेव च ॥' अत्र विशेषमाह यमः - 'तृतीये मासि कर्तव्यं शिशोः सूर्यस्य दर्शनम् । चतुर्थे मासि कर्तव्यमग्नेश्चंद्रस्य दर्शनम् ॥' इति । इति निष्क्रमणमुहूर्तः ॥ १५ ॥ अथ सूतिकाया जलपूजामुहूर्त भुजंगप्रयातेनाह कवीज्यास्त चैत्राधिमासे न पौषे जलं पूजयेत्सूतिका मासपूर्ती । बुधेंद्विज्यवारे विरिक्ते तिथौ हि श्रुतीज्यादितींद्वर्कनैर्ऋत्य मैत्रैः ॥ १७७ कवीज्येति ॥ कविः शुक्रः, इज्यो गुरुः, अनयोरस्ते; चैत्रमासे, तथाधिकमासे, तथा पौषमासे सूतिका जनयित्री मासपूर्ती सत्यां जलं नद्यादेरंबु न पूजयेत् । तथा बुधेंद्विज्यवारे बुधगुरुचंद्रवारे, तथा विरिक्ते रिक्तारहिते तिथौ हि निश्चितं तथा श्रुतिः श्रवणः, इज्यः पुष्यः, अदितिः पुनर्वसुः, इंदुर्मृगः, अर्को हस्तः, नैर्ऋत्यं मूलं, मैत्रमनुराधाः एतैर्नक्षत्रैः सहिते दिने सूतिका जनयित्री मासपूर्वौ सत्यां नद्यादेर्जलं पूजयेत् । अत्र मूलानुपलंभः । नन्वयं मुहूर्तो निष्क्रमणात्प्राङ् नामकरणानंतरं वक्तव्यः, प्राप्तकालत्वाद्व्युत्क्रमे कारणं न Page #194 -------------------------------------------------------------------------- ________________ मुहूर्तचिंतामणिः । [अन्नप्राशने मुहूर्तः पश्याम इति चेच्छृणु,—क्रमस्त्वत्र शास्त्रीयो विवक्षितो जलपूजा ह्याचारप्राप्ता लौकिकीति क्रमानपेक्षा । अतः कालांतरेऽपि केचिज्जलपूजामाहुः । अथ मासानंतरं विहितो गवादिदुग्धपानविधिस्तन्मुहूर्तः प्राच्यमतेन मयोच्यते । श्रीधरीये - 'एकत्रिंशे वासरे वा द्वितीये जन्मर्क्षे वा शुद्धलग्नेऽनुकूले । शंखे क्षीरं संनिदध्याच्छिशूनां वक्रे धात्री पूज्यपूजां विधाय ॥' नृसिंहोऽपि - 'एकत्रिंशद्दिने चैव पयः शंखेन पाययेत् । अन्नप्राशननक्षत्र दिवसोदयराशिषु ॥' वक्ष्यमाणान्नप्राशनोक्तशुभदिवसे एकत्रिंशत्तमे धात्र्युपमाता गवादिक्षीरं शंखे निधाय मान्यपूजां च विधाय शिशुमुखे क्षीरं निदध्यादित्यर्थः ॥ १६ ॥ - अथान्नप्राशनमुहूर्तं स्रग्धरावसंततिलकाभ्यामाह— रिक्तानंदाष्टदर्श हरिदिवसमथो सौरिभौमार्कवाएँ लग्नं जन्मलग्नाष्टमगृहलवगं मीनमेषालिकं च । हित्वा षष्ठात्समे मास्यथ हि मृगदृशां पंचमादो जमासे नक्षत्रैः स्यात्स्थिराख्यैः समृदुलघुचरैर्बालकान्नाशनं सत् १७ केंद्र त्रिकोण सहजेषु शुभैः खशुद्धे लग्ने त्रिलाभरिपुगैश्च वदंति पापैः । लग्नाष्टषष्ठरहितं शशिनं प्रशस्तं मैत्राम्बुपानिलजनुर्भमसच्च केचित् ॥ १८ ॥ : १७८ रिक्तेति ॥ केंद्रेति ॥ अथशब्दो मध्ये पठितोऽपि पद्यादौ ज्ञेयः । अथो अनंतरं निष्क्रमणानंतरमेवंविधे काले बालानामन्नाशनं प्रथमभोजनं सत् शुभफलदायि स्यादित्यन्वयः । तत्रैते वर्ज्यपदार्थाः - रिक्ताः ४ /९/१४, नंदा १।६।११, अष्ट ८, दर्श ३०, हरिदिवसं, द्वादशी १२, एतास्तिथीर्हित्वा उपलक्षणत्वात्तिथिक्षयं च तथा सौरिभौमार्कवारांश्च हित्वेत्यर्थः । यदाह नारदः'रिक्तां तिथिक्षयं नंदां द्वादशीमष्टमीमपि । त्यक्त्वान्यतिथयः श्रेष्ठाः प्राशने शुभवासराः ॥' इति । कश्यपोऽपि - 'द्वादशीमष्टर्मी रिक्तां नंदां चैव दिनक्षयम् । सूर्यार्किभौमवारांश्च त्यक्त्वान्यशुभवासरे ॥' नवान्नप्राशनमित्य - नुवर्तते । अत एवोक्तं जीर्णैः - 'द्वितीया च तृतीया च पंचमी सप्तमी तथा । त्रयोदशी च दशमी प्राशने तिथयः शुभाः ॥' इति । कचित्सूर्यबुधगुरुवाराः प्रशस्ता उक्ताः, अन्ये निषिद्धाः । उक्तं च- शशिशुक्रे च मंदाग्निः शनौ भौमे बलक्षयः । बुधार्कगुरुवारेषु प्राशनं हि शुभावहम् ॥' इति । तदेतन्निर्मूलत्वादुपेक्ष्यम् । दोषांतरमप्युक्तं नारदेन - 'न वैधृतौ व्यतीपाते विष्ट्यां गंडातिगंडयोः ः । शूले वज्रे न परिघे बालान्नप्राशनं हितम्' || अत्रैषां दोषाणां सामान्यतो निषेधे सिद्धे पुनर्वचनम् 'विष्टिरंगारकश्चैव', 'वज्रविष्कंभयोस्तिस्रः ' Page #195 -------------------------------------------------------------------------- ________________ जन्मनक्षत्रे प्रशस्तकार्याणि] संस्कारप्रकरणम् ५। १७९ इत्यनयोरप्यपवादार्थम् । तेन स्वीयभोगपर्यंत निषेधः । लग्नमिति । जन्मक्षलग्ने जन्मराशिजन्मलग्ने ताभ्यामष्टमगृहमष्टमलवोऽष्टमनवांशश्च तौ गच्छति प्रामोत्येवंविधं लग्नं हित्वा । जन्मराशिजन्मलग्नाभ्यामष्टमलग्नमष्टमनवांशं च त्यजेदित्यर्थः । उक्तं च कश्यपेन-'जन्मराशिविलग्नाभ्यां नैधनेंऽशे च वर्जयेत् ।' इति । तथा मीनमेषालिकं च मीनमेषवृश्चिकलग्नानि हित्वा । यदाह जगन्मोहने कश्यपः-'गोऽश्वकुंभतुलाकन्यासिंहकर्कनृयुग्मृगाः। शुभदा राशयश्चैते न मेषझषवृश्चिकाः॥'इति । अश्वः धनुः। नृयुक्-मिथुनम् । मृगः मकरः, षष्ठा. दिति ल्यब्लोपे पंचमी । षष्ठमासमारभ्य सममासे षष्ठाष्टमदशमद्वादशमासेषु बालानामन्नप्राशनम् । पुंबालविषयमेतत् । अथानंतरं हि निश्चयेन मृगदृशां कन्यकानां पंचमादोजमासे विषममासे पंचमसप्तमनवमैकादशमासेषु अन्नप्राशनं सत् । उक्तं च वसिष्ठेन-'युग्मेषु मासेषु च षष्ठमासात्संवत्सरे वा नियतं शिशूनाम् । अयुग्ममासेषु च कन्यकानां नवान्नसंप्राशनमिष्टमेतत् ॥' अत्रायुग्ममासत्वं पंचममासादिति ज्ञेयम् । यदाह नारद:-'षष्ठे मास्यष्टमे वाथ पुंसां स्त्रीणां च पंचमे । सप्तमे मासि वा कार्य नवान्नप्राशनं शुभम् ॥' मनुस्तु-'षष्ठेऽन्नप्राशनं मासि' इत्याह । एवमनेककालाभिधाने कस्मिन्काले अन्नप्राशनं विधेयमिति संदेहः । किं समबलत्वात्सर्वेऽपि मुख्या एव काला उत कश्चिन्मुख्यगौणभाव इति । अत्र ब्रूमः-स्वस्वगृह्ये विशिष्यकालोऽनप्राशने उक्तः स मुख्यः । तत्र गुरुशुक्रास्तादिविचारं विनैव विधेयम् । इतरेषु गौणकालेषु विहितकालाननुष्ठाने सति निर्दोषे काले हि विधेयम् । यत्र स्वगृह्ये क्वचिद्विशिष्यकालो नाभिहितस्तत्र सर्वेषां साहितिककालानां तुल्यबलत्वाद्विकल्पो भवति । तत्रापि सदोष कालं विहाय निर्दोषे कालेऽन्नप्राशनं विधेयमिति फलितोऽर्थः । तत्रापि शुक्लपक्षे पूर्वाह्ने विधेयम् । 'शुक्लपक्षे च पूर्वाह्ने' इति नारदोक्तेः । नक्षत्रैरिति मृदुगणलघुगणचरणगणयुतैः स्थिराख्यनक्षत्रैर्बालकानप्राशनं स्यात् । 'चरस्थिरमृदुक्षिप्रनक्षत्रेषु शुभे दिने' इति कश्यपोक्तेः । जगन्मोहने वसिष्टोऽपि-'विष्णुरुष्णकिरणो हिमरश्मिर्वायुमित्रवरुणादितिचित्राः । अश्वितिष्यवसुपौष्णभरोहिण्युत्तराश्च शिशुभोजनताराः ॥' इति । अत्र विहितनक्षत्रेषु जन्मनक्षत्रं प्रशस्तमुक्तं नारदेन-'पट्टबंधनचौलान्नप्राशने चोपनायने । शुभदं जन्मनक्षत्रमशुभं त्वन्यकर्मणि ॥ इति । 'बालानभुक्तौ व्रतबंधनेऽपि राजाभिषेके खलु जन्मधिष्ण्यम् । शुभं त्वनिष्टं सततं विवाहसीमंतयात्रादिषु मंगलेषु ॥' इति वसिष्ठोक्तेश्च । यत्तु गुरुवचनम् –'जन्मझकर्मनक्षत्रे आधान\ च वर्जयेत् । कर्णवेधं तथा यानं क्षुरकर्मान्नभोजनम् ॥' इति । एषां हि लक्षणमुक्तं मुहूर्तसंग्रहे-'जन्मभं जन्मनक्षत्रं दशमं कर्मसंज्ञितम् । एकोनविंशमाधानं त्रयोविंशं विनाशभम् ॥' इति त्रयोविंशव्यतिरिक्तानां सर्वेषां जन्मनक्षत्रत्वमस्तीति, तद्वार्षिकनवानभोजनविषयकम् । अत एव लोकेऽन्नभोजनान्नप्राशनशब्दयोः साधारणाऽसाधारणत्वेन व्यवहारोपलंभात् । 'जन्मनक्षत्रगश्चंद्रः प्रशस्तः सर्वकर्मसु । क्षौर Page #196 -------------------------------------------------------------------------- ________________ मुहूर्तचिंतामणिः । [ जन्म निषिद्धकार्याणि भैषजवादाध्वकर्तनेषु च वर्जयेत् ॥' इति दीपिकायां निषेधानुपलंभाच्च । तस्मात्प्रथमदशमैकोनविंशेषु जन्मनक्षत्रेषु बालान्नप्राशनं प्रशस्ततरमिति वयं ब्रूमः । यदपि लल्लवाक्यम् —'हित्वैकं जन्मक्षं द्वे तारे जन्मसंज्ञिते शुभदे । उद्वाहे चोपनये यात्रायामन्नभोजने क्षौरे ॥' इति । यन्नक्षत्रे जन्म तज्जन्मनक्षत्रं दशमैकोनविंशं च जन्मतारेत्युच्यते लोकैः । एतदपि प्रागुक्तविषयमेवेत्यलमतिप्रसंगेन । तत्रापि विद्धनक्षत्रं सर्वथा निषिद्धमेव । तदुक्तं दीपिकायाम् - 'कर्णवेधे विवाहे च व्रते पुंसवने तथा । प्राशने चाद्यचूडायां विद्धमृक्षं परित्यजेत् ॥' इति । वेधकारो हि विवाहप्रकरणे वक्ष्यते । लग्नबलमाह- केंद्रेति । यद्यपि केंद्रशब्देन दशममपि स्थानमुच्यते तथापि न गृह्यते' खशुद्धे लग्ने' इति वक्ष्यमाणत्वात् । एवंसति केंद्राणि १/४/७ त्रिकोणं ९/५, सहजं ३; एषु स्थानेषु स्थितैः शुभग्रहैस्तथा त्रि ३ लाभ ११ रिपुगैः ६ पापग्रहैश्चोपलक्षिते लग्ने खशुद्धे दशमशुद्धिसहिते सर्वप्रहरहिते इति यावत् । एवंविधे लग्ने । लग्नाष्टषष्ठस्थानरहितमर्थादन्यस्थानस्थितं शशिनं प्रशस्तं वदंति मुनय इति शेषः । यदाह कश्यपः'त्रिकोणकेंद्र त्र्यांयेषु शुभैख्यायारिगैः परैः । अलग्ननिधनांत्यारिस्थानस्थेन हिमांशुना ॥' अन्नप्राशनं कुर्यादित्यनुवर्तते । भत्र लग्नस्थ चंद्रनिषेधः क्षीण चंद्रविषयः । नारदोऽपि - ' दशमे शुद्धिसंयुक्ते शुभलग्ने शुभांशके । शुक्लपक्षे च पूर्वाह्णे सौम्ययुक्ते निरीक्षिते ॥ त्रिषष्टलाभगैः पापैः केंद्रधीधर्मगैः शुभैः । व्यंत्यारिनिधनस्थेन चंद्रेण प्राशनं शुभम् ॥' इति । अत्र दशमशुद्धिः सर्वग्रह राहित्यं, दशमस्थानरहित केंद्रं च केंद्रशब्देन विवक्षितम् । यदाह प्रयोगपारिजातेऽर्णवः'दशम स्थानगान्सर्वान्वर्जयेन्मतिमान्नरः । अन्नप्राशनकृत्येषु मृत्युक्वेश भयावहान् ॥' अत्र लग्नस्थचंद्रः प्रशस्तः, पूर्णचंद्रविषयत्वात् । एतच्चाग्रिमपद्ये वक्ष्यते । विशेषमाह अत्र गुरुः - 'शुकारज्ञाः क्रमाद्याताः सप्तमाष्टमधर्मभे । भोज्यभोक्तृनवत्वे तु सर्वथा मरणप्रदाः ॥' इति । शुक्रः सप्तमः भौमोऽष्टमः बुधो नवमश्च । भोज्यमन्नं गोधूमादि तस्य नवत्वे नवान्नत्वेन भक्षणीये सति भोक्तुरन्नप्राशनकर्तुर्बालकस्य नवत्वे सति वा एते ग्रहा मरणप्रदा इत्यर्थः । मैत्रेति । मैत्रांबुपानिला अनुराधाशततारकास्वात्योऽसत्यो निषिद्धा इति केचि - दाहुरिति परमतेनोपन्यासः । यथोक्तं श्रीपतिना - 'रेवतीश्रुतिपुनर्वसुहस्तब्राह्मतः पृथगपि द्वितये च । त्र्युत्तरे च गदितं पृथुकानां प्राशनं हि सनवान्न'विधानम् ॥' अस्यार्थः- रेवत्यादिभ्यः पंचभ्यो द्वितयेऽपि नक्षत्रे । कोऽर्थः ? रेवत्यश्विनी च श्रवणं धनिष्ठा च पुनर्वसुः पुष्यश्च हस्तश्चित्रा च रोहिणी मृगश्च उत्तरात्रयमेव । एवं त्रयोदशर्क्षेषु पृथुकानां बालानामन्नप्राशनं वार्षिकं नवानविधानं च गदितमिति । नारदादिभिस्तु चरस्थिरक्षिप्रमृदुनक्षत्रेषु इति षोडशनक्षत्राणामभिधानात् तत्र त्रयाणामनुराधाशततारकास्वातीनामाधिक्यमतः श्रीपतिमतमाश्रित्यैषां भानां निषिद्धत्वमुक्तं ग्रंथकृता । च पुनर्जनुर्भ जन्मनक्षत्रं चासत् । यदाह गुरुः - ' जन्मर्क्षे कर्मनक्षत्रे भाधान च वर्जयेत् । कर्णवेधं तथा यानं क्षुरकर्मान्नभोजनम् ॥' इति । विशेषावधा १८० Page #197 -------------------------------------------------------------------------- ________________ खानकाहफलानि ] संस्कारप्रकरणम् । रणमजामसां मतमेतत् । वस्तुतस्तु अन्नस्य भोजनं भन्नभोजसमिति व्युत्पत्ता वार्षिकनकामभोजनविषयकमेकादित्युतमस्माभिः पूर्वपञ्च ॥ १७ ॥१८॥ अथ ग्रहाणां स्थानवशात्फलान्यनुष्टुप्छंदोभ्यामाह क्षीणेंदुपूर्णचंद्रेज्यज्ञभौमार्कार्किभार्गवैः। त्रिकोणव्ययकेंद्राष्टस्थितैरुकं फल ब्रहः ॥ १९ ॥ भिक्षाशी यज्ञकृद्दीर्घजीवी ज्ञानी च पिचरुक् । कुष्ठी चान्नक्लेशवातव्याधिमान्भोगभागिति ॥२०॥ क्षीणेंद्विति ॥ भिक्षाशीति ॥ त्रिकोणं ९ । ५, व्ययः १२, केंद्राणि दशमरहितानि १।४।७, अष्टौ ८; एषु स्थानेषु स्थितैः क्षीणेद्वादिभिरष्टभिहैभिक्षाशीत्यादिकं फलं यथासंख्येनोक्तम् । मुनिभिरिति शेषः । अथा एच स्थानेषु स्थितः क्षीणचंद्रश्चेत्तद्राऽन्नप्राशनकृद्धालो भिक्षाशी दरिद्रः स्यातू । कथा पूर्णचंद्र एतत्स्थानस्थितश्चेत्तदा ज्योतिष्टोमयज्ञकृत् । एवमिज्यो गुरुश्रेहीजीवी । ज्ञो बुधश्चेज्ज्ञानी स्यात् । भौमश्चेत्पित्तरुक् पित्तकृता रुक् यस्यासौ पित्तरुक् । अर्कश्चेत्कुष्ठी स्यात् । आर्किः शनिश्चेत्तदाऽन्नाभावसंबंधी लेशोऽन्नक्लेशः, वातप्रधानो व्याधिर्वातव्याधिः, एतौ विद्येते यस्यासौ अन्नकेचवातव्याधिमान्स्यात् । उपलक्षणत्वादाहुकेत्वोरप्येतत्फलं द्रष्टव्यम् । भार्गवः शुक्रश्चेत्तर्हि भोगभाक् स्थादित्यर्थः। उक्तं च रत्नमालायाम्-'रवी लग्ने कुष्टी धरणितनये पित्तगदभाक् शनौ वातव्याधिः कृशशशिनि भिक्षाशनरत्नः । बुधे ज्ञानी भोगी ह्युशनसि चिरायुः सुरगुरौ विधौ पूर्णे यज्वा भवति च नरः सनद इह ॥ कंटकात्यनिधनत्रिकोणगास्तत्फलं दद्वति यत्नतो ग्रहाः । षष्ठ इंदुरशुभस्तथाऽष्टमः केंद्रकोणगत ऐनिरन्नहृत् ॥' इनः सूर्यस्तस्यापत्यमैनिः= शनिः । अत्र लग्नस्थितानामेव ग्रहाणां फलाभिधानादन्यकेंद्रादिषु तदतिदेशात्फलेऽपि महत्त्वाल्पत्वकृत्तो विशेषो ध्येय इति निष्कृष्टोऽर्थः। अन्यथा सर्वकेंद्राधनुवादेन कुष्ट्यादिफलमेव ब्रूयात् ॥ अत एव वसिष्ठेन लग्नस्थितानामेव फलमुक्तम्-'कुष्ठी लग्नगते सूर्य क्षीणचंद्रे च भिक्षुकः। सत्रदः पूर्णचंद्रे स्यात्कुजे पित्तरुजार्दितः ॥ बुधे ज्ञानी गुरौ भोगी दीर्घायुर्भाग्यवान्सिते। वातरोगी शनौ राहो केतौ चानविवर्जितः ॥' इति । नारदादिभिरप्येवमुक्तम् । लग्नं विहायान्यकेंद्रस्थितानां ग्रहाणां तु सामान्यत एव फलं शुभाशुभमुक्तं तद्वाक्यं प्रागभिहितमस्माभिः । ग्रंथकर्ता तु लायचात् रत्नमालापद्यार्थमनुसृत्यैवमुक्तमित्यदोषः । पूर्णचंद्रक्षीणचंद्रयोर्लक्षणमन्नप्राशनप्रकरणे उक्तं वसिष्ठेन-'संपूर्णंडूभयाष्टम्योर्मध्येदुः पूर्णसंज्ञकः । विनष्टेंदूभयाष्टम्योमध्येऽसौ क्षीणसंज्ञकः॥' इलि । संपूर्णेदुः पूर्णिमा। मध्येंदुरित्यन्त्र छांदसः समासः । कुतः ? 'समर्थः पदविधिः' इति, 'सारेक्षमसमर्थ भवति' इति च माणात् । अथवा मध्ये इंदुरिति पदच्छेदः । तत्रायादेशे यलोवे च 'पूर्वत्रा १६ मु० चि० Page #198 -------------------------------------------------------------------------- ________________ मुहूर्तचिंतामणिः । [ बालस्याजीविकापरीक्षा सिद्धम्' इत्यसिद्धत्वमाद्गुणे कर्तव्ये न भवति ' न मु ने' इत्यत्र नेति योगविभागात्तस्य चेष्टसिद्धिविषयत्वात् । विनष्टेदुः = अमावास्या, असाविति कृतपदच्छेदमध्येंदुशब्दस्थ इंदुः ॥ इति अन्नप्राशनम् ॥ १९ ॥ २० ॥ अथ भूम्युपवेशनमुहूर्त वसंततिलकयाहपृथ्वीवराहमभिपूज्य कुजे विशुद्धेरिक् तिथौ व्रजति पंचममासि बालम् । बद्धा शुभेsa कटिसूत्रमथ ध्रुवेंदु - ज्येष्ठ मैत्रलघु भैरुपवेशयेत्कौ ॥ २१ ॥ पृथ्वीति ॥ पृथ्वी च वराहश्चानयोः समाहारद्वंद्वः। पृथ्वीं वराहं चाभिपूज्य | कुजे विशुद्धे | भौमबले सतीत्यर्थः । अरिक्ते रिक्तारहिततिथौ सति तथा पंचममासि व्रजति लगति सति तथा शुभेऽह्नि शुभग्रहवारेषु तथा ध्रुवेंदु ज्येष्ठक्षेत्र लघुभैः रोहिण्युत्तरात्रयमृगज्येष्ठानुराधाश्विनीपुष्यहस्तैर्दशनक्षत्रैः उपलक्षिते काले बालं कटिसूत्रं पट्टसूत्रादिनिर्मितं कटिस्थले बद्ध्वा कौ पृथि - व्यामुपवेशयेन्मंत्र पाठपूर्वकमुपवेशनाख्यं संस्कारं कुर्यात् । उक्तं च पद्मपुराणे - 'पंचमे च तथा मासि भूमौ तमुपवेशयेत् । तत्र सर्वे ग्रहाः शस्ता भौमो राम विशेषतः ॥ तिथिं च वर्जयेद्विक्तां शस्तानि शृणु भानि मे । उत्तरात्रितयं सौम्यं पुष्यक्षं शक्रदैवतम् ॥ प्राजापत्यं च हस्तं च शस्तमाश्विनमित्रभम् । वराहं पूजयेद्देवं पृथिवीं च तथा द्विजान् ॥' मंत्रा अपि तत्रैवोवास्ते लिख्यंतेऽस्माभिः - 'रक्षैनं वसुधे देवि सदा सर्वगतं शुभे । आयु:प्रमाणं निखिलं निक्षिपस्व हरिप्रिये ॥ अचिरादायुषस्तस्य ये केचित्परिपंथिनः । जीत्रितारोग्यवित्तेषु निर्दहस्वाचिरेण तान् ॥ धारिण्यशेषभूतानां मातस्त्वमधिका ह्यसि । कुमारं पाहि मातस्त्वं ब्रह्मा तदनुमन्यताम् ॥ तस्योपवेशनं कृत्वा भूमौ ब्राह्मणभोजनम् । पूर्वं कृत्वा ततः कार्यमुत्सवं पूर्वव'द्विजः ॥' इति । उत्सवः = नीराजनादिः । यद्यपि ग्रंथकर्त्रा पंचममासि कर्तव्यं भूम्युपवेशनमन्नप्राशनतः प्राकू वक्तव्यं तथापि ज्योतिःशास्त्रकर्तृवसिष्ठाद्यनुक्तत्वात् क्रमबाधमंगीकृत्योक्तम् । सांप्रतं शिष्टानां त्वन्नप्राशनसमय एव भूम्युपवेशनानुष्ठानदर्शनाच्च ॥ २१ ॥ १८२ अथ परमतेनैव भूम्युपवेशनकाले एव जीविकापरीक्षां शालिन्याहतस्मिन्काले स्थापयेत्तत्पुरस्ताद्वस्त्रं शस्त्रं पुस्तकं लेखनीं च । स्वर्ण रौप्यं यच्च गृह्णाति बालस्तैराजीवैस्तस्य वृत्तिः प्रदिष्टा ॥ २२ ॥ तस्मिन्काल इति ॥ स्पष्टार्थ पद्यम् । आजीवैर्जीविकाभिः । 'आजीवो जीविका वार्ता' इत्यभिधानात् । यदाह मार्कडेयः - 'अग्रतोऽथ प्रविन्यस्य रत्नभांडानि सर्वशः । शस्त्राणि चैव वस्त्राणि ततः पश्येत्तु लक्षणम् ॥ Page #199 -------------------------------------------------------------------------- ________________ शिशोस्तांबूलभक्षणमुहूर्तः] संस्कारप्रकरणम् ५। १८३ प्रथमं यत्स्पृशेद्धालो रिंगमाणः स्वयं तदा । जीविका तस्य बालस्य तेनैव तु भविष्यति ॥' इति । बहुधा तु जीविकापरीक्षामन्नप्राशनसमय एक कुर्वतीति शिष्टाचारः । इदं पधं ग्रंथकर्तुः मुहूर्तविचारार्थ प्रवृत्तस्य हि वक्तुमनुचितं मुहूर्तविचारस्यात्राऽप्रतिपादनात् । किंतु धर्मशास्त्रकर्तृणामुचितोऽयं विचारो यतस्ते संस्कारार्थ प्रवृत्ता इति ॥ २२ ॥ अथ शिशोस्तांबूलभक्षणमुहूर्त स्नग्धरयाहवारे भौमार्किहीने ध्रुवमृदुलघुभैर्विष्णुमूलादितींद्र___ खातीवस्वभ्युपेतैमिथुनमृगसुताकुंभगोमीनलने । सौम्यैः केंद्रत्रिकोणैरशुभगगनगैः शत्रुलाभत्रिसंस्थै स्तांबूलं सार्धमासद्वयमितसमये प्रोक्तमन्नाशने वा ॥२३॥ वार इति ॥ भौमार्किभ्यां मंगलशनिभ्यां हीने रहिते वासरे सति श्रवणमूलपुनर्वसुज्येष्ठास्वातीधनिष्ठायुक्तैः ध्रुवमृदुलघुनक्षत्रैः उपलक्षिते काले तथा मिथुनं, मृगः मकरः, सुता कन्या, कुंभः, गौर्वृषः, मीनः; एषामन्यतमे लगे सौम्यैः सौम्यग्रहैः केंद्र त्रिकोणगतैः अशुभगगनगैः पापग्रहैः शत्रुलाभत्रिसंस्थैः षष्ठैकादशतृतीयस्थानस्थितैः सहिते सति बालकस्य तांबूलं लक्षणया तांबूलभक्षणं. प्रोक्तमित्यर्थः । यदाह दीपिकाकारः-'मूलादितिद्रविणतिष्यकरोत्तरासु पोष्णाश्विविष्णुरजनीकरशक्रभेषु । वारेषु सूर्यशशिजीवसितेंदुजानां तांबूलभक्षणविधिः कथितः शिशूनाम् ॥ दुश्चिक्यलाभभवनारिंगताश्च पापाः सौम्यग्रहा नवमपंचमकंटकस्थाः । आरोग्यशांतिशुभभाग्यसुखोपभुक्त्यै तांबूलभक्षणविधौ मुनिभिः प्रदिष्टाः ॥' इति । द्रविणं धनिष्ठा । चित्रानुराधयोग्रहणं राजमार्तडवचनात्-'दिनकरचंद्रसमीरणमैत्रं पुष्यपुनर्वसुरेवतिचित्रम् । घटमृगमन्मथकन्यकलग्नं पूगफलाशनमेभिरिहेष्टम् ॥' पूगफलग्रहणं तांबूलोपलक्षणम् । रोहिणीस्वात्योर्ग्रहणे मूलं नास्ति । मीनवृषयोर्मूलं नास्ति । एतच्च कस्मिन्काले कार्यमित्यत आह-सार्धति । जन्मकालात्सार्धमासंद्वयमितसमये तांबूलदानं प्रोक्तम् । यदाह चंडेश्वरः-'सार्धमासद्वये पूर्ग तांबूलं वा शिशोर्हितम् । षड्भी रत्नभुजो मासै गभागी भवेन्नरः॥' वा अथवा । अन्नाशने अन्नप्राशनसमये वा प्रोक्तम् । एतच्च शिष्टाचारदर्शनादुक्तम् । तदा मुहूर्तविचाराऽनुन्मेषः । यदा सार्धे मासद्वये तांबूलभक्षणं विहितं तदा मुहूर्तविचारो युक्त एव । अथ प्रसंगतोऽन्येषामपि तांबूलभक्षणमुहूर्तः प्रोच्यतेऽस्माभिः । तदुक्तं दीपिकायाम्-'मूलाश्विमैत्रकरतिष्यहरीदुभेषु पौष्णे तथा मृगशिरोदितिवासवेषु । अदुजीवभृगुबोधनवासरेषु तांबूलनूतनदलाद्यशनं शुभाय ॥' दलानि पर्णानि । विशेषः स्मृतिभ्योऽनुसंधेयः । यथा-'तांबूलं सुष्टु यो दद्याद्राह्मणेभ्योऽतिभक्तितः। मेधावी सुभगः प्राज्ञो दर्शनीयश्च जायते ॥ फलेन तृप्यते ब्रह्मा पत्रेण भगवान् हरिः। । १ मन्मथः मिथुनम् । Page #200 -------------------------------------------------------------------------- ________________ १८४ मुहूर्तचिंतामणिः कर्णवेधमुहूर्त पूर्णमीश्वरतपयै स्यात्तांबूलाशनदानतः ॥ एकछित्रिचतुष्पंचभिः पूरीः फलानि च । लाभालाभौ सुखं दुःखमायुनरणमेव च ॥ पर्णमूले भवेव्याधिः पनि धनसंक्षयः । चूर्णपर्ण हरत्यायुः शिरा बुद्धिविनाशनी । पर्णानं पर्णपई वा चूर्णपर्ण द्विपर्णकम् । रात्रौ खदिरतांबूलं शक्रस्यापि श्रियं हरेत् ॥ मशास्त्रविधिना पर्ण पूगं खादति यो नरः। सहजन्मदरिद्रः स्यादते विष्णु न संस्मरेत् ॥' इति ॥ २३ ॥ मथ कर्णवेधमुहूर्त सन्धरयाहहित्वैतांश्चैत्रपौषावमहरिशयनं जन्ममासं च रिक्तां युग्माब्दं जन्मतारामृतुमुनिवसुभिः संमिते मास्यथो का। जन्माहात्सूर्यभूपैः परिमितदिवसे ज्यशुक्रंदुवारे ऽथौजाब्दे विष्णुयुग्मादितिमृदुलघुभैः कर्णवेधःप्रशस्तः॥ हिस्वति । तापदार्शन्हित्वाकर्णवेधः प्रशस्त इत्यादयः । एतान्कान् ? त्र चैत्र पौषं चमासा सवम दिनक्षयम् । हरिशायनमाषाढ शुक्लैकादशीमारम्य कार्तिक शुक्लैकादशीपर्यतम् । जन्ममासम् 'भारभ्या जन्मदिवस वायशिदिनं भवेत् । जन्ममासः स विज्ञेयो गर्हितः सर्वकर्मसुः॥' इति लक्षणलक्षितम् । रिक्त तिथि ४ । ९ । १४, युग्माब्दं समवर्ष द्वितीयचतुर्थादिकं, जन्म सारा प्रथमदशमैकोनविंशात्मिकां हित्वा । उक्तं च व्यवहारोच्चा 'न जन्ममासे नच चैत्रपौषे न जन्मतारासु हरौ प्रसुप्ते । तिथाकरिक्त नच विष्टिदुष्टे कर्णस्य वेधो न समेऽपि वर्षे ॥' इति ॥ अत्र चैत्रस्य नियो मीनार्कविषयः । पौषनिषेधो धनुरर्कविषयः । अन्यथा-कार्तिके पौषमासे का चैत्रे वा फाल्गुनेऽपि वा। कर्णवेध प्रशंसति शुल्ले पो सुभेऽहनि।' इति व्यासवचनमसंगतं स्यात् । अत्र कार्तिकशुलपक्षकादशीतः कार्तिकः प्रशस्तः, पूर्वस्य देवशयनसत्त्वानिषेधः । अत्र जन्ममासे वज्यातराण्यण्याह प्रयोगपारिजाते व्यास:-'यो जन्ममासे क्षुरकर्म यात्रां कर्णस्य वेधं कुरुते हि मोहात् । मूढः स रोगी धनपुत्रनाशं प्रामोति गूढं निधनं तदाशु ।' इति । विहितकालमाह-ऋत्विति । ऋतवः षद, मुनयः सप्त, क्सवोऽष्टी, एतैः संमिते गणिते मासि षष्ठे मासे ससमे मासेऽष्टमे माले वा, माथो वा जम्माहाजन्मदिवसात् सूर्यभूपैदिशभिः षोडशभिर्वा परिमिते गणिते दिक्से सौरसावने कर्णवेधः प्रशस्त उक्तः । यदाह जगन्मोहने वसिष्ठः--'मासे षष्ठे सतमें वाऽष्टमे वा वेध्यौ कौँ द्वादशे षोडशेऽह्नि। मध्ये चाह्नः पूर्वभागेन रात्रौ' इति । यदा तु षष्ठमासादौ कर्णवेधश्चिकीर्षितः तदा तिथीनाह जगन्मोहने वसिष्ठः-'द्वितीया दशमी षष्ठी सप्लमी च त्रयोदशी । द्वादशी पंचमी शस्ता तृतीया कर्णवेधने॥' इति । शेज्यशुक्रंदुवार इति । बुधबृहस्पतिशुक्रचंद्रवारेषु प्रशस्तः कर्णवेधः । यदाह जगन्मोहने वसिष्ठः-'भूमिजार्कात्मजार्काणां दारान्संवर्जयेत्सुधीः । जीवेंदुजेंदुशुक्राणां दिवसाः परिपूजिताः ॥ Page #201 -------------------------------------------------------------------------- ________________ सन्न माधुद्धिः] संस्कारप्रकरणाम् । इति । अथेति । ओजाब्दे विषमवर्षे वा कर्णवेधः प्रवासः । सूर्यक्ले सतीममि ध्येयम् । यदाह राजमार्तडः-भऽनुकूले शशिनि प्रशस्ते ताराबले चंद्रविवृद्धिपक्षे । अयुग्मवर्षे शुभदं शिशूनां कर्णस्य वेधं मुनयो वदति ॥' इति । मन्त्र कर्णस्येत्येकवचनं ग्रहैकल्बाधिकरणन्यायेन विवक्षितं, तेन द्वयोरपि कार्यामोर्वेधः । विषिण्वति । श्रवणधनिष्ठापुनर्वसुचित्राजुराधासुगरेवत्यधिनीला हस्सनक्षत्रैर्दशभिरुपलक्षिते काले कर्णवेधः प्रशस्तः । उक्तं हि श्रीपतिना'पोष्णवैष्णचकराश्विनचित्राघुष्यवासक्युनर्वसुमैत्रैः । बैंदकैः श्रवणवेधविधान निर्दिशति मुनयो हि शिशूनाम् ॥' नारदेनापि 'चित्रादित्याश्विविष्पवयरबिमिनक्सूडुषु । समृगेज्येषु बालानां कर्णवेधकिया हिता ॥' इति । गर्गेपोजारामयमप्युक्तम्-'पुष्ये धनिष्ठास्वदितौ हरीदुत्वाष्ट्रे करेंऽत्ये तिसपूत्तरासु। इसे समैनेऽप्यथ कर्णवेधो नेष्टाश्च सर्वेऽष्टमराशिसंस्थाः ॥' इति । भत्रैविसको त्रिकाल्पः। अत्र जन्मनक्षत्रनिषेधः सर्ववादिसिद्धः । तदुक्तं दीपिकायाम्--- "जन्मनक्षत्रगश्चंद्रः प्रशस्तः सर्वकर्मसु । औरभेषजमादायकर्तनेबुनिवर्जयेत् ।। 'कृती छेदने' इति धात्वर्थानुसारस्कर्तनकाशन कर्णक्यो विवक्षितःसमान मर्यते-'जन्मनि मासि विवाहः शुमको जम्मक्षजन्मराश्मोन । मछुमं पति गः श्रुतिवेधक्षौरयामासु ॥' इति ॥ २४ ॥ भथ कर्णवेधे लग्नशुद्धिं प्रहर्षिण्याह संशुद्ध मृतिभवने त्रिकोणकेंद्र न्यायस्थैः शुभखचरा कीज्यलये । पावाख्यैररिसहजायमेहसंखै लग्नस्थे त्रिदशगुरौ शुभावहः स्यात् ॥ २५॥ संशुद्ध इति ॥ मृतिभवनेऽष्टमस्थाने संशुद्धे सर्वग्रहवर्जिते सति । यदाह जगन्मोहने वसिष्ठः-'न कश्चिदिष्टोऽष्टमराशिसंस्थस्तिथिद्वयं चावम'संज्ञकं च' इति । अत्र विहितलमानि प्रयोगपारिजाले नारदेनोक्तानि-- "वृषभे मिथुने मीने कुलीरे कन्यकासु च । तुला चापे तु कुर्वीत कर्णवेधं शुभर्द्धये ॥ मेषश्च मकरश्चैव मध्यमौ गुरुणोदिती । सिंहवृश्चिककुंभाश्च अधमस्वाद्विचर्जिताः ॥' इति । अत एबोकं वराहसंहितायाम्-'लाभे कृतीये च शुभैः समेते क्रूरैविहीने शुभराशिलग्ने । वेध्यौ तु कौँ त्रिदशेज्यलमे इति । शुभाश्चंद्रबुधगुरुशुक्राः तेषां राशयः कर्कमिथुनकन्याकृषतुलाधनुर्मानातेषामन्यतमे लग्ने क्रूरैर्विहीने सतीत्यर्थः । ग्रंधकृद्दीपिकाकारमतमाश्रित्याहक्रमीति । कवीज्ययोर्लग्ने वृषतुलाधनुर्मीनानामन्यतमे लग्ने सति त्रिकोण९५ केंद्र १।४।७।१० घ्याय ३।११ स्थितैः शुभग्रहैस्तथा पापाख्यैर्ग्रहैररिसहजायगेहसंस्थैः षष्ठतृतीयैकादशस्थानस्थितैरुपलक्षिते तथा लग्नसंस्थे त्रिदशगुरौ सति कर्णवेधः शुभावहः शुभकारकः स्यात् । उक्तं च दीपिकायाम् Page #202 -------------------------------------------------------------------------- ________________ मुहूर्तचिंतामणिः । [दक्षिणायने निषिद्धकर्माणि 'सौम्यैख्यायत्रिकोणकंटकगतैः पापैस्त्रिलाभारिगैरोजाब्दे श्रुतिवेध इज्यसितयोलग्नेऽनुकूले शुभे' इति । गुरुः–'कर्णवेधादिकार्येषु नेष्टाः सर्वेऽष्टमस्थिताः। कर्णवेधो विनिर्देश्यो लग्नसंस्थे बृहस्पतौ ॥ तदभावेऽन्यकेंद्रस्थे तदभावे त्रिकोणगे॥' इति । अत्र कर्णवेधप्रकारो रत्नमालायाम्-'शिशोरजातदंतस्य मातुरुत्संगसर्पिणः । सुलौह्या वेधयेत्कौँ सूच्या द्विगुणसूत्रया ॥' कर्णरंध्रे विशेषमाह देवल:-'कर्णरंधे रवेश्छाया न विशेदग्रजन्मनः। तं दृष्ट्वा विलयं यांति पुण्यौघाश्च पुरातनाः ॥' शालंकायन:-'अविद्धकर्णैर्यशक्तं लंबकणेस्तथैव च । दग्धकर्णैश्च यद्भक्तं तद्वै रक्षांसि गच्छति ॥' इति । ब्राह्मणादिवर्णविशेषे तत्सूच्यभिधानं तत्संबंधी विशेषश्च स्मृतिभ्योऽनुसंधेयः। अथ ग्रंथकारानुक्तोऽप्यवसरप्राप्तोऽब्दपूर्तिमुहूर्तः प्रोच्यतेऽस्माभिः। तत्र सौराब्दांते यद्दिने जन्मनक्षत्रं तद्दिनेऽब्दपूर्तिः कार्या । उक्तं च विधिरत्ने-'अब्देन सौरेण शिशोः समांते बालं सुसंस्त्राप्य च जन्मधिष्ण्ये । कृत्वायुषो वृद्धिकरं च कर्म तं धारयेद्वस्त्रसुवर्णसूत्रम् ॥' नृसिंहोऽपि—'सौरेणाब्दांतजन्मः शिशुं संत्राप्य शास्त्रतः । आबध्य हेमसूत्रं च राश्यादावनुकूलके ॥ नवक्षौमांबरादीनि यथाहं धारयेत्तदा ॥' इति । अत्र खंडनक्षत्रादौ निर्णयमाह वृद्धगर्ग:'उदयव्यापि जन्मक्षं तस्माद्राह्यं तु जन्मतः । संगवव्यापिखंडः तत्र जन्मकरं शुभम् ॥' इति । न केवलं प्रथमवर्षे एव अब्दपूर्तिः किंतु प्रत्यब्दांतेऽपि कार्या। यदाह गर्गः-'यस्मिन्दिने सवितरि तन्नक्षत्रदिनं भवेत् । प्रत्यब्दांते च नक्षत्रे विधिं वक्ष्ये नृणां परम् ॥' इति । दाक्षिणात्यशिष्टाचारस्तु जन्ममासीयजन्मतिथावब्दपूर्तिर्भवतीति दृश्यते ॥ इत्यब्दपूर्तिः ॥ २५ ॥ __ अथ 'चूडा वर्षात्' इत्यादिना चौलमुहूर्त विवक्षुस्तनिषेधकं प्रसंगतोऽन्यकर्मनिषेधकं च कालं स्रग्धरयाहगीर्वाणांबुप्रतिष्ठापरिणयदहनाधानचौलोपवीत क्षोणीपालाभिषेकोदवसितविशनं नैव याम्यायने स्यात् । नो वा बाल्यास्तवार्ये सुरगुरुसितयो व केतूदये स्या त्पक्षं वार्ध च केचिजहति तमपरे यावदीक्षां तदुरे ॥२६॥ गीर्वाणेति ॥ गीर्वाणा देवाः, अंबु जलं लक्षणया जलाशयः, तयोः प्रतिष्ठा गीर्वाणप्रतिष्ठा जलाशयप्रतिष्ठा चेत्यर्थः । परिणयो विवाहः, दहनाधानमन्याधानं, चौलं प्रसिद्धं, उपवीतं व्रतबंधः, क्षोणीपालाभिषेकः राजाभिषेकः, उदवसितविशनं गृहप्रवेशः 'गृहं गेहोदवसितम्' इत्यभिधानात् । अत्र समाहारद्वंद्वः । एतानि कर्माणि उपलक्षणत्वादन्यान्यप्यनियतकालानि शुभकर्माणि याम्यायने दक्षिणायने नैव स्युः। स्यादित्येकवचनं मूले समाहारद्वंद्वैकत्वाभिप्रायम् । यदाह महेश्वरः-'चूडाकर्मनृपाभिषेकनिलयाम्याधानपाणिग्रहान्देवस्थापनमौंजिबंधनविधीन्कुर्यान्न याम्यायने' इति । किंतूत्तरायणे कुर्यात् । Page #203 -------------------------------------------------------------------------- ________________ केदये शुभकर्मनिषेधः ] संस्कारप्रकरणम् ५ । ૩૮૭ तदुक्तं रत्नमालायाम् — 'गृहप्रवेश त्रिदशप्रतिष्ठाविवाहचौलव्रतबंधपूर्वम् । सौम्यायने कर्म शुभं विधेयं यद्गर्हितं तत्खलु दक्षिणे स्यात् ॥' विशनमिति ल्युट्प्रत्ययस्य कित्त्वाद्यभावात् 'पुगंतलघूपधस्य च' इति गुणः प्राप्तः, 'संज्ञापूर्वको विधिरनित्यः' इति अनित्यत्वान्न भवतीति ज्ञापकं चात्र 'ओर्गुणः ' इति सूत्रम् । यथा 'ओरोत्' इति वक्तव्ये गुणग्रहणं संज्ञापूर्वको विधिरनित्यो यथा स्यात्तेन स्वायंभुवमिति सिद्धम् । तथा च महेश्वरेणाप्युक्तम् — 'भूपानां मृदुभैर्ध्रुवैः प्रविशनं यात्रानिवृत्तौ शुभम्' इति । अथवा व्यक्तमेवं पठितव्यम् – 'गीर्वाणांबुप्रतिष्ठापरिणयदहनाधानगेहप्रवेशाश्चौलं राजाभिषेको व्रतमपि च शुभं नैव याम्यायने स्यात्' इति । अथ सुरगुरुसितयोर्बृहस्पतिशुक्रयोल्यास्तव बालत्वेऽस्ते वा च, एतानि कर्माणि नो वा कुर्यात् । इदं प्रागुक्तमपि पुनर्लिखितं तत्स्मरणाविच्छेदार्थम् । मूलवाक्यान्यपि प्रागेवोक्तान्यस्माभिः । वृद्धशब्दस्य गुणवाचित्वात् 'गुणवचनब्राह्मणादिभ्यः कर्मणि च' इति ष्यञ् । वार्धकमिति तु 'द्वंद्वमनोज्ञादिभ्यश्च' इति मनोज्ञादेराकृतिगणाहुन् । अथ केतुदये धूमकेतूदये शुभकर्माणि नैव भवंति । तदुक्तं चंडेश्वरेण - 'केतोरस्तदिनादूर्ध्व सप्ताहं मंगलं त्यजेत् । यावत्केतूदयस्तावदशुद्धः समयो हि सः ॥ इति । अत्र केचित्केतूदये जाते सति पक्षं पंचदशदिनानि जहति वर्जयंति । उक्तं च वराहेण - 'दृष्टः षोडशवासरान शुभदः कैश्चित्प्रदिष्टः शिखी' इति । शिखी - केतुः । दृष्ट इति वचनाद्यावन्न दृष्टस्तावददोष इत्यर्थः । अत्र ग्रंथकृता एकदिनत्यागोऽक्षरबाहुल्यभीतेः कृतः । केचित्तु वा पक्षांतरे । अर्ध पक्षार्धं सप्तदिनानि केतूयानंतरं जहति । तदप्युक्तं वराहेण - ' केतूदये सप्तदिनानि चोर्ध्व विवाहयात्रादिषु गर्हितानि । दिनानि शेषाणि वदंति नूनं शुभानि रैभ्यप्रमुखा मुनींद्राः ॥' इति । ननु कैश्चित्केतूदयदर्शनं यावन्मंगलकृत्यानि निषिद्धानि, अन्यैस्तु केतूदयानंतरं षोडशाष्टौ वा दिनानि निषिद्धानि, तत्कथमनयोर्वाक्ययोरेकवाक्यतेत्यत आहतमिति । अपरे आचार्याः तं केतुं यावदीक्षां यावद्दर्शनं यज्जहति तदुग्रे केतौ द्वित्रिचूडे तामसकीलकादावतिदुष्टफले द्रष्टव्यम् । तेन भिन्नविषयत्वाद्दोषाभावः । तेषां केतूनां स्वरूपं फलानि च गतानि - 'त्रिशिखाश्च त्रिताराश्च रक्ता लोहितरश्मयः । प्रायशस्तूत्तरामाशां सेवंते नित्यमेव ते ॥ लोहितांगात्मजा ज्ञेया ग्रहाः षष्टिः समासतः । नामतः कौकुमा ज्ञेया राज्ञां संग्रामकारकाः ॥ कृष्णाभाः कृष्णपर्यंताः संकुलाः कृष्णरश्मयः । राहुपुत्रास्त्रयस्त्रिंशत्कीलकाश्चातिदारुणाः ॥' इत्यादि । वयं तु ब्रूमः - यत् यावद्दर्शनं केतूदयो निषिद्ध इत्युक्तं 1 दुझे ब्रह्मपुत्राख्येतौ महादुष्टफले ज्ञेयम् । उक्तं च लोमशसंहितायाम् —' चातुर्मास्येऽथ पौषे मधुभवति रवौ ब्रह्मपुत्रोद्गमे वा दंपत्योरेव नाशः प्रचुरमुनिगणैः कीर्तितो वै विवाहे' इति । मधुभं=मीनः । ब्रह्मपुत्रः=केतुः । विवाहस्योपलक्षणत्वादन्यान्यपि शुभकर्माणि निषिद्धानि । 'के तो रस्तदिनादूर्ध्व सप्तरात्राणि वर्जयेत् । ब्रह्मपुत्रोद्गमे वर्ज्यं व्रतं यात्रा च मंगलम् ॥' इति Page #204 -------------------------------------------------------------------------- ________________ १४ मुहूतचिंतामणिः। [शुक्रम बाल्यवार्यके ज्योतिर्निबंधकृदुक्तेश्च । ब्रह्मपुत्रलक्षणं सकलं वसिष्ठेनोक्तम्-'त्रिमित खिवर्णयुक्तो ब्रह्मासुतो ब्रह्मदंडनिमः । अनियतदिक्प्रभवोऽसौ कांतकरो ब्रह्मादंडाख्यः॥' को ब्रह्मा तस्याप्यंतं करोति तनान्येषां का कथेत्यर्थः । मत एवोकं वराहेण-'ब्रह्मसुत एक एव विशिखो वर्णैखिभिर्युगांतकरः। भनियतविकसंप्रभवो विज्ञेयो ब्रह्मदंडाख्यः ॥' इति ॥ २६ ॥ मथ गुरुशुक्रयोर्खाल्ये वार्धक्ये च शुभं कर्म त्याज्यमित्युक्तं, तत्रावसरप्राप्तां तदीयदिनसंख्यामनुष्टुभाह पुरः पश्चाद्धगोर्खाल्यं त्रिदशाहं च वार्धकम् । ' पक्षं पंचदिनं ते द्वे गुरोः पक्षमुदाहृते ॥ २७ ॥ पुरः पश्चादिति ॥ भृगोः शुक्कस्य कुरः पूर्वस्यां दिश्युदितस्य पश्चाहा तत्र यथासंख्यं बाल्यं स्यात् । पूर्वयां त्रिदिनं पचाइशाहं बालत्वं शुक्रस्खेत्यर्थः। च पुनः भृगोर्वार्थक वृद्धत्वं पूर्वखां पहं पंचदशदिनानि पश्चापंचदिनानि । गुरोले द्वे बाल्यवार्धके पक्षमुदाहृते कथिते । यदाह नारदः-'पश्चात्प्रागुदितः शुक्रो दशत्रिदिवसं शिशुः। वृद्धः पंचदिनं पक्षं गुरुः पक्षं च सर्वतः॥' इति॥२०॥ अथ परमते बाल्यं वार्धमयं चानुष्टुभाह ते दशाहं द्वयोः प्रोक्त कैश्चित्सप्तदिनं परैः। ज्यहं त्वात्यपिकेऽप्यन्यैर हं च व्यहं विधोः॥ २८॥ ते दशाहमिति ॥ दिनियम स्यक्त्वा छ्योर्गुरुशुक्रयोस्ते वाल्ववादी दशाहं दशदिनं प्रोक्त कैश्चित् । परैस्तु सप्तदिनं बाल्यवार्धक्ये गुरुशुकायोः प्रोक्त । तदाह महेश्वरः-'बालः शुक्रो दिवसदशकं पंचकं चैव वृद्धः पश्चाक्वं त्रितयमुदितः पक्षमैद्यां क्रमेण । जीवो वृद्धः शिशुरपि सदा पक्षमन्यैः शिशू तौ वृद्धौ प्रोक्तौ दिवसदशकं चापरैः सप्तरात्रम् ॥' इति । केशवार्कोऽपिक्षिपति सप्तदिनान्युदयास्तयोः सुरगुरु गुजश्च गतैष्ययोः' इति । अन्यैरपि पुनख्यहं त्रिदिवसं बाल्यवार्धके प्रोक्त। उक्तं च गर्गेण-शेषे तु देशे त्रिदिन वदंति' इति । अथैषां वाक्यानां गतिमाह-आत्ययिक इति। मस्ययः कार्यावश्यंभावः, स प्रयोजनं यस्येति 'प्रयोजनम्' इति उज्। लग्नांतराभावे समयशुसयभावे वा अतीतकालस्य बटोः अवश्यदेयायाः कन्याया गुणवद्वरोपलब्धौवा यथासंभवं दशसप्तत्रिदिनानां स्याग उचितो नान्यथेत्यर्थः । वयं तु देशभेदेनैषां वाक्यानां व्यवस्थां ब्रूमः । तदाह गर्ग:-'शुक्रो गुरुः प्राक्परतश्च बालो विंध्ये दशावंतिषु सप्तरात्रम् । वंगेषु हूणेषु च षट् च पंच शेषे तु देशे त्रिदिनं वदति।' इति । चंद्रस्य विशेषमाह-अर्धाहमिति । विधोस्तु बाल्यवार्धके क्रमेणार्धाह त्र्यहं च भवतः,बाल्यमधं दिनं वार्धकं त्रिदिनं चंद्रस्येत्यर्थः । उक्तं च वसिष्ठेन Page #205 -------------------------------------------------------------------------- ________________ चौलमुहूर्तः] संस्कारप्रकरणम् ५। 'खुस्वमिदोस्ििदन दिनार्धं बालत्वमस्तत्वमहईयं च । अस्ते विधौ मृत्युमुपैति काम्या बालेऽम्यसक्ता विधवा च वृखे ॥' ननु त्रिविक्रमेण 'चंद्रस्यैकदिनं बाल्यं प्रोक्तम्' इति तस्य वाक्यस्य का गतिः ? न काचित् , किंतु निर्मूलत्वादुपेक्ष्यमेव तद्वाक्यम् । साक्षाद्वसिष्ठेनापीदमदूषि-- 'येनोक्तमेकं दिवसं शिशुस्वमित्येसविंदोस्तदयुक्तमत्र । महत्त्वशीघ्रत्वसुधामयस्वादिनार्धमष्टौ विमतिष्ठितत्वाद' इति । कश्यपेन तु बालोऽपींदुः शुभ एवोक्त:--'वृकुचंद्रः स्त्रियं हंति पति हस्पत्तमागतः। यतस्त्वमृतरश्मित्वाखालोऽपि शुभदः शशी ॥' इति । अत एव संपूर्णायामपि शुक्लप्रतिपदि द्वितीयादिने द्वितीयायां प्रातर्यज्ञोपवीतादीनि शुभकृत्यानि शिष्टाः समाचरंति ॥ २८ ॥ मथैर्व निषिद्धकालमुक्त्वेदानी चौलमुहूर्त स्रग्धरारथोद्धतावृत्ताभ्यामाहचूडा वर्षात्तृतीयात्प्रभवति विषमेऽष्टार्करिक्ताद्यषष्ठी- पर्वोनाहे विचैत्रोदगयनसमये झेंदुशुक्रेज्यकानाम् । वारे लग्नाशयोश्चास्त्रभनिधनतनौ नैधने शुद्धियुक्ते . शाक्रोपेतैर्विमैत्रैर्मृदुचरलघुभैरायषतिस्थपापैः ॥२९॥ क्षीणचंद्रकुजसौरिभास्करैर्मृत्युशस्त्रमृतिपंगुताज्वराः । स्युः क्रमेण बुधजीवभार्गवैः केंद्रगैश्व शुभमिष्टतारया ॥३०॥ * चूडा वर्षादिति ॥ तृतीयाद्वर्षादिति ल्यब्लोपे पंचमी । तेन गर्भाधानकालाजन्मकालाद्वा तृतीये विषमे वर्षे पंचमे वा सप्तमे वा चूडाकरणं प्रभवति कृते समछुमोदकं भवतीत्यर्थः। यदाह वसिष्ठः-'तृतीये पंचमेऽब्दे वा स्वकुलाचारतो हितम् । चौलं शिशूनां यत्नेन स्वगृह्योक्तविधानतः। माधानतो जन्मतो वा सप्तमाब्देऽपि कारयेत् ॥' स्वकुलाचारत इत्यनेन येषां कुले पार्थक्येन चूडाकरणं तत्र मुहूर्तविचारः । येषां तूपनीत्या सहेष्यते इति पक्षस्तेषामुपनयनमुहूर्तेन सिद्धत्वात् पृथक्मुहूर्तविचारानुन्मेषः । अत एवोक्तं यात्रवल्क्ये न-'चूडा कार्या यथाकुलम्' इति । मनुना प्रथमवर्षेऽपि उक्तम्-'चूशाकर्म द्विजातीनां सर्वेषामेव धर्मतः । प्रथमेऽब्दे तृतीये वा कर्तव्यं श्रुतिचोदनात् ॥' एवं बहुकालोक्तो यथागृह्यं व्यवस्था द्रष्टव्या । स्वगृह्ये विशेषकालानुक्तौ तु समबलत्वात्सर्वेषां विकल्पः । विशेषमाह गुरुः-'तृतीयेऽउवे शिशोर्गर्भाजन्मतो वा विशेषतः।पंचमे सप्तमे वापि स्त्रियाः पुंसोऽथवा समम्॥' इति । अष्टेति । अष्टाष्टमी, अर्काः द्वादशी, रिक्ताः प्रसिद्धाः, आद्या प्रतिपत् , षष्ठी प्रसिद्धा, पर्वाणि अष्टमीचतुर्दशीपूर्णिमामावास्यासंक्रांतयः; एतैरूने रहितेऽहनि । अत्र तत्पुरुषसमासे 'राजाहःसखिभ्यष्टच्' इति टच् । 'नस्तद्धिते' इति टिलोपः। अष्टम्यादितिथीस्त्यक्त्वा शेषासु तिथिषु चूडा स्यादित्यर्थः । यदाह गुरुः-'द्वादशी चाष्टमी रिक्तां षष्ठीं प्रतिपदं तथा। हित्वा शेषासु तिथिषु Page #206 -------------------------------------------------------------------------- ________________ मुहूर्तचिंतामणिः। [कचिजन्मनक्षत्रस्य प्राशस्त्वं क्षौरकर्म शुभावहम् ॥' कश्यपः-'पंचपर्वतिथीन् रिक्तास्त्यक्त्वान्यदिवसे शुभम्' इति । अत एवाह वसिष्ठः-पंचमी सप्तमी चैव दशम्येकादशी तथा। त्रयोदशी तृतीया च क्षुरकर्मशुभावहा ॥' इति । चकाराद्वितीयापि । ननु सप्तमीत्रयोदश्योर्गलग्रहत्वात्कथं तयोर्ग्रहणम् ? यदाह गुरुः-'विद्यारंभो प्रतोदेशः क्षौरं चैव विशेषतः । गलग्रहे न कर्तव्यं यदीच्छेत्पुत्रजीवितम् ॥' इति चेत् । उच्यते,-वैदिकं मुंडनं चौलमित्युच्यते तद्विषयको विधिः । अवैदिकमुंडनं सुखार्थं यत् क्षौरमुच्यते । क्षुरस्य कर्म क्षौरमिति सामान्यज्युत्पत्तेरतस्तद्विषयको निषेध इति वयं ब्रूमः । अन्ये देशाचारतो व्यवस्थामाहुस्तदयुक्तं, विरोधाभावात् । विचैत्रेति । चैत्ररहिते उत्तरायणे चूडा स्यात् । शुभाशुभप्रकरणाभिहितो जन्ममासनिषेधोऽत्रापि ध्येयः। तदाह राजमार्तड:-'उत्तरवर्मनि सवितरि चूडाकरणं जगुर्बुधा यवनाः । चैत्रं हित्वा पापग्रहदिवसं जन्ममासं च ॥' इति । तथा तेंदुशुक्रेज्यकानां वारे लग्नांशयोश्चेति सौम्यग्रहवारे सौम्यग्रहाणां लग्ने कर्कमिथुनवृषकन्यातुलाधनुर्मीनानामन्यतमे लग्ने तेषामेव च नवांशे चूडा स्यात् । 'चंद्रज्ञगुरुशुक्राणां वारलग्नांशकेषु च' इति कश्यपोक्तेः । विशेषमाह पराशरः'सितेज्यसौम्यवारेषु क्षौरं पक्षद्वये हितम् । इंदुवारः सिते पक्षे वाराः शेषा न शोभनाः ॥' प्रयोगपारिजाते पापवाराणामप्यपवादः पठितः-'पापग्रहाणां वारेऽपि विप्राणां तु शुभो रविः । क्षत्रियाणां तु भूसुनुर्विदशूद्राणां शनिः शुभः ॥' इति । तथा अस्वभनिधनतनौ भं लग्नं राशिश्च, स्वस्य में स्वभे, स्वभाभ्यां निधनमष्टमलग्नं तन्न विद्यते यस्मिंस्तनौ स्वजन्मलग्नजन्मराशिभ्यामष्टमलग्नरहिते लग्ने चूडा स्यादित्यर्थः। तथा नैधनेऽष्टमस्थाने शुद्धिसंयुक्त शुद्धिः शुक्रव्यतिरिक्तसर्वग्रहराहित्यं तद्युक्ते सति चूडा स्यात् । उक्तं च कश्यपेन-'नैधने शुद्धिसंयुक्ते लग्नराशौ न नैधने' इति । पराशरः'अष्टमस्था ग्रहाः सर्वे नेष्टाः शुक्रविवर्जिताः। शुक्रश्च निधने क्षौरे सर्वसंपस्करः शिशोः ॥' इति । शाक्रेति । शाक्रोपेतैज्येष्ठायुक्तैर्विमैत्रैरनुराधारहितै{दुचरलघुभिदिशनक्षत्रैरुपलक्षिते काले चूडा स्यात् । यदाह वसिष्ठः'अदितिद्वितये पौष्णद्वितये श्रवणत्रये । हस्ताञ्च त्रितये शाके सैंदवे चौलमीरितम् ॥' कश्यपोऽपि-'दाद्वदितिपुष्येंद्रभेषु हस्तग्रयेऽपि च । विष्णुत्रये च पौष्णः चौलकर्म शुभप्रदम् ॥' इति । अत्र विहितनक्षत्रेषु जन्मनक्षत्रं प्रशस्तमित्याह कश्यपः-'नवान्नप्राशने चौले व्रतबंधेऽभिषेचने । शुभदं जन्मनक्षत्रमशुभं त्वन्यकर्मणि ॥' इति । नारदादिवाक्यान्यन्नप्राशनेऽभिहितानि । अत्र केचिजन्मनक्षत्रपदं तारापरं ज्ञेयमित्याहुः । तथा चोक्तं लल्लेन-हित्वैकं जन्मक्षं द्वे तारे जन्मसंज्ञिते शुभदे। उद्वाहे चोपनये यात्रायां भोजने क्षुरे कार्ये ॥' इति । तन्न, अवैदिकक्षुरविषयत्वात्तस्य । 'जन्मः कर्मनक्षत्रे' इति गुरुवचनमपि तद्विषयमेव वैदिकक्षुरपरं चैतत्कश्यपादिवाक्यमिति समंजसम् । अथ लग्नबलमाह-आयेति । एकादशषष्ठतृतीयस्थानस्थितैः पाप Page #207 -------------------------------------------------------------------------- ________________ गर्भिण्यां मातरि चौलनिषेधः] संस्कारप्रकरणम् ५ । १९१ महेश्वोपलक्षिते काले चूडा स्यात् । 'अषष्ठांत्यादिगे चंद्रे पापैस्यायारिसंस्थितैः । इति कश्यपोक्तेः। क्षीणेति । तथा क्षीणचंद्रः, कुजो मंगलः, सौरिः शनिः, भास्करः सूर्यः; एतैः केंद्रस्थैः क्रमेण यथासंख्यं मृत्युःमरणं, शस्त्रमृतिः शस्त्रान्मृतिः, पंगुताखंजता, ज्वरः प्रसिद्धः, एतानि फलानि स्युर्भवेयुः। बुधजीवभार्गवैस्तु केंद्रस्थैः शुभं कल्याणकारि फलं चूडाकर्तुः स्यात् । तदुक्तं रत्नमालायाम्-'क्षौरक्षेषु स्वकुलविधिना चौलमाहुर्मुनींद्राः केंद्रं यातैर्गुरुभृगुबुधैस्तत्र सूर्ये ज्वरः स्यात् । शस्त्रानाशी धरणितनये पंगुता चार्कपुत्रे शीतज्योतिप्यपचिततनौ निश्चितं नाशमेति ॥' केंद्रव्यतिरिक्तस्थानफलमपि तत्रैव 'धनव्यय. त्रिकोणगैरसगुहैzतावपि । क्षुरक्रिया न शोभना शुभैस्तु पुष्टिकारिणी' इति । मृतौ तु शुक्र एव शस्तो नान्ये शुभग्रहाः प्रागुक्तपराशरवाक्यस्वरसात् । क्षुरक्रिया-चौलम् । इष्टतारयेति। च पुनरिष्टतारया गोचरप्रकरणोक्तया शुभफलदतारया चूडा स्यात् । उक्तं च राजमार्तडेन-'रविशुद्धौ गृहकरणं रविगुरुशुद्धौ व्रतोद्वाहौ । क्षौरं ताराशुद्धौ शेषं चंद्राश्रितं कर्म ॥' ज्योतिर्निबंधे-'विवाहे सविता शस्तो व्रतबंधे बृहस्पतिः। क्षौरे ताराविशुद्धिश्च शेषे चंद्रबलं बलम् ॥' इति। चौलप्रयोजनमाह वसिष्ठः-'सर्वेषामेव वर्णानां चूडाकर्मविधिः स्मृतः। केशमूलं पिता ज्ञेयः केशानं जननी तथा ॥ चौलेनैवायुषो वृद्धिरचौलेनायुषः क्षयः। तस्माच्चौलं प्रयत्नेन कारयेद्बुद्धिमान्नरः॥' इति । व्यवहारनिबंधे चौलारंभे विशेषमाह श्रीपतिः-'केशवमानर्तपुरं पाटलिपुत्रं पुरीमहिच्छत्राम् । दितिमदितिं च स्मरतां क्षौरविधौ भवति कल्याणम् ॥' इति । यत्त कैश्चिदुक्तम्-'चंद्रशुद्धिर्यदा नास्ति तारायाश्च विशेषतः । अक्षौरभेऽपि कर्तव्यं वारेण बुधसोमयोः ॥' इति तत्सामान्यक्षौरविषयम् ॥ २९ ॥ ३०॥ अथ सगर्भायां स्वमातरि सत्यां शिशोश्चौलार्थ कालमनुष्टुभाह पंचमासाधिके मातुर्गमें चौलं शिशोर्न सत् । पंचवर्षाधिकस्येष्टं गर्भिण्यामपि मातरि ॥३१॥ पंचेति ॥ चौलाधिकारिणः शिशोर्मातुर्ग: पंचमासेभ्योऽधिके सति चौलं न सत् शुभफलदातृ नैव स्यात् । अतः पंचमासेभ्यः पूर्व चौलं कृतं सच्छुभफलमित्यर्थः । तदुक्तं गृह्यपरिशिष्ट-'चूडाकर्म न कर्तव्यं यस्य मातास्ति गर्भिणी । करोति यदि मंदात्मा तदा गर्भस्य नाशनम् ॥ पित्रोम॒तिं वदंत्येके चतुरब्दांतरे स्फुटम् ॥' इति । वसिष्ठः-'पुत्रचूडाकृतौ माता गर्भिणी यदि वा भवेत् । विपद्यते गुरुश्चैव दंपती शिशुरब्दतः ॥ गर्भ मातुः कुमारस्य न कुर्याच्चौलकर्म च । पंचमासादधः कुर्यादत ऊर्ध्वं न कारयेत् ॥' इति । अस्याप्यपवादमाह-पंचेति । पंचवर्षाधिकस्योलंघितपंचमवर्षस्य शिशोर्मातरि गर्भिण्यामपि सत्यां पंचमासादध ऊर्ध्व वा विहितकाले चौलमिष्टं कल्याणकारि भवेत् । अतो बालो यावत्पंचवर्षों न भवति तावत्पर्यंत निषेध इत्यर्थः। तदाह नारदः-'सूनोर्मातरि गर्भिण्यां चूडाकर्म न कारयेत् । पंचमाब्दात्प्रागथोल Page #208 -------------------------------------------------------------------------- ________________ १९२ मुहूर्तचिंतामणिः। [चौलादावन्येऽमि विभाः गर्भिण्यामपि कारयेत् ॥' यहा तूपनयनेन सह चौलं चिकीर्षितं तदा किनार माह ज्योतिरिदा-'सहोपनीत्या कुर्याश्चेत्तदा दोषो न विद्यते' इति । तुअंचवर्षाणां न्यूनाशिफभावो नापेक्षितः, सर्वानकारकत्वादस्व । एवं पार्थक्सम मौजाति सगर्भायां संस्कार्यमातरि सत्यां न भवति । तद्भुक्तम्-'सूबोतिरि गर्मियां मौंजीचूहे म कारयेत् । गते तु पंचमे मासे गर्भादीनां मृतिर्भवेत् ॥' इति ॥३३॥ अथ चौले ताराबलमावश्यकमित्युक्तं, तन्त्र दुष्टायां तारायां सस्यामपना शालिन्याहतारादौष्ट्येऽले त्रिकोणोच्चगे वा क्षौरं सत्स्यात्सौम्यमित्रस्ववर्ग । सौम्ये भेऽब्जे शोभने दुष्टतारा शस्ता ज्ञेया क्षौरयात्रादिकृत्ये ३१ तारादौष्ट्य इति ॥ ताराणां दुष्टत्त्वं गोचरपकरणेऽभिहितं तत्तत एवावधार्यम् । तस्मात्तारादौष्ट्ये सत्यपि क्षौरं चौलं सत् शोभनं स्यात् । कस्मिन्सति ? मी चंद्रे त्रिकोणगे नवपंचमस्थानस्थिते अथवोचगे वृषराशिस्थे अथवा सौम्यानां बुधगुरुशुक्राणां वर्षे षड्वर्गे अथवा स्वस्वैव षड्वर्गे सति । उकंच ज्योतिस्तंत्र-सौम्यसुहृन्निजव, चंद्रे तुंगत्रिकोणगे वापि । क्षौरादिकोपकरणे बारादोषो न दोषाय ॥' इति । आदिशब्देन यात्रा । 'विपत्तारा गुडं दद्यात्' इत्यादयोऽपि तारादौष्ट्यापवादाः प्रागुक्तास्तेऽप्यत्रोह्याः । अथाऽशुभतारायां गुणमाह-सौम्ये इति। सौम्ये भे शुभग्रहराशौ अब्जे चंद्रे शोभने गोचरोकेऽष्टस्थानस्थे सति दुष्टताराऽसमीचीनतारापि चेत्स्यात्तदा क्षौरयात्रादिमंगलकृत्येषु शस्तातिप्रशस्ता निखिलदोषापवादिका स्यादित्यर्थः । तदप्युक्तं ज्योतिस्तंने -'ऋक्षं दग्धं तिथी रिका चंद्रशाष्टमगस्तथा । तत्सर्वं नाशयेत्तारा षट् चतुर्नवमी तथा । जन्माख्या चाष्टमी तारा न शुभा नापि निंदिता ॥' इति । इति चौलप्रकरणम् ॥ ३२ ॥ अथ चौलादिकृत्ये कालविशेषनिषेधमनुष्टुभाह ऋतुमत्याः सूतिकायाः सूनोधौलादि नाचरेत् । ज्येष्ठापत्यस्य न ज्येष्ठे कैश्चिन्मार्गेऽपि नेष्यते ॥ ३३ ॥ ऋतुमत्या इति ॥ ऋतुः स्त्रीधर्मः स यस्ता अस्सीति ऋतुमती तस्त्रास्तथा सूतिकाया जातापत्यायाः सूनोः पुत्रस्योपलक्षणत्वात्कन्याया वा चौलोपनकनबिबाहाद्युक्तवक्ष्यमाणकृत्यं नाचरेत् न कारयेत् । उक्तं च प्रचेतसा ख मांगलिकं कृत्यं तस्य माता रजस्वला । वैधव्यं जायते तत्र नृनार्योः पाणिपीडने ॥' पाणिपीडने वैधव्यमन्यत्र मृत्युरित्यर्थः । सूतिकाया अपि कर्मानहकाल उक्तो विष्णुस्मृतौ-सूतिकां पुत्रवतीं विंशतिसत्रेम कर्माणि कारयेत् मासेन स्त्रीजननीम्' इति । अस्याथै केचिदाहुः-सर्ववर्णस्त्रीणां पुंप्रमू १ मूले ग्रन्थकृद्भिः शोभनचन्द्रस्य तारादौष्टयापवारकत्वं प्रतिपादितं, टीकाकृदुतप्रमाणे त्वखिलदोषापहारकत्वं प्रामुख्येन ताराया एव अतिपादितं, तदत्र ताराप्रशस्तिपरस्यास्य मूलविसंवादिप्रमाणस्य मूलेन युक्तियुक्तत्वमभियुक्तरेव परिशीलनीयम् । Page #209 -------------------------------------------------------------------------- ________________ क्षौरादौ मुहूर्तः] संस्कारप्रकरणम् ५। १९३ तानां बालकजन्मदिनाविंशतिदिनं यावदशुचिता ततः शुद्धिः; एवं कन्याप्रसूनां स्त्रीणां कन्याजन्मदिनात्रिंशद्दिनं यावदशुचिता ततः शुद्धिरित्यर्थः । एतदन्ये नानुमन्यते । यतः-'शुध्येद्विप्रो दशाहेन द्वादशाहेन भूमिपः।वैश्यः पंचदशाहेन शूद्रो मासेन शुध्यति ॥' इति दक्षेण वर्णपुरस्कारेण शुचिताहान्युक्तानि । एवं पुंजनयित्र्या ब्राह्मण्याः सूतकनिर्गमदिनादशैवाशुचितादिनान्यवशिष्यते, कन्याजनयित्र्यास्तु तस्यास्तस्मादेव विंशतिदिनानि । क्षत्रियायास्तु पुंकन्याजनयिन्याः क्रमादष्टाष्टादशदिनानि तसात्कालादवशिष्यते । वैश्यायास्तु पुकन्याजनयित्र्याःपंचपंचदशदिनान्यवशिष्यते।शूद्रायाः पुंजनयिन्याः दशदिनानि सूतककाले न्यूनानि जायंते, कन्याजनयित्र्यास्तु दिनसाम्यमेवेति सर्ववर्णानामननुगतमतिप्रसक्तमव्यापकं च लक्षणमापतति । अस्त्विति चेन्न । यद्येषोऽर्थोऽभिप्रेतः स्यात्तदा महता वाक्येनेममर्थ स्पष्टं निर्दिशेत् । अतोऽनुगतमर्थातरमाहुरन्ये । यथा-स्वस्ववर्णपुरस्कारेण य अशौचकालोऽभिहितः, स सर्वेषां तत्कुलजानां तुल्य एव तदने सर्वेऽपि शुचयः । पुंजनयित्र्यास्तु सूतिकायास्तदने विंशतिदिनान्यशुचिता; कन्याजनयित्र्याः तदने त्रिंशदिनान्यशुचितेत्यर्थः । अत एव सूतिकाया उक्तकालपर्यतं कर्मानहत्वात्तदेपत्यस्यापि मंगलकृत्ये निषेधः ॥ ज्येष्ठेति । ज्येष्ठापत्यस्याधगर्भस्य पुत्रस्य कन्याया वा व्रतबंधविवाहादिशुभकृत्यं ज्येष्ठमासे न भवति । उक्तं च रत्नमालायाम्-'आधगर्भदुहितुः सुतस्य वा ज्येष्ठमासि न च जातु मंगलम्' इति । कैश्चिदिति । मार्गेऽपि मार्गशीर्षमासेऽपि कैश्चिदाचाराधगर्भसुतकन्ययोमंगलकृत्यं नेष्यते । तदाह वात्स्यः-'मार्गे मासि तथा ज्येष्ठे विवाह चौलमेव च । ज्येष्ठपुत्रदुहिनोश्च न कुर्वीत व्रतं तथा ॥' भरद्वाजोऽपि-'मार्गशीर्षे तथा ज्येष्ठे क्षौरं परिणयं व्रतम् । आयपुत्रदुहिनोश्च यत्नतः परिवर्जयेत् ॥' भस्मादेव ज्ञापकाद् द्वितीयादिगर्भपुत्रदुहिनोयेष्ठे मार्गशीर्षे च न 'मंगलकृत्यानां निषेधः किंतु विधिरिति प्रतिभाति । अत्र कश्चिद्विशेषो वक्तव्योऽस्ति, स व्रतबंधप्रकरणे वक्ष्यते ॥ ३३ ॥ अथ प्रसंगतः सामान्यक्षौरादिमुहूर्त तन्निषिद्धकालं च शार्दूलविक्रीडितेनाहदंतक्षौरनखक्रियात्र विहिता चौलोदिते वारभे पातंग्याररवीन्विहाय नवमं घस्रं च संध्यां तथा । रिक्तां पर्व निशां निरासनरणग्रामप्रयाणोद्यत स्नाताभ्यक्तकृताशनैर्न हि पुनः कार्या हितप्रेप्सुभिः॥३४॥ दंतेति॥चौलोदितेषु चौलप्रोक्तेषु वारेषु नक्षत्रेषु उपलक्षणत्वात्तदुक्ते लग्नेऽपि च दंतक्षौरनखक्रियात्र विहितोक्ता । उक्तं च-'येषु येषु प्रशंसंति क्षुरकर्म महर्षयः । तेषु तेषु प्रशंसंति नखदंतविलेखनम् ॥' इति । येषु येषु वारनक्षत्रलग्ना १७ मु० चि. Page #210 -------------------------------------------------------------------------- ________________ १९४ मुहूर्तचिंतामणिः। [क्षौरे निषिद्धकाल। दिग्वित्यर्थः । अथ क्षौरे निषिद्धकाल उच्यते । पातंगीति । 'पतंगः पक्षिसूर्ययोः' इत्यभिधानात् पतंगः सूर्यस्तस्यापत्यं पातंगिः शनिः, आररवी प्रसिद्धौ, तेषां वारान् विहाय त्यक्त्वा उपलक्षणत्वादेषां लग्नानि मकरकुंभमेषवृश्चिकसिंहाख्यानि अंशकांश्च विहायेत्यर्थः । उक्तं च वसिष्ठेन-'हस्तत्रये पुष्यपुन सौ च शशांकविष्णुत्रितयाश्विनीषु । पौष्णेदधिष्ण्ये क्षुरकर्म शस्तं व्यर्कारशन्यशकवारलग्ने ॥' इति । अतः शुभग्रहाणां वारलग्नांशेषु क्षौरं कार्यमिति फलितोऽर्थः । वारफलानि गर्गोक्तानि-भानुरायुःक्षपयति मासं सप्त शनैधरः। भौमो मासाष्टकं हंति ज्ञो यच्छेत्पंचमासकम् ॥ सप्तमासान्ददातींदुः सुरेज्यो दशमासकम् । एकादश कविर्दद्यात्कृते तु क्षौरकर्मणि ॥' इति तुल्यन्यायत्वाल्लग्नानामंशानां चैतानि फलान्यूह्यानि । न केवलमायुर्हानिः किंतु शस्त्रघातोऽपि पापवारेषु । तदुक्तं वसिष्ठेन-'आदित्यभौमार्किदिनेषु धीमान दंतकाष्ठक्षुरकर्म कार्यम् । कुर्वन्नवामोति फलं समग्र शस्त्रेण सम्यक्स्वशरीरघातम् ॥' तथा नवमै घस्रं च विहाय यद्दिने क्षौरं कृतं ततो नवमदिने पुनः औरं न कार्यम् । 'उत्कटे भूषिते चैव यानी नो नवमे दिने' इति नारदोक्तेः । यत्तु नवमे नवम्यामिति व्याकुर्वति तदयुक्तं, दिनपदानुपादानप्रसंगात् । दिनपदं तिथिपरमिति चेन्न । रिक्ताया वक्ष्यमाणस्वतंत्रनिषेधानुपपत्तेः । ननु पृथगुपादानानवम्यां सर्वथा क्षौरं निंद्यमेव, चतुर्थीचतुर्दश्योस्तु तथा नेति चेन्न । "चतुर्थी चैव षष्ठीं च अष्टमी च चतुर्दशीम् । तथा पंचदशी चैव ब्रह्मचारी भवेत्सदा ॥ श्मश्रुकर्म शिरोभ्यंगदंतधावनमैथुनम् । जंतुश्चैतानि यः कुर्यालक्ष्मीस्तत्र न तिष्ठति ॥ इति क्षौरे व्यासवचनेन चतुर्थीचतुर्दश्योः सर्वथा निषेधाभिधानात् । अत एवामुमर्थ स्फुटमाह पराशर:-क्षौराहानवमे त्वह्नि भेष्टमात्ययिकेष्वपि' इति ॥ तथा संध्यां प्रातःसंध्यां सायंसंध्यां च विहाय एवं रिक्तां ४।९।१४ विहाय पर्वाण्यपि निशांरात्रिमपि विहायेत्यर्थः। अथाधिकारिणो निरूप्यन्ते। हितप्रेप्सुभिः स्वशुभोदर्कमिच्छद्भिरेतादृशैः क्षौरक्रिया हि निश्चयेन न कार्या । कीदृशैः ? निरासनैः भासनं कंबलादि तद्रहितैः; रणः संग्रामः, ग्रामो जनपदविशेषः, प्रयाणमर्थयात्रा, एतदर्थमुद्यतैः कृतोद्योगैः, सातैरनुष्ठितनित्यनैमित्तिककाम्यस्नानैः । यत्तु क्षौरार्थमेव स्नानं विधीयते, प्रायश्चित्तादौ च तत्र नायं निषेधस्तथैव तस्य विधानात् । अभ्यक्तैः कृततैलाभ्यंगैः कृताशनैः कृतभोजनैः । सुवर्णाद्यलंकारभूषितरित्यपि ध्येयम् । यदाह वराहः-'न स्नातमात्रगमनोत्कटभूषितानामभ्यक्तभुक्तरणकालनिरासनानाम् । संध्यानिशाशनिकुजार्कदिने च रिक्ते क्षौरं हितं न नवमेऽति न चापि विष्ट्याम् ॥' इति । उत्कटानां कुक्कुटासनवदवस्थितानाम् । संध्यालक्षणमपि वराहेणोक्तम्-'अर्धास्तमितादुदितात्सूर्यादस्पष्टभं नभो यावत्' । वृद्धगर्गः-शन्याररविवारेषु रात्रौ पाते व्रतेऽहनि । श्राद्धाहे प्रतिपद्रिक्ता भद्रा क्षौरे विवर्जयेत् ॥ षष्ठ्यमा पूर्णिमा पातश्चतुर्दश्यष्टमी तथा । आशुसमिहितं पापं तैले मांसे क्षुरे भगे ॥' इति ॥ ३४ ॥ Page #211 -------------------------------------------------------------------------- ________________ राज्ञां क्षौरे वैशिष्ट्यं] संस्कारप्रकरणम् ५। पथ केषांचिनिमित्तविशेषे क्षौरस्य विधिनिषेधौ मंजुभाषिणीछंदसाहऋतुपाणिपीडमृतिबंधमोक्षणे क्षुरकर्म च द्विजनृपाज्ञया चरेत् । शववाहतीर्थगमसिंधुमजनक्षुरमाचरेन खलु गर्भिणीपतिः॥३५॥ ऋतुपाणीति ॥ अव पूर्वार्धे सत्यपि निषिद्धवारादौ एषु कर्मसु क्षुरकर्म और सद्यः कार्यमिति वाक्यार्थः । क ? ऋतौ यज्ञे । विप्राज्ञया क्षौरं । तथा पाणिपीडो विवाहः, लक्षणया ततः प्राग्भाविनि गोदानकर्मणि । केचित्तु विवाहे श्मश्रुकर्मप्राशस्त्यपरं क्षौरमित्याहुः । अपरे शाखाविशेषेण विवाहे क्षौरमुक्तमि. त्यूचुः । तथा च श्रुतिः-'मुंडयितारः श्रविष्ठायना वधूमूढाम्' इत्यादि । मृतौ मातापित्रोर्मरणे बंधमोक्षणे कारागृहे बद्धस्य यदा मोचनं भवेत्तदा द्विजाक्षया ब्राह्मणाज्ञया नृपो राजा तस्याज्ञया च चरेत् क्षौरं कार्यमेव । यदाह नारदः-'नृपविप्राज्ञया यज्ञे मरणे बंधमोक्षणे । उद्वाहेऽखिलवारक्षेतिथिषु शौरमिष्टदम् ॥' इति । धर्मशास्त्रे-'गंगायां भास्करक्षेत्रे मातापित्रोम॑ते. ऽहनि । माधाने सोमपाने च पदसु क्षौर विधीयते ॥' इति । भन्यत्र तत्रैव'राजकार्यनियुक्तानां नटानां रूपजीविनाम् । श्मश्रुलोमनखच्छेदे नास्ति कालविशोधनम् ।' इति । शवेति । अथ गर्भिणी गर्भवती तस्याः पतिर्भर्ता शववाहं मृतकवहनं, तीर्थगम तीर्थयात्राम् , उपलक्षणत्वाद्विदेशगमनमपि; सिंधुमजनं समुद्रस्नानं, क्षुरं क्षुरकर्म; एतानि कर्माणि न पाचरेन कुर्यात् । यदाह वसिष्ठः-'गृहनिर्माणमुदधिस्नानं चौलं सुतस्य तु । तीर्थयात्रा नखश्मश्रु न कुर्याद्गर्भिणीपतिः ॥ गालवः-'दहनं वपनं चैव चौलं च गिरिरोहणम् । नावामारोहणं चैव न कुर्याद्गर्भिणीपतिः' इति । धर्मशास्त्रे तु विशेषः-सिंधुस्नानं दुमच्छेदं वपनं प्रेतवाहनम् । विदेशगमनं चैव न कुर्याद्गर्भिणीपतिः ॥ राजा योगी पुरंधी च मातापित्रोस्तु जीवतोः । मुंडनं सर्वतीर्थेषु न कुर्याद्गर्भिणीपतिः॥' अयं च क्षौरादिनिषेधो गुर्विणीपतेः सप्तममासादूर्ध्व न प्राक् । यदुक्तं नारदीये-'वपनं मैथुनं तीर्थ वर्जयेद्गर्भिणीपतिः । श्राद्धं च सप्तमान्मासादूर्ध्व नान्यत्र वेदवित् ॥' श्राद्धं श्राद्धभोजनम् । इदमुत्तराधं गर्भाधानप्रकरणे वक्तव्यमपि प्रसंगादत्रैवोक्तं ग्रंथकृतेति ॥ ३५ ॥ - अथ क्षौरे राज्ञां विशेष सर्वथा वय॑नक्षत्राणि च भुजंगप्रयातेनाह नृपाणां हितं क्षौरभे श्मश्रुकर्म दिने पंचमे पंचमेऽस्योदये वा । षडग्निस्त्रिमैत्रोऽष्टकः पंचपित्र्यो ऽब्दतोऽध्यर्यमाक्षौरकृन्मृत्युमेति ॥ ३६॥ नृपाणां हितमिति ॥ क्षौरभे विहिते क्षौरनक्षत्रे सति पंचमे पंचमे एव दिने श्मश्रुकर्म मुखशोभाकारि क्षुरकर्म नृपाणां राज्ञां हितं प्रशस्तम् । यदाह वसिष्ठः-'महीभृतां पंचमपंचमेऽह्नि क्षौरं च कार्य हितमुक्तभेषु' । ननु 'पंचमे Page #212 -------------------------------------------------------------------------- ________________ १९६ मुहूर्तचिंतामणिः। [ौरे निषिद्धनक्षत्राणि पंचमे' इति वीप्सोक्त्या नियमप्रतीतेर्विहितनक्षत्राभावे च सति श्मश्रुकर्माकरणमेव स्यादित्यत आह-अस्योदये वेति । वा अथवा अस्य क्षौरभस्योदये श्मश्रुकर्म कार्यमिति । उक्तं च वसिष्ठेन-'न लभ्यते चेञ्च तदुक्तधिष्ण्यं तद्भोदये वा निखिलं विधेयम्' इति । उदयशब्देन मुहूर्त इति ऋजवो व्याकुर्वते । तदाह गर्ग:-क्षौरकर्म महीशानां पंचमे पंचमेऽहनि । कर्तव्यं क्षौरनक्षत्रेऽप्यथ वा तन्मुहूर्त के ॥ तेषां क्षौरनक्षत्राणां ये स्वामिनस्तेषां मुहूर्ते इत्यर्थः। तांश्च मुहूर्तान् विवाहप्रकरणे वक्ष्यति । अत्र क्षौरपदं श्मश्रुकर्मपरम् । 'राजा योगी पुरंध्री च मातापित्रोस्तु जीवतोः । मुंडनं सर्वतीर्थेषु न कुर्याद्दर्भिणीपतिः ॥' इति राज्ञो मुंडननिषेधात् । अत एवोक्तं श्रीपतिना-'श्मश्रुकर्म पंचमे पंचमेऽह्नि भूभृतां क्षौरभेऽस्य वोदये निंद्यतारका न चेत्' इति । निंद्यतारकाः जन्मत्रिपंचसप्तताराः। अन्ये त्वेवं व्याचक्षते-अस्योदये वेति । अस्य क्षौरभस्योदये लग्ने । यथा-मेषलग्नंत्रिंशद्भागात्मकं तत्राद्यास्त्रयोदशभागाः सविंशतिलिप्ता १३-२० यावता कालेन मेषलग्ने उदयं यांति तावदश्विनीनक्षत्रमुदयं यातीत्यर्थः । तदनंतरं तावंत एवांशा यावता कालेनोदयं यांति तावगरण्युदय इत्यनेन न्यायेन सर्वेषां नक्षत्राणामुदया ज्ञेयाः । इयं च व्याख्या वराहपद्यन्याख्यावसरे भट्टोत्पलेनाभ्यधायि । पितृचरणास्त्वेवं व्याकुर्वतेयसिन्काले अश्विन्या उदयक्षितिजसंबंधः संपद्यते तं समयमारभ्य यावद्भरण्या उदयक्षितिजसंबंधस्तदंतराले यावान्कालः सोऽश्विन्या उदय उच्यते । एवं सत्युदयलग्नद्वयांशांतरालाद्गणितमार्गेण यावानिष्टकाल आगच्छेत्स एव तनक्षब्रोदय इति निष्कृष्टोऽर्थः । नक्षत्रस्योपलक्षणत्वाच्छुभवारासंभवेऽपि तद्धोरायां कार्यम् । उक्तं च नारदेन-'यस्य खेटस्य यत्कर्म वारे प्रोक्तं विधीयते । ग्रहस्य क्षणवारेऽपि तस्य तत्कर्म सर्वदा ॥' इति । क्षणवारः कालहोरा । एवं सति निषिद्धनक्षत्रवारेष्वपि श्मश्रुकर्म कार्यमिति युक्तमुत्पश्यामः । षडग्निरिति। अग्निः कृत्तिका, क्षौरावृत्त्या षड्वारं कृत्तिका यस्य, एवं त्रीणि मैत्राण्यनुराधा यस्य, अष्टौ का रोहिण्यो यस्य, पंच पित्र्याणि मघा यस्य, अब्धयश्चत्वारोऽर्यमा उत्तराफल्गुन्यो यस्य; स एतादृशः क्षौरकृदब्दतो वर्षानंतरं मृत्यु मरणमेति प्रामोति । यदाह वसिष्ठः-'अष्टाजजर्भः पितृपंचकश्च षड् वह्निधिष्ण्यश्चतुरयमक्षः। त्रिमैत्रभः पद्मजसंनिभोऽपि क्षौरी नरोऽन्दानिधनं गतः सः॥' इति । पद्मजो ब्रह्मा तत्संनिभस्तादृशस्तदुपादानं कैमुतिकन्यायसूचनार्थम् । ननु रत्नमालापद्ये-'षदकृत्तिकाः पंचमघस्त्रिमैत्रो ब्राह्माष्टको यश्चतुरुत्तरश्च । क्षौरी स वर्ष चतुराननोऽपि न प्राणितीति प्रकटः प्रवादः॥' इत्यत्र सामान्यतः तिसृणामप्युत्तराणां ग्रहणाद्विरोध इति चेत् । मैवं वोचः । अत्राप्युत्तरापदेन प्रथमोपस्थितिकत्वाद्वसिष्ठवाक्येन सहैकवाक्यतानुरोधाच्चोत्तराफल्गुन्येव गृह्यते नाषाढाभाद्रपदे । यत्र तु वचनांतरविरोधो नास्ति 'पौष्णमारुतमघोत्तरान्वितैः' इत्यादौ तत्र सामान्यतः सर्वासामुत्तराणां ग्रहणं भवति ॥ इति सामान्यक्षौरप्रकरणं समाप्तम् ॥ ३६॥ १ ऋजवः सरलशब्दार्थकारिणः । Page #213 -------------------------------------------------------------------------- ________________ विद्यारंभे मुहूर्तः ] संस्कारप्रकरणम् ५ । अथ प्राप्तकालत्वादक्षरारंभमुहूर्त पंचचामरेणाह - गणेशविष्णुवाग्रमाः प्रपूज्य पंचमाब्दके तिथौ शिवार्कदिग्विषट्शरत्रिके रखावुदक् ॥ लघुश्रवोऽनिलांत्य भादितीशतक्षमित्रभे चरोनसत्तनौ शिशोलिंपिग्रहः सतां दिने || ३७ ॥ गणेशेति ॥ गणेशविष्णू प्रसिद्धी, वाक् सरस्वती, रमा लक्ष्मीः; एता देवताः प्रपूज्य पंचमवर्षे सति शिव एकादशी, अर्को द्वादशी, दिकू दशमी, द्वौ द्वितीया, षट् षष्ठी, शराः पंचमी, त्रयस्तृतीया; एतासामन्यतमतिथौ च सति रवावुदगुत्तरायणस्थिते सति तथा लघुनक्षत्राणि हस्ताश्विपुष्याः, श्रवः श्रवणः, अनिलांत्यभादितयः प्रसिद्धाः, ईश आर्द्रा, तक्षा चित्रा, मित्रमनुराधा, अत्र समाहारद्वंद्वः; एतेषामन्यतमनक्षत्रे सति तथा सतां सोमबुधगुरुशुक्राणां दिने दिवसे तथा चरराशयः मेषकर्कतुलामकरास्तद्रहिते शुभस्वामिके वृषमिथुनकन्याधनुर्मीनानामन्यतमे लग्ने सति शिशोर्लिपिग्रहो नूतनाक्षरलेखनप्रारंभः कार्यः । उक्तं च वसिष्ठेन - 'उदग्गते भास्वति पंचमेऽब्दे प्राप्तेऽक्षरस्वीकरणं शिशूनाम् । सरस्वतीं विघ्नविनायकं च गुडौदनाद्यैरभिपूज्य कुर्यात् ॥' मार्कडेयः - 'पूजयित्वा हरिं लक्ष्मीं देवीं चैव सरस्वतीम् । स्वविद्यासूत्रकारांश्च स्वां विद्यां च विशेषतः ॥ प्राप्ते तु पंचमे वर्षे भप्रसुप्ते जनार्दने । षष्ठीं प्रतिपदं चैव वर्जयित्वा तथाष्टमीम् ॥ रिक्तां पंचदशीं चैव सौरिभौमदिनं तथा । एवं सुनिश्चिते काले विद्यारंभं तु कारयेत् ॥' अत्र षष्ठी निषिद्धा ग्रंथे स्वीकृतेति तञ्चित्यम् । प्रयोगपारिजाते श्रीधरः - 'हस्तादित्यसमीरमित्रपुरजित्पौष्णाश्विचित्राच्युतेष्वारार्क्यंशदिनोदयादिरहिते लग्ने स्थिरे चोभये । पक्षे पूर्णनिशाकरे प्रतिपदं रिक्तां विहायाष्टमीं षष्ठीमष्टमशुद्धिभाजि भवने प्रोक्ता - क्षरस्वीकृतिः ॥' पुरजित् = भार्द्रा, उभये - द्विस्वभावराशौ । अत्र वचने पुण्यानुपादानं ग्रंथे लघुपदेन कृतमिति तञ्चित्यम् ॥ ३७ ॥ अथैवमक्षरग्रहणे दृढे संजाते सति विद्यारंभमुहूर्त पंचचामरेणाहमृगात्कराच्छुतेनयेऽश्विमूलपूर्वि कात्रये १९७ गुरु जीववित्सितेऽह्नि षट्शरत्रिके । शिवार्कदिद्विके तिथौ ध्रुवत्यमित्रभे परैः शुभैरधीतिरुत्तमा त्रिकोणकेंद्रगैः स्मृता ॥ ३८ ॥ मृगादिति ॥ मृगाश्रये मृगार्द्रापुनर्वसुषु कराये हस्तचित्रास्वातीषु श्रुतेः श्रवणन्त्रये श्रवणधनिष्ठाशतभिषासु अश्विन्यां मूले पूर्विकात्रये पूर्वाफल्गुनीपूर्वाषाढापूर्वाभाद्रपदासु गुरुद्वये पुण्याश्लेषयोस्तथा सूर्यगुरुशुक्रवाराणां १ अत्र ‘सूर्यगुरुबुधशुक्रवाराणां' इति पाठो युक्तः । मूले प्रमाणोक्तौ च विच्छब्ददर्शनात् । Page #214 -------------------------------------------------------------------------- ________________ १९८ मुहूर्तचिंतामणिः। [अंकुरार्पणमुहूर्तः दिने च सति अधीतिर्विद्यानामध्ययनमुत्तमा स्मृता । यदाह श्रीपतिः-'मृगादिपंचस्वपि भेषु मूलहस्तादिके च त्रितयेऽश्विनीषु । पूर्वात्रये च श्रवणे च तद्वद्विद्यासमारंभमुशंति सिद्ध्यै ॥' इति । तद्वदिति श्रवणत्रये इत्यर्थः । तदेतत्स्पष्टमुक्तं महेश्वरेण-'हस्तादित्रितये तथा निर्ऋतिभे पूर्वोत्यभेष्वश्विनीमित्रः च मृगादिपंचसु शुभः प्रारंभ आद्यैः स्मृतः । विद्यानां हरिभात्रये च दिवसे सूरे गोर्वा विदोऽनध्यायाख्यतदाद्यवर्जिततिथौ केंद्रस्थितैः सदाहैः ॥' इति । अयमेव च ग्रंथकृदाशयः । अत एवाह विश्वप्रकाशपद्धतौ गुरुः"मृगादिपंचके हस्तत्रिके विष्णुत्रिकाश्विभे । मैत्रांत्यमूलपूर्वासु विद्यारंभः शुभे दिने ॥' इति । वयं तु तद्वदिति पदं विद्यासमारंभपदेन संबद्धमस्तीति व्याकुर्मः । अत एवाह वसिष्ठः- पूर्वानये मूलमृगादिपंचके तथाश्विनीषु त्रितये च हस्तात् । सविष्णुधिष्ण्येष्वथ सर्वविद्याप्रारंभ इष्टः शुभवासरेषु ।' इति । यद्येषोऽभिप्रायो न स्यात्तदा 'पूर्वात्रये च श्रवणत्रये च' इति ब्रूयाच्छ्रीप'तिः। अनयोर्वाक्ययोर्यथासंप्रदाय व्यवस्था। शुभवासरेष्वित्यत्र चंद्रव्यतिरिक्ताः शुभवासरा गृह्यते । यदुक्तं रत्नमालायाम्-'विद्यारंभः सुरगुरुसितज्ञेष्वभी. 'ष्टार्थदायी कर्तुश्चायुश्विरमपि करोत्यंशुमान्मध्यमो वा । नीहारांशी भवति जडता पंचता भूमिपुत्रे छायासूनावपि च मुनयः कीर्तयंत्येवमाद्याः॥' नीहारः= हिमम् । पंचता-मरणं । यत्तु भोजेनोक्तम्-'विद्यारंभे गुरुः शस्तो मध्यमौ भृगुभास्करौ । मरणं शनिभौमाभ्यामविद्या बुधसोमयोः ॥' इति । अत्राविद्याऽनवधारणमन्यथाज्ञानं वा तदेतद्धनुर्विद्याविषयम् । तद्वाक्यमधुनैव मया वक्ष्यते । षडिति । षष्ठीपंचमीतृतीयैकादशीद्वितीयानामन्यतमतिथावधीतिः कार्या । 'अनध्यायाख्यतदाधवर्जिततियौ' इति महेश्वरोक्तेः । अनध्यायांस्तु व्रतबंधे वक्ष्यति। ध्रुवेति । अत्राऽपिशब्दाध्याहारेण ग्रंथो योज्यस्तथा सत्यन्यैराचार्यै(वात्यमित्रभे रोहिण्युत्तरात्रयरेवत्यनुराधास्वप्यधीतिरुत्तमा । एतदपि धनुर्विद्याविषयम् । तदुक्तं दीपिकायाम्-'अदितिगुरुयमार्कस्वातिचित्राग्निपित्र्यध्रुवहरिवसुमूलावींदुभाग्यांत्यभेषु । विशनिशशिबुधाहे विष्णुबोधेऽपि पौषे सुसमयतिथियोगे चापविद्याप्रदानम् ॥' इति । ग्रंथेऽनुराधोक्तिस्तु महेश्वरवाक्यालोचनेन । अथ लग्नबलं । शुभैर्ग्रहैस्त्रिकोणकेंद्रगैः सद्भिरधीतिरुत्तमा स्मृता 'केंद्रस्थितैः सद्हैः' इत्युक्तेः । केंद्रग्रहणं त्रिकोणोपलक्षणम् । विशेषमाह नृसिंह:-'शुभाः पापाच रंध्रस्थाः सर्वे नेष्टाः सदा ग्रहाः। भ्रातृषष्ठायकर्मस्थाः पापाः सर्वे शुभावहाः॥ शुभाः केंद्र त्रिकोणस्था धनभ्रातृगताः शुभाः। सर्वे लाभे प्रशस्ताः स्युरक्षरग्रहणे शिशोः ॥' इति । अक्षरग्रहणं विद्योपलक्षणम्। इति विद्यारंभः॥अथ समस्तशुभकर्मभ्यः प्राग्विहितोऽकुरार्पणमुहूर्तो ग्रंथकृदनुक्तोऽप्यस्माभिरुच्यते । तत्र मंगलात् प्राक् तृतीयपंचमसप्तमनवमदिवसे सौम्यवारेषु बीजवापोक्तनक्षत्रेष्वंकुरारोपणं कार्यम् । यदाह नारदः-'कर्तव्यं मंगलस्यादौ मंगलायांकुरार्पणम् । नवमे सप्तमे वापि पंचमे दिवसेऽपि वा। तृतीये बीजनक्षत्रे शुभवारे शुभोदये । सम्यग्गृहानलंकृत्य वितानध्वज. १ अत्र ‘दशमी'युक्तः पाठो युचितः, मूले शिवार्कदिगित्यत्र दिक्शब्दोपादानात् । Page #215 -------------------------------------------------------------------------- ________________ काम्यकालः] संस्कारप्रकरणम् ५। १९९ तोरणैः ॥ माशिषो वाचन कार्य द्विजैः पुण्यांगनादिभिः । सहवादित्रनृत्यायैर्गत्वा प्रागुत्तरां दिशम् ॥' प्रागुत्तराम् ऐशानीम् । तत्र मृत्सिकतं श्लक्ष्णं गृहीत्वा पुनरागतः । मृन्मयेष्वथवा सम्यग्वेणुपात्रेषु पूरयेत् । अनेकबीजसंयुक्तं तोयपुष्पोपशोभितम् ॥' शौनकः-'आधानं गर्भसंस्कारं जातकर्म च नाम च ॥ हित्वान्यत्र विधातव्यं मंगलांकुरवापनम् ॥ प्रदोषकाले कुर्वीत पूर्वाह्ने वा न रात्रिषु । वास्तुकर्मणि काले च स्याद्दिवैवांकुरार्पणम् ॥' गुरुः'आत्यंतिकेषु कार्येषु कार्य सद्योऽकुरार्पणम्' । काश्यपेन कालविधाने तु विशेषोऽभिहित:-'हस्तस्वातीविरिञ्चासुरपितृमरजिन्मित्रपौष्णार्यसार्पपाथोनाथोत्तरासु क्रिययुवतिधनुर्वृश्चिके कामरिक्ते । हित्वा पर्वासुरेज्यामरगुरुशशिविद्वारलग्नांशके स्यादुप्तः बीजवापः शशिनि शुभयुते चाष्टमे शुद्धियुक्ते ॥' इति । असुरः मूलम् ॥पाथोनाथः शततारका ॥ इति मुहूर्तचिंतामणिटीकायां अंकुरार्पणमुहूर्तः ॥ ३८॥ अथ प्रतबंध इति । विंशतिपयैः प्रोच्यत इति शेषः । तत्र व्रतबंधप्रयोजनमाह-'अथातः संप्रवक्ष्यामि चोपनायनमुत्तमम् । द्विजत्वकरणं श्रौतसातकर्मप्रसाधनम् । आद्यं सर्वाश्रमाणां च देहसंस्कारकारणम् । अनेन कर्मणा सर्वे संस्कृताः सर्वदेहिनः ॥ तत्संस्कारं लग्नवशात्तस्माल्लग्नं प्रवच्मि तत् ॥' इति । तस्य कालत्रिविधः-नित्यः काम्यः गौणश्च । तत्र क्रमेण त्रिविधमपि कालं शार्दूलविक्रीडितेनाहविप्राणां व्रतबंधनं निगदितं गर्भाजनेर्वाष्टमे वर्षे वाप्यथ पंचमे क्षितिभुजां षष्ठे तथैकादशे । वैश्यानां पुनरष्टमेऽप्यथ पुनः स्याद्वादशे वत्सरे कालेऽथ द्विगुणे गते निगदिते गौणं तदाहुर्बुधाः ॥३९॥ विप्राणामिति ॥ अत्र नित्यं काम्यं च तावदुच्यते । विप्राणां ब्राह्मणानां गर्भाष्टमे गर्भदिनमारभ्याष्टमे सौरवर्षेऽथवा जनेरुत्पत्तिदिनात्सौरवर्षेऽष्टमे सति व्रतबंधनं निगदितम् । इदं नित्यम् । अथ काम्यं विप्राणामेव पंचमे गर्भाजनेर्वा वर्षे कार्यम् । एवं क्षितिभुजां क्षत्रियाणां गर्भाजनेर्वा षष्ठे वर्षे काम्यमुपनयनम् । तथा गर्भाजनेर्वा एकादशे सौरवर्षे नित्यमुपनयनम् । वैश्यानां पुनस्तथैवाष्टमे वर्षे काम्यमथ तथैव द्वादशे वर्षे नित्यमुपनयनम् । यदाह नारदः-'आधानादष्टमे वर्षे जन्मतो वाग्रजन्मनाम् । राज्ञामेकादशे मौजीबंधनं द्वादशे विशाम् ॥' इति । अत्रावेष्ट्यधिकरणन्यायेन राजपदं क्षत्रियपरं। अत्र फलाश्रवणान्नित्यमित्यवसीयते । तथा च काम्यकालमाह मनु:-'ब्रह्मवर्चसकामस्य कार्य विप्रस्य पंचमे । राज्ञो बलार्थिनः षष्ठे वैश्यस्यार्थिनोऽष्टमे ॥' इति । अत्र फलश्रवणात्काम्यता । पैठीनसिना गर्भपंचमेऽपि व्रतबंधनमुक्तम्'गर्भपंचमेऽब्दे ब्राह्मणमुपनयेत्' इति तुल्यन्यायत्वात्क्षत्रियविशोरपि गर्भषष्ठे Page #216 -------------------------------------------------------------------------- ________________ मुहूर्तचिंतामणिः। [व्रतबंधे नक्षत्रादि गर्भाष्टमे वेति द्रष्टव्यम् । यत्तु-'गर्भाष्टमेषु ब्राह्मणमुपनयेद्गभैंकादशेषु राजन्य गर्भद्वादशेषु वैश्यम्' इत्यापस्तंबगृह्यसूत्रे गर्भाष्टमेष्वित्युक्तं तत्र गर्भाष्टमेषु इति बहुत्वान्यथानुपपत्या गर्भषष्ठगर्भसप्तमगर्भाष्टमेषु सौरवर्षेष्विति वृत्ति. कृप्याख्यानात्रयाणामपि नित्यकालता। एवं गभैंकादशेष्वित्यादावपि व्याख्यानं ध्येयं । तत्तु तच्छाखाध्यायिविषयम् । केचित्तु पंचमवर्षारंभात्षोडशवर्षपर्यतं काम्यकाल इत्याहुः । यथाह विश्वप्रकाशपद्धतावापस्तंबः-'पंचमे विद्यापुत्रकामः षष्ठे तु धनकामः सप्तमे ब्रह्मवर्चसकामोऽष्टमे त्वायुष्कामो नवमे तेजस्कामो दशमेऽन्नाद्यकाम एकादश इंद्रियकामो द्वादशे पशुकामस्त्रयोदशे जयकामश्चतुर्दशे पौरुषकामः पंचदशे पूर्णकामः षोडशे राजकामः' इति । तदप्यापस्तंबशाखाध्यायिविषयं द्रष्टव्यम् । अथ गौणकाल उच्यते-'निगदिते प्रोक्ते 'गर्भाजनेर्वाष्टमे' इत्यादिके काले तस्मिन् द्विगुणिते गते गंतुं प्रवृत्ते । आदिकर्मणि क्तः । तथा सति तद्रतबंधनं गौणकालमाहुः । यथा स्वस्वोक्तनित्यकालाद्राह्मणस्य षोडशवर्षपर्यतं क्षत्रियस्य द्वाविंशतिवर्षपर्यतं वैश्यस्य चतुविशतिवर्षपर्यतं गौणमित्यर्थः । यदाह मनु:-'आषोडशाब्राह्मणस्य सावित्री नातिवर्तते । भाद्वाविंशाब्रह्मबंधोराचतुर्विशतेर्विशः॥' ब्रह्मबंधोः क्षत्रियस्य । 'अत ऊर्ध्वं त्रयोऽप्येते यथाकालमसंस्कृताः । सावित्रीपतिता व्रात्या भवंत्यार्यविगर्हिताः॥' इति । गौणकालातिक्रमेऽपि याज्ञवल्क्येन विशेषोऽभिहितः'मत ऊर्ध्व पतंत्येते सर्वधर्मबहिष्कृताः । सावित्रीपतिता व्रात्या व्रात्यस्तोमाइते क्रतोः ॥' इति । अत एव 'न ब्राह्मणः पतनमृच्छति' इति गौतमस्मरणमपि संगच्छते। अत्र ब्राह्मणग्रहणं त्रैवर्णिकोपलक्षणमन्यथा सावित्रीपतिता व्रात्या इति बहुवचनमनर्थकमापद्येत ॥ ३९ ॥ अथ व्रतबंधे नक्षत्रादिकं वसंततिलकयाह क्षिप्रध्रुवाहिचरमूलमृदुत्रिपूर्वा रौद्रेर्कविद्गुरुसितेंदुदिने व्रतं सत् । द्वित्रीषुरुद्ररविदिक्प्रमिते तिथौ च ___ कृष्णादिमत्रिलवकेपि न चापराहे ॥४०॥ क्षिप्रेति ॥ नन्विदमयुक्तं प्रतिभाति । त्रैवर्णिकस्य त्रिविधमपि कालमभिधायेदानीमेतेषु मासेषु व्रतबंधः कार्य इति वक्तुमुचितं तद्विहायैव नक्षत्राधुतमिति चेत् । उच्यते-अहो देवानांप्रियस्य महदज्ञानविलसितं, यत् 'गीर्वाणांथुप्रतिष्ठा' इत्यादिपद्यं न बुद्ध्वा च जागर्तितरामिति । यतो द्विविधः काल:उत्तरायणरूपो दक्षिणायनरूपश्चेति । तत्र दक्षिणायने व्रतबंधनिषेधादुत्तरायणं मासषट्कात्मकं प्रशस्तमित्यर्थाद्गम्यत एव । यथा 'अभक्ष्यो ग्राम्यशूकरः' इत्युक्त आरण्यः शूकरो भक्ष्य इति गम्यते । शुक्रास्ते न कर्तव्यमित्युक्ते शुक्रोदये कर्तव्यमिति भवद्वदनादेवावसीयते । अत एव व्रतबंधे नारदेनोक्तम्-'दृश्यमाने Page #217 -------------------------------------------------------------------------- ________________ निंद्यनक्षत्राणि] संस्कारप्रकरणम् ५। २०१ गुरौ शुक्रे शाखेशे चोत्तरायणे' इति । एवं सत्यपि किंचिद्विशेषावगत्यर्थ मासा उच्यतेऽसाभिः। तत्र वसंते ब्राह्मणस्य ग्रीष्मे राजन्यस्य शरदि वैश्यस्य मुख्यकालमुपनयनं माघादिपंचमासेषु तु त्रैवर्णिकस्य साधारणकालमिति । यदाह वसिष्ठः-'विप्राणामुपनयनं वसंतसमये धराधिनाथानाम् । ग्रीष्मौ शरदि विशां मासाः साधारणाश्च माघाद्याः ॥' इति । कश्यपोऽपि-'ऋतौ वसंते विप्राणां ग्रीष्मे राज्ञां शरद्यथ । विशां मुख्यं च सर्वेषां द्विजानां चोपनायनम् ॥ साधारणं च मासेषु माघादिषु च पंचसु ।' एषां मासानां फलान्याह नारद:-'स्वकुलाचारधर्मज्ञो माघमासे तु फाल्गुने । विधिज्ञश्चार्थवांश्चैत्रे वेदवेदांगपारगः । वैशाखे धनवान्वेदशास्त्रविद्याविशारदः। उपनीतः कुलाब्यः स्याज्येष्ठे विधिविदां वरः ॥' इति । भत्र कैश्चिच्चंडेश्वराचैर्माघादिषण्मासानां फलान्यभिहितानि-'माघे द्रविणशीलाढ्यः फाल्गुने च दृढव्रतः। चैत्रे भवति मेधावी वैशाखे कोविदो भवेत् ॥ ज्येष्ठे तु गृहनीतिज्ञ आषाढे ऋतुभाग्भवेत् । मार्गशीर्षे भवेद्रष्टः शेषे दुःखमवाप्नुयात् ॥' इति । अत्राषाढो हरिशयनाप्रागेवांगीकार्यो न परस्तात् । तत्रापि मिथुनस्थिते सूर्य न कर्कस्थे दक्षिणायनांतःपातित्वात्तस्येति । तदेतदुपेक्ष्यं, प्रागुक्ताऽऽर्षवाक्यस्वरसात् । किं च मिथुनस्थितेऽपि सूर्ये ततः सार्धषदिवसानंतरं व्रतबंधादिनिषेधात् 'आदिके स्वातिविरामकाले नक्षत्रवृंदे दशके रविश्चेत् । विवाहचौलव्रतबंधनायं सुरप्रतिष्ठादि न कार्यमेव ॥' इति वसिष्ठादिवचनात् । उत्तरायण इति नारदवाक्यं तु दक्षिणायननिषेधपरमित्यास्तां प्रसक्तानुप्रसक्तम् । क्षिप्रेति । क्षिप्राणि अश्विनीपुष्यहस्ताः, ध्रुवाणि प्रसिद्धानि, अहिराश्लेषा, चराणि श्रवणधनिष्ठाशतभपुनर्वसुस्वात्यः, मूलमृदूनि प्रसिद्धानि, तिस्रः पूर्वाः, रौद्रमार्दा; एषु द्वाविंशतिभेषु व्रतबंधनं सत् शुभफलदातृ भवेत् । उक्तं च-'प्राजापत्यादिषडक्षे भगादिषु पंचसु । मूलादिदशके चैव समैत्रे व्रतबंधनम् ॥' इति । अर्थागरणीकृत्तिकामघाविशाखाज्येष्ठासु न कार्यमित्यर्थः । एतानि सर्वशाखानक्षत्रमेलकाभिप्रायेणोक्तानि । मुख्यानि त्वाह वसिष्ठ:--'हस्तत्रये च श्रवणत्रये च धातृद्वये त्र्युत्तरमैत्रभेषु । पौष्णद्वये चादितिभद्वये च शस्तं द्विजानां खलु मौंजिकर्म ॥' इति । द्विजानां ब्राह्मणक्षत्रियवैश्यानाम् । कश्यपोऽपि'मैत्रे विष्णुनये हस्तत्रयः चोत्तरात्रये । धातृद्वयादितीज्यांत्यदस्रःषूपनायनम् ॥' इति । अर्थादाश्लेषाभरणीकृत्तिकाज्येष्ठाविशाखामघापूर्वात्रयमूलानि निंद्यानि ऋषिमते। तदाह गुरुः-'कृत्तिकाभरणीमूलज्येष्ठाासु विशाखयोः। पूर्वात्रये च सार्पः न कुर्यादौपनायनम् ॥' चकारान्मघायाम् । ब्राह्मणस्य पुनर्वसौ निषेधमाह राजमार्तडः-'चंद्रतारानुकूलेषु ग्रहाब्देषु शुभे. ध्वपि । पुनर्वसौ कृतो विप्रः पुनः संस्कारमर्हति ॥' इति । अन्यत्रापि मर्यते'यहःस्पृशि मले मासि शूद्रत्वमधिगच्छति' इति । तत्र विप्रः, कृतः, इति पदद्वयोपादानादितरयोः क्षत्रियविशोः पुनर्वसौ व्रतबंधो ब्राह्मणस्य मेखलामोक्षश्च प्रशस्त इत्यर्थः । केचित्तु केनचिन्निमित्तेन कर्मनाशानदीतरणाद्यनेकदुष्टकृत्येन पुनःसंस्कारप्रसक्तौ सत्यां विप्रः पुनर्वसौ पुनःसंस्कारमर्हतीति न व्रतबंध Page #218 -------------------------------------------------------------------------- ________________ २०२ मुहूर्तचिंतामणिः । [ व्रतबंधे शस्ता वाराः निषेध इत्येवं व्याचक्षते, तञ्चित्यम् । यतः - - 'जीवार्केन्द्रडुशुद्धौ हरिशयनबहिर्भास्करे चोत्तरस्थे स्वाध्याये वेदवर्णाधिप इह शुभदे क्षौरभे नाऽदितौ च । शुक्रार्केज्यर्क्षलग्ने रविमदनतिथिं प्रोह्य षष्ठाष्टमेंदु नो जीवास्तातिचारेऽर्कसितगुरुदिने कालशुद्धौ व्रतं स्यात् ॥' इति दीपिकायां पुनर्वसुनक्षत्रविषयक - व्रतबंधस्यैव सामान्यतो निषेधोक्तेः विशेषवचनात् ब्राह्मणे एव निषेधः पर्यवसन एकवाक्यताबलात्, पुनर्वसुनिषेधः श्लोकद्वयेऽपि पूर्वार्धस्यानन्वयाच्च । अयं चाचारः प्राच्यानाम् । दाक्षिणात्यास्त्वेतन्नांगीकुर्वते देशाचाराभावात् । उक्तं च वराहेण—‘देशाचारस्तावदादौ विचिंत्यो देशे देशे या स्थितिः सैव कार्या । लोके दुष्टं पंडिता वर्जयंति दैवज्ञोऽतो लोकमार्गेण यायात् ॥' अत्र विहितनक्षत्रेषु वेधादिदोषास्त्याज्याः । तदुक्तं दीपिकायाम् — 'कर्ण - वेभे विवाहे च व्रते पुंसवने तथा । प्राशने चाद्यचूडायां विद्धमृक्षं परित्यजेत् ॥' इति । अत्र वेधः सप्तशलाकाचक्रस्थो द्रष्टव्यः । तदाह वसिष्ठः'पंचशलाकाचक्रे पाणिग्रहणे भवेद्धि विधिरुक्तः । शस्तः शुभमित्रकृतः सप्तशलाकाज इतरत्र ॥' इति । इतरत्र यज्ञोपवीतचौलान्नप्राशनसीमंतादिष्वित्यर्थः । चक्रन्यासः खरोदये – 'तिर्यगूर्ध्वगता रेखाः सप्तसंख्या लिखेदुधः । कृत्तिकादीनि भान्यत्र साभिर्जिति क्रमेण च ॥' इति । भुक्तं भोग्यं तथाक्रांतं विद्धं पापग्रहेण च । शुभाशुभेषु कार्येषु वर्जनीयं प्रयत्नतः ॥ यस्याभिधाननक्षत्रं विद्धं क्रूरग्रहेण तु । देशो ग्रामः पुरं सैन्यं नरो नारी बिनइयति ॥' इति । अशुभेषु = युद्धादिषु । दीपिकायाम् — 'कृत्तिकादिचतु:सप्तरेखा राशौ परिभ्रमन् । ग्रहश्वेदेक रेखास्थो वेधः सप्तशलाकजः ॥' इति । ग्रंथकृता तु विवाहप्रकरणे सप्तशलाकाचक्रोक्तिं विनैव परस्परवेधकनक्षत्रवृंदं सिद्धवत्कृत्याभिहितम् । नन्वत्रावसरप्रसंगात्कुतो नोक्तमिति चेत् । सत्यम्, - ‘यस्याः शशी सप्तशलाकभिन्नः पापैरपापैरथवा विवाहे । रक्तांशुकेनैव च रोदमाना श्मशानभूमिं प्रमदा प्रयाति ॥' इति दीपिकाकारवचनात् । . एवं सति विवाहनक्षत्राणामेव वेधज्ञानार्थं पंचशलाकाचक्रं विचार्यम् । सप्तशलाकाचक्रं पुनर्विवाहादौ सकलकर्मविहितनक्षत्रवेधज्ञानार्थं ज्ञेयमित्ययं . निष्कृष्टोऽर्थः । अयमेव च विवाहप्रकरणे चत्रोक्तौ ग्रंथकर्तुराशय इत्यलं प्रस.तानुप्रसक्तेन । वेध उपलक्षणम्, तेन युतिलत्तापातादयो विवाहोक्ता दोषा अपि त्याज्याः । तदुक्तं वसिष्ठेन - 'निहितं त्रिविधोत्पातैः क्रूराक्रांतं च विद्धभं त्वखिलम् । त्याज्यं तच्छुभकर्मणि न पादतः पातधिष्ण्यं च ॥' इति । नारदोऽपि वीक्षिते वाथैकविंशतिमहादोषवर्जिते' इति व्रतबंधप्रकरणे उक्तवान् । वीक्षित इति पूर्वेण संबंधः । ते च दोषा विवाहप्रकरणे वक्ष्यते ग्रंथकृता । अर्केति । सूर्यबुधगुरुशुक्रचंद्रदिवसेषु व्रतं सत्स्यात् । अर्थाद्भौमशनी निषिद्धौ । तदाह नारदः - ' आचार्यकाव्यसौम्यानां वाराः शस्ताः शशीनयोः । वारौ तौ मध्यफलदौ निंदितावितरौ व्रते ॥' इति । आचार्य: = गुरुः। काव्यः=शुक्रः। जगन्मोहने गुरुस्तु - 'पापग्रहाणां वाराः स्युर्न शुभाचंद्रवासरः । सिते पक्षे प्रशस्तः स्यात्कृष्णे वारो विधोर्नहि ॥ शुभो बुधो 1 1 Page #219 -------------------------------------------------------------------------- ________________ २०३ व्रतबंधे शस्तो दिनविभागः] संस्कारप्रकरणम् ५ । नास्तमितः पापग्रहयुतोऽपि वा' इति रविवारं निषेधति स्म । अत्र सूर्यस्य प्राबल्यदौर्बल्ययोर्व्रतबंधस्य विधिनिषेधाविति विषयविवेकः । भौमस्तु निषिदोsपि सामवेदिनामतिप्रशस्तः । यदाह नारदः - ' शाखाधिपतिवारश्च शाखाधिपबलं शिशोः । शाखाधिपतिलग्नं च त्रितयं दुर्लभं व्रते ॥' इति । ग्रंथहृदय वक्ष्यति । द्वीति । द्वितीयातृतीयापंचम्येकादशीद्वादशीदशमीसंज्ञितासु तिथिषु च व्रतं सत्स्यात् । यदाह नारदः - 'शुक्लपक्षे द्वितीया च तृतीया पंचमी तथा । त्रयोदशी च दशमी सप्तमी व्रतबंधने ॥ श्रेष्ठास्त्वेकादशीषष्ठीद्वादश्येतास्तु मध्यमाः । एकां चतुर्थी संत्यज्य कृष्णपक्षेsपि मध्यमाः ॥' इति । तिथिफलान्याह बादरायणः - 'प्रतिपदि मदिरासक्तः श्रुतिधरमेधाधिको द्वितीयायाम् । नीतिज्ञो मेधावी जितसकलारिस्तृतीयायाम् ॥ मंदधिया हृतचित्तोऽधीतंश्चपलश्चतुर्थ्यां स्यात् । पंचम्यां बहुवित्तः पूर्णायुर्धनपतिर्मतिमान् ॥ षष्ठ्यामशुचिः सततं सप्तम्यां व्याधिसंतप्तः । अल्पायुरथाष्टम्यां नवमे धनवर्जितः सदा पुरुषः ॥ दशम्यामर्थ संपत्तिरेकादश्यां गुणान्वितः । द्वादश्यां नीतिशास्त्रज्ञो निधनाय त्रयोदशी । चतुर्दश्यां भवेन्नाशः पंचदश्यां क्षयो भवेत् ॥' इति । अत्र वाक्ये मध्यमापि षष्ठी निषिद्वैव । अत एव ग्रंथकृता नोक्ता । मध्यमे एकादशीद्वादश्यावतिप्रशस्ते । ननु 'सप्तमीत्रयोदश्योरनेन वाक्येनानिष्टफलोक्तेर्नारदवाक्ये कथं ग्रहणम् ? किंच'कृष्णपक्षे चतुर्थीति सप्तम्यादिदिनत्रयम् । चतुर्दशीचतुष्कं च भ्रष्टावेते गलग्रहाः ॥' इति वसिष्टेन गलग्रहत्वोक्तेश्च । उच्यते, — वसंतविषयत्वात्तयोतिथ्योः । तदप्युक्तं नारदेनैव - ' विनर्तुना वसंतेन कृष्णपक्षे गलग्रहे । अपराहे चोपनीतः पुनः संस्कारमर्हति ॥' इति । अथवा माघशुक्ल सप्तमी मन्वादिस्तस्या अपि ग्रहणं यथा स्यात् । अत एव मन्वाद्याद्यपवादमाह वसि - —' या चैत्रवैशाखसिता तृतीया माघे च सप्तम्यथ फाल्गुनस्य । कृष्णे . द्वितीयोपनये प्रशस्ता प्रोक्ता भरद्वाजमुनींद्रमुख्यैः ॥' इति । अत्र चैत्रशुक्लतृतीया युगादिः वैशाख शुक्ल तृतीया युगादिः माघशुक्ल सप्तमी मन्वादिः फाल्गुनपूर्णिमोत्तरं द्वितीया चातुर्मास्यद्वितीया, आसामनध्यायत्वेऽपि व्रतबंधे प्राशस्त्यसद्भाव इत्यर्थः । अनध्यायत्वं च सप्रयोजनं 'शुचिशुक्र - १ (५।५४) इत्यादिपद्यव्याख्यानावसरेऽस्माभिर्वक्ष्यते । कृष्णादिमेति । विहितमासानां कृष्णपक्षस्यादिने त्रिलवके पंचमीपर्यंतं सत्स्यात् । नारदवाक्ये शुक्लपक्षस्योक्तेः 'आपंचम्यास्तिथेः कृष्णः शुक्लवत्परिकीर्तितः' इति वचनेनापवादनोक्तेः । 'एकां चतुर्थी संत्यज्य कृष्णपक्षेऽपि मध्यमाः । आपंचम्यास्तु तिथयः पराः स्युरतिनिंदिताः ॥' इति नारदस्याप्युक्तेश्च । वसिष्ठोऽपि - ' त्यक्त्वा चतुर्थीमपि कृष्णपक्षे त्वाद्यं त्रिभागं शुभदं व्रते च' इति । न चेति । त्रिधाविभक्तस्य दिवसस्य यो भागाः क्रमेण पूर्वाह्नमध्याह्नापराह्नसंज्ञका भवन्ति । उक्तं च स्कंदपुराणे - 'ऊर्ध्व सूर्योदयात्प्रोक्तं मुहूर्तानां तु पंचकम् । पूर्वाह्नः प्रथमः प्रोक्तो मध्याह्नस्तु ततः परम् । अपराह्नस्ततः प्रोक्तो मुहूर्तानां तु पंचकम् ॥' १ अधीत उपनीत इत्यर्थः । ठः Page #220 -------------------------------------------------------------------------- ________________ २०४ मुहूर्तचिंतामणिः । [व्रतबंभे लमशुद्धिः इति । तत्रापराहृभागे च व्रतं न सत् , 'अपराह्ने चोपनीतः पुनःसंस्कारमर्हति' इत्युक्तेः । युक्तं चैतत् । तस्मिन्समये हि श्राद्ध कर्तुमुचितं नतु इतरच्छुभकृत्यम् । यदाह नारदः-'विधा विभज्य दिवसं तत्रादौ कर्म दैविकम् । द्वितीये मानुषं कार्य तृतीयेऽशे तु पैतृकम् ॥' इति । एतस्य फलमुक्तं मनुना-'सर्वदेशेषु पूर्वाह्ने मुख्यं स्यादुपनायनम् । मध्याह्ने मध्यमं प्रोक्तमपराह्ने च गर्हितम् ॥' इति । एवं सति पूर्वाह्ने कदाचिल्लग्नासंभवे मध्याह्नसमयेऽपि सति लग्नसंभवे कार्यमपराह्ने तु सर्वथा न कार्यमिति निष्कृष्टोऽर्थः ४० अथ व्रतबंधे सामान्यतो लग्नभंग प्रमाणिकयाह- कवीज्यचंद्रलग्नपा रिपौ मृतौ व्रतेऽधमाः। व्ययेऽजभार्गवौ तथा तनौ मृतौ सुते खलाः ॥४१॥ - कवीज्येति ॥ अत्र लग्नार्थ राशयः सापवादा वसिष्ठेनोक्ताः-'लग्नाय सौम्यग्रहराशयो ये ग्राह्या न पापग्रहराशयो ये । ग्राह्याश्च तेऽपि प्रबलैश्च सौम्यैरधिष्ठिताश्चापि निरीक्षिता वा ॥' अत एवाह नारदः-'राशयः सकलाः श्रेष्ठाः शुभग्रहयुतेक्षिताः ॥' इति । एवं सति जगन्मोहने वसिष्ठेन प्रत्येक लग्नफलान्युक्तानि-'मेषे भवति वाकुंठो वित्तविद्यायुतो वृषे । युग्मे वेदांतदर्शी स्यात्कुलीरे च षडंगवित् ॥ शिल्पकर्मकरः सिंहे षष्ठे भवति पंडितः । तुलायां वणिजप्राप्तिः कांडपृष्ठश्च वृश्चिके ॥ कांडपृष्ठः शस्त्रजीवी । सर्वत्र पूजितश्चापे शूद्रवृत्तिर्मंगे तथा । राजप्रेक्षो भवेत्कुंभे मीने वेदांतपारगः ॥' इति । तानि लग्नानां शुभाशुभग्रहाणामुत्तमनिंद्याधिष्ठाननिरीक्षणाद्यभावे द्रष्टव्यानि । यदा तु संभवस्तदा 'यथा हि योगादमृतायते विषं विषायते मध्वपि सर्पिषा समम्' इति वचनाद्योगजमेव फलं भवति । तत्र रिपौ षष्ठस्थाने मृतावष्टमस्थाने चेच्छुक्रबृहस्पतिचंदलग्नस्वामिनो भवंति तदाऽधमा मरणकारकाः स्युः । अथाब्जभार्गवौ चंद्रशुक्रो व्यये चेद्भवतस्तदा मरणकरावित्यर्थः । खलाः पापग्रहा लग्नाष्टमपंचमस्थानेषु स्थिताश्चेत्तदा तथा मरणकरा इत्यर्थः ॥ ४१ ॥ अथ सामान्यतो लग्नशुद्धिमनुष्टुभाहव्रतबंधेऽष्टषरिःफवर्जिताः शोभनाः शुभाः । त्रिषडाये खलाः पूर्णो गोकर्कस्थो विधुस्तनौ ॥ ४२ ॥ व्रतेति ॥ शुभाः शुभग्रहा अष्टमषष्ठद्वादशस्थानस्थिताश्चेन्न स्युस्तदा व्रतबंधे शोभनाः शुभफलदायकाः । खलास्तृतीयषष्ठैकादशस्थानस्थिताः शोभनाः । यदाह नारद:-'त्रिषडायगतैः पापैः षडष्टांत्यविवर्जितैः । शुभैः षष्ठाष्टलग्नांत्यवर्जितेन हिमांशुना ॥' दैवज्ञमनोहरे गुरुः–'लग्नस्थितेषु रंध्रे च पापेषु मरणं बटोः । सौख्यं स्यात्रिषडायेषु जडत्वमितरेषु च ॥ चंद्र Page #221 -------------------------------------------------------------------------- ________________ वर्णाधीशाः शाखाधीशाच] संस्कारप्रकरणम् ५। २०५ क्रूरास्तनौ नेष्टाः सर्वे रंधे व्यये कविः । सितेंदुलग्नपाः षष्ठे मौजीविद्यादिकर्मसु॥ मौजीबंधे विशेषेण प्राग्लग्नापंचमं तथा । क्रूरग्रहैविमुक्तं च भृगुराह तथाष्टमं ॥' दाक्षिणात्यास्त्वेवमाहुः-'चंद्रक्रूरास्तनौ नेष्टाः सर्वे रंध्रे व्यये कविः । सितेंदुलग्नपाः षष्ठे बटोः प्राणापहारकाः ॥' अत्र शुक्रस्य मरणरूपफलमुक्तं, तदेतत्प्राच्या न सहते-'व्ययस्थानगताः सर्वे कुर्वन्ति व्ययशीलिनम् । खलं नीचं पापरतं बंधुहीनं विदेशगम् ॥' इति वसिष्ठादिमुनिविरोधात् । नन्वेतादृशदुष्टफलश्रवणाद्वादशशुक्रो निषिद्ध एवेति चेन्न । एवं सति द्वादशस्थानानां सर्वेषामपि वर्जनीयत्वमापतेत् । तञ्च तवापि संमतं नास्ति । 'सर्वत्र शुभकृच्छुक्रः षष्ठसप्ताष्टमं विना' इति कश्यपोक्तेश्च । विशेषो वसिष्ठेनोक्तः'द्वादशस्थं रविं भौमः पश्यन्नाचार्यनेत्रहा । बलिनं वलवानूनमचिरान्नात्र संशयः॥सर्वे ग्रहाश्चाष्टमगा निधनाधनशोकदाः। विना स्वतुंगस्वाधिमित्रगान शुभवर्गगान् ॥ आचार्यमशुभा नंति शिष्यं नंत्यशुभेतराः॥ अस्यापवादस्तेनैवोक्तः-'चंद्रात्मरारिरंधेषु यद्येकसिञ्छुभग्रहः ॥ स्थितोऽधियोगसंज्ञः स्याच्छुभयोगो द्विजन्मनाम् ॥ केंद्र त्रिकोणगे जीवे भानुः शुक्रोऽथवा व्यये। द्वितीये शे शुभो योगो द्विजानामुपनायने ॥' इति । गुरुः-'मेषगोकर्कटान् याता भौमशुक्रंदवः क्रमात् । यमोदये भवेद्योगो द्विजोपनयने शुभः॥' इति । यमोदये%3 मिथुनलमोदये । कर्केति । पूर्णः शुक्लपक्षीयो विधुः कर्कस्थो वृषस्थश्च सन् तनौ लग्नस्थितो यदि भवेत् तदैव शुभो नान्यथा । यदाह वसिष्ठः-'प्रालेयरश्मौ यदि लग्नसंस्थे वलक्षपक्षेऽपि भवेत्स रोगी' इति । गुरुश्व-'चंद्रोदयेऽभिशस्तः स्यात्क्षयरोगी सितेतरे। शुक्लपक्षे भवेद्यज्वा स्वभे तुंगे विशेषतः॥' इति । चंद्रे उदये इति पदच्छेदः । मध्येदुरितिवत्समाधिः । युक्तं चैतत् । उपनयनं हि द्वितीयं जन्म । तत्र हि राशिविशेषेण लग्नस्थचंद्रस्य प्राशस्त्यमभिहितम् । तथा च लघुजातके वराह:-'कर्कवृषाजोपगते लग्ने चंद्रे धनी सुरूपश्च । विकलांगजडदरिद्रः शेषे तु विशेषतः कृष्णे ॥' इति । कश्यपस्तूच्चस्थं लग्नस्थं चन्द्रं सदैव न्यषेधीत् । यथा-'वर्धमानोऽपि वा चंद्रः पूर्णो वा यदि तुंगगः । निःस्वं करोति प्रतिनं लग्नगः क्षयरोगिणम् ॥' इति । नारदोऽपि'स्वोच्चस्थितोऽपि शीतांशुव्रतिनो यदि लग्नगः ॥ तं करोति बटुं निःस्वं सततं क्षयरोगिणम् ॥' इति । तदेतयोरुञ्चस्थितचंद्रसंबंधिनोः पक्षयोर्देशाचारतो व्यवस्था । स्वगृहे चंद्रस्तूत्तम एव द्वयोर्मते ॥ ४२ ॥ अथ वर्णेशशाखेशयोः प्रयोजनस्य वक्ष्यमाणत्वाद्वर्णाधीशं शाखाधीशं च शालिन्याह विप्राधीशौ भार्गवेज्यौ कुजाकौं राजन्यानामोषधीशो विशां च । शूद्राणां ज्ञश्चांत्यजानां शनिः स्या च्छाखेशाः स्युर्जीवशुक्रारसौम्याः॥४३॥ १ 'प्राग्लग्नं पंचमं तथा' इति पाठांतरम् । लग्नात्प्रथमस्थानात्प्राक् इति प्राग्लग्नं । प्राग्लग्नादिति वा अव्ययीभावः । लग्नपूर्वं स्थानं द्वादशमित्यर्थः । १८ मु० चि. Page #222 -------------------------------------------------------------------------- ________________ २०६ मुहूर्तचिंतामणिः। [वर्णेश-शाखेशादिफलं विप्रेति ॥ विप्राधीशाविति समासांतर्गतमपि अधीशपदं अन्यत्रामुषज्यते । तेन शुक्रबृहस्पती ब्राह्मणानां स्वामिनौ, भौमसूर्यौ क्षत्रियाणां स्वामिनौ, चंद्रो वैश्यानां स्वामी, बुधः शूद्राणां स्वामी, शनिरंत्यजानां चांडालादीनां प्रतिलोमजातीनां स्वामी । यदाह वराहः-'विप्रादितः शुक्रगुरू कुजाकों शशी बुधश्चेत्यसितोऽत्यजानाम्' इति । स्वामिनाविति पूर्वशेषः । 'ऋग्वेदोऽथ यजुर्वेदः सामवेदो ह्यथर्वणः' इति वेदक्रमात् जीवशुक्रारसौम्याः शाखेशाः स्युः । ऋग्वेदस्य गुरुः, यजुषः शुक्रः, सानो भौमः, अथर्वणो बुधः स्वामीत्यर्थः । यदाह नारदः-वेदानामधिपा जीवशुक्रभौमबुधाःक्रमात्' इति। 'ऋग्यजुःसामशाखेशा गुरुशुक्रधरात्मजाः । अथर्वणस्य वेदस्य शाखेशश्चंद्रनंदनः ॥' इति वसिष्ठोक्तेश्च ॥ ४३ ॥ अथानयोर्वर्णेशशाखेशयोः प्रयोजनं वसंततिलकयाहशाखेशवारतनुवीर्यमतीव शस्तं शाखेशसूर्यशशिजीवबले व्रतं सत् । जीवे भृगौ रिपुगृहे विजिते च नीचे स्थाद्वेदशास्त्रविधिना रहितो व्रतेन ॥ ४४ ॥ शाखेशेति ॥ यः स्वशाखाधिपस्तस्यैव वारस्तनुर्लग्नं च वीर्य च गोचरोक्तप्रकारेण स्वगृहाद्यवस्थितत्वेन वा बलवत्त्वं च तद्रतेऽतिशस्तम् । यथा-गुरुः ऋग्वेदिनामीशोऽतो गुरुवारे गुरुलग्ने धनुर्मीनाख्ये गुरुबले च सत्युपनयनं शुभम् । एवं सर्वत्रापि ध्येयम् । तदुक्तं नारदेन-शाखाधिपतिवारश्च शाखाधिपबलं 'शिशोः। शाखाधिपतिलग्नं च त्रितयं दुर्लभं व्रते॥' शाखेशेति। शाखा वेदस्तस्येशः स्वामी तुल्यन्यायत्वाद्वर्णेशोऽपि ग्राह्यः । सूर्यशशिजीवाः प्रसिद्धाः । एषां बले सति व्रतं सत्स्यादन्यथा नेत्यर्थः । तदुक्तं च वसिष्ठेन-'शाखेशसूर्यवर्णेशगुरूणां बलपूर्वकम् । ततोऽन्येषां गुरुबलं मुख्यमाचार्यशिष्ययोः ॥' राजमार्तडे विशेषः-'पितुः सूर्यबलं श्रेष्ठं शाखावर्णेशयोर्बटोः । सर्वेषां गुरुचंद्वार्कबलं श्रेष्ठ व्रतादिषु ॥' इति । रत्नमालायाम्-'वर्णाधिपे बलोपेते उपनीतक्रिया हिता । सर्वेषां च गुरौ चंद्रे सूर्ये च बलशालिनि ॥' इति । भीमपराक्रमः-'विप्राणां गुरुसितयो राज्ञां रविभौमयोर्बलं शस्तम् । इंदोविशां रवींदुत्रिदशेज्यबलेऽखिलानां तु ॥' नारदेन तु प्रत्येक शाखेशादीनां उच्चादिस्थितत्वेन फलमुक्तम्-'स्वोच्चसंस्थे तदंशे वा स्वराशौ वा तदंशके । शाखेशे वा गुरौ शुक्रे वेदवेदांगपारगः ॥ परमोच्चगते जीवे शाखेशे वाथवा सिते । व्रती शिशुधनाढ्यः स्याद्वेदवेदांगपारगः ॥ मित्रराशिगते जीवे तदंशे वा स्वशाखपे । शुक्रे वाचार्यसंयुक्ते तदा तत्र व्रती शिशुः ॥ स्वाधिमित्रगृहस्थे वा तस्योच्चस्थे तदंशके । गुरौ भृगौ वा शाखेशे विद्याधनसमन्वितः ॥' इति । शाखेश इत्युपलक्षणम् । तेन वर्णाधिपेऽप्येतदेव फलम् । अत्र प्रमाणं Page #223 -------------------------------------------------------------------------- ________________ २०७ व्रतबंधेऽयनविचारः] संस्कारप्रकरणम् ५। रत्नमालावाक्यं प्रागुक्तम् । शाखेशादीनां निर्बलत्वे फलमाह-जीवेति । जीवे वा भृगौ वा चकाराच्छाखेशे वर्णेशे वा विजिते युद्धे पराजिते वा नीचे स्वनीचराशिस्थिते सति व्रतेनानुष्ठितेन सता वेदशास्त्रविधिना वेदो वेदाध्ययनं शास्त्रं शास्त्राध्ययन विधिनित्यनैमित्तिकश्रौतस्मातकर्मानुष्ठानाख्यस्तेषां समाहारद्वंद्वस्तेन रहितो व्रती स्यात् । तदुक्तं वसिष्ठेन-'नीचर्वानीचांशकसंस्थिते वा शाखेश्वरे वास्फुजितींद्रपूज्ये । व्रती शिशुहीनकुलप्रसूतः शास्त्रोपजीवी स्वगृहं विसृज्य ॥' नारदेनापि-'स्वनीचगे तदंशे वा स्वारिभे वा तदंशके । गुरौ भृगौ वा शाखेशे कुलशीलविवर्जितः॥ स्वाधिशत्रुगृहस्थे वा तदंशे वा तदा व्रती । शाखेशे वा गुरौ शुक्रे महापातककृद्भवेत् । शाखेशे इत्युपलक्षणं वर्णाधिपस्यापि । तदुक्तं वसिष्टेन-'शाखेशगुरुशुक्राणां मौढ्ये बाल्ये च वार्धके। नैवोपनयनं कार्य वर्णेशे दुर्बले सति ॥' इति । 'शाखेशगुरुशुक्राणामेकस्मिञ्छत्रुनिर्जिते । विद्यावित्तार्थिभिस्तत्र न कार्य चोपनायनम् ॥' अत्र नीचाद्य. वस्थितत्वेऽपि शाखेशादेः परिहारमाह वसिष्ठ एव-'शत्रुनीचाधिशत्रुस्थे स्वांशे वा स्वोच्चभागगे। शाखेशे वा गुरौ शुक्रे न नीचफलमश्नुते ॥' इति । उच्चादिसंज्ञामाह वराहः-'अजवृषभमृगांगनाकुलीरा झषवणिजौ च दिवाकरादितुंगाः। दश १० शिखि ३ मनुयुक् २८ तिथी १५ द्रियांशै ५ स्त्रिनवक २७ विंशति २० भिश्च तेऽस्तनीचाः ॥' स्वगृहादिकं ग्रंथकृद्विवाहप्रकरणे वक्ष्यति । ननु शुक्रे शत्रुगृहस्थे नीचगृहस्थे वा बटोरुपनयनं निषिद्धमित्युक्तं, तदयुक्तम् । शुक्रशत्रू रविचंद्रौ तद्गृहे सिंहककौं तन्नीचं च कन्या, ततः कर्कसिंहकन्याराशिस्थे शुक्रे बटोरुपनयनं न कार्यमिति तु वाक्यार्थः संपद्यते। यदा शुक्रस्य कर्कादिराशित्रयावस्थितिस्तदा सामान्यतः सूर्यस्यापि दक्षिणायनगतत्वादेवोपनयननिषेधे सिद्धे पुनर्निषेधो व्यर्थः । अत्रेयं समाधिसरणिः। यथा-यद्यपि सामान्यतः सूर्यस्य दक्षिणायनगतत्वं संभवति तथापि विशेषः कदाचिदसंभवोऽप्यापतति । स्पष्टीकृतिवशतो हि सूर्यात्प्राक् पश्चाद्वा एकराश्यंतरितो राशिद्वयांतरितो वा शुक्रः संभवति तदा कर्कादिराशिस्थे सूर्ये शुक्रस्य स्पष्टीकृत्या कर्कसिंहराश्यवस्थितिः संभवतीति उपनयनकालदूषिका व्यथैव । दक्षिणायनसद्भावात् । यदा तु वृषमिथुनस्थिते सूर्ये स्पष्टीकृत्या कर्कसिंहराश्यवस्थितिः शुक्रस्य संभवति विहितकालदूषिकेति सार्थक एव निषेधः । ननु शत्रुक्षेत्रावस्थितशुक्रनिषेधोऽभिहितरीत्या युक्त एव, परं नीचराश्यवस्थितशुक्रनिषेधो व्यर्थ एव । यतः स्पष्टीकृत्या जातोऽपि कन्यास्थितः शुक्रः कदाचिदपि दक्षिणायनं न व्यभिचरते । सत्यम् । 'शरद्रीष्मवसंतेषु व्युत्क्रमात्तु द्विजन्मनाम् । मुख्यं साधारणं तेषां व्रतं माघादिपंचसु ॥' इति नारदादिवाक्येभ्यः शरत्काले वैश्यानामुपनयनं विहितमित्यवगम्यते । तत्र कदाचिच्छुक्रस्य नीचराशिकन्यावस्थित्योपनयननिषेधेन वचनसार्थक्यात् । यदा तु-'विप्रस्य क्षत्रियस्यापि मौंजी स्यादुत्तरायणे । दक्षिणे तु विशां कुर्यान्नानध्याये न संक्रमे ॥' इति वृद्धवसिष्ठवाक्याद्दक्षिणायनेऽपि १ 'कर्कादिराश्यवस्थितिः' इति पाठः । Page #224 -------------------------------------------------------------------------- ________________ २०४ मुहूर्तचिंतामणिः। [जन्ममासो मौंज्यां शस्तः वैश्यानां मौजी प्रशस्ता, तदा तु सुतरां शुक्रस्य शत्रुगृहनीचगृहस्थितत्वदो. षोक्तिः सार्थिकैवेति । ननु शत्रुगृहस्थे गुरावप्युपनयनं निषिद्धमित्युक्तम् । तत्र गुरोः शत्रू बुधशुक्रौ, तद्गृहाणि मिथुनकन्यावृषतुलाख्यानि, तत्स्थे गुरौ बटोरुपनयननिषेधो नीचस्थितगुरुवच्छिष्टैः कुतो नांगीक्रियत इति । उच्यते,-तत्र शिष्टाशयो यथा-गुरोरस्ते सिंहस्थे मकरस्थे वा गुरौ समस्तशुभकर्मणां आरंभो निषिद्धो दोषप्रकरणे पाठात् । स्वनीचग इत्यादिवाक्यस्योपनयनप्रकरण एव पाठादनावश्यकता प्रतीयते । आवश्यकत्वे तु दोषप्रकरण एव निषेधो वक्तव्यः स्यात् । न च तत्रोक्तौ सकलशुभकर्मणां निषेधः स्यादिति वाच्यम् । स्वनीचग इत्यस्य वाक्यस्य शेषे 'कुलशीलविवर्जितः' इति चरणरूपे 'मौंजीबंधं न कारयेत्' इति पठितव्यमिति तस्यैव निषेधः सेत्स्यति । ननु मौंजीबंधनपदमुपलक्षणत्वेन व्याख्यास्यते । यथा-'उपनयनं गोदानं चोद्वाहगृहप्रवेशगमनानि । अस्तमितेषु न कुर्यात्सुरगुरुभृगुपुत्रचंद्रेषु ॥' इत्यादिषु उपनयनादिपदानि । सत्यम् । सर्वत्रोपलक्षणत्वं वाक्यांतराणि विना व्याख्यातुं दुर्घटम् । अत्र हि-'वापीकूपतडागयागगमनम्' इत्यादिऋक्षोच्चयादिवाक्यैकवाक्यतावशादुपनयनादिपदानि उपलक्षणत्वेन व्याक्रियते न केवलानि । सदृशवाक्यांतराभावात् । एवं सति दोषप्रकरण एव निषेधे वक्तव्ये यदुपनयनप्रकरणे दोषाभिधानं तद्बटोः कालांतरे संभवति वृषमिथुनकन्यातुलास्थे गुरावुपनयनं न कार्यमित्येवंपरम् । तदसंभवे तु भवत्येव कालांतराभावात् । नीचस्थितगुरौ तु सर्वथा न भवति दोषप्रकरणे पाठाद्गुर्वाधस्तवत् । नीचराशिगतत्वेन निषेधे सिद्धे तदंशकनिषेधो राश्यंतरगेऽपि गुरौ नीचांशकहान्यर्थमित्यलमतिप्रसंगेन ॥ ४४ ॥ . अथ सामान्यतो निषिद्धस्य जन्ममासादेरत्र व्रतबंधेऽपवादमनुष्टुभाह जन्मक्षमासलग्नादौ व्रते विद्याधिको व्रती। आद्यगर्भेऽपि विप्राणां क्षत्रादीनामनादिमे ॥४५॥ जन्मक्षैति ॥ जन्मनक्षत्रे जन्ममासे जन्मलग्ने च आदिशब्देन जन्मतिथि: एतेषु सत्स्वपि दोषेषु विप्राणामाद्यगर्भे अपिशब्दावितीयगर्भादावपि व्रती बालो व्रते यज्ञोपवीते विद्याधिकः स्यात् । क्षत्रादीनां क्षत्रियवैश्यानां पुनरनादिमे द्वितीयगर्भाधे बालके सति जन्मक्षमासलग्नादौ विद्याधिको व्रती स्यात् । आद्यगर्भे तु तेषां सर्वथा प्रतिषेध एवेति । अत्रायमाशयः । श्रीपतिः-'जन्ममासि न च जन्मभे तथा नैव जन्मदिवसेऽपि कारयेत् । आद्यगर्भदुहितुः सुतस्य वा ज्येष्ठमासि न च जातु मंगलम् ॥' इति । अत्राद्यगर्भदुहितुः सुतस्य वेति देहलीदीपन्यायेनोभयत्रापि संबध्यते । तेन जन्ममासादावाद्यगर्भस्यैव निषेधः । तथा च 'संभवत्येकवाक्यत्वे वाक्यभेदो हि दूषणम्' इति वाक्यभेदानापत्तेः । अत एव महेश्वरः-'न जन्ममासे न च जन्मधिष्ण्ये न जन्मकालीनदिने विदध्यात् । ज्येष्ठे न मासि प्रथमस्य Page #225 -------------------------------------------------------------------------- ________________ प्रतबंधे गुरुबलं] संस्कारप्रकरणम् ५। सूनोस्तथा सुताया अपि मंगलानि ॥' इति वाक्यांते प्रथमस्येत्यायुक्तवान् । अन्यच्च नारदोऽपि-'न जन्ममासे जन्म: न जन्मदिवसेऽपि वा। आद्यगर्भसुतस्याथ दुहितुर्वा करग्रहः ॥' इति विशेषाच्च । अस्यापवादमाह शौनकः-'जन्मोदये जन्मसु तारकासु मासे तथा जन्मनि जन्मराशौ । व्रतेन विप्रो न बहुश्रुतोऽपि प्रज्ञाविशेषैः प्रथितः पृथिव्याम् ॥ गर्भाष्टमे गर्गपराशराद्यैः फलं यदुक्तं व्रतबंधने तु । ततोऽधिकं जन्मसु तारकासु मासे तथा जन्मनि वाडवानाम् ॥' वाडवानां ब्राह्मणानाम् । 'द्विजात्यग्रजन्मभूदेवाडवाः' इत्यभिधानात् । प्रथमदशमैकोनविंशतिनक्षत्राणां ग्रहणार्थ जन्मतारकास्वित्युक्तम् । पबंधने इत्यादि नारदवाक्यं प्रागुक्तमेव । गर्भाष्टमोपनयनफलमाह राजमार्तड:-'यज्वा वसंतसमये बहुवित्तभोगी गर्भाष्टमे विविधशास्त्रविशारदस्तु । वेदार्थपालनपरः खलु जन्ममासे ऋक्षेऽपि जन्मनि बहुऋतुभाजनं स्यात् ॥' ननु 'विवाहे चोपनयने जन्ममासं च वर्जयेत् । विशेषाजन्मपक्षं तु वसिष्ठाद्यैरुदाहृतम् ॥' इति जगन्मोहने गर्गवचनं कथं संगच्छेतेति चेत्, सत्यम् , क्षत्रियाणां विशां चाद्यगर्भनिषेधार्थ भविष्यति । तथा सति द्वितीयगर्भादावुपनयनादिमंगलकृत्यं सुखोदकं स्यात् । विप्राणां तु वाडवानामिति विशेषोक्तेरायगर्भानायगर्भसाधारणमुपनयनं जन्ममासादौ कुत इति चेच्छणु । यो जन्ममासादौ निषेधः स आद्यगर्भस्यैव, सोऽप्युपनयनवाक्येनापोह्यते । द्वितीयगर्भादौ तु निषेध एव नास्ति, किं तदपवादेन ॥ ४५ ॥ अथ गुरुबलमनुष्टुभाह- बटुकन्याजन्मराशेत्रिकोणायद्विसप्तगः । श्रेष्ठो गुरुः खपव्याये पूजयान्यत्र निंदितः॥ ४६ ॥ बटुकन्येति ॥ बटुरुपनयनाधिकारी । उपलक्षणत्वाद्वरोऽपि । तथा कन्या स्त्रीजात्यपत्यम् । तजन्मराशेः नवपंचमैकादशद्वितीयसप्तमस्थानस्थितो गुरुः श्रेष्ठ उत्तमः । यदाह श्रीपतिः-स्वायधर्मतनययुनस्थितो नाकनायकपुरो हितः शुभः' इति । खेति । दशमषदतृतीयप्रथमस्थानस्थितो गुरुः पूजया धर्मशास्त्रोक्तपूजाविधानेन स्वनुष्ठितेन श्रेष्ठः । अन्यत्र चतुर्थद्वादशाष्टमाख्यनिंद्यस्थानस्थितः सन् द्विगुणत्रिगुणादिपूजया स्वनुष्ठितयापि निधो निषिद्ध इत्यर्थः । उक्तं च वराहेण-'दुश्चिक्यजन्मारिखमध्यभेषु जन्मझतो वांछति वज्रपाणेः। पूजां पुरोधा न स एव कांक्षत्यथाष्टमप्रांत्यरसातलस्थः ॥' इति । वसिष्ठेन तु विशेष उक्तः-'बंधौ तृतीये रिपुराशिसंस्थे वांछंति पूजां दशमे सुरेज्ये । नेच्छंति पूजां जनिगे व्ययस्थे पुरातना अष्टमगेऽपि सूरौ ॥' जनिगे= जन्मराशिस्थे । चतुर्थजन्मस्थगुरोः पूज्यत्वपूजानिरपेक्षत्वविषयिणी देशभेदेन व्यवस्था ध्येया। तत्र पूजानिरपेक्षेऽपि गुरौ गुणवद्वरोपलब्धौ कन्यायाः कालाति Page #226 -------------------------------------------------------------------------- ________________ २१० मुहूर्तचिंतामणिः। [गुरुदौष्ट्येऽपवादः क्रांताया विवाह उचितः । एतदप्युक्तं वराहेण-'पूजाभिलाषं प्रति निस्पृहेऽपि कुर्याद्गुरौ शुद्धिविवर्जितेऽपि । वराय्यलाभे शुभदं विवाहं वदंति गर्गच्यवनादिमुख्याः ॥' इति । अत्र चतुर्थद्वादशाष्टमस्थानस्थितत्वेन गुरोर्द्विगुणनिगुणादिकां पूजां विधाय विवाहः शुभ इति सांप्रदायिकोऽर्थः । विवाह इत्यु. पलक्षणं, तेन व्रतबंधोऽप्येवमेव ध्येयः । तदुक्तं नारदेन-'बालस्य बलहीनोऽपि शांत्या जीवो बलप्रदः । यथोक्तवत्सरे कार्यमनुक्ते नोपनायनम् ॥' इति । वसिष्ठेनापि-'उक्तेऽपि वर्षे न बली गुरुश्वेच्छांत्या प्रशस्तं व्रतबंधकर्म । मनुक्तवर्षे सुबलप्रदोऽपि नैवैतयोरब्दबलं बलीयः ॥' इति । अत्र वामवेधेन ये गुरुशुद्धिमाहुस्तान्दूषयति गर्गः-'मौजीबंधे विवाहे च प्रतिष्ठायां विशेषतः । गोचरेणैव कर्तव्यं वेधादिकमकारणम् ॥' इति । प्राच्यास्तु-गोचरबलाभावे अष्टवर्गबलेनैव व्रतबंधादिकमाहुः । यदाह राजमार्तड:-'भष्टवर्गविशुद्धेषु गुरुशीतांशुभानुषु । व्रतोद्वाही च कर्तव्यो गोचरेण कदापि म ॥' इति । उपलक्षणमेतत् । यत्र कर्मणि यस्य यस्य ग्रहस्य शुद्धिरपेक्षिता , तस्य तस्याष्टवर्गशुद्धिर्विचार्या । एतदप्याह स एव-अष्टवर्गेण ये शुद्धास्ते शुद्धाः सर्वकर्मसु । सूक्ष्माष्टवर्गसंशुद्धिः स्थूला शुद्धिस्तु गोचरे ॥ अभावतो गोचरशोभनानां शुद्धिं वदेदागुरिरष्टवर्गात् । वैधव्यकन्याक्षयहेतुयोगे जीवा'ष्टवर्गस्य वदेत्तु शुद्धिम् ॥' इति । तत्र गुरोरष्टवर्गो लिख्यते । बृहजातके वराहः-' दिस्वाद्यष्टमदायबंधुषु कुजात्स्वात्सत्रिकेष्वंगिराः सूर्यात्सत्रिनवेषुधीखनवदिग्लाभारिगे भार्गवात् । जायायार्थनवात्मजेषु हिमगोर्मदत्रिषट्धीव्यये दिग्धीषट्स्वसुखाय पूर्वनवगोज्ञासत्स्मरेषूदयात् ॥' इति । एवं सत्यामपेक्षायां सूर्यादीनामप्यष्टवर्गास्तत एव ध्येयाः । एवं जन्मकालीनग्रहवशादुक्तस्थाने रेखा दत्त्वा सांप्रतं विरुद्धफलदातृमहाधिष्ठितराशौ रेखाधिक्ये शुभमन्यथा नेति निष्कृष्टोऽर्थः । उक्तं च लघजातके-'विफलं गोचरगणितं ह्यष्टकवर्गेण निर्दिशेत्पुंसाम् । रेषाधिक्ये शुभदं बिंद्वधिकेनैव शोभनं प्रायः॥' अत्र प्रत्येकं रेखाफलमुक्तं यवनाचार्यैः-'कष्टं स्यादेकरेखायां द्वाभ्यामर्थक्षयो भवेत् । त्रिभिः क्लेशं विजानीयाश्चतुर्भिः समता मता ॥ पंचभिः क्षेममारोग्यं षड्भिरर्थागमो भवेत् । सप्तभिः परमानंदस्त्वष्टाभिः सर्वसंपदः ॥' इत्यलमतिप्रसंगेन ॥ ४६ ॥ अथ ग्रंथकृत्स्वमतेन गुरुदौष्ट्यापवादमनुष्टुभाह खोच्चे स्वभे स्वमैत्रे वा स्वांशे वर्गोत्तमे गुरुः। रिःफाष्टतुर्यगोऽपीष्टो नीचारिस्थः शुभोऽप्यसन् ॥ ४७ ॥ खोच्चे इति ॥ गुरुर्दादशाष्टमचतुर्थास्यनिंद्यस्थानस्थितोऽपि यदि स्वोच्चस्थाने कर्के स्वभे धनुर्मानाख्ये स्वमैत्रे स्वमित्रगृहे मेषवृश्चिकाख्ये स्वांशे थस्मिन् कस्मिंश्चिद्राशौ धनुर्मीननवांशे वर्गोत्तमे वर्गोत्तमनवांशे यथा वृषराशौं Page #227 -------------------------------------------------------------------------- ________________ व्रतबंधे वानध्यायादयः] संस्कारप्रकरणम् ५। ર वृषनवांशे गुरुः वर्गोत्तम इति । वर्गोत्तमलक्षणमुक्तं वराहेण-'वर्गोत्तमाश्चरगृहादिषु पूर्वमध्यपर्यतगाः शुभफला नवभागसंज्ञाः' इति । उपलक्षणत्वात्स्वोच्चादिनवांशेऽपि वा स्थितः स्यात्तदेष्टः शुभफलदांता । कैमुतिकन्यायेनाप्यन्येषु स्थानेष्वेतादृशो गुरुः शुभ एव । यदाह भुजबल:-'वोत्तमे स्वभवने भवनेऽथ मैत्रे मित्रांशके स्वभवनोच्चनवांशके वा । जन्माष्टरिःफरिपुखत्रिचतुर्थगोऽपि जीवः सुखार्थसुतवृद्धिकरो विवाहे ॥' व्यासोऽपि-'मित्रराशिगते जीवे स्वगृहे स्वोच्चगेऽपि वा । उद्वाहिता यदा कन्या भवेत्पुत्रार्थसंयुता ॥' इति । तुल्यन्यायत्वाद्रतादावपि ज्ञेयम् । ननु गुरोः सूर्यचंद्रौ मित्रे । एवं सति सिंहकर्कावित्यपि कुतो न व्याख्यातमिति चेन्न । सिंहस्थस्य गुरोः स्वरूपेणैव निषेध इत्युक्तं प्राक् । कर्कस्थो गुरुरुच्चस्थ एवेति पुनरुक्तिः । अतः साधीयः प्राग्व्याख्यातम् । नीचं मकरः, अरिस्थः मिथुनकन्यातुलावृषराशिस्थो गुरुः गोचरेण शुभोऽप्यसन् । अनिष्टफलदातेत्यर्थः । तदुक्तं ज्योतिनिबंधे-'उच्चस्थः स्वगृहे सुहृद्भवनगो वाचस्पतिर्नित्यशः पूर्णायुर्विविधार्थसौल्यजनको जन्माष्टमस्थोऽपि चेत् । नीचस्थोऽरिगृहे दिवाकरकरच्छायानुगामी सदापीष्टोऽनिष्टफलं ददाति नियतं वैधव्यदुःखास्पदम् ॥' इति । अत्राष्टमस्थ इत्यनेन सर्वथानिष्टफले गुरौ 'न चाष्टमं लक्षगुणं प्रपूजये दिति वचनात्पूजामनीहमानेऽप्युपनयनादि शुभं स्यात् । द्वादशचतुर्थस्थानस्थस्य तु द्विगुणपूजामिच्छतस्तथा तृतीयादिस्थानस्थस्य पूजामात्रापेक्षस्य गुरोः शुभफलदातृतास्तीति किं वक्तव्यमिति कैमुतिकन्यायसूचनार्थोऽपिशब्दः। 'न चाष्टमम् इति वाक्यं शत्रुगृहस्थितगुर्वभिप्रायम् । अस्यापवादो रत्नकोशेऽभिहित:-'गोचराष्टकवर्गाभ्यां यदि शुद्धिर्न लभ्यते । तदोपनयनं कार्य चैत्रे मीवगते रवौ ॥ हरौ सिंहांशके जीवे नीच: नीचभागगे । मौंजीबंधः शुभः प्रोक्तक्षेत्रे मीनगते रवौ ॥' इति गुरूक्तेश्च ॥ ४७ ॥ अथ व्रतबंधे वयंपदार्थाननुष्टुभाह कृष्णे प्रदोषेऽनध्याये शनौ निश्यपराह्नके । प्रासंध्यागर्जिते नेष्टो व्रतबंधो गलग्रहे ॥४८॥ कृष्णे इति ॥ एषु दुष्टपदार्थेषु सत्सु व्रतबंधो नेष्ट इति वाक्यार्थः । तत्र कृष्णे प्रथमत्रिभागरहिते कृष्णपक्षे 'आ पंचम्यास्तु तिथयः पराः स्युरतिनिंदिताः' इति नारदोक्तेः । तथा प्रदोषे यस्मिन् दिने संध्याकाले प्रदोषो भवेत्तदिवसे व्रतबंधो नेष्टः । प्रदोषलक्षणं स्वयमेव वक्ष्यति । अनध्यायेऽपि नेष्टः, अनध्यायानग्रे वक्ष्यति । शनौ नेष्टः । अत्र संमतिरुक्ता । निशि रात्री नेष्टः, अपराह्नकेऽपि नेष्टः । अत्र संमतिवाक्यं प्रागलेखि । इयं पुनरुक्तिः स्मरणाविच्छेदार्थम् । तथा प्राक्संध्या प्रातःसंध्या तस्यां गर्जिते मेघध्वनावनध्यायनिमित्ते सति नेष्टः । यदाह वसिष्ठः-'व्रतेऽति पूर्वसंध्यायां वारिदो Page #228 -------------------------------------------------------------------------- ________________ मुहूर्तचिंतामणिः । [ अनध्याये व्रतबंधनिषेधः " यदि गर्जति । तद्दिनं स्यादनध्यायो व्रतं तत्र विवर्जयेत् ॥' इति । संध्याक्षणं प्रागुक्तमस्माभिः । तथा गलग्रहे गलग्रहाख्ये दिवसे व्रतबंधो नेष्टः । गलग्रहानाह गुरुः - ' त्रयोदश्यादिचत्वारि सप्तम्यादिदिनत्रयम् । चतुर्थी चैकतः प्रोक्ता अष्टावेते गलग्रहाः ॥ ' यत्तु वसिष्ठेन - 'कृष्णपक्षे चतुर्थीति सप्तम्यादिदिनत्रयम् । त्रयोदशीचतुष्कं च अष्टावेते गलग्रहाः ॥ ' इत्यत्र कृष्णपक्षीयचतुर्थीग्रहणं कृतं तद्दोषाधिक्यप्रतिपत्त्यर्थम् नतु शुक्लपक्षीयचतुर्थ्या अग्रहणा`र्थम् । कुतः ? गुरुवाक्यस्य वैयर्थ्यापत्तेः । अत्र दैवज्ञमनोहरे- 'प्रदोषो निश्यनध्याये मंदे कृष्णे गलग्रहे । मधुं विनोपनीतस्तु पुनः संस्कारमर्हति ॥' इति । मधुं=चैत्रम्। ज्योतिर्मनुः - 'अनध्यायोपनीतस्तु पुनः संस्कारमर्हति । गलग्रहे प्रदोषे च स्वल्पायुरुपजायते ॥' इति । नन्वत्र रात्रिनिषेधो व्यर्थः । यतो दिवसे पूर्वाह्लादयस्त्रयः काला उपनयने श्रेष्ठमध्याधमा उक्ताः । यदाह मनुः -सर्वदेशेषु पूर्वाह्णे मुख्यं स्यादुपनायनं । मध्याह्ने मध्यमं प्रोक्तमपराह्णे च गर्हितम् ॥' तत्र 'अपराह्नोपनीतस्तु पुनः संस्कारमर्हति' इत्यपराह्न कालस्यातिनिषिद्धत्वात् कैमुतिकन्यायेन रात्रिरपि निषिद्धेति वाचनिको रात्रिनिषेधो व्यर्थ इति चेत्,सत्यम्; 'अंगवंगकलिंगेषु सौराष्ट्रमगधेषु च । तीर्थयात्रां विना गच्छन्पुनःसंस्कारमर्हति ॥' इति पुनः संस्कारनिमित्तापत्तौ निमित्तांतरमेव नैमित्तिकमिति न्यायेन पुनरुपनयने प्राप्ते यदि रात्रिसद्भावस्तदोपनयनं मा भूदिति रात्रिपदोक्तिः । अनयैव रीत्या प्रदोषोक्तिरपि सार्थिका । यतः सायंकालीन समयः प्रदोषशब्दवाच्यः, 'प्रदोषो रजनीमुखम्' इत्यमरोक्तेः । वयं तु- प्रदोषग्रहणाचद्दिने लक्षणविशिष्टः प्रदोषो भवेत्तद्दिनमुपनयने त्याज्यमिति ब्रूमः । यत्राराहूकालो निंदितस्तत्र प्रदोषस्तु सुतरां निंद्यः । इति प्रदोषग्रहणसामर्थ्यात् युनरुपनयन निषेधार्थ प्रदोषग्रहणमिति चेन्न । रात्रिपदवत्सर्वथा वैयर्थ्य सत्येवं गतिर्युक्ता । न च तदत्र पश्यामः । अत एव निबंधकर्तृभिरुपनयनप्रकरण एव प्रदोषलक्षणवाक्यानां लिखितत्वात् । यद्यपि तानि 'सर्वविद्याविघातकृत्' इति, 'ब्रह्म नाधीयते नरैः' इत्यादीनि सामान्यतो विद्यारंभवेदारंभविषयकाणि, तथापि प्रथमातिक्रमे कारणाभावादक्षरस्वीकारस्थल एव तल्लेखनस्य युक्तत्वादतः शिष्टाः सायं यद्दिने प्रदोषस्तद्दिने गलग्रहरहितेऽप्युपनयनं कुर्वति । उक्तं च शार्ङ्गधरीये – 'स्वाध्याये पूर्वाह्णे प्रदोषरहिते तथा विरिक्ते च । हित्वा शनिकुजवारौ स्वाध्याये पूर्वपरदिवसे च ॥' नन्वनध्यायेषु गलग्रहेषु च व्रतबंधो निषिद्ध इत्युकं तदयुक्तम् । विहिततिथ्यभावादेव भविष्यति । विहिताश्च तिथय इमाः द्वितीयातृतीयापंचमीषष्ठीदशम्येकादशीद्वादश्यो द्वित्रीष्वित्यादिनोक्ताः । उच्यते-द्विविधा अनध्यायाः - नित्या नैमित्तिकाश्च । नित्या अष्टम्यादयः, नैमित्तिका मन्वाद्यास्तत्र मन्वादिराषाढशुक्ल दशमी स्वाध्याय एव । सोपपदा अपि स्वाध्याया एव । संक्रांतिः कदाचित्स्वाध्यायेष्वपि स्यादित्येतासु तिथिषु व्रतबंधो मा भूदिति आसामनध्यायोक्तिः । चैत्रशुद्धवैशाखशुद्ध तृतीययोर्मन्वादियुगाद्योस्तु 'या चैत्रवैशाखसिता तृतीया' इत्यादिवसिष्ठवाक्येन वाचनिकं २१२ Page #229 -------------------------------------------------------------------------- ________________ खनवांशे चंद्रनवांशफलं] संस्कारप्रकरणम् ५। २१३ प्रतबंधविषयत्वम् । अन्यासां मन्वादिस्वाध्यायतिथीनां दक्षिणायनगतानामनध्यायत्वं प्रथमवेदारंभो मा भूदिति प्रयोजनम् । 'ब्रह्म नाधीयते नरैः' इति वाक्यांतेऽभिधानात् । वेदस्योपलक्षणात्सकलविद्यारंभोऽपि । एतच्च सामान्यतः सर्वासामप्यनध्यायतिथीनां प्रयोजनम् । मन्वादितिथिषु दानादिकमपि प्रयोजनं मर्यते । मत्स्यपुराणे-'मन्वंतरादयश्चैते दत्तस्याक्षयकारकाः' इति । अथ चतुर्दश्यादयो यद्यनध्याया नोच्येरंस्तदा विहितप्रतिषिद्धत्वाभावान्मध्यमत्वावसायस्तिथीनां स्यात्तत्र यथा स्वशाखीयनक्षत्रालाभे अनिषिद्धान्यन्यान्यपि नक्षत्राणि गृह्यन्ते तथा कदाचिद्विहिततिथ्यलाभे मध्यमतिथिष्वप्युपनयनं स्यात्तन्मा भूदित्येतदर्थ चतुर्दश्यादीनामनध्यायत्वम् । एतदेव समा. धानं तुल्यन्यायत्वाद्गलग्रहेष्वपि ध्येयम् । किंच-'विद्यारंभो व्रतोद्देशः क्षौर चैव विशेषतः। गलग्रहे न कर्तव्यं यदीच्छेत्पुत्रजीवितम् ॥' इति गुरुणा क्षौरादिनिषेधोक्तेश्च । क्वचिद्बहून्यपि कर्माणि गलग्रहे निषिद्धानि । उक्तं च'चूडाव्रतं तथोद्वाहं कर्णयोरपि वेधवम् । गलग्रहे न कर्तव्यं यदीच्छेत्पुत्रजीवितम् ॥' इत्यलमतिप्रसकानुप्रसक्तेन ॥४८॥ अथ व्रतबंधलग्ने रव्याचंशफलमनुष्टुभाह क्रूरो जडो भवेत्पापः पटुः षट्कर्मकृद्दुः । यज्ञार्थभाक्तथा मूर्यो रव्याचंशे तनौ क्रमात् ॥४९॥ ऋर इति ॥ षट्कर्माणि अध्ययनाध्यापनयजनयाजनदानप्रतिग्रहाः । उक्तं च व्यासेन-'यजनं याजनं चैव तथा दानप्रतिग्रही। अध्यापनं चाध्ययन षट्कर्मा धर्मभारिद्वजः ॥' इति । अन्यत्स्पष्टार्थम् । तदुक्तं रत्नमालायाम्'शन्यंशे झुदयति मूर्खतार्कभागे क्रूरत्वं भवति च पापधीः कुजांशे । चंद्राशे त्वतिजडता बुधे पटुत्वं यज्वत्वं गुरुभृगुभागयोगुणति ॥' इति । भीमपराक्रमोऽपि-'भवेत्क्रूरो जडः पापः पटुर्यज्वा मखान्वितः। मूर्खश्चार्कादिकांशेषु क्रमे णोदयवर्तिषु ॥' इति । एवं सति बुधगुरुशुक्रस्वामिकराशीनां नवांशा ग्राह्याः। एतच स्पष्टमुक्तं नारदेन-'लनेऽथ राशयः श्रेष्ठाः शुभग्रहयुतेक्षिताः । शुभा नवांशा न तथा ग्राह्यास्ते शुभराशयः ॥ न कदाचित्कर्कटांशः शुभग्रहयुतोऽपि वा । तस्माद्गोमिथुनात्याश्वतुलाकन्यांशकाः शुभाः॥' इति। अश्व: धनुः। तथा सति वृषमिथुनकन्यातुलाधनुर्मीनांशा ग्राह्या इति निष्कृष्टोऽर्थः ॥ ४९ ॥ अथ चंदनवांशफलं स्वनवांशे सापवादं मोटनकछंदसाहविद्यानिरतः शुभराशिलवे पापांशगते हि दरिद्रतरः। चंद्रे खलवे बहुदुःखयुतः कर्णादितिभे धनवान्खलवे ॥५०॥ विद्यानिरत इति ॥ यस्मिन् कस्मिंश्चिद्राशौ चंद्रो यदि शुभग्रहराशिनवांशे स्यात्तदा व्रती विद्यानिरतो भवेत् । यदि पापग्रहराशिनवांशे चंद्र Page #230 -------------------------------------------------------------------------- ________________ २१४ मुहूर्तचिंतामणिः। [चंद्रादियुतिफलं स्तदा दरिद्रतरो धनधान्यरहितः स्यात् । यदि स्वलवे कोशे स्यात्तदा बहुदुःखयुतो भवेत् । उक्तं च कश्यपेन-'शुभग्रहांशगे चंद्रे विद्यावान् धनवान् व्रती। तस्मिन्पापांशसंस्थेऽतिनिर्धनोऽखिलदुःखभाक् ॥ स्वांशसंस्थे निशानाथे दरिद्रः खलु दुर्जनः ॥' इति । वसिष्ठेन प्रत्येकं फलमुक्तम्'सूर्याशकगते चंद्रे महापातककृद्रती। पण्योपसेवी स्वांशस्थे नीचे निःस्वः खलो भवेत् ॥ कुजांशकगते चंद्रे शस्त्रजीवी खलो व्रती। बुधांशकगते चंद्रे वेदवेदी भवेत्पटुः ॥ जीवांशकगते यज्वा सांगवेदविशारदः । शुक्रांशगे धनी दाता विद्यावित्तविशारदः ॥ क्षिप्रोद्वाही यज्ञकृत्स्यात्सत्रदो भोगवाग्भवेत् । सौरांशकगते चंद्रे सदा चांडालसेवकः ॥' इति । अथ स्वांशस्थितस्य चंद्रस्यापवादमाह-कर्णेति । यदि कर्णे श्रवणनक्षत्रे अदितौ पुनर्वसुभे चोपनयने सति स्वांशः चंद्रस्य नवांशश्चेत्स्यात्तदा व्रती धनवान् स्यात् । तदुकं नारदेन-'श्रवणादितिनक्षत्रे कांशस्थे निशाकरे । तदा व्रती वेदशास्त्रधनधान्यसमृद्धिमान् ॥' इति ॥ ५० ॥ अथ केंद्रस्थानां सूर्यादीनां फलमनुष्टुभाह-- राजसेवी वैश्यवृत्तिः शस्त्रवृत्तिश्च पाठकः । प्राज्ञोऽर्थवान्म्लेच्छसेवी केंद्रे सूर्यादिखेचरैः ॥५१॥ राजसेवीति ॥ केंद्रे सूर्यादिग्रहैः सद्भिः प्रत्येकं हि तत्क्रमादिदं फलं ज्ञेयमित्यर्थः । अन्यत्स्पष्टम् । यदाह श्रीपतिः-'स्वानुष्टाने रतः स्यात्प्रचुरमतियुतः केंद्रसंस्थे सुरेज्ये विद्यासौख्यार्थयुक्तो ाशनसि शशिजेऽध्यापकश्च प्रदिष्टः । सूर्ये राजोपसेवी भवति धरणिजे शस्त्रवृत्तिद्धिजन्मा शीतांशी वैश्यवृत्तिर्दिनकरतनये सेवकश्चांत्यजानाम् ॥' अंत्यजानां-चांडालानाम् । भत्र लग्नस्थं चंद्रं केंद्रस्थं च शनि विना शुभाः पापाश्च शुभफला इत्यवगम्यते । मुनिभिस्तु केंद्रपापा निषिद्धा इत्युक्तम् । यदाह नारद:-'स्फूर्जितं केंद्रगे भानौ व्रतिनो वंशनाशनम् । कूजितं केंद्रगे भौमे शिष्याचार्यविनाशनम् ॥ करोति रुदितं केंद्रसंस्थे मंदे महागदम् । लग्ने केंद्रगते राही रंधे मातृविनाशनम् । उने केंद्रगते केतौ व्रतिवृत्तविनाशनम् ॥' इति । तत्र सूर्यस्य सर्वशाखाधिपत्वात्केंद्रसंस्थत्वमावश्यकविषयं द्रष्टव्यम् । उक्तं च दैवज्ञमनोहरे-'सर्वशाखाधिपं भानु केचिदूचुमहर्षयः । तस्माद्गत्यंतराभावे लमस्थोऽर्कः प्रशस्यते ॥' लग्नग्रहणं केंद्रोपलक्षणम् । तथा स्वगृहोच्चाद्यवस्थिताः पापग्रहाः केंद्रस्थाः शुभफलदातारोऽन्यथा नेत्यर्थः । इति विरुद्धार्थयोर्वचनयोर्विषयविवेकः ॥ ५१ ॥ __ अथ चंद्रगुरुशुक्राणां ग्रहयुतौ फलमनुष्टुभाह शुक्रे जीवे तथा चंद्रे सूर्यभौमार्किसंयुते । . निर्गुणः क्रूरचेष्टः स्यानिघृणः सद्युते पटुः ॥५२॥ शुक्र Page #231 -------------------------------------------------------------------------- ________________ चंद्रवशेन शुभाशुभयोगौ] संस्कारप्रकरणम् ५। २१५ शुक्र इति ॥ शुक्रे तथा जीवे गुरौ तथा चंद्रे च प्रत्येकं सूर्यसंयुते व्रती निर्गुणः स्यात् । एवं भौमसंयुते सति क्रूरचेष्टः क्रूरा हिंसनशीला चेष्टा हस्तादिचापलं यस्य स तादृशः स्यात् । तथार्किः शनिस्तेन संयुते निघृणः निर्लजो निर्दयो वा स्यात् । तथा तस्मिन्नेव शुक्रे जीवे चंद्रे वा प्रत्येकं सद्भिः चंद्रबुधगुरुशुक्रैः युते पटुः सर्वविद्यानिपुणः स्यात् । उक्तं च रत्नमालायाम्-'सार्के जीवे निर्गुणोऽर्थेन हीनः क्रूरः साऽऽरे वाक्पटुः सत्समेते । भानोः पुत्रेणालसो निघृणश्च स्थाच्छु–दू जीववत्संप्रकल्प्यौ ॥' इति ॥ ५२ ॥ अथ चंद्रवशेन शुभाशुभयोगौ प्रमाणिकयाहविधौ सितांशगे सिते त्रिकोणगे तनौ गुरौ । समस्तवेदविद्वती यमांशगेऽतिनिघृणः ॥ ५३॥ विधाविति ॥ विधौ चंद्रे शुक्रांशगे सति शुक्रे च नवमपंचमस्थानस्थिते गुरौ लग्नस्थे च सति व्रती बटुः समस्तांश्चतुरो वेदान्वेत्ति जानाति तादृशः स्यात् । एवं यमांशगे शनिनवांशस्थिते चंद्रे सति लग्ने गुरौ च सति सिते त्रिकोणगे सत्यप्यतिनिघृणः स्यात् । यदाह महेश्वरः-'जीवे लग्नमधिष्ठिते भृगुसुते धर्मात्मजस्थे विधौ । शुक्रांशेऽखिलवेदविद्रविसुतस्यांशे कृतनोऽधमः ॥' इति । अपरे तु गुरुशुक्रयुक्तेऽपि शन्यंशस्थे चंद्रे सत्यतिनिघृण इति व्याचक्षते । तदुक्तं रत्नमालायाम्-'लग्ने जीवे भार्गवे च त्रिकोणे शुक्रांशस्थे स्याद्विधौ वेदवेदी । सौरांशस्थे सूरिलग्ने सशुक्रे विद्याशीलप्रोज्झितः स्यात्कृतघ्नः॥' इति । सूरिलग्ने-सूरिबृहस्पतिस्तद्युक्ते लग्ने । इति व्रतबंधे लग्नविचारः ॥ ननु व्रतबंधे बटुराशितोऽष्टमभवनादिशुद्धिरुक्ता । यदाह वसिष्ठः-'न नैधनं नैधनशुद्धिलग्नं न नैधना न च तन्नवांशः। न नैधनेशो न तदंशको वा लग्ने प्रशस्तो न च रात्रिनाथः ॥' इति । सा ग्रंथकृता कुतो नोक्तेति । अत्र ग्रंथकृदाशयं वयं ब्रूमः-वीक्षिते वाथैकविंशन्महादोषविवर्जिते' इति नारदोक्तस्तेषां दोषाणां च विवाहप्रकरणे वक्ष्य. माणत्वात्तत्रापि दंपत्योरष्टमं लग्नमित्यपि दोषः सलक्षणो वक्ष्यते । तत्र दंपत्योरिति संस्कार्योपलक्षणम् तेन बटोरप्यष्टमभवने शुद्धिरुक्तैवेत्यत्र पुन नॊक्ता । यत्र तु एकविंशतिदोषविचारो नास्ति सीमंतादौ किंतु कतिपयदोषविचारस्तत्र तु साक्षादष्टमभवनशुद्धिरुक्ता, अग्रेऽपि यात्रादौ वक्ष्यते चेति । एवं चेन्नैधननवांशशुद्ध्यादि कुतो नोक्तम् ? सत्यम् । वक्तव्यमेवेति ब्रूमः । परंतु नारदाद्यनेकमुनिभिरप्रणीतत्वानोक्तमिति ग्रंथकृदाशयः । एवंविधे व्रतबंधलग्ने व्रतं कुर्यात् । तदाह नारदः-'शुभलग्ने शुभांशे वा नैधने शुद्धिसंयुते । लग्ने त्वन्यैः सौम्यखेटैः संयुते वा निरीक्षिते ॥ जीवार्कशुक्रचंद्रायैः पंचभिर्बलिभिर्घहैः । स्थानादिबलसंपन्नश्चतुर्भिर्वा बलान्वितैः ॥ वीक्षिते वाथैकविंशन्महादोषविवर्जिते ॥' इति । अथ सर्वथा यदि निर्दूषणं लग्नं न लभ्यते तदा का गतिरिति । उच्यते,-वेधादिमहादोषराहित्ये सत्यल्पदोषसत्त्वे Page #232 -------------------------------------------------------------------------- ________________ २१६ मुहूर्तचिंतामणिः। [अनध्यायविचारः गुणाधिक्ये च लग्नं साधीयो भवति । तदुक्तं नारदेन-'लग्नं सर्वगुणोपेतं लभ्यतेऽल्पैर्दिनैर्न तत् । दोषाल्पत्वं गुणाधिक्यं बहुसंमतमिष्यते ॥ दोषदुष्टो हि कालो यः सोऽपमाष्टुं न शक्यते ॥' इति । दोषदुष्टत्वं वसिष्ठेनोक्तम्-'दोषोऽप्येको गुणान्हंति तद्विरोधी गुणो न चेत् । पंचगव्यमयं पूर्णकुंभं मद्यलवो यथा ॥' इति । दोषः पापग्रहवेधादिः । अन्येऽपि दोषा अत्र व्रतबंधे वसिष्ठादिभिरुक्ताः-'ग्रहे रवींद्वोरवनिप्रकंपे केतू दमोल्कापतनादिदोषे । व्रते दशाहानि वदंति तज्ज्ञास्त्रयोदशाहानि वदंति केचित् ॥' श्रीपतिनिबंधे-'पौषादिचतुरो मासान्प्राप्ता वृष्टिरकालजा । व्रतं यात्रां विवाहं च वर्जयेत्सप्तवासरान् ॥' यत्तु गर्गवाक्यम्-'बहुवर्षे त्रिरात्रं स्यादल्पवर्षे तु वासरम् । यदि वर्षेदनध्याये तेनैव सह गच्छति ॥' इति । तद्गर्ज प्रकृत्याभिधानात् न केवलवृष्टौ दोषः अकालवृष्टौ तु दोष एवेति ॥ ५३ ॥ अथैवं व्रतबंधलग्नमभिधायेदानी दोषवत्त्वप्रतिज्ञाताननध्यायाजघनचपलार्ययाह शुचिशुक्रपौषतपसां दिगविरुद्रार्कसंख्यसिततिथयः । भूतादित्रितयाष्टमि संक्रमणं च व्रतेष्वनध्यायाः ॥५४॥ शचीति ॥ द्विविधा ह्यनध्यायाः-नित्या नैमित्तिकाश्च । तत्र आषाढशुक्लदशमी ज्येष्ठशुक्लद्वितीया पौषशुक्लैकादशी मन्वादिः माघशुक्लद्वादशी एता अनध्यायाख्याः सोपपदात्वात् । तदुक्तं स्मृतौ-सिता ज्येष्ठे द्वितीया च भाषाढे दशमी सिता । चतुर्थी द्वादशी माघे एताः सोपपदाः स्मृताः ॥' इति । • भूतेति।भूतं चतुर्दशी, तदादित्रितयं चतुर्दशीपूर्णिमाप्रतिपदः । कृष्णपक्षे च अमावास्या च तन्मध्ये । तथाष्टमी भूतादित्रितयं चाष्टमी चानयोः समाहारद्वंद्वे नपुंसकत्वे हस्वत्वं ज्ञेयम् । तथा संक्रमणं सूर्यस्य निरयनसंक्रांतिदिनं चकारात् “मन्वाद्यास्त्रितिथी मधौ' (११५७) इति पद्योक्ता मन्वादयो युगादयश्चानध्याया ज्ञेयाः । व्रतेष्विति पदमावश्यकत्वद्योतनार्थम् । यदाह गौतमः-पक्षद्वये चतुर्दश्योरष्टमीद्वितये तथा। पक्षादावपि पक्षांते ब्रह्म नाधीयते नरैः॥ ब्रह्म वेदः । हारीतेन विशेष उक्तः-'प्रतिपत्सु चतुर्दश्यामष्टम्यां पर्वणोर्द्वयोः । श्वोऽनध्यायाधशर्वर्या नाधीयीत कदाचन ॥' इति । श्वोऽनध्यायाद्यशर्वर्यामिति मन्वाधाधनध्यायविषयम् । चतुर्दश्यादिषु तु पूर्वदिने प्रदोषसद्भावादेवाध्ययनाभावः । फलं च ज्योतिःसारे-'अष्टमी हंत्युपाध्यायं शिष्यं हंति चतुर्दशी । अमावास्योभयं हंति प्रतिपत् पाठनाशिनी ॥' इति । वृद्धमनु:-'चातुर्मास्यद्वितीयासु मन्वादिषु युगादिषु । अष्टकासु च संक्रांतीः शयने बोधने हरेः ॥ अनध्यायं प्रकुर्वीत तथा सोपपदासु च ॥' इति । चातुर्मास्यद्वितीया गर्गेणोक्ताः-'आषाढफाल्गुनोर्जेषु या द्वितीया विधुक्षये । चातुर्मास्यद्वितीयास्ताः प्रवदंति महर्षयः ॥' इति । विधुक्षये कृष्णपक्षे । कृष्णादिमासगणनया चैत्रश्रावणमार्गशीर्षमासकृष्णपक्षसंबंधिन्यो Page #233 -------------------------------------------------------------------------- ________________ प्रदोषस्तत्फलं च] संस्कारप्रकरणम् ५। २१७ द्वितीयाश्चातुर्मास्यद्वितीया इत्यर्थः । अत एवोक्तं ज्योतिःसारसागरे'चातुर्मास्यसमाप्तौ तु या द्वितीया भवेत्तदा । सर्वास्तास्वनध्यायः पुराणैः परिकीर्तितः ॥' इति । चत्वारो मासाश्चातुर्मास्यमिति यौगिकशब्दः । ब्राह्मणादित्वात्स्वार्थे ष्यन् । तथा च स्मृत्यर्थसारे-आषाढी कार्तिकी फाल्गुनी पूर्णिमा प्रतिपद्वितीयासु च' इत्यनध्यायप्रकरणेऽभिहितम् । मन्वादयो युगादयश्चाधप्रकरणेऽभिहिताः । अष्टकास्तूक्ताः स्मृती'पौषादित्रिषु मासेषु कृष्णे चैवाष्टकात्रयम् । एका ज्ञेयाश्विने मासि हायने चतुरष्टकाः ॥ अष्टका च समुद्दिष्टा सप्तम्यादिदिनत्रयम् । नाधीयीत च शास्त्राणि व्रतबंधं च वर्जयेत् ॥' इति । अनध्यायप्रयोजनमाह वसिष्ठः-'पापांशकगते चंद्रे स्वाधिनीचस्थितेऽपि वा । अनध्याये चोपनीतः पुनःसंस्कारमर्हति ॥' इति । अत्रानध्याये इत्येतद्विहितानध्यायव्यतिरिक्तानध्यायविषयम् । अन्यथा'नैमित्तिकमनध्यायं कृष्णे च प्रतिपदिनम् । मेखलाबंधने शस्तं चौले वेदव्रतेस्वपि ॥' इति वसिष्ठवाक्यमनर्थकमापद्येत । नैमित्तिकानध्यायानां तर्हि किं प्रयोजनमिति चेत् । वेदाद्यध्ययननिवृत्तिरित्यवगच्छ । एवं सति 'नातः कालमपेक्षते' इति लौकिकन्यायादतीतकालस्य बटोः कालांतरप्रतीक्षामसहमानस्यावश्यकोपनयनविषयमिति निष्कृष्टोऽर्थः । अत एवोक्तं व्यासेन-'प्रशस्ता प्रतिपत् कृष्णे कदाचिच्छुभगे विधौ । चंद्रे बलयुते लग्ने वर्षाणामतिलंघने ।' इति । प्रतिपद्रहणं कैमुतिकन्यायसूचनार्थम् । नैमित्तिकानध्यायास्तु अस्माभिः 'मन्वाद्याः' (११५७) इति पद्यविवरणावसरे निरूपिताः ॥ ५४ ॥ अथ दोषवत्त्वप्रतिज्ञातान्प्रदोषाननुष्टुभाह अर्कतर्कत्रितिथिषु प्रदोषः स्यात्तदग्रिमैः । राव्यर्धसार्धप्रहरयाममध्यस्थितैः क्रमात् ॥ ५५ ॥ .. अर्केति ॥ अर्कतर्कत्रितिथिषु तदग्रिमैरर्कादितिथिभ्योऽग्रिमैस्त्रयोदशीसप्तमीचतुर्थीतिथिभिः राज्यर्धसार्धप्रहरयाममध्ये स्थितैरर्कत्रितिथिषु प्रदोषः स्यात् । यथा द्वादश्यामर्धरात्रात्प्राक् त्रयोदशीप्रवृत्तौ प्रदोषः स्यात् । षष्ठयां सार्धप्रहरमध्ये सप्तमीप्रवृत्तिः तदा प्रदोषः स्यात् ; तथा तृतीयायां प्रहरमध्ये चतुर्थीप्रवेशे प्रदोष इत्यर्थः । उक्तं च-'चतुर्थी प्रथमे यामे साधयामे च सप्तमी । यामद्वये त्रयोदश्यां प्रदोषः सर्वघातकः ॥' इति । इदं निर्मूलत्वादुपेक्ष्यम् । दीपिकाटीकायां तूपनयनपद्यव्याख्याने प्रदोषपरिज्ञानं चाह गर्ग इत्युक्त्वोक्तम्-'चतुर्थी याममेकं तु सार्धयामे च सप्तमी । अर्धरात्रं त्रयोदश्यां प्रदोषो रजनीमुखम् ॥ अत्र नाध्यापयेद्वेदं वेदांगानि च सर्वथा । अत्राध्ययनशीलस्य प्रदोषः सर्वघातकः ॥' इति । गोभिलेन ह्येवमुक्तम्-'षष्ठी च द्वादशी चैव अर्धरात्रोननाडिका । प्रदोषमिह कुर्वीत तृतीया नवनाडिका ॥' इति । स्मृत्यर्थसारेऽपि-'चतुर्थ्याः पूर्वरात्रे तु नव१ 'त्रयोदश्यर्धरात्रे च' इति पाठः । १९ मु० चि० HHHHHHHHHHHHH Page #234 -------------------------------------------------------------------------- ________________ २१८ मुहूर्तचिंतामणिः। [ब्रह्मौदनसंस्कारः नाड्यां प्रदर्शने । नाध्येयं पूर्वरात्रे स्यात्सप्तमी च त्रयोदशी ॥ अर्धरात्रापुरा चेत्स्यानाध्येयं पूर्वरात्रके ॥' इति । तदेतयोः पक्षयोर्देशाचारतो व्यवस्थेति । ननु राध्यमिति 'अर्ध समेंऽधके' इत्यभिधानात्समांशवाचिनोऽर्धशब्दस्य नपुंसकलिंगत्वात् 'अर्ध नपुंसकम्' इति समासे 'प्रथमानिर्दिष्टं समास उपसर्जनम्' इत्यर्धशब्दस्योपसर्जनसंज्ञत्वात् 'उपसर्जनं पूर्वम्' इति पूर्वनिपाते च 'अहःसर्वैकदेशसंख्यातपुण्याच रात्रेः' इत्यच्प्रत्यये कृते 'यस्येति च' इतीकारलोपे च 'रात्राहाहाः पुंसि' इति पुंस्त्वे अर्धरात्र इति भवितव्यं, न पुना रात्र्यमिति चेत् । उच्यते,-नात्र समांशवाच्यर्धशब्दः । यथा ग्रामा? नगरार्ध इत्यत्र । किं तर्हि ? 'भित्तं शकलखंडे वा पुस्योऽर्धम्' इत्यभिधानात्केवलविभागवाची । कथं ? द्वितीयप्रहरस्य चरमघटिकातृतीयप्रहरस्य प्रथमघटिका त्वेवं घटिकाद्वययुक्तः कालो निशीथशब्दवाच्यः । एतच्च जन्माष्टमीनिर्णये'अर्धरात्रादधश्चोर्ध्वमेकार्धघटिकान्विता । रोहिणी चाष्टमी ग्राह्या उपवासब्रतादिषु ॥' इति योगीश्वरपद्यव्याख्याने व्याख्यातं माधवेन । ततश्च समांशवाचित्वाभावादर्धशब्दस्य नैकदेशिसमासः। किं तर्हि ? षष्ठीत्यनेन षष्ठीसमासे षष्ठ्यंतस्य पूर्वनिपातः । अत्रैव-रात्रौ यामद्वयादग्यदि पश्येत्रयोदशीम् । प्रदोषः स तु विज्ञेयो गर्हितः सर्वकर्मसु ॥ इति गोभिलवाक्यमप्यनुकूलम् । इदमेवाभिप्रेत्य 'रात्र्यपूर्वापरगा जयंती कलयापि वा' इति वराहेणापि राज्यर्धपदं प्रयुक्तम् । यत्र तु समांशवाचित्वं विवक्षितं, 'सिद्धांतपक्षस्तु परं दिनार्धान्निशा निशार्धात्परतो दिनश्री'रिति विवाहवृंदावनपद्यादौ, तत्र तादृशाः प्रयोगाश्चिंत्याः ॥ ५५ ॥ अथ व्रतबंधानंतरं सायंकाले बढचानां ब्रह्मौदनाख्यः संस्कारोऽभिहितस्तत्र विशेषमार्ययाह प्रारब्रह्मौदनपाकाद्वतबंधानंतरं यदि चेत् । उत्पातानध्ययनोत्पत्तावपि शांतिपूर्वकं तत्स्यात् ॥५६॥ प्रागिति ॥ यदि व्रतबंधात्प्रागकालिकाद्यनध्याय उत्पातो वा भवेत्तदा न कार्य एव व्रतबंधः। दैवान्निर्दुष्टे काले व्रतबंधो निर्वृत्तस्तदुत्तरं सायंकालीनब्रह्मौदनविधेः पूर्वमुत्पातप्रयुक्ता कालाशुद्धिरथवाऽनध्यायो वा स्यात्तदाविष्टमुक्तम् । उक्तं च नृसिंहप्रसादे–'ब्रह्मौदनविधेः पूर्व प्रदोषे गर्जितं भवेत् । तदा विघ्नकरं ज्ञेयं बटोरध्ययनस्य तत् ॥' अतस्तद्ब्रह्मौदनं शांतिपूर्वकमादौ शांतिं विधाय पश्चात्स्यात् । शांतिप्रकारस्तु नृसिंहप्रसादे'तस्य शांतिप्रकारं तु वक्ष्ये शास्त्रानुसारतः । स्वस्तिवाचनपूर्व तु हवनं कारयेद्बुधः ॥ प्रधानं पायसं साज्यं द्रव्यं शांतियजौ भवेत् । सूक्तं बृहस्पतेविद्वान्पठेद्विद्यासमृद्धये ॥ गायत्री युंजते मंत्रः प्रायश्चित्तं तु सर्पिषा । धेर्नु सवत्सकां दद्यादाचार्याय पयस्विनीम् ॥ शिलां होमविधेः पश्चात्स्थापयेत्तत्र Page #235 -------------------------------------------------------------------------- ________________ संस्कार्यमात् रजःप्राप्तो निर्णयः] संस्कारप्रकरणम् ५। २१९ संसदि । ब्राह्मणान्भोजयेत्पश्चात्ततो ब्रह्मौदनं चरेत् ॥' इति । अत्रैतस्य विचारस्य मुहूर्त विचारेऽनुपयोगान्मूलपद्यनिबंधो यद्यपि स्वयमवक्तव्यस्तथापि सकलजनप्रसिद्ध्यर्थमभिहितः ॥ ५६ ॥ अथ पूर्व द्वाविंशतिनक्षत्राण्यभिहितानि सामान्यतस्तेषां वेदपरत्वेन विशेष वसंततिलकयाह वेदक्रमाच्छशिशिवाहिकरत्रिमूल पूर्वासु पौष्णकरमैत्रमृगादितीज्ये । ध्रौवेषु, चाश्विवसुपुष्यकरोत्तरेश कणे मृगांत्यलघुमैत्रधनादितौ सत् ॥ ५७॥ वेदक्रमादिति ॥ मृगाश्लेषाहस्तचित्रास्त्रातीमूलपूर्वानयेषु ऋग्वेदाध्यायिनां, रेवतीहस्तानुराधामृगपुनर्वसुपुष्यरोहिण्युत्तरात्रयेषु यजुर्वेदाध्यायिनां, अश्विनीधनिष्ठापुष्यहस्तोत्तरात्रयाश्रवणेषु सामवेदाध्यायिनां, मृगरेवतीपुष्याश्विनीहस्तानुराधाधनिष्ठापुनर्वसुषु अथर्वणवेदाध्यायिनां पूर्वश्लोकानुवृत्ततत्पदपरामृष्टमुपनयनं सत् शुभमित्यर्थः । उक्तं च ज्योतिर्निबंधे–'मूले हस्तत्रये सार्प शैवे पूर्वात्रये तथा । ऋग्वेदाध्यायिनां कार्य मेखलाबंधनं बुधैः॥ पुष्ये पुनर्वसौ पौष्णे हस्ते मैत्रे शशांकभे। ध्रुवेषु च प्रशस्तं स्याद्यजुषां मौजिबंधनम् । पुष्यवासवहस्ताश्विशिवकर्णोत्तरात्रयम् । प्रशस्तं मेखलाबंधे बटूनां सामगायिनाम् ॥ मृगमैत्राश्विनीहस्तरेवत्यदितिवासवम् । अथर्वपाठिनां शस्तो भगणोऽयं व्रतार्पणे ॥' इति ॥ ५७ ॥ अथ धर्मशास्त्रीय विशेषमनुष्टुभाह नांदीश्राद्धोत्तरं मातुः पुष्पे लग्नांतरेऽसति । शांत्या चौलं व्रतं पाणिग्रहः कार्योऽन्यथा न सत् ॥५८॥ नांदीश्राद्धति ॥ बहुघटीसाध्यानां शुभकर्मणां प्रारंभे सकलशुभाशुभकर्मसाधारणनांदीश्राद्धाख्यं कर्माभिहितं, तत्कृत्यानंतरं यदि संस्कार्यमातुः पुष्पे रजोदर्शने जाते सति लग्नांतरे विवक्षितलग्नादन्यस्मिन् लग्ने च असति तदावश्यकत्वाद्धर्मशास्त्रोक्तां शांतिं विधाय चौलं व्रतं यज्ञोपवीतं पाणिग्रहो विवाहश्च कार्यः । अन्यथा समीचीनद्वितीयलग्नत्वे सति चौलादिशुभकर्म न सत्, दुष्टफलदमित्यर्थः । उक्तं च मेधातिथिना-'चौले च व्रतबंधे च विवाहे यज्ञकर्मणि । भार्या रजस्वला यस्य प्रायस्तस्य न शोभनम् ॥ वधूवरान्यतरयोजननी चेद्रजस्वला। तस्याः शुद्धः परं कार्य मांगल्यं मनुरब्रवीत् ॥' वृद्ध. मनुरपि-'विवाहव्रतचूडासु यदि माता रजस्वला । तदा न तत्प्रकर्तव्यमायुःक्षयकरं यतः ॥' बृहस्पतिः-'वैधव्यं च विवाहे स्याजडत्वं Page #236 -------------------------------------------------------------------------- ________________ मुहूर्तचिंतामणिः । [ केशांतकर्मादिविचारः व्रतबंधने । चूडायां च शिशोर्मृत्युर्विघ्नं यात्राप्रवेशयोः ॥' रजोविषयमेतज्ज्ञेयम् । प्रचेताः - 'प्राप्य चाभ्युदयश्राद्धं पुत्रसंस्कारकर्मणि । पत्नी रजस्वला जाता न कुर्यात्तत्पिता तदा ॥' इति । पितेति नांदीश्राद्धकर्तुरुपलक्षणम् । तथा च वृद्धगर्गेण - 'पिता पितामहो भ्राता ज्ञातयो गोत्रजाग्रजाः । उपाdsधिकारी स्यात्पूर्वाभावे परः परः ॥ इत्यादयोऽधिकारिण उपनयनेऽभिहिताः । तस्मात्संस्कार्यमातरि रजस्वलायां लग्नान्तरसद्भावे च न कार्यमेव चौलादि | लग्नांतराभावे तु शांतिप्रकारो वाक्यसारे - 'अलाभे सुमुहूर्तस्य रजोदोषे ह्युपस्थिते । श्रियं संपूज्य विधिवत्ततो मंगलमाचरेत् । हैमीं माषमितां पद्मां श्रीसूक्तविधिनार्चयेत् । प्रत्यृचं पायसं हुत्वाभिषिच्य हितमा - चरेत् ॥' इति । अस्याप्यपवादस्तत्रैव - 'उपवासेन शुध्यंति नार्यः सद्यो रजस्वलाः । एकाकिन्यो विवाहादौ देशभंगेषु चापदि ॥' इति । एतच्च पद्यं वक्तुमनुचितं मुहूर्तविचारार्थं प्रवृत्तत्वात् ग्रंथकर्तुः, यतोऽत्र न कश्चिन्मुहूर्तविचारः प्रतिपाद्य इति । परंतु सकलजनप्रसिद्धः शास्त्रार्थो भवत्वित्युक्तम् ॥ इति सपरिकरो व्रतबंधः समाप्तः ॥ ५८ ॥ २२० अथैवं त्रैवर्णिकानां व्रतबंधमुक्त्वेदानीं केशांतकर्मादि वक्ष्यति - विचैत्रव्रतमासादौ विभौमास्ते विभूमिजे । छुरिकाबंधनं शस्तं नृपाणां प्राविवाहः ।। ५९ ।। विचैत्रेति ॥ चैवरहितेषूपनयनमासेषु माघफाल्गुनवैशाखज्येष्ठेष्वित्यर्थः । आदिशब्देन व्रतबंधनोक्तपक्षतिथिनक्षत्रलग्नादीनां ग्रहणम् । तस्मिन्कीदृशे ? विभौमास्ते मंगलास्तरहिते । गुरुशुक्रयोस्त्वस्तवर्जनं सामान्यनिषेधेन सिद्धत्वान्न पृथगुक्तम् । तथा विभूमिजे मंगलवाररहिते सूर्यादिवारे एतादृशे काले सति नृपाणां क्षत्रियाणां विवाहतः पूर्वं छूरिकाया अल्पशस्त्रविशेषस्य कव्यां बंधनं कार्यमिति शेषः । तच्छस्तं हितकारि । उक्तं च नारदेन - 'छूरिकाबंधनं वक्ष्ये नृपाणां प्राक्करग्रहात् । विवाहोत्तेषु मासेषु शुक्लपक्षेऽप्यनस्तगे ॥ जीवे शुक्रे च भूपुत्रे चंद्रताराबलान्विते । मौंजीबंधनऋक्षेषु भौमवर्जितवासरे ॥ व्रतलनोदये कर्तुरष्टमोदयवर्जिते । धनत्रिकोणगैः सौम्यैः पापैर्भवरिपुत्रिगैः ॥ छूरिकाबंधनं कार्यमर्चयित्वा सुरान् पितृन् । अर्चयेच्छूरिकां सम्यक् देवतानां च सन्निधौ । ततः सुलने बध्नीयात्कट्यां लक्षणसंयुताम् ॥' इति लक्षणानि नारदवराहाभ्यामुक्तानि, ग्रंथभूयस्त्वभयात्संश्रदायव्याख्यागम्यत्वाच्चास्माभिर्नोक्तानि । अत्र प्राग्विवाहत इत्युक्तेरवधिनिश्वयात् समावर्तनानंतरं छूरिकाबंधनं कार्यं विवाहभूषणत्वात्तस्य । यदि यज्ञोपवीतानंतरमेव चिकीर्षितं स्यात्तदोपनयनानंतरं कार्यमित्येव ब्रूयात् । ग्रंथकर्त्रा तु नारदोक्तक्रममंगीकृत्यैवमुक्तम् । तत्र पाठक्रमो बलीयान् इति समाधिः ॥ ५९ ॥ 1 Page #237 -------------------------------------------------------------------------- ________________ २२१ समावर्तनमुहूर्तः] संस्कारप्रकरणम् ५। २२१ " अथ केशांतसमावर्तनमुहूर्तमनुष्टुभाह केशांतं षोडशे वर्षे चौलोक्तदिवसे शुभम् । व्रतोक्तदिवसादौ हि समावर्तनमिष्यते ॥६॥ केशांतमिति ॥ षोडशे वर्षे चौलोक्तदिवसे 'चूडा वर्षात्तृतीयात्प्रभवति' (५।२९) इत्यादिना कथितशुभदिवसे गोदानापरपर्याय केशांतसंज्ञं हि कर्म शुभं स्यात् ।गावः केशा दीयंते खंड्यंते यस्मिन्निति व्युत्पत्तिः। यदाह-'केशांतं षोडशे वर्षे कुर्याच्चौलोक्तभादिके' इति । महेश्वरोऽपि-कर्म केशांतसंज्ञं हि वर्षे स्मृतं षोडशे चौलकर्मोक्तधिष्ण्यादिके' इति । षोडश इत्येतद्राह्मणविषयं द्रष्टव्यम् । क्षत्रियविशोस्तु द्वाविंशतिचतुर्विंशतितमवर्षयोः केशांतमित्यर्थः । तदुक्तं मनुना-'केशांतः षोडशे वर्षे ब्राह्मणस्य विधीयते । राजन्यबंधो विंशे वैश्यस्य ब्यधिके ततः ॥' इति । अत्र गोदानस्य महानाच्यादिव्रतपूर्वकत्वात्तानि प्रागनुष्ठाय ततो गोदानं विधेयमिति । यदाहाश्वलायन:'प्रथमं स्यान्महानाम्नी द्वितीयं च महाव्रतम् । तृतीयं स्यादुपनिषद्गोदानं च ततः परम् ॥' इति । अतो जन्मतस्त्रयोदशे वर्षे महानाम्नी, चतुर्दशे महाव्रतं, पंचदशे उपनिषद्रतं, षोडशे गोदानमिति । तदुक्तम्-एवं क्षत्रियविशोरप्युक्तं गोदानात्प्राक् वर्षचतुष्टयं क्रमेण महानाम्यादि भवति । अत्रापि मुहूर्तविचारश्चौलवदेव । तदुक्तं श्रीधरीये-'तिथिनक्षत्रवाराश्च वर्गोदयनिरीक्षणम् । चौलवत्सर्वमाख्यातं सगोदानव्रतेषु च ॥' इति । यदा पुनदैवादतीतकालानि महानाम्यादिव्रतानि स्युस्तदा समावर्तनेन सह कार्याणि । व्रतोक्तेति । हि निश्चयेन व्रतं यज्ञोपवीतं तत्र विहितदिवसे । आदिशब्देन वारनक्षत्रलग्नांशेषु सत्सु समावर्तनमिष्यते । यदाह-'गुरुशुद्धिं विना काले व्रतोक्ते व्रतमोक्षणम्' इति । महेश्वरोऽपि-'खेचरज्ञैव्रतानां विसर्गोदितं कर्म तद्वद्रतोक्ते च धिष्ण्यादिके' इति । सुरेश्वरोऽपि-विभौमभानुजे वारे नक्षत्रे च व्रतोदिते । चंद्रताराविशुद्धौ च स्यात्समावर्तनक्रिया ॥' इति । यत्त-'क्षौरोदितादिविलग्नयोगे मौंजीविमोक्षः शुभदो द्विजानाम् ॥' इति दीपिकाकारादिभिरुक्तं तत् स्वदेशविषयम् । विशेषो नारदोक्तः'अथोत्तरायणे जीवशुक्रयोदृश्यमानयोः । द्विजातीनां गुरोर्गेहान्निवृत्तानां यतात्मनाम् ॥ चित्रोत्तरादितीज्येंदुहरिमित्रविधातृषु । भेष्वदुज्ञार्यशुक्रवारलग्नांशकेष्वपि ॥ अथवा वस्त्रनक्षत्रवारलग्नांशकेष्वपि । प्रतिपत्पर्वरिक्ताभामष्टमी च दिनक्षयम् । हित्वान्यदिवसे कार्य समावर्तनमुंडनम् ॥' अत्र कश्यपेन चैत्रो वर्जितः-'चैत्रमासविवर्येषु माघादिषु च पंचसु ॥' इति तदुक्तेः । एतच्च गोदानानंतरं विवाहात्प्राक् कार्यमित्याह वसिष्ठः-'अधीत्य वेदांश्च तदर्थशास्त्राण्यभ्यस्य लब्ध्वा स्वगुरोरनुज्ञाम् । कुर्यात्समावर्तनकर्म पश्चाद्गोदानतः पाणिनिपीडनात्प्राक् ॥' तत्रापि सत्यावश्यकत्वे द्वितीयवर्षे न कार्यमेव । तदुक्तं ग्रंथांतरे-'वधूप्रवेशं व्रतमोचनं च पुंसः पुन Page #238 -------------------------------------------------------------------------- ________________ मुहूर्तचिंतामणिः । [विवाह भेदास्तलक्षणानि च दरिपरिग्रहं च । नाब्दे द्वितीये विदधीत विद्वान्वदंति गर्गात्रिवसिष्ठमुख्याः ॥' इति । स्त्रीमरणानंतरं पुनर्विवाहो द्वितीयवर्षे न भवतीत्यर्थः । पूर्वविवाहानंतरं द्वितीयविवाहो द्वितीयवर्षे न भवतीति कस्यचिद्वयाख्यान मपाकृतं भवति, 'प्रमदामृतिवासरादितः पुनरुद्वाहविधिर्वरस्य च । विषमे परिवत्सरे भवेद्युगलं चैव मृतिप्रदं भवेत् ॥' इति संग्रहकारवचनादिति शिवम् ॥६०॥ अथ संस्कारप्रकरणं गद्येनोपसंहरति इति श्रीदैवज्ञानंतसुतदैवज्ञरामज्योतिर्विद्विरचिते मुहूर्तचिंतामणौ पंचमं सपरिकरं संस्कारप्रकरणं समाप्तम् ॥ ५ ॥ परिकरोऽलंकार उत्सर्गापवादरूपः । शेषं स्पष्टार्थम् । 'ज्योतिर्विद्वरनीलकंठविदुषः श्रीचंद्रिकायास्तथा पुत्रेणाहिगवीप्रसारितधिया मौहूर्तचिंतामणेः ॥ गोविंदेन विनिर्मिते नयनिधौ पीयूषधाराभिधे व्याख्याने द्विजसंस्कृतिप्रकरणं पूर्ण सदानंददम् ॥ १ ॥ इति श्रीमद्दैवज्ञमुकुटालंकारनीलकंठज्योतिर्वित्पुत्रगोविंदज्योतिर्विद्विरचितायां मुहूर्तचिंतामणिटीकायां पीयूषधारायां सपरिकरं संस्कारप्रकरणं समाप्तम् ॥ ५ ॥ २२२ अथ विवाहप्रकरणम् ६ । அணிகை गौरीनंदनमिष्टसिद्धिसदनं विघ्नावलीभेदनं नत्वा ज्यौतिषिकाम्यरामरचिते मौहूर्तचिंतामणौ । गोविन्दो बुधनीलकंठविधिवित्सूनुः सतामग्रणी - ह्व करपीडनप्रकरणं व्याख्याति विद्वन्मुदे ॥ १ ॥ अथ विवाहप्रकरणं व्याख्यायते । तत्र विवाहशब्देन पाणिग्रहणाख्यः संस्कारविशेष उच्यते । ते च विवाहा अष्टौ । उक्तं च मनुना - 'चतुर्णामपि वर्णानां प्रेत्य चेह हिताहितान् । अष्टाविमान्समासेन स्त्रीविवाहान्निबोधत ॥ ब्राह्मो १ दैव २ स्तथा चार्षः ३ प्राजापत्य ४ स्तथाssसुरः ५ । गांधर्वो ६ राक्षस ७ चैव पैशाच ८ श्राष्टमोऽधमः ॥ इति । एषां लक्षणान्याह याज्ञवल्क्यः - 'ब्राह्मो विवाह आहूय दीयते शक्त्यलंकृता । तज्जः पुनात्युभयतः पुरुषानेकविंशतिम् ॥ यज्ञस्थऋत्विजे दैव आदायार्षस्तु गोद्वयम् । चतुर्दश प्रथमजः पुनात्युत्तरजश्च षट् । इत्युक्त्वा चरतां धर्मं सह या दीयतेsर्थ । स कायः पावयेत्तज्जः षट्षद वंश्यान् सहात्मना ॥ आसुरो द्रविणादानाद्गांधर्वः समयान्मिथः । राक्षसो युद्धहरणात्पैशाचः कन्यकाछलात् ॥' इति । कायः = प्राजापत्यः । छलं=वंचना । एषां कालनियममाह नारदः—–'प्राजापत्यब्राह्मदैवविवाहा ऋषिसंज्ञकाः । उक्तकालेषु कर्तव्याश्चत्वारः फलदायकाः ॥ गांधर्वासुरपैशाचराक्षसाख्याश्च सर्वदा ॥' इति । Page #239 -------------------------------------------------------------------------- ________________ विवाहे लग्मशुद्धेवैशिष्ट्यं ] विवाहप्रकरणम् ६ । २२३ अत एव 'सार्वकालमेके विवाहम्' इति गृह्यकारवचनं गांधर्वादिविवाहविषयम् । स च विवाहः स्त्रीपुरुषद्वयायत्तः । तत्रापि बहुधा पुरुषायत्तः । 'अनाश्रमी न तिष्ठेत क्षणमेकमपि द्विजः । आश्रमादाश्रमं गच्छेदेष धर्मः सनातनः ॥' इति च स्मरणात् इतराश्रमोपजीव्यतया प्राधान्याञ्चति समावर्तनानंतरं पुरुषेणावश्यं विवाहे यतितव्यम् । किंच अग्निहोत्रादीनां नित्यानां कर्मणां करणे पत्नीं विना नाधिकार इति स्मृतौ स्मरणात्'नापुत्रस्य लोकोऽस्ति' इति श्रुत्या पुत्राभावे परलोके दुर्गतिबोधनाच्च । तत्र पुत्राद्युत्पत्तिस्तु दंपत्योरानुकूल्यं विना न स्यात् । उक्तं च याज्ञवल्क्येन 'यत्रानुकूल्यं दंपत्योत्रिवर्गस्तत्र वर्धते' इति । त्रिवर्गो धर्मार्थकामात्मकः । स च ज्योतिःशास्त्रैकदेशविवाहपटलाधीन इत्येतत्सर्वं मनस्यालोच्य सप्रयोजन विवाहप्रकरणारंभं वसंततिलकया प्रतिजानीते भार्या त्रिवर्गकरणं शुभशीलयुक्ता शीलं शुभं भवति लग्नवशेन तस्याः । तस्माद्विवाहसमयः परिचिंत्यते हि तनिघ्नतामुपगताः सुतशीलधर्माः ॥१॥ __ भार्येति ॥ शुभं भादेरनुकूलं शीलं स्वभावस्तेन युक्ता भार्या त्रिवर्गस्य धर्मार्थकामरूपस्य करणं स्थानमस्ति । अत्र स्त्रीनपुंसकलिंगयोः सामानाधिकरण्यं वेदाः प्रमाणं स्मृतयः प्रमाणमितिवत्साधु । अजहलिंगत्वादस्य । [ तस्याः सुलग्नवशेन शीलं शुभं भवति । यतः सुतशीलधर्माः ] तन्निन्नतां विवाहाधीनताम् । शेषं स्पष्टार्थम् । 'अधीनो निघ्न आयत्तः' इति । त्रिवर्गो धर्मकामार्थं श्चतुर्वर्गः समोक्षकैः' इति चामरः।[उपगताः प्राप्ताः । अतोहीति निश्चयेन विवाहसमयः परिचिंत्यते विचार्यते इति । ] उक्तं च कश्यपेन-'अथातः संप्रवक्ष्यामि गृहस्थाश्रममुत्तमम् । य आधारोऽन्याश्रमाणां भूतानां प्राणिनां तथा ॥ ऋणत्रयच्छेदकारि धर्मकामार्थसिद्धिदम् । एतत्सर्वं स्थितं स्त्रीषु शीलवृत्तान्वितासु च ॥ तच्छीलवृत्तलब्धिस्तु सुलग्नवशतो भवेत् । तस्मात्सम्यग्लग्नशुद्धिं प्रवक्ष्याम्यनुपूर्वशः ॥' इति । ऋणत्रयं देवऋणं पित्रण ऋषिऋणं च । वसिष्ठोऽपि–'कश्चिद्गृहाश्रमसमो न परोऽस्ति धर्मः सोऽपि स्थितः सुगुणवृत्तयुतांगनासु । उद्वाहलग्नवशतो गुणवृत्तलब्धिस्तासां तथाविधसुलग्नमतः प्रवच्मि ॥' ननु जन्मकालीनखेचरावेदितशुभाशुभं दुरतिक्रममिति विवाहलग्नानर्थक्यमिति चेन्न । ज्यौतिषस्मृत्यावेदितशुभसमयारब्धविधिजन्यापूर्वजनितशुभफलेन जन्मान्तरीयदुरदृष्टध्वंसो भवतीत्येवमर्थतया सार्थक्यात् । अत एवाह सत्याचार्यः-'शुभक्षणक्रियारंभजनिताः पूर्वसंभवाः । संपदः सर्वलोकानां ज्योतिस्तत्र प्रयोजनम् ॥' इति । एवं व्रतबंधादावपि द्रष्टव्यम् ॥ १॥ १ एतच्चिह्नांतर्गतो ग्रंथो लिखितपुस्तकेषु नास्ति । Page #240 -------------------------------------------------------------------------- ________________ २२४ मुहूर्तचिंतामणिः। [प्रश्नलम्नाद्विवाहयोगद्वयं . अथ तावत्प्रश्नलमाद्विवाहयोगद्वयं स्रग्धरयाहआदौ संपूज्य रत्नादिभिरथ गणकं वेदयेत्स्वस्थचित्तं कन्योद्वाहं दिगीशानलहयविशिखे प्रश्नलग्नाबदींदुः। दृष्टो जीवेन सद्यः परिणयनकरो गोतुलाकर्कटाख्यं वा स्यात्प्रश्नस्य लमं शुभखचरयुतालोकितं तद्विदध्यात् ॥२॥ आदाविति ॥ अथशब्दो मंगलार्थों ग्रंथमध्यस्थत्वात् । यथोक्तम्'ॐकारश्चाथशब्दश्च द्वावेतौ ब्रह्मणः पुरा । कण्ठं भित्त्वा विनिर्यातौ तस्मान्मांगलिकावुभौ ॥' इति । आदौ गणकं ज्योतिर्विदं रत्नादिभी रत्नमणिसुवर्णवस्त्रफलादिभिः संपूज्य ततः प्रष्टा जनः कन्याया उद्वाहं गणकं वेदयेत् ज्ञापयेत् । 'गतिबुद्धि-' इत्यादिना विदेर्बुद्ध्यर्थत्वादणौ कर्तुः कर्मत्वम् । कीदृशं गणकम् ? स्वस्थचित्तमब्याकुलांतःकरणम् , 'स्वस्थे चित्ते बुद्धयः संभवन्ति' इति लोकोक्तेः । रत्नादिग्रहणमप्येतदर्थमेव । यदाह वसिष्ठः-'शुभे दिने दैवविदं त्वभिशं तांबूलपुष्पाक्षतपूर्णपाणिः । प्रष्टा च गत्वा प्रणिपत्य पृच्छेन्निवेद्य तस्मै वरकन्ययोर्भम् ॥' इति । उत्पलोऽपि'प्रष्टा मणिकनकयुतैः फलकुसुमै राशिचक्रमभ्यर्च्य । पृच्छेद्यथाभिलषितं भक्त्या विनयान्वितः प्रश्नम् ॥' इति । तत्रैको विवाहयोग उच्यते । दिगिति । यदि प्रश्नलग्नाद्दशमैकादशतृतीयसप्तमपंचमानामन्यतमे स्थाने स्थितश्चंद्रो जीवेन गुरुणा दृष्टः सन् सधः शीघ्रं परिणयनकर्ता स्यात् । यदाह वसिष्ठः-'लग्नाधिपंचास्तदशायगस्तु हिमधुतिर्जीवनिरीक्षितश्च । तयोस्तु संबंधकरस्तदानीं नाकांशुलुप्तो न च नीचगश्चेत् ॥' तयोः वरकन्ययोः । कश्यपोऽपि.-'लग्नादुश्चिक्यपुत्रास्तकर्मलाभगतः शशी । गुरुदृष्टस्तयोरेव संबंधं कुरुते सदा ॥' इति । संबंधं-विवाहम् । अथ द्वितीयो योग उच्यतेगोतुलेति । गौर्वृषः वृषतुलाकर्काणामन्यतमं प्रश्नलग्नं वा स्यात् तच्चेच्छुभग्रहैर्युतमवलोकितं वा भवेत्तर्हि तत्परिणयनं विदध्यात् । विलग्नगा गोधटकर्कटाश्च हिमांशुदैत्येज्यसमन्वितास्ते । संवीक्षिता वा यदि कन्यकाया लामो भवेत्तत्र च पृच्छकस्य ॥' इति वसिष्ठोक्तेः। कश्यपोऽपि-'लग्नस्थाश्चंद्गशुक्राभ्यां वीक्षिताः संयुताश्च वा। कुर्वति कन्यकालाभं यदि गोधटकर्कटाः ॥' इति । अत्र नारदादिभिः शुक्रचंद्रयोदृष्टियोगश्चाभिहितः । ग्रंथकर्ता तु शुभखचरत्वादुधगुर्वोरपि दृष्टिरुक्ता । सा कन्याया भर्तृप्रश्ने सति तत्प्राप्तिसूचिका ज्ञेया, तुल्यन्यायत्वात् । अथदा 'लग्नं विधुभृगुजयुतालोकितम्' इति पाठः कल्प्यः ॥ २ ॥ अथान्यद्विवाहयोगद्वयं द्रुतविलंबितेनाहविषमभांशगतौ शशिभार्गवौ तनुगृहं बलिनौ यदि पश्यतः । Page #241 -------------------------------------------------------------------------- ________________ प्रभलनाडुष्टयोगप्रतिपत्तिः] विवाहप्रकरणम् ६ । २२५ रचयतो वरलाभमिमौ यदा युगलभांशगतौ युवतिप्रदौ ॥३॥ • विषमेति ॥ चरणद्वयं स्पष्टार्थम् । अत्रोत्तरार्धसंमतिवाक्योक्तकन्यालाभप्रदयोगाद्वैपरीत्यमिति युक्तितो निबद्धं ग्रंथकृता। अयमेको विवाहयोगोअभिहितः। अथापरो विवाहयोगः। यदेमौ शशिभार्गवौ युगलभांशगतो युग्मराशिगतौ युग्मांशकगतौ च बलिनौ संतौ तनुगृहं पश्यतस्तदा कन्याप्रदौ स्याताम् । यदाह नारदः-'शुक्रंदू युग्मराशिस्थौ युग्मांशकगतौ यदा। वीक्षिते बलिना लग्ने कन्यालाभो भवेत्तदा ॥' इति ॥ ३॥ ___ अथ प्रश्नलग्नाद्वैधव्ययोगत्रयं शालिन्याहषष्ठाष्टस्थः प्रश्नलग्नाद्यदीदुर्लग्ने क्रूरः सप्तमे वा कुजः स्यात् । मूर्ताविंदुः सप्तमे तस्य भौमो रंडा सा स्यादष्टसंवत्सरेण ॥४॥ षष्ठेति ॥ यदि प्रश्नलग्नादिंदुश्चंद्रः षष्ठाष्टमस्थस्तदा कन्या अष्टसंवत्सरेण विवाहवर्षादिति शेषः । रंडा भर्तृनाशिका स्यात् । ततः स्वयमपि म्रियेत । सर्वथा द्वयोरपि मरणमष्टमाब्दानंतरं स्यादित्यर्थः । संमत्यनुरोधात् । यदाह वसिष्ठः-'प्रष्टुर्विलग्नात्प्रबलः शशांकः शत्रुस्थितो मृत्युगृहस्थितो वा । यद्यष्टमान्दात्परतो विवाहं करोति मृत्युं वरकन्ययोश्च ॥' इति । अथान्यःवा अथवा लग्ने यः कश्चित्क्रूरग्रहः स्यात्ततः सप्तमे स्थाने कुजो भौमो भवे. तदाऽष्टवर्षमध्ये रंडा स्यात् । यदुक्तं नारदेन-'यदि लग्नगतः क्रूरस्तस्मात्सप्तमगः कुजः। विज्ञेयं मरणं पुंसः सप्तमाब्दांतरे यदि ॥' केचित्सप्तमेऽपि ऋरग्रहमेवंविधे प्रश्ने निषेति ॥ यदाह कश्यपः-'एको लग्नगतः पापः पापोऽन्यः सप्तराशिगः। आसप्तमाब्दान्मरणं पुरुषस्य न संशयः ॥' इति । शौनकोऽपि-'यधुदयस्थः त्रस्तस्माद्यदि सप्तमो भवेत्पापः । सप्तभिरब्दैमरणं विज्ञेयं तस्य पुरुषस्य ॥' इति । वसिष्ठोऽपि-'एकोऽपि लग्नोपगतश्व पापः पापस्ततोऽन्यः खलु सप्तमस्थः । आसप्तमाब्दान्निधनं वरस्य बलान्वितौ तौ कुरुतस्त्ववश्यम् ॥' एषां मते 'सप्तमे वा खलः स्यात्' इति पाठः कल्प्यः । अस्मिन्पाठे विशिष्य कुजग्रहणं न कर्तव्यं भवति, पापत्वादेव तल्लाभादिति युक्तमुत्पश्यामः। अथापरः-वा अथवा मूतौं लग्ने इंदुः तस्य सप्तमे स्थाने भौमो भवेत्ततोऽष्टवर्षानंतरं रंडा स्यात् । उक्तं च नारदेन-'यदि लग्नगतश्रंद्रस्तस्मात्सप्तमगः कुजः । विवाहानंतरं भर्ता त्वष्टवर्ष न जीवति ॥' इति ॥ ४॥ __ अथ प्रश्नलग्नात्कुलटामृतवत्सायोगविकल्पं दोधकवृत्तेनाहप्रश्नतनोर्यदि पापनभोगः पंचमगो रिपुदृष्टशरीरः। नीचगतश्च तदा खलु कन्या सा कुलटा त्वथवा मृतवत्सा ॥५॥ प्रश्नतनोरिति ॥ यदि प्रश्नलग्नात्पापग्रहः पंचमस्थानस्थः शत्रुग्रहावलोकितः सन् स्वनीचगतश्च स्यात्तदा खलु निश्चितं सा कन्या कुलटा वेश्या भवे Page #242 -------------------------------------------------------------------------- ________________ २२६ मुहूर्तचिंतामणिः। [बालवैधव्ययोगपरिहारः दथवा मृतवत्सा मृतापत्या वा भवेत् । तुः पादपूरणे । यदाह कश्यपः'स्वनीचगः शत्रुदृष्टः पापः पंचमगो यदा। मृतपुत्रां करोत्येव कुलटा वा न संशयः ॥' इति । नारदोऽपि–'लग्नात्पंचमगः पापः शत्रुदृष्टः स्वनीचगः । मृतपुत्रा तदा नारी कुलटा वा न संशयः ॥' इति । शत्रुमित्रमध्यग्रहान् 'मित्राणि धुमणेः' (६।२७) इत्यादिना वक्ष्यत्यत्रैव ॥ ५॥ ___ अथ विवाहभंगयोगं पुष्पिताग्रयाहयदि भवति सितातिरिक्तपक्षे तनुगृहतः समराशिगः शशांकः । अशुभखचरवीक्षितोऽरिरंधे भवति विवाहविनाशकारकोऽयम् ६ __ यदीति ॥ सितातिरिक्तपक्षे कृष्णपक्षे यदि शशांकश्चंद्रः समराशिषु वृषकर्कादिषु गतः सन् तनुगृहतः प्रश्नलग्नराशितोऽरिरंध्रे षष्ठेऽष्टमे वा स्थाने स्थितः अशुभखचरैः पापग्रहैरवलोकितो भवति तदायं योगो विवाहस्य विनाशकारको भवति । तदुक्तं नारदेन–'कृष्णपक्षे शशी लग्नाधुग्मराशिगतो यदि । पापदृष्टो न संबंधं करोत्येवारिरंध्रगः ॥' इति । विवाहविनाशकारक इत्यत्र प्रयोगे समासानुपपत्तिः, तत्समाधिश्च ग्रंथांते करिष्यते ॥ ६ ॥ अथैवं प्रश्नलग्नाद्वंध्यामृतापत्यादियोगानभिधायेदानीं जन्मकालीनबालवैधव्ययोगविचारमतिदिशंस्तत्परिहारान् शार्दूलविक्रीडितेनाहजन्मोत्थं च विलोक्य बालविधवायोगं विधाय्य व्रतं सावित्र्या उत पैप्पलं हि सुतया दद्यादिमां वा रहा। सल्लग्नेऽच्युतमूर्तिपिप्पलघटैः कृत्वा विवाहं स्फुटं . दद्यात्तां चिरजीविनेऽत्र न भवेदोषः पुनर्भूभवः ॥७॥ जन्मोत्थमिति ॥ यथा प्रश्नलग्नाद्विधवायोगो विचारितस्तथा जन्मोत्थं जन्मकालीनं च बालविधवायोगं विलोक्य जातकशास्त्राजन्मकालीनलनवशतो वैधव्ययोगं विचार्य वक्ष्यमाणं व्रतं कारयेदित्यन्वयः। तत्र बालविधवायोगानाह होरामकरंदे गुणाकरः-'त्यक्ता धवेनोष्णकरेऽस्तसंस्थे बाल्येऽपि भौमे विधवा प्रदिष्टा। पापग्रहालोकनवर्गयाते कन्यैव वृद्धा भवतीनसूनौ ॥ वैधव्यं क्रूरखेटैर्मदनगृहगतैर्मिश्रितैः स्यात्पुनर्भूः पापेऽस्ते वीर्ययुक्तैभवति परिहृता प्रेयसा सौम्यदृष्टे । अन्योन्यांशस्थयोश्च क्षितिसुतसितयोब. धकी योषिदुक्ता चंद्रोर्वीसूनुशुक्रा यदि मदनगृहे प्रेयसोऽनुज्ञया सा ॥ इति । अन्यमपि श्लोकं पठंति-'लग्ने व्यये च पाताले जामित्रे चाष्टमे कुजे। कन्या भर्तुर्विनाशाय भर्ता कन्याविनाशदः॥' इति । अथ जातकीयो वैधव्ययोगपरिहार उच्यतेऽस्माभिः-'घूनाद्वाच्ये पतिसुभगते रंध्रभादर्तृमृत्युर्नीहारांशोरुदयगृहतस्तद्वपुश्चिंतनीयम्' इति गुणाकरेण सप्तमस्थाना १ पतिश्च सुभगता सौभाग्यं चेति द्वंद्वः । घनात सप्तमस्थानात् पतिसुभगते वाच्ये वक्तव्ये इत्यर्थः । Page #243 -------------------------------------------------------------------------- ________________ वैधव्ययोगे कुंभादिविवाहाः] विवाहप्रकरणम् ६ । २२७ मसौभाग्ये विचार्ये इत्युक्तम् । तत्र-'यो यो भावः स्वामिदृष्टो युतो वा सौम्यैर्वा स्यात्तस्य तस्यास्ति वृद्धिः । पापैरेवं तस्य भावस्य हानिर्निर्देष्टव्या पृच्छतां जन्मतो वा ॥' इति भट्टोत्पलोक्तेः । स्वस्वामिसौम्यैरीक्षितं चेत्सप्तमस्थानं भवति तदा तद्भावसुखं वाच्यम् । केचित्तु स्त्रीणां महत्यरिष्टयोगे भर्तुश्च स्वल्पारिष्टयोगे तत्परिहारमाहुः ॥ अथापरिहार्ये वैधव्ययोगे प्रतीकारमाह-विधाय्येति । रह इति वक्ष्यमाणमिहापकृष्टव्यम् । पित्रादिः सुतया कन्यया कृत्वा रह एकांते हि निश्चयेन सावित्र्या व्रतं विधाय्य कारयित्वा उत अथवा पैप्पलं पिप्पलसंबंधि व्रतं एकांते विधाय्य पश्चादिमां कन्यां सुलग्ने चिरजीविने वराय दद्यात् । तदुक्तं व्रतखंडे-'सावित्र्यादिव्रतादीनि भक्त्या कुर्वति याः स्त्रियः । सौभाग्यं च सुहृत्त्वं च भवेत्तासां सुसंततिः ॥' इति । सावित्रीव्रतकरणप्रकारस्तत्रैव प्रसिद्धः । संहितासारे'अवैधव्यकरैर्योगैर्विवाहपटलोदितैः । वरायायुष्मते देया कन्या वैधव्ययोगजा ॥' इति। पिप्पलव्रतमुक्तं ज्ञानभास्करे-'बलवद्विधवायोगे बाल्ये सति मृगीदृशाम् । पिता रहसि कुर्वीत तद्भगं शास्त्रसंमतम् ॥ सुदिने शुभनक्षत्रे चंद्रताराबलान्विते । अवैधव्यकरे योगे लग्ने ग्रहबलान्विते ॥ बेतारंभं प्रकुर्वीत बालवैधव्यनाशनम् । सुनातां चित्रवस्त्राढ्यां कन्यां पितृगृहाबहिः ॥ नीत्वाश्वत्थशमीस्थाने यद्वा बदरिकाश्रये । आलवालं प्रकुर्वीत विपुलं मृदुकर्षितम् ॥ कुमार्याचार्यनिर्दिष्टं कृत्वा संकल्पमादरात् ॥ करकांबुप्रपूर्णेन सेचनं प्रतिवासरम् । चैत्रे वाश्विनमासे च तृतीयाऽसितपक्षतः । यावत्कृष्णतृतीयान्या मासमेकं यथाविधि ॥ ब्राह्मणानां तथा स्त्रीणां पूजन च समाचरेत् । तदाशिषाप्नुयात्कन्या सौभाग्यं च सुखान्वितम् । प्रतिमां पार्वतीशानी वैणवे भाजनेऽर्चयेत् । चंदनाक्षतदूर्वाद्यैर्बिल्वपत्रैर्यथाविधि ॥ उपचारैर्यथाशक्त्या नैवेद्यैः प्रतिवासरम् । एवं व्रतप्रभावेण बालवैधव्यनिकृतिः । जायते कन्यकानां च ततः पाणिग्रह क्रिया ॥' इत्यश्वत्थव्रतम् । अथान्यदपि अपरिहार्यबालवैधव्ययोगापहारकं प्रकारत्रयमाह-वा रह इत्यादि । वा अथवा रह एकांते अच्युतमूर्तिः विष्णुप्रतिमा, पिप्पलघटौ प्रसिद्धौ; एषां मध्ये अन्यतरेण मनोऽभीष्टेन साकं सल्लग्ने वक्ष्यमाणदूषणरहिते सौभाग्यगुणान्विते च विवाहलग्ने विवाहं कारयित्वा पश्चात्तां कन्यां स्फुटं लोकप्रसिद्धं यथा भवति तथा चिरजीविने आयुष्मते वराय दद्यात् पित्रादिरधिकारी । तदुक्तं मार्कडेयपुराणे-'बालवैधव्ययोगेऽपि कुंभद्रुप्रतिमादिभिः । कृत्वा लग्नं रहः पश्चात्कन्योद्वाोति चापरे ॥' इति । कुंभ इत्युपलक्षणम् । तेन मंथन्यपि ग्राह्या । दुर्वृक्षः ‘पलाशी द्रुद्रुमागमाः' इत्यमरः । स चाश्वत्थ एव नान्यः । प्रतिमा विष्णुप्रतिमा शिरोभुजाधवयवमुता सौवर्णी न शालग्रामशिला । सर्वत्रापि प्रमाणं वक्ष्यतेऽधुनैव ॥ कुंभविवाहः सूर्यारुणसंवादे-'विवाहात्पूर्वकाले च चंद्रताराबले शुभे । विवाहोक्ते च मंथन्या कुंभेन सह वोद्वहेत् ॥ पिता संकल्पवाह्यं च विवाह Page #244 -------------------------------------------------------------------------- ________________ मुहूर्तचिंतामणिः। [कुंभोढायाः पुनर्भूत्वदोषपरिहार : विधिपूर्वकम् । सूत्रेणावेष्टयेत्पश्चाद्दशतंतुविधानतः ॥ कुंकुमालंकृतं देह तयोरेकांतमंदिरे । ततः कुंभं च निःसार्य प्रभज्य सलिलाशये ॥ ततोऽभिषेचनं कुर्यात्पंचपल्लववारिभिः । तत्सर्वं वस्त्रपूजाद्यं ब्राह्मणाय निवेद्य च ॥ कन्यालंकारवस्त्राद्यं ब्राह्मणाय निवेदयेत् ॥' इति कुंभविवाहः । कुंभप्रार्थना च तत्रैव - 'वरुणांगस्वरूपस्त्वं जीवनानां समाश्रय । पतिं जीवय कन्याया - श्चिरं पुत्रान्सुखं वरम् । देहि विष्णुवराद्देव कन्यां पालय दुःखतः ॥ इति । अथाश्वत्थविवाहस्तत्रैव - 'द्विजान् गुरुसुहन्नारीमंगलोच्चारणैः समम् । आहूयोद्वाहकाले च रम्यभूमौ सुमंडपे ॥ गत्वा प्रणम्य गौरीं च गणनाथं च भूरुहम् । भवानीं चैव मंथानीं पिता मंत्रमुदीरयेत् ॥ उद्वाहयिष्ये विधिवदश्वत्थेन मनोहराम् । कन्यां सौभाग्यसौख्यार्थहेतवेऽहं द्विजोत्तमाः । नमस्ते विष्णुरूपाय जगदानंदहेतवे । पितृदेवमनुष्याणामाश्रयाय नमो नमः ॥ चनानां पतये तुभ्यं विष्णुरूपाय भूरुह । नमो निखिलपापौघनाशनाय नमो नमः । पूर्वजन्मभवं पाप बालवैधव्यकारकम् । नाशयाशु सुखं देहि कन्याया मम भूरुह ||' इत्यश्वत्थेन सह विवाहसंकल्पप्रार्थने । विवाहस्तु कुंभविवाहवद्विधेयः । एवं विष्णुप्रतिमया सौवर्ण्या सह विवाहं विधाय प्रतिमादानं विधेयम् ॥ अथ प्रतिमादानविधिस्तत्रैव — 'शुभे मासि सिते पक्षे सानुकूल दिने । ब्राह्मणं साधुमामंत्र्य संपूज्य विविधार्हणैः ॥ तस्मै दद्याद्विधानेन विष्णोर्मूर्तिं चतुर्भुजाम् । शुद्धवर्णसुवर्णेन वित्तशक्त्याथवा पुनः ॥ निर्मितां रुचिरां शंखगदाचक्रानशोभिताम् । दधानां वाससी पीते कुमुदोत्पलमालिनीम् ॥ सदक्षिणां च तां दद्यान्मंत्रमेतमुदीरयेत् ॥ यन्मया पूर्वजनुषि त्या पतिसमागमम् । विषोपविषशस्त्राद्यैर्हतो वातिविरक्तया । प्राप्यमाणं महाघोरं यशःसौख्यधनापहम् । वैधव्याद्यतिदुःखौघनाशाय सुख• लब्धये । बहुसौभाग्यलब्ध्यै च महाविष्णोरिमां तनुम् ॥ सौवर्णी निर्मितां शक्त्या तुभ्यं संप्रददे द्विज । अनघाद्याहमस्मीति त्रिवारं प्रवदेदिति ॥ एवमस्त्विति विप्राशीर्गृहीत्वा स्वगृहं विशेत् । ततो वैवाहिकविधिं पिता कुर्यान्मृगीदृशः ॥ ' इति प्रतिमादानविधिः । एवं घटेनाश्वत्थेन वा विष्णुरूपेण वा एकांते विवाहं विधाय पश्चाद्वादित्रघोषपुरःसरं पित्रादिः कन्यादानाधिकारी कन्यामायुष्मते वराय दद्यात् । कन्यादातॄनाह याज्ञवल्क्यः'पिता पितामहो भ्राता सकुल्यो जननी तथा । कन्याप्रदः पूर्वनाशे प्रकृतिस्थः परः परः ॥' ननु ' पुनर्भूर्दिधिषूरूढा द्विः' इत्यमरोक्तेर्द्विः परिणीतायाः कन्यायाः पुनर्भूत्वेन महादोषः संभवतीत्यपेक्षायामाह - अत्र न भवेदिति । अत्रैवं विधेयं-कुंभादिविवाहानंतरं कन्यायाः पुनरायुष्मद्वरेण सह विवाहविषये पुनर्भूभवः पुनर्भूसंभूतो दोषो नास्ति । कुतो दोषो नास्तीत्युच्यते । विधानखंडे तथाभिधानात् - 'स्वर्णबुपिप्पलानां च प्रतिमा विष्णुरूपिणी । तया सह विवाहे च पुनर्भूत्वं न जायते ॥' चकाराद्वस्यापि - 'लक्ष्मीरूपा सदा कन्या हरिरूपं सदा जलम् । हरेर्दत्तं च यद्दानं दातुः पापहरं सदा ॥ 1 २२८ Page #245 -------------------------------------------------------------------------- ________________ अपत्यप्रो शुभाशुभत्वं] विवाहप्रकरणम् ६ । २२९ लक्ष्मीनारायणप्रीत्यै या दत्ता कन्यका बुधैः । तारयेत्सकलं दातुः कुलं पूर्वापरं सदा ॥ चंद्रगंधर्ववह्नयंबुशिवसोमसरा इमे । पतयः कन्यकानां च बाल्यात्संति सदैव ते ॥ तदुद्वाहविधिर्यत्नात्कृतो नो जनयेदघम् ॥ यथालिभुकं कमलं देवानां पूजनाय वै । अहं भवति सर्वत्र तथा कन्या नृणां भवेत् ॥' इति । धर्मशास्त्रेऽपि-'यत्किंचित्कथितं शास्त्रे शांतिकं पतिरक्षणे। तत्पापमपि नो पापं येन धर्मोऽभिरक्ष्यते ॥' इति । श्रुतावपि सोमादिभिः सहोडाहोऽभिहितः-'सोमः प्रथमो विविदे गंधर्वो विविद उत्तरः । तृतीयो अमिष्टे पतिस्तुरीयस्ते मनुष्यजः ॥ सोमोऽददगंधर्वाय गंधर्वोऽदददग्नये । रयिं च पुत्रांश्चादादग्निर्मामथो इमाम् ॥' इति । अतो देवभोग्यानां कन्यानां पुरुषविवाहे न दोषः पुनर्भूभवस्तथानापि । अत एव हि लोकेऽपि शिष्टाचारो दृश्यते-'मंथन्या भास्करो यत्नात्कृतवान्दुहितुर्विधिम् । रेणुकोऽपि स्वकन्यायास्तरूद्वाहं चकार सः ॥' इति विधानखंडे विधानात् । अत एव'पित्रा मात्रा तथा भ्रात्रा दत्ता या तोयधारया । विप्राग्निसुहृदां साक्ष्यं कृत्वा सोद्वाहिता भवेत् ॥' इति कात्यायनादिभिर्विवाहस्य परिभाषितत्वादेकदा कन्यापुरुषविवाहं निवर्त्य पुनर्द्वितीयपुरुषविवाहे जाते सा पुनर्मूरेवेत्यलमियता ॥ ७ ॥ ' अथास्थाः कन्यायाः कीदृशमपत्यं प्रथमं भवितेति प्रश्ने स्रग्विणीछंदसोत्तरमाह प्रश्नलग्नक्षणे यादृशापत्ययुक् खेच्छया कामिनी तत्र चेदाव्रजेत् । कन्यका वा सुतो वा तदा पंडितै स्तादृशापत्यमस्या विनिर्दिश्यते ॥ ८॥ प्रश्नेति ॥ तत्र ज्योतिर्वित्समीपे । यादृशापत्यत्वमेव विवृणुते-कन्यकेत्यादि । शेषं पद्यं स्पष्टार्थम् । यदाह शौनकः-'मालिंग्य शिशुं कन्या पृच्छकमाश्रित्य तिष्ठति प्राक् चेत् । स्त्रीहस्ता स्त्रीजननी पुंहस्ता पुत्रजननी च ॥' इति । कन्या यस्यकस्यापीति शेषः ॥८॥ अथ सामान्यतो निमित्तवशेन शुभाशुभप्रश्नं स्रग्विण्याह शंखभेरीविपंचीरवैर्मगलं जायते वैपरीत्यं तदा लक्षयेत् । वायसो वा खरः श्वा शृगालोऽपि वा प्रश्नलग्नक्षणे रौति नादं यदि ॥९॥ २० मु.चि. Page #246 -------------------------------------------------------------------------- ________________ २३० मुहूर्तचिंतामणि: । [प्रश्नसमये शुभाशुभयोगाः शंखेति ॥ शंखः प्रसिद्धः, भेरी वाद्यविशेषस्ताम्रादिनिर्मितः, विपंची वीणा; एतेषां रवैः प्रश्नलग्नक्षणे श्रुतैर्मंगलं जायते । उपलक्षणत्वान्मनोह्लादितुरगगजच्छत्रादिसान्निध्येऽपि शुभं द्रष्टव्यम् । यदाह शौनकः - 'वादित्रतूर्यघोषो Saturdप्रगीतशब्दाश्च । शंखध्वनिः प्रशस्तः पृच्छाकाले कुमारीणाम् ॥ वृषभो रथो गजो वा शंखः पद्मं ध्वजोऽथवा छत्रम् । सर्पति पृच्छकदेशे सोत्तमतां व्रजति सर्वलोकस्य ॥' इति । सा = विवाह्या कन्या । अथाशुभयोग उच्यते - वैपरीत्यमिति । वायसः काकः, खरो गर्दभः, श्वा कुक्कुरः, शृगालः प्रसिद्धः । यदि प्रश्नलग्नक्षणे वायसादिर्नादं शब्दं रौति तदा वैपरीत्यं अशुभं लक्षयेत् । उपलक्षणत्वादुलूकोष्ट्रमहिषनादोऽप्यशुभः । उक्तं च शौनकेन'श्वशृगालोलूकरवो महिषोष्ट्रगजाविकप्रणादो वा । तत्रोद्वेगः कलहः प्रवासमरणं विनिर्देश्यम् ॥' इति । बृहस्पतिरपि शृगालादिसान्निध्यं निषिद्धमाह'शृगालमहिषोष्ट्राश्च शिवामेषाज कुक्कुटाः । खरकौशिकमार्जारा न प्रशस्ताः समीपगाः॥' इति । अत्र प्रसंगादस्माभिः शौनकोक्ताऽशुभयोगा लिख्यंते- 'कृकलासवानरोरगगर्दभसंश्लेषणं मिथोऽपि भवेत् । दैवज्ञपृच्छकानां कन्या एकत्र संरमते ॥' कन्या एकत्रेत्यत्र संहिताया अविवक्षणाद्वृद्ध्यभावः । 'भिद्यति यद्युदकुंभः शय्यासनपादुकादिभंगो वा । प्रश्नसमयेऽपि यस्यास्तस्या वैधव्यमादे - श्यम् ॥ उदयात्सप्तमसंस्थे रविभृगुतनये शशांके वा । वैधव्यं क्षितितनये - सप्तमगे कन्यका म्रियते ॥ सप्तमगोऽर्कः कन्यां मृतप्रजां पुंश्चलीं करोत्युदयत् । कथितं तु यथोद्वाहे योज्यं तत्प्रश्नसमयेऽपि ॥' इति । अथ शुभा अपि'पृच्छकवर्णत्रितयं समीपमाश्रित्य तिष्ठति च्छागः । तस्यादेश्यं विदुषा यदा तदा यागभागित्वम् । यदि पृच्छालग्नस्थौ गुरुसौम्यौ दीर्घजीविनं कुरुतः । पंचमसंस्थौ पुत्राञ्जामित्रगतौ धनं विपुलम् ॥ सर्पति यदि कुमाराः समीपगाः पृच्छकस्य विगतभयाः । सा कन्या पुत्रवती कथनीया मंगलवती च ॥ प्रमदात्मकद्रेष्काणे वनितांशो यदि विलग्नमायातः । दृष्टः शुक्रेंदुभ्यां कन्यालाभं समादिशति ॥ प्रमदा भवननिविष्टाः प्रेक्ष्यंते यदि विलग्नमायातम् । योषिद्ध हैः सुबलिभिः कन्यालाभं तदा ब्रूयात् ॥ एवं कुमारिकाणां पृच्छालग्ने वरोपलब्धिः स्यात् । द्वेष्काणे भवने वा नवांशके नृग्रहैर्बलिभिः ॥' एवं शुभाशुभं ग्रहसूचितं निमित्तसंभूतं च ज्ञात्वा वक्तुज्यौतिर्विदो माहात्म्यमाह स एव - ' एवं कुमारिकाणामखिलं गुणदोषतश्च कथनीयम् । दौः शील्यं निर्धनता वैधव्यं वान्यथात्वं वा ॥ दृष्ट्वा निमित्तवर्गं नीचोच्चविधिं च जामित्रम् । कथयति फलमुद्वाहे तस्य न मिथ्या भवेद्वाणी ॥' इति । एवमन्यानि शुभाशुभनिमित्तानि क्षुतादिकानि च ग्रंथांतरेभ्यो ज्ञेयानि । केचन विवाहे उपश्रुतिमपि विचारय॑ति । तदुक्तं विवाहवृंदावने - 'आरोप्याक्षतपूरिते गणपतिं प्रस्थादिपात्रे शनैः संमार्जन्यधिवेष्टिते युवतयस्तिस्रः सकन्या निशि । निर्याता रजकादिवेश्मसु करे कृत्वा तमभ्यर्चितं यां वाचं शृणुयुस्तदर्थसदृशी लोके किलोपश्रुतिः ॥' इति । तत्रोपश्रुतिमंत्र:- 'उपश्रुति महादेवि Page #247 -------------------------------------------------------------------------- ________________ कन्यावरणमुहूर्तः] विवाहप्रकरणम् ६ । चंडालगृहवासिनि । यथार्थ ब्रूहि देवि त्वं शकराज्यप्रवर्धिनि ॥' इत्यलमतिप्रसंगेन ॥९॥ अथ कन्यावरणमुहूर्त मत्तमयूरछंदसाह विश्वस्तातीवैष्णवपूर्वात्रयमैत्रै र्वस्खाग्नेयैर्वा करपीडोचितः । वस्त्रालंकारादिसमेतैः फलपुष्पैः ___ संतोष्यादौ स्यादनु कन्यावरणं हि ॥१०॥ विश्वेति ॥ उत्तराषाढास्वातीश्रवणपूर्वावयानुराधाधनिष्ठाकृत्तिकानक्षत्रैः अथवा विवाहनक्षत्रैरुपलक्षिते काले वस्त्रालंकारादिभिरादिशब्देन खाद्यमधुरवस्तुभिः समेतैः फलपुष्पैरादौ कन्यां संतोष्य अनु पश्चात्कन्यावरणं हि निश्चयेन स्यात् । उचितऋक्षरित्यत्र 'ऋत्यकः' इति प्रकृतिभावः । यदाह वराहः-'पूर्वात्रयश्रवणमित्रभवैश्वदेवहौताशवासवसमीरणदैवतेषु । द्राक्षाफलेक्षुकुसुमाक्षतपूर्णपाणिरश्रांतशांतहृदयो वरयेत्कुमारीम् ॥' इति । फलानि पूगीफलादीनि । कश्यपः-पंचांगशुद्धिदिवसे चंद्रताराबलान्विते । विवाहोक्तेषु ऋक्षेषु कुजवर्जितवासरे ॥ मासाद्यदिवसं रिक्तामष्टमी नवमी तिथिम् । त्यक्त्वान्यदिवसे गंधस्रक्तांबूलफलान्वितैः । सहवृद्धद्विजगणैर्वरयेकन्यकां सतीम् ॥' अत्र लग्नशुद्धिर्महेश्वरेणोक्ता-'अशुभैस्त्रिषडायसंस्थितैः शुभखेटैः सुतधर्मकेंद्रगैः । यदि वोपचये गुरौ सिते हरिजस्थे वरयेत्कुमारिकाम् ॥' हरिजं लग्नं । वरणं प्रार्थना । 'वाचा दत्ता त्वया कन्या पुत्रार्थ स्वीकृता मया । वरावलोकनविधौ निश्चितस्त्वं सुखी भव ॥' इत्येवंरूपा वाग्दानाख्येति यावत् । तत्र विवाह्यकन्यालक्षणमाह मनुः-'अव्यंगांगी सौम्यनाम्नी हंसवारणगामिनीम् । तनुलोमकेशदशनां मृदूंगीमुद्वहेस्त्रियम् ॥ नोद्वहेत्कपिलां कन्यां नाधिकांगी न रोगिणीम् । नालोमिकां नातिलोमां न वाचाटां न पिंगलाम् ॥ ऋक्षवृक्षनदीनाम्नी नांत्यपर्वतनामिकाम् । न पक्ष्यहिप्रेष्यनानी न विभीषणनामिकाम् ॥' इति । अंत्यःचांडालः। शातातपः-हस्वस्वरां मेघवर्णा मधुपिंगललोचनाम् । तादृशीं वरयेत्कन्यां गृहस्थः सुखमेधते ॥' विष्णुपुराणेऽपि-'न श्मश्रुव्यंजनवती नचैव पुरुषाकृतिम् । नातिबद्धेक्षणां तद्वत्कृशांगी नोद्वहेस्त्रियम् ॥ यस्याश्च रोमशे जंघे गुल्फो यस्यास्तथोन्नतौ । गंडयोः कूपको यस्या हसंत्याश्चैव जायते (?)॥ नोद्वहेत्तादृशीं कन्यां प्राज्ञः कार्यविचक्षणः ॥' इति । अतिबद्धक्षणां निमीलितप्रायनेत्रामित्यादिसामुद्रिकशुभाशुभलक्षणलक्षितां परीक्ष्य कन्यां वरयेदिति । सामुद्रिकलक्षणानि काशीखंडे वराहसंहितायामप्युक्तानि तत एव ज्ञेयानि ॥ १०॥ Page #248 -------------------------------------------------------------------------- ________________ २३२ मुहूर्तचिंतामणिः । [ कन्याविवाहकालः अथ दरवरणमुहूर्तमाहधरणिदेवोऽथवा कन्यकासोदरः शुभदिने गीतवाद्यादिभिः संयुतः । वरवृतिं वस्त्रयज्ञोपवीतादिना ध्रुवयुतैर्वह्निपूर्वात्रयैराचरेत् ॥ ११ ॥ धरणिदेव इति ॥ धरणिदेवो ब्राह्मणः पुरोहितादिः । शेषं स्पष्टार्थं पद्यम् । उक्तं च व्यवहारचंडेश्वरेण - 'पूर्वात्रितयमानेयमुत्तरात्रितयं तथा । रोहिणी तत्र वरणे भगणः शस्यते सदा ॥ उपवीतं फलं पुष्पं वासांसि विविधानि च । देयं वराय वरणे कन्याभ्रात्रा द्विजेन वा ॥' इति । कीदृशाय वराय कन्या देयेत्याह वसिष्ठः - 'कुलं च शीलं च सनाथतां च विद्यां च वित्तं च वपुर्वयश्च । वरे गुणान्सप्त परीक्ष्य देया कन्या बुधैः शेषमचिंत-नीयम् ॥' कीदृशाय वराय न देयेत्याह चंडेश्वरः - 'सितकुष्ठिन्यपस्मारे ब्रह्मघ्ने राजयक्ष्मणि । अंधे च परिवित्तौ च बधिरे दूरदेशगे । व्यसनासक्तचित्ते च न देया कन्यका बुधैः ॥' इति । परिवित्तिलक्षणममरसिंहे- 'परिवेत्तानुजोऽनूढे ज्येष्ठे दारपरिग्रहात् । परिवित्तिस्तु तज्जयायान्' इति । व्यसनं = द्यूतादि । वसिष्ठोऽपि - 'अत्यासन्नेनातिदूरेऽप्यत्याढ्ये ऽप्यतिदुर्बले । वृत्तिहीने च मूर्खे च षट्सु कन्या न दीयते ॥ दूरस्थानामविद्यानां मोक्षधर्मानुवर्तिनाम् ॥ शूराणां निर्धनानां च न देया कन्यका बुधैः ॥ ' इति । अत एव मनुः - 'काममामरणात्तिष्ठेद्गृहे कन्यर्तुमत्यपि । नत्वेवैनां प्रयच्छेत गुणहीनाय कर्हिचित् ॥' अत्र गुणाय कन्या न देया, किंतु गुणवते देयेत्यत्र तात्पर्यम् । न पुनरसंस्कृतायास्तस्या रजोदर्शनानंतरमवस्थानं युक्तं, दोषस्मरणात् । यदाह वात्स्यः'माता चैव पिता चैव ज्येष्ठो भ्राता तथैव च । त्रयस्ते नरकं यांति दृष्ट्वा कन्यां रजस्वलाम् ॥ यस्तां विवाहयेत्कन्यां ब्राह्मणो मदमोहितः । असंभाष्यो ह्यपांक्तेयः स भवेद्वृषलीपतिः ॥' इति । वृषली - रजस्वला । याज्ञवल्क्यः‘अप्रयच्छन्नवाप्नोति भ्रूणहत्यामृतावृतौ'। भ्रूणः=बालकः । ऋतुः=रजोदर्शनम् । नारदोऽपि - 'यावंत ऋतवस्तस्याः समतीयुः पतिं विना । तावंत्यो भ्रूणहत्याः स्युस्तस्य यो न ददाति ताम् ॥' इति । अत एवाह वसिष्ठः - 'रजो हि दृष्टं यदि कन्यकायाः कुलद्वयं दुर्गतिमेति तस्याः । तस्मान्नितांतं च तदुक्तकाल नोल्लंघ्य पाणिग्रहणं विधेयम् ॥' इति ॥ ११ ॥ अथ कन्याविवाहकालं ग्रहशुद्धिं च वसंतमालिकाछंदसाह - गुरुशुद्धिवशेन कन्यकानां समवर्षेषु षडब्दकोपरिष्टात् । रविशुद्धिवशाच्छुभो वराणामुभयोश्चंद्र विशुद्धितो विवाहः ॥ १२ ॥ गुर्विति ॥ कन्यकानां विवाहः षडब्दकोपरिष्टात् षड्वर्षातिक्रमानंतरं सम Page #249 -------------------------------------------------------------------------- ________________ वधूवरयोर्गुरुसूर्यबलावश्यकता] विवाहप्रकरणम् ६ । २३३ वर्षेषु युग्मवर्षेषु सत्सु गुरुशुद्धौ सत्यां शुभः । अर्थात्पुरुषाणां विषमवर्षेषु रविशुद्धौ विवाहः शुभः। तदाह च्यवनः-'षडब्दमध्ये नोद्वाह्या कन्या वर्षद्वयं यतः । सोमो भुंक्तेऽथ गंधर्वस्ततः पश्चाद्धुताशनः ॥' इति । इदमस्य व्याख्यानम्-जन्मानंतरं वर्षद्वयं सोमः कन्यां भुंक्ते, तदनंतरं द्वे वर्षे गंधर्वः, तदनंतरमग्निः, ततो मनुप्याधिकार इति षडब्दतः प्राग्विवाहो न कार्यः । तत्र षड्वर्षानंतरं समवर्षे विवाहः शुभः। यदाह नारदः-'युग्मेऽब्दे जन्मतः स्त्रीणां शुभदं पाणिपीडनम् । एतत्पुंसामयुग्मेऽब्दे व्यत्यये नाशनं तयोः ॥' इति । कश्यपोऽपि-'विवाहो जन्मतः स्त्रीणां युग्मेऽब्दे पुत्रपौत्रदः । अयुग्मे श्रीप्रदः पुंसां विपरीते तु मृत्युदः ॥' इति । एवं च सति स्त्रीणां विवाहोऽष्टमदशमवर्षयोर्भवतीत्यर्थः । अत एवाह व्यासः-'अष्टवर्षा भवेद्गौरी नववर्षा च रोहिणी । दशवर्षी भवेत्कन्या द्वादशे वृषली स्मृता ॥' इति । अस्य फलश्रुतिमाह मात्स्यः -'गौरी ददद्ब्रह्मलोकं सावित्रं रोहिणीं ददत् । कन्यां ददत्स्वर्गलोकमतः परमसद्गतिम् ॥' प्राप्नोतीति शेषः । 'गौरी विवाहिता सौख्यसंपन्ना स्यात्पतिव्रता । रोहिणी धनधान्यादिपुत्राढ्या सुभगा भवेत् ॥ कन्या विवाहिता संपत्समृद्धा स्वामिपूजिता ॥' इति । ननु नववर्षाया रोहिण्यांअयुग्मवर्षत्वाद्विवाहनिषेधः संभवति । गर्भतो नवमवर्षग्रहणे अयुग्मवर्षत्वाऽपरिहाणात्स दोषस्तदवस्थ एव । ये तु-'अयुग्मे दुर्भगा नारी युग्मे च विधवा भवेत्' इति चंडेश्वरवाक्यमभ्यस्यंति तन्मते सुतरां विवाहाभावः। उच्यते-'युग्मेऽब्दे संपदः सौख्यविद्याधर्मायुषः सदा । भर्तुर्दुष्टा भवत्योजे निषेकान्नात्र संशयः ॥' इति पराशरवाक्याद्गर्भवर्षग्रहणमध्यवसीयते । नारदादिवाक्यात्तु जन्मत इत्यपि । तत्र षष्ठवर्षानंतरं जन्मतो विषमवर्षीयमासत्रयानंतरं नवमासाःशुभाः समवर्षीयमासत्रयं च । इदमेव च मासत्रयं नारदादिमते गृह्यते इति युक्ता व्यवस्थेत्युत्पश्यामः । एतदेवाभिप्रेत्योक्तं श्रीपतिनिबंधे-'मासत्रयादूर्ध्वमयुग्मवर्षे युग्मे तु मासत्रयमेव यावत् । विवाहशुद्धिं प्रवदंति संतो वात्स्यादयो गर्गवराहमुख्याः ॥' इति । 'अयुग्मे दुर्भगा नारी युग्मे तु विधवा भवेत् । तस्माद्गर्भान्विते युग्मे विवाहे सा पतिव्रता ॥' इति चंडेश्वरोक्तिश्च सार्थिका । एवं नवमवर्षस्यायुग्मत्वप्रयुकनिषेधोऽष्टमवर्षानंतरं मासत्रयमेव । तस्मादनंतरं तु सुखेन विवाह इति व्यासवाक्ये न विरोधः । एवं विहितवर्षे यस्मिन्काले गुरुशुद्धिर्भवेत्तद्वशेन विवाहः कार्यः।गुरुशुद्धिस्तु-'बटुकन्याजन्मराशेस्त्रिकोणायद्विसप्तगः। श्रेष्ठो गुरुः खषत्र्याये पूजयान्यत्र निंदितः॥' इत्युपनयनप्रकरणेऽभिहिता । यदाह गुरुः–'स्त्रीणां गुरुबलेनैव विवाहः शोभनः स्मृतः । वरस्यार्कबलं ग्राह्यमैंदवं तूभयोरपि ॥' इति । 'सुरगुरुबलमबलानां पुरुषाणां तीक्ष्णरश्मिबलमेव । चंद्रबलं दंपत्योरवलोक्य विशोधयेल्लग्नम् ॥' इति वराहोक्तेश्च । एतच्चावश्यकत्वार्थमभिहितम् । यदा द्वयोरपि गुरुबलमिष्टं भवेत्तदा पाणिग्रहः शुभदः। द्वयोरन्यतरस्य गुर्वशुद्धौ विवाहकालांतरासंभवे च तत्पित्रादिना पूजां कारयेत् । Page #250 -------------------------------------------------------------------------- ________________ २३४ मुहूर्तचिंतामणिः। विवाहे मासनिर्णयः 'रविशुद्धौ गृहकरणं रविगुरुशुद्धौ व्रतोद्वाहौ । क्षौरं ताराशुद्धौ शेषं चंद्राश्रित कर्म ॥' इति राजमार्तडोक्तसामान्यवाक्यालोचनात् । वराणां विवाह्यानां पुंसां रविशुद्धिवशेन विवाहः शुभः। उभयोः स्त्रीपुंसयोश्चंद्रविशुद्धितो विवाहः शुभः स्मृतः । अत्र संमतिः प्रागुक्ता । यदा तु कन्या कालातिकांता भवति तदा गुरुबलमनावश्यकमित्याह व्यासः-'दशवर्षव्यतिक्रांता कन्या शुद्धिविवर्जिता । तस्यास्तारेंदुलग्नानां शुद्धौ पाणिग्रहो मतः ॥' इति । प्राप्तकाले हि गुरुशुद्ध्यादिविचार इति तत्त्वम् ।साच गुरुरविचंद्रशुद्धिर्गोचरप्रकरणेऽभिहिता, गोचरबलाभावेऽष्टकवर्गादिबलं ग्राह्यमित्याह नारदः-'गोचरं वेधजं चाष्टवर्गजं रूपजं बलम् । यथोत्तरं बलाधिक्यं स्थूलं गोचरमार्गजम् ॥' इति ॥ १२ ॥ अथैवं गुरुशुद्धिमुक्त्वेदानी विहितमासान्द्रुतविलंबितेनाहमिथुनकुंभमृगालिवृषाजगे मिथुनगेऽपि रवौ त्रिलवे शुचेः। अलिमृगाजगते करपीडनं भवति कार्तिकपौषमधुष्वपि ॥१३॥ मिथुनेति॥ मिथुनकुंभौ प्रसिद्धौ, मृगो मकरः, अलिवृश्चिकः, वृषःप्रसिद्धः, अजो मेषः; एतद्राशिगते रवौ सति तत्रापि मिथुनस्थिते सूर्येऽपि शुचेराषाढस्य त्रिलवे तृतीयांशे आषाढशुद्धप्रतिपदमारभ्य दशमीपर्यंतं करपीडनं विवाहो भवति । अर्थादितरराशिगते सूर्ये सति आषाढशुक्लदशम्यनंतरं हरिशयने च सति विवाहो न स्यात् । यदाह कश्यपः-'उत्तरायणगे सूर्ये मीनं चैत्रं च वर्जयेत् । अजगोद्वंद्वकुंभालिमृगराशिगते रवौ ॥ मुख्यं करग्रहं त्वन्यराशिगे न कदाचन ॥' इति । वसिष्ठः-'दिनाधिपे मेषवृषालिकुंभनृयुग्मनक्राख्यधटक्षसंस्थे । माघद्वये माधवशुक्रयोश्च मुख्योऽथवा कार्तिकसौम्ययोश्च ॥' इति । घटस्तुला, शुक्रो ज्येष्ठः, सौम्यो मार्गशीर्षः, मुख्यो विवाह इति शेषः । 'आोदयादूर्ध्वमिनस्य कार्य नक्षत्रवृंदे दशके कदाचित् । मासोक्तकमतरमंगलाढ्यं कुर्यान्न सुप्तेऽपि तथा मुरारौ ॥' एतेन हरिशयनात्याकालः साधीयानित्यभिहितं भवति । अत्र सामान्यतो मासशब्देन चांद्र एव मासो गृह्यते; 'इंद्रानी यत्र हुयेते' इत्याद्युक्तेः । अत्र तु सौरचांद्रमसद्वयोपादानादुभयोरैक्ये विवाहफलमविकलं भवति । तदुक्तं केशवाण-'प्रायः सौर मानमिष्टं विवाहे तत्किं चांद्रं मानमाहुः फलेन । तस्मात्सम्यक् तत्फलाप्तिस्तदैक्ये सौरो मासः केवलः किंचिदूनः ॥' इति । अस्यार्थ:-कश्यपादिभिः सौरा एव मासा उक्ताः; तेषां च प्राशस्त्यम्-'विवाहादौ स्मृतः सौरो यज्ञादौ सावनो मतः' इति वृद्धगर्गस्मरणात् । नारदादिभिस्तु-'माघफाल्गुनवैशाखज्येष्ठमासाः शुभप्रदाः । मध्यमः कार्तिको मार्गशीर्षों वै निंदिताः परे ॥' इति चांद्रा एवोक्ताः। एतत्प्राशस्त्यं च वसिष्ठेनोक्तम्-'उद्वाहयज्ञोपनयप्रतिष्ठातिथिव्रतं क्षौरमहोसवाथम् । पर्वक्रिया वास्तुगृहप्रवेशः सर्वं हि चांद्रेण विगृह्यते तत् ॥ Page #251 -------------------------------------------------------------------------- ________________ विवाहे जन्ममासादिनिषेधः] विवाहप्रकरणम् ६ । इति । अतो द्वयोः सौरचांद्रमासयोरैक्ये विवाहादिशुभमेकतरपक्षाश्रयेण मध्यममिति निष्कृष्टोऽर्थः । एवं च मकरसंक्रांती माघः, कुंभे फाल्गुनः, मेषे वैशाखः, वृषे ज्येष्ठः, मिथुने आषाढतृतीयांशः, तुलायां कार्तिकः, देवोत्थानादुत्तरः, वृश्चिके मार्गशीर्षः शुभ इत्यर्थः । केचित्तु चांद्रमासं मुख्यमाहुस्तेनायमर्थः-फाल्गुनोऽपि विहित इति मीनसंक्रमणसद्भावेऽपि शुभः । चैत्रो निषिद्ध इति मेषसंक्रांतिसद्भावेऽप्यशुभः । तदुक्तं विवाहवृंदावने-'झषो न निंद्यो यदि फाल्गुने स्यादजस्तु वैशाखगतो न निंद्यः । मध्वाश्रितौ द्वावपि वर्जनीयावित्यादिवाचामियमेव युक्तिः ॥' इति । 'अजस्तु वैशाखगतो न निंद्यः' इति तु निर्मूलमेव । न हि मेषसंक्रमः क्वचिन्निषिद्धोऽस्ति, तदेतदविचारितरमणीयम् । कुतः? यतो यन्मते सौरमासस्यैव मुख्यत्वं तन्मते मेषः प्रशस्त इति चैत्रेऽपि विवाहप्रसंग इति विपरीतस्यापि वक्तुमशक्यत्वात् । उक्तं च चडारत्ने-'पौषेऽपि मकरस्थेऽक चैत्रे मेषगते रवौ । आषाढे मिथुनादित्ये केऽप्याहुः करपीडनम् ॥' इति । किंच वसिष्ठवाक्ये-'दिनाधिपे मेषवृष-' इत्यादौ सौरचांद्रमासयोरुपादानस्य वैयर्थ्यापातात् । तस्माद्वयोरैक्ये विवाहः प्रशस्तः। तत्र माघफाल्गुनवैशाखज्येष्ठा मुख्याः । यत्र तु निषेधानंतरं प्रतिप्रसवो यथा दक्षिणायने विवाहं निषिध्य कार्तिकमार्गशीर्षों विहितौ तत्र मध्यमत्वम् । अत एव 'अथवा कार्तिकसौम्ययोश्च' इति वसिष्टेन पृथगुक्तं नारदवाक्ये स्पष्टमेव मध्यमत्वम् । अतो विवाहपटले गर्गः-“पुत्रोपेता तु कार्तिके । धनधान्यसुतोपेता सौम्ये भर्तृपरायणा' इत्युक्तवान् । तदपि धनुःसंक्रांतिव्यतिरिक्तविषयं दृष्टव्यम् । हरिशयनात्प्रागाषाढतृतीयांशश्च मध्यमः।हरिस्वापांतर्गताः आषाढश्रावणभाद्रपदाश्विनकार्तिकाः पौषश्चैते निषिद्धाः। धनुषि पौषस्त्वत्यंत निषिद्धः । 'मीने धनुषि सिंहे च स्थिते सप्ततुरंगमे । क्षौरमन्नं न कुर्वीत विवाह गृहकर्म च ॥' इति गर्गोक्तेः । अन्नम् अन्नप्राशनं, विहितकालातिक्रांतं क्षौरं चौलं च स्वतंत्रम् । यत्तपनयनांगं क्षौरं तस्य न निषेधः, 'चैत्रे मीनगते रवौ' इति विहितोपनयनस्य विषयालाभात् ॥अथोत्तराध व्याख्यायते-अलीति। अलिमृगाजाः प्राग्व्याख्याताः, एतद्राशिगते सूर्ये सति कार्तिकपौषमधुष्वपि करपीडनं भवति । यथा-वृश्चिके कार्तिकः, मकरे पौषः, मेषे चैत्रोऽपीत्यर्थः। इदं तु सौरमासग्रहिलानां मतम् । अत एवाधुनोक्तचूडारत्नस्थवाक्ये 'केऽप्याहुः करपीडनम्' इत्युक्तेः । श्रीधरोऽपि-'पौषे च कुर्यान्मकरस्थितेऽके चैत्रे भवन्मेषगतो यदा स्यात् । प्रशस्तमाषाढकृतं विवाहं वदंति गर्गा मिथुनस्थितेऽके ॥' इति। तदेतत्प्रागभिहितन्यायादुपेक्ष्यम् । अथवा केवलमतांगीकारेण मध्यमत्वमंगीकृत्य कालांतरानपेक्षिण्यवश्यदेयकन्याविषयम् । अत्र 'गीर्वाणांबुप्रतिष्ठा' (५।२६ ) इत्यादिना मासनिर्णयः सामान्यतः कृतोऽप्येतादृशविशेषाभिधानार्थं पुनग्रंथकृतोक्तः ॥ १३ ॥ अथ मासप्रसंगाजन्ममासादिप्रयुक्तनिषेधविधीन् रथोद्धतावृत्तेनाहआद्यगर्भसुतकन्ययोर्द्वयोर्जन्ममासभतिथौ करग्रहः । Page #252 -------------------------------------------------------------------------- ________________ २३६ मुहूर्तचिंतामणिः। [विवाहे ज्येष्ठत्रयविचारः नोचितोऽथ विबुधैः प्रशस्यते चेद्वितीयजनुषोः सुतप्रदः॥१४॥ आद्येति ॥ यस्मिन् चांद्रे मासे जन्म स जन्ममासः, जन्मतिथिमारभ्य त्रिंशत्तिथ्यात्मको मासो जन्ममासो वेत्युच्यते। द्वयमप्याद्यप्रकरणे 'जन्मक्षमासतिथयः(१।३४)इति पद्यव्याख्यावसरे विविच्य व्याकृतमस्माभिः। यस्मिन्नक्षत्रे जन्म तजन्मभम् । यस्यां तिथौ जन्म सा जन्मतिथिः । समाहारद्वंद्वः। आगमशासनस्यानित्यत्वान्नुमभावः । उपलक्षणत्वात्तन्मुहूर्तोऽपि।तत्राद्यगर्भयोः सुतकन्ययोः द्वयोः करग्रहो विवाहो नोचितो निषिद्ध इत्यर्थः । यदाह वसिष्ठः'स्वजन्ममासःतिथिक्षणेषु वैनाशिकावृक्षगणेषु चैवम् । नोद्वाहमात्माभ्युदया. भिकांक्षी नैवाद्यगर्भद्वितयं कदाचित् ॥'क्षणः मुहूर्तः। नारदोऽपि-'न जन्ममासे जन्मः न जन्मदिवसेऽपि वा । आद्यगर्भसुतस्याथ दुहितुर्वा करग्रहः ॥' इति । जन्मदिवसे-जन्मतिथौ । आवश्यकत्वेऽपवादो जगन्मोहने-'जातं दिन दूषयते वसिष्ठः पंचैव गर्गस्त्रिंदिनं तथात्रिः। तजन्मपक्षं किल भागुरिश्च व्रते विवाहे गमने क्षुरे च ॥ इति । अथेति। द्वितीयजनुषोरनाद्यगर्भयोश्चेद्विवाहः तर्हि सुतप्रदो विबुधैः पंडितैः प्रशस्यते । एतच्च तृतीयगर्भादावपि द्रष्टव्यम् । सर्वथाद्यगर्भराहित्यं विवक्षितम् । केचित् 'चेदनाद्यजनुषोः' इति पठंति । यदाह च्यवनः-'जन्मः जन्ममासे वा तारायामथ जन्मनि । जन्मलग्ने भवेदूढा पुत्राढ्या पतिवल्लभा ॥' इति । चंडेश्वरः-'जन्ममासे तु पुत्राच्या धनाढ्या जन्मभोदये । जन्मलग्ने भवेदूढा वृद्धा संततिसौख्यभाक् ॥' इति । एतच्चानाद्यगर्भविषयम् । आद्यगर्भे साक्षानिषेधाभिधानात् ॥ १४ ॥ - अथ प्रसंगाज्येष्ठमासप्रयुक्तं विशेष शालिन्याहज्येष्ठद्वंद्वं मध्यमं संप्रदिष्टं त्रिज्येष्ठं चेनैव युक्तं कदापि । केचित्सूर्य वह्निगंप्रोह्य चाहु वान्योन्यं ज्येष्ठयोः स्याद्विवाहः १५ ' ज्येष्ठद्वंद्वमिति ॥ पुत्रो ज्येष्ठः कन्या च ज्येष्ठा मासोऽपि ज्येष्ठः इत्येतत्रिज्येष्ठं, इदं ज्येष्ठत्रयमुच्यते; तत्कदापि नैव युक्तं नैव प्रशस्तम् । ज्येष्ठे मासे ज्येष्ठयोर्वधूवरयो व विवाहः कार्य इत्यर्थः । यदात्वेकतरज्येष्ठत्वे ज्येष्ठे मास्यपि भवति । यदाह गुरुः-'ज्येष्ठे न ज्येष्ठयोः कार्य नृनार्योः पाणिपीडनम् । तयोरन्यतरे ज्येष्ठे ज्येष्ठमासेऽपि कारयेत् ॥' इति । एतच्चान्यतरेण ज्येष्ठत्वं द्विविधं ज्येष्ठमासो ज्येष्ठो वरश्च ज्येष्ठो मासः, कन्या च ज्येष्ठा एतज्जयेष्ठद्वंद्वं मध्यमं संप्रदिष्टम् । अगतिविषयकमित्यर्थः। एको ज्येष्ठोऽन्यद्वयमज्येष्ठमुत्तममेव । यदाह वराहः-'द्वौ ज्येष्ठौ मध्यमौ प्रोक्तावेकज्येष्ठः शुभावहः । ज्येष्ठत्रयं न कुर्वीत विवाहे सर्वसंमतम् ॥' इति । पराशरोऽपि-'अज्येष्ठा कन्यका यत्र ज्येष्ठः पुत्रो वरो यदि । व्यत्ययो वा तयोस्तत्र ज्येष्ठमासः शुभप्रदः ॥' इति । केचित्तु ज्येष्ठमासाभावेऽपि वरकन्ययोज्येष्ठत्वमपि मध्यममाहुस्तदसत् । वधूवरान्यतरज्येष्ठराहित्यविवक्षातः । तद्वाक्यं प्रागुक्तम् । Page #253 -------------------------------------------------------------------------- ________________ खनवांशे चंदनवांशफलं ] विवाहप्रकरणम् ६ । २३७ किंतु जन्ममासज्येष्ठमासयोरभावेऽपि द्वयोज्येष्ठयोर्वधूवरयोः सर्वथा निषिद्धो विवाहः । यदाह गर्ग:-'ज्येष्ठायाः कन्यकायाश्च ज्येष्टपुत्रस्य वै मिथः । विवाहो नैव कर्तव्यो यदि स्यान्निधनं तयोः ॥' इति । तदेतदुक्तं ग्रंथकृता'नैवान्योन्यं ज्येष्ठयोः स्याद्विवाहः' इति । ज्येष्ठत्रयनिषेधस्त्वतिदोषाधिक्यसूचनार्थः। त्रिज्येष्ठमिति । कथमस्य साधुत्वं यावता ज्येष्ठो मासः ज्येष्ठो वरःज्येष्ठा च कन्येति त्रीणि पदानि तेषां ज्यैष्ठश्च ज्येष्ठश्च ज्येष्ठा चेति द्वंद्वापवादः 'सरूपाणामेकशेष एकविभक्तौ' इत्येकशेषो न प्राप्नोति, सरूपत्वाभावात् । अथोच्यतेज्यैष्ठो मासः ज्येष्ठश्च वरः ज्येष्ठा च कन्येति विग्रहे यद्यपि 'सरूपाणाम्' इत्ये. कशेषो वैरूप्यान्न प्राप्नोति तथापि 'सरूपाणाम्' इत्यनुवृत्तौ 'पुमान्सिया' इत्येकशेषे यः शिष्यते स निवर्त्यमानार्थमाचष्टे इति ज्येष्ठाविति पदं सिद्धं कृत्वा ज्येष्ठौ च ज्येष्ठो मासश्चेति विग्रहे सेत्स्यति । तन्न । असारूप्यादेवात्राप्येकशेपाभावस्य सिद्धत्वात् । अथ मतं मासवाची ज्येष्ठशब्दोऽस्ति । 'वैशाखे माधवो राधो ज्येष्ठे शुक्रः शुचिस्त्वयम्' इत्यमरोक्तेः । आदिवृद्धिरहितेन ज्येष्ठमासशब्देन साकमेकशेषो भविष्यति । तदपि न । अमरोक्तावेव 'ज्यैष्ठे शुक्रः शुचिस्त्वयम्' इत्यादिवृद्धिसहितस्य पाठादनुशासनबलाच्च । तथा हि-ज्येष्ठानक्षत्रेण युक्ता पौर्णमासीत्यत्र 'नक्षत्रेण युक्तः कालः' इत्यणि सति 'तद्धितेष्वचामादेः' इत्यादिवृद्धौ ‘यस्येति च' इत्याकारलोपे ज्यैष्ठ इति सिद्धम् । ततः स्त्रियाम् 'टिड्डाण' इति डीपि पुनः 'यस्येति' लोपे सिद्धं ज्यैष्ठीति । तस्माज्यैष्ठी विद्यतेऽस्मिन्नित्यर्थे 'सास्मिन्पौर्णमासीति संज्ञायाम्' इत्यणि 'यस्येति च' इतीकारलोपे सिद्धं ज्यैष्ठ इति । अत एवामरसिंहोऽपि-'पुष्ययुक्ता पौर्णमासी पौषी मासे तु यत्र सा । नाम्ना स पौषो माघाद्याश्चैवमेकादशापरे ॥' इत्यादिवृद्धिसहितानेव पौषादीनूचे । कचित्तु ज्येष्ठं इति पाठः स प्रामादिकः । तस्मादेकशेषः सर्वथानुपपन्नः । एवमशुद्ध कशेषांगीकारे सत्यपि त्रिशब्देन साकं त्रयाणां ज्येष्ठानां समाहार इति 'तद्धितार्थोत्तरपदसमाहारे च' इति तत्पुरुष समासे 'संख्यापूर्वो द्विगुः' इति द्विगुसंज्ञायाम् 'द्विगोः' इति ङीपि त्रिज्यैष्ठीति भाव्यं, न पुनस्त्रिज्येष्ठमिति दूषणद्वयमस्ति । अत्र क्रमेण समाधिः'ओर्गुणः' इत्यत्र 'ओरोत्' इति वक्तव्ये गुणग्रहणम् 'संज्ञापूर्वको विधिरनित्यः' इति परिभाषाज्ञापनार्थम् । तेन 'तद्धितेष्वचामादेः' इत्यादिवृद्धरनित्यतामंगीकृत्य ज्येष्ठमासप्रयोगोपपत्तिः । अतो ज्येष्ठौ च ज्येष्ठश्चेति सरूपत्वादेकशेषः सिद्धः । ततस्त्रिशब्देन समासे 'पात्राद्यतस्य न' इति स्त्रीत्वनिपेधात्पात्रादेरित्याकृतिगणत्वान्नपुंसकत्वमंगीकार्यमिति सिद्धं त्रिज्येष्ठमिति । अथास्यापवाद उच्यते-केचिदिति । सत्यावश्यकत्वे सूर्यं वह्निगं कृत्तिकास्थं मोह्य त्यक्त्वा ज्येष्ठमासेऽपि ज्येष्ठस्य वरस्य कन्याया वा विवाहः शुभ इति केचिदूचुः । एतच्च तुल्यन्यायत्वाज्येष्ठापत्यस्य न ज्येष्ठे इति सामान्यतो मंगलकृत्यनिषेधेऽपि द्रष्टव्यम् । यदाह भरद्वाजः-'ज्येष्ठे ज्येष्ठस्य कुर्वीत भास्करे चानलस्थिते । नोत्सवादीनि कार्याणि दिग्दिनानि च वर्जयेत् ॥' Page #254 -------------------------------------------------------------------------- ________________ ૨૨૮ मुहूर्तचिंतामणिः । [सोदरविवाहे पौर्वापर्यनिषेधः विशेषमाह स एव-'दशाहं चैव गर्गस्तु त्रिदशाहं बृहस्पतिः। अर्कभोग्यानिभं यावन्मुनिः प्राह पराशरः॥' इति । तंत्रांतरेऽपि-'कृत्तिकास्थं रविं त्यक्त्वा ज्येष्ठे ज्येष्ठस्य कारयेत् । उत्सवादीनि कार्याणि दिनानि दश वर्जयेत् ॥ व्रतबंध विवाहं च चूडां कर्णस्य वेधनम् । ज्येष्ठमासे न कुर्वीत कल्याणं ज्येष्ठपुत्रगम् ॥' इति । अत्र ज्येष्टपुत्रदुहितोज्येष्ठमासवन्मार्गशीर्षेऽपि मंगलकृत्यनिषेधमाह वात्स्यः-'मार्गशीर्षे तथा ज्येष्ठे विवाहं चौलमेव च । ज्येष्ठपुत्रदुहितोश्च न कुर्वीत व्रतं तथा ॥' भरद्वाजोऽपि-'मार्गशीर्षे तथा ज्येष्ठे क्षौरं परिणयं व्रतम् । आद्यपुत्रदुहितोश्च यत्नतः परिवर्जयेत् ॥' इति । अत एव स्वयं च ग्रंथका-'ज्येष्ठापत्यस्य न ज्येष्टे कैश्चिन्मार्गेऽपि नेष्यते' इत्युक्तं प्राक् । कैश्चिद्रहणं शिष्टाचाराभावं सूचयितुं कृतम् ॥ १५॥ ___ अथ निजकुलोत्पन्नानां तथैकोदराणामपि पुत्रकन्यानां विवाहादिमंगलकृत्ये कालनियमपुरःसरं पूर्वापरीभावनिषेधं विशेषांतरं च हरिणीछंदसाह सुतपरिणयात्षण्मासांतः सुताकरपीडनं न च निजकुले तद्वद्वा मंडनादपि मुंडनम् । न च सहजयोर्देये भ्रात्रोः सहोदरकन्यके न सहजसुतोद्वाहोऽब्दार्धे शुभे न पितृक्रिया ॥१६॥ सुतपरिणयादिति ॥ देहलीदीपन्यायेनात्रापि निजकुल इति संबध्यते । निजकुले स्ववंशे सुतस्य पुत्रस्य परिणयाद्विवाहात्परतः षण्मासांतः सौरमासषट्कमध्ये सुतायाः कन्यायाः विवाहो न स्यात् । उक्तं च वसिष्ठेन-पुत्रोद्वाहाजैव पुत्र्याः कदाचिदाषण्मासात्कार्यमुद्वाहकर्म' इति । नारदोऽपि-'पुत्रोद्वाहात्परं पुत्रीविवाहो न ऋतुत्रये । कुर्यान्न व्रतमुद्वाहान्मंगले नाप्यमंगलम् ॥' इति । अयं च निषेधः कुलपरो द्रष्टव्यः । यदाह वात्स्यः-'स्त्रीविवाहः कुले निर्गमः कथ्यते पुविवाहः प्रवेशो वसिष्ठादिभिः । निर्गमादादितो न प्रवेशो हितस्तत्र संवत्सरांतोऽवधिः कीर्तितः ॥' इति । अब्दभेदे तु नायं कालनियम इति 'चूडा व्रतं च' (६।१८) इत्यत्र ग्रंथकृद्वक्ष्यति । निजकुल इति । स्ववंशे पुत्रस्य कन्याया वा मंडनाद्विवाहान्मुंडन चौलमुपनयनं महानाम्न्यादिव्रतचतुष्टयं समावर्तनं वा तद्वत्षण्मासांतर्न कार्यम् । यदाहात्रिः-'कुले ऋतुत्रयादर्वा मंडनानतु मुंडनम्' इति । तस्मान्मुंडनान्मंडनं कार्यम् । तथा कन्याविवाहादनंतरं पुत्रस्य विवाहः कार्य इत्यर्थः। यदाह नारदः-'मुंडनान्मंडनं कार्य मंडनान्नैव मुंडनम्' इति । वसिष्ठः-'पुत्रीविवाहात्परतः सदैव शुभप्रद पुत्रविवाहकर्म' इति। न चेति । सहजयोः सोदरयोर्धात्रोः सहोदरकन्यके न देये नोद्वाह्ये । उक्तं च नारदेन–'न चैकजन्मनोः पुंसोरेकजन्ये तु कन्यके । नूनं कदाचिदुद्वाह्ये नैकदा मुंडनद्वयम् ॥' इति । 'एकजन्ये तु कन्ये द्वे पुत्रयोनैकजन्ययोः' इति वसिष्ठोक्तेश्च । अत्र चकारोऽनुक्तसमुच्चयार्थः । तेनै Page #255 -------------------------------------------------------------------------- ________________ सोदराणां मंगले कालविचारः] विवाहप्रकरणम् ६ । कस्सै वराय सहोदरकन्याद्वयमपि न देयमित्यर्थः । 'न पुत्रीद्वयमेकस्मै प्रदद्यात्तु कदाचन' इति वसिष्ठोक्तेः। नारदोऽपि-प्रत्युद्वाहो नैव कार्यों नैकस्मै दुहितद्वयम्' इति । प्रत्युद्वाहः विनिमयविवाहः। मत्पुत्राय "चेत्त्वया कन्या दीयते तदा मयापि त्वत्पुत्राय कन्या देया" इत्येवं पणबंधरूपः। कान्यकुजभाषया 'गुरावद' इत्याहुः। एतादृशः पणबंधो भगिन्यादिदानेऽपि द्रष्टव्यः। न सहजसुतोद्वाहोऽब्दार्ध इति। सुतश्च सुतश्च सुतौ, 'सरूपाणाम्' इत्येकशेषः। सुता च सुता च सुते, पूर्ववदेकशेषः । सुता च सुतश्च सुतौ, 'पुमान् स्त्रिया' इत्येकशेषः। सुतौ च सुते च सुतौ च सुता च इति कृतैकशेषाणां द्वंद्वः। अत्रापि 'पुमान् स्त्रिया' इत्येकशेषः। सहजाश्च ते सुताश्चेति कर्मधारयः। तेषां सोदरभ्रातृणां विवाहः अब्दार्धे वर्षार्धे सौरषण्मासमध्ये न कार्यः । यदाह नारदः-'विवाहस्त्वेकजन्यानां षण्मासाभ्यंतरे यदि । असंशयं त्रिभिर्वर्षेस्तत्रैका विधवा भवेत् ॥' विवाह इत्युपलक्षणम् । तेन समानसंस्कार एकमातृजयोः पुत्रयोः कन्ययोर्वा पुत्रकन्ययोर्वा न कार्य इत्यर्थः । तथा च वृद्धमनुः-'एकमातृजयोरेकवत्सरे पुरुषस्त्रियोः । न समानक्रियां कुर्यान्मातृभेदे विधीयते॥' इति । समानक्रिया चूडाकरणादिका एकवर्षमध्ये तु निषिद्धत्यर्थः । एकवत्सर इति कालसावकाशद्योतनाय । षण्मासमध्ये तु सर्वथैव न कार्या । 'विवाहस्त्वेकजन्यानां षण्मासाभ्यंतरे यदि' इति नारदवाक्यस्वरसात् । यमलजातयोस्त्वपत्ययोर्नियतकालानां जातकर्मादिकर्मणामेकक्रियानिधाभावो वर्षभेदेन तदसंभवात्। नन्वत्र पुरुषस्त्रियोरित्युक्ते पुरुषकन्ययोरेव समानक्रियानिषेधोऽवगम्यते, न द्वयोः कन्ययोः पुत्रयोर्वेति । न च पुरुषौ च स्त्रियौ चेति द्वंद्वे कृते द्वयोः पुत्रयोः कन्ययोर्वा निषेधः सेत्स्यतीति वाच्यम् । यतः-'सकृदुच्चरितः शब्दः सकृदर्थप्रत्यायकः' इति न्यायात्पुत्रकन्ययोरनिषेधः स्यात् । आवृत्त्या विवक्षितार्थसिद्धिश्चेन्न । आवृत्तौ प्रमाणाभावात् । किंच पुरुषौ च स्त्रियौ चेति कृतैकशेषयोः पुरुषयोः स्त्रियोश्चेति 'चार्थे द्वंद्वः' इति द्वंद्वे चतुष्ट्वापत्तौ द्विवचनानुपपत्तेः। ननु 'युगपदधिकरणवचनो हंडः' इति वार्तिककारवचनात् धवौ च खदिरौ च धवखदिरावित्यादावन्योन्यसाहित्यप्रतिपत्तये द्विवचनबहुवचनांतेनैव द्वंद्वान्तःपातिना सर्वेण पदेन विगृहीतव्यमिति । अत एव द्वंद्वापवादके एकशेषसूत्रे महाभाष्यकृताप्युक्तम् । सहविवक्षायामेकशेष इत्येकः षष्टः पक्ष उपन्यस्तस्तत्र तेनैवाशंक्य समाहितं 'न तहीदानीमिदं भवति । वृक्षश्च वृक्षश्च वृक्षौ । वृक्षश्च वृक्षश्च वृक्षश्च वृक्षाः इति । नैतत्सहविवक्षायां भवति तथापि निदर्शयितुं बुद्धिरेव निदर्शयितव्या वृक्षौ च वृक्षौ च वृक्षौ, वृक्षाश्च वृक्षाश्च वृक्षाश्च वृक्षाः इति ।' अतः कृतसाहित्यप्रतिपादनयोः पुरुषयोः स्त्रियोश्च द्विवचनांतयोर्द्वद्वेनैव बहुवचनोपपत्तिः। एवं सति पुनकन्ययोः सोदरयोः समानक्रियानिषेधो नतु पुत्रयोर्द्वयोः स्त्रियोश्चेति ।' वस्तुतस्तु तत्रैकवचनांतपदविग्रह एव । साहित्यप्रतिपत्तिस्तु द्वंद्वतात्पर्यादुपपन्नेति नानेकपदलक्षणादि Page #256 -------------------------------------------------------------------------- ________________ २४० मुहूर्तचिंतामणिः । [ सोदर्य समानक्रियाविचारः 1 I क्लेशः सोढव्यः । इत्येतत्प्रपंचितं तंत्ररत्ने महतायासेन । महाभाष्यकृदुक्तिस्तु व्यादीनामेव परस्परसाहित्येन द्विवचनाद्यर्थसंपत्तौ वचनांत रानवसरप्रतिपादिकेत्यभियुक्ताः । तथा च प्रागुक्तश्चतुष्ट्वापत्तिरूपो दोषः स्यादेवेति । अस्त्विति चेन्न । एकमातृजयोरिति द्विवचनानुपपत्तिः स्यात् । तत्रापि बहुवचनमस्तु । एकमातृजातानां एकवत्सरे पुरुषाणामिति चेन्न । उभयथापि छंदोभंगदोषोपपत्तेः । किंच यद्ययमर्थो विवक्षितः स्यात्तदा छंदोभंगदूषणमपहाय स्पष्टैरेव पदान्तरैर्नारदादिवाक्यवन्निषेधं कुर्यात् । अत्र ब्रूमः - एकमातृजयोः सोदर्ययोययोः कयोश्चित्समानक्रियानिषेध इत्येतावानस्य वचसोऽर्थः । द्विवचनोपादानं तु द्वयोरपि निषेधो यथा स्यात्तत्र कैमुतिकन्यायेन त्रयाणां सोदराणामर्थाक्षिप्त एव निषेधः । पुरुषस्त्रियोरिति तु पदं दृष्टांतार्थम् । नारदादिवाक्ये तु बहुवचनोपादानं बहूनामपि सोदराणां संग्रहार्थं, नतु बहुत्वविवक्षायां बहूनामेव सोदराणां निषेधार्थम् । तेन द्वयोर्बहूनां वा सोदराणां निषेधः सिध्यति । अत एव पराशरोऽपि - 'एकोदरप्रसूतानामेकस्मिन्वत्सरे यदि । पाणिग्रहो भवेन्नूनं तत्रैका विधवा भवेत् ॥' इति । तुल्यन्यायत्वाद्यज्ञोपवीते संस्कार्यत्वाद्वयोरन्यतरस्य नाश इत्यर्थः । 'नैकदा मुंडनद्वयम्' इति वसिष्ठोक्तेः । एकदा एकस्मिन्वर्षे मुंडनं चौलमुपनयनं वा । ननु कन्याविवाहकाल एव उपनयनं निर्णीयते । यदाह हारीतः - 'द्विधा स्त्रियो ब्रह्मवादिन्यः सद्योवध्वश्च । तत्र ब्रह्मवादिनीनामुपनयनं वेदाध्ययनं भिक्षाचर्या च । सद्योवधूनां तु उपस्थिते विवाहे यथाकथंचिदुपनयनमात्रं विधाय विवाहः कार्यः । एवं सति सोदरकन्याविवाहस्य सोदरपुत्रोपनयनस्य च समानसंस्कारत्वात्तयोरेकवर्षे निषेधः स्यात् । उच्यते - 'गर्भाष्टमेषु ब्राह्मणमुपनयेत् गर्भैकादशेषु राजन्यं गर्भद्वादशेषु वैश्यम्' इति । अन्यच्च - 'वसंते ब्राह्मणमुपनयेत् ग्रीष्मे राजन्यं शरदि वैश्यम्' इति आपस्तंबादिसूत्रेषु । 'स्वकुलाचारधर्मज्ञो माघमासे तु फाल्गुने । विधिज्ञश्चार्थवांश्चैत्रे वेदवेदांगपारगः ॥ वैशाखे धनवान् वेदशास्त्रविद्याविशारदः । उपनीतः कुलाच्यः स्याज्येष्ठे विधिविदांवरः ॥' इति नारदादिसंहितास्वपि ब्राह्मणादिवर्णत्रयग्रहणात्पुंल्लिंगस्य विवक्षितत्वाच्च स्त्रीशूद्राणां व्रतबंधनिषेधावगमात् । यानि तु - 'विप्राणामुपनयनं वसंतसमये धराधिनाथानाम् । ग्रीष्म शरदि विशां मासाः साधारणाश्च माघाद्याः ॥' इति वसिष्ठादिवाक्यानि पुंस्त्रीसाधारणानि प्रतीयंते, तानि नारदवाक्यैक्यवाक्यताबलात्पुंविषयकाण्येव । विप्राश्च ब्राह्मण्यः विप्राश्च ब्राह्मणा इति 'पुमान् स्त्रिया' इत्येकशेषेऽपि प्रमाणाभावः । अत एव याज्ञवल्क्यः - 'गर्भाधानमृतौ पुंसः सवनं स्यंदनात्पुरा । षष्ठेऽष्टमे वा सीमंतो मास्येते जातकर्म च ॥ अहन्येकादशे नाम चतुर्थे मासि निष्क्रमः । षष्ठेऽन्नप्राशनं मासि चूडा कार्या यथाकुलम् ॥ एवमेनः शमं याति बीजगर्भसमुद्भवम् ।' इत्युक्त्वा मध्ये चोपनयनं विहाय 'तूष्णीक्रियाः स्त्रीणां विवाहस्तु समंत्रकः ॥' इत्याह स्म । ततो 'गर्भाष्टमेऽष्टमे I Page #257 -------------------------------------------------------------------------- ________________ भिन्नमातृकमंगलविचारः] विवाहप्रकरणम् ६ । २४१ वाब्दे ब्राह्मणस्योपनायनम् । राज्ञामेकादशे सैके विशामेके यथाकुलम् ॥' इत्युपनयनमुवाच । योषोऽभिप्रायोऽनभिमतः स्यात्तदा 'चूडा कार्या यथाकुलम्' इत्यस्याने 'गर्भाष्टमे' इत्येकं पद्यमुक्त्वा 'एवमेनः शमं याति बीजगर्भसमुद्भवम् । तूष्णीमेताः क्रियाः स्त्रीणां विवाहस्तु समंत्रकः ॥' इत्यव. क्ष्यत् । अतः स्त्रीणामुपनयनं नास्त्येव । यत्तु प्रागुतं हारीतवाक्यं तत् कल्पांतरविषयम् । यदाह यमः-'पुराकल्पे हि नारीणां मौजीबंधनमिष्यते । अध्यापनं च वेदानां सावित्रीग्रहणं तथा ॥ पिता पितृव्यो भ्राता वा नैनामध्यापयेत्परः। स्वगृहे चैव कन्याया भैक्षचर्या विधीयते ॥' इति । ननु यद्यपि मुख्यमुपनयनं स्त्रीणां नास्ति तथापि आतिदेशिकमस्ति । यदाह मनुः-'वैवाहिको विधिः स्त्रीणामौपनायनिकः परः। पतिसेवा गुरौ वासो गृहार्थोऽग्निपरिक्रिया ॥' इति । तेन समानक्रियानिषेधः सेत्स्यतीति । सत्यम् । अतिदेशोऽयमुपनयनधर्मप्राप्त्यर्थः। यथा ब्राह्मणादीनामुपनयनात्प्राक् कामचारकामवादकामभक्ष्याद्याचाराणामदोषतास्ति, तथा स्त्रीणामपि विवाहात्प्राक् कामचारादिधर्मा न दोषं कुर्वति । तदनंतरं तूपनयनधर्माणां संध्यासानादीनां प्राग्धर्मनिरसनपूर्वकमनुष्टानं यथास्ति तथा स्त्रीणामपि विवाहस्य द्विजत्वसिद्धिकरत्वादनुष्ठिते विवाहे कामचारादिधर्मनिरासपूर्वकम् 'पतिसेवा गुरौ वासः' इत्यादिकमनुष्टानं भवेदिति । नन्वतिदेशेन स्त्रीणामुपनयनधर्मप्रापणमस्तु समानसंस्कारत्वमपि । उच्यते,-नात्र समानशब्दः सदृशार्थकः । तेन तद्भिन्नत्वे सति तद्गतभूयोधर्मवत्त्वं सादृश्यमिति सादृश्यलक्षणाद्यथाकथंचि. त्सर्वत्र सादृश्यसंभवेन विजातीयसंस्काराणामपि चौलानप्राशनादीनां सोदरपुत्रभ्रातृसंबंधिनां निषेधप्रसंगात् शिष्टाचारविरोधाच्च। किंत्वेकशब्दपर्यायः सहशशब्दस्तेनैकजातीयक्रियानिषेधः। उपनयनत्वेन वा विवाहत्वेन वैकजातीयस्वम् । एवं सर्वेष्वपि कर्मसु एकजातीयत्वं द्रष्टव्यम् । तस्मात् सोदरपुत्रकन्यासंबंधिनोर्विवाहोपनयनयोः समानसंस्कारत्वाभाव इत्येव सिद्धांतः फलितः । अतः पाण्मासिको निषेधस्तयोर्नास्ति तेनात्र प्रथमं पुत्रोपनयनं विधाय यथावकाशं कन्याविवाहः सुखेन कार्यः । तस्मादेकमातृजयोः पुत्रयोः कन्ययोः पुत्र. कन्ययोर्वा विवाहादिरूपः समानक्रियानिषेधः षण्मासमध्येऽस्त्येव । केचित्त कन्याविवाहादनंतरं द्वितीयकन्याविवाहः समनंतरमेव दोषाभावात्सुखेन कार्य इत्याहुः । यदुक्तं गर्गेण-'पुत्रीपरिणयादूर्ध्व यावद्दिनचतुष्टयम् । पुत्र्यंतरस्य कुर्वीत नोद्वाहमिति सूरयः ॥' इति । तन्न । भिन्नमातृविषयत्वाद्र्गवाक्यस्य । पूर्वोक्तपराशरवाक्यस्वरसात् । 'समानापि क्रिया कार्या मातृभेदे तथैव च । विवाहे दुहितुः कार्यों न विवाहश्चतुर्दिनम् ॥' इति नारदोक्तेश्च । वसिष्टेन तु विशेषोऽभिहित:-‘एकोदरप्रसूतानां नात्र कार्यत्रयं भवेत् । भिन्नोदरप्रसूतानां नेति शातातपोऽब्रवीत् ॥' इति । चौलोपनयनविवाहरूपं कार्यत्रयम् । तदुक्तं च्यवनेन-'आदौ चौलं ततो मौंजी विवाहश्च शुभप्रदः । मातृभेदे बुधैरुक्तो मातुरैक्ये न कर्हिचित् ॥' इति । एवंस्थिते भिन्नोदरमंगलं सत्यावश्यकत्वे २१ मु. चि. Page #258 -------------------------------------------------------------------------- ________________ २४२ मुहूर्तचिंतामणिः । [प्रतिकूलदोषस्य कालनियतिः एकस्मिन्मंडपे न कार्यमेव । किंतु गृहभेदादाचार्यभेदाता कार्यम् । यदाह वसिष्ठः-'द्विशोभनं त्वेकगृहेऽपि नेष्टं शुभं तु पश्चान्नवभिर्दिनैश्च । आवश्यक शोभनमुत्सुकस्य द्वारेऽथ वाचार्यविभेदतोऽपि ॥' इति । द्वारे द्वारभेदे। यमलजातयोस्त्वयमपि निषेधो नास्ति । 'एकस्मिन्वत्सरे प्राप्ते कुर्याद्यमलजातयोः । क्षौरं चैव विवाहं च मौंजीबंधनमेव च ॥' इति पराशरोक्तेः। क्षौरंचौलम् । भट्टकारिकायां च-'एकस्मिन्वत्सरे चैव वासरे मण्डपे तथा । कर्तव्यं मंगलं स्वस्रोत्रिोर्यमलजातयोः ॥' इति । तत्रापि ज्येष्ठानुक्रमेण । 'जन्मज्यैष्ठ्येन चाह्वानं सुब्राह्मण्यास्वपि स्मृतम् । यमयोश्चैव गर्भेषु जन्मतो ज्येष्ठता मता ॥' इति मनूक्तेराद्योत्पन्नस्य ज्येष्ठत्वम् । देवलोऽपि-'यस्य जातस्य यमयोः पश्यति प्रथम मुखम् । संतानः प्रथमश्चैव तस्मिन्यैष्ठ्यं प्रति. ष्ठितम् ॥' इति । संतानः वंशः। शुभे इति । शुभे विवाहादिमंगलकृत्ये पितृक्रिया श्राद्धक्रिया न कार्या। विशेषेणाभिधानात्कुलेऽयं निषेधः, 'मंगले नाप्यमंगलम्' इति नारदोक्तेः। अमंगलं श्राद्धं तु समाप्ते एव मंगले कार्यमित्यर्थः । अथवा श्राद्धदिने समीपस्थिते तदनंतरं लग्नं निर्धार्य विवाहादिमंगलकृत्यं कार्यमित्यर्थः ॥ १६ ॥ अथ प्रतिकूलदोषमाहवध्वा वरस्यापि कुले त्रिपूरुषे नाशं व्रजेत्कश्चन निश्चयोत्तरम् । मासोत्तरं तत्र विवाह इष्यते शांत्याथवा सूतकनिर्गमे परैः॥१७॥ वध्वा इति ॥ निश्चयोत्तरं वाग्दानानंतरं यदि वध्वाः कन्यायास्तथा वरस्यापि कुले वंशे तत्रापि त्रिपुरुषमध्ये कश्चन सपिंडो नाशं व्रजेत्प्रामुयात्तत्र मासोत्तरं मरणदिनादारभ्य त्रिंशद्दिनं प्रतिकूलम् । ततः शांत्या स्वनुष्टितया विवाहः सुखेनेष्यते। उक्तं च स्मृतिचंद्रिकायाम्-'कृते वाङ्गिश्चये पश्चान्मृत्युर्भवति गोत्रिणः । तदा न मंगलं कार्य नारीवैधव्यदं ध्रुवम् ॥' इति । विशेषमाह मेधातिथिः–'पुरुषत्रयपर्यंत प्रतिकूलं सगोत्रिणाम्। प्रवेशनिर्गमौ तद्वत्तथा मुंडनमंडने॥' इदं तु पित्रादिभिन्नविषयं द्रष्टव्यम् । उक्तं च मांडव्येन'अन्येषां तु सपिंडानामाशौचं माससंमितम् । तदंते शांतिकं कृत्वा ततो लग्नं विधीयते ॥' इति । पित्रादिमरणे तु विशेषमाह शौनकः-'वरवध्वोः पिता माता पितृव्यश्च सहोदरः । एतेषां प्रतिकूलं च महाविघ्नप्रदं भवेत् ॥' इति ॥ 'पिता पितामहश्चैव माता वापि पितामही । पितृव्यः स्त्री सुतो भ्राता भगिनी वाऽविवाहिता ॥ एभिरेव विपन्नैश्च प्रतिकूलं बुधैः स्मृतम् ॥' इति । 'अन्यैरपि विपन्नैश्च केचिदूचुर्न तद्भवेत्' । उक्तेभ्योऽन्यैः । प्रतिकूलस्य नियतं कालमाह मांडव्यः-'वाग्दानानंतरं यत्र कुलयोः कस्यचिन्मृतिः । तदा संवत्सरादूर्व विवाहः शुभदो भवेत् ॥ पितुराशौचमब्दं स्यात्तदध मातुरेव हि । मासत्रयं च भार्यायास्तदर्ध भ्रातृपुत्रयोः ॥' दैवज्ञमनोहरे विशेषः-'प्रतिकूले सपिंडस्य मासमेकं विवर्जयेत् । विवाहस्तु ततः पश्चात्तयोरेव विधीयते ॥ दुर्भिक्षे Page #259 -------------------------------------------------------------------------- ________________ वधूवरयोर्दुष्टजन्मक्षपरिहारः] विवाहप्रकरणम् ६ । २४३ राष्ट्रभंगे च पित्रोर्वा प्राणसंशये । प्रौढायामपि कन्यायां प्रतिकूलं न दुष्यति ॥' इति । मेधातिथिः-'दीर्घरोगाभिभूतस्य दूरदेशस्थितस्य च । उदासवर्तिनश्चैव प्रतिकूलं न विद्यते ॥ संकटे समनुप्राप्ते याज्ञवल्क्येन योगिना। शांतिरुक्ता गणेशस्य कृत्वा तां शुभमाचरेत् । अकृत्वा शांतिकं यस्तु निषेधे सति दारुणे। यः करोति शुभं तावद्विघ्नं तस्य पदे पदे ॥' इति । अथावश्यकत्वेऽपवादमाह-अथवेति । स्वस्ववर्णपुरस्कारेणाशौचनिर्गमे मरणाशौचनिर्गमे सति शांत्या च स्वनुष्ठितया विवाहः कार्य इति परैराचार्यै रिष्यते । यदाह मेधातिथिः-'प्रेतकार्याण्यनिर्वर्त्य चरेन्नाभ्युदयक्रियाम्' इति ।ज्योति प्रकाशेऽपि 'प्रतिकूलेऽपि कर्तव्यो विवाहो मासमंतरा । शांति विधाय गां दत्त्वा वाग्दानादि चरेद्बुधः ॥' इति । सत्यावश्यकत्वे स्वस्वाशौचादनंतरं मासमध्येऽपि शांति विधाय विवाहः कार्य इत्यर्थः । पूरुष इत्यत्र 'अन्येषामपि दृश्यते' इति दीर्घः । 'पुरुषाः पूरुषा नराः' इत्यमरश्च ॥ १७ ॥ अथ 'प्रवेशनिर्गमौ तद्वत्तथा मुंडनमंडने' इति प्रागुक्तमेधातिथिश्लोकोत्तरार्धपदार्थे सापवादमुपजातिकयाहचूडा व्रतं चापि विवाहतो व्रताचूडा च नेष्टा पुरुषत्रयांतरे । वधूप्रवेशाच सुताविनिर्गमः षण्मासतो वाब्दविभेदतः शुभः १८ चूडेति ॥ चूडा चौलं, व्रतमुपनयनं च; अपिशब्दान्महानाम्यादिसमावतनांतं च विवाहात्परतः पुरुषत्रयांतर एव नेष्टम् । तथा व्रतादुपनयनाचूडा पुरुषत्रयपर्यंत नेष्टा । तथा वध्वाः स्नुषायाः प्रवेशादनंतरं कन्यायाः विनिर्गमोऽपि पुरुषत्रयपर्यंत नेष्टः । एतन्मूलवाक्यं 'पुरुषत्रयपर्यन्तम्' इत्यादि (पृ० २४२) 'आदौ चौलं ततो मौंजी' इत्यादि च (पृ०२४१) प्राग्लिखितम् । तस्मान्मूलपुरुषस्य चतुर्थत्वादौ नायं दोषः, स चायं दोषः पुरुषत्रये षण्मासपर्यंतमेव । अतः षण्मासत इति मासषदकानंतरमयं व्यत्यस्तोऽपि विवाहादिः सवों विधिः शुभः। एतन्मूलवाक्यमपि 'कुले ऋतुत्रयादक्'ि इत्यादि (पृ०२३८) प्रागुक्तम् । अत्रापवाद उच्यते-वेति । वा अथवाऽब्दभेदात् वर्षभेदात् षण्मासमध्येऽपि शुभः । यथा माघे मासि विवाहो वैशाखे चौलं यज्ञोपवीतं वा भवत्येवेत्यर्थः । तदुक्तं संहितासारावल्याम्-'फाल्गुने चैत्रमासे तु पुत्रोद्वाहोपनायने । भेदादब्दस्य कुर्वीत नर्तुत्रयविलंघनम् ॥' इति । अत्र फाल्गुनपदं प्रागब्दगतमासांतरस्याप्युपलक्षणम् । चैत्रपदं चोत्तरवर्षगतवैशाखाद्युपलक्षणम् । तत्र कैमुतिकन्यायेन यत्र स्वल्पं कालांतरं तत्रापि चेत् निषेधाभावस्ततोऽधिकव्यवधाने किं वाच्यमब्दभेदस्यैव प्रयोजकत्वात् ॥१८॥ अथ प्रसंगान्मूलादिदुष्टनक्षत्रोत्पन्नयोर्वधूवरयोः श्वशुरादिपीडकत्वं वसंततिलकयाह श्वश्रूविनाशमहिजो सुतरां विधत्तः कन्यासुतौ निर्ऋतिजौ श्वशुरं हतश्च । Page #260 -------------------------------------------------------------------------- ________________ २४४ — मुहूर्तचिंतामणिः । [ विशाखादिजन्मक्षपरिहारः ज्येष्ठाभजातंतनया स्वधवाग्रजं च शक्राग्निजा भवति देवरनाशक: ॥ १९॥ __ श्वश्रूविनाशमिति ॥ अहिजावाश्लेषोत्पन्नौ कन्यासुतौ श्वश्वाः साक्षा तमातुर्विनाशं विधत्तः कुरुतः । तथा निर्ऋतिजौ मूलोत्पन्नौ कन्यासुतौ श्वशुरं हतो मारयतः । उक्तं च वसिष्ठेन-'नैर्ऋत्यभोद्भूतसुतः सुता वा क्षिप्रादवश्यं श्वशुरं निहंति । तदंत्यपादे जनितो निहंति नैवोत्क्रमेणाहिभवः कलत्रम् ॥' इति । अहिभव इति पुंस्त्वमविवक्षितम् । सुतःसुता वेति पूर्वोक्तेः। 'मूलजा श्वशुरं हंति व्यालजा च तदंगनाम्' इति नारदोक्तेश्च । तस्य श्वशुरस्यांगनां पत्नीम् । वरस्य कन्याया वा साक्षान्मातरं नतु सापनमातरं हंतीत्यर्थः। तदेव स्पष्टमुक्तं वसिष्ठेन-'जनकं जननी हंति भर्तुर्मूलाहिधिष्ण्यजा' इति । तुल्यन्यायत्वात्कन्याया अपि साक्षान्मातरम् । ज्येष्ठेति । ज्येष्ठानक्षत्रोत्पन्ना कन्या स्वधवाग्रजं भर्तुज्येष्ठभ्रातरं हंति । शक्राग्निजा विशाखानक्षत्रोत्पन्ना कन्या देवरस्य भर्तुः कनिष्ठबंधो शकी भवति । यदाह वसिष्ठः-'सुरेशताराजनिता धवाग्रज द्विदैवताराजनिता तु देवरम्' इति । हंतीत्यनुवर्तते । नारदोऽपि-'ऐंद्री पत्यग्रज हंति देवरं तु द्विदैवजा' इति ॥ १९ ॥ अथ विशाखामूलाश्लेषोत्पन्नप्रोक्तदोषापवादमनुष्टुभाह द्वीशाद्यपादत्रयजा कन्या देवरसौख्यदा । मूलांत्यपादसार्पाद्यपादजौ तौ तयोः शुभौ ॥२०॥ द्वीशेति ॥ द्वीश-विशाखा । अन्यत्पूर्वार्धे स्पष्टमेव । यदाह च्यवनः'विशाखातुलया युक्ता देवरस्य शुभावहा । विशाखावृश्चिकोद्भूता देवरं हत्यसंशयम् ॥' इति । वृद्धनारदोऽपि-'न हंति देवरं कन्या तुलामिश्रद्विदैवजा । चतुर्थपादजा त्याज्या दुष्टा वृश्चिकपुच्छवत् ॥' तस्माद्विशाखाचतुर्थपादे निषेधः फलित इत्यर्थः । मूलेति । तयोः श्वशुरश्वश्वोः । मूलचतुर्थचरणोत्पन्नौ तौ कन्यासुतौ श्वशुरसौख्यदौ आश्लेषायचरणोत्पन्नौ कन्यासुतौ श्वश्वोः सौख्यदौ । तदुक्तं नारदेन-'सुतः सुता वा नियतं श्वशुरं हंति मूलजः । तदंत्यपादजो नैव तथाश्लेषाद्यपादजः॥' अत्र पुंस्त्वमविवक्षितम् । हेतुः स एव । इति वधूवरयोः सामान्यतो गुणदोषविचारः ॥ २०॥ अथैवं वधूवरयोः सामान्यतो गुणदोषविचारं निरूप्य मेलकसंबंधी विचारः प्रस्तूयते । तत्र केचिद्दशकूटान्याहुः । तदाह नारदः-'दिनं गणं च माहेंद्र स्त्रीदीर्घ योनिरेव च ।राशिराश्यधिपौरजर्वश्यं वेधो दश स्मृताः ॥ पुनश्च वर्णकूटं च माहेन्द्रं च ततः परम् । एते द्वादशयोगाश्च प्रीतिभेदाः प्रकीर्तिताः॥' इति । अन्येऽष्टादशकूटान्याहुः । यदाह गर्ग:-'माहेंद्रं गणकूटं च दिनकूटं च योनिजम् । स्त्रीदीर्घ रजुकूटं च वश्यं वर्णाख्यकूटकम् ॥ राशिराश्यधिपाख्ये च वेधो नाड्याख्यकूटकम् । भूतलिंगाख्यकूटं च जात्याख्यं पक्षिकूट Page #261 -------------------------------------------------------------------------- ________________ २४५ वर्ण-वश्यकूटयोर्विचारः] विवाहप्रकरणम् ६ । कम् । योगिनीगोत्रकूटं च कूटान्यष्टादशैव तु । दंपत्योवृद्धिकारीणि यत्नाञ्चित्यानि शास्त्रतः ॥' इति । तत्र दशकूटानां तत्तद्देशविशेषप्रसिद्धत्वात्तानि विहाय सर्वदेशप्रसिद्धान्यष्टकूटानि सलक्षणानि विवक्षुरादौ तान्यनुष्टुप्छंदसाह वर्णो वश्यं तथा तारा योनिश्च ग्रहमैत्रकम् । गणमैत्रं भकूटं च नाडी चैते गुणाधिकाः ॥२१॥ वर्ण इति ॥ एते राशिकूटभेदा वर्णादिमैन्यां सत्यां गुणाधिका एकादिगुणाधिकाः स्युः । यथा-वर्णमैत्र्यामेको गुणः, वश्ये द्वौ गुणौ, तारायां त्रयो गुणाः, योनिमैत्र्यां चत्वारः, ग्रहमैत्र्यां पंच, गणमैत्र्यां षद, सद्भकूटे सप्त, नाडीभेदेऽष्टौ इत्यर्थः। तदुक्तम्-'वर्णो वश्यं तारा योनिग्रहगणभकूटनाड्यश्च । ज्ञेया यथोत्तरं ते बलिनः स्त्रीपुंसयोर्घटने ॥' इति । स्त्रीपुंसयोरिति 'अचतुर-' इत्यादिना निपातितः। दैवज्ञमनोहरेऽपि-'नाडीभेदे गुणा भष्टौ सप्त सदाशिकूटके। षट् गुणा गणमैत्र्यां च सौहार्दे पंच खेटयोः ॥ योनिमैत्र्यां च चत्वारस्त्रयस्ताराबले गुणाः। वश्यत्वे द्वौ गुणौ प्रोक्तौ वर्ण एकः प्रकीर्तितः ॥' इति ॥ २१ ॥ अथ प्रतिज्ञाक्रमेण वर्णकूटं तावत्प्रमाणिकयाह द्विजा झपालिकर्कटास्ततो नृपा विशोऽङ्गिजाः। वरस्य वर्णतोऽधिका वधून शस्यते बुधैः ॥ २२ ॥ द्विजा इति ॥ मीनवृश्चिककर्कराशयो द्विजाः ब्राह्मणाः । ततोऽनंतरमन्ये मेषसिंहधनूराशयो नृपाः क्षत्रियाः । वृषकन्यामकरा विशो वैश्याः । मिथुनतुलाकुंभा अघ्रिजाः शूद्राः । ततश्च वधूवरराश्योर्वौँ ज्ञात्वा वरस्य वर्णतः ब्राह्मणादिकाद्वधूरधिका ज्येष्ठवर्णा बुधैर्न शस्यते । किंतु समा हीना वा शस्यत इत्यर्थः । यदाह नारदः-'झपालिकर्कटा विप्रास्तदूर्वाः क्षत्रिया. दयः । पुंवर्णराशेः स्त्रीराशौ समे हीने तथा शुभम् ॥ वर्णज्येष्ठा तु या नारी वर्णहीनस्तु यः पुमान् । विवाहं यदि कुर्वीत तस्या भर्ता विनश्यति ॥' अत्रैको गुणो वर्णाधिके वरे वर्णसमे वा। वर्णहीने तु गुणाभावः । तदुक्तं दैवज्ञमनोहरे-'एको गुणः सदृग्वर्णे तथा वर्णोत्तमे वरे। हीनवणे वरे शून्य केऽप्याहुः सदृशे दलम् ॥' इति । दलम् अर्धम् ॥ २२ ॥ अथ वश्यकूटमिंद्रवज्रयाहहित्वा मृगेंद्रं नरराशिवश्याः सर्वे तथैषां जलजास्तु भक्ष्याः । सर्वेऽपि सिंहस्य वशे विनालिं ज्ञेयं नराणां व्यवहारतोऽन्यत् २३ हित्वेति ॥ नरराशयो मिथुनकन्यातुलाः, एषां सर्वेऽपि मेषादयः सिंह त्यक्त्वा वश्याः। ननु मनुष्याणां जलचराः कथं वश्याः ? यत उभयोः Page #262 -------------------------------------------------------------------------- ________________ २४६ मुहूर्तचिंतामणिः। [ताराकूटविचारः सहावस्थानाभाव इत्यत आह-तथेति । एषां नरराशीनां जलजाः कर्कमकरकुंभमीनास्तु भक्ष्याः, किं पुनर्वश्या इति सूचयितुं तुशब्दः । सिंहस्य वशेऽलि वृश्चिकं विना सर्वे राशयो वश्याः। अन्यदनुकं चतुष्पदानां जलचराणां चतुष्पादजलचराणां वा परस्परं वश्यावश्यं नराणां मनुष्याणां व्यवहारतो ज्ञेयम् । यदाह वसिष्ठः-'वश्यास्त्यक्त्वा राशयोऽन्ये नृभानां सिंहं तस्याप्येकमन्ये विधेयाः। कीटं त्यक्त्वा लोकतोऽन्यत्प्रसिद्धं वश्यावश्यं नैव तोयालयाश्च ॥' तोयाः तोयालया जलचराः अलिश्च ते परस्परं वश्या नैव स्युरित्यर्थः । अत्र गुणविभागो दैवज्ञमनोहरेऽभिहितः-'सख्यं वैरं च भक्ष्यं च वश्यमाहुस्त्रिधा बुधाः। वैरे भक्ष्ये गुणाभावो द्वयोः सख्ये गुणद्वयम् ॥ वश्यवैरे गुणस्त्वेको वश्यभक्ष्ये गुणोऽधिकः।' इति । यद्यपीदं वधूवरयोः परस्परं तुल्यमेवोक्तं तथापि सत्यावश्यकत्वे वरं प्रति भक्ष्यत्वं वश्यत्वं वा स्त्रियोऽपेक्ष्यं, नतु विपरीतम् । 'वर्णज्येष्ठा तु या नारी' इत्यनेन समानन्यायत्वात् । अन्योन्यवश्यत्वे तूत्तममेव ॥ २३ ॥ अथ ताराकूटमनुष्टुभाह कन्याद्वरभं यावत्कन्याभं वरभादपि । गणयेन्नवहृच्छेषे त्रीष्वद्रिभमसत्स्मृतम् ॥ २४ ॥ कन्यादिति ॥ कन्याजन्मनक्षत्राद्वरनक्षत्रं यावद्गणयेत् , तथा वरनक्षत्रादपि कन्यानक्षत्रं गणयेत् ; ततोऽवशिष्टेऽके नवभिर्भक्ते यदवशिष्टं तच्च त्रिपंचसप्तमितं भवेत्तदाअसत् अशुभदं स्मृतम् । अन्यथा द्विचतुःषडष्टनवमितं चेत्स्यात्तदा शुभमित्यर्थादुक्तं भवति । यदाह नारदः-'स्त्रीभमारभ्य गणने नवपर्यायतः क्रमात् । जन्मत्रिपंचसप्तस्थं पुंभं स्याद्वरनाशनम् ॥ पुंभमारभ्य गणने स्त्रीभ जन्मादिके स्थले । स्त्रीविनाशो भवेत्तस्माद्दिनकूटं विवर्जयेत् ॥' दिनकूटं ताराकूटं । शाहीयेऽपि–'नराद्गणयेद्यावत्कन्यक्षं कन्यभादपि । वरभं नवहृच्छेषास्ताराः संति परस्परम् । त्यक्त्वा त्रिपंचसप्ताख्याः शेषोद्वाहे मिथः शुभाः॥' इति । यत्तु कश्यपेन-'गणयेत्कन्यकाधिष्ण्यादावृत्त्या वर. जन्मभम् । जन्मत्रिपंचसप्तरं हित्वान्यक्षं शुभप्रदम् ॥' इति कन्यानक्षत्रादेव गणनोक्ता । अत एव-'भीरुभादचलपंचतृतीयाः शोकवैरविपदे वरताराः' इति केशवाणाप्युक्ता, साऽत्यावश्यकत्वद्योतनार्था । तथा हि-द्वयोरपि परस्परनक्षत्रगणने शुभं चेच्छुभमेवाशुभं चेदशुभमेव । तत्रैकस्सादन्यतरनक्षत्रगणनयाऽशुभत्वेऽपि स्त्रीनक्षत्राद्वरनक्षत्रं त्वशुभं नापेक्षितमेवेति भावः । अत्रगुणविभागो दैवज्ञमनोहरे-'एकतो लभ्यते तारा शुभा चैवाशुभान्यतः । तदा सा| गुणश्चैव ताराशुद्ध्या मिथस्त्रयः । उभयोर्न शुभा तारा तदा शून्यं समादिशेत् ॥' इति । अत्र यद्यपि नारदादिभिर्जन्मताराऽपि निषिद्धेत्युक्तम् । तईथकृता एकनक्षत्रे तावत् 'राश्यैक्ये चेगिन्नमृक्षं द्वयोः स्यान्नक्षत्रैक्ये Page #263 -------------------------------------------------------------------------- ________________ विवाहे योनिकूटादि]. विवाहप्रकरणम् ६ । राशियुग्मं तथैव' इति (६।२६) वक्ष्यमाणत्वानोक्तम् । दशमैकोनविंशतारयोस्तु निषेधो दुष्टभकूटे ज्ञेयः । सद्भकूटे तु दोषाभाव इत्यर्थः ॥ २४ ॥ अथ योनिकूटं शार्दूलविक्रीडिताभ्यामाहअश्विन्यंबुपयोहयो निगदितः खात्यर्कयोः कासरः सिंहो वस्खजपाद्भयोः समुदितो याम्यांत्ययोः कुंजरः । मेषो देवपुरोहितानलभयोः कांबुनोर्वानरः ___ स्याद्वैश्वाभिजितोस्तथैव नकुलश्चांद्राजयोन्योरहिः ॥२५॥ ज्येष्ठामैत्रभयोः कुरंग उदितो मूलार्द्रयोः श्वा तथा मार्जारोऽदितिसार्पयोरथ मघायोन्योस्तथैवोंदुरुः। व्याघ्रो द्वीशभचित्रयोरपि च गौरायम्णबुध्यक्षयो योनिः पादगयोः परस्परमहावैरं भयोन्योर्भवेत् ॥ २६ ॥ अश्विनीति॥ज्येष्ठेति च । अश्विनीशततारकयोहयः अश्वो योनिरुक्तः। स्वातीहस्तयोः कासरो महिषः, 'लुलायो महिषो वाहद्विषत्कासरसैरिभाः' इत्यमरः । वस्वजपाइयोर्धनिष्ठापूर्वाभाद्रपदयोः सिंहः, याम्यांत्ययोर्भरणीरेवत्योः कुंजरो हस्ती, पुष्यकृत्तिकयोः मेषोऽजः, कर्णाबुनोः श्रवणपूर्वाषाढयोर्वानरः स्यात् । उत्तराषाढाभिजितोर्नकुलः। चांद्रं मृगः, अब्जयोनिब्रह्मा, तद्भ रोहिणी तयोरहिः सर्पो योनिः । ज्येष्ठानुराधयोः कुरंगो हरिण उदितः । मूलाद्रयोः श्वा कुक्करः। तथा पुनर्वस्वाश्लेषयोर्मार्जारः। अथ मघापूर्वाफल्गुन्योलंदुरुमूषकः। 'उंदुरुर्मूषकोऽप्याखु रित्यमरः। द्वीशभं विशाखा चित्रा च,तयोाघ्रः। मार्यम्णमुत्तराफल्गुनी, बुध्यक्षमुत्तराभाद्रपदा, तयो¥र्योनिः । तथा तथैव अपि चेत्यादयः शब्दाः पादपूरणार्थाः । फलमाह-पादगयोरिति । एकस्मिन् पादे चरणे उक्तनक्षत्रयोन्योः परस्परं महावैरं भवेत् ,अन्यथा नेत्यर्थः । यथा'अश्विन्यंबुपयोहयो निगदितः स्वात्यर्कयोः कासरः' इति पादस्तत्रोक्तयोर्भयोन्योरश्वमहिषयोर्महावैरं भवेत् । एवं सिंहहस्तिनोरित्यादिष्वपि दृष्टव्यम् । यदाह वसिष्ठः-'अश्वेभमेषभुजगद्वयकुक्कुरौतुमेषौतुमूषकमथोंदुरुगोलुलायाः । शार्दूलमाहिषगवारिमृगद्वयं श्वा कीशोऽथ बभ्रुयुगकीशगवाश्वसिंहाः । गौः कुंजराविति यथाक्रममाश्विनादिभानां भवंति खलु कल्पितयोनिरूपाः ॥' लुलायः महिषः । गवारिर्व्याघ्रः । 'अवङ्फोटायनस्य' इत्यवङादेशः । कीशो वानरः, बभ्रुनकुलः, 'बभूरगं श्वैणमिभेद्रसिंहमोत्वाखुसंज्ञं त्वजवानरौ च । गोव्याघ्रमश्वोत्तरमाहिषं च वैरं नृनार्योपभृत्ययोश्च ॥' इति । बधूरगमित्यादौ च 'येषां च विरोधः शाश्वतिकः' इत्येकवद्भावः । एतत्फलं सापवादमाहात्रिः-'एकयोनिषु संपत्त्यै दंपत्योः संगमः सदा । भिन्न Page #264 -------------------------------------------------------------------------- ________________ २४० मुहूर्तचिंतामणिः । [ग्रहाणां मित्रामित्रविवेकः योनिषु मध्या स्यादरिभावो न चेत्तयोः । योनेरभावे नोद्वाहः स तु कार्यो वियोगदः । राशिर्वश्यं च यद्यस्ति कारयेन्नतु दोषभाक् ॥' दोषो वियोगरूपः । अत्र गुणविभागो दैवज्ञमनोहरे-'अष्टाविंशतिताराणां योनयस्तु चतुर्दश । तत्र ज्ञेयं महावैरं वैरं चैव स्वभावितं ॥' स्वभावितं वैरमैत्रशून्यम् । 'मैत्रं चैवातिमैत्रं च विवाहे नरयोषितोः ॥ महावैरे च वैरे च स्वभावे च यथाक्रम । मैत्रे चैवातिमैत्रे च खंदुद्वित्रिचतुर्गुणाः ॥' इति ॥ २५ ॥ २६ ॥ अथ क्रमप्राप्तां ग्रहमैत्री शार्दूलविक्रीडिताभ्यामाहमित्राणि घुमणेः कुजेज्यशशिनः शुक्रार्कजौ वैरिणौ . ____ सौम्यश्चास्य समो विधोर्बुधरवी मित्रे न चास्य द्विषन् । शेषाश्चास्य समाः कुजस्य सुहृदचंद्रज्यसूर्या बुधः ___ शत्रुः शुक्रशनी समौ च शशभृत्स्नोः सिताहस्करौ ॥२७॥ मित्रे चास्य रिपुः शशी गुरुशनिक्ष्माजाः समा गीष्पते__ मित्राण्यर्ककुजेंदवो बुधसितौ शत्रू समः सूर्यजः । मित्रे सौम्यशनी कवेः शशिरवी शत्रू कुजेज्यौ समौ मित्रे शुक्रबुधौ शनेः शशिरविक्ष्माजाः परेऽन्यः समः॥२८॥ मित्राणीति ॥ मित्रे इति च ॥ द्युमणेः सूर्यस्य भौमगुरुचंद्रा मित्राणि, शुक्रशनी वैरिणौ, अस्य सूर्यस्य सौम्यो बुधः समः, न शत्रुर्न मित्रम् । एवं सर्वत्र व्याख्येयम् । अथ विधोश्चंद्रस्य बुधरवी मित्रे, च पुनरस्य विधोर्द्विपन् शत्रुर्नास्ति । किंतु मंगलगुरुशुक्रशनयः शेषाः समा एव । अथ भौमस्य चंद्रगुरुसूर्याः सुहृदः, बुधस्तु शत्रुः, शुक्रशनैश्चरौ समौ । अथ शशभृत्सूनोबुंधस्य सिताहस्करौ शुक्रसूयौँ मित्रे । अथ बुधस्य शशी चंद्रः शत्रुः, गुरुशनिभौमाः समाः । अथ गीष्पतेर्गुरोः सूर्यभौमचंद्रा मित्राणि, बुधसितौ शत्रू, सूर्यजः शनिः समः । अथ कवेः शुक्रस्य बुधशनी मित्रे, चंद्रसूयौँ शत्रू, कुजगुरू समौ । अथ शनेः शुक्रबुधौ मित्रे, रविचंद्रभौमाः परे, शत्रव इत्यर्थः । अन्योऽवशिष्टो बृहस्पतिः समः । यदाह कश्यपः-रवेः समो ज्ञो मित्राणि चंद्रारेज्याः परावरी । इंदोर्न शत्रवो मित्रे रविज्ञावितरे समाः । समौ कुजस्य शुक्रार्की बुधोऽरिः सुहृदः परे । ज्ञस्य चंद्रो रिपुर्मिने शुक्राळवितरे समाः ॥ गुरोरारेंद्विना मित्राण्यार्किमध्यः परावरी । भृगोः समाविज्यकुजौ मित्रे ज्ञार्की परौ रिपू ॥ शनेर्गुरुः समो मित्रे शुक्रज्ञौ शत्रवः परे ॥' इति । एतत्फलं सापवादमाह जगन्मोहने वसिष्ठः-'अन्योन्यमित्रं शस्तं स्यात्सममित्रं तु मध्यमम् । उदासीनं कनिष्ठं स्थान्मृतिदं शात्रवं स्मृतम् ॥ शत्रुमित्रं च विज्ञेयं दंपत्योः कलहप्रदम् । अन्योन्यसमशत्रुत्वं दंपत्योर्विरहप्रदम् ॥' विरहः वियोगः । अस्यापवादस्तत्रैव-राशिनाथे विरुद्धेऽपि सब Page #265 -------------------------------------------------------------------------- ________________ विवाहे गणकूटम् ] विवाहप्रकरणम् ६ | २४९ 1 लावंशकाधिपौ। तन्मैत्रेऽपि च कर्तव्यं दंपत्योः शुभमिच्छता ॥' अत्र गुणविभागो दैवज्ञमनोहरे - 'ग्रह मैत्रं सप्तविधं गुणाः पंच प्रकीर्तिताः । तत्रैकाधिपतित्वे च मित्रत्वे गुणपंचकम् ॥ चत्वारः सममित्रत्वे द्वयोः साम्ये यो गुणाः । मित्रवैरे गुणश्चैकः समवैरे गुणार्धकम् ॥ परस्परं खेटवैरे गुणशून्यं विनिर्दिशेत् । असद्धे सममित्रादौ व्येका ग्राह्या यथोदिताः ॥' व्येका यथोदिताश्चत्वार इत्यर्थः । अत्र शुक्रार्कजौ बुधरवी इत्यादिषु 'अजाद्यदंतम् " इति 'द्वंद्वे घि' इत्यर्कजरविशब्दयोः पूर्वनिपातः पूर्वनिपातप्रकरणस्या नित्यत्वान्न भवति । एवमपि 'देवताद्वंद्वे च' इत्यानङ् प्रामोति । सत्यम् । एकहवि - भक्त्वेन प्रसिद्धसाहचर्ययोरेव द्वंद्वे आनङ् विधीयते । अत्र तु तदभावान्नानङ् | परे इति । 'परं दूरान्यमुख्येषु परोऽरिपरमात्मनो:' इति यादवोक्तेः परशब्दो नानार्थः । अत्र परशब्दस्य 'पूर्वपरावर' इत्यादिना व्यवस्थार्थवाचित्वे जसि वैकल्पिकसर्वनामसंज्ञोक्तेः । व्यवस्था नाम स्वाभिधेयापेक्षाऽवधिनियमः । स्वाभिधेयं च दिग्देशकालाः । अत्र तु शत्रुवाचके परशब्दे व्यवस्थार्थाभावाद्वैकल्पिकी सर्वनामसंज्ञा न प्राप्नोति, ततश्च 'जसः शी' इति सर्वनामकार्याभावो ऽतोऽनुपपन्नः परे इति प्रयोगः । यद्येवं 'वितेनुरिंगालमिवायशः परे' इति नैषधः । ' तथा परेषां युधि चेति पार्थिवः' इति कालिदासः । इत्यादिषु हि शत्रुवाचकपरशब्दस्य भवदुक्तिप्रकारेण सर्वनामसंज्ञाया अप्रवृत्तेः कथं सर्वनामकार्यप्रसंग : ? उच्यते - गणरत्नमहोदधिकारादयस्तञ्चित्य एवैष प्रयोग इत्याहुः । अन्ये त्वेवमाहुः - परे इति शिष्टप्रयोगदर्शनात् परशब्दस्य नानार्थत्वादेवंविधे विषये व्यवस्थावाची परशब्दः । कथं स्वस्मात्परः परदेशावस्थित इति देशवाचित्वात् । तच्च परदेशावस्थितत्वं यद्यपि पुत्रमारभ्य शत्रुपर्यंत साधारणं तथापि 'वितेनुरिंगालमिवायशः परे' इत्यादिषु युद्धप्रस्तावात् शत्रुपरः परशब्दः । एवमत्रापि पद्ये मित्रसमानां पार्थक्येनाभिधानात् परशब्दस्य शत्रुषु वृत्तिरिति ग्रंथकृदाशयः । अथवा व्यक्तमेवं पठितव्यम् । 'रविश शिक्ष्माजा द्विषोऽन्यः समः' इत्यलं विस्तरेण ॥ २७ ॥ २८ ॥ अथ गणकूटं वसंततिलकामालिनीभ्यामाह - रक्षोनरामरगणाः क्रमतो मघाहिवविंद्र मूलवरुणानलतक्षराधाः । पूर्वोत्तरात्रयविधातृयमेशभानि मैत्रादितीं दुहरिपौष्ण मरुल्लघूनि ॥ २९ ॥ निजनिजगणमध्ये प्रीतिरत्युत्तमा स्यादमरमनुजयोः सा मध्यमा संप्रदिष्टा । १ ' राशिनाथे विरुद्धेऽपि मित्रत्वे चांशनाथयोः । विवाहं कारयेद्धीमान् दंपत्योः सौख्यवर्धनम् ॥' इति पाठांतरम् ॥ Page #266 -------------------------------------------------------------------------- ________________ २५० मुहूर्तचिंतामणिः। [गणदौष्टयेऽपवादः असुरमनुजयोश्चेन्मृत्युरेव प्रदिष्टो दनुजविबुधयोः स्याद्वैरमेकांततोत्र ॥ ३०॥ - रक्ष इति ॥ निजेति ॥ क्रमतः रक्षोनरामरगणाः वाक्यत्रयेणोच्यते । मघा प्रसिद्धा, अहिराश्लेषा, वसुर्धनिष्ठा, इंद्रो ज्येष्ठा, मूलं प्रसिद्धं, वरुणः शततारका, अनलः कृत्तिका, तक्षा चित्रा, राधा विशाखा; एतानि भानि रक्षोगणः। पूर्वात्रयं उत्तरात्रयं चेत्येवं षड्भानि, विधाता रोहिणी, यमो भरणी, ईश आर्द्रा; एतानि भानि नरगणो मनुष्यगणः। मैत्रमनुराधा, अदितिः पुनर्वसुः, इंदुर्मुगः, हरिः श्रवणः, पौष्णं रेवती, मरुत्स्वाती, लघूनि अश्विनीहस्तपुष्याः; एतानि भान्यमरगणो देवगण इति । यदाह नारद:-'रक्षोगणः पितृत्वाष्ट्रद्विदैवत्येंद्रतारकाः। वसुवारीशमूलाहिकृत्तिकाभिर्युतास्ततः ॥ तिस्रः पूर्वोत्तराधातृयममाहेशतारकाः । इति मर्त्यगणा ज्ञेयाः स्यादमयंगणाः परे॥ हयादित्यार्कवास्वंत्यमित्राश्वीज्येदुतारकाः।' इति । एतत्फलमाह-निजनिजगणमध्ये इति । स्वस्वगणविद्यमानस्त्रीपुरुषनक्षत्रयोः सतोरत्युत्कटोत्तमा प्रीतिः स्यात् । यथा राक्षसगणयोः स्त्रीपुंसयोस्तथा मनुष्यगणयोस्तथा देवगणयोर्वा परस्परमत्युत्कृष्टा प्रीतिः स्यादित्यर्थः । अमरा देवाः, मनुजा मनुष्याः, देवमनुष्यगणयोः स्त्रीपुंसयोः परस्परं प्रीतिर्मध्यमा नोत्कृष्टा नाधमा संप्रदिष्टा । असुरमनुजयोः राक्षसमनुष्यगणयोः स्त्रीपुंसयोः मृत्युरेव प्रदिष्ट उक्तः । द्वयोर्वान्यतरस्य वेत्याकांक्षायाम् । 'प्रबलेन दुर्बलं बाध्यते' इति न्यायेन मनुष्यगणस्यैव नाशः। दनुजविबुधयो राक्षसदेवगणयोः स्त्रीपुंसयोरेकांततो निश्चयेन परस्परं वैर स्यात् । अत्र-गणकूटे । यदाह नारदः-'दंपत्योर्जन्मभे चैकगणे प्रीतिरनेकधा । मध्यमा देवमानां राक्षसानां तयोर्मुतिः ॥ कश्यपस्त्वेव. माह-'स्वगणे चोत्तमा प्रीतिर्मध्यमामरमर्त्ययोः। मर्त्यराक्षसयो(रममरासुरयोरपि ॥' इति । अयमर्थः-पुरुषो रक्षोगणः स्त्री मनुष्यगणा तदा वैरं । यदि वैपरीत्यं तदा मृत्युः । तथा पुरुषो रक्षोगणः स्त्री देवगणा तदा वैरं वैपरीत्यं मृत्युः । उक्तं च-राक्षसी यदि वा नारी नरो भवति मानुषः। मृत्युस्तत्र न संदेहो विपरीतः शुभावहः ॥' शाीये-'रक्षोगणः पुमान् स्थाचेत्कन्या भवति मानवी । केऽपीच्छंति तदोद्वाहं व्यस्तं कोऽपीह नेच्छति ॥' इति । एतत्तुल्यन्यायत्वाद्देवराक्षसयोरपि द्रष्टव्यम् । अत्र गुणविभागो दैवज्ञमनोहरे-'षड् गुणा गुणसादृश्ये पंच स्युः सुरमानुषे । नार्या देवो नरः पुंसश्चत्वारो वा गुणास्त्रयः। देवराक्षसयोः शून्यं तथैव नररक्षसोः। पुंसो रक्षोगणो यत्र नार्या देवोऽथवा नरः॥ गुणो द्वौ क्रमतश्चैको गुणो ग्राह्योऽन्यथा नहि' इति । अस्यापवादमाह गर्गः-'ग्रहमैत्री च राशिश्च विद्यते नियतं यदि । न गणाभावजनितं दूषणं स्याद्विरोधदम् ॥' अत्रिरपि'राशीशयोः सुहृद्भावे मित्रत्वे वांशनाथयोः । गणादिदौष्टयेऽप्युद्वाहः पुत्रपौत्रप्रवर्धनः ॥' अमुं परिहारं ग्रंथकृदप्यग्रे वक्ष्यति । मनुरपि–'ग्रहमैत्री च Page #267 -------------------------------------------------------------------------- ________________ दुष्टभकूटपरिहारः ] विवाहप्रकरणम् ६ । २५१ रज्जुश्व यदि नाडी पृथक् तयोः । विवाहः शुभदः कन्या राक्षसी वा नरो नरः ॥' इति । रज्जुकूटं तु ग्रंथकर्त्रा नोक्तम् ॥ २९ ॥ ३० ॥ अथ राशिकूटमनुष्टुभाह - मृत्युः पट्काष्टके ज्ञेयोऽपत्यहानिर्नवात्मजे । द्विर्द्वादशे निर्धनत्वं द्वयोरन्यत्र सौख्यकृत् ॥ ३१ ॥ मृत्युः षट्काष्टके इति ॥ स्त्रीपुंसराइयोः परस्परं षष्ठाष्टमराशित्वे सति मृत्युज्ञेयः । यथा मेषकन्ययोः । एवं नवात्मजे नवपंचमेऽपत्यानां बालानां हानिर्नाशः स्यात्, यथा सिंहधनुषोः । एवं द्विर्द्वादशे सति निर्धनत्वं दारिद्र्यं स्यात्, यथा मेषवृषयोः । अन्यत्र तृतीयैकादशे चतुर्थदशमे समसप्तमे वा सति सौख्यकृत्पाणिपीडनं स्यात् । यदाह नारदः – षट्काष्टके मृतिः पंचनवमे त्वनपत्यता । नैःस्वं द्विर्द्वादशेऽन्येषु दंपत्योः प्रीतिरुत्तमा ।' इति । अत्र विशेषो ज्योतिःप्रकाशे - 'पुंसो गृहात्सुतगृहे सुतहा च कन्या धर्मे स्थिता सुतवती पतिवल्लभा च । द्विर्द्वादशे धनगृहे धनहा च कन्या रिःफे स्थिता धनवती पत्विल्लभा च ॥' इति । अन्यच्च – 'मृगः कुलीरेण घटेन सिंहो वैरप्रदः स्यात्समसप्तकोऽयम् । तुलामृगेणाथ वृषेण सिंहो मेषेण कीटो मिथुनेन मीनः ॥ चापेन कन्या घटभेन चालिदौर्भाग्यदैन्ये दशतुर्य केऽस्मिन्' इति ॥ ३१ ॥ 1 अथास्य दुष्टभकूटस्य परिहारं शार्दूलविक्रीडितेनाहप्रोक्ते दुष्टभकूटके परिणयस्त्वैकाधिपत्ये शुभो - ऽथो राशीश्वरसौहृदेऽपि गदितो नाड्यृक्षशुद्धिर्यदि । अन्यक्षैऽशपयोर्बलित्वसखिते नाड्यृक्षशुद्धौ तथा ताराशुद्धिवशेन राशिवशताभावे निरुक्तो बुधैः ॥ ३२ ॥ प्रोक्ते इति ॥ प्रोक्ते दुष्टराशि कूटे सत्यपि चेद्वयोः स्त्रीपुरुषराश्योरैकाधिपत्ये एकस्वामित्वे परिणयो विवाहः शुभो गदितः । यथा षट्काष्टके मेषवृश्चिकयोस्तुलावृषयोर्वा नवमपंचमे त्वेकाधिपत्याभावः, द्विर्द्वादशे मकरकुंभयो:; अथवा राशीश्वरयोः राशिस्वामिनोः सौहृदे मैत्रे परिणयः शुभो गदितः, तथा षट्काष्टके मीनसिंहयोरित्यादौ नवपंचमे मेषधनुषोरित्यादौ द्विर्द्वादशे मीनमेषयोरित्यादौ । यदाह वसिष्ठः - 'द्विर्द्वादशे वा नवपंचमे वा षट्काष्टके राक्षसयोषितो वा । ऐकाधिपत्ये भवनेशमैत्रे शुभाय पाणिग्रहणं विधेयम् ॥' इति । राजमार्तडः – 'भवेत्रिकोणे बहुपुत्रवित्ताद्विर्द्वादशे चार्थमुपैति कन्या षट्ङ्काष्टके सौख्यफलं विधत्ते स्त्रीणां विवाहो ग्रहमैत्रभावे ॥' इति । एकाधिपत्येऽपीति शेषः । अत एव ग्रहमैत्रैकाधिपत्याभावे वैरषङ्काष्टकमित्यादि वदंति । यदाह नारदः - 'वैरपङ्काष्टकं मेषकन्ययोर्धटमीनयोः । चापोक्षयोर्नृयु कीट 1 Page #268 -------------------------------------------------------------------------- ________________ २५२ मुहूर्तचिंतामणिः । [विवाहे नवपंचमादिविचारः भयोः कुंभकुलीरयोः ॥ पंचास्यमृगयोर्जन्मराशेः प्रोक्तोऽशुभप्रदः ॥' इति । उक्षाः = वृषः । चापोक्षयोरित्यकारांतनिर्देशश्छांदसः । एतद्भिन्नं मित्रषट्काष्टकमित्याहुः । तदुक्तं जगन्मोहने – 'मित्रषकाष्टकं कीटमेषयोर्वृषजूकयोः । कर्किचापभयोर्मीनसिंहयोर्मृगयुग्मयोः ॥ कन्यकाकुंभयोरन्यत्प्रयत्नाद्धि विवर्जयेत् ॥' इति । एवं च ग्रहमैत्र्यभावे वैरं नवमपंचममित्याहुः । तथा च शार्ङ्गधरीये शुक्रः - 'मीनालिभ्यां युते कीटे कुंभे मिथुनसंयुते । मकरे कन्यकायुक्ते न कुर्यान्नवपंचमे ॥' इति । कीटः = कर्कटः । एतादृशस्य नवपंचमस्य `फलांतरमुक्तं कैश्चित् । तथा ज्योतिर्निबंधे शार्ङ्गधरः – ' वरवध्वोर्मातृपि 'त्रोर्जीवतस्तद्विनाशकृत् । त्रिकोणे मीनकीटाद्यं न स्यादन्यत्र दोषदम् ॥' एतत्फलमनार्षत्वादुपेक्ष्यम् । इतोऽन्यच्च मेष सिंहादिकं नवपंचमं ग्रहमैत्रीसत्त्वा'न्मिन्त्रनवपंचममिति । ननु मीनकर्कादिकमपि त्रिकोणं ग्रहमैत्रीसत्त्वान्मित्रनवमपंचममिव । कथं ? गुरोश्चंद्रो मित्रमेव, चंद्रस्य तु गुरुः समोऽपि मित्रमिव । 'अपदोषतैव विगुणस्य गुणः' इति न्यायात् । तथासति त्रिकोणदोषोच्छेदापत्तिः स्यादिति चेत् । उच्यते, - , - यत्र ह्येकस्य मित्रत्वमपरस्य समत्वं तत्र दुष्टनवपंचममिति व्यवहारः । तादृशं मीनकर्कादिकं त्रिकोणचतुष्टयमेव संभवति । यत्र तूभयतोऽपि ग्रहमैत्री तत्रैव मेषसिंहादिके मित्रनवपंचममिति व्यवहृतिः । अयं च परिहारो वरवध्वोर्मातृपित्रोरित्यस्यापि दोषांतरस्य सत्यसति समूलत्वे नाशको भवति तुल्यन्यायत्वात् । मृतमातापितृकयोस्तु वरवध्वोर्नायं दोषोन्मेषः । एवं द्विर्द्वादशेऽपि । तथा जगन्मोहने वसिष्ठकश्यपौ - 'द्विदशं शुभं प्रोक्तं मीनादौ युग्मराशिषु । मेषादौ युग्मराशौ तु निर्धनत्वं न संशयः ॥ आयुष्य संपत्सुतभोगसंपत्पुत्रार्थसंपत्पतिसौख्यसंपत् । सौभाग्यसंपद्धनधान्यसंपज्झषादियुग्मे क्रमतः फलानि ॥ अजादियुग्मे क्रमतः फलानि वैधव्यमृत्युर्वधबंधनानि । वियोगसंतापमतीव दुःखं वसिष्ठगर्गप्रमुखैः स्मृतानि ॥' इति । अथैवंविधेऽपि प्रीतिषट्काष्टकादिविषये नाडीदोषः सर्वथा त्याज्य एवेत्याह- नाड्यृक्षशुद्धिर्यदीति । 'ज्येष्ठार्यम्णेशनीराधिपभयुगयुगम्' (६।३४) इत्यादिना वक्ष्यमाणानां त्रिविधनाडीनक्षत्राणां शुद्धिः स्त्रीपुरुषनक्षत्र स्थितिRatri कस्यापि नाड्यां यदि न भवति तदा प्रीतिषट्काष्टकादि विधेयम् । यद्येकस्यां नाड्यां स्त्रीपुरुषनक्षत्र स्थितिस्तदा तु नैव विवाहः । उक्तं च रत्नमालायाम् – 'भवनपतिसुहृत्त्वं स्यात्तथैकाधिपत्यं यदि भवनवशित्वं चैव 1 1 काष्टकेsपि । शुभकृदिह विवाहोऽन्योन्यताराविशुद्धौ यदि खलु फणिचक्रे स्यान्न नाडीसमाजः ॥' इति । अपिशब्दान्नवमपंचमद्विर्द्वादशयोरपि । अत्र केचित् - षडष्टकस्यैव मरणरूपानिष्टफलश्रवणान्न तस्यापवादकः षट्काष्टके - ऽपीति परिहारः । किंतु निंदां प्रतिपादयतोऽपिशब्दांतस्य वाक्यस्याधिपतिमैत्र्यादिगुणप्रशंसाद्वारा नवपंचमर्द्वािदशयोरेव दुष्टभकूटयोर्विधानपर्यवसानात्तयोरेवापवादक इति । यथा - ' - 'ब्रह्महापि नरः पूज्यो यदि स्याद्विपुलं धनम्' इति । अत्र वाक्ये धनस्तुतिर्धनवन्नरपूजापरा नतु धनवद्विप्रन्ननरपूजा Page #269 -------------------------------------------------------------------------- ________________ नाडीनक्षत्रशुद्धौ विशेषः] विवाहप्रकरणम् ६ । २५३ परापीति । मैवं वोचः । ' द्विदशे वा नवपंचमे वा षट्वाष्टके वा' इत्यादिवसिष्ठादिवाक्यानि दुष्टभकूटापवादभूतान्यधिपतिमैन्यादिविशिष्टषडष्टकादि विदधते, 'षट्काष्टके मृत्युः' इत्यादीनि निंदार्थवादवाक्यानि तु ग्रहवैरग्रस्तषडष्टकादिविषयाणि । अन्यथा दुष्टफलषडष्टकनिराकरणस्य नवमपंचमस्य द्विादशयोरपि तुल्यत्वेनापवादकवाक्यानां विषयालाभात् । दृष्टांते तु ब्रह्मन्नप्रायश्चित्तविधानस्य वैयर्थ्यापातात् धनस्तुतिर्धनवत्प्रशंसापरैवेति युक्तमुत्पश्यामः। अथ नाडीसमाजपदस्यायमर्थः-अश्विन्यादित्रिकगणनया त्रिविधानां नाडीनक्षत्राणां वेधो नाडीसमाजः । यदाह श्रीपतिः-'नाड्यस्तिस्रो न्यस्तनिःशेषधिष्ण्यास्त्रिभ्यश्चाश्वादिभ्य एव प्रसूताः । सर्पाकारस्तत्र नाडीसमाजो नक्षत्राणामेकनाडीस्पृशां स्यात् ॥' इति । एवं च यत्र भकूटादयः सप्त भेदाः शुभा भवंति तत्र नाडीदोषश्चेत्तदा विवाहो न विधेयः । उक्तं च सप्तर्षिमते विवाहपटले-'सदा नाशयत्येकनाडीसमाजो भकूटादिकान्सप्तभेदान्प्रशस्तान्' इति । अत्र केचित् नाडीसमाजशब्दोपादानात्समाजशब्दस्य समुदायवाचित्वात् त्रिचतुष्पंचपर्वनाडीत्रयसमुदाये स्त्रीपुरुषनक्षत्रयोरेकनाड्यां पातस्तदा समस्तवश्यादिगुणसत्त्वे विवाहो नैव भवेत् । यदा त्रिचतुष्पंचपर्वनाडीवेकैव नाडी स्त्रीपुरुषयोः स्यात्तदा भवत्येव विवाहः । अत एव 'भकूटादिकान्सप्तभेदांश्च ते ताम्' इति विपरीतं वचनमनुकूलम् । अस्यायमाशयः-ते इति बहुत्वात्सप्त भकूटादयः शुभास्तामित्येकवचनानुरोधादेकामेव नाडी परिहरेयुः, नतु नाडीसमाजमित्याहुः। तञ्चिंत्यम् । यतः 'चतुस्त्रियभिभोत्थायाः' इति वाक्याच्चतुश्चरणनक्षत्रोत्पन्नायाः कन्यायास्त्रिपर्वैव, त्रिचरणनक्षत्रोत्पन्नायाः कन्यायाः द्विपर्वैव द्विचरणनक्षत्रोत्पन्नायाः कन्यायाः पंचपर्वैव नाडीगणनेति नियमाधुगपन्नाडीत्रयविचारासंभव एव । किंच रत्नमालादिवाक्येषु पार्थक्येन नाडीत्रयानभिधानम् । तत्रत्यसमाजपदं नाडीसंस्थनक्षत्रसमुदायपरं। तथा हिअश्वादिभ्यस्त्रिभ्य एव नक्षत्रेभ्यः प्रसूताः न्यस्तनिःशेषधिष्ण्याः सर्पाकारास्तिस्रो नाड्यः स्युः । तत्रैकनाडीस्पृशां नक्षत्राणां समाजो नाडी स्यात् इति । ननु-'यस्मादनर्थकलहागममृत्यवः स्युः पाणिग्रहादनु तयोः खलु नाडियोगे। तस्माच्चतुस्वियमलांघ्रिपु भेषु नूनं नाडीसमाज इति चिंत्यमनुक्रमेण ॥' इति वृद्धगर्गवचनान्नाडीसमाज एव स्थिते दोषः, नैकस्यां नाड्यामिति चेत् । उच्यते--स्वयमेव 'चतुस्त्रियमलांघ्रिषु भेषु' इति परिगणितविषयत्वेनाभिधानात्समाजपद नाडीसंस्थनक्षत्रसमुदायविषयकमिति । किंच पञ्चपर्वचतुष्पर्वनाड्योर्देशविशेषविषयत्वेनाभिधानात् त्रिनाड्यास्तु सर्वदेशविषयत्वादेतस्या एव निषेधो युक्तः। तानि च देशविशेषवाक्यान्यग्रेऽभिधास्यंते । अतः'भकूटादिकान्सप्तभेदांश्च ते ताम्' इत्यत्र पाठे प्रशस्तानिति पठंति अभियुक्ताः शाङ्गधरीयज्योतिर्निबंधकारादयः । तस्मान्नाडीसमाजपदस्य प्राग्वदेव व्या. ख्यानं न्याय्यम् । ननु यत्र नाडीनक्षत्रशुद्धिरस्ति यथा भरणीहस्तयोः षट्काएक च वर्तते ग्रहमैत्र्यपि नास्ति तत्र किं कार्यमत आह-अन्याऽशपयोरिति । अन्यः प्रीतिषवादिभ्योऽन्यराशौ । कोऽर्थः ? राशिस्वामिनोः परस्परं १ ज्यायः इति पाठः । २२ मु० चि० Page #270 -------------------------------------------------------------------------- ________________ २५४ मुहूर्तचिंतामणिः। [सद्भकूटे ग्रहवैरपरिहारः शत्रुत्वे वा समत्वे वा षट्काष्टकादौ च सति अंशपयोस्तद्राशिनवांशस्वामिनोबलित्वसखिते स्यातां, वलित्वं च सखिता च प्रथमाद्विवचनांतं पदं बलित्वं सबलत्वमुच्चादिस्थितत्वेन सखिता परस्परमैत्री ते उभे चेद्भवतः । सखिताया उपलक्षणत्वादैकाधिपत्यमपि । तदा विवाहः शुभो निरुक्तः । उक्तं च जगन्मोहने वसिष्ठेन-राशिनाथे विरुद्धेऽपि सबलावंशकाधिपौ । तन्मैत्रेऽपि च कर्तव्यं दंपत्योः सुखमिच्छता ॥' इति । नन्वयं परिहारो 'राशिनाथे विरुद्धे. ऽपी'त्यनुवादात्केवलग्रहदौष्ट्यापवादको नतु दुष्टभकूटग्रस्तग्रहवैरस्य । उच्यते'खेटारित्वं नाशयेत्सद्भकूटम्' इति अग्रे ग्रंथकृद्वक्ष्यति । तत्र 'नभोगारिभावं हरेत्सद्भकूटम्' इति सप्तर्षिमतविवाहपटलीयवाक्यं संमतित्वेनास्माभिरध्यस्यते । तदेव केवलग्रहवैरापवादकमस्ति न त्विदमपि । ननु द्वयोर्वाक्ययोर्यथाश्रुतशब्दस्वरसेनार्थे जिज्ञासिते एकस्मिन्नेव ग्रहदौष्ट्यरूपे परिहारद्वयं दृश्यते । यथैकस्मिन्नेव दुष्टभकूटके भवनपतिसुहृत्त्वमित्यादिनानेकपरिहाराभिधानमित्यतोऽत्रवचने न किंचित्तादृशं विषयं पश्यामः । सत्यम् । 'नभोगारिभावं हरेत्सद्भकूटम्' इति तु निःसंदेहं ग्रहवैरस्यैवापवादकम् । परंतु 'राशिनाथे विरुद्धेऽपि मैत्रत्वे चांशनाथयोः । विवाहं कारयेद्धीमान्दंपत्योः सौख्यवर्धनम् ॥' इति जगन्मोहनस्थवसिष्ठवाक्येन प्रागुक्तवसिष्ठवचःसमानार्थकं सत् दुष्टभकूटग्रस्तग्रहवैरापवादकम् । तथा हि-न्यूनार्थके एकस्मिन्वाक्ये राशिनाथयोः परस्परविरोधे सति तदाशिनवांशस्वामिनोः परस्परमैत्री चेच्छुभो विवाह इत्यर्थः । अत्रांशनाथयोः सबलत्वविचारो नास्ति । यत्र त्वंशनाथयोरुच्चादिस्थितत्वेन सबलत्वं परस्परमैत्री चेति द्वयमस्ति तदुष्टभकूटग्रस्तग्रहवैरापवादकमित्यधिकार्थवचनस्यार्थः । नन्वनयोर्वाक्ययोः सामान्यविशेषभावान्यूनार्थकवाक्यार्थानुवादेनाऽपरवाक्यस्य सबलत्वविधानपुरःसरैकवाक्यत्वादुपसंहारन्यायेन विशेष एव पर्यवसानं कस्मान्न भवति । यथा पुरोडाशं चतुर्धा करोत्याग्नेयं चतुर्धा करोतीति वाक्यद्वये । अत्र हि सामान्यतो यत्किंचिद्देवताकस्य पुरोडाशस्य चतुर्धाकरणं प्राप्तमग्निदेवताक एव पुरोडाशे चतुर्धाकरणं पर्यवस्यतीति चेत् । उच्यते-वेदे हि कर्तुरस्मरणात्तादृशवैदिकवाक्येषु, तथा भिन्नकर्तृकेषु स्मृतिवाक्येष्वप्येवंविधा गतिरुचिता, नत्वेककर्तृकेषु स्मृतिवाक्येषु । अन्यतरवाक्यानर्थक्यापत्तेः । तत्र किमनर्थकमित्याकांक्षायामधिकार्थकेन न्यूनार्थकमित्यत्रानयोर्वाक्ययोरेककर्तृकयोरेकप्रकरणपठितयोश्वावश्यं भिन्नार्थकत्वं वाच्यम् । तत्र कस्य कोऽर्थ इति संदेहे न्यूनार्थकं केवलं ग्रहवैरापवादकमेव । नन्वपिशब्दस्यानुक्तसमुच्चयार्थत्वादिष्टविषयो लप्स्यत इति चेन्न । तदर्थकवचनांतरस्य स्पष्टस्याभावे अपिशब्दस्य समुच्चयार्थताया दुर्लभत्वात् । एवं च 'नभोगारिभावं हरेत्सद्भकूटम्' इत्यपि वाक्यं ग्रहवैरापवादकं तुल्यबलत्वाद्रीहियववत् । अंशनाथसबलत्वाभिधायकं तु 'राशिनाथे विरुद्धेऽपी'त्येतद्वाक्यमुभयविधविरोधपरिहारार्थकं । तथा हि-राशी च Page #271 -------------------------------------------------------------------------- ________________ नाडीशुद्धः सर्वथैवावश्यकत्वं] विवाहप्रकरणम् ६ । २५५ नाथौ च एतेषां समाहारो राशिनाथं तस्मिन् राशिनाथ इत्येवं समाहारद्वंद्व आश्रीयते । तथा सत्ययमर्थः-राशी विरुद्धौ षट्काष्टकादिना नाथौ विरुद्धौ, कयो थावित्याकांक्षायां ययोः षकाष्टकादिविचारस्तयोरेव संनिहितत्वाद्रहणमिति । तयोः राश्यो थौ विरुद्धौ, 'मित्राणि धुमणेः' (६।२७) इत्यादिना परस्परं शत्रू स्यातां, तदाशिनवांशस्वामिनोः सबलत्वे मित्रत्वे च समुच्चिते सति विवाहः शुभदः। नन्वतिक्लिष्टे समाहारद्वंद्वे किं प्रमाणम् ? उच्यते-अंशनाथसबलत्वस्याधिकरणमेव । तच्च युगपदुत्पन्नस्य दोषद्वैविध्यस्य राशिविरोधग्रहविरोधरूपस्य परिहारकमित्यवगम्यते । अत एव ज्योतिःशास्त्राभियुक्ताः एवंविधे उभयविरोधे एवंविधं समाधिमाश्रित्य विवाहं कारयंतीत्यास्तां प्रसतानुप्रसक्तम् । अस्मिन्नपि पक्षे नाडीशुद्धिरपेक्षितैवेत्याह-नाड्यक्षशुद्धौ तथेति । प्रागुक्तप्रकारेण नाडीनक्षत्रेषु स्त्रीपुरुषनक्षत्रयोरेकस्यां नाड्यामवस्थित्यभावश्चेत्तदा विवाहः शुभः । यथा भरणीहस्तयोः सत्यप्युभयविरोधे राशिनवांशयोः क्रमेण पंचमचतुर्थयोयौँ स्वामिनौ सूर्यभौमौ तयोमैंत्र्यप्यस्ति स्वनवांशस्थितत्वात्सबलत्वमपि तत्र विवाहः शुभफलदो निगदितः। यतोऽत्र स्त्रीपुंसनक्षत्रयोरेकनाड्यामवस्थित्यभावः । यदा त्वश्विनीहस्ताख्ये इव द्वयोनक्षत्रे स्यातां तदा नाडीनक्षत्रशुद्ध्यभावात्सकलगुणवत्त्वेऽपि विवाहो न भवति । किं पुनरेवंविधे विषये इति । 'सदा नाशयत्येकनाडीसमाजो भकूटा. दिकान् सप्तभेदान्प्रशस्तान्' इत्युक्तेः । अथैतत्परिहारासंभवे परिहारांतरमाह- ताराशुद्धिवशे इति । अत्रान्यर्थ इत्यनुवर्तते । प्राग्वदेव व्याख्येयमिदम् । एवंविधे विषये षट्काष्टकादौ च सति यदि स्त्रीपुंसनक्षत्रयोः परस्परं ताराशुद्धिवशे 'कन्याद्वरभं यावत्' (६।२४) इत्यादिना ताराशुद्धिरूपे वशे वश्यत्वे द्वितीयचतुर्थषष्ठाष्टमनवमतारासंज्ञके सति बुधैर्विवाहः शुभो निगदितः । अत्रोदाहरणान्यनेकानि बुधैर्येयानि । अत्र संमतिः-'अन्योन्यताराविशुद्धौ' इत्युक्ता । राजमार्तडेनायमर्थः स्पष्टमभिहितः-मैत्रीक्षेत्रपयोर्द्वयोरपि तयोरैकाधिपत्येऽपि चेत्तारामित्र ८ सुमित्र ९ जन्म १ शुभदा क्षेमा च संपत्करी। पष्ठाष्टे नवपंचमे व्ययधने योगेषु पुंयोषितोः प्रीत्यायुःसुतवृद्धिवित्तजनकः कार्यो विवाहस्तदा ॥' इति । चकाराषष्ठी च । जन्मतारा यद्युत्पत्तितारा तदा राशिभेदे चरणभेदे वा शुभा ज्ञेया । दशमैकोनविंशतितारे शुभे एव । अत्रापि पक्षे नाडीशुद्धिरपेक्षितैव । नाडीशुद्ध्यभावे विवाहो नैव भवेत् । उक्तैवात्र संमतिः। अथैतस्यापि परिहारस्यासंभवे परिहारांतरमाह-अथ राशिवशताभाव इति । अत्रापि द्वयोः स्त्रीपुंसयो राशिनाथविरोधादिके विषये षट्काष्टकादौ च सति 'हित्वा मृगेंद्रं नरराशिवश्याः' (६।२३) इत्यादिना पुरुषराशेः स्त्रीराशिवशताया भावे सत्त्वे सति विवाहः शुभो निगदितः । 'यदि भवनवशित्वम्' इति श्रीपत्युक्तेः । अस्मिन्नपि पक्षे नाडीशुद्धिरपेक्षितैवोक्तादेव हेतोः । तदयमत्र निष्कृष्टोऽर्थः-पकाष्टकनवमपंचमद्विादशा Page #272 -------------------------------------------------------------------------- ________________ २५६ मुहूर्तचिंतामणिः । [दुष्टभकूटे ताराशुद्धिपरिहारः ख्येषु दुष्टभकूटेषु सत्सु परस्परं ग्रहमैत्री एकः परिहारः । ऐकाधिपत्यं द्वितीयः। ग्रहवैरेऽप्यंशपयोः सबलत्वं मैत्री च तृतीयः । ताराशुद्धिश्चतुर्थः । राशिवश्यत्वं पंचमः। सर्वेष्वपि परिहारेषु नाडीशुद्धिरपेक्षितैव । नाडीविरोधसत्वे तु विवाहो नैव स्यादिति । एवं च ग्रंथकर्ता 'भवनपतिसुहृत्त्वम्' इत्यस्य श्रीपतिश्लोकस्य वाक्यचतुष्टयमंगीकृत्य तावत्परिहाराभिधानं कृतम्। तट्टीकाकृन्महादेवोऽप्येवमेव व्याख्यत् । यत्र हि प्रत्येकं परिहारकत्वं तत्र गुणसमुदायः परिहारकः स्यादिति किं वाच्यम् ? वस्तुतस्तु 'मैत्रीक्षेत्रपयोर्द्वयोरपि तयोरैकाधिपत्येऽपि चेत्तारामित्रसुमित्रजन्मशुभदा क्षेमा च संपत्करी' इत्यादिप्राग्लिखितेन राजमार्तडवाक्येन दुष्टे भकूटे ग्रहमैत्र्या सह तथैकाधिपत्येन सह ताराशुद्धिरेव परिहारिका समुचिता । अर्थादेकस्य मित्रत्वेऽपरस्य समत्वे वश्यत्वापेक्षा । अत एतद्वाक्यं ज्योतिःसारसागरका पितृचरणैश्चैवं विवृतम्-'अनान्योन्यमित्रत्वे तुल्याधिपत्वे वा ताराशुद्धिरेव चिंत्या । एकातमित्रतायां तु वशित्वादिगुणांतरापेक्षा, शत्रुत्वे तु सर्वथा त्यागः' इति । अत एवैतस्मिन्पद्ये चेत्पदाभिधानादेकवाक्यतावसायः। एवं श्रीपतिवाक्यमपि व्याकर्तव्यमेकवाक्यताबलात् । तत्र षट्काष्टके पुनर्भवनपतिसुहृत्त्वमिति सकलगुणसत्त्वमेव परिहारकम् । अन्ययोर्दुष्टभकूटयोर्द्वयमेव । यदाह ज्योतिनिबंधे गर्गः- 'ग्रहमैत्रं शुभा तारा राशिवश्यं त्रिभिः शुभम् ॥ षडष्टकं बुधाः प्राहुभ्यां व्यकं त्रिकोणकम् ॥' इति । ब्यक-द्विादशं । द्विादशे वा नवपंचमे वा' इत्यादीनि वसिष्ठादिवाक्यानि तूपलक्षणपरतया व्याख्येयानि । अत्र यथासंप्रदाय व्यवस्था ध्येयेत्यलमियता । सौहृद इति । सुष्टु हृदयं यस्यासौ सुहृन्मित्रम् । 'सुहृदुहृदौ मित्रामित्रयोः' इति साधुः । सुहृदो भावः सौहृदम् । 'हायनांतयुवादिभ्योऽण्' इत्यण, 'तद्धितेष्वचामादेः' इत्यादिवृद्धिः । केचित्तु सुष्टु हृदयं यस्यासौ सुहृदयः, तस्य भावः सौहृदमिति युवादित्वादणि 'हृदयस्य हृल्लेखयदण्लासेषु' इति हृदादेश इत्याहुः । अपरे तु 'स्वातं हृन्मानसं मनः' इत्यभिधानान्मनोवाची हृच्छब्दः सुष्टु हृन्मनो यस्येति सुहृत्तस्य भावः, प्राग्वदणि रूपं सिद्धमित्यभिदधुः । तदुभयमपि चिंत्यम् । यतो 'हृद्भगसिंध्वंते पूर्वपदस्य च' इत्युभयपदवृद्धौ सत्यां सौहार्दमित्येव स्यात् नतु सौहृदमिति । ननु प्रथमपक्षेऽप्यनेनैव सूत्रेणोभयपदवृद्धिः कस्मान्न भवति ? नहि तत्र कश्चिद्विशेष उपादीयते । उच्यते-'ओर्गुणः' इत्यत्र ओरोदिति वक्तव्ये गुणग्रहणम् 'संज्ञापूर्वको विधिरनित्यो यथा स्यात्' इति ज्ञापकात् 'हृद्भग-' इत्यस्यानित्यत्वेनाप्रवर्तमानत्वादादिवृद्धिरेवात्रेति ऋजवः समादधते । परे तु प्रतिपदोक्तहृदयपर्यायस्य हृच्छब्दस्य 'हृद्भग-' इत्यत्र ग्रहणात् 'हृदयस्य हृल्लेखयदण्लासेषु' इति हृदादेशस्यादिवृद्धौ साधयंति तत् 'हृदयस्य हृल्लेख' इत्यादिग्रंथविरुद्धम् । तथा हि-'वा शोकष्यअरोगेषु' इत्यत्र सौहार्द सौहृदय्यम् । ब्राह्मणादित्वात् ष्यञ् । हृदादेशपक्षे 'हृद्भगसिं Page #273 -------------------------------------------------------------------------- ________________ २५७ नाडीकूटविचारः] विवाहप्रकरणम् ६ । ध्वंते पूर्वपदस्य च' इत्युभयपदवृद्धिरिति काशिकाकारो व्याख्यत् । वयं तु ब्रूमः। 'हृद्भग-' इत्यत्र 'अर्थवद्हणेनानर्थकस्य' इति परिभाषया हृदयवाचिनो हृदयादेशस्य वा हृच्छब्दस्यैव ग्रहणम् । तेनात्र 'सुहृदुहृदौ मित्रामित्रयोः' इति निपातितस्य सुहृच्छब्दस्य मित्रवाचित्वेनार्थवत्त्वात्तदवयवो हृच्छब्दस्तदंतस्योत्तरपदस्य वृद्धिर्न भवत्यवयवस्यानर्थत्वादित्यादिवृद्धि रेवान भवति । अमुमेवाशयं मनसि निधाय 'विनयं विशेषयति सौहृदेन सः' इति माघः । 'सौहृदं हि मनसोर्न गेहयोः' इति केशवार्कोऽपि सौहृदशब्दं प्रायुंक्तेति निरवद्यमिति ॥ ३२॥ अथ दुष्टानां गणकूट-भकूट-ग्रहकूटानां परिहारं शालिन्याहमैत्र्यां राशिस्वामिनोरंशनाथद्वंद्वस्यापि स्याद्गणानां न दोषः । खेटारित्वं नाशयेत्सद्भकूटं खेटप्रीतिश्चापि दुष्टं भकूटम् ॥३३॥ मैत्र्यामिति ॥ स्त्रीपुंसराशिस्वामिनोमैत्र्यां सत्यां तथा राशिनवांशयोद्वंद्वं युग्मं तस्यापि मैत्र्यां सत्यां गणानां दुष्टगणानां दोषो न स्यात् । स्त्री रक्षोगणा पुमान्मनुष्यगणो देवगणो वा तदा गणदोषो न स्यादित्यर्थः । यदाहात्रिः-'राशीशयोः सुहृद्भावे मित्रत्वे वांशनाथयोः । गणादिदौष्ट्येऽप्युद्वाहः पुत्रपौत्रप्रवर्धनः ॥' इति । अथ सद्भकूटं शुभफलदं भकूटं राशिकूटं तृतीयैकादशादिकं खेटारित्वं ग्रहयोः शत्रुतासंबंधिनं दोषं नाशयेत् । एवमेव खेटप्रीतिर्ग्रहमैत्री चापि दुष्टं भकूटं षडष्टकादिकसंबंधिनं दोषं नाशयेदित्यर्थः । तदुक्तं सप्तर्षिमते विवाहपटले-'नभोगारिभावं हरेत्सद्भकूटं विरुद्ध भकूटं हरेत्खेटमैत्री । सदा नाशयत्येकनाडीसमाजो भकूटादिकान्सप्तभेदांश्च तेषाम् ॥' अत्र चतुर्थचरणः 'प्रोक्त दुष्टभकूटके' (६।३२) इत्यादिना पुनरुक्तोऽपि स्मरणाविच्छेदार्थं पठितः । यत्तूक्तं नारदेन-'एकाधीशे मित्रभावे शुभदं पाणिपीडनम् । द्विादशे त्रिकोणे च न कदाचित्षडष्टके ॥' इति । एतन्नाडीदोषे सत्येव द्रष्टव्यम् । अधुनोदितवाक्यस्वरसात् । 'भवनपतिसुहृत्त्वं स्यात्तथैकाधिपत्यं यदि भवनवशित्वं चैव षष्टाष्टकेऽपि । शुभकृदिह विवाहोऽन्योन्यताराविशुद्धौ यदि खलु फणिचके स्यान्न नाडीसमाजः ॥' इति श्रीपत्युक्तेश्च । अन्यथा प्रागभिहितवसिष्ठादिवाक्यान्यनर्थकान्यापद्येरन्निति ॥ ३३ ॥ ___ अथ क्रमप्राप्तसकलकूटप्रधानं नाडीकूटं स्रग्धरयाहज्येष्ठार्यम्ोशनीराधिपभयुगयुगं दास्रमं चैकनाडी पुष्येंदुत्वाष्ट्रमित्रांतकवसुजलभं योनिबुभ्ये च मध्या । वाय्वग्निव्यालविश्वोडयुगयुगमथो पौष्णभं चापरा स्या इंपत्योरेकनाड्यां परिणयनमसन्मध्यनाड्यां हि मृत्युः॥३४॥ ज्येष्ठेति ॥ ज्येष्ठा प्रसिद्धा, आर्यम्णमुत्तराफाल्गुनी, ईश आर्द्रा, नीराधिपो वरुणस्तदं शततारका; एभ्यो नक्षत्रेभ्यो युगयुगं द्वयं द्वयं ज्येष्ठामूलं उत्तराफल्गुनीहस्तश्च आर्द्रापुनर्वसुश्च शततारकापूर्वाभाद्रपदा चेत्यर्थः । दास्रभ Page #274 -------------------------------------------------------------------------- ________________ २५८ मुहूर्तचिंतामणिः। [दुष्टनाडीफलानि मश्विनी च एतन्नक्षत्रनवकं परस्परमेकनाडीत्युच्यते। अथ पुष्यः प्रसिद्धः, इंदुमुंगः, त्वाष्ट्र चित्रा, मित्रोऽनुराधा, अंतकं भरणी, वसुर्धनिष्ठा, जलभं पूर्वाषाढा, योनिः पूर्वाफल्गुनी, बुभ्योऽहिर्बुध्न्यः उत्तराभाद्रपदा; एतन्नक्षत्रनवकं परस्परं मध्यनाडीत्युच्यते । अथ वायुः स्वाती, अग्निः कृत्तिका, व्याल आश्लेषा, विश्वोइत्तराषाढा; एभ्यो युगयुगं स्वाती विशाखा च कृत्तिका रोहिणी च आश्लेषा मघा च उत्तराषाढा श्रवणश्चेत्यर्थः । अथो पौष्णभं रेवती च एतन्नक्षत्रनवकमपरा तृतीयनाडीत्युच्यते । एतत्फलमाह-दंपत्योः स्त्रीपुंसयोरेकनाड्यां परिणयनमसद्दुष्टफलं स्यात् । मध्यनाड्यां हि निश्चयेन मृत्युयोरपि स्यात् । [ 'मूलेंद्रार्कभपाश्यजैकचरणादित्यार्यमेशाश्विभैर्याम्ये द्विज्यभमित्रभाग्यवसुभत्वाष्ट्रांब्वहिर्बुध्न्यभैः । अन्यैर्नाड्य इहैकनाडिनवके स्यातां द्विभे चेन्मृति!दादक्षिणतः क्वचिन्नपमुखे पाश्चकनाडी हिता ॥' गोदादक्षिणतः सर्ववर्णेषु पाचकनाडी हिता । क्षत्रियादौ क्वचित् अन्यकन्याया अलाभे पाइँकनाडी हितेत्यर्थः । ] यदाह गर्ग:-'नाडीकूटं तु संग्राह्य कूटानां तु शिरोमणिः । ब्रह्मणा कन्यकाकण्ठसूत्रत्वेन विनिर्मितम् ॥' इति । वराहः-'आद्यैकनाडी कुरुते वियोगं मध्याख्यनाड्यामुभयोर्विनाशः । अंत्या च वैधव्यमतीव दुःखं तस्माच्च तिस्रः परिवर्जनीयाः ॥' इति । अत्र चक्रन्यासो वसिष्ठेनोक्तः'आवृत्तिभिभैस्त्रिभिरश्विभाद्यं क्रमोत्क्रमात्संगणयेदुडूनि । यदेकपर्वण्युभयोश्च धिष्ण्ये नेष्टा नृनार्योर्भृशमेकनाडी ॥' फलेऽपि विशेषमाह वसिष्ठः-'सा मध्यनाडी पुरुषं निहंति तत्पार्श्वनाडी खलु कन्यकां तु । आसन्नपर्यायसमागता चेद्वर्षेण साप्यंतरिता त्रिवर्षेः ॥' इति । उत्तरार्धस्यायमर्थः-आसन्ने समीपस्थिते पर्याये आवृत्तौ चेदेकनाडी समागता यथाऽश्विन्यायोर्भरणीमृगयोः रोहिण्याश्लेषयोर्वा सा नाडी वर्षेणैकेन स्त्रीपुंसयोरुक्ताऽशुभफलदात्री स्यात् । यदा त्वश्विन्युत्तराफल्गुन्योरितरकृतव्यवधाना सा नाडी त्रिभिर्वरुक्ताऽशुभफलदात्री स्यात् । अत्र सफले नाडीनक्षत्रक्रमे अस्मदुक्तं पद्यद्वयम् ‘दशादित्यर्यमार्केद्रमूलतोयाधीशाजांघ्रिभान्येकनाडी । मध्या याम्यद्विज्ययोन्यक्षचित्रामित्रांभोवस्वहिर्बुध्यभानि ॥ वह्निब्राह्माहिपित्र्यानिलक्षद्वीशाविश्वे विष्णुपौष्णे परा च । दंपत्योर्भे सनिकृष्टे हि दुःखं वर्षेण स्यात्सांतराले त्रिवर्षेः ॥' इति । ग्रंथकर्ता तु नाडीदोषस्य तावदवस्थाक्रममनंगीकृत्य नाडीनक्षत्राण्येवोक्तानि ॥ अश्विनीमृगयोरिव नाडीभेदे तु दोषाभाव एव तेनाष्टौ गुणा इत्यर्थः । इयं चाश्विन्यादित्रिकगणना कन्यायाश्चतुश्चरणे जन्मनक्षन्ने सति । यदा तु विचरणं नक्षत्रं तदा कृत्तिकामारभ्य चतुष्पर्वगणना साभिजित् । द्विचरणत्वे तु कन्यानक्षत्रस्य मृगशीर्षतः पंचपर्वगणना। यदाह नारदः-'चतुस्त्रिद्वयंघ्रिभोत्थायाः कन्यायाः क्रमशोऽश्विभात् । वह्निभादिंदुभानाडी त्रिचतुष्पंचपर्वसु ॥ गणयेत्संख्यया चैकनाड्यां मृत्युर्न संशयः ॥ अमु १ एतच्चिह्नांतर्गतः मुहूर्तमार्तडस्थः श्लोकः तदर्थश्च टिप्पण्यादिरूपेण क्वचिल्लिखितः केनापि भ्रमेण टीकायां प्रक्षिप्त इति भाति । 'अत्रार्थे आर्ष मूलं मृग्यम्' इति एतच्छोकटीकांतिमग्रंथविरोधात् । Page #275 -------------------------------------------------------------------------- ________________ पांचालादौ वर्ज्यनाड्यः ] विवाहप्रकरणम् ६ । २५९ मर्थ स्पष्टमाह गर्गः - ' चतुष्पात्कन्यकाऋक्षं गणयेदश्विभादिकम् । त्रिभं सव्यापसव्येन भिन्नं पर्व सुखावहम् ॥ कन्यकर्क्ष त्रिपाच्चेत्स्याद्गुणयेत्कृत्तिकादिकम् । चतुर्भिः पर्वभिस्तद्वदभिजित्तारकान्वितम् ॥ कन्यकर्क्ष द्विपाच्चेत्स्यागुणयेत्सौम्य भादिकम् । पंचभिस्त्वव रोहे तु पंचमांगुलिवर्जिते ॥' एतत्फलमप्याह गर्गः - 'संश्लिष्टा मध्यनाडी तु पुरुषं हंति वेगतः। संश्लिष्टा पार्श्वनाडी तु कन्यकां हंत्यसंशयम् ॥' इति । 'आसन्ना त्वेकनाडी स्यादासन्नमृतिदायिनी | दूरस्था चैकनाडी स्यादूरस्थानिष्टकारिणी ॥' इति । दूरं = बहुकालम् । जगन्मोहने नारदः - 'एकनाडीविवाहश्च गुणैः सर्वैः समन्वितः । वर्जनीयः प्रयत्नेन दंपत्योर्निधनं यतः ॥' इति | आसां नाडीनां देशभेदेन व्यवस्थामाह जगन्मोहने नारद: - 'चतुर्नाडी त्वहल्यायां पांचाले पंचनाडिका । त्रिनाडी सर्वदेशेषु वर्जनीया प्रयत्नतः ॥' इति । अहल्यापांचाल देशविशेषौ । [ सर्वदेशशब्दः अहल्यापांचालव्यतिरिक्तदेशेषु वर्तते । 'विशेषसन्निधाने आम्नातं सामान्यं तदतिरिक्ते सामान्ये वर्तते' इति न्यायात् । ब्राह्मणा आयाता वसिष्ठोध्यायात इतिवत् । ] ननु - 'चतुस्त्रिद्वयंघ्रिभोत्थायाः' इति 'चतुर्नाडी वहल्यायाम्' इत्यनयोर्वाक्ययोः सामान्यविशेषभावयोः समापन्नयोरयमर्थः संपन्नः । कन्यर्क्षे च चतुष्पादे सत्यश्विन्यादित्रिनाडी अहल्यापांचालव्यतिरिक्तसर्वदेशेषु स्यात् । तथा कन्यक्षे त्रिपादे कृत्तिकादिचतुष्पर्वनाडी अहल्यायामेव स्यात् । तथा कन्यर्थे द्विपादे मृगादिपंचपर्वनाडी पांचाल एव स्यात् । एवं देशभेदेन नाडीनैयत्ये सति तदेशेषु प्रोक्तभिन्नेषूत्पन्नायां कन्यकायां नाडी विचारो न स्यादेव । तथा त्रिपादे द्विपादे वा कन्यर्क्षे सति सर्वेष्वपि देशेषु त्रिनाडीविचारो न स्यात् । एवं सति पुनर्वसुकृत्तिकाप्रभृतीनां त्र्यंत्रीणामुभयपार्श्वधिष्ण्यानां तन्नाडीस्थैः सर्वनक्षत्रैः सह नाडीविचाराभावः प्रसज्येत । तथा मृगचित्राधनिष्ठाद्वयंघ्रीणां मध्यनाडीधिष्ण्यानां मध्यनाडीसंस्थैः सर्वैर्भरण्यादिभैः सह च तथा चतुष्पादे भे तु देशविशेषे नाड्यभाव एव प्रसज्येत । न चेष्टापत्तिरिति वाच्यम् । आर्यावर्तनिवासिसकलशिष्टाचारविरोधप्रसंगात् । न च ' त्रिनाडी सर्वदेशेषु वर्जनीया प्रयत्नतः' इत्युक्तेरहव्यापांचालयोरपि देशयोखिनाड्यस्त्येवेति वाच्यम् । 'चतुर्नाडी त्वहल्यायां पांचाले पंचनाडिका' इत्येतद्विशेषसाहचर्यात् । अत्रेमां समाधिसरणिं पश्यामः – 'चतुस्त्रिद्व्यंघ्रिभोत्थायाः कन्यायाः क्रमशोऽश्विभात् । वह्निभादिंदुभान्नाडी त्रिचतुष्पंचपर्वभिः ॥' इति पद्येन कश्यपो नाडीत्रयविचारमभिधायानुपदमेव ' रेखास्तिस्रो विरच्याशु दस्रभाद्यानि विन्यसेत् । एकरेषास्थयोमृत्युपत्योर्जन्मधिष्ण्ययोः ॥ ' इति पुनरपि त्रिनाडीमुपन्यस्तवान् । सा च त्रिनाडी सर्वेष्वपि कन्यानक्षत्रेषु सर्वेष्वप्यहल्यापांचालसहितेषु देशेषु अवश्यं विचार्या यथा स्यादित्येतदर्थमुक्ता । न चेदं त्रिनाड्या लक्षणवाक्यमिदमिति वाच्यम् । एवं चतुर्नाडीपंचनाड्योरपि लक्षणाभिधानं कर्तव्यं स्यात् । १ [] एतच्चिह्नांतर्गत ग्रंथोऽपि मध्ये केनचित्प्रक्षिप्त इव भाति । लिखित पुस्तकेष्वऽप्यनुपलंभात् । पूर्वपत्रस्थग्रंथवत् । Page #276 -------------------------------------------------------------------------- ________________ २६० मुहूर्तचिंतामणिः। [प्राच्यसंमतं वर्गकूटं किंच यदि लक्षणवाक्यमंगीक्रियेत तदा वसिष्ठवाक्यवदनुलोमविलोमगणना वक्तव्या स्यात् , सा च नोक्तेति विधिवाक्यमेवैतत् । तस्माद्वसिष्ठादिभिर्देशनक्षअभेदेनानित्यप्रवृत्तिके चतुष्पंचनाड्यावुपेक्ष्य सकलदेशव्यापित्वात्सकलनक्षत्रव्यापित्वाच्च त्रिनाड्येवोक्ता। न चैतावता चतुष्पंचनाड्यौ स्वस्वदेशव्यतिरिक्तान्यदेशेषु नैवावलोक्ये, किंतु सर्वेष्वपि देशेषु विचार्य । तत्र स्वदेशे दोषमहत्त्वमन्यदेशेषु दोषाल्पता, त्रिनाडी तु सर्वत्रैव समानदोषा । यदाह मनुः-'अहल्यायां चतुर्नाडीसंयोगः कालमृत्युदः । एष योगोऽन्यदेशेषु ह्यपमृत्युफलप्रदः ॥ पंचनाडीसमायोगः पांचाले कालदंडदः । इतरत्र समायोगो दुःखदारिद्यदोषकृत् ॥ त्रिनाड्यां तु समायोगः सर्वत्रानिष्टकारकः' इति । यत्तु ज्योतिर्निबंधे ज्योति प्रकाशे अश्विन्यादित्रिनाडी प्रकृत्याभिहितम्'निधनं मध्यमनाड्यां दंपत्योभँव पार्श्वयोर्नाड्योः' इति । अत्र पार्श्वनाड्यां मृत्युरूपमहादोषाभावं मत्वा विवाहादिकरणं शुभमित्यर्थः । तत् क्षत्रियादिविषयं गोदावरीतो दक्षिणदेशवासिविषयं वा । तदप्युक्तं तत्रैव-'करग्रहे पृष्ठनाड्यौ न निंद्ये इति यद्वचः । तत्क्षत्रियादिविषयं गौतम्या याम्यतस्तथा ॥' इति । गौतमी-गोदावरी । अत्रार्थे मार्षमूलं मृग्यम् । इयं चाश्विन्यादित्रिनाडी गुर्वादिष्वप्यनिष्टा, प्रभुपण्यांगनादौ तु शुभैव । उक्तं च स्वरोदये'एकनाडी स्थिता यत्र गुरुमंत्राश्च देवताः । तत्र द्वेषं रुजं मृत्यु क्रमेण फलमादिशेत् ॥ प्रभुः पण्यांगना मित्रं देशं ग्रामं पुरं गृहम् । एकनाडीस्थितं भव्यं विरुद्धं वेधवर्जितम् ॥' इति । अत्र नाडीवेधे चरणवेध आवश्यकविषयस्त्याज्यः । एतदप्युक्तं तत्रैव-'आद्यांशेन चतुर्थाशं चतुर्थांशेन चादिमम् । द्वितीयेन तृतीयं तु तृतीयेन द्वितीयकम् ॥ एवं भांशव्यधो येषां जायते वरकन्ययोः । तेषां मृत्युनं संदेहः शेषांशाः स्वल्पदोषदाः॥' इति । तत्राप्यावश्यकत्वे गुरुः–'दोषापनुत्तये नाड्या मृत्युंजयजपादिकम् । विधाय ब्राह्मणांश्चैव तर्पयेत्कांचनादिना ॥ हिरण्मयीं दक्षिणां च दद्याद्वर्णादिकूटके। . गावोऽन्नं वसनं हेम सर्वदोषापहारकम् ॥' इति । एवं सर्वसंमतत्वादष्टौ कूटभेदा अभिहिता नान्ये-'माहेंद्रं गौडदेशे च मालवे रजुसंज्ञकम्' इत्यादिबादरायणवाक्येन कूटानां तत्तद्देशविषयतापादनात् । ते च कूटभेदा वसिष्ठसंहितायामसपितृचरणकृते तोडरानंदे च सामान्यविशेषभावसहिता द्रष्टव्याः ॥३४॥ अथ प्राच्यसंमतं वर्गकूटमार्ययाह अकचटतपयशवर्गाः खगेशमार्जारसिंहशुनाम् । साखुमृगावीनां निजपंचमवैरिणामष्टौ ॥ ३५ ॥ अकचटेति ॥ नामकर्मप्रकरणे चूचेचोलापदेष्वाद्य इत्यज्झलरूपाः सर्वे वर्णा अस्माभिरभिहितास्तत्राच्रूपोऽवर्गः, कुचुटुतुपुवर्गा इति पंचवर्गाः, एको यवर्गः, अन्यः शवर्गः, एवमष्टौ वर्गाः। तत्र अवर्गः खगेशस्य गरुडस्य, कवर्गो मार्जारस्य, चवर्गः सिंहस्य, टवर्गः शुनः कुकुरस्य, तवर्गः सर्पस्य, पवर्गः आखो Page #277 -------------------------------------------------------------------------- ________________ राशिनक्षत्रैक्येऽपवादः] विवाहप्रकरणम् ६ | २६१ 1 षकस्य, यवर्गो मृगस्य, शवर्गो मेषस्य । अत्र निजात्स्वस्मात् पंचमा वैरिणो येषां ते तथोक्ताः । गरुडसर्पयोः मार्जारमूषकयोः, सिंहमृगयोः श्वमेषयोः परस्परं महावैरमित्यर्थः । अत्र स्त्रीपुंसयोर्नक्षत्रद्वयं भक्ष्यभक्षकवर्गे चेत् भवेतदाशुभम् । यदा त्वेकवर्गे उदासीनवर्गे वा स्यात्तदा शुभमेव । एतच्च स्वामिसेवकयोरपि विचार्यम् । उक्तं च ज्योतिर्निबंधे - 'वर्गेशास्तार्क्ष्यमार्जारसिंहश्वव्यालमूषकाः । मृगश्च शशकस्तत्र स्ववर्गात्पंचमो रिपुः ॥' ॥ ३५ ॥ अथैवं कूटान्यभिधायेदानीं नक्षत्रराश्यैक्ये विशेषं शालिन्याहराश्यैक्ये चेद्भिन्नमृक्षं द्वयोः स्यान्नक्षत्रैक्ये राशियुग्मं तथैव । नाडीदोषो नो गणानां च दोषो नक्षत्रैक्ये पादभेदे शुभं स्यात् ३६ राश्यैक्ये इति ॥ द्वयोः स्त्रीपुंसयोरेकराशित्वे सति यदि भिन्नमृक्षं स्यात्तदा नाडीदोषो गणानां च राक्षसमनुष्यगणानां च दोषो नास्ति । यथा-एकस्मिन्नेव कुंभराशौ शततारकापूर्वाभाद्रपदापादत्रयं च इत्येवंरूपो नक्षत्रभेदः, तथैव नक्षत्रैक्ये राशियुग्मं राशिद्वयं चेत्स्यात्तदापि प्रागुक्तो दोषो न स्यात् । उपलक्षणत्वात्तारादोषोऽपि न भवेत् । यथा एकस्मिन्नेव नक्षत्रे पूर्वाभाद्रपदाख्ये पूर्वाभाद्रपदायाः प्रथमपादत्रयं कुंभे चतुर्थचरणश्च मीने इत्येवंरूपो राशिभेदः । यदाह नारदः - ' एकराशौ पृथग्धिष्ण्ये दंपत्योः पाणिपीडनम् । उत्तमं मध्यमं भिन्नराश्येकर्क्षगयोस्तयोः ॥ एक चैकराशौ च विवाहः प्राणहानिदः ॥ वसिष्ठः—‘दंपत्योर्जन्मभे चैक्ये राशौ च निधनं तयोः । एकस्य च तथोद्वाहे किंचिद्भेदेऽपि वानवा ॥' इति । किंचिद्भेदे नक्षत्रभेदे राशिभेदे च । गर्गः-'एकराशिं विना नाडीयोगमादौ विवर्जयेत् । न दोषस्त्वेकराशिस्थे भकूटेऽन्येषु मृत्युदः ॥' इति ॥ भृगुरपि - 'दंपत्योरेकराशिचेत् पृथगृक्षं यदा भवेत् । विशिष्टोक्तो विवाहः स्याद्गुणनाडीं न योजयेत् ॥' इति । अत एवाह केशवार्क: - 'अभिन्नराइयोर्यदि भिन्नमृक्षमभिन्नमृक्षं यदि भिन्नराइयोः । प्रीतिस्तदानीं निबिडा नृनार्योश्चेत्कृत्तिकारोहिणिवन्न नाडी ॥' इति । चतुर्थचरणस्यायमर्थः- चेद्यदि कृत्तिकारोहिणिवत्स्यात्तदापि नाडीदोषो न स्यात् । उपलक्षणत्वाद्गुणदोषोऽपि । यथा - कृत्तिकारोहिण्यो रेकनाडीत्वेऽपि गणदौष्ट्येऽपि तत्सूचिताशुभफलं नैव स्यात् । अत्रापि प्रथमतः तारापेक्षिता, द्वितीया स्त्रीतारेत्यपि विशेषो ध्येयः । यदाह गर्गः - ' एकराशौ पृथग्धिष्ण्ये पुंतारा प्रथमा भवेत् । अतीव शोभना प्रोक्ता स्त्रीतारा चेत्त्वशोभना ॥' इति । तदैवं कैमुतिकन्यायेन यत्र नाडीगणदोषाद्यभावो यथा रोहिणीमृगयोर्हस्तचित्रयोर्वा तत्र पाणिपीडनं शुभं स्यादिति किं वाच्यमित्यर्थः । अथैकराशिनक्षत्रत्वेऽपवादमाह-नक्षत्रैक्ये इति । स्त्रीपुंसयो राश्यैक्ये नक्षत्रैक्ये च यदि चरणभेदो यथा भरण्याः प्रथमपादे पुंसो जन्म, द्वितीयपादे स्त्रियास्तदापि शुभं कल्याणं स्यात् । तदुक्तं केशवार्केण - 'पराशरः प्राह नवांशभेदादेकर्क्षराइयोरपि सौमनस्यं ' इति । सौमनस्यं=प्रीतिः । वसिष्ठेनाऽपि - 'एकगृहसंभवानां भवति विवाहः Page #278 -------------------------------------------------------------------------- ________________ मुहूर्तचिंतामणिः । [ विवाहे सर्वसंमता २१ दोषाः सुतार्थसंपत्त्यै । यद्युभयोरेकक्षं भवति तदा चांशको भिन्नः ॥' इति । एतच्च संकोचविषयं वेदितव्यम् । तथा च जगन्मोहने- 'एक चकराशौ च विवाहस्त्वशुभः स्मृतः । संकोचे तु तदा कार्यो भिन्नः पादो यदा तयोः ॥ ' इति । अत्रापि विशेषो ज्योतिर्निबंधे विधिरने – 'रोहिण्या द्रमिवेंद्रानी तिष्यश्रवणपौष्णभम् । उत्तरा प्रोष्ठपाश्चैव नक्षत्रैक्येऽपि शोभनाः ॥' इति । इंद्रानी = विशाखा । तदेतत्स्पष्टमुक्तं तत्रैव कालनिर्णये- 'विशाखिकार्द्रश्रवणप्रजेशतिष्यांत्यतत्पूर्वमघाः प्रशस्ताः । स्त्रीपुंसतारैक्यपरिग्रहे तु शेषा विवर्ज्या इति संगिरं ॥' इति । शेषास्तारा इत्यर्थः । अत्र द्वयोरन्यतरस्य वा जन्मराशिनक्षत्राद्यज्ञाने उपायमाह वसिष्ठः - 'अज्ञातजन्मनां नृणां नामभे परिकल्पना । तेनैव चिंतयेत्सर्वं राशिकूटादि जन्मवत् ॥ जन्मभं जन्मधिष्ण्येन नामधिष्ण्येन नामभम् । व्यत्ययेन यदा योज्यं दंपत्योर्निधनप्रदम् ॥' इति । 'कुर्यात् षोडशकर्माणि जन्मराशौ बलान्विते । सर्वाण्यन्यानि कर्माणि नामराशौ बलान्विते ॥' इति । बृहस्पतिरपि - 'व्यवहारराजसेवासंग्रामग्राम मैत्रेषु । ज्ञातेऽपि जन्मराशौ फलमुक्तं नामराशिवशात् ॥ ' इति । नाम्नः सकाशाज्जन्मनक्षत्रज्ञानं स्वरोदयाभिहितशत पदचक्रांतर्गत स्वीयनामादिवर्णवशाज्ज्ञेयमिति । यस्तु ऋकारादिवर्णो नास्ति ऋषभादिनामसु च दृश्यते तत्र यथासंप्रदायं व्यवस्था ॥ ३६ ॥ २६२ अथ विवाहे एवं मासशुद्धिं दंपत्योरानुकूल्यशुद्धिं चोक्त्वेदानीं सूक्ष्मं निर्दोषं दिनलग्नविचारं वक्ष्यति । तत्रैकविंशतिः सर्वसंमता दोषा नारदेन परिगणिताः - 'एकविंशतिदोषाणां नामरूपफलानि च । पितामहोक्तं संवीक्ष्य तानि वक्ष्ये समासतः । पंचांगशुद्धिरहितो दोषस्त्वाद्यः प्रकीर्तितः । उदयास्तशुद्धिहीनो द्वितीयः सूर्यसंक्रमः ॥ तृतीयः पापषड्वर्गो भृगुः षष्ठः कुजोऽष्टमः । गंडांतं कर्तरीरिः फषडष्ठेदुश्च संग्रहः । दंपत्योरष्टमं लक्षं राशिर्विषघटी तथा । दुर्मुहूर्तो वारदोषः खार्जूरिकसमांनिभम् ॥ ग्रहणोत्पातभं क्रूरविद्धर्क्ष क्रूरसंयुतम् । कुनवांशो महापातो वैधृतिश्चैकविंशतिः ॥' इति । अन्यैस्तु दश दोषा उक्ताः -' - 'वेधश्व लत्ता च तथा च पातः खार्जूरयोगो दशयोगचक्रम् | युतिश्च जामित्रमुपग्रहाश्च बाणाख्यवज्रो दश चैव दोषाः ॥' इति व्यवहारोच्चयेऽभिधानात् । दुर्मुहूर्तो 'रवावर्यमा - ' ( ६ । १२ ) इत्यादिः । वारदोषः कुलिकादिः । क्रूरसंयुतमित्यस्योपलक्षणत्वादकालवृष्टिनामकोऽपि दोषो गृह्यते । थदाह वसिष्ठः – पंचांगशुद्धिरहिताश्चोत्पाताऽकालवृष्टिजाः' इति । एषां दोषाणां कर्मविशेषे फलमाह वसिष्ठ एव - ' एकविंशन्महादोषास्त्वेते ब्रह्ममुखोदिताः । कदाचिन्नैव सीदंति गुणानां कोटिकोटिभिः ॥ तस्मादेतेषु दोषेषु कदाचिन्नाचरेच्छुभम् । विवाहे विधवा नारी मरणं व्रतबंधने ॥ ग्रामनाशः प्रतिष्ठायां सीमंते गर्भनाशनम् । नवान्नभोजने मृत्युः कृषौ तत्फलनाशनम् ॥ कर्तुर्नाशो गृहारंभे प्रवेशे पतिनाशनम् । यात्रायां कर्तृनाशः स्याद्युद्धयाने विशेषतः । लभ्यते सुमहत्पुण्यमेषु श्राद्धादिकर्मभिः' इति । ग्रंथकर्त्रा तु दोष Page #279 -------------------------------------------------------------------------- ________________ त्रिंशांशद्रेष्काणाः] विवाहप्रकरणम् ६ । २६३ लक्षणस्य वक्तव्यत्वात्पृथग्दोषनामानि नोक्तानि । तत्र पंचांगदोषदुर्मुहूर्तवारदोषग्रहणोत्पातनक्षत्रदोषा आये शुभाशुभप्रकरणे निरूपिता एवेति पुनर्नोच्यते । दुर्मुहूर्तवारदोषयोः पुनरभिधाने प्रयोजनं तत्रैव वयं वक्ष्यामः । अतोऽन्यान्दोषान्सलक्षणान्विवक्षुरादौ व्याख्यानिरपेक्षत्वेन सुगमं षड्वर्गदोषमाह कुजशुक्रेत्यादिचतुर्भिः पद्यैः । तत्र ग्रहनवांशस्वामिन आदिमेन मंजुभाषिणीवृत्तेनाहकुजशुक्रसौम्यशशिसूर्यचंद्रजाः कविभौमजीवशनिसौरयो गुरुः । इह राशिपाः क्रियमृगास्यतौलिकेंदुभतो नवांशविधिरुच्यते बुधैः।। कुजेति ॥ अत्र लग्नादीनां लक्षणं नारदेनोक्तम्-'त्रिंशद्भागात्मकं लग्नं होरा तस्यार्धमुच्यते । लग्नविभागो द्रेष्काणो नवमांशो नवांशकः । द्वादशांशो द्वादशांशस्त्रिंशांशस्त्रिंशदंशकः। षड्वर्गाः कथिता ह्येते तेषामीशा इमे स्मृताः' इति । तत्रैते भौमशुक्रबुधचंद्रसूर्यबुधशुक्रभौमगुरुशनिशनिगुरवः क्रमेणेह षड्वर्गे राशिपा मेषादिराशीनां स्वामिनः । क्रियेति । क्रियो मेषः, मृगास्य मकरः, तौलिकं तुला,इंदुभं कर्कः एभ्यो राशिभ्यो द्वादशस्वपि राशिषु नवांशविधिर्बुधैरुच्यते । मेषे मेषादेव, वृषे मकरादेव, मिथुने तुलातः,कर्के कर्कादेव, एवं सिंहेऽपि मेषादेव; एवं कन्यादिष्वपि राशिषु मकरादित एव । एवमेव धनुरादिष्वपीत्यर्थः । यदाह नारदः-सिंहस्याधिपतिर्भानुश्चंद्रः कर्कटकेश्वरः। मेषवृश्चिकयोभौंमः कन्यामिथुनयोर्बुधः ॥ धनुर्मीनयोदेवेज्यः शुक्रो वृषतुलेश्वरः। शनिर्मकरकुंभेश इत्येते राशिनायकाः ॥' इति । नवमांशा मेषसिंहचापे मेषादयः क्रमात् । क्रमागोमृगकन्यासु ज्ञेयाः स्युर्मकरादयः ॥ तुलामिथुनकुंभेषु स्युः क्रमेण तुलादयः। अलिकर्कटमीनेषु क्रमात्स्युः कर्कटादयः ॥' इति ॥ ३७ ॥ .. अथ होराविधिं गायत्रीछंदोभेदेन शशिवदनावृत्तेनाह समगृहमध्ये शशिरविहोरा । विषमभमध्ये रविशशिनोः सा ॥ ३८ ॥ समगृहेति ॥ पंचदशभागात्मकैका होरा समराशिमध्ये प्रथमा चंद्रस्यापरा सूर्यस्य । विषमराशिमध्ये प्रथमा रवेरपरा चंद्रस्येत्यर्थः । 'होराद्वोरोजराशौ समभे चंद्रसूर्ययोः' इति नारदोक्तेः ॥ ३८ ॥ अथ त्रिंशांशद्रेष्काणान्वसंततिलकयाहशुक्रज्ञजीवशनिभूतनयस्य बाण शैलाष्टपंचविशिखाः समराशिमध्ये । त्रिंशांशको विषमभे विपरीतमसा द्रेष्काणकाः प्रथमपंचनवाधिपानाम् ॥ ३९॥ Page #280 -------------------------------------------------------------------------- ________________ २६४ मुहूर्तचिंतामणिः । [द्वादशांशेशविचारः शुक्रज्ञेति ॥ समराशिमध्ये क्रमेण प्रथमतः पंचानामंशानां शुक्रः स्वामी, ततः शैलानां सप्तानां ज्ञो बुधः, ततोऽष्टानां जीवो गुरुः, ततः पंचानां शनिः, ततो विशिखा बाणाः पंच तेषां भूतनयो भौमः । शुक्रज्ञेत्यादिसमाहारद्वंद्वः। विषमभे तु अस्मात्समराशेर्विपरीतं ज्ञेयम् । यथा-प्रथमतः पंचानां भौमः, ततः पंचानां शनिः, ततोऽष्टानां गुरुः, ततः सप्तानां बुधः, ततः पंचानां शुक्र इत्यर्थः । अयमेव त्रिंशांशकसंज्ञ इति । यदाह नारद:-'कुजार्कीज्यज्ञशुक्राणां बाणेष्वष्टाद्रिमार्गणाः। भागाः स्युर्विषमे ते तु समराशौ विपर्ययात् ॥' इति । अत्र केचिदाहुः-तुर्विशेषे, तेशब्दो हि प्रथमाबहुवचनांतः, ततः प्रथमांतसामानाधिकरण्यानुरोधादानंतर्याच्च बाणादिका भागा एव परामृश्यंते न स्वामिनः, अनानंतर्याद्भिन्नविभक्तिकत्वाच्च । तथा सत्ययमर्थः-समराशौ तु विशेषः ते बाणादिका भागा विपर्ययावत्यस्तस्थिताः यथास्थितानामेव कुजादीनां ज्ञेयाः। यथा-प्रथमतः पंचानामंशानां स्वामी भौमः,ततः सप्तानां शनिः, ततोऽष्टानां गुरुः, ततः पंचानां बुधः, ततः पंचानां शुक्र इति। मूलेऽप्येवमेव वक्तुमुचितं तत्कस्य हेतोयोरपि वैपरीत्यम् ? उच्यते-अव्ययानामनेकार्थत्वाखेतोः समुच्चयार्थत्वांगीकरणात्कुजादयोऽपि समुच्चीयते। तथा सति बाणादिका भागाः कुजादिकाः स्वामिनोऽपि विपर्यस्ता ज्ञेया इत्यर्थः । भत्रार्थे प्रमाणं श्रुतकीर्तिवचनम् । यथा-'पंचाथ पंच चाष्टौ सप्त च पंचैव चोजभवनेषु । धरणिसुतमंदसुरगुरुबुधशुक्राणां क्रमेणांशाः ॥ पंचैव सप्त चाष्टौ पंचपंचाथ युग्मभवनेषु । भागा भार्गवशशिसुतसुरेज्यशनिभूमिपुत्राणाम् ॥' इति । अत एव वराहेणापि-'युजि तु ते विपर्यस्ता' इत्यत्र तुशब्दः प्रयुक्तः । यदि नायमर्थोऽभिप्रेतः स्यात्तदा न केऽपि तुशब्दं प्रयुंजीरनिति सर्व निरवद्यम् । द्रेष्काणका इति । अत्र प्रमाणदशांशाः द्वादशसु राशिषु प्रथमो द्रेष्काणः, प्रथमस्य स्वराश्यधीशस्य द्वितीयो द्रेष्काणः, स्वराशितः पंचमराशीश्वरस्य तृतीयः स्वराशितो नवमराशीश्वरस्य । यथा-वृषे प्रथमो द्रेष्काणः, वृषाधीशशुक्रस्य द्वितीयः, कन्याधीशबुधस्य तृतीयो मकराधीशशनेरित्यर्थः। 'स्युर्देष्काणा लग्नपंचनवराशीश्वराः क्रमात्' इति नारदोक्तेः ॥ ३९ ॥ अथ द्वादशांशं षड्वर्गोपसंहारं सफलं वसंततिलकयाहस्थाद्वादशांश इह राशित एव गेहं होराथ कनवमांशकसूर्यभागाः । त्रिंशांशकश्च षडिमे कथितास्तु वर्गाः सौम्यैः शुभं भवति चाशुभमेव पापैः ॥४०॥ स्यादिति ॥ इह षड्वर्गे द्वादशांशः सार्धमंशद्वयं तत्स्वराशित एवेष्टांशांत गणितं सद्यस्तद्राशिस्वामी स द्वादशांशेश्वरः 'भारभ्य लग्नराशेस्तु द्वादशांशेश्वरः क्रमात्' इति नारदोक्तेः। अन्यच्चरणत्रयं स्पष्टतरम् । तदुक्तं वसि Page #281 -------------------------------------------------------------------------- ________________ गंडांतदोषः] विवाहप्रकरणम् ६। २६५ ष्ठेन-'लग्नं तदधं च ततस्विभागो नवांशकश्च द्विदशांशकश्च । त्रिंशांशकश्चेति हि वर्गषवं शुभं शुभव्योमचराधिपत्यम् ॥ यः पापषवर्गभवो हि दोषः पंचांगसौम्यग्रहलग्नजातम् । गुणौधर्मभोधिममोघबाणः शुष्यत्यशेषं खलु राघवस्य ॥' इति । तस्मात्सौम्यपापग्रहषड्वर्गसांकर्ये सति सौम्यषड्वर्गस्त्रिभ्योऽधिकश्वेच्छुभः, त्रिभ्यो हीनश्चेदशुभ इत्यर्थः इति दैवज्ञसंप्रदायः ॥ ४० ॥ [अथेद्रवज्रया पूर्वमध्यापरभागयोगीनि भान्याहपौष्णेशशाकाद्रससूर्यनंदापूर्वार्धमध्यापरभागयुग्मम् । भर्ता प्रियः प्राग्युजिभे स्त्रियाः स्यान्मध्ये द्वयोःप्रेम परे प्रिया स्त्री। पौष्णेति ॥ पौष्णाद्रेवत्याः षदर्भ भानि जात्यभिप्रायमेकवचनं पूर्वार्धयोगीनि ज्ञेयानि । आदिद्वादश मध्यभागयोगीनि ज्ञेयानि । ज्येष्ठादीनि नव अपरभागयोगीनि ज्ञेयानि । फलमाह-भर्ता प्रिय इति । अयं भावःराज्ञामंतःपुरस्थस्त्रीसमागमे गणिकादिसमागमे वा पूर्वार्धयुजि नक्षत्रे सति स्त्रीणां भर्ता प्रियः । मध्यभागयुजिभे परस्परं प्रीतिर्भवेत् । परे परभागयुजि भे स्त्री नृणां प्रिया भवेदिति । एवं वधूवरयोर्नवसमागमेऽपि ज्ञेयमिति रत्नमालाटीकायां महादेवेनोक्तम् ॥ सेवकादिभस्य स्वाम्यादिभात्पूर्वत्वे विशेष वसंततिलकयाहसेव्याधमर्णयुवतीनगरादिभं चे त्पूर्व हि भृत्यधनिभर्तृपुरादिसद्भात् । सेवाविनाशधननाशनभर्तृनाश ग्रामादिसौख्यहदिदं क्रमशः प्रदिष्टम् ॥ सेव्याधमणेति ॥ स्पष्टार्थम् । तथा चोक्तं डामरसंग्रहे-'भामिनीजन्मनक्षत्राद्वितीयं पतिजन्मभम् । न शुभं भर्तृनाशाय कथितं ब्रह्मयामले ॥ प्रथमं सेव्यजन्मक्षं द्वितीयं सेवकस्य च । न सेवा सुस्थिरा तस्य जलबुहुदवप्रिये ॥' इति । 'ऋणग्राहकजन्मक्षं प्रथमं ऋणदस्य भात् । द्वितीयं ऋणसंबंधो न कर्तव्यः कदाचन ॥ कदाचिद्रव्यलोभेन क्रियते नैव लभ्यते । पार्वतीप्राणनाथेन प्रोक्तं डामरसंग्रहे ॥ ग्रामभं प्रथमं यस्य द्वितीयं जन्मभं भवेत् । न ग्राह्यः सर्वथा ग्रामो यतः प्राप्यार्थनाशदः॥ इति ॥] अथ गंडांतदोषं शार्दूलविक्रीडितेनाहज्येष्ठापौष्णभसार्पभांत्यघटिकायुग्मं च मूलाश्विनी पित्र्यादौ घटिकाद्वयं निगदितं तद्भस्य गंडांतकम् । कर्काल्यंडजभांततोऽर्धघटिका सिंहाश्वमेषादिगा पूर्णांते घटिकात्मकं त्वशुभदं नंदातिथेश्चादिगम्॥४१॥ १ [ ] एतच्चिह्नांतर्गतं सटीकं श्लोकद्वयं लिखितपुस्तकेषु नोपलभ्यते, पूर्वापरसंबंधरहितत्वात् श्लोकांकरहितत्वाच्च प्रक्षिप्तमिवाभाति । २३ मु० चि० Page #282 -------------------------------------------------------------------------- ________________ २६६ मुहूर्ताचतामणिः। [लग्न-तिथिगंडांतदोषौ ज्येष्ठेति । गंडांतं नाम संधिविशेषः, स चानेकविधः नक्षत्रसंधिस्तिथिर्सधिर्लग्नसंधिश्च तथा योगसंधिः करणसंधिर्वर्षसंधिरयनसंधिर्ऋतुसंधिर्माससंधिः पक्षसंधिर्दिनसंधी रात्रिसंधिर्मध्याह्नसंधिः प्रातःसंधिः सायंसंधिनिशीथसंधिश्च । तत्र तिथिनक्षत्रलग्नविशेषाणां यः संधिनियतकालः स गंडांतसंज्ञः । अन्येषां तु संधिनियतकालः संधिशब्दवाच्य एव । तत्रादौ नक्षत्रगंडांतमुच्यतेज्येष्ठा प्रसिद्धा, पौष्णभं रेवती, सार्पभमाश्लेषा, एषामंते घटिकाद्वयं, तथा मूलाश्विन्यौ प्रसिद्धे, पित्र्यं पितरो देवतास्येति पित्र्यं मघा, 'वायवृतुपित्रुषसो यत्' इति यत् । एषामादौ घटिकाद्वयं च गंडांतं नाम । यथा रेवत्यश्विन्योराश्लेषामघयोज्येष्ठामूलयोरंतरालवर्तिघटीचतुष्टयं नक्षत्रगंडांतमशुभदमित्युत्तराधेनान्वयः। तदुक्तं रत्नमालायाम्-'पौष्णाश्विन्योः सार्पपित्र्यसंयोश्च यञ्च ज्येष्ठामूलयोरंतरालम् । तद्वंडांतं स्याञ्चतुर्नाडिकं हि यात्राजन्मोद्वाहकालेष्वनिष्टम् ॥' इति । यत्त वसिष्ठेनोक्तम्-'यदंतरालं पितृसार्पयोश्च मूलेंद्रयोराश्विनपौष्णयोश्च । भसंधिगंडांतमिति त्रयं तद्यामप्रमाणं शुभकर्महंत ॥' इति । यामः प्रहरो नक्षत्रभोगस्येति शेषः । नारदोऽपि-'सार्पेन्द्रपौष्णधिव्ण्यांते षोडशांशा भसंधयः। तदनभेष्वाद्यजाताः पापा गंडांतसंज्ञकाः ॥ उग्रं भसंधित्रितयं गंडांतत्रितयं महत् । मृत्युदं जन्मयानादिविवाहस्थापनादिषु ॥' षोडशांशो नक्षत्रभोगस्यार्धप्रहर इति यावत् । आद्यजाताः षोडशांशाः तदेतद्दोषमहत्त्वाल्पत्वसूचनार्थम् । तथा हि-चतुर्घटिके नक्षत्रगंडांते महान् दोषः। तदधिके त्वष्टघटिकात्मके मध्यमदोषः। ततोऽप्यधिके चरणावधिके त्वल्पो दोषः। अत एवोक्तं सूर्यसिद्धांते-'साईंद्रपौष्णधिष्ण्यानामत्याः पादा भसंधयः । तदग्रमेषु सार्धाशो गंडांतं नाम कीर्त्यते ॥ व्यतीपातत्रयं घोरं गंडांतत्रितयं तथा । एतद्भसंधित्रितयं सर्वकर्मसु वर्जयेत् ॥' इति । अर्धाशश्चरणार्ध प्रहर इत्यर्थः । दीपिकायां च'आये मघाचतुर्भागे मूलपादाद्य एव च । रेवत्यंते चतुर्भागे विवाहः प्राणनाशकः ॥' इति । अथ लग्नगंडांतमुच्यते-कर्केति । कर्कः प्रसिद्धः, अलिवृश्चिकः, अंडजो मीनः, 'मीनो वैसारिणोऽण्डजः' इत्यभिधानात् । एषां भानां लग्नानामंततः सप्तम्यंतात्तसिः। अंतेऽर्धघटिका, तथा सिंहमेषौ प्रसिद्धौ, अश्वो धनुः; एषां लग्नानामादिभूतार्धघटिका गंडांतं नाम । तथा कर्कसिंहयोवृश्चिकधनुषोर्मीनमेषयोर्वा लग्नयोरंतरवर्तिन्येका घटिका लग्नगंडांतमशुभमित्यर्थः । यदाह कश्यपः-'सिंहकर्कटयोश्चापकीटयोर्मीनमेषयोः । गंडांतमंतरालं तन्नाडिका निधनप्रदा ॥' इति । यत्त नारदेनोक्तम्-'कुलीरसिंहयोः कीटचापयोर्मीनमेषयोः। गंडांतमंतरालं स्थाटिकाध मृतिप्रदम् ॥' इति । वसिष्ठेनापि—'लग्नांतरालं घटिकार्धमेतत्कुलीरहोरलिचापयोश्च । मीनाजयोः सर्वगुणान्निहंति लोभो यथा सर्वगुणान्नरस्य ॥' इति, तद्दोषाधिक्यसूचनार्थम् । अथ तिथिगंडांतमुच्यते-पूर्णात इति । पूर्णाः पंचमीदशमीपंचदश्यस्तासामंते घटिकैका, तथा नंदा प्रतिपत्षष्ठयेकादश्यस्तासामादिभूतैका Page #283 -------------------------------------------------------------------------- ________________ २६७ संधिसंधिदोषः] विवाहप्रकरणम् ६ । घटिका तिथिगंडांतं नाम । यथा पंचमीषष्ट्योर्दशम्येकादश्योः पंचदशीप्रतिपदोर्वा तिथ्योरंतरालवर्तिघटीद्वयं तिथिगंडांतमशुभमित्यर्थः । यदाह नारदः'पूर्णानंदाख्ययोस्तिथ्योः संधिर्नाडीद्वयं सदा । गंडांतं मृत्युदं जन्मयात्रोद्वाहव्रतादिषु ॥' इति । यत्तु कश्यपेनोक्तम्-‘पूर्णानंदाख्ययोस्तिथ्योः संधिर्नाडीचतुष्टयम् । उद्वाहजन्मयानेषु गंडांतं निधनप्रदम् ॥' इति, तद्दोषतारतम्यसूचनार्थम् । एवं गंडांतसंज्ञः संधिरुक्तः । तत्र तिथिलग्नगंडांतपरिहारः शाकल्यसंहितायाम्-'तथैव तिथिगंडांतं नास्तींदी बलशालिनि । तथैव लग्नगंडांतं नास्ति जीवे बलान्विते ॥' इति । अथात्र प्रसंगादन्येषामपि संधिरुच्यतेऽस्माभिः । यदाह गुरुः-'घटिकाद्वयमृक्षांते मासांते तु दिनत्रयम् । वर्षांते वर्जयेत्पक्षं ग्रहणादिनसप्तकम् ॥' इति । तिथ्यादिसंधिमप्याह वसिष्ठः-'पक्षोऽब्दसंधिस्त्रिदिनं च माससंधिस्त्रिनाड्यः खलु संध्ययोश्च । नाड्यश्चतस्रस्तिथिऋक्षयोगसंधिस्तदध करणस्य संधिः ॥' वर्षेषु विशेषमाह स एव-'सौराब्दांते त्यजेत्पक्षं चांद्रे तु नवभं त्यजेत् । सावनांतेऽष्टभं त्याज्यं नाक्षत्रे पौष्णभाध्यहम् ॥' इति । अत्रापि विशेषमाह स एव–'अब्दाः स्युस्त्रिविधा जीवसौरचांद्रावयाः सदा । तेषामादौ तथा चांते त्रिदिनं वर्जयेच्छुभे॥' इति । अयं च सर्वकार्यसाधारणो निषेधः । अन्यथा मीनादित्ये विवाहप्रसंगाभावादेव वर्षातनिषेधस्य वैयर्थ्यापातात् । गुरु:-क्षांते पुत्रनाशः स्यान्मासांते तु धनक्षयः । वर्षांते वर्गनाशः स्याद्रहणात्सर्वनाशनम् ॥' इति । आवश्यकत्वे तु-'नक्षत्रयोगतिथिसंधिषु नाडिकैका तिथ्य(१५)ऽष्ट(८)विंशति(२०)पलैः सहितोभयत्र । कर्कालिमीनतनुसंधिषु दिक्पलानि त्याज्यानि शेषविवरेषु च पंच पंच ॥' इति वासनासिद्धं केशवार्कवाक्यमनुसतव्यम् । वासना च सिद्धांतशिरोमणावभिहिता-'शशितनुविकलाभ्यश्चंद्रभुक्त्येंदुभान्वोगतिविवरकलाभिर्भूय एताभिरेव । पृथगथ गतियुत्या नाडिकाः संधिरासां भतिथिकरणयोगानां फलं तत्र मिश्रम् ॥' इति । संधिफलमप्याह केशवार्कः'संधौ पुरंध्री शुचमेति वंध्या मृतप्रजा वा यदि संधिसंधिः। वदंति वात्स्या ऋतुना विमूढां निशीथमध्यंदिनसंधिषूढाम् ॥' इति । अर्धरात्रमध्यंदिनसंधिः 'अर्धे निशाह्नोर्घटीत्र्यंशम्' (१।३२)इत्याद्यप्रकरणेऽभिहितः। संघिसंधिस्तु केशवार्केणोक्तः-'रवेर्भवेदेकगृहाधिकस्य यदंशवृंदं खलु सायनस्य । तदत्र राशिद्वयभागतष्टं स्पष्टं वसंतादृतवो भवंति ॥ तत्संधयोऽङ्गांगघटीसमाः स्युसिंगुणाश्चेद्विषुवायनीयाः । स संधिसंधिः खलु यत्र शेषं शून्यं भवेदेष विशेषपुण्यः ॥' इति । मीनसंक्रांतिमारभ्य वसंतातुगणनेति पक्षमंगीकृत्यैकगृहाधिकस्येत्युक्तम् । ग्रंथकृदप्येतत् 'विषुवायनेषु'(६।७७)इति पद्येन संक्रांतिदोषे वक्ष्यतीत्यलमतिप्रसंगेन । गंडांतदोषपरिहारमाह वसिष्ठः-'गंडांतदोषमखिलं मुहूर्तोऽभिजिदाह्वयः । हति यद्वन्मृगव्याधः पक्षिसंघमिवाखिलम् ॥' तदेतदोषापवादाख्यस्य प्रकरणस्य नियामकत्वाद्विवाहविषयं न जातकादौ ॥ ४१ ॥ Page #284 -------------------------------------------------------------------------- ________________ २६८ मुहूर्तचिंतामणिः । [कर्तरीदोषः अथ कर्तरीदोषमनुष्टुभाह लनात्पापावृज्वनृजू व्ययार्थस्थौ यदा तदा । कर्तरी नाम सा ज्ञेया मृत्युदारिद्यशोकदा ॥ ४२ ॥ लग्नादिति ॥ यदा पापग्रहौ लग्नाद्वययार्थस्थावृज्वनृजू द्वादशस्थः पापग्रहो मार्गी द्वितीयस्थः पापग्रहो वक्री स्यात्तदा कर्तरीनामदोषः । कुंतति स्त्रीपुंसयोः प्राणांइछेदयतीति 'कृती छेदने' इति धात्वर्थानुसारादन्वर्था संमुखकर्तरीयं मृत्युदारिद्यशोकदा भवेत् । यदाह नारदः-'लग्नाभिमुखयोः पापग्रहयोर्ऋजुवक्रयोः । सा कर्तरीति विज्ञेया दंपत्योर्गलकर्तरी ॥ कर्तरीदोषसंयुक्तं यल्लग्नं तत्परित्यजेत् । अपि सौम्यग्रहैर्युक्तं गुणैः सर्वैः समन्वितम् ॥' इति । गर्गोऽपि-व्यये मार्गगतिः क्रूरो वक्री करो धने यदि । तौ च लग्नांशतुल्यौ च तदा घोराख्यकर्तरी ।' यदा तु द्वितीये मार्गी द्वादशे च वक्री अथवा द्वावपि करौ व्ययार्थस्थौ संतौ शीघ्रिणौ वक्रिणौ वा स्यातां तदा कर्तरी नास्त्येव । यदाह वसिष्ठः-'लग्नस्य पृष्ठाग्रगयोरसाध्वोः सा कर्तरी स्याहजुवक्रगत्योः । तावेव शीघ्रौ यदि वक्रचारौ न कर्तरी चेति पितामहोक्तिः ॥' इति । इयं च कर्तरी चंद्रस्यापि द्रष्टव्या। यदाह कश्यपः-'चंद्रस्य कर्तरी तद्वच्छुभदृष्टा न दोषदा' इति । परंतु लग्नस्य चंद्रस्य वा क्रूरग्रहमध्यगतत्वदोषोऽस्त्येव कर्तरीतोऽल्पफल: कन्यानाशकरत्वात् । यदाह वसिष्ठः-'क्रूरग्रहमध्यगते लग्ने चंद्रेऽथवा करग्रहणम् । ते यमसदनाभिमुखं गमनं चेच्छंति कन्यायाः ॥' इति । कर्तरीदोषे त्वन्यदप्यपवादातरम्-'पापो कर्तरिकारको' (६।८६) इत्यादिना स्वयं वक्ष्यति । अत्र लग्नादित्युपलक्षणात्सर्वेषामपि भावानां कर्तरीदोषो ध्येयः । 'यो यो भावः स्वामिदृष्टो युतो वा' इत्यादिना तुल्यन्यायत्वात् । तत्र लग्नकर्तरी महादोषकरी लग्नभंगाधायकत्वात्तस्या अन्यत्र तादृशदोषाभाव इति तत्त्वम् । अत्र केचित्-द्वादशे यः कश्चित्पापग्रहो भवतु मार्गी द्वितीयस्थाने यदि राहुः केतुर्वा स्यात्तदा कर्तर्येव नास्तीत्याहुः, ते प्रष्टव्याः-किं राहुकेत्वोर्ग्रहत्वाभावात्क्रूरग्रहत्वाभावाद्वा दृश्यग्रहत्वाभावाद्वा कर्तरी नास्ति ? नाद्यः । राहो. बृहत्वं श्रुतिस्मृतिप्रामाण्यसिद्धम् । तथा हि-'स्वर्भानुर्ह वा आसुरिः सूर्य तमसा विव्याध' इति माध्यंदिनी श्रुतिः।कश्यपश्च-'छिन्नोऽपि विष्णुचक्रेण सुधामयशिरास्तमः । केशवस्य वरेणासौतथापि ग्रहतां गतः॥' इति । नारदोऽपि-'अमृतास्वादनाबाहुः शिरश्छिन्नोऽपि सोऽमृतः। विष्णुना तेन चक्रेण तथापि ग्रहतां गतः ॥' इति । यद्यपि-'अदृश्यरूपाः कालस्य मूर्तयो भगणाश्रिताः । शीघ्रमंदोच्चपाताख्या ग्रहाणांगतिहेतवः॥' इति सूर्यसिद्धांतेपातानामदृश्यतोक्ता तथापि चंद्रपातस्य हि ग्रहत्वं वाचनिकमेव । 'स्वध्रुवे कुमुदिनीपतिपातो राहमाहुरिह केऽपि तमेव इति भास्कराचार्योक्तेश्च । अत एव राहोनर्ऋत्यदिक्स्वामित्वं दानं च संहिताकर्तृभिरुक्तं, राहोरधः शरीरभागः केतुसंज्ञ इति पुराणप्रसिद्धम् । न द्वितीयः । ननु केन वचनेन राहुकेत्वोः क्रूरत्वमुच्यते? Page #285 -------------------------------------------------------------------------- ________________ २६९ राहुकेत्वोः क्रूरत्वविचारः ] विवाहप्रकरणम् ६ । नच 'क्षीणेद्वयमाराः पापास्तैः संयुतः सौम्यः' इति वराहेणोक्तमिति वाच्यम्। तदुपादानाभावादेव । किंच पापग्रहत्वानभिधानाच्छुभग्रहत्वमेवावसीयते । नच 'गुरुबुधशुक्राः सौम्याः सौरिकुजार्का निसर्गतः पापाः। शशिजोऽशुभसंयुक्तः क्षीणोऽपि निशाकरः पापः ॥' इति कल्याणवर्मवाक्ये शुभग्रहमध्ये गणनाभावात्क्रूरत्वमिति वाच्यम् । पापग्रहमध्येऽपि गणना नास्तीति शुभग्रहत्वस्यापि सुवचत्वात् । उभयभ्रष्टत्वेन वा नरसिंहवजात्यंतरस्यापि वक्तुं शक्यत्वादिति चेत् । सत्यम् । 'सूर्यभौमशनिराहुकेतवः पापसंज्ञखचराः क्षयिचंद्रः । पूर्णचंद्रगुरुशुक्रसोमजाः सर्वकर्मसु हि सौम्यखेचराः ॥' इति वसिष्ठेन कंठतः क्रूरत्वाभिधानादस्ति क्रूरत्वम् । स्वरोदयेऽपि-'बुधशुक्रेन्दुजीवाश्च सदा सौम्यग्रहा मताः । शन्यर्कराहुमाहेयाः केतुः क्रूरग्रहा मताः॥' इति। न तृतीयः । ननु-स्वयमशक्तः कथं परान्साधयिष्यति' इति न्यायात्सदा चाक्षुषदर्शनाभावमितस्य राहोः केतोर्वा फलदातृत्वासामर्थ्यादिति चेन्न । अमावास्यायां प्रतिपदि वोत्पन्नस्य लग्नादिदुष्टस्थानस्थितचंद्रस्यारिष्टत्वमशुभफलजनकत्वं भवन्मते निरर्थकमापद्येत । ननु-'षष्टेऽष्टमे च चंद्रः सद्यो मरणाय पापसंदृष्टः । अष्टाभिः शुभदृष्टो मित्रैर्वस्तदर्धेन ॥' इति वराहोक्तभविष्यतीति चेत् । इहापि-'स्वच्छंदत्वं कदशनरतिवल्लभत्वं विशील्यं व्याधिः सुश्रीमतिरथ सुखं गर्भपातप्रवृत्तिः । द्यूतासक्तिर्भवति रविजे वैभवं वक्रयोगं स्वर्भानौ वाप्यथ शिखिनि वा लग्नभावादिसंख्ये ॥' इति वसिष्ठपये शनिवद्राहुकेत्वोः शुभाशुभफलदातृत्ववचनं किं वायसैक्षितम् ? सारावल्यां च-'राहुश्चतुष्टयस्थो निधनाय निरीक्षितो भवति पापैः । वर्वदंति दशभिः षोडशभिः केचिदाचार्याः ॥ अजवृषकर्कटलग्ने रक्षति राहुः समस्तपीडाभ्यः । पृथ्वीपतिः प्रसन्नः कृतापराधं यथा पुरुषम् ॥' इति राहोरशुभशुभफलाभिधानमस्ति । ननु वराहेण राहोः फलं कुत्रापि नोक्तमिति चेन्न । 'सोपप्लवे शशांके सरे लग्नगे कुजेऽष्टमगे। मात्रा साधं म्रियते चंद्रवदर्के स शस्त्रेण ॥' इति वराहपद्येऽपि राहुकेत्वोरन्यतराभिधानमस्ति । तथा हि-किमिदं चंद्रग्रहणं राहुसाहित्यकृतमुत केतुसाहित्यकृतमिति ? तत्र ग्रहणीयचंद्रे लग्नगे सरे इत्यत्र क्रूरस'हित्यमभिहितम् । फरास्तु सूर्यभौमशनय एव विवक्षिताः । इति चेत्सूर्यस्य तावद्योगाभावश्चंद्रग्रहणे हि सप्तमराशिस्थत्वात् । भौमस्यापि योगः कुजेऽष्टमग इत्युक्तेर्नास्ति । पारिशेष्याच्छनेरेव योगो वाच्यः । तत्र स्पष्टत्वार्थ शनिग्रहणमेव कस्मानाकारि ? अतः सामान्यवाचिनः क्रूरशब्दस्य प्रयोगादाहुकेत्वोरन्यतरयोगोऽपि विवक्षितोऽपरस्य सप्तमराशिस्थत्वात् । योगोऽपि एकराशिस्थत्वे स्यानतु भिन्नराशिस्थत्वे इति । एवं च ग्रहणसंबंधिलग्नस्थसूर्यारिष्टेऽपि राहुकेत्वोरन्यतरयोगो व्याख्येयः । अत एव राहुस्तमोऽगुरसुरश्च 'शिखी इति केतुः' इति पर्यायाभिधानं कृतम् । विवाहपटलेऽपि-'मरणं लत्ता राहोः कार्यविनाशं भृगोर्वदति' इति कंठतो राहुलत्ताप्युक्ता । तस्माद्वराहमतेऽपि राहुकेतुयोगो विवक्षित एव । एवं सति जातके यथा राहोः शुभाशुभ Page #286 -------------------------------------------------------------------------- ________________ मुहूर्तचिंतामणिः। [सग्रहदोषः फलदातृत्वं वचनाद्वोध्यते, तथा विवाहेऽपि प्रागुक्तवसिष्ठवाक्यादपि तत्र तुल्यन्यायत्वात्कर्तरीदोषे सत्यप्यदृश्यत्वे फलदातृता त्वयापि वक्तव्यैव । ननु'पापयोः कर्तरीकोंः शत्रुनीचगृहस्थयोः । यदा चास्तगयोर्वापि कर्तरी नैव दोषदा ॥' इति कश्यपाद्युक्तेरस्तंगतत्वेन राहुकेत्वोः कर्तरीदोषो नास्तीति चेत्-भ्रांतोऽसि, शृणु-'संभवे व्यभिचारे च स्थाद्विशेषणमर्थवत्' इति न्या. यादस्तगत्वविशेषणं भौमस्य ऋरयुक्तबुधस्य शनेति त्रयाणामेव संभवति न संभवति च । सूर्यस्तु नित्योदित एव, राहुकेतू नित्यास्तमिताविति व्यभिचाराभावात्रयाणां नैव विशेषणम् । यथा-'एत्येधत्यूठसु' इत्यत्रानुवर्तमानमेग्रहणं संभवव्यभिचाराभ्यामेतेरेव विशेषणम् । यथा उपैति उपेत इति । नत्वेधतेरेजादित्वादेव नाप्यूठोऽनेजादित्वादेवेति । तस्मादीदृशे विषयेऽयं परिहारो न प्रवर्तते । किंच किमस्तगत्वं क्षितिजसंनिधिकृतमुत सूर्यसान्निध्यकृतं वेति ? तत्र क्षितिजसन्निधिकृतं यत्तत्सूर्यादिसकलग्रहसाधारणम् । तथा सत्यस्तगतत्दविशेषणवैयर्थ्यम् । प्रागुक्तन्यायात् । राहोस्तु नारदादिवाक्याच्छिरोरूपमंडलावगतेः 'इंद्वर्कमंडलाकृतिरसितत्वात्किल न दृश्यते गगने' इति वराहोक्तेस्तमोरूपत्वात्ताहक्स्वरूपानुपलब्धेरगोचरत्वम् । परं स्थानमप्यस्य चंद्रशरमंडलाक्रांतिमंडलस्वस्तिके । यदाह केशवार्कः-'वेश्म चास्य शशभृद्विमंडलक्रांतिमंडलमिलञ्चतुष्पथे' इति । अत एव न विद्यते गावः किरणा यस्येत्यगुरित्यन्वर्थताप्यवसीयते । अथ यदि सूर्यसन्निधिकृतमित्युच्येतेति चेन्न । इतरग्रहवद्राहोरप्युदयास्तप्रसिद्ध्यभावात् । किंच कालांशानभिधानात्कदोदितः कदास्तमितश्चेति निणेतुमशक्यत्वात् । एवं केतोरप्येतद्रष्टव्यम् । ननु केतूदयो ह्युत्पातादौ प्रत्यक्षतो दृश्यत इति चेन्न । तस्यानियतदिक्प्रभवत्वात् भनियतनक्षत्रप्रमेयत्वाश्च । किंच केतूत्पातो हि लोके दुरदृष्टसूचकः भनियतेन बहुना स्वल्पेनापि वा कालेन भवेत् । सूर्यसान्निध्यकृतोदयास्तौ तु नियतकालावेवेति तयोः केत्वोर्भेदः स्वीकर्तव्यस्तस्मादाहुकेतू सदा दृश्यावेवेति प्रागुक्तदोषानवसरः । तस्मास्थितं राहुकेत्वोर्द्वितीयस्थानस्थितत्वेन वक्रित्वात्कर्तरीदोषोऽस्त्येवेति सिद्धांतः। ननु ग्रहाणां कथं शुभा. शुभफलदातृत्वमरिष्टपरिहारकर्तृत्वं च? यत:-'यदुपचितमन्यजन्मनि शुभाशुभं तस्य कर्मणः पक्तिम् । व्यञ्जयति शास्त्रमेतत्तमसि द्रव्याणि दीप इव ॥' इति स्वसिद्धांतव्यमातः । सत्यम् । उपरिष्टाञ्चिन्तयिष्यतेऽस्माभिरेतदित्यलमतिप्रसंगेन ॥ ४२ ॥ अथ सग्रहदोषमनुष्टुभाह चंद्रे सूर्यादिसंयुक्ते दारिद्यं मरणं शुभम् । सौख्यं सापत्यं वैराग्यं पापद्वययुते मृतिः ॥ ४३ ॥ चंद्रे इति ॥ सूर्ययुक्त चंद्रे दारिद्यं स्यात् । भौमादियोगे मरणादिफलं Page #287 -------------------------------------------------------------------------- ________________ अष्टमदोषोऽपवादश्च] विवाहप्रकरणम् ६ । २७१ क्रमेण स्यादित्यर्थः। पापग्रहसाहित्येऽशुभफलं राहुकेत्वोरपि द्रष्टव्यम् । यदाह नारदः–'शशांके ग्रहसंयुक्ते दोषः सग्रहसंज्ञकः । सूर्येण संयुते चंद्रे दारिद्यं भवति ध्रुवम् ॥ कुजेन मरणं व्याधिः सौम्येन त्वनपत्यता । दौर्भाग्यं गुरुणा युक्ते सापल्यं भार्गवेण तु ॥ प्रव्रज्या सूर्यपुत्रेण राहुणा कलहः सदा । केतुना संयुते चंद्रे नित्यं कष्टं दरिद्रता ॥ तस्मिन्सग्रहदोषे तु विवाहं नैव कारयेत्' इति । सापल्यं सपत्नीभावः । सापत्यं भर्तुः स्यंतरं स्यात् । अत्र गुरुबुधसाहित्यफलमशुभमुक्तं, ग्रंथकर्ता तु वसिष्ठवाक्ये केचिन्मताभिप्रायेण शुभफलमुक्तम् । तदुक्तं वसिष्ठेन–'दारियं रविणा कुजेन मरणं सौम्येन न स्युः प्रजा दौर्भाग्यं गुरुणा सितेन सहिते चंद्रे ससापत्नकम् । प्रव्रज्यार्कसुतेन सेंदुजगुरौ वांछन्ति केचिच्छुभं ध्याद्यैर्मृत्युरसगुहैः शशियुतैर्दीर्घः प्रवासः शुभैः ॥' इति । अत एव श्रीपतिनोक्तम्-'शुभं च दंभोऽलिभृदिज्यविद्याम्' इति । दंभोलिवज्रस्तं बिभर्ति स दंभोलिभृदिंदस्तस्येज्यः पूज्यो बृहस्पतिरित्यर्थः । पापेति । पापद्वयेन युते उपलक्षणत्वात्पापत्रयादिभिर्युते मृतिरेव स्यात् । 'पापद्वययुते चंद्रे दंपत्योर्मरणं ध्रुवम्' इति नारदोक्तेः। बहुसौम्यग्रहयोगे तु बहुकालं पत्युर्देशांतरेऽवस्थानं स्यात् । तद्वाक्यमधुनैवाभिहितम् । अथास्य परिहारो नारदोक्तः–'स्वक्षेत्रगः स्वोच्चगो वा मित्रक्षेत्रगतो विधुः । युतिदोषाय न भवेइंपत्योः श्रेयसे तदा ॥' इति । क्वचिद्वर्गोत्तम इति पठ्यते । कश्यपेनापि-'तुंगमित्रस्वराशिस्थः शुभयुक्तः शुभप्रदः । एवंविधः क्रूरयुतः संपूर्णफलदः शशी ॥' इति ॥ ४३ ॥ अथाष्टमलग्नदोषं सापवादमनुष्टुभाह जन्मलग्नभयोम॒त्युराशौ नेष्टः करग्रहः । एकाधिपत्ये राशीशे मैत्रे वा नैव दोषकृत् ॥ ४४॥ जन्मलग्नेति ॥ जन्मलग्नजन्मराश्योः संबंधिनि मृत्युराशावष्टमलग्ने करग्रहो नेष्टः । यदाह नारदः-'दंपत्योरष्टमं लग्नं त्वष्टमो राशिरेव च । यदि लग्नगतः सोऽपि दंपत्योर्निधनप्रदः ॥ स राशिः शुभयुक्तोऽपि लग्नं वा शुभसंयुतम् । लग्नं विवर्जयेद्यत्नात्तदंशांश्च तदीश्वरान् ॥' इति । निधनं मरणम् । अन जन्मलग्ने जन्मराशौ च विशेषमाह कश्यपः-'इष्टं स्वजन्मलग्नं तजन्मराशिरनिष्टदः। लग्नगस्तु तयोः स्थानाच्छुभान्युपचयानि वै ॥' इति । नारदोऽपि—'जन्मराश्युद्गमो नैव जन्मलग्नोदयः शुभः। तयोरुपचयस्थानं यदि लग्नगतं शुभम् ॥' इति । अथाष्टमलग्नदोषपरिहारमाह-एकेति । जन्मराशिजन्मलग्नयोरन्यतरस्य विवाहलग्नस्य च स्वाम्यैक्ये सति यथा मेषवृश्चिकयोः तथा तयो राशीश्वरयोः मैत्रे यथा सिंहमीनयोः । अत्र हि सूर्यगुर्वोरन्योन्यप्रीतिरस्ति, एतादृशविषये लग्नाष्टमदोषकृद्विवाहो न स्यात् । यदाह Page #288 -------------------------------------------------------------------------- ________________ २७२ मुहूर्तचिंतामणिः । [द्वादशभवन-विषघटीदोषौ कश्यपः-'जन्मेशाष्टमलग्नेशौ मिथो मित्रे व्यवस्थितौ । जन्मराश्यष्टम:स्थदोषो नश्यति भावतः ॥' इति ॥ ४४ ॥ ___ अथोत्तरा|क्तमेवार्थ स्पष्टमुपजातिकयाहमीनोक्षकर्कालिमृगस्त्रियोऽष्टमं लग्नं यदा नाष्टमगेहदोषकृत् । अन्योन्यमित्रत्ववशेन सा वधूभवेत्सुतायुगृहसौख्यभागिनी ४५ मीनेति ॥ उक्षा वृषः, स्त्री कन्या, अन्ये प्रसिद्धाः; एते राशयो यद्यष्टमलग्नं स्युः; यथा-सिंहान्मीनः तुलातो वृषः, धनुषः कर्कः मेषाद्वृश्चिकः मिथुनान्मकरः कुंभात्कन्याष्टमलग्नं तदाष्टमगेहदोषकृन्न भवेत् । कुत इत्यत आहअन्योन्येति । प्रागुक्तपरस्परप्रीतिवशेनेदं चोपलक्षणं मेषवृश्चिकयोस्तुलामकरयोरैकाधिपत्यात् । एवं सति सा वधूः परिणीता कन्या सुतायुर्गृहसौख्यभागिनी स्यात् । उक्तं च-'झषकुलीरवृषालिमृगांगनाजननराशिविलग्नगृहाष्टमाः। शुभफला भृगुणा कथितास्तयोरधिपती सुहृदौ हि परस्परम् ॥' इति । परिहारांतरमप्याह गुरुः–'लग्नादष्टमराशीशः केंद्रगः शुभवीक्षितः । यद्यष्टमगतस्योक्तदोषमाशु व्यपोहति । रंधेशः स्वशुभांशस्थस्तुंगस्वक्षेत्रमित्रगः । अष्टमस्थानदोषो हि विनश्यति न संशयः ॥' इति ॥ ४५ ॥ ___ अथाष्टमलग्नदोषप्रसंगाजन्मराशिजन्मलग्नाभ्यामष्टमेशस्य तदंशस्य च लग्नस्थितत्वदोषं तथा द्वादशभवनदोषं कुसुमविचित्राछंदसाहमृतिभवनांशो यदि च विलग्ने तदधिपतिर्वा न शुभकरः स्यात् । व्ययभवनं वा भवति तदंशस्तदधिपतिवा कलहकरः स्यात् ४६ मृतीति ॥ अष्टमभवननवांशो यदि विलग्ने स्यादथवाष्टमभवनस्वामी विलग्ने स्यात्तदा शुभकरो न स्यात् । यदाह कश्यपः-'दंपत्योरष्टमे लग्ने राशौ वापि तदंशके । तदीशे वा लग्नगते तयोर्मृत्युर्न संशयः ॥' इति । अथ व्ययभवनं जन्मलग्नजन्मराशिभ्यां द्वादशं भवनं; अथवा व्ययांशोऽथ वा व्ययस्वामी यदि लग्ने स्यात्तदा कलहकृत्स्यात् । उक्तं च कश्यपेन-'तथैव द्वादशे लग्ने तदंशे वा तदीश्वरे। विवाहलग्नगे नैःस्व्यं नित्यं स्यात्कलहो द्वयोः ॥' इति । नारदेनापि-'दंपत्योर्द्वादशं लग्नं राशिर्वा यदि लग्नगः। अर्थहानिस्तयोस्तस्मात्तदंशस्वामिनं त्यजेत् ॥' इति ॥ ४६ ॥ अथ विषघटीदोषं वंशस्थाभ्यामिंद्रवज्रया चाहखरामतों ३० ऽत्यादितिवह्निपित्र्यभे . खवेदतः ४० के रदत ३२ श्च सापेभे । खबाणतो ५० श्वे धृतितो १८ र्यमांबुपे कृते २० भगत्वाष्ट्रभविश्वजीवभे ॥४७॥ Page #289 -------------------------------------------------------------------------- ________________ तिथि- वारविषनाडिकाः ] विवाहप्रकरणम् ६ | मनो १४ द्विदैवानिलसौम्यशाकभे कुपक्षतः २१ शैवकरेऽष्टितो १६ जभे । युगाश्वितो २४ बुध्यभतोययाम्यभे खचंद्रतो १० मित्रभवासवश्रुतौ ॥ ४८ ॥ मूलेऽङ्गबाणा ५६ द्विषनाडिकाः कृता वर्ज्याः शुभेऽथो विषनाडिका ध्रुवाः । निम्ना भभोगेन खतर्क ६० भाजिताः २७३ स्फुटा भवेयुर्विषनाडिकास्तथा ॥ ४९ ॥ खरामेति ॥ मनोरिति ॥ मूले इति ॥ रेवतीपुनर्वसुकृत्तिकामघानक्षत्रेषु खरामतः त्रिंशद्वटिकोत्तरं कृताश्चतस्रो घटिका विषनाडिकाः शुभे कार्ये वर्ज्याः स्युरिति तृतीय श्लोकेनान्वयः । एवं सर्वत्र व्याख्येयम् । के रोहिण्यां, कृतेर्विंशतः, अजभं पूर्वाभाद्रपदायाम् । अन्यानि पदानि स्पष्टानि । तदेवं षष्टिघटीरूपे नक्षत्र भोगे ध्रुवकाश्चतस्रो विषनाडिकाश्च प्रोक्ताः । न्यूनाधिकत्वे तु स्पष्टीकरणमुच्यते । अथो इति । विषनाडीनां ध्रुवाः खरामत इत्येवमादयो नक्षत्रभोगेनेष्टेन निघ्नाः खतकैः षष्ट्या भाजितास्ततो विषनाडिकाध्रुवाः स्पष्टा भवेयुः । तथा विषनाडिका अपि भभोगेन निघ्नाः षष्ट्या भाज्याः लब्धाः स्पष्टा भवेयुरित्यर्थः। अत्रोपपत्तिः - त्रैराशिकेन यदि घटीषष्ट्यात्मकभभोगेनेमे ध्रुवका इमाश्चतस्रो विषनाडिकाश्च लभ्यंते तदेष्टभभोगेन किमिति ? तत्र ध्रुवा विषनाडिकाश्चेष्टभभोगेन गुण्याः षष्ट्या भाज्या इति फलितम् । यदाह कश्यपः - 'वियद्वाणा वेददस्राः खरामा व्योमसागराः । वेदचंद्राश्चंद्रदस्राः खरामा व्योमबाहवः ॥ नेत्राग्नयो व्योमगुणाः शून्यदस्रा गजेंदवः । क्ष्माबाहवो वियद्दस्राः शक्राश्चंद्राः खभूमयः ॥ वेदचंद्रास्तर्कबाणा वेददस्राः खबाहवः । व्योमेंदवो व्योमचंद्रा धृतयस्तर्कभूमयः ॥ वेदाश्विनः खरामाः स्युर्दवर्क्षाद्वटिकाः क्रमात् । आभ्यः परस्तात्क्रमशश्चतस्रो विषनाडिकाः । ऋक्षाद्यं तद्वटीनिघ्नाः षष्टिभक्ताः स्फुटाः स्मृताः ॥ विषनाडीदोषदुष्टं लग्नं सर्वगुणान्वितम् । शुभैः सर्वैश्च संयुक्तमपि पंचेष्टकं त्यजेत् ॥' इति । वसिष्ठः - 'कुर्वंत्युद्वाहितां कन्यां विधवां वत्सरत्रयात् । अन्यस्मिन्मंगले ताश्च निधनं चाथ निर्धनम् ॥' इति । ताः विषनाडिकाः । अथ प्रसंगात् ग्रंथांतरोक्तास्तिथिवार - विषनाडिकाः प्रोच्यंतेऽस्माभिः । दैवज्ञमनोहरे - 'तिथी १५ षु ५ नागा ८ द्वि ७ गिरी ७ षु ५ वारिधि ४ र्गजा ८ द्वि ७ दिकू १० पावक ३ विश्व १३ वासवाः १४ । मुनी ७ भ ८ संख्या प्रथमातिथेः क्रमात्परं विषं स्याद्वटिकाचतुष्टयम् ॥ नखा २० द्वयं २ द्वादश १२ दिकू १० च शैला ७ बाणाश्च ५ तत्त्वानि २५ यथाक्रमेण । सूर्यादिवारेषु परं चतस्रो नाड्यो विषं स्यात्खलु वर्जनीयम् ॥' ' Page #290 -------------------------------------------------------------------------- ________________ २७४ मुहूर्तचिंतामणिः। [रात्रिमुहूर्ताः ज्योतिःसागरे–'विवाहव्रतचूडासु गृहारंभप्रवेशयोः । यात्रादिशुभकार्येषु विघ्नदा विषनाडिकाः ॥' इति । अस्य परिहारमाह दैवज्ञमनोहरे गुरुः'चंद्रो विषघटीदोषं हंति केंद्रत्रिकोणगः । लग्नं विना शुभैदृष्टः केंद्रे वा लग्नपस्तथा ॥' इति । फलप्रदीपे-'विषनाड्युत्थितं दोष हंति सौम्यसंगः शशी। मित्रदृष्टोऽथ वा स्वीयवर्गस्थो लग्नपोऽपि च' इति ॥ ४७-४९ ॥ अथ दुर्मुहूर्तदोषं विवक्षुरादौ दिवामुहूर्तान्मालिनीछंदसाह गिरिशभुजगमित्राः पित्र्यवस्खंबुविश्वे___ऽभिजिदथ च विधातापींद्र इंद्रानलौ च । निर्ऋतिरुदकनाथोऽप्यर्यमाथो भगः स्युः क्रमश इह मुहूर्ता वासरे बाणचंद्राः ॥ ५० ॥ गिरिशेति ॥ मत्र बाणचंद्रा इत्युक्तेः मुहूर्तस्य पार्थक्येन लक्षणं नोक्तम् । गिरिशो महादेवः, भुजगः सर्पः, मित्रः सूर्यविशेषः, पित्र्यवखंबुविश्वे प्रसिद्धाः, पितरश्चतुर्थमुहूर्तस्वामिनः इत्यपेक्षितम् छंदोऽनुरोधात्तथोक्तिः । पित्र्यमिति नक्षत्राभिधानमयुक्तं प्रतिभाति । अथवा नक्षत्रतदीशयोरभेदोपचारात्स्वामिनिवृत्तिः । अष्टमोऽभिजित् , ततो विधाता ब्रह्मा, इंद्रः इंद्रानलौ; अत्र समुदितयो. ासज्यवृत्तिदेवतात्वं । इंद्रस्य अल्पान्तरत्वात्पूर्वनिपातः । निर्ऋती राक्षसः, उदकनाथो वरुणः, अर्यमा भगश्वेमौ सूर्यविशेषौ; इत्येते बाणचंद्राः पंचदश वासरे दिवसे मुहूर्ताः स्युः । यदाह नारदः-'दिवामुहूर्ता रुद्राहिमित्राः पितृवसूदकम् । विश्वविधातृब्रह्मेद्रा इंद्राम्यसुरतोयपाः ॥ भर्यमा भगसंज्ञश्व विज्ञेया दशपंच च ॥' इति ॥ ५० ॥ अथ रात्रिमुहूर्ताननुष्टुभाह शिवोऽजपादादष्टौ स्युर्भेशा अदितिजीवको । विष्ण्वर्कत्वष्टमरुतो मुहूर्ता निशि कीर्तिताः ॥ ५१ ॥ शिव इति॥प्रथममुहूर्तस्वामी शिवः, ततोऽजपादादष्टौ भेशा नक्षत्रस्वामिनो मुहूर्तेशाः । यथा-अजपादः अहिर्बुध्न्यः पूषा अश्विनौ यमः अग्निब्रह्मा सोम इत्यष्टौ, ततो दशमेशोऽदितिः, जीवको गुरुः । स्वार्थे कः । विष्ण्वत्वष्ट्रमरुतः प्रसिद्धाः । एते निशि मुहूर्ताः प्रकीर्तिताः । मुनिभिरिति शेषः । यदाह नारदः-'ईशाजपादहिर्बुध्न्यपूषाश्वियमवह्नयः।धातृचंद्रादितीज्याख्यविष्ण्वकत्वष्टवायवः ॥' इति । मुहूर्तलक्षणं कश्यपेनोक्तम्-'अह्नः पंचदशो भागो मुहूर्तोऽथ तथा निशि' इति । प्रयोजनमाह नारदः-'यस्मिन्नुले हि यत्कर्म कथितं निखिलं च यत् । तदैवत्ये तन्मुहूर्ते कार्य यात्रादिकं सदा ॥' इति ॥ यात्रेत्युपलक्षणं देवस्थापनाचं कार्यम् । 'धिष्ण्ये प्रोक्तं स्वामितिथ्यंशकेऽस्य' इति ग्रंथकृताप्युक्तम् ॥ ५१ ॥ Page #291 -------------------------------------------------------------------------- ________________ २७५ विवाहे वेधदोषस्त्याज्यः] विवाहप्रकरणम् ६ । अथावसरप्राप्तान्दुर्मुहूर्तान् भुजंगप्रयातेनाहरवावर्यमा ब्रह्मरक्षश्च सोमे कुजे वह्निपित्र्ये बुधे चाभिजित्स्यात् । गुरौ तोयरक्षौ भृगौ ब्राह्मपित्र्ये शनावीशसापौ मुहूर्ता निषिद्धाः॥ रवाविति ॥रवेर्वारेऽर्यमा लक्षणया अर्यमस्वामिकश्चतुर्दशसंख्याको मुहूर्ता निषिद्धः । एवं सोमवारे ब्रह्मरक्षः । द्वंद्वैकवद्भावः । ब्रह्मरक्षःस्वामिको मुहूतौं निषिद्धौ । एवं सर्वत्र व्याख्येयम् । पदानि स्पष्टार्थानि । ईशो महादेवः, यदाह नारदः-'अर्यमा राक्षसब्राह्मौ पित्र्याग्नेयौ तथाभिजित् । राक्षसाप्यौ ब्राह्मपित्र्यौ भौजंगेशाविनादिषु ॥ वारेषु वर्जनीयास्ते मुहूर्ताः शुभकर्मणि ॥' ननु दुर्मुहूर्तोपलक्षितास्तिथ्यंशाः 'सूर्ये षट्स्वरनाग' (१।३८) इत्यादिनोक्ता इति पुनरत्राभिधानमयुक्तमिति चेत् । सत्यम् । अग्रे कुलिका अपि वक्तव्याः संति तत्पुनरुक्तिपरिहारावसरे समाधास्ये ॥ ५२ ॥ अथ वेधदोषं विवक्षुर्विहितनक्षत्रादिकमभिजिन्मानं च प्रहर्षिण्याहनिर्वेधैः शशिकरमूलमैत्र्यपित्र्य ब्राह्मांत्योत्तरपवनैः शुभो विवाहः । रिक्तामारहिततिथौ शुभेऽह्नि वैश्व प्रांत्यांघ्रिश्रुतितिथिभागतोऽभिजित्स्यात् ॥ ५३॥ निर्वेधैरिति॥ मृगशिरोहस्तमूलानुराधामघारोहिणीरेवत्युत्तराफल्गुन्युत्तराषाढोत्तराभाद्रपदास्वातीनक्षत्रैः निर्वेधैः वेधाख्यदोषरहितैः विवाहः शुभः शुभफलप्रदः। यदाह वसिष्ठः-स्वातीमघायां निर्ऋतौ ध्रुवांत्यमित्रंदुहस्तेषु च कन्यकानाम् । पाणिग्रहस्त्विष्टफलप्रदः स्यादविद्धभेष्वेव गुणान्वितानाम् ॥' इति । नारदोऽपि–'पौष्णधान्युत्तरामैत्रमरुञ्चंद्रार्कपित्र्यभैः। समूलभैरविबैस्तैः स्त्रीकरग्रह इष्यते ॥' इति । स्त्रीग्रहणं मुख्यत्वसूचनार्थम् । गृहस्थाश्रमस्य तदायत्तत्वात् । रिक्तेति । रिक्तामाः प्रसिद्धाः, आभिर्वर्जिततिथिषु शुभेऽह्नि शुभग्रहवासरेऽपि विवाहः शुभः । यदाह वसिष्ठः-'शुक्लद्वितीयादित एव कृष्ण पक्षे दशम्यंतगताः प्रशस्ताः। तास्वष्टमी स्कंदगणेशदुर्गाश्चतुर्दशी चापि तिथिर्विवा ॥ वाराः प्रशस्ताः शुभखेचराणां सूर्यार्किवारौ खलु मध्यमौ तौ । त्याज्यः सदा भूमिसुतस्य वारः कामार्कतिथ्योरपि तौ प्रदोषौ ॥' इति । तौ सूर्यार्किवारौ त्रयोदशीद्वादश्योः प्रदोषौ प्रकृष्टदोषावित्यर्थः । गणेशश्चतुर्थी । अत्र यदि विचारितविवाहदिनमारभ्य चतुर्थीकर्मपर्यंतं पित्र्याद्यावश्यकश्राद्धदिनममावास्या वा भवति तदा विवाहो न कार्यः। उक्तं च-'विवाहमारभ्य चतुर्थिमध्ये श्राद्धं दिन दर्शदिन यदि स्यात् । वैधव्यमाप्नोति तदाशु कन्या जीवेत्पतिश्चेदनपत्यता स्यात् ॥' इति । अन्यच्च-'विवाहमध्ये यदि तत्क्षयाहं श्रुत्वाऽश्रुमुख्याः पितरो न यांति। वृत्ते विवाहे परतस्तु कुर्याच्छ्राद्धं स्वधाभिर्न तु दूषयेत्तम् ॥' इति । अथ वैश्वेति । वैश्वमुत्तराषाढा, तस्यांत्यांघ्रि Page #292 -------------------------------------------------------------------------- ________________ २७६ मुहूर्तचिंतामणिः। [प्रत्येकवेधफलानि चतुर्थचरणः श्रुतेः श्रवणस्य पंचदशांशो मिलित्वाऽभिजिदोगः स्यात् । यदाह वसिष्ठः-'अभिजिगभोगमेतद्वैश्वेदेवांत्यपादमखिलं तत् । माद्याश्चतस्रो नाड्यो हरिभस्यैतञ्च रोहिणीविद्धम् ॥' प्रयोजनमप्यधुनैव वक्ष्यति ॥ ५३॥ अथ वेधदोषं पंचशलाकाचक्रोद्धारनिरपेक्षं स्पष्टार्थ शार्दूलविक्रीडितेनाहवेधोऽन्योन्यमसौ विरिंच्यभिजितोर्याम्यानुराधक्षयो विश्वंद्वोर्हरिपित्र्ययोग्रहकृतो हस्तोत्तराभाद्रयोः । खातीवारुणयोर्भवेनिक्रतिभादित्योस्तथोपांत्ययोः खेटे तत्र गते तुरीयचरणाद्यो; तृतीयद्वयोः ॥५४ ॥ वेध इति ॥ विरंचिः रोहिणी, रोहिण्यभिजितोप॑हैः क्रूराक्रूरैः कृतो वेधोऽन्योन्यं परस्परं भवेत् । रोहिणीस्थे ग्रहे अभिजिद्विद्धः अभिजित्स्थे रोहिणी विद्वेत्यर्थः । एवं सर्वत्र व्याख्येयम् । पदानि स्पष्टार्थानि । यदाह नारदः-'तिर्यक्पंचोर्ध्वगाः पंच रेखे द्वे द्वे च कोणयोः। द्वितीयशंभुकोणेअग्निधिष्ण्यं चक्रेऽत्र विन्यसेत् ।भान्यतः साभिजिन्त्येके रेखाखेटेन विद्धभम् ॥' इति । चक्रोद्धारो यथा-'चक्रे तस्मिन्नेकरेखास्थितेन तद्विखर्भ खेचरेण प्रदिष्टम् । क्रूरैर्विद्धं सर्वधिष्ण्यं विवयं सौम्यैर्विद्धं नाखिलं पाद एव ॥' इति । नन्वष्टाविंशतिनक्षत्राणि चक्रे तत्र द्वयोः परस्परवेधे चतुर्दशयुग्मानि वक्तव्यानि स्युः, कथमष्टावेवाभिहितानि ? उच्यते-विवाहे ह्येकादश नक्षत्राणामेव प्राशस्त्याभिधानात्तद्वेधोपयोगीन्येतावंत्येव युग्मानि संभवंतीति तावतामेवाभिधानम् । अत एव दैवज्ञमनोहरे-'रोहिण्यभिजितोर्मूलादित्ययोर्मुगवैश्वयोः । रेवत्युत्तरफाल्गुन्योर्मघाश्रवणयोर्भवेत् ॥ हस्तोत्तराभाद्रयोश्च स्वातीवारुणयोर्मिथः । अनुराधाभरण्योश्च वेधोऽयं पंचरेखजः ॥' इति । वराहीयविवाहपटले प्रत्येकवेधफलानि-रविवेधे वैधव्यं पुत्रविनाशं करोति कुजवेधः। वंध्या पंडितवेधे दीक्षाकरणं करोति गुरुवेधः। भृगुसुतवेधे पुत्री दासी रविजेंदुराहुसंभूते ॥' इति । पंडितो बुधः । दीक्षाकरणं प्रवाजिकात्वम् । चरणवेधमाह-खेट इति । तत्र तस्मिनक्षत्रे गते विद्यमाने खेटे ग्रहे सति यदि स चतुर्थपादेऽस्ति तदा परनक्षत्रस्य प्रथमपादे वेधः। यदि तृतीयपादे तदा द्वितीयचरणस्य वेधः। एवं यदि द्वितीयपादे तदा तृतीयपादस्य वेधः। यदि प्रथमपादे तदा चतुर्थपादस्य वेध इत्यर्थः । यदाह वसिष्ठः-'अतोऽन्त्यपादमादिगो द्वितीयगस्तृतीयकम् । तृतीयगो द्वितीयकं चतुर्थगस्तु चादिमम् । भिनत्ति वेधकृद्रहो न चान्यपादमादरात् ॥' एतद्यद्यपि शुभाशुभग्रहसाधारणं प्रतीयते तथापि सौम्यग्रहपरं द्रष्टव्यम् । यतो वसिष्टेनैव खाजूरदोषाभिधानावसरे-विषप्रदिग्धेन हतस्य पत्रिणा मृगस्य मांसं शुभदं क्षतादृते । तथैव पादो न शुभोऽवशिष्टाः पादाः शुभाश्चेति पितामहेन ॥' इत्या Page #293 -------------------------------------------------------------------------- ________________ वेधदोषः ] विवाहप्रकरणम् ६ | शंक्य समाहितम् - "पाद एव न शुभः शुभग्रहैर्विद्ध इत्यखिलशास्त्रसंमतम् । क्रूरविद्धभयुतं न शोभनं शोभनेषु गदितं न पादतः ॥' इति । नारदः-'पादमेव शुभैर्विद्धमशुभैर्नैव कृत्स्नतः ।' इति । कश्यपोऽपि - 'क्रूरविद्धं युतं धिष्ण्यं क्रूराक्रांतं च कृत्स्नभम् । मणिहेममयं हर्म्यं भूताक्रांतमिव त्यजेत् ॥' इति । कृत्स्नभं=सकलनक्षत्रम् । तस्मात्क्रूरग्रहविद्धे संपूर्णनक्षत्रत्यागः शुभविद्धे चरणत्याग इति सिद्धांत: । तत्र विवाहे पंचशलाकावेध एव । यदाह वसिष्ठः'पंचशलाकाचक्रे पाणिग्रहणे भवेधविधिरुक्तः । शस्तः शुभमित्रकृतः सप्तशलाकाज इतरत्र ॥' इति । श्रीपतिः - 'वधूप्रवेशने दाने वरणे पाणिपीडने । वेधः पंचशलाकाख्योऽन्यत्र सप्तशलाककः ॥' इति ॥ ५४ ॥ अथ केचित् सप्तशलाकाचक्रेऽपि वेधमाहुः । तदर्थं चक्रन्यासं विनैव वेध - दोषं शार्दूलविक्रीडितेनाह शाक्रेज्ये शतभानिले जलशिवे पौष्णार्यम वसु द्वीशे वैश्वसुधांशुभे भगे सार्पानुराधे तथा । हस्तो पांतिमभे विधातृविधि मूलादिती त्वष्ट्रभा २७७ जांघ्री याम्यमधे कृशानुहरिभे विद्धेऽद्रिरेखे मिथः ॥ ५५॥ शाक्रेति ॥ अद्विरेखे सप्तशलाकाख्ये चक्रे शाक्रेज्ये ज्येष्ठापुष्यनक्षत्रे मिथः परस्परं ग्रहाधिष्टितत्वेन विद्धे ज्ञेये । एवं जलशिवे पूर्वाषाढा विद्धे ज्ञेये । एवं सर्वत्र व्याख्येयम् । वैश्वसुधांशुभे= उत्तराषाढामृगशिरसी । हयभगे = अश्विनीपूर्वाफल्गुन्यौ । उपतिमभं= अंत्यस्य समीपमुपांतिमम् उत्तराभाद्रपदा । अन्य स्पष्टम् । अत्र मूलवाक्यं स्वरोदयस्थयज्ञोपवीतप्रकरणेऽभिहितम् । चक्रोद्धारो व्यवहारसमुच्चयेऽपि - 'सप्त सप्त विनिपात्य रेखिकास्तिर्यगूर्ध्वमथ कृत्तिकादिकम् । लेखयेदभिजिता समन्वितं चैकरेखखगमेन विध्यते ॥' इति । दीपिकायाम् - 'यस्याः शशी सप्तशलाकभिन्नः पापैरपापैरथवा विवाहे । उद्वाहवस्त्रेण तु संवृतांगी श्मशानभूमिं रुदती प्रयाति ॥' तथा च भोजः - 'विद्धे सप्तशलाकाख्ये विधवा लग्नवाससा । पुनर्यात्यचिरानारी मुखाम्नौ मुखचंद्रिकाम् ॥' वैधव्यं च नक्षत्रसंख्यातुल्याब्दैर्भवति । तदुक्तं वराहेण - 'नक्षत्रजमुद्वाहे फलमब्दैस्तारकामितैः सदसत्' इति । अत्रापि तुल्यन्यायत्वात्क्रूरवेधे संपूर्ण नक्षत्रं त्याज्यम् । शुभग्रहवेधे पादस्त्याज्य इति ध्येयम् । नन्वत्र प्रागुक्तहेतोरष्टावेव नक्षत्रयुग्मानि वाच्यानि, किमर्थं चतुर्दशयुग्मानामभिधानम् ? उच्यते, - 'सप्तशलाकाज इतरत्र' इति वचनात्सकलशुभकर्मसु विचार्यमाणत्वादेतावतामुक्तिः । 'भुक्तं भोग्यं तथाक्रांतं विद्धं पापग्रहेण च । शुभाशुभेषु कार्येषु वर्जनीयं प्रयत्नतः ॥ ' इति स्वरोदयेऽपि सामान्यतोऽभिधानात् ॥ ५५ ॥ १ ‘विद्धे कुभृद्रेखिके' इति पाठांतरम् । २४ मु० चि० Page #294 -------------------------------------------------------------------------- ________________ मुहूर्तचिंतामणिः । [ क्रूर ग्रहाधिष्ठितदोषः अथ क्रूराक्रांतादिनक्षत्रदोषं सापवादमनुष्टुभाहऋक्षाणि क्रूरविद्धानि क्रूरमुक्तादिकानि च । भुक्त्वा चंद्रेण मुक्तानि शुभार्हाणि प्रचक्षते ॥ ५६ ॥ ऋक्षाणीति ॥ क्रूरग्रहैर्विद्धानि ऋक्षाणि तथा क्रूरैर्मुक्तानि त्यक्तानि आादिशब्दात्रैराक्रांतानि क्रूरगंतव्यानि च चकारस्यानुक्तसमुच्चयार्थत्वात् त्रिवि धोत्पातैः दूषितानि ऋक्षाणि दूषितानि ज्ञेयानि । तानि यदि चंद्रेण भुक्त्वा मुक्तानि तथा शुभाणि प्रचक्षते वदंति । मुनय इति शेषः । यदाह वात्स्यः - 'भुक्तं भोग्यं तथाक्रांतं विद्धं पापग्रहेण भम् । मंगलेषु च कार्येषु यत्नतः परिवर्जयेत् ॥” इति । वसिष्ठोऽपि - ' उत्पातभं ग्रहणभं क्रूरविद्धस्थितं च यत् । दहत्येव शुभं कर्म येथा रामशरोंऽबुधिम् ॥' इति । शा ये — 'क्रूराश्रितं क्रूरविमुक्तविद्धं गंतव्यधिष्ण्येषु कुमारिकाणाम् । वदंति पाणिग्रहणे मुनींद्रा वैधव्यमन्दैस्त्रिभिरेवमाहुः ॥' इति । अस्यापवादमाह केशवार्क :- 'उत्पात पापग्रहदूषितं भं यदींदुराक्रम्य पुनर्भुनक्ति । तदा तदहं किल मंगलेषु त्यजेत्समाक्रांततनू रवींद्वोः ॥' इति । अयमवधिराक्रांतनक्षत्रभिन्नविषयो वेदितव्यः । तत्र हि चांडालधृतहस्तस्नानवचंद्र भोगस्यानिर्णेजकत्वात् । तदुक्तं शाङ्गये- 'यद्धिष्ण्यं दोषसंयुक्तं स्यात्तथापींदुसंयुतम् । शुभकार्येषु तत्त्याज्यमन्यकर्मसु सिद्धिदम् ॥ यथा हि चांडालष्टतैकहस्तो मज्जनगाधेऽपि सरित्प्रवाहे । भवेन्न पूतः शशिभोगतोऽपि तथा न शुध्येदुडु पापयुक्तम् ॥ स्पृष्ट्वा गते तु चांडाले शुद्धिराप्लवनाद्यथा । तथा भुक्त्वा गते क्रूरे 'चंद्रभोगाद्विशोधनम् ॥' इति । अत एवोक्तं वसिष्ठेन - ' गंतव्यधिष्ण्यं खलु भुक्तभं यत्क्रूरैर्महोत्पातविदूषितं च । चंद्रोपभोगादमलं तदानीं शुभेषु कार्येषु शुभप्रदं च ॥ इति । एतच्च समानन्यायत्वात्क्रूरविद्धे भे चंद्रभोगादपि शुद्धिर्नास्तीत्यत्रापि ध्येयम् । यत्तु नारदेनोक्तम् — ग्रहणोत्पातनं त्याज्यं मंगलेषु ऋतुत्रयम् । यावच्च रविणा भुक्त्वा न मुक्तं दग्धकाष्ठवत् ॥' इति, तत् 'यावद्वचनं वाचनिकम्' इति न्यायेन ग्रहणोत्पातभयोः षण्मासपर्यंतं निषेधस्ततोऽपि यावद्भविणा भुक्त्वा न त्यक्तं तावत्यजेत् । तत्रापि चंद्रग्रहण एव सूर्यग्रहणीयनक्षत्रस्य तु षण्मासानंतरं सूर्यभोगासंभव एव । अतो न क्रूरमुक्तादौ रविभोगापेक्षा । उत्पातभस्य तु चंद्रोपभोगोऽप्यावश्यको वसिष्ठवाक्यालोचनात् । अत्र क्रूरवेधे निखिलं भं त्याज्यं न चरण एव । तदुक्तं कश्यपेन - " क्रूरविद्धयुतं धिष्ण्यं निखिलं नैव पादतः । अन्यैरपि गुणैर्युक्तं सर्वदोषविवर्जितम् ॥ त्यजेदनर्धमाणिक्यं कलंकोपहतं यथा' इति । अयं च क्रूराधिष्टितत्वदोषः क्रूरग्रहचंद्रयोरेकराशिस्थत्वे वेदितव्यः । यदा तु चंद्रः प्रथमपादे क्रूरग्रहश्च तृतीयपादे एवं सति राशिभेदोऽप्युपजायते तदा क्रूरग्रहाधिष्ठितत्वदोषो नास्तीति ध्येयम् । यथा मृगशिरसि प्रथमे पादे चंद्रः तृतीये क्रूरग्रहः १ ‘राघवाग्निशरोंऽबुधिम्' इति क्वचिदृश्यते । २ ' सवस्त्रोऽपि' इति पाठः। २७८ Page #295 -------------------------------------------------------------------------- ________________ पातदोषः ] विवाहप्रकरणम् ६ | २७९ तत्र सत्यप्येकनक्षत्रत्वे राशिभेदो द्वयोरिति । उक्तं च ज्योतिर्निबंधे - 'एकस्मिन्नधिपे धिष्ण्ये भिन्ने राशौ खलग्रहे शशिनि । तच्चंद्रर्क्षे कुर्याद्विवाहयात्रादिकं सर्वम् ॥' इति ॥ ५६ ॥ अथ लत्तादोषमुपजातिकयाहज्ञराहुपूर्णदुसिताः स्वपृष्ठे भ्रं सप्तगोजातिशरैर्मितं हि । संलत्तयतेऽर्कशनीज्य भौमाः सूर्याष्टतर्काग्निमितं पुरस्तात् ॥ ५७ ॥ ज्ञेति ॥ सप्त प्रसिद्धाः, गावो नव, जातयो द्वाविंशतिः, शराः पंच; एतैर्मितं भं स्वाक्रांतनक्षत्राज्ज्ञराहुपूर्णेन्दुसिताः स्वपृष्ठे संलत्तयंते । यथा - बुधः सप्तमं, राहुर्नवमं, पूर्णेन्दुः पूर्णिमांत चंद्रो द्वाविंशम् ; तच्च गतकृष्णपक्षे पंचमीषष्ठीसप्तमीनामन्यतमस्यां संभवति । शुक्रः पंचमं स्वपृष्ठे लत्तयतीत्यर्थः । अर्कशनीज्यभौमाः क्रमेण पुरस्तादग्रे सूर्याष्टतर्काग्निमितं संलत्तयन्ते । यथा - सूर्यः स्वाक्रांतनक्षत्राद्वादशं, शनिरष्टमं, गुरुः षष्ठं, भौमस्तृतीयभं, अग्रतो लत्तयतीत्यर्थः । यदाह नारदः - ' पुरतः पृष्ठतोऽर्काद्या दिनक्षं लत्तितं च यत् । अर्काकृतिगुणांगर्तुबाणाष्टनवसंख्यभम् ॥' इति । सूर्यः पुरतः, चंद्रः पृष्ठतः; एवं क्रमेण भौमादयोऽपि पुरतः पृष्ठतश्च लत्तयंतीत्यर्थः । वराहोऽपि - 'सूर्यो द्वादशमृक्षं षष्ठं गुरुरवनिजस्तृतीयं तु । संलत्तयति दिवाकरपुत्रोऽष्टममग्रतः पादैः ॥ पश्चाद्वाविंशतिभं पौर्णिमचंद्रस्तु पंचमं शुक्रः । स्वर्भानुरपि नवमं सप्तममृक्षं शशांकसुतः ॥' इति । प्रत्येकं वेधफलमाह स एव - 'रविलत्ता वित्तहरी नित्यं कौजी विनिर्दिशेन्मरणम् । चांद्री नाशं कुर्याद्वौधी नाशं वदत्येव ॥ सौरी मरणं कथयति बंधुविनाशं बृहस्पतेर्लत्ता । मरणं लत्ता राहोः कार्यविनाशं भृगोर्वदती 'ति ॥ नन्वग्रलत्ता वा पृष्ठत्ता वा वक्तव्या किमिति द्वैरूप्यकथनम् ? अत्र समाधत्ते केशवार्कः - ' इति सति सदामभिलत्तने यदनुत्तनमुक्तमृषिव्रजैः । तदुडुपश्चिमपूर्वविभागयोरनधिकाधिकदोषविवक्षया ॥' इति । अनधिकः = स्वल्पः । अत्र राहोः सदा वक्रित्वान्नवमं गणनाक्रमेणैव ग्राह्यम् । यथाश्विन्यां राहुराश्लेषां लत्तयति । संमुखलत्तावादिमतेऽपि वक्रगामिना राहुणा संमुखमश्विनी रेवतीत्यादिगणनया विंशतितमं मं आश्लेषैव नः त्वन्यथा भ्रमितव्यमिति सांप्रदायिकाः ॥ ५७ ॥ अथ पातदोषं सुबोधं पथ्यार्ययाह हर्षणवैधृतिसाध्यव्यतिपातकगंडशूलयोगानाम् । अंते यन्नक्षत्रं पातेन निपातितं तत्स्यात् ॥ ५८ ॥ हर्षणवैधृतीति ॥ व्यतिपातकः इति स्वार्थे कः । हर्षणेत्यादिषट् योगानां अंते यच्चंद्रनक्षत्रं भवेत्तत्पातेन चंडीशचंडायुधाख्येन निपातितं स्यात् । यदाह १ संमुखलत्तावादिमते राहुर्विंशतितमं नक्षत्रं लत्तयति । तदुक्तं विवाहवृंदावने केशवार्केण - 'रविनखैर्मितमर्कविधुंतुदौ' इति । Page #296 -------------------------------------------------------------------------- ________________ २८० मुहूर्तचिंतामणिः । [महापातदोषः त्रिविक्रमः-'साध्यहर्षणशूलानि वैश्तिव्यतिपातयोः । यद् गंडस्य चांते स्यात्तत्पातेन निपातितम् ॥' इति । नारदेन प्रकारांतरेणैतत्प्रकारसंवादकः पातोऽभिहित:-'सूर्यभात्सापित्र्यांत्यत्वाष्ट्रमित्रोडुविष्णुभे । संख्यया दिनभे तावदाश्विभात्पातदुष्टभम् ॥' वसिष्ठेनापि–'रविभादहिपितृमित्रत्वाष्ट्रभहरिपौष्णभेषु गणितेषु । आश्विनमादिंदुयुतौ तावति वै पतति गणनया पातः॥ अयमपि पातो दोषश्चंडीशचंडायुधायो ज्ञेयः । अखिलेषु मंगलेष्वपि वो यस्माद्विनाशदः कर्तुः॥' इति पद्ये यद्यपि हर्षणादीनामुपादानं नास्ति तथाप्यभिहिताश्लेषादिनक्षत्रसाहित्येन पाताभिधानात्तत्तुल्यसंख्याकेष्वेव योगेषु पातसंभवो जायते इति मत्वा हर्षणादीनामुक्तिः । यद्येवं व्यतीपातवैधतिभ्यां स्वीयभोगघटिकात्मकाभ्यां तिथिनक्षत्रादिकं सर्वमेव सामान्यतो निंद्यमुक्तं तत्किमत्रानयोर्योगयोः पुनर्ग्रहणेन ? उच्यते-यदा नक्षत्रयोगयोस्तुल्यकाले एव प्रवृत्तिनिवृत्ती तदाऽनयोर्योगयोरुपादानवैयर्थ्यमेव । यदा तु सूर्योदयादारभ्य कियद्धटिकत्वं दुष्टयोगयोर्नक्षत्रभोगस्तु सूर्योदयादेव बहुकालव्यापी तदा पातासंभवे तावत्कालस्यैव निषेधः सामान्यवाक्यात् । पातसंभवे हि संपूर्णस्य नक्षत्रस्य निषेधो यथा स्यादिति तयोर्दुष्टयोगयोः पुनरुपादानं कृतम् । एवमन्येध्वपि योगेषु पातसंभवे संपूर्णनक्षत्रस्य, निषेधो यथा स्यादित्यनयोर्दष्टयोगयोः पुनरुपादानं त्यागे इत्यर्थः । अयं च सर्वोऽपि विचार एकार्गलदोषेऽपि द्रष्टव्यः । यदातु पातैकार्गलौ न स्तस्तदा दुष्टयोगानामुक्तादिमघटीत्यागः कर्तव्य इति॥५०॥ ___ अथ सूर्यचंद्रक्रांतिसाम्यापरपर्यायं महापातदोषं शालिन्याहपंचास्याजौ गोमृगौ तौलिकुंभौ कन्यामीनौ कर्त्यली चापयुग्मे । तत्रान्योन्यं चंद्रभान्वोर्निरुक्तं क्रांतेःसाम्यं नो शुभं मंगलेषु ५९ पंचेति ॥ पंचास्याजौ=सिंहमेषौ, अन्ये प्रसिद्धाः; एषु राशियुग्मेषु चंद्रभान्वोः पाठक्रमेण व्युत्क्रमेण वा स्थितयोः क्रांतिसाम्यं निरुक्तं, तन्मंगलेषु नो शुभं स्यात् । अत्र पंचास्याजावित्येवमादीनां ग्रहणमुदाहरणदिक्प्रदर्शनार्थत्वात् । सर्वथा सूर्याचंद्रमसोः सायनयोर्योगः षड्राशिमितो द्वादशराशिमितो वा विवक्षितस्तदैव क्रांतिसाम्यस्य संभवात् । अतः संमतिवाक्यस्यानवसरः । नन्वेतावंत एव षडाशियोगा द्वादशराशियोगा वा संभवंतीति चेन्न । राश्यतावच्छेदस्थित्याऽधिका अपि योगा जायंते । तथा हि-2|3|81221.३४ 12/29/2018/ प्रत्यंशकलाविकलांतस्थितत्वेनानंतभेदसंभवाच । अतः प्रागुक्तं व्याख्यानं ज्यायः। क्रांतिसाम्यस्य च महापात इति नाम । एतस्य निंद्यतामाह वसिष्ठः-'दोषो महापात इति प्रसिद्धः स वैश्तो हंति वधू वरं च । तं रक्षितुं लग्नगुणास्त्वशक्ताः स्वबांधवास्तेऽशनितोपघातम् ॥' अशनिर्वब्रम् । नारदोऽपि-'यस्मिन्दिने महापातस्तद्दिनं वर्जयेच्छुभे ॥' इति । अत एव पतनात्पातः सकलशुभकर्मणामित्यन्वर्थतापि । सा च स्पष्टा सोमसिद्धांते'यच्छुभानां विनाशाय नदन्निव पतत्ययम् । व्यतीपातः प्रसिद्धोऽत्र संज्ञाभेदेन वैधतिः ॥' इति । महापातशब्दस्य रूढिस्तु रवींदुक्रांतिसाम्य एव, नत्वन्येषां Page #297 -------------------------------------------------------------------------- ________________ महापातदोषफलम् ] विवाहप्रकरणम् ६ । २८१ ग्रहाणां क्रांतिसाम्ये । यथा 'जलज ' शब्दस्य रूढिः कमले, नतु भेकादौ । क्रांतिम ग्रहाणां दक्षिणोत्तरवृत्ते गमनम् । या च सूर्यस्य क्रांतिः सा यदा चंद्रक्रांत्या तुल्या स्यात्स पातमध्यकालः । तत्रोत्सर्गतो रवींदुकांत्योः समानत्वं भुसाम्ये सति भवति । भुजो नाम - - 'ज्यूनं भुजः स्याध्यधिकेन हीनं भा च भार्धादधिकं विभार्धम् । नवाधिकेनोनितमर्कभं च' इति लक्षणलक्षितः । तत्साम्यं तु सूर्याचंद्रमसोर्योगे षड्राशितुल्ये द्वादशराशितुल्ये वा सति भवति । अत एव ग्रंथकृता तादृशा योगा एव पठिताः । यदा तु भुजस्य न्यूनाधिकत्वं तदा 'दिवौकसोरंतरलिनिकोवाद्वत्योर्वियोगेन हृतात्' इत्यादिना प्रकारेण ग्रहयुतिवत् भुजसाम्यमानेयम् । ननु भुजसाम्यमेव क्रांतिसाम्यसाधकं चेत्किं गणितग्रंथोक्तेन बह्वायासनाध्येन पाताध्यायेन ? उच्यते— 'विक्षेपाय क्रमैकत्वे क्रांतिविक्षेपसंयुता । दिग्भेदे वियुता स्पष्टा भास्करस्य यथागता ॥' इति सूर्यसिद्धांतवाक्या सूर्यव्यतिरिक्तानां ग्रहाणां शरसंस्कृता क्रांतिः स्पष्टेत्युच्यते तादृशी चंद्रक्रांतिश्चेत्सूर्यकांत्या समा यस्मिन्काले स्यात्स स्पष्टः पातमध्यकालः,तत्र तादृशक्रांतिसाम्यानयनस्याति कष्टसाध्यत्वात्तदध्यायोक्तिः सार्थिकैव । एवं ग्रंथकर्त्रा सूर्याचंद्रमसो: क्रांतिसाम्यमेव दोषोऽभिहितः – 'पंचास्याजौ' इत्यादिकथनं किमर्थमिति चेदुच्यते- 'विना सपातेंदु मिहायनांशकैर्युतो रविः शीतकरश्च गृह्यते । समापमत्वे व्यतिपातवैष्टताह्वयास्तदैक्ये रसभेऽर्क क्रमात् ॥' इति भास्कराचार्योक्तिमंगीकृत्य सामान्यतः क्रांतिसाम्यदिवसस्य शीघ्रोपस्थित्यर्थं भुजसाम्यप्रतिपादकत्वात् । नन्वेवं भुजसाम्यमेव चेत् क्रांतिसाम्योत्पादकं भवेत्तर्हि यत्र सूर्यचंद्रयोः षड्रराशिमितमंतरं द्वादशराशिमितमंतरं वा यथा मेषतुलयोर्मेषयोर्वा तत्रापि भुजसाम्यस्य तादवस्थ्यात् क्रांतिसाम्यं भवत्येवेति मासमध्ये महापातचतुष्टयं वक्तव्यं स्यात्तत्कुतो हेतोनक्तं ग्रंथकृता ? इति चेत्, अत्रोच्यते - योगोत्पन्ने हि पाते मुनिभिः स्नानदानादिकं फलमुक्तमतः स एव महापातो गृह्यते नतु वियोगोत्पन्ने उक्तमतः स न गृह्यते । तदुक्तं बसिष्ठेन स्वसिद्धांते – 'चक्रे चक्रार्धबुल्ये वा कियद्भागाधिकोनके । सायनार्केदुयोगे चेत्तदा पातस्य संभवः ॥ शुभमंगलकर्माणि लोकानां च विनाशयेत् । स्नानदानादिकास्तत्र जपश्राद्धादिकाः क्रियाः ॥ कदापि कुरुते मर्त्यः सुमहत्फलमश्रुते । सूर्यग्रहे गुरुक्षेत्रे कोटिस्वर्णार्पणे फलम् ॥ तत्फलं लभते पाते स्नानश्राद्धजपादिना । उत्पत्तौ लक्षगुणितं भ्रमणे कोटिसंगुणम् । पातेऽथार्बुदसंगुण्यं पतिते कृतमक्षयम् ॥' इति । तथा सूर्यसिद्धांतेऽपि - 'एकायनगतौ स्यातां सूर्याचंद्रमसौ यदा । तद्युत मंडले क्रांत्योस्तुल्यत्वे वैधृताभिधः ॥ विपरीतायनगतौ चंद्राक क्रांतिलिप्तिकाः । समास्तदा व्यतीपातो भगणार्धं तयोर्युतौ ॥ तुल्यांशजालसंपर्कान्तयोस्तु प्रवहाहतः । तादृक्क्रोधोद्भवो वह्निर्लोकाभावाय जायते ॥' इति । अत एवांतरोत्पन्नक्रांतिसाम्ये महापातदोषो नास्त्येव । तदुक्तं गणेशदैवज्ञैः'पूर्वं तत्स्यात्पातमध्यं द्वितीयं पूर्वैनक्तं तद्यतो नातिदुष्टम्' इति । अनेनैवाश Page #298 -------------------------------------------------------------------------- ________________ २८२ मुहूर्तचिंतामणिः। [एकार्गलो दोषः येन वसिष्ठेन स्वसंहितायामुक्तम्-'शास्त्रात्समानीतमहातिपातः सवैश्तो हति वधूं वरं च। त्रिःसप्तवारानिव जामदम्यक्रोधोऽचिरात्क्षात्रकुलं समस्तम् ॥' इति । शास्त्रागणितशास्त्रोक्तान्महापाताधिकारादित्यर्थः । तत्र हि योगादेव महापातस्याऽऽनीतत्वात्तस्यैव दोषत्वं नान्यस्येत्यर्थादुक्तं भवति । किंच पंचांगीयोऽपि योगः सूर्याचंद्रमसोर्योगादेव साधितः स्पष्टाधिकारे। अतस्तस्मादेव महापातोऽपि साधयितुमुचित एव । अथात्र ज्ञाते क्रांतिसाम्ये कस्मिन्काले मंगलकृत्यं निषिद्धमित्येष विशेषविचारो 'न्यूनाधिमासकुलिकप्रहरार्धपात' (१।३४) इत्यत्रास्माभिरभिहितोऽस्ति स तत एवावगंतव्य इत्यलमतिप्रसंगेन ॥ ५९ ॥ अथ खाजूंरदोषं सुबोधमिंद्रवज्रयाहव्याघातगंडव्यतिपातपूर्वशूलांत्यवत्रे परिघातिगंडे । एकार्गलाख्यो ह्यभिजित्समेतो दोषः शशी चेद्विषमर्थगोऽर्कात्६० व्याघातेति ॥ अंत्यो वैतिः, अन्ये प्रसिद्धाः। यस्मिन्दिने व्याघातादिके विरुद्ध दुष्टयोगे सति अर्कादर्कनक्षत्राच्छशी चंद्रोऽभिजित्समेतो विषमे विषमसंख्याके ऋक्षे नक्षत्रे गतश्चेत् स्यात्तदा खाजूंरचक्रोत्पन्न एकार्गलाख्यो दोषः स्यात् । यदा समे स्यात्तदा न दोष इत्यर्थः । यदाह त्रिविक्रमः-'विरुद्धनामयोगेषु साभिजिद्विषमसंगः । अर्कादिंदुस्तदा योगो निंद्य एकार्गलाभिधः ॥' इति । केशवार्केणापि-'न्यस्ते सहाभिजिति' इत्यादिनाऽभिजिद्गुणनोक्ता । वसिष्ठेन त्वत्र चक्रमभिहितम्-'अंत्यातिगंडपरिघव्यतिपातपूर्वव्याघातगंड: वरशूलमहाशनीषु । चित्रानुराधपितृपन्नगदसभेषु सादित्यमूलशशिसूरिषु मूर्धभेषु ॥ रेखामेकामूर्ध्वगां षद च सप्त तिर्यक् कृत्वाप्यत्र खार्जूरचक्रे । तिर्यग्रेखासंस्थयोश्चंद्रभान्वोर्डक्संपातो दोष एकार्गलाख्यः ॥' चक्रोद्धारो यथा-'खरकरतुहिनांश्वोदृष्टिसंपातजन्मा अनलमयशरीरस्तूद्गिरत्नग्निसंघान् । भुवि पतति जनानां मंगलध्वंसनाय गुणगणशतसंधैरप्यवार्योऽग्निकोपः ॥' इति । अत्र वसिष्ठवाक्येऽभिजित्साहित्यमस्ति न वेति संदेहः। नारदस्त्वभिजिद्वर्जितं वक्रमाह-'व्याघातशूलपरिघपातपूर्वेषु सत्स्वपि। गंडातिगंडकुलिकवैश्त्या सहितेषु च ॥ अदितीन्दुमघाह्याद्यमूलमैत्रेज्यभानि च । ज्ञेयानि सह चित्राभिमूर्ध्नि भानि यथाक्रमम् ॥ लिखेदूर्ध्वगतामेकां तिर्यग्रेखास्त्रयोदश । तत्र खाजूंरिके चक्रे कथितं मूर्ध्नि भं न्यसेत् ॥ भान्येकरेखागतयोः सूर्याचंद्रमसोर्मिथः । एकार्गलो दृष्टिपाताच्चाभिजिद्वर्जितानि वै ॥ लांगले कमठे चक्रे फणिचक्रे त्रिनाडिके । अभिजिद्गणना नास्ति चक्रे खाजूंरिके तथा ॥' इति । कश्यपेनापि—'एकार्गलो दृष्टिपातश्चाभिजिदहितानि वै' इति । तत्र त्रिविक्रमकेशवार्कवाक्ययोः समूलत्वस्य शिष्टसंमतत्वान्नारदादिवाक्यैः सह विकल्पः। ततोऽनयोः पक्षयोर्यथादेशाचारं व्यवस्थेति युक्तं प्रतीमः ॥ ६॥ १ पूर्वः आयो योगः विष्कंभाख्यः । Page #299 -------------------------------------------------------------------------- ________________ अर्धयामदोषः] विवाहप्रकरणम् । २०३ अथोपग्रहदोषमुपेंद्रवज्रयाहशराष्टदिक्शक्रनगातिकृत्यस्तिथिईतिश्च प्रकृतेश्च पंच । उपग्रहाः सूर्यभतोऽब्जताराः शुभा न देशे कुरुबालिकानाम् ६१ शरेति ॥ सूर्यभतः सूर्याक्रांतनक्षत्रादलताराः चंद्रनक्षत्राणि पंचाष्टदशचतुर्दशसप्तैकोनविंशतिपंचदशाष्टादशैकविंशतिद्वाविंशतित्रयोविंशतिचतुर्विशतिपंचविंशतिसंख्याकाश्चेत्स्युस्तदोपग्रहनामका दोषाः स्युः । प्रकृतिः एकविंशतिः । यदाह नारदः-'भूकंपः सूर्यभात्सप्तमः विद्युच्च पंचमे । शूलोऽष्टमे च दशमेऽशनिरष्टादशे ततः॥केतुः पंचदशे दंडश्चोल्का एकोनविंशतिः। निर्धातपातसंज्ञश्च ज्ञेयः स नवपंचमे ॥ मोघनिर्धातकंपाश्च कुलिशं परिवेषकम् । विज्ञेयाश्चैकविंशाख्यादारभ्य च यथाक्रमम् ॥ चंद्रयुक्तेषु भेष्वेषु शुभकर्म न कारयेत् ॥' इति । वराहः–'उपग्रहःषु विवाहिता स्त्री सूर्यक्षतो दुर्भगतामुपैति ।' अन्यत्रापि-'गृहप्रवेशे दारिद्र्यं विवाहे मरणं भवेत् । प्रस्थाने विपदः प्रोक्ता उपग्रहदिने यदि ॥' इति । एवं सामान्यतो निषेधमभिधाय देशभेदेन परिहारमाह-शुभा इति । स्पष्टार्थम् । 'बाहीके गुरुदेशे च वर्जयेदमुपग्रहम्' इति कश्यपोक्तेः ॥ ६१ ॥ अथोपग्रहापवादप्रसंगात्पातोपग्रहलत्तास्वपवादं वारदोषभेदमर्धयाम चानुष्टुप्छंदसाह पातोपग्रहलत्तासु नेष्टोऽघ्रिः खेटपत्समः । वारस्त्रिनोऽष्टभिस्तष्टः सैकः स्यादर्धयामकः ॥ ६२॥ पात इति ॥ पातश्चंडीशचंडायुधाख्यो दोषः। उपग्रहःप्रागुक्त एव । लत्ता 'ज्ञराहुपूर्णेन्दु' (६।५७) इत्यादिनोक्ता । तत्र खेटपत्समः ग्रहचरणतुल्यो नक्षत्रचरणोऽनिष्टः। अस्यार्थः-पाते उपग्रहे च रविर्यस्मिन्नंघ्रौ स्यात्तत्संख्यचरणस्तस्य नक्षत्रस्य वयो नान्यः । लत्तायां तु ये लत्ताकारिणो ग्रहा यच्चरणे स्युस्तत्संख्य एव चरणो वज्यों नान्यः । उक्तं च मुहूर्तदीपिकायाम्-'उपग्रहेषु लत्तायां तथा चंडायुधाह्वये ॥ ग्रहोऽस्ति यत्प्रमाणांशे विद्धांशस्तत्प्रमाणतः ॥' इति उपग्रहचंडायुधयोः सूर्यकृतोऽघ्रिाह्यस्तस्यैव संभवात् । अयं च परिहारस्तुल्यन्यायत्वात् खाजूंरकेऽपि द्रष्टव्यः। सूर्यो यस्मिन् पादे भवेत्तत्समसंख्यश्वरण एकरेखावस्थितचंदनक्षत्रस्य वर्ण्य इत्यर्थः । 'खाजूंरिकसमांघ्रिभम्' इति नारदोक्तेः । ज्योतिर्निबंधे गर्गः–'पूर्वाह्ने दंडदोषः स्यादपराह्ने तु मोधकः । उल्का स्यादर्धरात्रे तु कंपोऽहोरात्रदूषकः ॥ कंपोल्कादंडमोघानां स्वरमासदशर्तवः ७।१२।१०।६। आदितो घटिकास्तेषु वर्जनीयाः पराः शुभाः' इति । वार इति । इष्टो वारस्त्रिघ्नः सैकोऽष्टभिस्तष्टः शेषितो योऽकः सोऽर्ध १ व्यपनेयाः इति पाठः। Page #300 -------------------------------------------------------------------------- ________________ ૨૮૨ मुहूर्तचिंतामणिः । [ कुलिकदोषः यामाख्यो दोषः स्यात् । स्वार्थे कः । यदाह श्रीपतिः - 'मनीषिणो ऽर्धप्रहराद्वितीयादारभ्य सर्वेष्वपि मंगलेषु । भौमोशनः सूर्यबुधार्किचंद्र सुरेज्यवारेषु विवर्जयंति ॥' इति । अत्र कथं समानार्थतेति चेत् प्रथमार्धप्रहरः कस्यापि वज्र्यो नास्ति । तत्र सूर्यस्य वारे तावद्वितीयादर्धप्रहरादारभ्य तृतीयोऽर्धप्रहर ( अर्थाच्चतुर्थः) उक्तोऽतः त्रिगुणसैक इत्युपपन्नस्ततस्तृतीयश्चंद्रस्य वारे सूर्योदयात्सप्तम इति वारखिघ्नः सैक इत्यत्रापि सिद्धम् । ततस्तृतीयो भौमस्य वारे सूर्योदयाद्दशमः । रात्रौ चार्धयामानुक्तेरिति दिवसस्याष्टावर्धयामा इत्यष्टाभिः शेषित इत्युपपन्नम् । एवं बुधवारादिष्वपि द्रष्टव्यम् । अत्र पुनरुक्तिपरिहारमधुनैव वक्ष्यामः । कश्यपः - ' शैलाक्षश्रुतयः सूर्ये चंद्रे षदपर्वताः । भौमे बाणाग्निनेत्राणि सौम्ये वेदाक्षिवायवः ॥ गुरुवारेऽग्निचंद्रेभाः शुक्रे नेत्रादिवह्नयः । शनौ चंद्रेभतर्काः स्युः कुलिको यमघंटकः ॥ अर्धप्रहरसंज्ञास्तान् मंगलेषु विवर्जयेत् । वारदोषेण दुष्टं तल्लग्नं सर्वगुणान्वितम् । त्यजेद्यथा पुरोडाशं वायसोपहतं तथा ॥' इति । फलमाह वसिष्ठः - 'निधनं प्रहराधे तु निःस्वत्वं यमघंटके । कुलिके सर्वनाशः स्याद्रात्रावेते न दोषदाः ॥' इति ॥ ६२ ॥ अथ वारदोषभेदं कुलिकमनुष्टुभाह शक्रार्कदिग्वसुरसाब्ध्यश्विनः कुलिका रवेः रात्रौ निरेकास्तिथ्यंशाः शनौ चांत्योऽपि निंदिताः ॥ ६३ ॥ शक्रेति ॥ वेरिति ल्यब्लोपे पंचमी । रविमारभ्य सर्ववारेषु क्रमादुक्तसंख्यास्तिथयंशा मुहूर्ताः कुलिकाः स्युः । यथा-दिवसे रवौ १४ सोमे १२ भौमे १० बुधे ८ गुरौ ६ शुक्रे ४ शनौ २ । रात्रावेते निरेकाः कार्याः । यथा-ख़ौ १३ सोमे ११ भौमे ९ बुधे ७ गुरौ ५ शुक्रे ३ रानौ १ शनौ स्वंत्योऽपि रात्रेः पंचदशोऽपि मुहूर्तः कुलिकः । एते कुलिका निंदिताः । यदाह श्रीपतिः'मन्वर्कदिग्वस्वृतुवेदपक्षैरर्कान्मुहूर्तैः कुलिका भवंति । दिवा निरेकैरथ यामिनीषु ते गर्हिताः कर्मसु शोभनेषु ॥' रत्नकोशे - 'दिवा द्वितीयः कुलिकोsर्कजाते रात्रौ प्रदिष्टः प्रथमः स एव । रात्रेस्ततः पंचदशे विभागे एवं विवर्ज्यं कुलिकत्रयं च ॥' इति । ननु सामान्यतः 'सूर्ये षट्स्वरनाग' इत्यादिना दुर्मुहूर्तार्धयामकुलिका उक्ता इदानीं किं पुनरुच्यते इति । सत्यम् । आवश्यकत्वद्योतनार्थम् । तथा हि-विवाहे एषां दोषाणां सर्वथैव त्यागः 'विवाहे विधवा नारी' इत्यभिहितफलस्य दुःसहत्वात् । भर्तृमरणे हि यावज्जीवं पढ्याः सर्वप्रकारकदुःखानुभवत्वात् । यज्ञोपवीतादिशुभकर्मणि तु संस्कार्यमरणे संबंधिनां तात्कालिकं दुःखम् । पित्रोस्तु पुत्रांतराभावे कियत्कालमेव, तत्सत्त्वे पुनः कियद्दिनमात्रम् । सर्वथा विधवासदृशं दुःखं कस्यापि नास्ति । किंच वारप्रकरणे सामान्यतो मुनिभिर्दिनरात्रिसाधारण्येन कुलिकाद्युक्त्वा 'रात्रावेते न दोषदा' इत्युक्तम् । तस्यापि बाधो यथा स्यात् । अत एव कश्यपो Page #301 -------------------------------------------------------------------------- ________________ जामित्रदोषः] विवाहप्रकरणम् ६ । वारप्रकरणे कुलिककंटकार्धयामानभिधाय विवाहप्रकरणे पुनरप्यभिदधाति स्म । ग्रंथका मुहूर्तत्वं कुलिकादीनामभिसंधाय दुर्मुहूर्तानामप्यभिधानं कृतम् । किंच कुलिका अनावश्यं वक्तव्याः, रात्रौ कुलिकज्ञानं यथा स्यात्तत्र साधारण्येन दिनरात्रिविभागेन शीघ्रोपस्थित्यर्थं पद्येनाभिधानम्-'सूर्ये षद स्वरनाग' इत्यादिना मुहूर्तत्यागे के कुलिककंटकार्धप्रहराः इति पुनः संदेहे 'कुलिकः कालवेला च' इति पद्यस्मरणमपेक्षितमिति गौरवापत्तेश्च । अत एव शिष्टा अप्यन्येषां दोषाणां यथासंभवत्यागपूर्वकं कुलिकार्धयामदुर्मुहर्तानामवश्यं त्यागं विदधते, अतो ग्रंथकापि पुनरुक्ता इति युक्तं प्रतीम इत्यलमतिप्रसंगेन ॥ ६३॥ अथ पंचांगदोषविशेषं दग्धतिथ्याख्यमिंद्रवज्रयाहचापांत्यगे गोघटगे पतंगे कर्काजगे स्वीमिथुनस्थिते च। सिंहालिगे नक्रधटे समाः स्युस्तिथ्यो द्वितीयाप्रमुखाश्च दग्धाः ६४ चापेति ॥ तत्तद्राशियुग्मस्थिते पतंगे सूर्ये द्वितीयाप्रमुखाः शुक्लकृष्णपक्षसाधारणाः समास्तिथ्यो दग्धाः स्युरिति वाक्यार्थः । यथा-चापांत्यगे धनुर्मीनगते सूर्य द्वितीया दग्धा, गोघटगे सूर्ये चतुर्थी, कर्काजगे कर्कमेषगे सूर्य षष्ठी, स्त्रीमिथुनस्थिते कन्यामिथुनस्थिते सूर्येऽष्टमी, सिंहालिगे सूर्ये दशमी, नकधटे मकरतुलागते सूर्य द्वादशी दग्धेत्यर्थः । यदाह वसिष्ठः-'एकांतरा दिनपतौ दिवसा द्वितीयापूर्वोत्यचापधरयोर्घटभौक्षयोश्च । कर्काजयोर्मिथुनकन्यकयोश्च कीटहर्योस्तुलामकरयोः खलु मासदग्धाः ॥ मासदग्धासु तिथिषु कृतं यन्मंगलादिकम् । तत्सर्व नाशमायाति ग्रीष्मे कुसरितो यथा ॥' इति । पूर्वांत्येत्यत्र पूर्वा अंत्येत्याद्यपेक्षितं तत्र 'नमुने' इत्यत्र नेति योगविभागादसिद्धत्वाभावे संधिः । औक्षयोरिति । उक्षा वृषस्तस्यायं राशिरोक्षः 'औक्षमनपत्ये' इत्यकारांतो निपातितः । अस्यापवादमाह कश्यपः-'मासदग्धाश्च तिथयो मध्यदेशे विवर्जिताः' इति ॥ ६४ ॥ अथ जामित्रदोषं भ्रमरविलसितेनाहलग्नाचंद्रान्मदनभवनगे खेटे न स्यादिह परिणयनम् । किंवा बाणाशुगमितलवगे जामित्रं स्वादशुभकरमिदम् ॥ ६५ ॥ लग्नादिति ॥ विवाहलग्नाचंद्राद्वा सप्तमं भवनं गृहं तत्र गते खेटे परिणयनं न स्यात् । उक्तं च-'जामित्रं द्विविधं प्रोक्तं गर्गगालवगौतमैः । तस्माल्लग्नाच्च चंद्राच्च जामित्रं परिवर्जयेत् ॥' इति । तत्स्वरूपमाह महेश्वरः'लग्नाच्छीतकरानहा धुगनता नेष्टा विवाहे स्मृताः' इति । वसिष्ठो लग्नप्रकरणे-'सर्वे जामित्रसंस्था विदधति मरणम्' इत्याह स्मोलल्ल:-'पापात्सप्तमगः शशी यदि भवेत्पापेन युक्तोऽथवा यत्नेनापि विवर्जयेन्मुनिमते दोषोऽपि संकथ्यते । उद्वाहे विधवा व्रते तु मरणं शूलं च पुंस्कर्मणा यात्रायां Page #302 -------------------------------------------------------------------------- ________________ २८६ मुहूर्तचिंतामणिः। [महादोषाणामपवादाः विपदो गृहेषु दहनः क्षौरेऽपि रोगो महान् ॥' भुजबल:-'चंद्रात्सप्तमराशिगे दिनकरे त्यक्ता धनैः कन्यका भौमे च प्रमदा प्रयाति विलयं सौरेण वंध्या सरुक् । जीवः शुक्रशशांकजौ शुभकराः केचिद्वदंति क्रमागर्तृप्रेप्सितदीक्षिताऽस्तभवने नित्यं प्रवासान्विता ॥' इति । अस्यापवादमाह-किंवेति । किंवाशब्दो विकल्पे । पूर्व ग्रहाधिष्ठितराशेः सप्तमराशिस्थितः त्रिंशद्भागात्मकं लग्नं चंद्रश्च निषिद्ध इत्युक्तम् , इदानीं तदधिष्ठितराशिनवांशमारभ्य बाणाशुगाःपंचपंचाशत् तन्मितनवांशगे लग्ने चंद्रे च सति जामित्रं सूक्ष्मं स्यात् । यथा मेषराशौ पंचमनवांशे भौमोऽस्ति तस्मात्तुलायां पंचमनवांशस्थं लग्नं चंद्रोऽपि निषिद्धोऽन्येष्टौ नवांशाः शुभाः । एवंविधं सूक्ष्मं जामित्रमिदमशुभकरं स्यात् । यदाह महेश्वरः-'कैश्चित्त्वाद्यनवांशकादिषु ५५ शरैस्तुल्ये नवांशे स्थिता ॥' इति । केशवार्कस्तु चंद्रनवांशादेवाह-हिमरश्मिनवांशकात्खलो यदि खेटः शरसायकांशके । अयमन्यगुणैर्न हन्यते निबिडैरप्युपसर्गडंबरः ॥' इति । अपवादातरमाह राजमार्तड:-'तुंगत्रिकोणभवने भवने निजे वा सौम्याधिमित्रगृहगोऽपि तदीक्षितो वा । जामित्रवेधजनितानपहृत्य दोषान्दोषाकरः सुखमनेकविधं विधत्ते ॥' इति । व्यवहारसमुच्चयेऽपि—'स्वोच्चोऽथवा स्वभवने स्फुरदंशुजालः सौम्यालये हितगृहे शुभवर्गगो वा । जामित्रकादिपरिसंधितदोषराशि हृत्वा ददाति बहुशःसुखमेव चंद्रः॥' इति । कालखंडे वात्स्यायन:-'गुरुश्चंद्रश्च जामित्रे तिष्ठेद्यदि बलान्वितः । धनसौभाग्यपुत्रांश्च लभते नात्र संशयः। मणिमुक्ताप्रवालैश्च सुवर्णाभरणैः शुभैः । शोभिता तु सदा तिष्ठेद्गुरुणापि निरीक्षिते ॥ सा तु भर्तुः प्रिया नित्यं बुधे चंद्रस्य सप्तमे ॥' इति ॥ ६५॥ ___ अथैकार्गलादिमहादोषाणामुक्तानां लग्नांतराभावे सत्यपवादभूतमिंद्रवज्रा. लक्षणाक्रांतं साक्षाद्वसिष्ठवचनमेवाह एकागलोपग्रहपातलत्ताजामित्रकर्तर्युदयास्तदोषाः । नश्यंति चंद्रार्कबलोपपने लग्ने यथार्काभ्युदये तु दोषा॥६६॥ एकार्गलेति ॥ एकार्गलः खाजूरचक्रे । उपग्रहः 'शराष्ट' (६।६१) इत्यादिनोक्तः । पातश्चंडीशचंडायुधं, लत्ता 'ज्ञराहु' (६।५७) इत्यादिनोक्ता । जामित्रमधुनोक्तं । कर्तरी 'लग्नात्यापात्' (६।४२) इत्याद्युक्ता, उदयास्तदोषा वक्ष्यते। एवंविधा दोषा नश्यति। कदा ? विवाहलग्ने चंद्रार्कयोर्बलं स्वोच्चमित्रादिराशिस्थितत्वरूपं विहितस्थानस्थितत्वं च तेनोपपन्ने सहिते सति । अत्र दृष्टांतमाहयथेति । अर्कस्य सूर्यस्याभ्युदये दोषा रात्रिर्यथा नश्यतीत्यर्थः । गाढांधकारयुक्तापि रात्रिरेकाकिना सूर्यस्योदयेन स्वयमेव नश्यति । अत एव दोषापदं प्रयुक्तम् । निशादिप्रयोगे तु साधारण्येन शुक्लपक्षीयाया अपि रात्रेः संभवाचंद्रेणैव कियत्तमसोनिरस्तत्वादवशिष्टांधकारनाशे सूर्यस्यापुरुषार्थत्वापत्तेरिति Page #303 -------------------------------------------------------------------------- ________________ दशयोगदोषस्तत्फलं च] विवाहप्रकरणम् ६ । २८७ कैमुतिकन्यायमपि सूचयति दोषापदम् । वसिष्ठवाक्यस्य मन्वादिवाक्यवत्प्रामाण्यान संमत्यंतरापेक्षा ॥ ६६ ॥ अथ केषांचिद्दोषाणां देशभेदेन परिहारभूतमुपजातिलक्षणाक्रांतं वसिष्ठपद्यमेवाहउपग्रहक्षं कुरुबाह्रिकेषु कलिंगवंगेषु च पातितं भम् ।। सौराष्ट्रशाल्वेषु च लत्तितं भं त्यजेत्तु विद्धं किल सर्वदेशे ॥६७॥ उपग्रहह्ममिति ॥ कुरवो बालिकाश्च पश्चिमदेशास्तेषूपग्रहदोषाक्रांतभं त्यजेन्न तदतिरिक्तसर्वदेशेषु । अन्यत्र शुभमेवेत्यर्थः । कलिंगा वंगाश्च प्राग्देशौ। वहुवचनान्मगधांगादयोपि तेषु चंडीशचंडायुधापरपर्यायं पातं त्यजेत् । नतु क्रांतिसाम्यरूपं पातम् । तस्य महापात इति व्यवहारात् । सौराष्ट्र: 'सोरठ' इतिभाषायां शाल्वदेशः पश्चिमदेशविशेषः । बहुवचनं ग्रामबाहुल्यात्तेषु लत्तितं लत्ता संजातास्य तद् परित्यजेत् विद्धं क्रूरेण शुभेन वा पंचशलाकादिचक्रद्वारा भिन्नं भं भूतलवर्तिसर्वदेशेषु त्यजेत् । किल निश्चयेन । नत्वस्य देशभेदेन परिहारः । एतदपि वाक्यं संमत्यंतरं नार्हति । विवाहपटलेऽपि-लत्ता मालवके देशे पातः कोशलके तथा। एकागलं तु काश्मीरे वेधं सर्वत्र वर्जयेत् ॥' इति । वराहः-'युतिदोषो भवेद्गौडे जामित्रस्य च यामुने । वेधदोषस्तु विंध्याख्ये देशे नान्येषु केषु च ॥' इति । एषां वाक्यानां यथादेशाचार व्यवस्था ॥ ६७ ॥ ___ अथ दशयोगदोषमुपजातिकयाहशशांकसूर्यर्थयुतेर्भशेषे खभूयुगांगानि दशेशतिथ्यः । नागेंदवोंकेंदुमिता नखाश्चेद्भवंति चैते दशयोगसंज्ञाः ॥ ६८॥ शशांकेति ॥ चेद्यदि चंद्रसूर्यनक्षत्रयोयुतेर्योगाद्भः सप्तविंशत्या भक्ताद्यच्छेषस्तस्मिन् शून्यैकचतुःषदशैकादशपंचदशाष्टादशैकोनविंशतिविंशतिसंख्याके सति एते अंकाः दशयोगसंज्ञा भवन्ति । नान्ये इत्यर्थः । शिष्टानां दशानामंकानामभिहितत्वाद्दशयोग इत्यन्वर्थसंज्ञा । तदुक्तं दीपिकायाम्'तिथ्यंगवेदैकदिगूनविंशमेकादशाष्टादशविंशसंख्याः । इष्टोडुना सूर्ययुतोडुना वा योगादमी चेद्दशयोगदोषाः ॥' लल्लोऽपि-'यस्मिन्नृक्षे रविस्तिष्ठेद्यस्मिन्नृक्षे शशी तथा। द्वयोर्योगहृते धिष्ण्यैः शेषः स्यात्खादितो दश ॥ शून्यवेदतुरूपाणि दिग्रुद्रतिथयो तिः । ऊनविंशा नखाश्चेति दशयोगाः प्रकीर्तिताः ॥' इति ॥ ६८॥ अथ दशयोगानां फलं तदपवादं च शार्दूलविक्रीडितेनाहवाताभ्राग्निमहीपचोरमरणं रुग्वज्रवादाः क्षति_ोगांके दलिते समे मनुयुतेऽथौजे तु सैकेर्धिते । भं दास्रादथ संमितास्तु मनुभी रेखाः क्रमात्संलिखे द्वेधोऽसिन्ग्रहचंद्रयोर्न शुभदः स्यादेकरेखास्थयोः ॥६९॥ Page #304 -------------------------------------------------------------------------- ________________ २८८ मुहूर्तचिंतामणिः। [सापवादो बाणदोषः वातेति॥ शून्ये शेषे वातात् दोषः स्यात् , एके शेषेऽभ्रान्मेषात् , चतुर्धवशिष्टेष्वग्नेः, षदसु महीपादाज्ञः, दशसु चोरात्, एकादशसु मरणं द्वयोरन्यतरस्य वा, पंचदशसु रुकु, अष्टादशसु वज्रं, एकोनविंशेषु वादः कलिः। झकटक इति यावत् ; विंशतिशेषे क्षतिव्यनाशः स्यात् । यदाह लल्ल:-'मरुन्मेघाग्निभूपालचौरमृत्युरुजोऽशनिः। कलिर्हानिर्दशोद्वाहे दोषास्त्याज्याः सदा बुधैः ॥ विवाहादौ प्रतिष्ठायां व्रते पुंसवने तथा । कर्णवेधे च चूडायां दशयोगं विवर्जयेत् ॥' इति । अथापवाद उच्यते-योगांक इति । खभूयुगांगादिरूपे योगांके समे युग्मसंख्याके सति दलिते अर्धाकृते ततो मनुभिश्चतुर्दशभिर्युते योऽकस्तद् दास्रादश्विनीतो भं नक्षत्रं स्यात् । यथा-समांशके दशयोगः १० अर्धितः ५ मनुयुतः १९ मूलनक्षत्रं जातम् । अथ योगांके ओजे अयुग्मसंख्याके सति सैक एकयुक्त ततोऽर्धिते अश्विनीतो भं स्यात् । यथाविषमांकः पंचदशयोगः १५ सैकः १६ अर्धितः ८ पुष्यनक्षत्रं जातम् ॥ अथेत्यनंतरं । मनुभिः संमिताश्चतुर्दशरेखास्तिर्यक्रमात्संलिखेत् । तद्यथा-अनेन प्रकारेण यन्नक्षत्रमागतं तत आरभ्य साभिजिन्नक्षत्रवृंदमस्मिंश्चके लेख्यं, तत्र ग्रहः स्वाक्रांतनक्षत्रे स्थाप्यः दिननक्षत्रे च चंद्रः । एवं सति यदि ग्रहचंद्रावेकरेखास्थौ स्यातां तयोस्तादृशयोः परस्परावलोकनरूपो वेधो न शुभदः । उक्तं च ज्योतिःसारसागरे-'योगांके विषमे सैके समे सवसुलोचने । दलीकृतेऽश्विनीपूर्व दशयोगमुदाहृतम् ॥ दशयोगे महाचक्ने प्रमादाद्यदि विध्यते । क्रूरैः सौम्यग्रहैर्वापि दंपत्योरेकनाशनम् ॥' इति । दशयोगापवादांतरमाह भरद्वाजः-'गुरौ लग्नाधिपे शुक्रे सवीर्ये लग्नकेन्द्रगे । दशदोषा विनश्यति यथाग्नौ तूलराशयः ॥' तूलं कार्पासः। व्यासोऽपि-'शुक्रेण गुरुणा वापि संयुतं दृष्टमेव च । दशयोगसमायुक्तमपि लग्नं शुभावहम् ॥' इति ॥ ६९ ॥ अथ बाणदोषं शालिन्याहलग्नेनाढ्या याततिथ्योंकतष्टाः शेषे नागद्यब्धितर्केदुसंख्ये । रोगो वह्नी राजचौरौ च मृत्यु णश्चायं दाक्षिणात्यप्रसिद्धः ७० . लग्नेनेति ॥ शुक्लपक्षप्रतिपदमारभ्य गततिभ्यो लग्नेनाढ्याः युक्ताः कृत्वांकैनवभिस्तष्टाः शेषे नागसंख्ये रोगाख्यो बाणः, एवं द्विसंख्ये शेषे वयाख्यः, चतुःसंख्ये शेषे राजाख्यः,तर्काः षट् तत्संख्ये शेषे चौराख्यः,एकसंख्ये शेषे मृत्युसंज्ञो बाणः । अयं च दाक्षिणात्येषु महाराष्ट्रदेशीयेषु प्रसिद्धः, तेन देशाचारव्यवस्थया बाणस्य त्यागः; नतु प्राच्योदीच्यपाश्चात्यानाम् । तदुक्तं सप्तर्षिमते विवाहपटले-'गततिथियुतलग्नं पंचधा स्थापनीयं तिथि १५ रवि १२ दश १० नागै ८ वेद ४ युक्तं क्रमेण । नव ९ हृतशर ५शेषे बाणसंज्ञाःक्रमेण रुगनलनृपचौराः पंचमो मृत्युसंज्ञः ॥' इति ॥ ७० ॥ अथ प्राच्यमतेन बाणं सापवादं मालिनीछंदसाहरसगुणशशिनागाब्ध्याट्यसंक्रांतियातां-... शकमिति रथतष्टांकैयदा पंच शेषाः । Page #305 -------------------------------------------------------------------------- ________________ विवाहप्रकरणम् ६ । रुगनलनृपचौरा मृत्युसंज्ञश्च बाणो नवहृतशरशेषे शेषकैक्ये सशल्यः ॥ ७१ ॥ रसेति । अथशब्दः पादपूरणे । रसगुणशशिनागान्धिभिराढ्या चासौ संक्रांतियातांशकमितिश्चेति कर्मधारयसमासः । स्पष्टनिरयनांशसूर्यसंक्रांतिभुक्तांशानां मितिः संख्या पंचधा स्थाप्या, कलादिकमुपेक्ष्यं; सा क्रमेण षट्त्र्येकाष्टचतुर्भिराढ्या संयोज्यांकैर्नवभिस्तष्टा सती यदा पंचशेषा यस्मिन्स्थले पंचावशिष्यते तत्र क्रमेण रुगादिबाणो ज्ञेयः । यथा- - आदौ पंचशेषे रोगबाणः, द्वितीये पंचशेषेऽग्निबाणः, तृतीये पंचशेषे राजबाणः, चतुर्थे पंचशेषे चौरबाणः, पंचमे पंचशेषे मृत्युबाणः, तस्मात्तस्माद्भयं भवतीत्यर्थः । यदाह कश्यपः - 'संक्रांतियातांशकनंदशेषस्तर्काग्निरूपाष्टयुगैः समेताः । तष्टो प्रह रोगहुताशभूपस्तेना मृतिश्चेति च पंच बाणाः ॥' इति । पंचेति पृथक् पदम् । पंच चेत् शिष्यंते तदा बाणाः स्युरित्यर्थः । तत्र बाणो द्विविधः - एकः काष्ठशल्यः, अपरो लोहशल्यः; तत्राभिहितो बाणः काष्ठशल्य उच्यते - अस्य नाम प्राच्याख्यो 'थोथा' बाण इत्याहुः । तेन तादृशे बाणे लग्ने तथा पीडा न भवेतदर्थं तदपवादभूतो लोहशल्यसहितो बाण उच्यते - नवेति । यानि प्रागागतानि शेषाणि तेषामैक्ये नवहते पश्चाच्छरशेषे पंचशेषे सति सशल्यः लोहशल्यसहितो बाणः स्यात् । पंचव्यतिरिक्ते शेषे शल्यरहितो 'थोथा 'बाणः ॥ अयं च तुल्यन्यायत्वात्प्राक्पद्योक्तेऽपि बाणे सशल्यो बाणो ज्ञेयः । ज्योतिश्चिंतामणावन्यथा बाणोऽभिहितः - ' तिथिवारभलग्नको रसाम्यंब्वष्टवेदयुक् १६।३|१|८|४॥ नंदाप्तः पंचशेषे रुग्वह्निराचौरमृत्युकृत् ॥' इति ॥ ७१ ॥ अथ समयभेदेन वारभेदेन वा कार्यभेदेन वा त्रिविधं बाणपरिहारं शार्दूलविक्रीडितेनाह— रात्रौ चौररुज दिवाऽग्निंनृपती त्याज्यौ सदा संध्ययोमृत्युश्वाथ शनौ नृपो विदि मृतिभमेऽग्निचौरौ खौ । रोगोऽथ व्रतगेहगोपनृपसेवायानपाणिग्रहे. बाणपरिहारः ] २८९ वर्ज्याश्च क्रमतो बुधैरुगनलक्ष्मापालचौरा मृतिः ॥७२॥ रात्राविति ॥ तत्र तावत्कालभेदेन परिहारः । रात्रौ चौररुजौ बाणौ त्याज्यौ । दिवा दिवसेऽग्निनृपती वह्निराजबाणी त्याज्यौ । संध्ययोः प्रातः सायंसंध्ययोः सदा मृत्युबाणस्त्याज्यः । अर्थवशाद्विभक्तिविपरिणामः । तदुक्तं ज्योतिःप्रकाशे - 'रोगं चौरं त्यजेद्रात्रौ दिवा राजाग्निपंचकम् । उभयोः संध्ययोर्मृत्युमन्यकाले न निंदितम् ॥' इति । अथ वारभेदेन परिहार:अथेति । अथ शनौ शनिवारे नृपबाणः, विदि बुधवारे मृतिबाणः, भौमेऽग्निचौर १ क्वचित् 'दिवा नरपतिर्वह्निः सदा' इति पाठः । प्रमिताक्षरायामपि ' दिवा नरप - तिर्वह्निः सदा' इति पाठः । तट्टीका चेत्थम् - दिवा नरपतिः राजबागस्त्याज्यः, वह्निवाणः सदा दिवारात्रौ इति । तत्संमतिवाक्येऽपि पाठान्तरम् ' दिवाराजन्यपंचकम् ॥ संध्ययो - मृत्युदं त्याज्यं सर्वदा वह्निपंचकम् ॥' इति । २५ मु० चि० Page #306 -------------------------------------------------------------------------- ________________ २९० मुहूर्तचिंतामणिः। [उदयास्तशुद्धिः बाणौ रवौ रोगबाणः त्याज्यस्त्याज्याविति यथायोग्य संबंधः । उक्तं च दैवज्ञमनोहरे-रवौ रोग कुजे वह्नि शनौ च नृपपंचकम् । वज्यं पुनः कुजे चौरं बुधवारे च मृत्युदम् ॥' इति । अथ कार्यभेदेन परिहार उच्यते-अथेति । क्रमतः एतेषु शुभकर्मसु एते बाणा वाः । यथा-व्रते यज्ञोपवीते रुक् गेहं गृहं तस्य गोप आच्छादनं तत्राऽनलोऽग्निः नृपसेवायां मापालो राजा याने यात्रायां चौरः पाणिग्रहे मृतिर्बाणो वयं इत्यर्थः । तदुक्तं ज्योतिःप्रकाशे-'नृपाख्यं राजसेवायां गृहगोपेऽमिपंचकम् । याने चौरं व्रते रोग त्यजेन्मृत्यु करग्रहे ॥' इति । केचिदेवं पाठमाहुः-'व्रते विवर्जयेद्रोगं गृहगोपेऽग्निपंचकम् । यात्रायां राजचौराख्यौ विवाहे मृतिपंचकम् ॥' इति ॥७२॥ __ अथोदयास्तशुद्धि विवक्षुस्तदुपयोगिनीं ग्रहदृष्टिमुपजातिकयाहत्र्याशं त्रिकोणं चतुरस्रमस्तं पश्यति खेटाश्चरणाभिवृद्ध्या । मंदो गुरुभूमिसुतः परे च क्रमेण संपूर्णदृशो भवंति ॥ ७३ ॥ त्र्याशमिति ॥ खेटा ग्रहा यस्मिन्स्थाने तिष्ठति तस्मात्कथ्यमानानि स्थानानि चरणाभिवृद्ध्या पादवृद्ध्या पश्यति । तद्यथा-व्याशं तृतीयं दशमं चैकचरणदृष्ट्या पश्यति । त्रिकोणं नवपंचमं द्विचरणदृष्ट्या पश्यति । चतुरस्रं चतुर्थ अष्टमं त्रिचरणदृष्ट्या पश्यति । अस्तं सप्तमस्थानं चतुश्चरणदृष्टया पश्यति । अनेन तत्तगृहोद्भवशुभफलं चरणाभिवृद्ध्यैव भवतीत्यसूचि । तदुक्तं वराहेण-'दशमतृतीये नवमपंचमे चतुर्थाष्टमे कलत्रं च । पश्यति पादवृद्ध्या फलानि चैवं प्रयच्छति ॥' इति । मंद इति । मंदः शनैश्चरः स्वस्थानाव्याशं संपूर्णदृक् चतुश्चरणदृष्टिः । एवं गुरुस्त्रिकोणं भूमिसुतः चतुरस्रं परे चंद्रबुधसूर्यशुक्राः अस्ते संपूर्णदृश इत्यर्थः । यदाह गार्गिः-'दुश्चिक्यदशमान्सौरिस्त्रिकोणस्थान् बृहस्पतिः। चतुर्थाष्टमगान्भौमः शेषाः सप्तमसंस्थितान् । भवंति वीक्षणे नित्यमेवाधिकफला ग्रहाः ॥' इति । वराहोऽपि-'पूर्ण पश्यति रविजस्तृतीयदशमे त्रिकोणमपि जीवः । चतुरस्रं भूमिसुतः सितार्कबुधहिमकराः कलत्रं च ॥' इति ॥ ७३ ॥ __अथावसरप्राप्तामुदयास्तशुद्धिं शिखरिणीभुजंगप्रयातमालिनीछंदोभिस्त्रिभिराह यदा लग्नांशेशो लवमथ तनुं पश्यति युतो __ भवेद्वायं वोढुः शुभफलमनल्पं रचयति । लवद्यूनस्वामी लवमदनभं लग्नमदनं प्रपश्येद्वा वध्वाः शुभमितरथा ज्ञेयमशुभम् ॥ ७४॥ यदेति ॥ प्रथमपद्यस्यायमर्थः-यदा लग्नेऽशो लग्नांशस्तस्येशः स्वामी लवं नवांशं पश्यति; वा अथवा नवांशेन सह युतो वा भवेत्तदा वोढुवरस्यानल्पं बहु शुभफलं रचयति । यथा-मेषलग्ने मिथुनांशस्तदीशो बुधः तुलायां मिथुनं Page #307 -------------------------------------------------------------------------- ________________ नवांशेशादिदृष्टिफलं] विवाहप्रकरणम् ६ । पश्यति तत्र तिष्ठति वा अयमुदयशुद्धेः प्रथमः कल्पः । 'तनुफलं हि लवानवलंबते' इति केशवार्कोक्तन्यायात् । तदलाभे तु लग्नांशेशस्तनुं लग्नं पश्यति लग्नेन सह युतो वा भवेत्तत्र तिष्ठति वा तदापि वोढुः शुभफलमनल्पं स्यात् । यथा-मेषलग्न एव मिथुननवांशस्वामी बुधो मकरे वनवांशं न पश्यति किंतु लग्नं पश्यति अथवा मेष एव तिष्ठति; अयं उदयशुद्धः द्वितीयः प्रकारः। नवेति।लवनस्वामी लवानवांशात् द्यूनं सप्तमनवांशस्तत्स्वामी लवमदनभं लवान्मदनभं सप्तमनवांशं पश्यति तेन सह युतो वा भवेत्तदा वध्वा अनल्पं शुभं रचयति । यथा-मिथुननवांशात् सप्तमो धनुरंशस्तदधीशो गुरुर्मेषे धनुः पश्यति तत्र तिष्ठति वा अयमस्तशुद्धेः प्रथमः प्रकारः । तदलाभे तु लवधूनस्वामी लग्नमदनं सप्तमभवनं पश्यति युतः सप्तमभवनेन सह युतो वा भवेत्तदा वध्वाः शुभम् । यथा-गुरुः कर्के स्वनवांशं न पश्यति किंतु सप्तमभवनं तुलां पश्यति अथदा तुलायामेवास्ति; अयमस्तशुद्धेर्द्वितीयः प्रकारः । इतरथेति । इतरथा यदा लग्नांशेशो लवं तनुं वा न पश्यति तत्र युतो वा न स्यात्तदा कन्याया अशुभं मृत्युः स्यात् । यदा त्वस्तांशोऽस्तांशमस्तभवनं वा न पश्यति तत्र युतो वा न स्यात्तदा कन्याया अशुभं मृत्युरित्यर्थः । यदाह कश्यपः-'स्वस्वेशेनोदयास्तांशौ वीक्षितौ वाऽथ संयुतौ । लग्नं वाऽस्तगृह तत्तदंशेशेनेक्षितं युतम्' इति । वसिष्ठः--'इष्टोदयांशे निजपत्यदृष्टे वरस्य मृत्युस्तदसंयुते च। अस्तांशकेऽप्येवमदृष्टयुक्ते स्वस्वामिना नाशमुपैति कन्या ॥' इति । तुल्यन्यायत्वाल्लग्नेऽप्यस्तलग्नेऽपि उदयनवांशास्तांशस्वामिनोदृष्ट्यभावेऽप्येतदेव फलं ध्येयम् ॥ ७४ ॥ लवेशो लवं लग्नपो लग्नगेहं प्रपश्यन्मिथो वा शुभं स्याद्वरस्य । लवयूनपोंऽशानं घूनपोऽस्तं मिथोऽवेक्षते स्वाच्छुभं कन्यकायाः ॥ ७५ ॥ लवेश इति ॥ द्वितीयपद्यस्यायमर्थः-नवांशस्वामी नवांशं प्रपश्येल्लग्नस्वामी लग्नं प्रपश्येत्तदा वरस्य शुभं स्यात् । अथवा मिथः परस्परं लवस्वामी लग्नं लग्नेशो लवं च पश्येत्तदापि वरस्य शुभं स्यात् । एवं लवद्यूनपो नवांशात्सप्तमनवांशस्वामी अंशधुनमंशसप्तमराशिमीक्षते, यूनपो लग्नसप्तमस्वामी अस्तं लग्नात्सप्तमभवनमीक्षते तदा कन्यकायाः शुभं स्यात् । वा अथवा मिथः अंशसप्तमाधीशो लग्नसप्तमं वीक्षते लग्नात्सप्तमाधीशश्चांशसप्तममीक्षते तदापि कन्यायाः शुभं स्यात् । अत्रोदाहरणं स्पष्टत्वानोक्तमस्माभिः । अत्रान्यथात्वे दंपत्योरशुभमित्यर्थः । यदाह नारदः-'लग्नलग्नांशको स्वस्वपतिना वीक्षितौ युतौ । न चेद्वान्योन्यपतिना शुभमित्रेण वा तथा ॥ वरस्य मृत्युः स्यात्ताभ्यां सप्तसप्तोदयांशको। एवं तौ वीक्षितयुतौ मृत्युर्वध्वाः करग्रहे॥' वसिष्ठोऽपि Page #308 -------------------------------------------------------------------------- ________________ २९२ मुहूर्तचिंतामणिः । [ सूर्य संक्रमदोषः 'उदयांशः स्वनाथेन मित्रसौम्येन वा युतः । प्रेक्षितो वा तथास्तांशो दंपत्योः पुत्रपौत्रदः ॥' इति परस्परवीक्षणेऽप्येतदेव फलं ध्येयम् । नारदवाक्य स्वरसात् ॥ ७५ ॥ अथ पूर्वोक्तप्रकारेणोदयास्तशुद्धेरभावेऽपि तृतीयप्रकार उच्यतेलवपतिशुभमित्रं वीक्षतेंऽशं तनुं वा परिणयनकरस्य स्याच्छुभं शास्त्रदृष्टम् । मदनलवपमित्रं सौम्यमंशधुनं वा तनुमदनगृहं चेद्वीक्षते शर्म वध्वाः ॥ ७६ ॥ लवपतीति ॥ शुभमित्रं शुभं च तन्मित्रं चेति कर्मधारयः । लवपतेर्लग्ननवांशेशस्य शुभग्रहः सोमबुधगुरुशुक्राणामन्यतमश्चेन्मित्रं स्यात्स चेदंशं स्वनवांशं तनुं लग्नं वा वीक्षते तदा परिणयनकरस्य वरस्य शास्त्रदृष्टं वसिष्टोक्तं पुत्रपौत्रादिप्राप्तिरूपं शुभं फलं स्यात् । एवं मदनलवस्यास्तांशेशस्य मित्रं सौम्यं चेत्स्यात्तच्चांशधुनमंशा लग्ननवांशाद् द्युनं सप्तमनवांश चेद्वीक्षते वा अथवा तनुमदनगृहं लग्नात्सप्तमभवनं चेद्वीक्षते तदा वध्वाः शास्त्रदृष्टं शर्म स्यात् । यद्युभयत्रापि नवांशस्वामिनो मित्रं पापग्रहश्चेत्तस्य दृष्टिरशुभैवेति फलितोऽर्थः । यदाह वराहः- 'शुद्धस्त्विह स्यान्न यदोदयांशो लग्नेन चास्तांशमुपैति शुद्धिम् । तदा सुहृत्सौम्य निरीक्षितो यः शुभाय स स्यात्प्रवति संतः ॥' इति । नन्वन्न वाक्ये 'सुहृत्सौम्य निरीक्षित' इति पदे सुहृच्चासौ सौम्यश्चेति कर्मधारयांगीकारे भवदुक्तं व्याख्यानं सत् । यदा तु सुहृच्च सौम्यश्चेति द्वंद्वः तदा सुहृत्पापग्रहोऽपि स्यादिति चेन्न । प्रागुक्तवसिष्ठवाक्ये 'मित्रसौम्येन वा युतः' इति तृतीयैकवचनांतस्यापार्थक्योपादानात् । मित्रं चासौ सौम्यश्च मित्रसौम्यस्तेन मित्र शब्दस्य विशेषणत्वात्पूर्वनिपातः । द्वंद्वांगीकारे तु मित्रसौम्याभ्यामिति भवितव्यं, तथा सति छंदोभंगोऽपि स्यात् । समाहारद्वंद्वो भविष्यतीति चेन्नात्र किंचित्प्रमाणमस्ति । अतः कश्यपेनाप्येवमेवोक्तम्– 'राश्यंशौ मित्रसौम्येन वीक्षितौ वाथ संयुतौ । उदयास्तांशयोः शुद्धिस्त्रिविधा मंगलप्रदा ॥' इति । अतो वराहवाक्येऽपि कर्मधारय एवेति युक्तं प्रतीमः । वसिष्ठः - 'लग्नास्तशुद्ध्या रहितः सदोषः करोति मृत्युं वरकन्ययोश्च । शत्रुं यथा लग्नगुणास्त्वशक्तास्तं बंधुवर्गा इव सर्पदष्टम् ॥' इति । केचित्तु विवाहादौ वज्रयोगं निषिद्धमाहुस्तलक्षणम् -' तिथिवारं च नक्षत्रं नवभिश्च समन्वितम् । सप्तभिस्तु हरेद्भागं शेषांके फलमादिशेत् ॥ त्रिशेषे तु जलं विद्यात्पंचशेषे प्रभंजनः । सप्तशेषे वज्रपातो ज्ञेयं वज्रस्य लक्षणम् ॥' इति टोडरानंदे ॥ ७६ ॥ अथ सूर्यसंक्रमणाख्यं दोषं मंजुभाषिण्याहविषुवायनेषु परपूर्वमध्यमान्दिवसां स्त्यजेदितरसंक्रमेषु हि । घटिकास्तु षोडश शुभक्रियाविधौ परतोऽपि पूर्वमपि संत्यजेदुधः ॥ Page #309 -------------------------------------------------------------------------- ________________ २९३ पंग्वंधादिलग्नदोषाः] विवाहप्रकरणम् ६ । विषुवेति ॥ विषुवं-तुलामेषसंक्रांती, अयनं कर्कमकरसंक्रांती; एवं चतसृषु विषुवायनाख्यासु संक्रातिषु परपूर्वमध्यमान् गतागामिवर्तमानान् दिवसान् बुधः शुभक्रियाविधौ विवाहयज्ञोपवीतादिशुभकार्येषु त्यजेत् । इतरे. प्वष्टसंक्रमेषु संक्रमकालात्परतोऽग्रेऽपि पूर्व प्रागपि षोडशघटिकाः मिलित्वा द्वात्रिंशद्धटिकास्त्यजेत् । यदाह वसिष्ठः-'विषुवतोरयनयोर्दिनत्रयं हरिपदे षडशीतिमुखेषु च । पूर्वतोऽपि परतोऽपि संक्रमान्नाडिकाश्च खलु षोडश त्यजेत् ॥ संक्रांतिदोषे त्वचिरात्कृतं यदुद्वाहपूर्वाखिलमंगलाद्यम् । लाक्षासमूहो ज्वलिताग्निमध्ये विलीयते तद्वदशेषमेतत् ॥' इति । उद्वाहादिग्रहणास्नानदानादावनिषेधः । तद्वाक्यानि संक्रांतिप्रकरणेऽस्माभिरुक्तानि । किं तद्दिनत्रयं त्याज्यं-किं संक्रातिकालात् प्राग्दिनत्रयम् , उत तदनन्तरम् , उत मध्यम वेति पक्षत्रयसंभवे निर्णयमाह गुरुः–'अयने विषुवे पूर्व परं मध्यं दिन त्यजेत् । अन्यसंक्रमणे पूर्वापराः षोडश नाडिकाः ॥' इति । अयं च निषेधः सायनसंक्रांतिष्वपि ध्येयः । यदाह वसिष्ठः-'यदायनप्रवेशः स्यात्तदा तद्राशिसंक्रमः । तस्मिन्नपि दिने त्याज्या नाड्यः षोडश षोडश ॥' इति । शौनकः-'अयनद्वये समूढा भर्तारं नाभिनंदते नारी । विषुववयेऽपि विधवा षडशीतिमुखेषु सा म्रियते ॥ विष्णुपदेषु विगीता कन्या विकलेंद्रिया व्यतीपाते ॥ वैधतिविष्ट्योभ्रंष्टा सुभगा शेषेषु करणेषु ॥' इति । विगीता: पुंश्चलीत्याद्यभिशापेन प्रसिद्धा ॥ ७७ ॥ अथ संक्रांतिप्रसंगात्सकलग्रहाणां संक्रांतिघटीरनुष्टुभाहदेवयंकर्तवोऽष्टाष्टौ नाड्योऽकाः खनृपाः क्रमात् । वाः संक्रमणेऽर्कादेः प्रायोऽर्कस्यातिनिंदिताः ॥ ७८॥ देवेति ॥ अर्कादेः सूर्यादेहसमूहस्यैता घटिकास्त्याज्याः । यथा-सूर्यस्य संक्रमणकालात् प्राक् पश्चात्कालौ मिलित्वा त्रयस्त्रिंशद्धटिकास्त्याज्याः । एवं चंद्रस्य द्वे घटिके, भौमस्य नव, बुधस्य षद, गुरोरष्टाष्टौ, अष्टाशीतिः शुक्रस्यांकाः, नव शनेः खनृपाः षष्ट्यधिकशतं घटिका वाः । तत्रार्कस्य घटिकाः प्रायो बाहुल्येनातिनिंदिताः । अत्र संमतिवाक्यं वासनासहितं सविवरण संक्रांतिप्रकरणेऽभिहितमस्माभिस्तत एवावधार्यम् ॥ ७८ ॥ ___ अथ पंग्वंधकाणबधिराख्यान् लग्नदोषानुपजातिकयाहघस्रे तुलाली बधिरौ मृगाश्वौ रात्रौ च सिंहाजवृषा दिवांधाः। कन्यानृयुक्कर्कटका निशांधा दिने घटोऽत्यो निशि पंगुसंज्ञः ॥७९॥ घने इति ॥ घस्रे दिवसे तुलाली तुलावृश्चिकौ बधिरौ स्मृतौ । मृगाश्वौ मकरधनुषी रात्रौ बधिरौ नतु दिवसे । सिंहाजवृषा दिवांधा दिवसेंऽधा उक्ता नतु रात्रौ । कन्यानृयुक्कर्कटा निशांधा रात्र्यंधा नतु दिवांधाः । घटः कुंभो दिने पंगुसंज्ञो नतु रात्रौ । अंत्यो मीनो निशि पंगुसंज्ञो नतु दिने । Page #310 -------------------------------------------------------------------------- ________________ २९४ मुहूर्तचिंतामणिः । [ विहितनवांशाः - यदाह वसिष्ठः – 'मेषादे रंधकं षङ्कं चत्वारो बधिराः स्मृताः । द्वौ पंगू चेति विज्ञेयावित्येतद्वाशिलक्षणम् ॥ मेषो वृषो मृगेंद्रश्च दिवसेंऽधाः प्रकीर्तिताः । नृयुक्कर्कटकन्याश्च रात्रावंधाः प्रकीर्तिताः ॥ तुला च वृश्चिकश्चैव दिवसे बधिरौ तथा । धनुश्च मकरश्चैव बधिरौ निशि कीर्तितौ ॥ कुंभमीनौ च पंगू fat fear aatarक्रमम् ॥' इति । कुंभो दिवा पंगुर्मीनो रात्रौ पंगुः । अनेन यस्मिन्काले लग्नस्य योंऽधपंग्वादिदोष उक्तस्तस्मिन्नेव काले तल्लग्नं दोषावहं न कालांतरे इत्युक्तं भवति ॥ ७९ ॥ अथ परमते पंग्बंधादींलग्न दोषानाहबधिरा धन्वितुलालयोsपराह्ने मिथुनं कर्कटकोंऽगना निशांधाः । दिवसांधा हरिगोक्रियास्तु कुब्जा मृगकुंभांतिमभानि संध्ययोर्हि ॥ बधिरेति ॥ धन्वितुलालयो धनुस्तुला वृश्चिका अपराह्णे दिवसस्यांतिमे तृतीयविभागे बधिराः स्मृताः; मिथुनकर्कटकन्या निशांधाः स्मृताः; हरिगोक्रियाः सिंहवृषमेषास्तु दिवसांधाः स्मृताः; मृगकुंभांतिमभानि मकरकुंभमीनाः संध्ययोः प्रातःसायंसंध्ययोर्हि निश्चयेन कुजाः पंगवः स्मृताः । अत्र मूलवाक्यं नोपलभ्यते ॥ ८० ॥ अथैषां प्रयोजनं सापवादं प्रहर्षिण्याह दारिद्र्यं बधिरतनौ दिवांधलग्ने वैधव्यं शिशुमरणं निशांधलने । पंग्वंगे निखिलधनानि नाशमीयुः सर्वत्राधिपगुरुदृष्टिभिर्न दोषः ॥ दारिद्र्यमिति ॥ स्पष्टार्थं पद्यम् । पंग्वंगे पंगुलग्ने । यदाह वसिष्ठः'अंधे वैधव्यमानोति दारिद्र्यं बधिरे तथा । अर्थनाशो भवेत्पंगाविति धोत्रा विनिश्चितम् ॥' इति । सर्वत्रेत्यस्य संमतिः । बादरायणः - 'मासशून्याह्वयातारा राशयो बधिरादयः । स्वामिजीवबुधैर्दृष्टा युक्ता वा नैव दोषदाः ' इति । एषां परिहारो देशभेदेनाप्यभिहितः कश्यपेन - 'काणपंग्बंधबधिरमासशून्याश्च राशयः । गौडमालवयोस्त्याज्यास्त्वन्यदेशे न गर्हिताः ॥' इति । नारदवाक्यं तु ग्रंथकृतैव प्रागुक्तम् ॥ ८१ ॥ अथोदयास्तशुद्धिः प्रागुक्ता तत्रावसरप्राप्तान्वितहिनवांशांश्चित्रपदाछंदसाहकार्मुकतौलिककन्यायुग्मलवे झषगे वा । यहि भवेदुपयामस्तर्हि सती खलु कन्या ॥ ८२ ॥ कार्मुकेति ॥ कार्मुकं धनुः, तौलिकं तुला, कन्या प्रसिद्धा, युग्मं मिथुनं; एषामंशे नवांशे झषगे वा मीननवांशे वा विकल्पेन । वाशब्दः स्वकीयमतसूचनार्थः । धनुरादिनवांशाः सर्वमुनिसंमता इत्यर्थः । तेष्वंशेषु यहि यदा उपयामो विवाहो भवेत्तर्हि कन्या विवाहोत्तरं सती पतिव्रता खलु निश्चयेन स्यात् । यदाह वसिष्ठः - 'लग्ने हि सर्वे शुभराशयश्च शुभेक्षिता वाथ युताः शुभाः स्युः । नवांशका स्तौलिनृयुग्युवत्यश्चापायभागः शुभदो न चान्ये ॥ द्विभर्तृका मेषनवांश स्याद्वृषांश के सा पशुशीलयुक्ता । धनान्विता पुत्रवती Page #311 -------------------------------------------------------------------------- ________________ विहितनवांशे निषेधः ] विवाहप्रकरणम् ६ | तृतीये कुलीरकांशे कुलटाप्यजस्रम् ॥ सिंहांश के सा पितृमंदिरस्था कन्यांशके वित्तयुता सुशीला । तुलांशके सर्वगुणास्पदा सा कीटांशके निःस्वतरा विशीला ॥ चापांशकाद्ये धनिनी द्वितीये भागेऽन्यसक्ता मलिना गदाढ्या । निःस्वा मृगांशे विगुणा घटांशे विभर्तृका योगरता विशीर्णा ॥ मीनांशके भर्तृयुतार्थहीना शुभग्रहैर्युक्तनिरीक्षिते वा । तस्मात्सदैवोक्तनवांशकेषु कुर्या - द्विवाहं गुणसंप्रवृद्ध्यै ॥ नवांशदोषः सकलं गुणौघं लग्नोत्थसौम्यग्रहसंभवं च । ध्रुवं निहंतीव वृकोऽजसंधं षड्वर्गजं सौम्यवियच्चराणाम् ॥' इति । पशुशीलयुक्ता पशुवव्यभिचारपरा गदो रोगः स्वं धनं । एते एव च नवांशाः सकलमुनिभिरुक्ताः - 'तुला मिथुनकन्यांशा धनुराद्यार्धसंयुताः । एते नवांशाः शुभदा यदि नांत्यांशकः खलु ॥' इति नारदोक्तेः । शौनकस्तु मीनांशकमपि शुभमाह - 'सुदती सौभाग्यवती प्रहसितवदना च मीनांशे' इति । तत्र निषेधविध्योस्तुल्यबलत्वात्षोडशिग्रहणाग्रहणवद्विकल्प इत्याहुः । तन्न । 'एकबाधेनोपपत्तावनेक बाधो न न्याय्यः' इति बहुमुनिवचनप्रामाण्यान्मीनाशत्याग एवोचितो नत्वेकतरमुनिवचनानुरोधात्पाक्षिको बाधः पाक्षिको विधिश्च । विकल्पस्याष्टदोषग्रस्तत्वात् । का तर्हि शौनकवाक्यगतिरिति चेत् । गुणवरोपलब्धौ लग्नांतरासंभवे च विचारितस्थले विहितनवांशानां दोषवत्व सद्भावाच्च गत्यंतराभावे मीनांशको निषिद्धोऽपि प्रशस्त इत्येवं युक्ता गतिः । यहीति । 'अनद्यतने हिलन्यतरस्याम्' इति किंयत्तद्भ्योऽनद्यतने काले हिलप्रत्ययः । उपयामः ' यमः समुपनिविषु च' इति भावे घञ् । 'विवाहोपयमौ समौ । तथा परिणयोद्वाहोपयामाः पाणिपीडनम्' इत्यमरसिंहः ॥ ८२ ॥ अथ विहितनवांशे क्वचिन्निषेधं श्रीछंदसाह - अंत्यनवांशे न च परिणेया काचन वर्गोत्तममिह हित्वा । नो चलने चरलवयोगं तौलिमृगस्थे शशभृति कुर्यात् ॥ ८३ ॥ अंत्येति ॥ विहितनवांशेष्वपि यथा मेषलग्ने धनुर्नवांशोंऽतिम इत्येवंविधे विषये लग्नांतिमनवांशे काचन कन्या न परिणेया न विवाह्या, परंतु वर्गों - त्तममंतिममपि नवांशं हित्वा । तेत्र विवाह उचित एव । यथा मिथुनलग्ने मिथुनांशोऽन्तिमोऽपि वर्गोत्तमः । यदाह कश्यपः - 'अंत्यांशका अपि श्रेष्ठा यदि वर्गोत्तमाह्वयाः । अनुक्तांशास्तु न ग्राह्या यतस्ते कुनवांशकाः ॥' इति । वसिष्ठोऽपि - ' वर्गोत्तमं विनांत्यांशो विवाहे न शुभप्रदः । वर्गोत्तमश्चेदंत्यांशः पुत्रपौत्रादिवृद्धिदः ॥' इति । अन्यच्च । नो चरलग्ने इति । तौलिमृगस्थे तुला मकरस्थे शशभृति चंद्रे सति चरलने विहितचरलवयोगं नो कुर्यात् । यथा - मेषलग्ने तुलांशः । उक्तं च केशवार्केण - 'चरलवं चरवेश्मगमुत्सृजे - न्मृगतुलाधरगे मृगलक्ष्मणि । युवतिरत्र भवेत्कृतकौतुका मदनवत्यनवत्यजनोन्मुखी ॥' इति । न नवः अनवो जीर्णो भर्ता तस्य त्यजने त्यागे उन्मुखी परपुरुषरता स्यादित्यर्थः ॥ ८३ ॥ २ वर्गोत्तमे अंतिमेऽपि अंशे । २९५ Page #312 -------------------------------------------------------------------------- ________________ २९६ मुहूर्तचिंतामणिः। [लग्नभंगयोगः __ अथ सर्वथा लग्नभंगयोगमुपजात्याहव्यये शनिः खेऽवनिजस्तृतीये भृगुस्तनौ चंद्रखला न शस्ताः । लग्नेटकविग्लौश्व रिपो मृतौ ग्लौलनेट्शुभाराश्च मदे च सर्वे ८४ व्यये इति ॥ व्यये द्वादशस्थाने स्थितः शनिः न शस्तः, 'सोमकुलेऽपि हि जातां द्वादशगो मद्यपां कुरुते' इति शौनकोक्तेः। अत्र रविसुत इत्यनुवर्तते । खे दशमेऽवनिजो मंगलो न शस्तः, 'शाकिनी व्योनि वक्रः' इति केशवार्कोक्तेः। तृतीयो भृगुः शुक्रः न शस्तः, 'धन्या धनगे शुक्रे कृपणत्वं प्रामुयान्नारी । दुश्चिक्यगते कन्या त्र्यब्दागर्तुः कनीयसं भजते ॥' इति शौनकोक्तेः। तनौ लग्ने चंद्रः खलाः पापग्रहाश्च न शस्ताः, 'लग्नस्थेऽर्के कन्या विधवा संवत्सरेऽष्टमे भवति । लग्नस्थो हिमरश्मिर्मत्यु कुर्यात्रयोदशे मासे ॥ भौमः सद्यो विधवां लग्नस्थोऽब्दान्न सौम्यदृग्योगात् । कामयति नीचवर्णाल्लामस्थे रविसुते बहून्पुरुषान् ॥ शनिवद्विधुतुदस्य तु विज्ञेयं सदसदिति विज्ञैः' इति शौनकोक्तेः। लग्नेट् लग्नस्वामी कविः शुक्रः ग्लौश्चंद्रश्च रिपौ षष्ठस्थाने न शस्तः, रंध्रे कुजे सौम्यखगे च मृत्युः षष्ठाष्टगे लग्नपतौ च मृत्युः' इति ज्योतिनिबंधकृदुक्तेः। 'भृगुषट्कायो दोषो लग्नात्षष्ठगते सिते। उच्चगे शुभसंयुक्त तल्लग्नं सर्वदा त्यजेत् ॥' इति नारदोक्तेः। 'अब्दचतुष्कान्मृत्युदंपत्योः षष्ठगे चंद्रे' इति शौनकोक्तेः। ग्लौश्चंद्रः, लग्नेद शुभाश्चंद्रबुधगुरुशुक्राः, मारो भौमचैते मृतावष्टमस्थाने न शस्ताः, 'मासत्रयेण विधवां निधनस्थश्चंद्रमाः कुरुते। मासत्रयेण कन्या निधनस्थ याति पंचत्वम् ॥' बुध इत्यनुवर्तते । पंचत्वं मरणम् । दंपत्योर्निधनस्थः सप्तदशाब्दाद्वियोगदो जीवः। पंचत्वं नयति भृगुनिधनस्थः सप्तभिर्वः ॥' इति शौनकोक्तः। नारदः-'कुजाष्टमो महादोषो लग्नादष्टमगे कुजे । शुभत्रययुतं लग्नं त्यजेत्तत्तुंगगे यदि ॥' अत्र संमतिः प्रागुक्ता। लग्नेद च पुनः सर्वे सूर्यादयो ग्रहा मदे सप्तमस्थाने न शस्ताः निषिद्धाः, 'सर्वे जामित्रसंस्था विदधति मरणम्' इति वसिष्ठोक्तेः। कश्यपोऽपि-सप्तमस्थानगाः सर्वे ग्रहाः कुर्वति शीघ्रतः। दंपत्योर्मरणं यद्वा स्थादेकस्य न संशयः ॥' इति । अर्थादन्येषु स्थानेषु ग्रहाः समीचीनास्तत्र केषुचित्स्थानेषु शुभा एव, केषुचिन्मध्यमा एवेत्येतदपि वक्ष्यति । अतोऽमु. मर्थमतिसंक्षिप्य त्रिविक्रमेण निषिद्धस्थानान्येवोक्तानि-'त्याज्या लग्नेऽब्धयो मंदाषष्ठे शुक्रंदुलग्नपाः । रंधे चंद्रादयः पंच सर्वेऽस्तेऽब्जगुरू समौ ॥' इति । अब्जगुर्वोः समत्वं शौनकमतेन तादृशविरुद्धफलाभावात् । यदाह'कन्यास्तिस्रो जनयति सापत्यं चैव सप्तमे शशिनि । शीलचरित्रोपेतां करोति पत्युः कलत्रगो द्वेष्याम् ॥' इति । गुरुरित्यनुवर्तते । अत्र वचनद्वयप्रामाण्याद्विकल्पः । यत्त्वत्रिणोक्तम्-'जामित्रगो यदि भवेदुशना बुधो वा गीर्वाणनाथसचिवः सितचंद्रपक्षे । कन्याविवाहसमये परिहृत्य दोषान्सौभाग्यपुत्रसहितां वनितां करोति ॥' इति, तञ्चंद्रजामित्रविषयम् । तथा च Page #313 -------------------------------------------------------------------------- ________________ रेखादातृग्रहास्तत्फलं च] विवाहप्रकरणम् ६ । २९७ भुजबल:-'स्त्रीणां विवाहे तु बलैरुपेताः पत्युः प्रणाशं विहगा विदध्युः । त्यक्त्वा बुधं दैत्यगुरुं गुरुं च निशाकरादस्तगृहप्रपन्नाः ॥' इति । दैत्यगुरु शुक्रम् । अत एव दीपिका-रविमंदकुजाक्रांतं मृगांकात्सप्तमं त्यजेत् । विवाहयात्राचूडासु गृहकर्मप्रवेशने ॥' इति ॥ ८४ ॥ अथैवं निषिद्धस्थानान्यभिधायेदानीं रेखादातॄन् ग्रहान्वसंततिलकयाहव्यायाष्टषट्सु रविकेतुतमोकपुत्रा रूयायारिगः क्षितिसुतो द्विगुणायगोऽजः। सप्तव्ययाष्टरहितौ ज्ञगुरू सितोऽष्ट त्रियूनषव्ययगृहान्परिहत्य शस्तः ॥ ८५॥ त्रीति ॥ तृतीयैकादशाष्टमषष्ठस्थानेषु रविकेतुतमोर्कपुत्राः शस्ताः शुभफलदातारः । यदाह शौनकः-'बंधुजनेभ्यः पूजां त्रिंशद्वर्षाणि सहजगे वर्के । प्रामोति धनं षष्ठे व्यब्दादूचं सुतांश्चैव ॥ दंपत्योः सह मरणं निधनस्थेऽऽष्टसप्तत्या। कारयति धनविवृद्धिं त्र्यब्दादूर्ध्व तथायगः सविता ॥' इति रवेः। 'धनधान्यपुत्रयुक्तां पंचमसंवत्सरात्तृतीयस्थः । षष्ठः षड्भिर्मासैरसपत्नी कन्यकां कुरुते ॥ निधनगतोऽर्किः कुर्यादामरणादामयवियुक्ताम् । आयगतोऽर्किः कन्यां त्रिवर्गयोग्यां करोति षण्मासात् ॥' इति शनेः । अर्कस्यापत्यं अर्किः 'अत इञ्' इति इञ् , संज्ञापूर्वकस्य विधेरनित्यत्वादृद्ध्यभावः । सत्यां वा वृद्धौ 'नमुने' इति नेतियोगविभागादसिद्धत्वाभावात्संधिर्दीर्घः 'आयगतार्किः' इति पाठः । अथवा आयगतश्वासौ आर्किश्चायगतार्किः इत्येकं पदं,एवं निधनगतार्किः इत्यत्रापि । अत्र राहुकेत्वोश्च फलं शनिवदेवेति 'स्वर्भानौ वाप्यथ शिखिनि वा लग्नभावादिसंस्थे' इति वसिष्ठोक्तेः। व्यायारिगः तृतीयैकादशषष्ठस्थानस्थितः क्षितिसुतो भौमः शस्तः, 'सहजस्थो भूमिसुतः सौभाग्यकरस्तु यावदायुष्यम् । संवत्सरेण विपुलं धनागमं शत्रुसंस्थस्तु ॥ मणिकांचनरत्नाढ्यामेकादशगः कुजोऽब्दषट्वेन ॥' इति शौनकोक्तेः । अब्जश्चंद्रो द्विगुणायगो द्वितीयतृतीयैकादशस्थः शस्तः, 'अब्दाद्धनसंयुक्तां करोति चंद्रो धने नार्याः । चंद्रस्तृतीयराशौ सौभाग्यकरस्तु यावदायुष्यम् ॥ लग्नादेकादशगः कन्यामिदुर्धनान्वितां कुरुते ॥' इति शौनकोक्तेः । ज्ञगुरू बुधबृहस्पती सप्तमद्वादशाष्टमातिरिक्तस्थानस्थितौ शस्तौ । उक्तस्थानानां अशुभत्वादनुक्तस्थानानां च शुभदातृत्वात् । यदाह वसिष्ठः-'प्रीतिवृद्धिः सुगुणनिरतिबंधुपूजा सुताप्तिः सद्वैपक्ष्यं तनयरहितत्वं तथा भर्तृनाशः। धर्मे बुद्धिर्भवति धरणीलब्धिरत्यंतबुद्धिहानिः स्त्रीणां हिमकरसुते लग्नभावादिसंस्थे ॥' इति । 'लक्ष्मीप्राप्तिर्भवति सुयशः प्रीतिरन्योन्यवृद्धि रिष्टप्राप्तिर्बहुविधमयं चाश्रमाणां विरक्तिः । पापासक्तिः सुकृतनिरतिभूरिलाभः सुरेज्ये स्त्रीणां सौख्यं रिपुकृतभयं लग्नभावादिसंस्थे॥' इति । अयं शुभं दैवम् । 'अयः शुभावहो विधिः' इत्यमरः । क्लीबत्वं त्वार्षम् । केचित्-'बहुविधमयम्' इत्यत्र 'बहुविधभयम्' इति पठंति, तत् Page #314 -------------------------------------------------------------------------- ________________ २९८ मुहूर्तचिंतामणिः। [कर्तर्यादिदोषापवादाः मकारे भशब्दभ्रांतेः । 'उभयकुलानंदकरी करोति न चिराद्गुरुः षष्ठे' इति षष्ठस्थानस्थितगुरोः शौनकेनापि सम्यक्फलाभिधानाच्च । सित इति ।अष्टमतृतीयसप्तमषष्ठद्वादशस्थानानि परिहृत्य त्यक्त्वान्येषु स्थानेषु सितः शुक्रः शस्तः । तदुक्तं वसिष्ठेन-भोगप्राप्तिर्विविधविभवं स्वैरवृत्तिर्महत्त्वं द्युम्नाधिक्यं भवति निधनं सर्वनाशो वसुत्वम् । तथ्यप्रीतिर्बहुविधगुणाः सर्वसंपत्समृद्धिरस्वं स्त्रीणामुशनसि तथा लग्नभावादिसंस्थे ॥' इति । द्युम्नं द्रविणम् । 'हिरण्यं द्रविणं द्युम्नम्' इत्यभिधानात् । मूले गृहशब्दः पुलिंगः, 'गृहाः पुंसि च भूम्येव' इत्यमरः । अतो बुधगुरुशुक्राणां शुभाशुभस्थानोक्तेः शुभाशुभफलत्वमेव, न कदाचिन्मध्यमत्वम् । अन्येषां तु शुभाशुभस्थानातिरिक्तस्थानसद्भावान्मध्यमत्वमप्यस्ति । उत्कृष्टशुभाशुभफलानभिधानात् । किंतु किंचिन्मध्यमफलाभिधानम् । तदुक्तं वसिष्ठेन-'मृत्यु३ःस्वं बहुविधधनं भ्रातृहानिः प्रजानां व्याधिः सौख्यं बहुविधमतो भर्तृहानिश्चिरायुः। श्रेयोहानिर्भवति हृदयव्याधिरर्थागमश्च भानौ स्त्रीणामतिशयरुजा लग्नभावादिसंस्थे॥ नाशः संपद्बहुविधयशो बंधुवृद्धिः प्रजाप्तिः शस्त्रान्मृत्युभवति न चिरादीर्घसापत्यबाधा । प्रव्रज्यात्वं दुहितृजननं वर्धनं भोगभाक्त्वं दास्यं स्त्रीणां तुहिनकिरणे लग्नभावादिसंस्थे ॥' इति । अत्र चतुर्थचंद्रस्य प्रजाप्तिः फलमभिहितम् । तथैव श्रीपतिनापि । तथापि तद्वाक्ये 'सुखे तु कथितो बंधुक्षयः कैश्चन' इत्येकीयमतमनुसृत्य ग्रंथकृता चतुर्थस्थानस्य मध्यमत्वमंगीकृतम् । 'बंधुश्वशुरवियुक्तां चतुर्थसंस्थः शशी त्वष्टात्' इति शौनकोक्तेश्च । विरुद्धार्थयोः शौनक-वसिष्ठवाक्ययोः का गतिरिति चेत् । बालचंद्रविषयमशुभफलम् । तद्भिन्नचंद्रविषयं शुभफलम् । उक्तं च केशवा•ण- 'बालोऽजः प्रियविरहं शनिः स्तनांभःशून्यत्वं सृजति सुखे सुवासिनीनाम्' इति । पुनर्वसिष्ठः-'मृत्युः शोको बहुविधधनं भ्रातृवैरं कुबुद्धिलक्ष्मीप्राप्तिर्भवति मरणं चोभयोवंशनाशः । स्त्रीणां द्वेषो व्यसननिरतिः पुत्रपौत्रादिसिद्धिर्भीतिर्भूमेर्बलिनि तनये लग्नभावादिसंस्थे ॥ स्वच्छंदत्वं कदशनरतिर्वल्लभत्वं विशीलं व्याधिः सुश्रीम॒तिरथ सुखं गर्भपाकप्रवृत्तिः । द्यूतासक्तिर्भवति रविजे वैभवं वक्ररोगं स्वर्भानौ वाप्यथ शिखिनि वा लग्नभावादिसंस्थे ॥' इति ॥ ८५॥ अथ लग्नभंगिकर्तर्यादिमहादोषाणामपवादं शार्दूलविक्रीडितेनाहपापौ कर्तरिकारको रिपुगृहे नीचेऽस्तगौ कर्तरी दोषो नैव सितेऽरिनीचगृहगे तत्पष्टदोषोऽपि न । भौमेऽस्ते रिपुनीचगे न हि भवेद्भौमोऽष्टमो दोषक नीचे नीचनवांशके शशिनि रिसफाष्टारिदोषोऽपि न॥८६॥ पापाविति ॥ तत्र कर्तर्यपवाद उच्यते । कर्तरीयोगलक्षणम् 'लग्नात्पापौ' (६।४२) इत्यादिनोक्तम् । यौ ग्रहो क्रूरौ कतरिकारको रिपुगृहे शत्रुगेहे स्थितौ नीचेऽस्तगौ स्वनीचराशिस्थितौ अस्तंगतौ वा तदा कर्तरीदोषो नैव स्यात् । यदाहः १ बाल्येऽब्जः प्रियवियुतिमिति पाठः । Page #315 -------------------------------------------------------------------------- ________________ विवाहदोषापवादाः] विवाहप्रकरणम् ६ । २९९ कश्यपनारदवसिष्ठाः-'पापयोः कर्तरीकोंः शत्रुनीचगृहस्थयोः । यदा चास्तगयोर्वापि कर्तरी नैव दोषदा ॥' इति । इदं विशेषणं शत्रुगृहस्थत्वादिकं समुच्चितं व्यस्तं समस्तं वा ध्येयम् । ननु 'कर्तरिकारकौ' इत्यत्र कथं ह्रस्वत्वम् ? यावता कर्तरीशब्द 'उणादयो बहुलम्' इति बहुलोक्तेः 'कृती छेदने' इत्यस्मा. द्धातोर्निष्पन्नस्तत्र यदीकारांतस्तदा ड्यंतत्वाभावात् 'ड्यपोः संज्ञाछंदसोर्बहुलम्' इति हस्वत्वं न प्राप्नोति । यदापि-'कृदिकारादक्तिनः' इति ड्यंतत्वं तदा संज्ञाछंदसोरेवाभावाद्धस्वो न स्यात् । उच्यते-बहुलवचनादसंज्ञायामप्येवंविधे प्रयोगे ह्रस्व इति दुर्घटवृत्तिकृत् । अत एव 'वैदेहिबंधोर्हदयविद' इति कालिदासः। 'स्यादेतदेव प्रमदवनमंतःपुरोचितम्' इत्यमरसिंहोऽपि प्रयुक्तवान् । अपवादातरमुक्तं दैवज्ञमनोहरे गर्गः-'क्रूरकर्तरिसंयुक्तं लग्नं चंद्र च न त्यजेत् । केंद्र त्रिकोणसंस्थेषु गुरुभार्गववित्सु च ॥ इति । अन्यत्रापि पठ्यते । 'विधौ धनोपगे शुभग्रहेऽथवांत्यगे गुरौ । न कर्तरी भवत्यहो जगाद बादरायणः ॥' इति । क्रूरद्वयस्यांतरगं विलग्नं मृतिप्रदं चंद्रमसं च रोगदम् । शुभैर्धनस्थैरथवांत्यगे गुरौ न कर्तरी स्यादिह भार्गवा विदुः ॥' इति । अथ षष्ठशुक्रापवाद उच्यते-सिते शुक्रेऽरिनीचगृहगे शत्रुगृहे स्वनीचगृहगे वा सति तत्षष्ठदोषो भृगुषष्ठदोषोऽपि न स्यात् । यदाह कश्यपः'नीचराशिगते शुक्रे शत्रुक्षेत्रगतेऽपि वा । भृगुषष्ठोत्थितो दोषो नास्ति तत्र न संशयः ॥' इति । अथाष्टमभौमदोषापवाद उच्यते-भौमेऽस्ते अस्तंगते रिपुनीचगे शत्रुगृहे वा स्वनीचगृहगे वासति अष्टमो भौमो न दोषकृत्स्यात् । उक्तं च कश्यपेन-'अस्तगे नीचगे भौमे शत्रुक्षेत्रगतेऽपि वा। कुजाष्टमोद्भवो दोषो न किंचिदपि विद्यते ॥' इति । अथ षडष्टद्वादशस्थानचंद्रापवाद उच्यते-शशिनि चंद्रे नीचे वा नीचनवांशके वा सति रिःफाष्टारिदोषोऽपि द्वादशाष्टमशत्रुस्थानस्थितचंद्रदोषोऽपि न स्यात् । 'नीचराशिगते चंद्रे नीचांशकगतेऽपि वा । चंद्रे षष्ठारिरिःफस्थे दोषो नास्ति न संशयः ॥' इति कश्यपोक्तेः ॥ ८६ ॥ अथ विवाहे अब्ददोषाद्यनेकदोषाणामपवादं वसंततिलकयाह अब्दायनर्तुतिथिमासभपक्षदग्ध तिथ्यंधकाणबधिरांगमुखाश्च दोषाः । नश्यंति विद्गुरुसितेष्विह केंद्रकोणे ___ तद्वच्च पापविधुयुक्तनवांशदोषः ॥ ८७॥ अब्देति ॥ अब्ददोषः लुप्ताब्दादिः । १ अयनदोषः दक्षिणायनादिः । २ ऋतुदोषः वर्षादिः । ३ तिथिदोषो रिक्तादिः । ४ मासदोषः । ५ भं नक्षत्रदोषः क्रूरसाहित्यादिः। ६ पक्षदोषस्त्रयोदशदिनात्मकादिः।७ दुग्धातिथिः प्रसिद्धाः चापांत्यगे इत्यादिना अंधकाणबधिराख्यान्यंगानि लग्नानि तन्मुखा Page #316 -------------------------------------------------------------------------- ________________ मुहूर्तचिंतामणिः । [ अनुक्तदोषपरिहाराः स्तदादयोऽन्ये अकालवृष्ट्याद्या दोषा विगुरुसितेषु केंद्रकोणे केन्द्र सप्तमस्थानरहितं विवक्षितं, जामित्रदोषस्य सत्त्वात् । अत एवोक्तमग्रे 'त्रिकोणे केंद्रे वा मदनरहिते' (६।८९) इति । कोणे नवपंचमे सत्सु नश्यंति । उक्तं च कश्यपेन'अब्दायनर्तुमासोत्थाः पक्षतिथ्यृक्षसंभवाः । ते सर्वे नाशमायांति केंद्रसंस्थे शुभग्रहे । काणांधबधिरोद्भूता दग्धलग्नतिथेर्भवाः । ते दोषा नाशमायांति केंद्रसंस्थे शुभग्रहे ॥' इति । 'अकालजाश्च नीहारविद्युत्पांस्वभ्रसंभवाः । परिवेषप्रति सूर्यशक्रचापध्वजादयः ॥ दोषप्रदा मंगलेषु कालजाश्चेन्न दोषदाः । गुरुरेकोऽपि केंद्रस्थः शुक्रो वा यदि वा बुधः ॥ हरेः स्मृतिर्यथा हंति तद्वद्दोषानकालजान् । लत्तोपग्रह चंडीश चंद्र जामित्रसंभवान् ॥ तत्केंद्वगो गुरुर्हति सुपर्णः पन्नगानिव ॥' इति । अकालजत्वनिर्णयं यात्राप्रकरणे - 'यदि मास्सु चतुर्षु' ( ११।९५) इत्यादिना वक्ष्यति । तद्वच्चेति । तथा यदि पापः क्रूरो विधुयुक्तराशेर्नवांशे स्यात् ; यथा - चंद्रो मेषे सूर्य नवांशस्तद्दोषाभिधानं यज्ञोपवीतप्रकरणे तदा तत्कृतदोषोऽपि नश्यति । उक्तं च संहिताप्रदीपे - 'सचंद्रराशेरशुभो नवांशः प्रोक्तः सपापोsपि विलग्नसंस्थः । त्रिकोणकेंद्रेषु गुरुः सितो वा यदा तदासावशुभोsपि शस्तः ॥' इति ॥ ८७ ॥ ३०० अथोक्तानुक्तदोषाणां बहून्परिहारान् शालिन्याहकेंद्रे कोणे जीव आये खौ वा लग्ने चंद्रे वापि वर्गोत्तमे वा । सर्वे दोषा नाशमायांति चंद्रे लाभे तद्वद्दुर्मुहूर्तांशदोषाः ॥ ८८ ॥ केंद्रे इति ॥ केंद्रे कोणे, केंद्रं प्रसिद्धं; कोणं नवपंचमं; तत्र च जीवो गुरुः स्यात्तदा सर्वे दोषा नाशमायांति । उपलक्षणत्वादुधशुक्रावपि । यदाह नारदः – 'उक्तानुक्ताश्च ये दोषास्तान्निहंति बली गुरुः । केंद्रसंस्थः सितो वापि पन्नगान्गरुडो यथा ॥' इति । सितो बुधस्याप्युपलक्षणम् । उक्तं च कश्यपेन - 'काव्ये गुरौ वा सौम्ये वा यदा केंद्रत्रिकोणगे । नाशं यांत्य - खिला दोषाः पापानीव हरौ स्मृते ॥' इति । तत्रापि लग्नाख्यकेंद्रस्यातिबलवत्त्वात्तत्र स्थितो जीवः सर्वारिष्टहरः । तदुक्तं वसिष्ठेन – 'ये लग्नदोषाः कुनवांशदोषाः पापैः कृता दृष्टिनिपातदोषाः । लग्ने गुरुस्तान्विमलीकरोति फलं यथांभः कतकद्रुमस्य ॥' इति । अथवा, आये एकादशे रवौ सति दोषनाशः । 'यत्रैकादशगे सूर्ये दोषा नाशं ययुस्तदा । स्मरणादेव रुद्रस्य पापं जन्मशतोद्भवम् ॥' इति । अथवा, लग्ने वर्गोत्तमे स्वनवांशयुक्ते यथा मिथुने मिथुनांशश्च तदा दोषनाशः । अथवा, चंद्रे वर्गोत्तमे स्वनवांशस्थिते वा सति दोषनाशः । द्वितीयवाशब्दस्यानुक्तसमुच्चयार्थत्वाचंद्रो लग्नादुपचयस्थाने चेत्स्यात्तदापि सर्वदोषनाशः । एवं क्रमेण परिहारत्रयमुक्तम् । यदाह कश्यपः – 'वर्गोत्तमगते लग्ने वर्गदोषा लयं ययुः । चंद्रे चोपचये वापि ग्रीष्मे कुसरितो यथा ॥' इति । चंद्रे इति तद्वत्तेनैव प्रकारेण दुर्मुहूर्ता Page #317 -------------------------------------------------------------------------- ________________ विंशोपकाः] विवाहप्रकरणम् ६ । ३०१ रवावर्यमेत्यादयः अंशदोषाः पापग्रहनवांशाख्यास्ते सर्वे चंद्रे लाभे एकादशस्थानस्थिते सति नाशमायांति । कश्यपोक्तं च 'मुहूर्तलग्नषड्वर्वकुनवांशग्रहोद्भवाः । ये दोषास्तानिहत्येव यत्रैकादशगः शशी ॥' इति । अन्यदप्याह कश्यपः-'लग्नाइःस्थानगव्योमचरोत्थं दोषसंचयम् । शुभः केंद्रगतो हंति दावाग्निर्विपिनं यथा ॥' इति ॥ ८८ ॥ अथैवं विशिष्यदोषाभिधानपूर्वकं विशेषपरिहारानभिधायेदानी सामान्यतो दोषसमुदायस्यैकं परिहारं शिखरिण्याह त्रिकोणे केंद्रे वा मदनरहिते दोषशतकं हरेत्सौम्यः शुक्रो द्विगुणमपि लक्षं सुरगुरुः । भवेदाये केंद्रेऽङ्गप उत लवेशो यदि तदा समूहं दोषाणां दहन इव तूलं शमयति ॥ ८९ ॥ त्रिकोण इति ॥ त्रिकोणे ९।५ केंद्रे सप्तमरहिते १।४।१० यदि सौम्यो बुधस्तिष्ठेत्तदा दोषशतकं हरेत् । उक्तस्थानस्थितः शुक्रोऽपि द्विगुणं दोषशतकं दोषद्विशतं हरेत् । तथोक्तस्थानस्थितो गुरुरपि लक्षं दोषान् हरेत् । यदाह नारदः-'दोषाणां हि शतं हंति बलवान्केंद्रगो बुधः । अपहाय द्युनं, शुक्रो द्विगुणं लक्षमंगिराः ॥' अत्र शतशब्देनानेकसंख्यात्वं विवक्षितम् । अत एवाह कश्यपः-'बलवान्केंद्गः सौम्यो हंति दोषशतत्रयम् । घुनं विहाय दैत्येज्यः सहस्रं लक्षमंगिराः ॥' इति । भवेदिति । अङ्गपः लग्नस्वामी । उतशब्दो वार्थे । लवेशो लग्नगतांशनाथो वा आये ११ केंद्रे १।४।१० यदि भवेत्तदा सः दोषाणां समूहं शमयति । तत्र दृष्टांत:-दहनोऽग्निस्तूलं कासमिव शमयति । तदुक्तं नारदेन-'लग्नेट् लग्नांशनाथो वा चायगः केंद्रगोऽपि वा। राशिं निहंति दोषाणामिन्धनानीव पावकः ॥' इति । जातकेऽपि-'लग्नाधिपो यदा केंद्रे लग्नादेकादशालये । सर्वग्रहकृतं रिष्टमेकोऽपि विलयं नयेत् ॥' इति ॥ ८९ ॥ अथ लग्नविंशोपकाननुष्टुभाह द्वौ द्वौ ज्ञभृग्वोः पंचेंदौ रवौ सार्धत्रयो गुरौ । रामा मंदागुकेत्वारे साधैकैकं विशोपकाः ॥९० ॥ द्वाविति ॥ ज्ञभृग्वो रेखाप्रदयोः सतोद्वौं द्वौ विंशोपकौ । यथा-बुधस्य २, शुक्रस्य २, एवंविधे चंद्रे पंच ५, तादृशे सूर्ये सार्धत्रयः ३।३०, गुरौ रामास्त्रयः ३, एकमेकमेकैकं च साधैंककम् । एकशब्दस्य 'नित्यवीप्सयोः' इति द्विर्वचने 'एक बहुव्रीहिवत्' इति बहुव्रीहिवद्भावात् 'सुपो धातु-' इति विभक्तेलुकि सार्धशब्देन कर्मधारयस्तथा सति प्रत्येकं साधैंककमित्यर्थः । यथा-मंदे शनौ साधैंकम् ११३०, अगौ राहौ ११३०, केतौ १३०, भारे २६ मु० चि० Page #318 -------------------------------------------------------------------------- ________________ ३०२ मुहूर्तचिंतामणिः । [संकरजविवाहे नियतकालः भौमे ॥३०; एते विंशोपका रेखादातृग्रहाणां ज्ञेयाः, न मध्यमानां । निषिद्धानां च न । यदाह वराहः-'रवौ सार्धास्त्रयो भागाश्चंद्रे पंच गुरौ त्रयः । द्वौ शुक्र द्वौ बुधे चैव प्रोक्ता ह्येते विशोपकाः ॥ मंदे भौमे तथा राहौ साधं प्रत्येकमुच्यते । बलाबलवशादेवं विज्ञातव्या विशोपकाः ॥' इति । अत्र पद्ये राहोरुपलक्षणत्वात्केतोरपि साधैंकमेव बलं ग्राह्यमत एव मूले केत्वभिधानम् । नन्विदमयुक्तं; यतो नवग्रहप्राबल्ये सार्धेकविंशति २१३० विंशोपकात्मको योगो भवेत् , स चासंभवादनुपपन्नः; अत्युत्कृष्टे हि लग्ने विंशतिविंशोपकात्मकमेव बलं स्यान्न ततोऽधिकमिति। उच्यते,-विवाहादिलग्ने द्वयोरपि राहुकेत्वोयुगपत्समीचीनत्वस्य गगनकुसुमायमानत्वाद्यदैकस्य शुभत्वमपरस्याशुभत्वमिति तदैव विंशतिविंशोपका लग्ने संभवंति । द्वयोरप्यनिष्टत्वे सार्धाष्टादश । एवं यस्य यस्य ग्रहस्य रेखादातृत्वहानिस्तस्य तस्य तद्विंशोपकहानिरित्यर्थः । तत्र पंचभ्यो विंशोपकेभ्यो हीनं लग्नं त्याज्यमेव । पंचभ्योऽधिकं दशभ्यो हीनं निकृष्टफलं लग्नांतराभावे हितं । दशभ्योऽधिकं पंचदशभ्यो हीनं मध्यं ततोऽधिकं तूत्तममेवेति निष्कृष्टोऽर्थः ॥ ९ ॥ अथ ग्रहवशेन श्वशुरादिविभागज्ञानं सप्रयोजनमुपजात्याहश्वश्रूः सितोऽर्कः श्वशुरस्तनुस्तनुर्जामित्रपः स्यादयितो मनः शशी। एतद्धलं संप्रतिभाव्य तांत्रिकस्तेषां सुखं संप्रवदेद्विवाहतः ॥११॥ ___श्वभूरिति ॥ शुक्रः श्वश्रूः, सूर्यः श्वशुरः । अत्र कन्यानिमित्तशुभाशुभस्य विचारास्पदत्वात्तस्याः कन्यायाः श्वश्रूर्वरमाता श्वशुरो वरपिता तनुर्लग्नं तनुः स्वशरीरं जामित्रपः सप्तमाधीशो दयितो भर्ता ज्ञेयः शशी मनो ज्ञेयं; एतदलं एतेषां शुक्रादीनां बलं विचार्य तांत्रिकः तंत्रं सिद्धांतः 'तंत्रं प्रधाने सिद्धान्ते सूत्रवाये परिच्छदे' इत्यमरः । तं वेत्ति तांत्रिकः सिद्धांतवेत्ता ज्योतिर्वित् विवाहतो विवाहादनन्तरं तेषां श्वश्वादीनां सुखं स्यादिति प्रवदेत् । यदाह शौनकः-श्वशुरः सहस्रकिरणः श्वश्रू गुनंदनो विनिर्दिष्टः । होरागमार्थकुशलैर्जामित्रपतिः पतिः स्त्रीणाम् ॥ शारीरं लग्नवशात्सुखदुःखं मानसं शशांकवशात् ॥' इति । शाीयेऽपि—'श्वशुरोऽर्कः सितः श्वश्रूः स्त्रीणामस्तपतिः पतिः । एभिरुच्चोपगैरेषां शुभं नीचादिगैरसत् ॥' इति । विशेषांतरमप्युक्तं शाीये एव-'सूर्यात्पतिः स्त्री च विधोस्तथाराद्वित्तं सुतो ज्ञाच्छशुरं गुरोश्च । धर्मः सितादर्कसुताच वेश्म ब्रूयात्समुद्वाहविधौ युवत्याः॥' 'एतै चस्थितैः शत्रुगतैवैवाहिकं न सत् । स्वगृहोचत्रिकोणस्थैः शुभमेषां यथोदितम् ॥' इति ॥ ९१ ॥ ___ अथ संकीर्णजातीनां विवाहे नियतं कालविशेष मत्तमयूरछंदसाह कृष्ण पक्षे सौरिकुजार्केऽपि च वारे वये नक्षत्रे यदि वा स्यात्करपीडा । । १ समुद्राहविधौ स्वयुक्त्या' इति पाठः । Page #319 -------------------------------------------------------------------------- ________________ ३०३ प्राकर्तव्यकर्मणां दिनशुद्धिः] विवाहप्रकरणम् ६ । संकीर्णानां तर्हि सुतायुर्धनलाभ प्रीतिप्राप्य सा भवतीह स्थितिरेषा ॥ ९२॥ कृष्णेति ॥ कृष्णे पक्षे शनिभौमार्कवारे विवाहोक्तनक्षत्रादिभिन्ननक्षत्रेषु चकारात् 'व्याघातशूले' इत्यादिदुष्टयोगेष्वपि यदि संकीर्णानां अनुलोमप्रतिलोमजानां करपीडा विवाहः स्यात् तर्हि सा करपीडा सुतायुर्धनलाभप्रीतिप्राप्त्यै भवति । एषा स्थितिराचारोऽस्ति । अनुलोमजा मूर्धावसिक्तादयः। प्रतिलोमजाश्चाण्डालादयः । तल्लक्षणानि धर्मशास्त्रे तत एवावधार्याणि । वाग्रहणमेतदभावे विवाहाद्यावश्यकत्वे च प्रागुक्तदिनेऽपि कार्यमिति सूचनार्थम् । तदुक्तं शाीये-'कृष्णे पक्षे भानुभौमार्कजानां वारे योगे चापि धिष्ण्ये निषिद्धे । संकीर्णानां दारकर्म प्रशस्तं प्रीत्यर्थायुःप्राप्तये शौनकाद्याः ॥' इति । केशवार्कोऽपि-'प्रायेण संकरभुवामशुभक्षपक्षक्रूरक्षणेषु शुभकृत्करपीडनं स्यात्' इति ॥ ९२ ॥ अथ गांधर्वादिदुष्टविवाहे त्रिपदीचक्रे नक्षत्रशोधनमनुष्टुभाहगांधर्वादिविवाहेऽकाद्वेद४नेत्ररगुणें३दवः १ । कु१युगांगादमि३भूपरामाईत्रिपद्यामशुभाः शुभाः॥ ९३॥ गांधर्वादीति ॥ गांधर्वादिविवाहाः सलक्षणाः प्रागसाभिरभिहिताः, तेषु अर्कात् सूर्याक्रांतनक्षत्रमारभ्य चत्वार्यशुभानि, ततो द्वे शुभे, ततस्त्रीण्यशुभानि, तत एकं शुभं, तत एकमशुभं, ततश्चत्वारि शुभानि, ततः षडशुभानि, ततस्त्रीणि शुभानि, तत एकमशुभं, ततस्त्रीणि शुभानि; एतान्यष्टाविंशतिभानि त्रिपद्यामशुभशुभान्येव ज्ञेयानि । त्रयाणां पदानां समाहारस्त्रिपदी तत्र, ब्रह्मविष्णुरुद्रपदाभिधचक्रत्रये इत्यर्थः । अत्र संमतिग्रंथानुपलंभः ॥ ९३ ॥ अथैवं महता ग्रंथसंदर्भेण विवाहे सकलदोषमहादोषरहितां दिनशुद्धिमभिधायेदानीं ततः प्राकर्तव्यानामावश्यककर्मणां दिनशुद्धिं पृथ्वीछंदसाहविधोर्बलमवीक्ष्य वा दलनकंडनं वारकं । गृहांगणविभूषणान्यथ च वेदिकामंडपान् । विवाहविहितोडुभिर्विरचयेत्तथोद्वाहतो न पूर्वमिदमाचरेत्रिनवषण्मिते वासरे ॥ ९४ ॥ विधोरिति ॥ अत्र विधोश्चंद्रस्य बलमवीक्ष्यागृहीत्वा वाग्रहणात् सत्यवकाशे चंद्रबलं ग्राह्यं । दलनं गोधूमादेः पिष्टीकरणं, कंडनं तंडुलादेः मुसलाद्याघातादिना शोधनं, एतयोः द्वंद्वैकवद्भावः । वारको मंगलकलशः, गृहांगणविभूषणानि गृहभूषणानि चूर्णगैरिकचित्रादिलेखादी नि, अंगणभूषणं संमार्जनगोमयाद्यालेपः । अथानंतरं वेदिका चत्वरं वधूवरयोरुपवेशनार्थ स्थल Page #320 -------------------------------------------------------------------------- ________________ ३०४ मुहूर्तचिंतामणिः। [शुभे दिलक्षणम् विशेषः, मंडपो गृहाच्छादनं कटादिना वितानादिना वा । बहुवचनात्कटाहाद्यारोहणहरिद्राचंदनकांजिकाधारणादिसकलशुभप्रारंभान् एतानुद्वाहतः पूर्व विवाहोक्तैरुडुभिर्नक्षत्रैः पंचांगशुद्धिसहिते दिने रचयेत् । उपलक्षणत्वाद्यज्ञोपवीतादावपि । ततः पूर्व तन्नक्षत्रैरेतानभिहितशुभकर्मप्रारंभान् विरचयेत् । तथा इदमुक्तं कार्यजातं त्रिनवषण्मिते तृतीय-नवम-षष्ठमिते वासरे दिने पूर्व नाचरेत् । तदुक्तं शाीये-'दलनकंडनमंडपवेदिकागृहसुमार्जनवारकमंडपाः । करतलग्रहमध्यगतागतं तदखिलं विदधीत विवाहभे ॥ विवाहकृत्यं निखिलं विवाहभे विलोकयेन्नात्र बलं हिमश्रुतेः । नवत्रिषष्ठेऽह्नि विवाहपूर्वतो न वर्णको मंडपतैलमंगलम् ॥' इति । दैवज्ञमनोहरे निषिद्धभान्युक्तानि-'चित्राविशाखाशततारकाश्विनी ज्येष्ठाभरण्यौ शिवभाच्चतुष्टयम् । हित्वा प्रशस्तं फलतैलवेदिकाप्रदानकं कंडनमंडपादिकम् ॥' इति । कांजिकाधारणमुहूर्तोऽपि तत्रैव-'मूलेंदुरुद्रश्रवणार्कपोष्णविश्वेशचित्रानलरेवतीषु । संस्थापनं कांजिककुंडिकाया वारे रवेभूमिसुतस्य शस्तम् ॥' इति । वेदिकायां विशेषमाह केशवार्कः-'वेदिकां विरचयेद्यथा तथा स्थादियं प्रविशतः प्रदक्षिणा । स्युर्जनाश्रययवोप्तिवर्णकाः षण्णवत्रिदिवसेषु नाग्रतः ॥' इति । यवोप्तिः अंकुरार्पणाख्यं कर्म । जनाश्रया=मंडपः । 'मंडपोऽस्त्री जनाश्रयः' इत्यमरोक्तेः ॥ ९४॥ अथावसरप्राप्तवेदिकालक्षणं मंडपोद्वासनमुहूर्त च शालिन्याहहस्तोच्छ्राया वेदहस्तैः समंतात्तुल्या वेदी समनो वामभागे । युग्मे घो षष्ठहीने च पंच सप्ताहे स्यान्मंडपोद्वासनं सत् ॥९५॥ हस्तेति ॥ सद्मनो गृहस्य वामभागे हस्तोच्छ्राया एकहस्तमितोचा समंतासर्वतः चतुर्भिहस्तैस्तुल्या समाना तादृशी वेदी विवाहादिमंगलकृत्ये स्यात् । 'शोभाकारिस्तंभसोपानादियुक्ता च' इत्यनुक्तमपि ध्येयम् । तदुक्तं नारदेन-'हस्तोच्छ्रितां चतुर्हस्तैश्चतुरस्रां समंततः। स्तंभैश्चतुर्भिः सुश्लक्ष्णैर्वामभागे स्वसद्मनः ॥ समंडपां चतुर्दिश्च सोपानरुपशोभिताम् । प्रागुदक्प्रवणारंभां स्तंभहंसशुकादिभिः ॥ विचित्रितां चित्रकुंभैर्विचित्रैस्तोरणांकुरैः । एवंविधा समारोहेन्मिथुनं साग्नि वेदिकाम् ॥' इति । साग्नीति भिन्नं पदं मिथुनस्य विशेषणम् । वसिष्ठः-'षोडशारनिकं कुर्याच्चतुर्धारोपशोभितम् । मंडपं तोरणैर्युक्तं तत्र वेदिं प्रकल्पयेत् ॥ अष्टहस्तं च रचयेन्मंडपं वा द्विषट्करम् ।' इति । द्विगुणिताः षट्करा यस्य तं द्वादशहस्तम् ; उत्तमः षोडशहस्तः, मध्यमो द्वादशहस्तः, अधमोऽष्टहस्तः । अयं वैकल्पिको मंडपो गृहमानत एव कार्यों नतु खेच्छया। तदुक्तं सप्तर्षिमते विवाहपटले-'मंगलेषु च सर्वेषु मंडपो गृहमानतः। कार्यः षोडशहस्तो वा द्विषड्वस्तो दशावधि ॥ स्तंभैश्चतुर्भिरेवान वेदी मध्ये प्रतिष्ठिता। शोभिता चित्रिता कुंभैरासमंताच्चतुर्दिशम् ॥ द्वारविद्धा बलीविद्धा कूपवृक्षव्यधा तथा। न कार्या वेदिका तज्ज्ञैः शुभा मंगलकर्मसु ॥' बली-काष्ठपाषाणादिनिर्मितस्तंभः । व्रतबंधे संस्कार्यत्वात् Page #321 -------------------------------------------------------------------------- ________________ गोधूलिकमुहूर्तप्रशंसा] विवाहप्रकरणम् ६ । ३०५ बटुहस्तेन वेदीनिर्मितिः । विवाहे तु कन्यागृहे एव वरपूजनस्योक्तत्वाद्गृहस्थाश्रमस्य तदायत्तत्वाच कन्याहस्तेनैव वेदीनिर्माणम् । युग्मे इति । विवाहोत्तरं युग्मे समे द्वितीयचतुर्थादिके घरो दिने षष्ठदिवसहीने, तथा विषमे तु पंचमे सप्तमे चाहनि दिवसे मंडपोद्वासनं देवकोत्थापनं सच्छुभफलदातृ स्यात् । यदाह नारदः-'समे तु दिवसे कुर्याद्देवकोत्थापनं बुधः । षष्ठं च विषमं नेष्टं मुक्त्वा पंचमसप्तमौ ॥' इति । समेषु षष्ठं विषमेषु च पंचमसप्तमव्यतिरिक्तं दिनं नेष्टमित्यर्थः ॥ ९५॥ अथ प्राच्यशिष्टसंमतं मंडपादौ स्तंभनिवेशनमिंद्रवज्रयाहसूर्येऽगनासिंहधटेषु शैवे स्तंभोलिकोदंडमृगेषु वायौ। मीनाजकुंभे निर्ऋतौ विवाहे स्थाप्योऽग्निकोणे वृषयुग्मककै ॥९६॥ सूर्य इति ॥ कन्यासिंहतुलास्थिते सूर्ये शैवे ईशानकोणे, वृश्चिकधनुर्मकरस्थिते सूर्ये वायौ वायुकोणे, मीनमेषकुंभस्थिते सूर्ये निर्ऋतिकोणे, वृषमिथुनकर्कस्थिते सूर्येऽग्निकोणे स्तंभः स्थाप्य इत्यर्थः । यदाह शिल्पशास्त्रे विश्वकर्मा-'कन्यासिंहे तुलायां भुजगपतिमुखं शंभुकोणेऽग्निखातं वायव्ये स्यात्तदास्यं मकरधनुरलावीशखातं वदंति । कुंभे मीने च मेषे निर्ऋतिदिशि मुखं वायुकोणे हि खातं वह्नेः कोणे मुखं वै वृषमिथुनगते कर्कटे रक्षखातम् ॥' इति । एतद्यद्यपि गृहविषयमुक्तं तथापि वेदिनिर्माणाश्रयेण स्तंभनिवेशनं वृषादित्रित्रिराशिगतसूर्यवशेनाग्निकोणे सास्यं शिवकोणे खातम् , एवमन्यत्र राशिगते सूर्येऽन्यकोणेषु स्तंभनिवेशनमूह्यम् । यदाह विश्वकर्मा-'वेद्यां वृषाद्गृहे सिंहात्रिकं मीनात्सुरालये। ईशानतो व्यस्तगत्या पृष्ठं तस्य शुभावहम् ॥' इति । तस्य भुजगपतेः ॥ ९६ ॥ - अथैवं लग्ननिर्णयमभिधायेदानी घटिकालग्नसाधनं बहुगणितसाध्यं गोधूलिकथनं च गणितप्रयासरहितं वक्तुमवशिष्यते, तत्र सूचीकटाहन्यायेन गोधूलिप्रशंसां मंदाक्रांतयाहनास्यामृक्षं न तिथिकरणं नैव लग्नस्य चिंता नो वा वारो न च लवविधिों मुहूर्तस्य चर्चा । नो वा योगो न मृतिभवनं नैव जामित्रदोषो गोधूलिः सा मुनिभिरुदिता सर्वकार्येषु शस्ता ॥ ९७ ॥ नेति ॥ स्पष्टार्थमिदं पद्यम् । यदाह भागुरिः-'गोपैर्यष्ट्याहतानां खुरपुटदलिता याति धूली दिनांते सोद्वाहे सुंदरीणां विविधधनसुतारोग्यसौभाग्यदात्री । तस्मिन् काले न ऋक्षं न च तिथिकरणं नैव लग्नं न योगाः ख्याताः पुंसां सुखार्थ शमयति दुरितान्युच्छ्रितं गोरजस्तु ॥' ननु सकलदोषनिराकरणेनातिप्रशंसनाद्गोधूल्याः घटिकालग्नानां महादोषनिराकरणपूर्वकम Page #322 -------------------------------------------------------------------------- ________________ मुहूर्तचिंतामणिः । [गोधूलिकभेदः भिहितानां वैयर्थ्यप्रसंगः। न च गोधूल्यभावे घटीलग्नमवकाशवदिति वाच्यम् । गोधूल्यभावो हि दोषसत्त्वे सति स्यात् , 'न ऋक्षं न च तिथिकरणम्' इत्यादिना स्थूलसूक्ष्मसकलदोषापवादार्थत्वात्तस्या दोषलेशो नास्ति । उच्यते,-यदयं न ऋक्षमित्यादिः स्तुत्यर्थवादः । तेन गोधूल्याः प्रशंसायां तात्पर्य नतु विधिः, अन्यथा निषिद्धेषु अमावास्याभद्राभरणीत्यादिष्वपि गोधूलिलग्नं भवितुं युक्तं स्यात् । सामान्यवैयापत्तेरिष्टापत्तिरपि वक्तुमशक्या । तस्मादभिहिततिथ्यादिष्वेव यावच्छक्याखिलदोषपरिहारपूर्वकं घटीलग्नं कार्य, तदभावे गोधूलिलग्नं कार्यम् । यदाह लल्लः-'लग्नं यदा नास्ति विशुद्धमन्यद्गोधूलिक साधु तदा वदंति । लग्ने विशुद्ध सति वीर्ययुक्ते गोधूलिकं नैव फलं विधत्ते ॥ शुभाशुभयुतं सर्व राशेदोषं त्वनिंदितम् । विवाहलग्नवच्छेषं गोधूली प्राह भागुरिः ॥' इति । किंच-'कुलिकं क्रांतिसाम्यं च मूतौं षष्ठाष्टमः शशी । पंच गोधूलिके त्याज्या अन्ये दोषाः शुभावहाः ॥' इति दैवज्ञमनोहरीयवाक्यस्यापि वैयापत्तेः । गोधूल्यधिकारिण आह नारदः'प्राच्यानां च कलिंगानां मुख्यं गोधूलिकं स्मृतम् । गांधर्वादिविवाहेषु वैश्योद्वाहे च योजयेत् ॥ चतुर्थमभिजिल्लग्नमुदयात्तु सप्तमम् । गोधूलिकं हि भवति संपत्पुत्रादिसौख्यदम् ॥' इति । दैवज्ञमनोहरे-'घटीलग्नं यदा नास्ति तदा गोधूलिकं शुभम् । शूद्रादीनां बुधाः प्राहुन द्विजानां कदाचन ॥ महादोषान्परित्यज्य प्रोक्तधिष्ण्यादिकेषु च । कारयेद्गोरजो यावत्तावल्लग्नं शुभावहम् ॥' इति । 'लग्नशुद्धिर्यदा नास्ति कन्या यौवनशालिनी । तदा वै सर्ववर्णानां लग्नं गोधूलिकं शुभम् ॥' इति । अत एव भूपालवल्लभे'विप्रेषु घटिकाऽलाभे दातव्यं गोरजो बुधैः । संकीर्णे गोरजः शस्तं परेषु द्वितयं शुभम् ॥' इति । तत्र गोधूलिसूक्ष्मकालस्तु केशवार्केणोक्तः-'अनोभयत्र घटिकादलमिष्टमाहुह्यं तदंबरमणेरपि चार्धबिंबात्' इति । केचित्तु'यावदिनांते दिशि पश्चिमायां पश्येत्ततीयं रविबिंबभागम् । तस्मात्परं नाडिकयुग्ममेके गोधूलिकालं मुनयो वदंति ॥' इति; तदेतयोः पक्षयोर्यथादेशाचारं व्यवस्था ॥ ९७ ॥ अथ शीतकालादिभेदेन गोधूलीभेदं जलधरमालाछंदसाहपिंडीभूते दिनकृति हेमंततौँ स्यादर्धास्ते तपसमये गोधूलिः। संपूर्णास्ते जलधरमालाकाले त्रेधा योज्या सकलशुभाख्ये कार्ये । पिंडीभूत इति ॥ हेमंताख्ये ऋतौ हेमंतशब्देन शीतकाल उपलक्ष्यते । मार्गशीर्षादिमासचतुष्टये इत्यर्थः । तत्र दिनकृति सूर्ये पिंडीभूते ओदनगोलकसदृशे संध्यायां नीहाराद्यावृतत्वेन निष्प्रभे इत्यर्थः । तस्मिन् समये गोधूलि या। तथा तपसमये उष्णकाले चैत्रादिमासचतुष्टये सूर्येऽर्धास्ते अर्धबिंबस्य दृश्यत्वे अदृश्यत्वे च सति गोधूलिः । जलधरा मेघास्तेषां माला समूहस्तस्यो. त्पादके काले वर्षाकाले श्रावणादिमासचतुष्टये सूर्ये संपूर्णोऽस्तोऽदर्शनं यस्य Page #323 -------------------------------------------------------------------------- ________________ गोधूलिके निषिद्धाः] विवाहप्रकरणम् ६ । ३०७ तादृशे सति गोधूलिः। जलधरमालाशब्देन छंदोऽपि सूचितम् । न केवलमियं विवाहे एव किंतु सकलशुभाख्ये समस्ते शुभनामके कार्येऽपि ज्ञेया। यदाह वराहः-'गोधूलिं त्रिविधा वदंति मुनयो नारीविवाहादिके हेमंते शिशिरे प्रयाति मृदुतां पिंडीकृते भास्करे । ग्रीष्मेऽर्धास्तमिते वसंतसमये भानौ गते. ऽदृश्यतां सूर्ये चास्तमुपागते भगवति प्रावृदशरत्कालयोः ॥' इति ॥ ९८॥ अथ गोधूलिसमयेऽवश्यवयंदोषान् वैश्वदेवीछंदसाहअस्तं याते गुरुदिवसे सौरे सार्के लग्नान्मृत्यौ रिपुभवने लग्ने वेंदौ । कन्यानाशस्तनुमदमृत्युस्थे भौमे वोढुर्लाभे धनसहजे चंद्रे सौख्यम् ।। ९९ ॥ अस्तं याते इति ॥ गोधूलिरित्यनुवर्तते । गुरुदिवसे बृहस्पतिवारे सूर्येऽस्तं याते सूर्यास्तादनंतरं गोधूलिः शुभा स्यात् । नतु सूर्यास्तात्पूर्वमर्धघटिकं गोधूलिलग्नं कार्यम् , अर्धयामसद्भावात् । तथा सौरे शनिवारे सार्के सूर्यदर्शना सहिते गोधूलिः शुभा। नतु सूर्यास्तादनंतरं, कुलिकसद्भावात् । उपलक्षणत्वात् क्रांतिसाम्यमपि त्याज्यम् । तथा लग्नात्सायंकालीनलग्नान्मृत्यावष्टमे रिपुभवने षष्ठे वा लग्न एव वा चंद्रे सति कन्यानाशः स्यात् । तदुक्तं दैवज्ञमनोहरे'कुलिकं क्रांतिसाम्यं च मूतौँ षष्टाष्टमः शशी। पंच गोधूलिके त्याज्यअन्ये दोषाः शुभावहाः ॥' अत्र कुलिकशब्देन तत्कालसंभाव्यर्धयामाख्योऽपि वारदोषो गृह्यते, अन्येषां त्वसंभव एव । केचित्त्वाद्यपादे-'सार्क शनौ विरवि चित्रशिखंडिसूनौ तत्केवलं कुलिकयामदलोपलंभात्' इति केशवार्कोक्तं वाक्यं संमतिः कस्मान्न भवतीत्यूचुः । तच्चित्यम् । पूर्वापरग्रंथालोचनया तस्य पूर्वपक्षग्रंथोऽयम् , अन्यथा पंचम्यंतहेतूपादानवाक्यमनर्थक स्यात् । एतच्चाधुनैव निर्णेष्यते । लग्ने इति । लग्नस्थे मदनस्थे वा मृत्युस्थे वा भौमे सति वोढुर्वरस्य नाशो भवति । तदुक्तं ज्योतिःसंहितासारे'षष्टेऽष्टमे मूर्तिगते शशांके गोधूलिके मृत्युमुपैति कन्या। कुजेऽष्टमे मूर्तिगतेऽथवाऽस्ते वरस्य नाशं प्रवदंति गर्गाः ॥' इति । अन्योऽपि विशेषस्तत्रैव'षष्ठाष्टमे चंद्रजचंद्रजीवे क्षोणीसुते वा भृगुनंदने वा । मूतौ च चंद्रे नियमेन मृत्युर्गोधूलिकं स्यादिह वर्जनीयम् ॥' इति । 'धिष्ण्यं क्रूरयुतं त्याज्यं मूतौ षष्ठाष्टमः शशी। गोरजस्तत्प्रशंसंति संतः शनिदिनं विना ॥' इति । नन्विदं न वक्तव्यं, सप्तमसूर्यस्य 'अवीरामस्तेऽर्के' इति फलमभिहितम् ; 'अवीरा निष्पतिसुता' इति कोशः । एवं सति तादृशदोषदूषितस्य गोधूलिलग्नस्य चेदिहादरः तदा चंद्रशुद्धेरप्यादरः किमर्थम् ? किंच लग्नस्था अपि सूर्यभौमशनिराहुकेतवः पूज्याः स्युः । उक्तं च केशवाण-'गोधूलिकेऽपि विधुमष्टमषष्ठमूतौं यन्मोचयंति तदयं स्वरुचिप्रपंचः । पंचांगशुद्धिमयमेव १ विरवि रविरहितं । २ चित्रशिखंडिसूनौ गुरुवासरे। 'वाचस्पतिश्चित्रशिखंडिजः' इत्यमरः। Page #324 -------------------------------------------------------------------------- ________________ मुहूर्तचिंतामणि: । [राशिषु सूर्यस्य स्पष्टगतिः - विवाहविष्ण्यैर्यस्मादिदं सततमस्तगते पतंगे ॥ नांशो न लग्नमिह दृष्टयुतं स्वभ नार्कारिसौरितमसामपि संगभंगः । किं चंद्रचारभयमेकमिहास्तु किंच नात्र प्रमाणवचनं किमपि श्रुतं नः ॥ सार्क शनौ चिरवि चित्रशिखंडि सूनौ तत्केवलं कुलिकयामदलोपलंभात् ॥' इति । उच्यते, — विशेष विधेः सामान्यशास्त्रबाधकता न्यायसिद्धा । तत्र सामान्यतः पंचघटिकात्मकस्य सायंकालीनलग्नस्य सप्तमसूर्याख्यो महान्दोषस्तत्रापि पुनर्गोधूलिकाले सूर्यार्धबिंबरूपे सूक्ष्मे न सप्तमसूर्य दोषो विशेषवचनात् । तत्राप्ययं विशेषो यद्गोधूल्यां यथाशक्ति दोषहीनं विधेयम् । घटिकालग्ने त्वखिलदोषहीनमत एव गोधूलिलग्ने न ऋक्षमित्यर्थवादोपपत्तिः । तस्याप्ययं ' षष्ठेऽष्टमे मूर्तिगते' ( पृ० ३०७ ) इत्यत्र वाक्ये विशेषवचनात् । ' नात्र प्रमाणवचनं किमपि श्रुतं नः' इति तु प्रौढिवादमात्रम् । एतादृशानां मूलभूतवाक्यानामुपलंभात् । 'सार्क शनौ' इत्यादि तु 'कुलिकं क्रांतिसाम्यं च' (पृ० ३०६) इति वाक्यात्कुलिकादित्यागे स्वयंहेत्वभिधानपरम् । नत्वत्र तात्पर्यम् । सप्तमसूर्यातिरिक्तसकलदोषनिराकरणप्रवृत्तत्वात्तस्य । किंच यदि गोधूल्यां कोsपि लग्नदोषो नास्तीत्यभिमतं स्यात्तदैकविंशतिमहादोषनिरूपणात्प्राक् नारदो गोधूलिलग्नमभिदध्यात् । न च व्यतीपातादिष्वपि गोधूलि - लग्नं स्यादिति वाच्यम् । सामान्यवाक्यैरपि निषेधसत्त्वात् । किंचैवं ब्रुवतस्ता वेष्टापत्तिरेव स्यादित्यास्तां प्रसक्तानुप्रसक्तम् । लाभ इति । चंद्रे लाभस्थे धने द्वितीयस्थे सहजे तृतीयस्थे वा सति स्त्रीपुरुषयोः सौख्यं स्यात् । तदुक्तं संहितासारे - 'यत्रैकादशगश्चंद्र द्वितीयो वा तृतीयगः । गोधूलिका तु विज्ञेयशेषा धूलिरिति स्मृता ॥' इति ॥ ९९ ॥ 1 ३०८ अथावसरप्राप्तां घटिकालमसिद्ध्यर्थं प्रक्रियां वृत्तपंचकेन वक्तुकामस्तावसूर्य स्पष्टगति मिंद्रवज्रयाह मेषादिष्टशरा ५८ नगाक्षाः ५७ सप्तेषवः ५७ सप्तशरा ५७ गजाक्षाः ५८ । गोक्षाः ५९ खतर्काः ६० कुरसा : ६१ कुतर्काः ६१ कंगानि ६१ षष्टि ६० नवपंच ५९ भुक्तिः ॥ १०० ॥ मेषादीति ॥ स्पष्टार्थमिदं पद्यम् । मेषादिद्वादशसु राशिषु सूर्याक्रांतासु स्थूलकलात्मिका स्पष्टगतिरित्यर्थः । उक्तं च- - 'नागेषवो नगशरास्तुरगेषवोद्विबाणा भुजंगविषयाः क्रियतो नवाक्षाः । व्योमर्तवः शशिरसाः कुरसाः कुतर्काः षष्टिर्नवेषव इनस्य गतेः कलाः स्युः ॥' इति । इयं स्थूला गतिर्वासनासिद्धेति नार्षवचनापेक्षा । वासना च गणितस्पष्टा ॥ १०० ॥ अथ सूर्यस्य तात्कालिकीकरणमनुष्टुभाह— संक्रांतियातघस्राद्यैर्गतिर्निघ्नी खषद् ६० हृता । लब्धेनांशादिना योज्यं यातक्षं स्पष्टभास्करः ॥ १०१ ॥ Page #325 -------------------------------------------------------------------------- ________________ स्पष्टार्कादीष्टघटिकानयनं ] विवाहप्रकरणम् ६ । संक्रांतीति ॥ संक्रांतयो मेषाद्याः पंचांगदृष्टाः यद्दिने यस्यां घट्यां च स्युस्तत आरभ्य स्वाभीष्टस्थूलकालपर्यंतं यावदिनानि यावंत्यो घटिकाश्च भवंति तैर्मेषादीष्टराशिस्थे सवितरि सति तत्सूर्यस्थूलस्पष्टगतिर्गुण्या खषइभिः षष्ट्या ६० भक्ता यल्लब्धं तेंऽशा अवशिष्टं कलादि येऽशावयवास्ते आदिशब्दवाच्याः; तेन यातक्षं ऋक्षं राशिः सूर्यभुक्तमेषादिराशियुक्तः सन् तात्कालिकस्थूलस्पष्टभास्करः स्यात् ॥ १० ॥ अथेष्टकालिकलग्नानयनमनुष्टुभाह तनोरिष्टांशकात्पूर्वं नवांशा दशसंगुणाः । रामाप्ता लब्धमंशाचं तनोर्वर्गादिसाधने ॥ १०२ ॥ तनोरिति ॥ ग्रहबलसहितस्य लग्नस्य यो विहितो नवांशो दोषरहितो विचारितः सः ‘क्रियमृगास्यतौलिकेंदुभतो नवांश विधिरुच्यते बुधैः' इति गणनया यावत्संख्य आगच्छेत् तत् पूर्वनवांशा यावंतः स्युस्ते दशभिः संगुणाः संगुण्याःरामैस्विभिराप्ता यल्लब्धमंशाद्यमंशकलाविकलात्मकं तत्तनोरिष्टकालिक भुक्तं स्यात्तेन कृत्वा प्रागुक्त-'कुजशुक्रसौम्य-' (६।३७) इत्यादिप्रकारेण षड्वर्ग: साधन स्यात् । अत्रोपपत्तिः-यदि नवभिनवमांशैस्त्रिंशदंशा लभ्यते तदेष्टनवांशेन कियंत इति अत्र 'प्रमाणमिच्छा च' इत्यादिना इष्टनवांशानां त्रिंशद्गुणको भाजको नव संपन्नः, तत्र द्वयोरपि त्रिभिरपवर्ते दश गुणकः त्रयो भाजकः इत्युपपन्नं फलमिष्टांशाः स्युः। उक्तं च महेश्वरेण-'इष्टा. त्पूर्वनवांशका दशहता रामैर्हताः स्युर्लवाः' इति ॥ १०२॥ __ अथैवं साधिताभ्यां स्पष्टार्कलग्नाभ्यामिष्टघटिकानयनं शालिन्याहअर्काल्लग्नात्सायनाभोग्यभुक्तैर्भागैनिम्नास्वोदयात्खाग्निभक्तात् । भोग्यं भुक्तं चांतरालोदयाढ्यं षष्ट्या भक्तं स्वेष्टनाड्यो भवेयुः॥ अर्कादिति ॥ सायनादयनांशसहितात्सूर्यादाशिभोग्यांशैः सायनांशसू. र्याक्रांतराशेः स्वदेशीय उदयो मेषादिराशीनां पलात्मकं प्रमाणं गुण्यं खाग्निभिस्त्रिंशता भक्तं लब्धानि पलानि स्युः; एवं लग्नात्सायनांशाद्भुक्तांशैराक्रांतस्वदेशीयराश्युदयो गुण्यः खाग्निभक्तो लब्धानि भुक्तपलानि; एवं जातानां भोग्यभुक्तपलानामैक्यं कार्य तत्सायनांशलग्नार्कयोरंतरालोदयपलैर्युक्तं कार्य षष्ट्या भक्तं सूर्योदयादिष्टघटिका भवेयुः। अत्रोदयज्ञानं भास्कराचार्येणोक्तम्'लंकोदया नागतुरंगदस्रा २७८ गोंऽकाश्विनो २९९ रामरदा ३२३ विनाड्यः। क्रमोत्क्रमस्थाश्चरखंडकैः स्वैः क्रमोत्क्रमस्थैश्च विहीनयुक्ताः ॥ मेषादिषण्णामुदयाः स्वदेशे तुलादितोऽमी च षडुत्क्रमस्थाः ॥' इति । स्वैः स्वदेशीयैः । अत्र चरखंडानयनमपि तेनोक्तम्-'अयनलवदिनैः प्राङ्मेषसंक्रांतिकालाद्भवति दिवसमध्ये या प्रभाऽक्षप्रभा सा। दशगजदशनिघ्नी साक्षभांऽत्या त्रिभक्ता १ इंदुभतः कर्कात् । Page #326 -------------------------------------------------------------------------- ________________ मुहूर्तचिंतामणिः। [घटिकानयने विशेषः प्रतिगृहचरखंडानि' इति; 'अर्कस्य भोग्यस्तनुभुक्तयुक्तो मध्योदयात्यः समयो विलग्नात्' इति च ॥ १०३ ॥ ___ अथ घटिकानयने विशेष शालिन्याहचेल्लमाकी सायनावेकराशौ तद्विश्लेषनोदयः खाग्निभक्तः । खेष्टः कालो लग्नमूनं यदाांद्रात्रेः शेषोऽकोत्सषड्भान्निशायाम्॥ चेदिति ॥ लग्नाकौं सायनौ अयनांशसहितौ संतौ यद्येकराशौ स्यातां तदा तयोर्लग्नार्कयोविश्लेषोंतरांशास्तैर्गुणितः स्वदेशीय उदयः कार्यः । खाग्निभित्रिंशता भाज्यो लब्धमिष्टकालः सूर्योदयात्स्यात् । तत्र यदार्कात्सायनसूर्यादेकराशिस्थितं लग्नमूनं स्यात्तदा यः 'चेल्लग्नाकौं सायनौ' इत्युक्तदिशा खेष्टकाल आगतः सः सूयादयात्प्राक् रात्रिशेषो भवेत् । अयमर्थः-आनीत , इष्टकालः षष्ट्या पात्यः प्राग्दिनीयसूर्योदयानंतरमेतावानिष्टकालः अथवा रात्रिमानात्पात्यः प्राग्दिनीयसूर्यास्तादनंतरमेतावानिष्टकालः । एवमिष्टकाले सामान्यतो निर्णीते रात्रौ विशेष उच्यते । निशायां रात्रावळत्सषड्भाद्राशिषड्युक्तात्मागुक्तप्रकारेण 'अर्काल्लग्नात्' (६।१०३) इत्यादिनेष्टकालः साध्यः । स सूर्यास्तानंतरं भवेत् । यदाह भास्करः-'यदैकभे लग्नरवी तदा तद्भागांतरनोदयखाग्निभक्तम् । स्यादिष्टकालो यदि लग्नमूनं शोध्यो धुरात्रादथवा रजन्याः ॥ रात्रीष्टकाले तु सषड्भसूर्याल्लग्नं ततोऽप्युक्तवदिष्टकालः ॥' इति । अत्रांशप्रवृत्तेः पंच पलानि पात्यंते विहितनवांशप्रवेशसूचनार्थमिति दैवज्ञसंप्रदायः। एवमानीत इष्टकाले दंपत्योरन्योन्यवीक्षणं कार्यमित्याह कश्यपः'अन्योन्यवीक्षणं सम्यक्सुलग्ने कारयेत्सदा' इति । नारदोऽपि-'एवं सुलग्ने दंपत्योः कारयेत्सम्यगीक्षणम्' इति । एतेन परस्परावलोकनं सुलग्ने कार्यमितरत्तु समयांतरेऽपि विधेयमित्युक्तं भवति । तुल्यन्यायत्वादुपनयनादावपि साधितेष्टकाले संस्कार्याचार्ययोरप्यन्योन्यवीक्षणं कारणीयम् । 'शास्त्रोक्तमार्गेण सुलग्नकालं स्फुटं समानीय जलादियंत्रैः। संलभ्य तं मंगलसूक्ष्मकालं संलोकयेत्तत्र मिथोर्ध्वदृष्टिः ॥' इति सामान्यतो वसिष्ठोऽभिहितवान् । कश्यपोऽपि तथैवाह-'अन्योन्यवीक्षणं सम्यक् सुलग्ने कारयेत्सदा' इति । अनेन सुलग्नकाले अन्योन्यवीक्षणमेव मुख्यम् । पाणिग्रहणादिगायत्र्युपदेशादिकं तु तदुत्तरकालकर्तव्यतया गौणमिति प्रतिभाति । स चेष्टकालः कथं साधनीय इत्यत आह कश्यपः-'एवं गुणगणान् वीक्ष्य लग्नं निश्चित्य यत्नतः। सिद्धांतोक्तेन मार्गेण लग्नकालं प्रसाधयेत् ॥ जलयंत्रेण तल्लनं दद्यात्तेनार्चितो द्विजः । मुखं वृत्तं द्वादशभिरंगुलैश्च षडुन्नतम् ॥ घटार्धवत्ताम्रपात्रं कुर्यात्तद्दशभिः पलैः। षष्टिर्भजेदहोरात्रे घटिकापात्रमुत्तमम् ॥ माषत्रयव्यंशयुतस्वर्णवृत्तशलाकया। चतुर्भिरंगुलैरायतया विद्धं स्फुटं न्यसेत् । रवेरोदयं दृष्ट्वा वाप्यर्धास्तमयं तथा । पूवाक्तलक्षणं यंत्रं मंत्रेणानेन निक्षिपेत् ॥' १ 'मिथोऽर्थदृष्ट्या' इति पाठो लिखितपुस्तकानुगुणः । Page #327 -------------------------------------------------------------------------- ________________ सूर्यस्य तात्कालिकीकरणं ] विवाहप्रकरणम् ६ । ३११ निक्षिपेज्जलपूर्णपात्र इत्यर्थः । यदाह नारदः - 'ताम्रपात्रे जलैः पूर्णे गंधपुष्पैरलंकृते । तंडुलस्थे रत्नयुते शुचिभूमावहर्पतेः ॥ मंडलार्धोदयं वीक्ष्य जलपात्रे विनिक्षिपेत् ।' इति । मंत्रमप्याह स एव - 'यंत्राणां मुख्ययंत्रं त्वमिति धात्रा पुरा कृतम् । दंपत्योरायुरारोग्यसुपुत्रधनहेतवे ॥ जलयंत्रक मे तस्मादिष्टसिद्धिप्रदो भव ।' इति । ताम्रघटिकाद्यभावे द्वादशांगुलशंकुना कालः साध्यः । तदुक्तं कश्यपेन - ' अथवा साधयेत्कालं द्वादशांगुलशंकुना' इति । शंकुलक्षणमाह नारदः - 'न्यग्रोधखदिराश्वत्थरक्तचंदनवृक्षजम् । श्रीखंडागरुदंतोत्थमृजुशंकुम कल्मषम् । द्वादशांगुलमुत्सेधं परिणाहं षडंगुलम् | एवंलक्षणसंयुक्तं कल्पयेत्कालसाधने ॥' इति । शंकुना घटीज्ञानं तु करणकुतूहले भास्करेणाभिहितम् । यथा- - 'चरपलयुतहीना नाडिका : पंचचंद्रा १५ दलमथ निशार्धं याम्यगोले विलोमम् । दलगतघटीनामंतरं तन्नतं स्यान्नतरहितदिनार्धं चोन्नतं जायतेऽत्र ॥ दिनदलं विशरं खहरो भवेन्नतकृतिः पृथगनशराहता । खखनवाढ्यपृथक्स्थितया हृता खहरतः पतितोऽभिहितो हरः ॥ अथ नतं यदि पंचदशाधिकं दिनदलात्पतितं खहरस्तदा । प्रथमखंडहृतं दलितं चरं स्वगुणितं स्वषडंशविवर्जितम् ॥ दशयुतं पलकर्णहतं हतिईरहता श्रवणोंगुलपूर्वकः । रवियुतोनित कर्णहतेः पदं द्युतिरिनद्युतिवर्गयुतेः श्रुतिः ॥ श्रुतिविभक्तहृतिस्तु हरो भवेत्स पतितः खहरादवशेषकम् । पृथगिर्द खखनंदहतं हरात्खविषयैरवशेषविवर्जितैः ॥ फलपदं हि नतं यदि शेषकं दिगधिकं हर एव तदुन्नतम् ॥' इति ॥ १०४ ॥ अथ विवाहादिशुभकार्येष्वावश्यकान्वर्ज्य दोषानविस्मरणार्थं शार्दूलविक्रीडितत्रयेणाह— उत्पातान्सहपातदग्धतिथिभिर्दुष्टांश्च योगांस्तथा चंद्रेज्योशनसामथास्तमयनं तिथ्याः क्षयद्ध तथा । गंडांतं च सविष्टिसंक्रमदिनं तन्वंशपास्तं तथा तन्वंशेशविधूनथाष्टरिपुगान्पापस्य वर्गांस्तथा ॥ १०५ ॥ सेंदुक्रूरख गोदयांशमुदयास्ताशुद्धि चंडायुधा न्खार्जूरं दशयोगयोगसहितं जामित्रलत्ताव्यधम् । बाणोपग्रहपापकर्तरि तथा तिथ्यृक्षवारोत्थितं दुष्टं योगमथार्धयामकुलिकाद्यान्वारदोषानपि ।। १०६॥ क्रूराक्रांतविमुक्तभं ग्रहणभं यत्क्रूरगंतव्यभं धोत्पातहतं च केतुहतभं संध्योदितं भं तथा । Page #328 -------------------------------------------------------------------------- ________________ ३१२ मुहूर्तचिंतामणिः । [शुमे आवश्यकवयंदोषाः तद्वच्च ग्रहभिनयुद्धगतभं सर्वानिमान्संत्यजे दुद्वाहे शुभकर्मसु ग्रहकृताँल्लग्नस्य दोषानपि ॥ १०७॥ उत्पातानिति ॥ सेंदुक्रेति ॥ क्रूराक्रांतेति ॥ उत्पातादीन्दोषानुद्वाहे विवाहे यज्ञोपवीतादिशुभकर्मसु च संत्यजेदिति तृतीयश्लोकगतेनान्वयः उद्वाहग्रहणं गोबलीवर्दन्यायेन मुख्यत्वसूचनार्थम् । उत्पातान् त्रिविधान दिव्यांतरिक्षभौमान् लक्षणया तत्संबंधिसप्तवज्र्यदिवसांस्त्यजेत् । यदाह गुरुः'दिग्दाहे वा महादारुपतने चांबुवर्षणे । उल्कापाते महावाते महाशनिनिपातने ॥ अनभ्राशनिपाते च भूकंपपरिवेषयोः । ग्रामोत्पाते शिवाशब्दे दुनिमित्ते न शोभनम् ॥ केतवो यत्र दृश्यंते सधूमा वा पृथग्विधाः । चंद्रसूर्यग्रहे चैव वर्जयेद्दिनसप्तकम् ॥' इति । पातः महापातः, क्रांतिसाम्यमिति यावत् । तद्णितप्रसिद्धम् । दग्धतिथयः 'चापांत्यगे गोघटगे' (६।६४ ) इत्यादिनोक्ताः । एतैः सह संत्यजेदिति संबंधः । तथा दुष्टान् योगान् व्यतीपातवैधतिपरिघार्धादीन् । अथ चंद्रेज्योशनसां चंद्रगुरुशुक्राणां अस्तमयनमस्तं च तिथ्योः क्षयर्थी तिथिवृद्धिं तिथिक्षयं च पुनर्गडांतं नक्षत्रतिथिलग्नैः त्रिविधं विष्टिर्भद्रा संक्रमदिनम् 'देवड्यंक-' (६७८) इत्यादिना संक्रमकालादुभयतो वा घटिकाः अयनेषु विषुवेषु च पूर्वापरं त्रिदिनमिति विशेषो ध्येयः । ताभ्यां सहितमिति पूर्वेण संबंधः । तन्वंशपास्तं तनुर्लग्नं अंशो लग्नगतविहितनवांशः तौ पात इति तन्वंशपौ तयोरस्तं लग्नाधीशलग्ननवांशाधीशास्तं चेत्यर्थः। तथा तन्वंशेशविधून लग्नेशनवांशेशचन्द्रान् अष्टरिपुगान् अष्टषष्ठस्थानगान् तथा पापस्येत्येकत्वमविवक्षितम् । पापग्रहाणां वर्गान् सेन्दुक्रूरखगोदयांशं इन्दुश्च क्रूरखगश्चेदुक्रूरखगों उदयो लग्नं अंशो नवांशश्च उदयांशमिति समाहारद्वंद्वैकवचनम् । इन्दुरखगाभ्यां सहितमुदयांशं इंदुसहितं लग्नं लग्नांशं च क्रूरग्रहेण सहितं लग्नं लग्नांशं चेत्यर्थः। उदयास्ताशुद्धिचंडायुधान् उदयाशुद्धिरस्ताशुद्धिश्च इष्टोदयांशे निजपत्यदृष्टे वरस्य मृत्युस्तदसंयुते वा। अस्तांशकेऽप्येवमदृष्टयुक्ते स्वस्वामिना नाशमुपैति कन्या ॥' इति वसिष्ठाद्युक्तं । इतरथा ज्ञेयमशुभमिति ग्रंथक प्युक्तं प्राक् । चंडायुधं 'हर्षणवैधतिसाध्य-' (६।५८) इत्यादिनोक्तं, खार्जूरम् 'व्याघातगंड-' (६।६०) इत्यादिनोक्तं, दशयोगः 'सूर्यक्षचंद्रर॑युतेः' (६।६८ ) इत्यादिनोक्तः, योगो ग्रहयुतिश्च तत् सहितं जामित्रलत्ताव्यधं समाहारद्वंद्वैकवचनं । जामित्रं द्विविधं-लग्नजामित्रं चंद्रजामित्रं च; 'लग्नाञ्चंद्रात्' (६।६५) इत्यादिनोक्तं, लत्ता 'ज्ञराहुपूर्णेदुसिताः' (६।५७) इत्युक्ता। व्यधं वेधं सप्तशलाकोक्तं पंचशलाकोक्तं च । बाणाः पंचकं । उपग्रहः प्रसिद्धः 'शराष्टदिक्शक्र-' (६।६१) इत्यादिः । पापकर्तरी क्रूरग्रहकर्तरी समाहारद्वंद्वैकवचनम् । तिथ्यृक्षवारोत्थितं दुष्टं योगं तिथिनक्षत्रवारैः कृत्वोत्थितमुत्पन्नं दुष्टयोगं तथा तिथिनक्षत्रोद्भवम् । 'वैश्वमादिमे' (१।११) इत्यादि तिथिवारोद्भवम् । 'सूर्येशपंच-' ( ११८ ) इत्यादि नक्षत्रवारोद्भवम् । 'याम्यं त्वाष्ट्रम्' ( ११५ ) इत्यादि तिथिनक्षत्रवारोद्भवम् । 'हस्ताकं पंचमी-' (१।२०) इत्यादि अनेकं दुष्टयोगम् । अथार्धयाम १ मूले तु 'शशांकसूर्यःयुतेः' इति (पृ०२८७) पाठो लभ्यते, तदनुगुणमेव तत्र टीकाकृदयाख्यानमपि दरीदृश्यते; परमत्र 'सूर्यर्क्षचंद्रक्ष्युतेः' इति पठने हेतुस्तु चिन्त्य एव । Page #329 -------------------------------------------------------------------------- ________________ तैलादिलापनसंख्यानियमः] विवाहप्रकरणम् ६ । ३१३ कुलिकाद्यान् वारदोषानपि स्पष्टार्थ आदिशब्देन दुर्मुहूर्तादिकान् क्रूराक्रांतविमुक्तभं क्रूराक्रांत क्रूरविमुक्तं च भं ग्रहणभं यस्मिन् भे सूर्यचंद्रोपरागो जातस्तनं यत् क्रूरगंतव्यभं क्रूरेण जिगमिषितं यचं नक्षत्रं त्रेधोत्पातहतं च त्रिविधोत्पातैर्दिव्यभौमांतरिक्षरुत्पातहतं तन्मासषकं त्याज्यमेव केतुहतभं केतुना हतं भं च । ननु केतोर्दिव्योत्पातत्वाधोत्पातहतमित्यनेनैव निषिद्धमिति किं पुनर्विशेषनिषेधेन? उच्यते,-अशुभफलदकेतोराधूमनैः स्पशैंः स्थानैश्च नक्षत्रांतरेऽपि दोषवत्तास्ति । यदाह वराहः-'यद्येको यदि बहवः किमनेन फलं तु सर्वथा वाच्यम् । उदयास्तमनैर्वणः स्पशैराधूमनैः स्थानः ॥' इति । तथा संध्योदितं भं । अत्र संध्याशब्देन सायंसंध्या गृह्यते । तत्रोदितं तत्काले यन्नक्षत्रं प्राक् क्षितिजे उदितं तत्संध्योदितं सूर्याच्चतुर्दशं नक्षत्रमित्यर्थः । [नतु प्रातःसंध्यायाम् । तत्र हि सूर्येणाक्रांतभुक्ताग्र्यान्यतमसत्त्वात् । ] यदुक्तं केशवार्केण-तरणितारकोऽपि चतुर्दशं तदखिलेऽपि खिलं शुभकर्मणि' इति । तारकशब्दः क्लीबेऽपि, 'कनीनिकायां नक्षत्रे तारकं तारकेति च' इति विश्वः । ननूपग्रहत्वादेव निषेधे सिद्ध पुनर्दोषाभिधानं किमर्थम् ? उच्यते,-उपग्रहक्षदोषस्य सत्यावश्यकत्वे कुरुबाहीकविषयत्वाच्चतुर्दशस्य तु भस्य दोषाधिक्यसूचनादावश्यकेऽपि सर्वदेशविषयत्वेन निषेधो यथा स्यादिति । तद्वच्च ग्रहभिन्नयुद्धगतभं ग्रहेण भिन्नं ग्रहयुद्धगतं च भ षण्मासं निषिद्धम् । तथा ग्रहकृतान् लग्नस्य दोषान् 'व्यये शनिः खेऽवनिजः' (६।८४) इत्यादिकान् लग्नसंबंधिदोषान् संत्यजेत् ।भत्र मूलवाक्यानि सर्वाण्यस्मिन्नेव प्रकरणेऽभिहितानि, कानिचिदाद्यप्रकरणे इति पुनरत्र नोक्तानीति शिवम् ॥ १०५-७ ॥ ' कैश्चित्तैलादिलापने संख्यानियम उक्तस्तमाहमेषादिराशिजवधूवरयोर्बटोश्व तैलादिलापनविधौ कथितात्र संख्या । शैलादिशःशेरदिगक्षे गाँद्रिोणा बोणाक्षबाणेगिरयो विबुधैस्तु कैश्चित् ॥ १०८॥ मेषादिराशिजेति ॥ स्पष्टम् । देशविशेष औदीच्यादौ प्रसिद्धम् ॥ अथ विवाहप्रकरणं गयेनोपसंहरतिइति श्रीदैवज्ञानंतसुतदैवज्ञरामज्योतिर्विद्विरचिते मुहूर्तचिंतामणौ पष्ठं विवाहप्रकरणं समाप्तम् ॥ ६॥ स्पष्टार्थम् ॥ १ [ ] एतचिह्नांतर्गतो ग्रंथो लिखितपुस्तकेषु नास्ति । २ अयं सटीकः श्लोको लिखितपुस्तकेष्वनुपलंभात् अंकगत्यवसानाच्च शङ्कास्पदो भवति । २७ मु० चि० Page #330 -------------------------------------------------------------------------- ________________ मुहूर्तचिंतामणिः। [वधूप्रवेशे मुहूर्तः ज्योतिर्विद्वरनीलकण्ठविदुषः श्रीचंद्रिकायास्तथा पुत्रेणाहिगवीप्रसारितधिया मौहूर्तचिंतामणेः ॥ गोविंदेन विनिर्मिते नयविधौ पीयूषधाराभिधे व्याख्याने करपीडनप्रकरणं संपूर्णतामध्यगात् ॥ १ ॥ __इति श्रीमदैवज्ञमुकुटालंकारनीलकंठज्योतिर्वित्पुत्रगोविंदज्योतिर्विद्विरचितायां मुहूर्तचिंतामणिटीकायां पीयूषधाराभिधायां विवाहप्रकरणं समाप्तम् ॥ ६ ॥ अथ वधूप्रवेशप्रकरणम् ७। गणनायकमाराध्य विघ्नसंघनिवारकम् । वधूवेशप्रकरणं व्याख्याति विदुषां मुदे ॥ १ ॥ अथ वधूप्रवेशप्रकरणं व्याख्यायते । तत्र वध्वाः नूतनपरिणीतायाः कन्यायाः प्रथमतः करिष्यमाणो भर्तृगृहप्रवेशो 'वधूप्रवेश'शब्दवाच्यः इति अधुनावसरप्राप्तत्वात्तन्मुहूर्तमुपेंद्रवज्रयाह समाद्रिपंचांकदिने विवाहाद्वधूप्रवेशोऽष्टिदिनांतराले। शुभः परस्ताद्विषमाब्दमासदिनेऽक्षवर्षात्परतो यथेष्टम् ॥१॥ . समाद्रीति ॥ विवाहाद्विवाहदिवसादारभ्याष्टिदिनानि षोडशदिनानि तेषामंतराले समाद्रिपंचांकदिने समदिनानि द्वितीयचतुर्थषष्ठाष्टमदशमद्वादशचतुईशषोडशसंख्यानि विषममध्ये सप्तमपंचमनवमदिनानि तेषु वधूप्रवेशः वध्वा नूतनपरिणीतायाः कन्याया भर्तृगृहप्रवेशः शुभः शुभफलप्रदः । यदाह नारदः-'आरभ्योद्वाहदिवसाषष्ठे वाप्यष्टमे दिने । वधूप्रवेशः संपत्त्यै दशमेऽथ समे दिने॥' षष्ठादीनां समत्वादेव ग्रहणात् पुनस्तदुक्तिरतिप्राशस्त्यसूचनार्थम् । ज्योतिर्निबंधे तु विशेषः-'वधूप्रवेशनं कार्य पंचमे सप्तमे दिने । नवमे च शुभे वारे सुलग्ने शशिनो बले ॥' इति । परस्तात्प्रतिबंधवशात् षोडशदिनाभ्यंतरे वधूप्रवेशो न जातस्तदा तदनंतरं विषमाब्दमासदिने विषमवर्षे प्रथमतृतीयपंचमवर्षे विषममासे विवाहमासात्प्रथमतृतीयपंचमसप्तमनवमैकादशमासेषु विषमदिनानि सप्तदशादीनि तेषु वधूप्रवेशः शुभः । तत्रापि यदि प्रतिबंधवशात्कालातिक्रमः पंचवर्षात्मको जातस्तदा पंचवर्षादनंतरं यथेष्टं वर्षादिनियमो नास्ति किंतु दोषरहिते काले वधूप्रवेशो विधेयः । तदुक्तं च संग्रहे-'विवाहमारभ्य वधूप्रवेशो युग्मे दिने षोडशवासरांतः । ऊर्ध्वं ततोऽब्देऽयुजि पंचमांतं पुनः परस्तानियमो न चास्ति ॥' अत्राब्दे अयुजीति पद. च्छेदो द्रष्टव्यः। यदुक्तं जयतुंगे विवाहपटले-'वधूप्रवेशःप्रथमेऽत्र वर्षे तथा तृतीयेऽप्यथ पंचमे वा । सूर्येदुदेवेज्यबलेन कुर्यात्पुंसो मुनिौतम माह सत्यम् ॥' इति । समवर्षे दोषस्मरणाच्च । यदाह धर्मशास्त्रे नारदः-'समे वर्षे समे मासे यदि नारी गृहं व्रजेत् । आयुष्यं हरते भर्तुः सा नारी मरणं १ अत्र विधिवन्मुदे' इति लिखितपुस्तकेषु पाठः । Page #331 -------------------------------------------------------------------------- ________________ नवोढायाः पितृगृहादिवासफलं] वधूप्रवेशप्रकरणम् ७ । व्रजेत् ॥' इति । अयुग्मवत्सरनिषेधः पंचवर्षात्प्राक् ज्ञेयों न पश्चात्तद्वाक्यस्य प्रागभिधानात् ॥१॥ अथ वधूप्रवेशे नक्षत्रादिशुद्धिमनुष्टुभाह ध्रुवक्षिप्रमृदुश्रोत्रवसुमूलमघानिले । वधूप्रवेशः सन्नेष्टो रिक्तारार्के बुधे परैः ॥२॥ ध्रुवेति ॥ ध्रुवाणि रोहिण्युत्तरात्रयं च, क्षिप्राणि अश्विनीपुष्यहस्ताः, मृदूनि चित्रानुराधारेवतीमृगाः, श्रोत्रं श्रवणः, वसुर्धनिष्ठा, मूलं प्रसिद्धं, अनिलः स्वाती; एषु भेषु वधूप्रवेशः सन् शुभफलदः। रिक्ताः प्रसिद्धाः १९।१४ तिथयः, तथा आराौं भौमरविवारौ; तत्र नेष्टो न शुभः । रिक्तारा: इति समाहारद्वंद्वः । अर्थादन्यासु तिथिषु अर्काराभ्यामन्यवारेषु च वधूप्रवेशः प्रशस्त इत्यर्थः। उक्तं च व्यवहारतत्त्वे-'पौष्णात्कभाच श्रवणाच युग्मे हस्तत्रये मूलमघोत्तरासु। पुष्ये च मैत्रे च वधूप्रवेशो रिक्तेतरे व्यर्ककुजे च शस्तः॥' इति । कभरोहिणी । बुधे परैरिति । अन्यैः शिष्टैर्बुधवारे वधूप्रवेशो नेष्यते । कस्मिंश्चिद्देशे शिष्टाचारो यदुधवारे वधूप्रवेशो न विधीयते । केचिदत्र हेतुमपि वर्णयंति यहुधो नपुंसक इति । तच्चिंत्यम् । शनेरपि नपुंसकत्वात्तस्यापि निषेधो वाच्यः स्यात् । एवं निर्णीतो वधूप्रवेशो रात्रावेव कार्यों न दिवेत्युक्तं स्मृत्यर्थतत्त्वे-'वधूप्रवेशो न दिवा प्रशस्तो राजप्रवेशो न निशि प्रशस्तः । दिवा च रात्रौ च गृहप्रवेशः सत्कीर्तिदः स्यात्रिविधः प्रवेशः ॥' इति ॥ २॥ __ अथ विवाहानंतरं प्रथमेषु केषुचिन्मासेषु वध्वाः पित्रादिगृहनिवासे फलमिंद्रवंशाछंदसाहज्येष्ठे पतिज्येष्ठमथाधिके पतिं हंत्यादिमे भर्तृगृहे वधूः शुचौ । श्वश्रू सहस्से श्वशुरं क्षये तनुं तातं मधौ तातगृहे विवाहतः॥३॥ ज्येष्ठे इति ॥ विवाहतो विवाहादनंतरं भर्तृगृहे स्थिता यदि आदिमे प्रथमे ज्येष्टे मासि तिष्टंती वधूः पतिज्येष्ठं भर्तृज्येष्ठभ्रातरं हंति । एवमादिमेऽधिके मासि स्थिता वधूः पतिं भर्तारं हंति । आदिमे शुचावाषाढे श्वश्रं भर्तुजननी हंति । आदिमे पौषे श्वशुरं भर्तुः पितरं हंति । आदिमे क्षये क्षयमासे भर्तृगृहे तिष्टंती तनुं निजशरीरं हंति, म्रियत इत्यर्थः। तथादिमे मधौ चैत्रे तातगृहे पितृगृहे तिष्ठति तातं पितरं हंतीत्यर्थः । यदि कन्यायाः पित्राद्यभावस्तदा तत्तन्मासे तत्तद्नेहावस्थितौ सत्यामपि न कोऽपि दोष इत्यर्थः । उक्तं च मुहूर्तमार्तडे-'उद्वाहात्प्रथमे शुचौ यदि वसेद्भर्तुगृहे कन्यका हन्यात्तजननी क्षये निजतनुं ज्येष्ठे पतिज्येष्ठकम् । पौषे च श्वशुरं पतिं च मलिने चैत्रे स्वपित्रालये तिष्ठंती पितरं निहंति न भयं तेषामभावे भवेत् ॥' इति । मलिनेऽधिकमासे । क्षयमासाधिकमासयोर्लक्षणं संक्रांतिप्रकरणेऽभिहितम् । तस्मान्नववध्वा विवाहानंतरं ज्येष्ठाषाढपौषाधिकमासक्षयमासेषु भर्तृगृहे न स्थातव्यं किंतु पितृगृहे एव स्थातव्यम् । एवं चैत्रे मासि पितृगृहे न स्थातव्यं किंतु भर्तृगृहे एव स्थात Page #332 -------------------------------------------------------------------------- ________________ ३१६ मुहूर्तचिंतामणिः । [द्विरागमने मुहूर्तः व्यमिति फलितोऽर्थः। तदुक्तं ज्योतिर्निबंधे - 'विवाहात्प्रथमे पौषे आषाढे चाधिमासके। न सा भर्तृगृहे तिष्ठेच्चैत्रे पितृगृहे तथा ॥' आषाढो ज्येष्ठोपलक्षकः । अधिमासः क्षयमासोपलक्षकः । अत्र प्रमाणं (पृ. १३८) प्रागुक्तमिति ॥ ३ ॥ अथोपसंहरति इति श्रीदैवज्ञानंतसुतदैवज्ञरामज्योतिर्विद्विरचिते मुहूर्तचिंतामणौ वधूप्रवेशप्रकरणं समाप्तम् ॥ ७ ॥ ज्योतिर्विद्वरनीलकंठविदुषः श्रीचंद्रिकायास्तथा पुत्रेणाहिगवीप्रसारितधिया मौहूर्तचिंतामणेः ॥ गोविंदेन विनिर्मिते नयनिधौ पीयूषधाराभिधे व्याख्याने हि वधूप्रवेशसमयाध्यायः समाप्तिं गतः ॥ १ ॥ इति श्रीमद्देवशमुकुटालंकारनीलकंठज्योतिर्विस्पुत्रगोविंद विरचितायां मुहूर्तचिंतामणिटीकायां पीयूषधाराभिधायां वधूप्रवेशप्रकरणं समाप्तम् ॥ ७ ॥ अथ द्विरागमनप्रकरणम् ८ । गणनायकमाराध्य नीलकंठं गुरुं तथा । द्विरागमप्रकरणं व्याख्याति विदुषां मुदे ॥ १ ॥ अथ द्विरागमप्रकरणं व्याख्यायते । तत्र पूर्वं नववधूप्रवेशे जाते तदनंतरं परावृत्त्य पितृगृहं प्राप्ताया वध्वा यथेष्टवर्षाणि स्थितायाः पुनर्भर्तृगृहप्रवेशो द्विरागमशब्दवाच्यः; अयमाचारः प्राच्योदीच्यपाश्चात्यानामेवेति । अधुनावसरप्राप्तत्वात्तन्मुहूर्त पंचचामरछंदसाह— चरेदथौजहायने घटालिमेषगे खौ वीज्यशुद्धियोगतः शुभग्रहस्य वासरे । नृयुग्ममीनकन्यकातुलावृषे विलग्नके द्विरागमं लघुघुवे चरेऽस्रपे मृदूनि ॥ १ ॥ चरेदिति ॥ अथ वधूप्रवेशकथनानंतरं पुनर्वधूप्रवेशः द्विरागमनं वक्ष्यमानक्षत्रादिषु चरेत्कुर्यात् । कदा ? ओजहायने विषमवर्षे प्रथमे तृतीये पंचमे वा वर्षे सति, तथा घटालिमेषगे कुंभवृश्चिकमेषस्थिते रवौ, तथा वरस्य रवीज्यशुद्धिः रवेः सूर्यस्य इज्यस्य गुरोः शुद्धियोगतः, शुभग्रहस्य सोमबुधगुरुशुक्राणामन्यतमस्य वासरे सति, मिथुनमीनकन्यातुला वृषाणामन्यतमे लग्ने शुभग्रहावलोकिते शुभयुक्ते वा सति; लघूनि अश्विनीपुष्यहस्ताः, ध्रुवाणि प्रसिद्धानि, चराणि श्रवणादित्रयपुनर्वसुस्वात्यः, अस्रपो राक्षसस्तद्धं मूलं; मृदूनि प्रसिद्धानि एषु भेषु च द्विरागमः प्रशस्त इत्यर्थः । यदाह ऋक्षोच्चयः - ' तिष्यादि १ प्रथमे वर्षे पौषाषाढेऽधिमासके इति पाठः । Page #333 -------------------------------------------------------------------------- ________________ तत्र संमुखशुक्रदोषः ] द्विरागमनप्रकरणम् ८ ३१७ त्यसमीरणादितिव सुत्रीण्युत्तराण्यश्विनी रोहिण्यः शुभदाश्च वर्षमसमं मेषालिकुंभे रविः । कन्यामन्मथमीनभे नववधूयानं वृषे तौलिके देवाचार्यसितेंदुसौम्यदिवसे शुद्धे गुरौ भास्करे ॥' इति । ग्रंथकर्त्रात्र कानिचिह्नान्यधिकानि उक्तानि तानि राजमार्तण्डे नोक्तानि - ' नीहारांशुधनोत्तरादिति गुरुब्रह्मानुराधाश्विनीमूलाहस्करवारुणानिलहरित्वाष्ट्रेषु शस्त्रे तिथौ । कुंभाजालिगते रवौ शुभकरे प्राप्तोदये भार्गवे सूर्ये कीटघटाजगे शुभदिने पक्षे च कृष्णेतरे ॥ हित्वा दिक्प्रतिलोमगौ बुधसितौ लालाटिकं दिक्पतिं चानीता गुणशालिनी नववधूर्नित्योत्सवैर्मोदते ॥' लालाटिकान्योगान् यात्रायां (१०३६६) वक्ष्यति । शुक्रास्तनिषेधस्तु सामान्यतो 'वाप्याराम - ( १४६ ) इत्यादिनोक्त एवेति न पुनरुक्तः । यद्यपि प्राक् सामान्येन कालशुद्धिरुक्ता तथाप्यावश्यकत्वे - 'चैत्रे पौषे हरिस्वमे गुरोरस्ते मलिम्लुचे । नवोढागमनं नैव कृते पंचत्वमाप्नुयात् ॥' इति बादरायणवाक्यान्नैव वधूप्रवेशः कार्यः ॥ १ ॥ अथ द्विरागमने संमुखशुक्रदोषं प्रहर्षिणीछंदसाह - दैत्येज्यो भिमुखदक्षिणे यदि स्थागच्छेयुर्न हि शिशुगर्भिणीनवोढाः । बालजति विपद्यते नवोढा चेद्वंध्या भवति च गर्भिणी त्वगर्भा ॥ २ ॥ 1 दैत्येज्य इति ॥ यदि दैत्येज्यः शुक्रोऽभिमुखदक्षिणे गंतव्यदिगभिमुखे तुर्दक्षिणभागे वा स्थितः स्यात्तदा शिशुर्बालः गर्भिणी गर्भवती नवोढा नूतनपरिणीता चेत् व्रजेत्तदा बालश्चेत् विपद्यते म्रियते नूतनपरिणीता नवोढा चेत् वंध्या अपत्यसंभवरहिता स्यात् । गर्भिणी त्वगर्भा गर्भरहिता स्यात् । गर्भस्राववती भवेत् । यदाह बादरायणः - 'अस्तं गते भृगोः पुत्रे तथा संमुखमागते । नष्टे जीवे निरंशे च नैव संचालयेद्वधूम् ॥ गर्भिण्या बालकेनापि नववध्वा द्विरागमे । पदमेकं न गंतव्यं शुक्रे संमुखदक्षिणे ॥ गुर्विणी स्रवते गर्भ बालो वा मरणं व्रजेत् । नवा वधूर्भवेद्वंध्या शुक्रे संमुखदक्षिणे ॥' यदि शुक्रः पूर्वस्यामुदितः - पूर्वदिशं गंतुः संमुखः, एवमुदीचीं गंतुर्दक्षिणः, पश्चिमां गंतुः पृष्ठे, दक्षिणां गंतुर्वामे स्यात् तदा पूर्वोत्तरे दिशौ न गच्छेत्, किंतु पश्चिमदक्षिणे दिशौ गच्छेत् । यदि पश्चिमायामुदितः शुक्रः- पश्चिमां गंतुः संमुखः, एवं दक्षिणां गंतुः दक्षिणः, पूर्वां गंतुः पृष्ठे, उत्तरां गंतुर्वामः, तदा पश्चिमदक्षिणे दिशौ न यायात्, किंतु पूर्वोत्तरे दिशौ गच्छेत् । 'पृष्ठे भृगौ पुत्रवतीं प्रयाणे कांतां कुलीनां सुभगां करोति । अग्रे सुदुःखं विदधाति शुक्रो वैधव्यशोकौ खलु नास्ति शुक्रे ॥' इति । केचिद्दीपोत्सवप्रतिपदि नक्षत्रादिनियमं विनैव वधूप्रवेशं वांछंति । उक्तं च- - 'अस्तं गते गुरौ शुक्रे सिंहस्थे वा बृहस्पतौ । दीपोत्सव - बलेनैव कन्या भर्तृगृहं विशेत् ॥' इति, तदेतच्छिष्टाचारतो ज्ञेयम् । अत्र १ मन्मथः=मिथुनम् । २ नास्ति शुक्रे, शुक्रास्ते इत्यर्थः । नास्ति शुक्रः इति पाठे यदि शुको नास्ति नाम अस्तंगतस्तदा वैधव्यशोकौ इत्यर्थः । Page #334 -------------------------------------------------------------------------- ________________ ३१० मुहूर्तचिंतामणिः। . [तत्रापवादाः लग्नशुद्धिमाह बादरायणः-'उपचयगते जीवे भृगौ केंद्रमुपागते । शुद्धे लग्ने शुभाक्रांते गंतव्यं भर्तृमंदिरम् ॥' इति ॥ २॥ __अथ प्रतिशुक्रापवादं मंजुभाषिण्याहनगरप्रवेशविषयाग्रुपद्रवे करपीडने विबुधतीर्थयात्रयोः । नृपपीडने नववधूप्रवेशने प्रतिभार्गवो भवति दोषकन्न हि ॥३॥ नगरेति । नगरप्रवेशे विषयो देशः आदिशब्देन ग्रामः तस्योपद्रवे अन्यराजकृतोपद्रवे सति दुर्भिक्षादिना वोपद्वे सति गंतव्यदिशि प्रतिशुक्रदोषो नास्ति । करपीडने विवाहोद्देशेन यात्रायां सत्यां वा विबुधा देवास्तेषां यात्रा, यथा नगरकोटयात्रा देवयात्रा तीर्थयात्रा प्रयागादिका तयोः । नृपपीडने नृपाद्राज्ञः सकाशात्पीडने पीडायां दंडादिकृतायां सत्यां,नववधूप्रवेशने नूतनपरिणीतायाः कन्यायाः भर्तृगृहप्रवेशे; एतेषामन्यतमसद्भावे प्रतिभार्गवः संमुखशुक्रो दोषकृन्न हि भवति । यदाह बादरायणः-स्वभवनपुरप्रवेशे देशानां विभ्रमे तथोद्वाहे । नूतनववागमने प्रतिशुक्रो नैव दूषयति ॥' 'एकग्रामे पुरे वापि दुर्भिक्षे दुष्टैविप्लवे । विवाहे तीर्थयात्रायां प्रतिशुक्रं न दुष्यति ॥' इति । नूतनवधूग्रहणादभिगमनं (अन्य?) स्त्रीणां प्रतिशुक्रं यात्रायां महान्दोषः । तद्वाक्यं प्रागुक्तम् ॥३॥ __ अथ प्रौढस्त्रीणां द्विरागमने तथा गोत्रपरत्वेन च प्रतिशुक्रापवादांतरमिंद्रवंशाछंदसाहपित्र्ये गृहे चेत्कुचपुष्पसंभवः स्त्रीणां न दोषः प्रतिशुक्रसंभवः । भृग्वंगिरोवत्सवसिष्ठकश्यपात्रीणां भरद्वाजमुनेः कुले तथा॥४॥ पित्र्ये इति॥चेत्पित्र्ये पितुरिदं पित्र्यम् , 'वाय्वृतुपित्रुषसो यत्' इति यत्प्रत्ययः । तस्मिन्पित्र्ये गृहे कुचौ स्तनौ पुष्पमृतुः तत्संभवः स्यात्तदा स्त्रीणां प्रतिशुक्रसंभवो दोषो नास्ति । उपलक्षणत्वाद्भर्तुः सूर्यगुरुशुद्धिराहित्यसंभवोऽपि दोषो नास्तीत्यर्थः । तदुक्तं चंडेश्वरेण-'पित्र्यागारे कुचकुसुमयोः संभवो वा यदि स्यात्पत्युः शुद्धिर्न भवति रवेः संमुखो वाथ शुक्रः । शस्ते लग्ने गुणवति तिथौ चंद्रताराविशुद्धौ स्त्रीणां यात्रा भवति सफला सेवितुं स्वामिसन ॥' इति । वाशब्दाद्गुरुशुद्धिरपि चेन्न भवतीत्यर्थः । अथ भृगुरंगिरा वत्सो वसिष्ठः कश्यपोत्रिश्चैते ऋषयः तेषां कुले वंशे तथा भरद्वाजमुनेः कुले। कोऽर्थः ? भृग्वंगिरोवत्सवसिष्ठकश्यपात्रिवंशोत्पन्नानां तथा भरद्वाजवंशोत्पन्नानामपि प्रतिशुक्रसंभवो दोषो नास्ति । यदाह बादरायणः-'कश्यपेषु वसिष्ठेषु भृग्वत्र्यांगिरसेषु च । भारद्वाजेषु वात्स्येषु प्रतिशुक्रं न दुष्यति ॥' इति । अयं चापवादो यात्रामात्रसाधारणः न द्विरागमने एव, संमतिवाक्ये विशेषानुक्तेः । एवं प्राक्पद्योक्तेऽप्यपवादो ध्येयः । केचिच्छुभमाहुः । यदाह महेश्वरः-'एतेषां प्रतिशुक्रयानमशुभं ये वत्सभृग्वंगिरोभारद्वाजवसिष्ठकश्यपकुलोत्पन्नास्तथाऽत्रेः कुले । दुर्भिक्षे विषयप्लवे च नियतं न स्याद्विवाहे तथा तीर्थानां गमने तथैकनगरे १ प्रतिशुक्रविचारणा नास्तीति पाठो लिखितपुस्तकेषु । २ राष्ट्रविप्लवे इति पाठः । Page #335 -------------------------------------------------------------------------- ________________ प्रतिशुक्रेऽपवादाः] द्विरागमनप्रकरणम् । ३१९ ग्रामे च सौम्यं तथा ॥' इति । सोमस्यापत्यं सौम्यो बुधः 'सोमाद्यञ्' इति यञ् । बुधसांमुख्येऽपि भृग्वादिगोत्रोत्पन्नानामपि तथा यानमशुभं नास्ति । चकाराद् दुर्भिक्षाद्युपद्रवसद्भावेऽन्येषामपि यानमशुभं नास्तीत्यर्थः । तच्चिंत्यम् । मूलवाक्यस्यापवादरूपस्यानुपलंभात् । किंच यथा साधारण्येन यस्याकस्यांचिद्दिशि यात्रायां प्राप्तायां शुक्राधिष्ठिता दिनिषिद्धा सा च बादरायणादिवाक्यैरपोह्यते तथा बुधसांमुख्ये गमन निषेधानुक्तेरेतदपवादस्यायुक्तत्वदर्शनात् । ननु-'प्रतिशुक्र प्रतिबुधं प्रतिभौमं गतो नृपः । बलेन शक्रतुल्योऽपि हतसैन्यो निवर्तते ॥' इति वसिष्टोक्तिरेव सा बुधसांमुख्यदोषनिषेधबोधिकास्ति । किंच-'कुजाय वृषभं दद्यात्स्वर्ण दद्यादुधाय च । तत्तत्संमुखजो दोषस्तत्क्षणादेव नश्यति ॥' इति बुधसांमुख्यदोषनिराकरणार्थापि तदुक्तिरेवास्ति प्रमाणमिति चेत् । सत्यम् । 'प्रतिशुक्र प्रतिबुधम्' इत्यादिवाक्यैबुंधसांमुख्यमपि दोषावहमेवेति प्रतीयते । अत्रार्थवादोऽप्यभाणि श्रीपतिना'प्रतीदुजं भूमिपतेर्गतस्य नान्ये ग्रहास्त्राणविधौ समर्थाः' इति । त्राणं रक्षणम् । नारदेनापि-प्रतींदुजकृतं दोष हंतुं शक्ता ग्रहा न हि' इति । तत्र गोत्रादिविषयत्वेन परिहारो योऽभिहितः स शुक्रसांमुख्य एव न तु बुधसांमुख्ये । यतो गोत्रपरिहारवाक्यांते 'प्रतिशुक्रं न विद्यते' इत्युक्तम् । ननु-प्रतिशुक्रम्' इत्यादिवाक्योपात्तस्य प्रतिबुधदोषस्याप्ययं परिहारोऽस्तु दोषकथनानंतरमेव तस्याभिधानात् । प्रतिशुक्रपदं तु मुख्यतां सूचयितुमुपात्तं तदभिप्रायेण 'सौम्यं तथेति' महेश्वरोक्तिः साधीयसीति चेन्न । यद्येषोऽभिप्रायोऽभिमतः स्यात्सौम्यं तथेतिवद्गौमं तथेति वक्तव्यं स्यात् । तच्च नोक्तम् । किंच प्रतिशुक्रपदं मुख्यतां सूचयितुमुपात्तमित्युक्तं तदप्ययुक्तम् । कुतः ? शुक्रास्तदोषस्य महत्त्वोक्तेः न तद्विषयकोऽयं गोत्रादिपरिहारः । 'कामं व्रजेद्वा प्रतिशुक्रमस्तंगते च यायान्न जिगीषुरत्र' इति श्रीपत्युक्तेः । शुक्रास्तदोषस्यापवादो बुधानुकूल्यमपि तेनैव-'अस्तंगतेऽप्यास्फुजिति प्रयायाहुधो यदि स्यादनुकूलवर्ती' इति । अनुकूलवर्ती यातव्यदिक्पृष्ठवर्ती । बुधप्रातिकूल्यं तु महादोषावहमेव । तद्वाक्यं प्रागभिहितम् । परंतु बुधास्तः समीचीनोऽसमीचीनो वेति कैरपि वचनं युक्तिर्वा न काचिदभ्यधायि । तस्माद्वाचनिकेऽर्थे न युक्तिः प्रभवेदिति बुधसांमुख्ये गोत्रादिपरिहारो न शिरोमणिपदवीमारोहति । आदिशब्दात् 'स्वभवनपुरप्रवेशे देशानां विभ्रमे तथोद्वाहे । नूतनवध्वागमने प्रतिशुक्रविचारणा नास्ति ॥ एकग्रामे पुरे वापि दुर्भिक्षे राष्ट्रविप्लवे । विवाहे तीर्थयात्रायां प्रतिशुक्रं न दुष्यति ॥' इत्यादि । तुल्यन्यायत्वाद्भौमसांमुख्येऽपि न वसिष्ठावृषिवचनाऽभावात् । किंतु शुक्रसांमुख्य एव स परिहारः सोऽपि सर्वेषां यात्रामात्रसाधारणः परंतु शिशुगर्भिणीनववधूनां 'अस्तं गते भृगोः पुत्रे' इत्यादि बादरायणवाक्यात्तु विशेषफलावगतिमात्रं तत्रैषां शिश्वादीनां बुधसांमुख्यविचारस्तु दूरापास्त एवेत्यलमतिप्रसंगेनेति शिवम् ॥ ४॥ Page #336 -------------------------------------------------------------------------- ________________ ३२० मुहूर्तचिंतामणिः । [अन्याधाननिर्णयः द्विरागमनप्रकरणं गयेनोपसंहरतिइति श्रीदैवज्ञानंतसुतदैवज्ञरामज्योतिर्विद्विरचिते मुहूर्तचिंतामणौ द्विरागमनप्रकरणं समाप्तम् ॥ ८॥ स्पष्टार्थम् ॥ ज्योतिर्विद्वरनीलकंठविदुषः श्रीचंद्रिकायास्तथा पुत्रेणाहिगवीप्रसारितधिया मौहूर्तचिंतामणेः ॥ गोविंदेन विनिर्मिते नयनिधौ पीयूषधाराभिधे व्याख्याने पुनरागमनप्रकरणं संपूर्णतामध्यगात् ॥ १ ॥ इति श्रीमदैवज्ञमुकुटालंकारनीलकंठज्योतिर्वित्पुत्रगोविंदज्योतिर्विद्विरचितायां मुहूर्तचिंतामणिटीकायां पीयूषधाराभिधायां द्विरागमनप्रकरणं समाप्तम् ॥८॥ अथानयाधानप्रकरणम् ९। गणनायकमाराध्य नीलकंठं गुरुं तथा । अग्निहोत्रप्रकरणं व्याख्याति विदुषां मुदे ॥ १ ॥ अर्धाग्याधानप्रकरणं व्याख्यायते । तत्राग्निर्धीयते श्रौतेन स्मार्तेन वा कर्मविशेषेणेत्यन्याधानम् । तत्र विप्रवदंते । केचित्पाणिग्रहणसमये एव अन्याधानमाहुः । अपरे पित्रा भ्रातृभिः सह वा विभागकाल एवेत्याहुः । उक्तं च श्रुतौ-'आवसथ्याधानं दारकाले दायाद्यकाले एकेषाम्' इति पारस्करः। दायाद्यकाले विभागकाले । एतदेवाभिप्रेत्योक्तं महेश्वरेण-'अग्न्याधानं दारकाले विधेयं कैश्चित्प्रोक्तं तच्च दायाद्यकाले' इति । अन्ये वसंतातुपुरस्कारेण वर्णविशेषे आहुः। तदुक्तं श्रुतौ-'वसंते ब्राह्मणोऽग्नीनादधीत ग्रीष्मे राजन्यः शरदि वैश्यो वर्षासु रथकार आदधीत' इति । इतरे तु श्रद्धोदये एवाहुः । एतदप्युक्तं श्रुतौ-'यदहरेवैनं श्रद्धोपरमेत्तदहरेवादध्यात्' इति । एतच्च सोमान्याधानविषयम् । यदाह आपस्तंबः-'सोमेन यक्ष्यमाणो नर्तुं प्रतीच्छेन्न नक्षत्रम्' इति । तत्र पाणिग्रहणकालस्य प्रागुक्तस्वात्तत्क्षणारभ्यमाणान्याधानार्थं न मुहूर्तगवेषणा, एवं पित्रादिभिः सह यस्मिन्काले विभागो जातः तस्मिन्काले यथाकथंचियतीपातभद्रादिदोषरहिते आधान कार्यमेव तदापि उत्तरायणादिकालशुद्ध पेक्षा । तत्रापि यदि प्रतिबंधवशादाधानाभावो जातस्तदा कालशुद्धिर्वक्ष्यमाणविधया विचार्यैव । अथ येषां वर्णानां वसंतावृतवः सोमयागाद्यर्थ नियता एवोक्तास्तेषां यद्यप्युत्तरायणविचारो नास्ति संभवव्यभिचाराभावात् , तथापि शुक्रास्तादिदोषनिवारणार्थ मुहूर्तो गवेष्य एव । येषां तु श्रद्धोदये एवाधानमिति पक्षस्तेषां सोमाधानमेव श्रद्धोदये इति यथाकथंचित्पंचांगशुद्धिर्विचार्या नर्तुनक्षत्रादिप्रतीक्षा। 'शरदि वाजपेयेन यजेत' इति वाजपेयादीनां यागविशेषाणां शरदातुविशेषविहितानामपि सौम्यायनप्रतीक्षामकृत्वा शुक्रास्तादिदोषराहित्यं विचार्यम् । १ अथाग्निहोत्रप्रकरणम् इत्यपि कचित्पाठः। Page #337 -------------------------------------------------------------------------- ________________ तत्र लग्नशुद्धिः] अश्याधानप्रकरणम् ९ । तदयमत्र निर्णयः संपन्नः । यत्र तु कालनियमेनाधानादि विहितं तदा न मुहूर्तविचारः । यदा तु कालनियमाभावस्तदा मुहूर्तो विचार्य एवेत्यभिसंधायाग्न्याधानसोमयागादिमुहूर्त वसंततिलकावृत्तेनाह स्यादग्निहोत्रविधिरुत्तरगे दिनेशे मिश्रध्रुवांत्यशशिशक्रसुरेज्यधिष्ण्ये । रिक्तासु नो शशिकुजेज्यभृगौ न नीचे नास्तंगते न विजिते न च शत्रुगेहे ॥१॥ स्यादिति ॥ उत्तरगे उत्तरायणगते दिनेशे सूर्येऽग्निहोत्रविधिः स्यात् । यदाह नारदः-'गृहप्रवेशवैवाहप्रतिष्ठामौंजिबंधनम् । मखादिमंगलं कर्म विधेयं चोत्तरायणे ॥' इति । मखस्याग्निहोत्रपूर्वकत्वात्तदारंभोऽपि । विवाह एव वैवाहः। स्वार्थे अण्। प्रतिष्ठा देवतादिप्रतिष्टा। मिश्रेति। मिश्रे कृत्तिकाविशाखे, ध्रुवाणि प्रसिद्धानि, अंत्यं रेवती, शशी मृगः, शक्रो ज्येष्ठा, सुरेज्यः पुष्यः एतेषामन्यतमेषु ऋक्षेष्वग्निहोत्रविधिः स्यात् । यदाह श्रीपतिः-'प्राजापत्ये पूषभे सविदेवे पुष्ये ज्येष्ठास्वंदवे कृत्तिकासु । अन्याधानं ह्युत्तराणां त्रयेऽपि श्रेष्ठं प्रोक्तं प्राक्तनैर्विप्रमुख्यैः ॥' इति । रिक्तास्विति । रिक्ताः चतुर्थीनवमीचतुर्दश्यः,आसु अन्याधानं नो कार्यम् । तदुक्तं दीपिकायाम्-'पुष्योत्तराविशाखासु ज्येष्टांत्याग्निकचंद्रभे । अग्न्याधानमरिक्तासु कार्य वाऽर्ककुजेऽहनि ॥' इति । को रोहिणी । शशीति । चंद्रमंगलगुरुशुक्रेषु नीचगतेषु तथाऽस्तंगतेषु तथा ग्रहांतरैर्विजितेषु तथा शत्रुगृहस्थितेषु अन्याधानं नो कार्यम् । उक्तं च रत्नमालायाम्-'कुजेंदुजीवै रिपुराशिसंस्थैः पराजितैर्नीचगृहोपगैर्वा । अस्तंगतैर्वाग्निपरिग्रहं यः करोति हास्यं विदुषां स याति ॥' इति । कश्यपस्तु शुक्रदोषमप्याह । अत एव मूलपद्ये चतुर्णामभिधानम् ॥ ३॥ अथान्याधाने लग्नशुद्धिं वसंततिलकयाहनो कर्कनक्रझपकुंभनवांशलग्ने नोऽजे तनौ रविशशीज्यकुजे त्रिकोणे । केंद्रषत्रिभवगे च परैस्त्रिलाभ षट्खस्थितैनिधनशुद्धियुते विलग्ने ॥२॥ नो कर्केति ॥ कर्कः प्रसिद्धः, नको मकरः, झषो मीनः, कुंभः प्रसिद्धः एतेषामन्यतमे लग्ने नवांशे वा अन्याधानं नो कार्यम् । तथा अब्जे चंद्रे तनौ लग्नस्थे सति चाम्याधानं न कार्यम् । तथा चोक्तं श्रीपतिना-'नके विलग्नेबु. चरे घटे वा तदंशके वाप्यथवा शशांके । आधानकाले द्विजपुंगवानां जातोऽपि निर्वाणमुपैति वह्निः ॥' इति । निर्वाणं नाशम् । नक्रौद्यस्य चांबुचरत्वाभावा १ वा देवजेऽहनि इति पाठः। २ नवांशकाद्यास्तेषामंबु इति पाठः। Page #338 -------------------------------------------------------------------------- ________________ ३२२ मुहूर्तचिंतामणिः। [यागकर्तृत्वयोगाः त्पृथग्रहणम्।वराहस्तु नैतन्मन्यते। मकरस्य पश्चिमा, कुंभो मीनश्च जलचराः ख्याताः ॥' इति । अत एवैतषणभयात् स्पष्टमुक्तं महेश्वरेण-'कर्कनऋघटमीनविलग्ने वांशगे तनुगतेऽथ तदीये । लग्नगे कुमुदिनीदयिते वा नाशमेति जनितोऽपि हुताशः॥' इति। लग्नगचंद्रस्योपलक्षणत्वाच्छुक्रोऽपि लग्ने निषिद्धः । यदाह कश्यपः-'यस्यैवाधानलग्नस्थे चंद्रे वा भृगुनंदने । उपैति तस्य जातोऽग्निनिर्वाणं सततं ज्वलन् ॥' इति । रवीति । सूर्यचंद्रगुरुभौमेषु त्रिकोणकेंद्रक्षषत्रिभवगेषु भवमेकादशमेषु स्थानेषु स्थितेषु सत्सु परैर्बुधशुक्रशनिराहुकेतुभिस्त्रिलाभषदखस्थितैस्तृतीयैकादशषष्ठदशमस्थानस्थितैः सद्भिराधानं हितं स्यात् । यदाह श्रीपतिः-'त्रिकोणकेंद्रोपचयेषु सूर्ये बृहस्पतौ शीतकरे कुजे वा। शेषग्रहेषूपचयस्थितेषु धूमध्वजोत्पादनमामनंति ॥' इति । धूमध्वजोऽग्निः । निधनेति। केचिदाहुः-अन्याधानं विलग्ने निधनशुद्धियुते अष्टमस्थाने सकलग्रहराहित्यं निधनशुद्धिः तया युते सत्याधानं शुभं तस्मादष्टमस्थाने यःकश्चिद्रहः स्यात्तदाऽशुभमेव । उक्तं च श्रीपतिना-'चंद्रे पनी मृत्युगे मृत्युमेति क्षिप्रं वयाधायको याजमानः' धाधातोः ‘ण्वुलतृचौ' इति ण्वुल 'मातो युचिण्कृतोः' इति युगागमः । अन्ये त्वेवमाहुः-निधनमष्टमं लग्नं, कस्मानिधनमित्याकांक्षायामाधानकर्तुर्जन्मराशिजन्मलग्नाभ्यामष्टमं लग्नमित्यर्थः । तस्य शुद्धिराहित्यं तदभाव इति यावत् । तेन युते लग्ने इति भावः । यदाह कश्यपः'पंचांगशुद्धिदिवसे चंद्रताराबलान्विते । चंद्रशुद्धियुते लग्ने चाष्टमोदयवर्जिते ॥' इति ॥अत्र व्याख्याद्वये प्रमाणसद्भावाद्यमपि युक्तमिति वयमुत्पश्यामः । तत्र निधनशुद्धिश्च निधनशुद्धिश्च ताभ्यां युते लग्ने इति मूलस्थस्य निधनशुद्धिपदस्य 'सरूपाणामेकशेष एकविभक्तौ' इत्येकशेषः । यथा 'भ्वर्था वा वादयः स्मृताः' इति तृतीयपक्षव्याख्यानावसरेवादयश्चेति तंत्रावृत्त्येकशेषाणामन्यतमाश्रयणेन पदमंजरीकारादिभिर्वादीनां धातुत्वमुक्तम् ॥ २॥ अथाग्निहोत्रिण आधानलग्नवशाद्यागकर्तृत्वयोगाननुष्टुभाहचापे जीवे तनुस्थे वा मेषे भौमेऽम्बरे धुने । षव्यायेऽब्जे रवौ वा स्याजाताग्निर्यजति ध्रुवम् ॥३॥ चापे इति ॥ जीवे गुरौ चापस्थे धनुःसंस्थे सति तनुस्थे आधानलग्ने धनुराख्ये गुर्वधिष्ठिते सतीत्यर्थः; अयमेको योगः । वा अथवा भौमे मेषलग्ने सति; अयं द्वितीयो योगः। अथवा आधानलग्नाद्दशमस्थानस्थे सप्तमस्थानस्थे वा भौमे सति; योगद्वयमेतत् । अथवा अब्जे चंद्रे षष्ठे तृतीयैकादशस्थानान्यतमस्थानस्थे; योगत्रयमेतत् । अथवा सूर्ये षष्ठतृतीयैकादशान्यतमस्थानस्थे सति; योगत्रयमप्येतत् । एवंविधे लग्ने जाताग्निः अग्निहोत्रकर्ता स्यात् भवेत् ध्रुवं निश्चयेन यजति ज्योतिष्टोमादियागं करोतीत्यर्थः । उक्तं च श्रीपतिना'लग्नस्थे धनुषि गुरावथ क्रिये वा भूसूनौ दशमगतेऽथ सप्तमे वा । तिग्मांशी १ अत्र यद्यपि 'कुंभ' इति पाठो लिखितादर्शेष्वपि दृश्यते तथापि वराहग्रंथे ‘मकरस्य पश्चिमार्थो खेयो मीनश्च' इत्येवोपलंभात् चिंत्योऽयं टीकाग्रंथः । Page #339 -------------------------------------------------------------------------- ________________ राजाभिषेके कालनिर्णयः] राजाभिषेकप्रकरणम् १० । ३२३ सहजषडायगे विधौ वा जाताग्निर्यजति न संशयं द्विजेंद्रः ॥' इति । केचिदेवमाहुः-ध्रुवं निश्चितं निरंतरमिति यावत् , यजति देवतोद्देशेनावदानत्यागो यागस्तं करोति । निरंतरमग्निहोत्रकर्मकर इत्यर्थः । यदाह कश्यपः'लग्नस्थे चापगे जीवे मेषे वा सप्तकर्मगे। कुजेऽर्के त्रिषडायस्थे चंद्रे वाग्निवलत्यलम् ॥' इति शिवम् ॥ ३॥ अथाग्निहोत्रप्रकरणं गयेनोपसंहरतिइति श्रीदैवज्ञानंतसुतदैवज्ञरामज्योतिर्विद्विरचिते मुहूर्तचिंतामणौ नवममम्याधानप्रकरणं समाप्तम् ॥ ९॥ स्पष्टार्थम् ॥ ज्योतिर्विद्वरनीलकंठविदुषः श्रीचंद्रिकायास्तथा पुत्रेणाहिगवीप्रसारितधिया मौहूर्तचिंतामणेः ॥ गोविंदेन विनिर्मिते नयनिधौ पीयूषधाराभिधे व्याख्यानेऽग्निपरिग्रहप्रकरणं संपूर्णतामध्यगात् ॥ १॥ इति श्रीमदैवज्ञमुकुटालंकारनीलकंठज्योतिर्वित्पुत्रगोविंदज्योतिर्विद्विर- . चितायां मुहूर्तचिंतामणिटीकायां पीयूषधाराभिधायामन्या धानप्रकरणं समाप्तम् ॥ ९॥ अथ राजाभिषेकप्रकरणम् १०। गौरीतनयमाराध्य गोविंदेन सतां मुदे। राजाभिषेचनाध्यायः सम्यग्व्याख्यायतेऽधुना ॥ १ ॥ अथ राजाभिषेकप्रकरणं व्याख्यायते । तत्र वैदिकेनाभिषेकाख्येन विशिष्टकर्मणा राजशब्दवाच्यपुरुषसंस्कारविशेषो राजाभिषेकशब्देनोच्यते । तत्र तन्मुहूर्त वक्तुकामः कालशुद्धिं तावदिंद्रवंशयाह- .. राजाभिषेकः शुभ उत्तरायणे गुर्विदुशुऊरुदितैलान्वितैः । भौमार्कलग्नेशदशेशजन्मपै! चैत्ररिक्तारनिशामलिम्लुचे॥१॥ राजाभिषेक इति ॥ उत्तरायणगते सूर्ये सति तथा गुर्विदुशुऊरुदितैर्बलान्वितैः बृहस्पतिचंद्रशुक्रैरुदितैः सद्भिः भौमसूर्यलग्नेशदशेशजन्मलग्नस्वामिभिः बलान्वितैः सद्भिः राज्ञोऽभिषेकः शुभः शुभफलप्रदः स्यात् । यदाह कश्यपः'अथातः संप्रवक्ष्यामि भूपानामभिषेचनम् । सौम्यायने सिते जीवे नास्तगे न च वृद्धगे॥' इति। ननु 'गीर्वाणांबुप्रतिष्ठा-' (५।२६) इत्यादिनाप्राक् दक्षिणायननिषेधादेवोक्तत्वात् शस्तानां प्रयोज्यादिना च गुरुशुक्रादिदोषरहिते काले भूपाभिषेको ज्ञास्यत एव किमनेन पुनरुक्तग्रंथेन ? न च कश्यपादिभिरुक्तमिति कृत्वो १ अग्निहोत्रप्रकरणम् इति पाठः । Page #340 -------------------------------------------------------------------------- ________________ ३२४ मुहूर्तचिंतामणिः। [तत्र निषिद्धमासादि क्तमिति वाच्यम् । तैस्तु सामान्यप्रकरणस्याकृतत्वात् किंतु तत्तत्कृत्ये विशेषाभिधानमेव कृतम् । उच्यते-'गीर्वाणांबुप्रतिष्ठा' (५।२६) इत्यादिना 'वाप्यारामतडाग' (२०४६) इत्यादिना च सामान्यत एषु कृत्येषु दोषराहित्यमुक्तम् । तत्र कस्यचिदेवं भ्रांतिः स्यात्-यदि दक्षिणायने शुक्रास्तादिदोषरहिते शुभं कर्म वाप्या. रामादिकार्य शुक्रास्तादिदोषसहिते उत्तरायणेऽपि कार्यमिति, तन्निरासार्थमाह'राजाभिषेकः शुभ उत्तरायणे गुर्विदुशुक्ररुदितैर्बलान्वितैः' इति । 'सिंहस्थं मकरस्थं च गुरुं यत्नेन वर्जयेत्' इत्यादिदोषाणां 'मगधे गौडदेशे' इत्यादिना देशभेदकृतपरिहारस्य सुवचत्वादिति न तेषां पुनरुक्तिः। ननु-'सदा कृतयुगं चात्र सदा चैवोत्तरायणम् । न ग्रहास्तोदयकृतो दोषो विश्वेश्वरालये ॥' इत्यादिभिः व्यासवाक्यैः शुक्रास्तादिदोषसहिते उत्तरायणेऽपि कार्यमिति, तन्निरासार्थमाह 'राजाभिषेकः शुभ उत्तरायणे गुर्विदुशुऊरुदितैर्बलान्वितैः' इति, 'सिंहस्थं मकरस्थं च गुरुं यत्नेन वर्जयेत्' इत्यादिदोषाणामपि वाराणस्यादिदेशभेदेन परिहारसत्त्वात् किमियमुक्तिरिति चेन्न । काशीखंडे तीर्थयात्राप्रस्तावात्तद्विषय एवापवादः, तेन वाराणस्यादावल्पदिनस्थानोः पुंसः कोटिहोमदेवप्रतिष्ठादिशुभकर्माणि सुखेन स्युः । बहुदिनस्थानोः पुनरखिलदोषराहित्य एव स्युः । न तु मकरस्थगुर्वादौ मगधदेशहानार्थमेव कर्तव्यावश्यं पुनरुक्तिः । सत्यं न कृतेत्येव । वस्तुतस्तु दोषाविस्मरणार्थमेतावत्येव पुनरुक्तिः। न चैतावद्दोषहानमेवावश्यकं, विवाहप्रकरणोक्तानां वेधादिदोषाणामपि निरासस्यावश्यकत्वात् । उक्तं च वसिष्ठेन-'तस्मादेतेषु दोषेषु कदाचिन्नाचरेच्छुभम् ॥' इत्यलमति. प्रसंगेन । बलान्वितैः बलं सद्हाधिष्ठितत्वं तेनान्वितैः गुर्विदुशुक्रैः सभी राजाभिषेकः शुभः । उक्तं च वसिष्ठेन-'मूलत्रिकोणस्वगृहोच्चमित्रगृहस्थितैर्वापितदंशसंस्थैः । शुभे विलग्ने सततं ग्रहेंद्रा दिशंति लक्ष्मी विपुलां च कीर्तिम् ॥' इति । अर्थान्नैर्बल्यैर्ग्रहाणामशुभं स्यात्तदप्युक्तं तेनैव-'स्वनीचगैः शत्रुगृहोपगैर्वा तदंशसंस्थैः स्वगृहोपगैर्वा । पापोदये शोकभयं त्वकीर्ति दिशंति राज्ञां भृशमंतरायम् ॥' इति । भौमेति । भौमाकौं प्रसिद्धौ । लग्नेशो जन्मलग्नस्वामी, दशेशौ वर्तमानजातकीयमहादशांतर्दशास्वामिनौ, जन्मपो जन्मराशिस्वामी; एतैरपि बलान्वितैः सद्भी राजाभिषेकः शुभः। बलान्वितत्वमधुना व्याकृतमेव । यदाह वसिष्ठः-'माधानजन्मेशदशाधिनाथरवींदुभौमेज्यसितैर्बलिष्ठैः । उत्पातदोषादिविवर्जितेषु पदं स्थिरं स्थाच नराधिपानाम् ॥' इति । आधानं च जन्म जन्मलग्नजन्मराशी, अनयोरीशावाधानजन्मेशौ । यदाह श्रीपतिः'विलग्नजन्मेशदशाधिनाथमार्तंडधात्रीतनयैर्बलिष्ठैः। गुर्विदुशुक्रैः स्फुरदंशुजालैमहीपतीनामभिषेक इष्टः ॥' इति । नो चैत्रेति । चैत्राख्यो मासः, रिक्ताः ४।९।१४ तिथयः प्रसिद्धाः, आरो भौमवारः, निशा रात्रिः, मलिम्लुचोऽधिकमासः; एषु राजाभिषेको न शुभः । यदाह चंडेश्वरः-'नाभिषेकः शुभो वाच्यो नृपे चैत्रेऽधिमासके । न भूसुते प्रसुप्ते च विष्णौ रिक्तासु रात्रिषु ॥' वसिष्ठेन बुधवारस्यामावास्यायाश्च निषेध उक्तः । स यथा-'रिक्तास्वमायां Page #341 -------------------------------------------------------------------------- ________________ तत्र नक्षत्राणि लग्नशुद्धिश्च] राजाभिषेकप्रकरणम् १० । ३२५ बुधभौमवारवयेषु वारेषु दिनेषु चैव । खले दिने ऋक्षनिशे तथैव न नैधने भे त्वभिषेक इष्टः॥' इति । यत्तु भीमपराक्रमेणोक्तम्-'राजाभिषेकाहवदुष्टदंतिसेतुच्छिदानां कृषिकर्मणां च । वादस्य च क्ष्मातनयस्य वारे प्रारंभसिद्धिं मुनयो वदंति ॥' इति । अत्र भौमवारे राजाभिषेकविधान सेनापत्यभिषेकविषयं द्रष्टव्यम् । भौमस्य सेनापतित्वात् , 'राजानौ रविशीतगू क्षितिसुतो नेता' इति वराहोक्तत्वात् । अन्यथा वसिष्ठचंडेश्वरोक्तो भौमनिषेधो निर्विषयः स्यात् । यत्तु रत्नमालायाम्-'मंत्रौषधानि शकुनौ च सपौष्टिकानि गोविप्रराज्यपितृकर्मचतुष्पदे तु' इति । अत्र हि चतुष्पदाख्ये करणे राज्यं कर्तव्यमित्युक्तं तच्चामावास्यायामवश्यं भवत्येवेत्ययुक्तं श्रीपतिवाक्यं प्रतिभाति । उच्यते,-जीर्णराजमरणे संजाते पुत्रादेः शीघ्रमेवाखिलदोषनिरासपूर्वकशुभमुहूर्तालब्धौ कालांतरप्रतीक्षायां च द्विषदादिकृतसर्वनाशः स्यादित्येवंविषयेऽपि चतुष्पदकरणे पुत्रादिरभिषेक्तव्य एवेत्येवंपरं व्याख्येयमिति युक्तं प्रतीमः । उक्तं च दैवज्ञमनोहरे—'मृते राज्ञि न कालस्य नियमोऽत्र विधीयते । नृपाभिषेकः कर्तव्यो दैवज्ञेन पुरोधसा ॥' इति ॥ १ ॥ अथ राजाभिषेकनक्षत्राणि लग्नशुद्धिं च इंद्रवंशयाहशाक्रश्रवःक्षिप्रमृदुध्रुवोडुभिः शीर्षोदये वोपचये शुभे तनौ । पापैत्रिषष्ठायगतैः शुभग्रहै। केंद्र त्रिकोणायधनत्रिसंस्थितैः ॥२॥ शाक्रेति ॥ शाकं ज्येष्ठा, श्रवः श्रवणः, क्षिप्राणि अश्विनीपुष्यहस्ताः, मृदूनि मृगचित्रानुराधारेवत्यः, ध्रुवाणि रोहिण्युत्तरात्रयं च; एतैः उडभिः सद्धी राजाभिषेकः शुभः । यदाह कश्यपः-'उत्तरात्रयमैत्रैद्धातृचंद्रकरोडुषु । सश्रुत्यश्वीज्यपौष्णेषु कुर्याद्राजाभिषेचनम् ॥' इति । ऐंद्रं-ज्येष्ठा । अत्र वाक्ये द्वादशभानि, ग्रंथकृद्वाक्ये त्रयोदश, चित्रैकाधिका; सा च महेश्वरवाक्यालोचनेन । यथा-'तथा श्रवःक्षिप्रमृदुध्रुवेषु सौम्यग्रहस्याह्नि तिथावरिक्ते' इति । नात्र प्रमाणं पश्यामः । रत्नमालावाक्यं भविष्यतीति चेन्न । 'मैत्रशाककरपुष्यरोहिणीवैष्णवेषु तिसृपूत्तरासु च । रेवती मृगशिरोऽश्विनीषु च माभृतां समभिषेक इष्यते॥'इति। चंडेश्वरोऽपि-'मैत्रं शाकं श्रवणः पुष्यं त्रीण्युत्तराणि चाश्विकरैः । पौष्णं प्राजापत्यं मृगशिर इति शोभनो भगणः' इति तस्माच्चित्राग्रहणं निर्मूलम् । शीर्षोदय इति । शीर्षोदयाः=मिथुनसिंहकन्यातुलावृश्चिककुंभाख्याः। यदाह वराहः-'गोऽजाश्विकर्किमिथुनाः समृगा निशाख्याः पृष्ठोदया विमिथुनाः कथितास्त एव । शीर्षादया दिनबलाश्च भवंति शेषा लग्ने समेत्युभयतः पृथुरोमयुग्मम् ॥' इति । एषु शीर्षोदयराशिषु अभिषेकलग्नगेषु वा अथवा उपचये विशेषानुक्तेः स्वजन्मलग्नात्स्वजन्मराशितो वोपचयभवने त्रिषडेकादशदशानामन्यतमे तनौ लग्नगे वा सति शुभे शुभग्रहाक्रांते शुभग्रहेक्षिते वा राजाभिषेकः शुभः । यदाह वसिष्ठः-'शीर्षोदये चोपचये ग्रहे बा स्वजन्मलग्नादथ लग्नगेऽपि । शुभग्रहैर्युक्तनिरीक्षिते वा स्थिरं पदं स्यात्सततं २८ मु० चि. Page #342 -------------------------------------------------------------------------- ________________ ३२६ मुहूर्तचिंतामणिः । [ राज्ञः संपत्स्थैर्यकरयोग हि राज्ञाम् ॥' इति । अपिशब्दात् स्वजन्मराशेरप्युपचयभवनं ग्राह्यम् । यदाह कश्यपः - 'जन्मराशेरुपचये लग्ने शीर्षोदये स्थिरे । शुभग्रहेक्षितयुते नयुते नेक्षिते परैः॥’इति । परैः=पापग्रहैः । पापैस्तृतीयष ष्ठैकादशस्थानस्थितैः शुभग्रहैः प्रथमचतुर्थसप्तमदशमनवपंचमैकादशद्वितीयतृतीयस्थानस्थितैः राजाभिषेकः शुभदः । यदाह वसिष्ठः - 'त्रिकोणकेंद्रनिधनेषु सौम्यैस्त्रिषष्टलाभर्क्षगतैश्च पापैः पैः । षष्ठाष्टलग्नव्ययवर्जितेन चंद्रेण राज्ञां शुभदोऽभिषेकः ॥' इति ॥ २ ॥ अथ स्थानविशेषे पापग्रहैरशुभं फलं सापवादं इंद्रवंशयाहपापैस्तनौ रुङ निधने मृतिः सुते पुत्रार्तिरर्थव्ययगैर्दरिद्रता । स्यात्खेऽलसो भ्रष्टपदो द्युनांबुगैः सर्वं शुभं केंद्रगतैः शुभग्रहैः ॥३॥ पापैरिति ॥ तनौ लग्ने स्थितैः पापग्रहैः रुक् रोगः स्यात् ; राज्ञो नाश इति शेषः । निधने अष्टमस्थाने पापग्रहैः मृतिः मृत्युः स्यात् । सुते पंचमस्थाने पापग्रहैः पुत्रार्तिः पुत्रजनितपीडा स्यात् । अर्थव्ययगैः द्वितीयद्वादशस्थानस्थितैः पापैः दरिद्रता दारिद्र्यं स्यात् । खे दशमे पापग्रहैः अलसो निरुद्योगः । द्युनांबुगैः सप्तमचतुर्थस्थानस्थितैः पापग्रहैर्भष्टपदो भ्रष्टैश्वर्यः स्यात् । उपलक्षणत्वात् षष्ठाष्टमद्वादशस्थानस्थितश्चंद्रोऽपि मृत्युदः । यदाह वसिष्ठः - 'पापग्रहैः स्वांत्यगतैश्च निःस्वो रोगी विलग्नोपगतैर्भवेत्सः । पदच्युतः सप्तचतुर्थगैस्तु पुत्रस्थितैः सर्वसुतैर्विहीनः ॥' इति । ' नूनं व्ययाष्टारिगतः शशांकः क्षितीश्वरं हंति तदा बलिष्ठः' इति बलिष्ठशब्दोपादानान्निर्बलचंद्रो व्ययाष्टमषष्ठगतो न दुष्टफलद इति तात्पर्यम् ॥ अथापवादमाह - सर्वमिति । केंद्वगतैः शुभग्रहैः सर्वं प्रागुक्तं दुष्टफलं शुभं शुभोदर्कं स्यात् । उक्तं च................ ॥ ३ ॥ अथाभिषेके राज्ञः संपत्स्थैर्यकर्तृ योगद्वयं भुजंगप्रयातेनाहगुरुर्लनको कुजोऽरौ सितः खे स राजा सदा मोदते राजलक्ष्म्या । तृतीया गौ सौरिसूर्यौ खबंध्वोर्गुरुश्चेद्धरित्री स्थिरा स्यान्नृपस्य ॥४॥ गुरुरिति ॥ लग्ने गुरुश्चेत्स्यात्, अथवा कोणे नवमे पंचमे वा गुरुः स्यात्, कुजो मंगलोsरौ शत्रुगृहे षष्ठे स्यात्, सितः शुक्रः कर्मगो दशमगः स्यात् ; एता अभिषेकयोगे यो राजा अभिषिच्यते स राजा सर्वदा सार्वकालं राजलक्ष्म्या मोदते । अयमेको योगः । यदाह वसिष्ठः - 'यस्याभिषेके पुरुहूतमंत्री लग्ने त्रिकोणे यदि वा भवेत्सः ॥ षष्ठः कुजः कर्मगतश्च शुक्रः स मोदते विक्रमराजलक्ष्म्या ॥' इति । अथापरो योगः । सौरिसूय तृतीयायगौ स्यातां यथासंख्यं शनिस्तृतीये सूर्यः रविः एकादशे स्यात्, गुरुः खबंध्वोः खे दशमे बंधौ चतुर्थे वा चेद्गुरुः स्यात्, एवंविधे योगेऽभिषिक्तस्य नृपस्य राज्ञः धरित्री पृथ्वी स्थिरा सदा हस्तगता स्यात् । यदाह कश्यपः - 'त्रिलाभस्थः शनिः सूर्यश्चतुर्थे वांबरे गुरुः । यस्याभिषेकः क्रियते तत्र तस्य मही स्थिरा ॥' इति । श्रीपतिरपि - Page #343 -------------------------------------------------------------------------- ________________ यात्राया द्वैविध्यम् ] यात्राप्रकरणम् ११ । ३२७ 'त्रिलाभसंस्थौ शनितिग्मरश्मी मेषूरणे बंधुगृहे गुरुश्च । यस्यात्र योगे क्रियतेऽभिषेक: संपत्स्थिरा तस्य चिरायुषः स्यात् ॥' इति । मेषूरणं = दशमम् | केचिधिलाभारिगौ सौरिसूर्यावित्याहुः । अन्यत्समानम् । तृतीयैकादशषष्ठानामन्यतमस्थानद्वये स्थितौ सौरिसूयौं स्यातामित्यर्थः । एतदपि युक्तमेव । यदाह वसिष्ठः - 'दुश्चिक्यलाभारिगताविनाक खस्थोऽमरेज्यो यदि बंधुगे । यस्यात्र योगे क्रियतेऽभिषेक: संपत्स्थिरा तस्य चिरायुषः स्यात् ॥' इति । अत्र वचनद्वयप्रामाण्याद्विकल्प इति शिवम् ॥ ४ ॥ अथ राजाभिषेकप्रकरणं गद्येनोपसंहरति इति श्रीदैवज्ञानंतसुतदैवज्ञरामज्योतिर्विद्विरचिते मुहूर्तचिंतामणौ राजाभिषेकप्रकरणं समाप्तम् ॥ १० ॥ स्पष्टार्थमेतत् ॥ ज्योतिर्विद्वरनीलकंठविदुषः श्रीचंद्रिकायास्तथा पुत्रेणाहिगवीप्रसारितधिया मौहूर्तचिंतामणेः । गोविंदेन विनिर्मिते नयनिधौ पीयूषधाराभिधे व्याख्याने ह्यभिषेचनप्रकरणं राज्ञोऽगमत्पूर्णताम् ॥ १ ॥ इति श्रीमद्दैवज्ञमुकुटालंकारनीलकंठज्योतिर्वित्पुत्रगोविंदज्योतिर्विद्विरचितायां मुहूर्तचिंतामणिटीकायां पीयूषधाराभिधायां राजाभिषेकप्रकरणं समाप्तम् ॥ १० ॥ अथ यात्राप्रकरणम् ११ । 000 पार्वतीहृदयपद्मभास्करं वक्रतुण्डमघसंघवारणम् । संप्रणम्य कुरुते नयान्वितां यात्रिकप्रकरणस्य दीपिकाम् ॥ १ ॥ अथ यात्राप्रकरणं व्याख्यायते । तत्र किंचित्कार्यमुद्दिश्य देशांतरगमनं यात्रा । सा च संक्षेपतो द्विविधा - एका समरविजययात्रा, अपरा सामान्ययात्रा । तत्र शत्रुनगरजयार्थं वक्ष्यमाणयोगलग्नजातकोत्तराजयोगलग्नेषु प्राधान्येन या यात्रा सा समरविजयाख्या । यद्यपि कानिचिन्नगराणि विनैव युद्धं कटकबाहुल्यादेव वशं यांति तथापि युद्धसंभावनास्त्येव । या द्रव्यार्जनार्थ वाराणस्यादितीर्थदर्शनार्थ वा तिथ्यादिशुद्धिमंगीकृत्य यात्रा सा सामान्ययात्रा | तदुक्तं वसिष्ठेन – 'परविषये विजयार्थं गंतुं यात्रा तु समरविजयाख्या । निखिलाsपरयात्रा या सामान्या सा भवेद्विविधा ॥ कथिततिथिवासरर्क्षेष्वभिमतफलदा भवेच्च सामान्या । समराह्वया च यात्रा योगविलग्नक्षितीशयोगेषु ॥' इति । तत्र यात्राप्रकरणं प्रारिप्सुग्रंथ कृद्यात्राधिकारिणस्तावत् प्रहर्षिणीछंदसाह— Page #344 -------------------------------------------------------------------------- ________________ मुहूर्तचिंतामणिः। [बृहयात्रायां विशेषः यात्रायां प्रविदितजन्मनां नृपाणां दातव्यं दिवसमबुद्धजन्मनां च । प्रश्नाद्यैरुदयनिमित्तमूलभूतै विज्ञाते ह्यशुभशुभे बुधः प्रदद्यात् ॥ १॥ यात्रायामिति ॥ वैरिव्यतिरिक्तसकललोकहितकारित्वान्नपस्य वक्ष्यमाणशुभाशुभसमुदायविचारस्य सकलशिष्टसंमतत्वेन तदधीनत्वाच्च नृपग्रहणम् । न च नृपग्रहणादाज्ञामेवैष विचारो युक्त इति वाच्यम् । वक्ष्यमाणयोगलग्नेषु प्रतिश्लोकं राजपदानुपादानप्रसंगात् । प्रकरणादेव तल्लाभात् । अविस्मरणार्थमिति चेन्न । दिक्शूलादावप्यविस्मरणार्थ नृपग्रहणं कर्तव्यं स्यात् । तस्माद्यथासंभवं राजव्यतिरिक्तस्य ब्राह्मणादेरप्येष विचार उपयोज्यः । एवमेव च वसिठाधुषिवाक्येष्वपि समाधेयम् । प्रविदितं छायाघटिकादिना ज्ञातं जन्म जन्मसमयो लक्षणया तत्कालीनलग्नकुण्डलीस्थशुभाशुभग्रहसूचितशुभाशुभफलोदर्कज्ञानं येषां तेषां नृपाणां यात्रायां दिवसं दातव्यं, यात्रादिनं देयमित्यर्थः । 'वा तु कीवे दिवसवासरौ' इति दिवसशब्दो नपुंसकलिंगः। तच्च ज्ञानं जातकशास्त्राधीनम् । शुभफलदग्रहस्य दशायामंतर्दशायां च राज्ञा यात्रा विधेया। अशुभफलदग्रहस्य दशायामंतर्दशायां च यात्रा नैव विधेया। यदाह वराहः'विदिते होराराशौ स्थानादिबले ग्रहाणां च । आयुषि च परिज्ञाते शुभमशुभं यातुरिह वाच्यम् ॥' इति । वसिष्ठोऽपि-'निखिलगुणयुजां राज्ञां कथयामि विधानमत्र यात्रायाम् । जातकमवलोक्य वदेत्फलसिद्धिस्त्वन्यथा मृषा भव. ति ॥' इति । ननु यस्य दैवाजन्मकालो न विदितस्तस्य कथं यात्रा स्यादित्यत आह-अबुद्धति।अबुद्धमज्ञातं जन्म जन्मकालो येषां तेषामपि प्रश्नाद्यैः पृच्छोपश्रुत्यादिभिरशुभे शुभे विज्ञाते निर्माते सति बुधो यात्रादिवसं प्रदद्यात् । कीदृशैः? उदयो दिने दिने राज्याभिवृद्धिः, अथवा लग्नं निमित्तं शकुनादि, एतदादीनि वस्तूनि मूलभूतानि निदानकारणानि येषां तैः । यदाह नारदः-'अज्ञातजन्मनां नृणां फलाप्तिर्षुणवर्णवत् । प्रश्नोदयनिमित्ताद्येस्तेषामपि फलोदयः ॥' इति । नन्वत्र नारदवाक्ये अज्ञातजन्मनः पुंसो यात्राफलं घुणाक्षरतुल्यमिति पूर्वार्धे उक्तम् । प्रश्नादिना तु शुभफलसद्भावे तादृशस्यापि फलाप्तिरिति पूर्वापरविरोधः। उच्यते,-प्रश्नादिना हि शुभाशुभनिर्णयेऽकृते निष्पन्नमपि यात्राफलं घुणाक्षरतुल्यम् । घुणः कीटविशेषः । स यथाशक्ति काष्ठं भिंदन् तत्र दैवादेकः ककारादिको वर्णो जायते तद्वदिदम् । यदा तु प्रश्नादिना शुभनिर्णयसद्भावे क्रियमाणा यात्रावश्यफलदेति न कोऽपि विरोधः । विशेषमाह बृहद्यात्रायां वराहः-'तस्मानृपः कुसुमपुष्पफलाग्रहस्तः प्रातः प्रणम्य रवये हरिदिङ्मुखस्थः । होरांगशास्त्रकुशलान्हितकारिणश्च संगृह्य देवगणकान्सकृदेव पृच्छेत् ॥ अथ नृपतिसमीपे दैववित् पृष्टमात्रः फलमुदयनिमित्तैस्तर्कयेच्छास्त्रदृष्टया । Page #345 -------------------------------------------------------------------------- ________________ प्रयाणे शुभफलावेदकप्रश्नौ] यात्राप्रकरणम् ११ । ३२९ सदसि सदिति वाच्यं यद्यपि स्यादनिष्टं स्फुटमपि कथनीयं मंत्रिणे भूभुजे वा ॥' इति ॥१॥ __ अथ ज्ञाताज्ञातजन्मनां पुंसां साधारण्येन यात्रा वक्ष्यते । तत्र ज्ञातजन्मनां जातकाद्यवगतशुभफलानां यात्राविचारोऽल्पायाससाध्यः । अज्ञातजन्मनां तु जातकशास्त्रे प्रश्नाद्यनुक्तेः कथं तद्यावानिर्वाह इत्याशंक्य शुभफलयात्रावेदकं प्रश्नं द्रुतविलंबितेनाहजननराशितनू यदि लग्नगे तदधिपौ यदि वा तत एव वा । त्रिरिपुखायगृहं यदि वोदयो विजय एव भवेद्वसुधापतेः ॥२॥ जननेति ॥ नन्वत्र कथमज्ञातजन्मत्वं यावता जन्मराशिलग्नज्ञानं विना समयज्ञानं नैव भवेत् ? सत्यम् । यद्यपि राशिलग्नज्ञानं जातं तथापि विशिष्यजातकावगतशुभफलदग्रहदशानवगमादज्ञातजन्मत्वं ज्ञेयम् । अत एव राशिलग्नज्ञानाभावे यदि पृच्छति प्रश्नं वक्ष्यति । जननं जन्म तत्संबंधिनी राशिलग्ने ते यदि प्रश्ने स्यातां जन्मराशिर्जन्मलग्नं वा यदि प्रश्नलग्नं स्यात्तदा वसुधापते राज्ञो विजय एव । अथवा तदधिपौ जन्मलग्नजन्मराश्योः स्वामिनी लग्नगतो स्यातां तदापि वसुधापतेर्विजयः। अथवा तत एव ताभ्यामेव जन्मलग्नजन्मराशिभ्यामेव त्रिरिपुखायगृहं तृतीयषष्ठदशमैकादशानामन्यतमं गृहं यधुदयो लग्नं स्यात्तदापि वसुधापतेर्विजय एव । शत्रुक्षय एव स्यादित्यर्थः । यदाह नारदः-'जन्मोदये जन्मराशौ तयोरीशस्थभेऽपि वा। ताभ्यां व्यायारिदशने यातुः शत्रुक्षयो भवेत् ॥' इति । अत्र तदीशः शुभग्रहश्चेल्लग्नगोऽपेक्षित इत्यपि विशेषो ध्येयः। यदाह वसिष्ठः-'जन्मराशौ लग्नगते तदीशे वापि लग्नगे। अभीष्टफलदा यात्रा राशीशश्वेच्छुभग्रहः ॥ जन्मलग्ने लग्नगते तदीशे वापि लग्नगे । अर्थलाभप्रदा यात्रा लग्नेशश्वेच्छुभग्रहः ॥' इति । केचित् ताभ्यामित्यनेन जन्मलग्नजन्मराश्यधिपाभ्यामित्याहुः । तन्न; 'जन्मराशिविलनाभ्यां लग्ने वोपचये गृहे। संपूर्णफलदा यात्रा तथैव विजयप्रदा ॥' इति वसिष्ठेन कंठत एव जन्मराशिलग्नाभ्यामित्युक्तत्वात् ॥ २ ॥ अथान्य प्रश्नं मंजुभाषिणीछंदसाहरिपुजन्मलनभमथाधिपौ तयोस्तत एव वोपचयसम चेद्भवेत् । हिबुके धुनेऽथ शुभवर्गकस्तनौ यदि मस्तकोदयगृहं तदा जयः॥ रिपुजन्मलग्नभमिति ॥ रिपोः शत्रोर्जन्मलग्नभं यजन्मलग्नं जन्मराशिश्च तच्चेत्प्रश्नलग्नाद् हिबुके चतुर्थे धुने सप्तमे वा स्यात्तदा राज्ञो जयो भवेत् । अथवा तयोः शत्रुजन्मलग्नराश्योरधिपौ स्वामिनौ प्रश्नलग्नाद्धिबुके धुने वा स्यातां तदापि जय एव । (अथवा तत एव ताभ्यां शत्रोर्जन्मलग्नजन्मराशिभ्यामेव चोपचयगृहं त्रिषडेकादशदशमानामन्यतमगृहं प्रश्नलग्नाद्धिबुके धुने वा चेत् Page #346 -------------------------------------------------------------------------- ________________ मुहूर्तचिंतामणिः । [शुभाशुभफलदाः प्रश्नाः तदापि जय एव ।) अथवा तनौ प्रश्नलग्ने शुभवर्गकः शुभग्रहाणां षड्वर्गकश्चे. त्स्यात्तदापि जय एव । अथवा यदि मस्तकोदयाः शीर्षोदयराशयः प्रश्नगताश्चेस्युस्तदापि जय एव । शीर्षोदयराशीनाह वराहः-'गोजाश्विकर्किमिथुनाः समृगा निशाख्याः पृष्ठोदया विमिथुनाः कथितास्त एव । शीर्षादया दिनबलाश्च भवंति शेषा लग्नं समेत्युभयतः पृथुरोमयुग्मम् ॥' इति । पृथुरोमा मीनः । श्रीपतिः-'इदमप्यरिसंभवं यदाऽस्ते हिबुके वा विजयस्तदापि यातुः । शिरसोदयमैति यश्च राशिर्जयकृत्सोऽप्युदये तथेष्टवर्गः ॥' इति । यदा अस्ते इति पदच्छेदः । अस्ते सप्तमस्थाने । इदंशब्देन प्रागुक्तपद्योक्तार्थः परा. मृश्यते । 'जन्मराशिरुत जन्मविलग्नं तत्पती उदयगौ यदि वा स्तः । न्यायकर्मरिपुभान्युत ताभ्यां शत्रुसंक्षयमवेहि तदानीम् ॥' जन्मराशिरित्यादिकं सर्व शत्रुसमुद्भवं चेदस्ते सप्तमस्थाने स्यादथवा हिबुके स्यात्तदापि यातुनृपस्य विजय इत्यर्थः । वराहोऽपि-'उदयमुदयपं वा जन्मभं जन्मपं वा तदुपचयगृहं वा वीक्ष्य लग्ने यियासोः। विनिहतमरिपक्षं विद्धि शबोरिद वा हिबुकगृहसमेतं पृच्छतोऽस्तस्थितं वा ॥' इति ॥ ३ ॥ अथाज्ञातजन्मनां शुभफलदं प्रश्नं तोटकछंदसाहयदि पृच्छितनौ वसुधा रुचिरा शुभवस्तु यदि श्रुतिदर्शनगम् । यदि पृच्छति चादरतश्च शुभग्रहदृष्टयुतं चरलग्नमपि ॥ ४॥ यदीति ॥ अत्र वसुधापतेर्जय इत्यनुवर्तते । यदि पृच्छितनौ प्रश्नलने वसुधा भूमी रुचिरा स्यात् , अथवा यदि शुभवस्तु मांगल्यवस्तु वस्त्राभरणादि श्रुतिदर्शनगं श्रवणगोचरं दर्शनगोचरं वा; दर्शनमत्र चाक्षुषम् , अथवा प्रष्टा आदरतो दैवज्ञं पृच्छति, तदा वसुधापतेर्जयः स्यादिति सर्वत्र व्याख्येयम् । यदाह श्रीपतिः-'मनोरमा भूर्यदि पृच्छतः स्यान्मांगल्यवस्तुश्रुतिदर्शने स्तः। यद्यादरात्पृच्छति वा ग्रहशं तदादिशेदस्ति जयस्तवेति ॥' इति । अथवा चरलग्नं मेषकर्कतुलामकराणामन्यतमं यदि प्रश्नलग्नं शुभग्रहैः दृष्टं युतं वा तदापि राज्ञो जयः। 'करोति राशिर्गमनं फलं च चरो विलग्ने शुभदृष्टयुक्तः' इति श्रीपत्युक्तेः ॥ ४ ॥ अथ ज्ञाताज्ञातजन्मनां पुंसां साधारण्येनाशुभफलदं प्रश्नं मालिनीछंदसाह विधुकुजयुतलग्ने सौरिदृष्टेऽथ चंद्रे ___ मृतिभमदनसंस्थे लग्नगे भास्करेऽपि । हिबुकनिधनहोराछूनगे वापि पापे सपदि भवति भंगः प्रश्नकर्तुस्तदानीम् ॥५॥ विध्विति ॥ विधुकुजयुते चंद्रमंगलयुक्त लग्ने सौरिणा शनिना दृष्टे तदा Page #347 -------------------------------------------------------------------------- ________________ किंदिग्विषया यात्रेत्यत्र निर्णयः ] यात्राप्रकरणम् ११ । प्रश्नकर्तुर्नृपादेर्भगः शत्रुतः पराजयो नाशो वा स्यात् । अथ चंद्रे मृतिभमदनसंस्थेऽष्टमसप्तमसंस्थे लग्नगे च भास्करे सत्येवंविधे विशिष्टे योगे प्रष्टुभंग: स्यात् । तथा अपिशब्दो ऽव्ययानामनेकार्थत्वाद्विपर्ययार्थः । तथा हि-अपिविपर्यये वा, सति भास्करे मृतिभमदनसंस्थे चंद्रे लग्नगे च सति एवंविधे योगे प्रष्टुभंगः स्यात् । उक्तं च वराहेण - 'सचंद्रे रुधिरे लग्ने भंगः सूर्यात्मजेक्षिते । घूननैधनगे चंद्रे लग्नं याते दिवाकरे । विपर्यये वा यातस्य त्रासभंगवधागमाः ॥' इति । वा अथवा पापग्रहे चतुर्थाष्टमलग्नसप्तमस्थानानामन्यतमस्थे सति प्रष्टुभंगः स्यात् । उक्तं च वराहेण - 'निधनहिबुकहोरासप्तमर्क्षेषु पापा न शुभफलकराः स्युः पृच्छतां मानवानाम् । दशमभवनयुक्तेष्वेषु सौम्याः समस्ताः सदसदिदमशेषं यानकालेऽपि चिंत्यम् ॥' इति ॥ ५ ॥ ३३१ अथ याता कस्यां दिशि गमिष्यतीति प्रश्ने निर्णयं भुजंगप्रयातेनाहत्रिकोणे कुजात्सौरिशुक्रज्ञजीवा raise वा नो गमोsर्काच्छशी वा । बलीयांस्तु मध्ये तयोर्यो ग्रहः स्यात् स्वकीयां दिशं प्रत्युतासौ नयेच्च ॥ ६ ॥ त्रिकोणे इति ॥ कुजान्मंगलात् त्रिकोणे नवमपंचमे सौरिशुक्रज्ञजीवाः शनैश्वरशुक्रबुधगुरवश्रेत्स्युरथवा एकोऽपि वा सौरिशुक्रज्ञजीवानामन्यतमश्चेत्रिकोणे स्यात्तदा याता यां दिशमुद्दिश्य जिगमिषति तत्र दिशि गमो गमनं न स्यात् । वा अथवाऽर्काच्छशी त्रिकोणे चेत्स्यात्तदाप्युद्दिष्ट दिग्गमनं न स्यादेव । तर्हि कस्यां दिशि गमनं स्यादित्यत आह-बलीयानिति । तयोर्मध्येऽधुनोक्तोद्दिष्टदिक्प्रतिबंध कारकयोर्मध्ये यो ग्रहो बलवान्स्यात्स्वकीयां दिशं प्रत्युत सांप्रतं नयेत् । चः पादपूरणे । यदाह वराहः - ' एकोऽपि जीवज्ञसितासितानां कुजात्रिकोणे रवितोऽथवेंदुः । यत्रोद्यतस्तत्र न याति याता तयोर्बलीयान्नयति स्वकाष्ठाम् ॥' इति । काष्ठां = दिशम् । ग्रहदिशस्तु 'सूर्यः सितो भूमिसुतः' (११।४६ ) इत्यादिना वक्ष्यति ॥ ६ ॥ अथैतादृशं द्वितीयं योगं मदलेखाछंदसाह - प्रश्ने गम्यदिगीशात्खेटः पंचमगो यः । बोभूयाद्वलयुक्तः स्वामाशां नयतेऽसौ ॥ ७ ॥ प्रश्न इति ॥ गम्यदिगीशात् गंतुमिष्टा या दिक् तस्या ईशः स्वामी प्रश्ने प्रश्नलग्ने यस्मिन्स्थाने स्यात्ततः पंचमे स्थाने यो ग्रहो बलयुक्तो बोभूयाद्वलयुक्तो भवेत्तदासौ ग्रहः स्वां स्वीयामाशां दिशं नयते प्रापयति । उक्तं च वराहेण - ' यात्रादिगीशाद्यदि पंचमेऽन्यो गृहे ग्रहो वीर्ययुतस्तु तिष्ठेत् ! Page #348 -------------------------------------------------------------------------- ________________ मुहूर्तचिंतामणिः । [ यात्रायां निषिद्धवाराः समुद्यताssशाकथितानि भंक्त्वा फलानि वीर्यान्नयति स्वकाष्ठाम् ॥' इति । अन्यदपि योगांतरं तेनैवोक्तम् — 'परस्परं सौरिकुजौ रवींदू त्रिकोणगौ भार्गवलोहितौ वा । फलं यदुक्तं तदशेषमेव विनाश्य पश्चान्नयति स्वकाष्ठाम्' इति ॥ ७ ॥ अथैवं प्रश्नलग्नात्प्रष्टुः शुभाशुभं निर्णीय यात्राकालादि भुजंगप्रयातेनाहधनुषसिंहेषु यात्रा प्रशस्ता शनिज्ञोशनोराशिगे चैव मध्या । ३३२ वौ कर्कमीनालिसंस्थेऽतिदीर्घा जनुः सप्त पंच त्रिताराश्च नेष्टाः ॥ ८ ॥ धनुरिति ॥ रवौ धनुर्मेषसिंहस्थिते सति यात्रा प्रशस्ता शुफफलदा । शनिज्ञोशनोराशिगे मकरकुंभकन्यामिथुनवृषतु लागते रवौ यात्रा मध्या मध्यमफलदा, न शुभदा नाप्यशुभफलदेत्यर्थः । कर्कमीनालिसंस्थे रवावतिदीर्घा बहुकालसाध्या यात्रा, हीनफलेत्यर्थः । यदाह लल्लुः - 'यात्राजसिंहतुरगोपगते वरिष्ठा मध्या शनैश्चरबुधोशनसां गृहेषु । भानौ कुलीरवृषवृश्चिकगेऽतिदीर्घा शस्तस्तु देवलमतेऽध्वनि पृष्ठगोऽर्कः ॥' शस्त इति; देवलाचार्य मतेstar मार्गेऽर्कः सूर्यः पृष्ठगः शस्तः । पृष्ठगत्वं तु भ्रमणवशेन सूर्यो ह्यहोरात्रमध्ये उदयकालादारभ्य प्रहराष्टकेन प्रदक्षिणं प्राच्याद्यष्टौ दिशो भ्रमतीति । यदाह वसंतराजः—' दग्धा दिगैशी ज्वलिता दिगैंद्री प्रधूमिता चानलदिक् प्रभाते । इत्येवमेव प्रहराष्ट्रकेन भुंक्ते दिशोऽष्टौ सविता क्रमेण ॥ दग्धा दिगुक्ता दिननाथमुक्ता विवस्वदाप्ता भवति प्रदीप्ता । संधूमितायां सविता प्रयाता शेषा दिगंताः खलु पंच शांताः ॥' इति । एतेन भ्रमणप्रकारेण यस्यां दिशि यस्मिन् प्रहरे भ्रमणसंभवः सा दिक् सूर्यसंमुखेत्युच्यते । तत्पंचमी दि सूर्य पृष्ठगतेत्युच्यते इति पितृचरणा व्याचख्युः । वयं त्वेवं व्याकुर्मःशस्त इति द्वादशराशिचक्रभ्रमवशेन यस्यां दिश्यर्कः स्थितस्तां पृष्ठतः कृत्वा यायादित्यर्थः। यथा-लग्नस्थेऽर्के पश्चिमां दिशं गच्छेत्, चतुर्थस्थे सूर्ये दक्षिणां दिशं गच्छेत्, सप्तमे सूर्ये पूर्वा गच्छेत्, दशमस्थे सूर्ये उत्तरां दिशं गच्छेत्; यदाह देवलः – 'लग्नस्थे वरुणाशां हिबुकस्थे दक्षिणां रवौ यायात् । सप्तमगे पूर्वाशां मेषूरणसंस्थिते सौम्याम् ॥' इति । एवं विदिक्ष्वपि तुल्यन्यायत्वाज्ज्ञेयम् । यथा-द्वितीयस्थे तृतीयस्थे वा सूर्ये नैर्ऋतीं गच्छेत्, पंचमस्थे षष्ठस्थे वा सूर्ये आग्नेयीं गच्छेत्, अष्टमस्थे नवमस्थे वा सूर्ये ऐशानीं गच्छेत्, एकादशस्थे द्वादशस्थे वा सूर्ये वायव्यां गच्छेदिति । अथ तारानिषेध उच्यते - जनुरिति ॥ स्वजन्मनक्षत्राद्दिननक्षत्रं यत्संख्यं स्यात्तन्नवभक्तमवशिष्टाः प्रथमसप्तमपंचमतृतीयाख्यास्ताराश्चेत्स्युस्तदा नेष्टा निषिद्धाः । यदुक्तं रत्नमालायां श्रीपतिना - ' त्यक्त्वा त्रिपंचादिमसप्तताराः' इति । नारदो -- Page #349 -------------------------------------------------------------------------- ________________ तत्र तिथि-नक्षत्रादिशुद्धिः] यात्राप्रकरणम् ११ । ३३३ ऽपि-'विपंचसप्तत्र्यायेषु यात्राभीष्टफलप्रदा' इति । जनुरित्यादिनक्षत्रोक्तिसमीपे वक्तव्यमप्यत्रोक्तं पादपूरणार्थम् ॥ ८ ॥ अथ तिथिनक्षत्रशुद्धी भुजंगप्रयातेनाहन षष्ठी न च द्वादशी नाष्टमी नो सिताद्या तिथिः पूर्णिमाऽमा न रिक्ता । हयादित्यमित्रदुजीवांत्यहस्त श्रवोवासवैरेव यात्रा प्रशस्ता ॥९॥ नेति ॥ सिताद्या तिथिः शुक्लपक्षप्रतिपत् , अर्थात् कृष्णपक्षप्रतिपदुत्तमा; अमा अमावास्या, अन्यास्तिथयो नामतःप्रसिद्धा ज्ञेयाः; आसु तिथिषु यात्रान प्रशस्तेति वाक्यार्थः । पदार्थस्त्वयम्-षष्ठी न यात्रायां प्रशस्तेत्यर्थः। एवं सर्वत्र, बहुनकारकरणं कवित्वे पदानां पुनरुक्त्या गौरवलाघवविचारो नास्तीति द्योत. यितुम् । 'न खरो न च भूयसा मृदुः' इतिवत् । यदाह नारद:-षध्यष्टमीद्वादशिकारिक्तामावर्जितासु च । यात्रा शुक्ल प्रतिपदि निधनायाऽधनाय वा ॥' इति । अर्थात्षष्ट्यादिनिषिद्धतिथिव्यतिरिक्तास्तिथयो यात्रायां प्रशस्ता इत्यर्थः । अत्र प्रत्येकं तिथिफलान्याह वसिष्ठः-'वलक्षपक्षे प्रतिपत्प्रयाणे भंगप्रदा वा निधनप्रदा वा । यशस्करी भूरिधनप्रदा च या पंचमी मृत्युकरी च षष्ठी ॥ सप्तमी विजयदा ह्यथाष्टमी शोकदुःखभयदामयप्रदा । सर्वदुःखशमनी यशस्करी लाभदा च दशमी निरंतरम् ॥ पशुप्रदा मानकरी सुगंधरतांबरानेकशुभप्रदा स्यात् । एकादशी चित्रमृगप्रभूतधान्याकरा द्युत्तमवस्तुदा स्यात् ॥ भूरिभूतिनाशिनी भूरिशर्महारिणी भूरिभीतिदायिनी द्वादशी प्रभंगदा । त्रयोदशी सुभोगदा विपक्षपक्षनाशिनी विनाशदाथ पूर्णिमा यशाक्षयं करोत्यमा ॥' वलक्षपक्षः शुक्लपक्षः । यस्यां प्रतिपदि सत्यपि उदये चंद्रस्यातिक्षीणत्वाझंगप्रदत्वं, यदा तु चंद्रोदयाभाव एव तदा निधनप्रदत्वं मरणदातृत्वं, अर्थात् कृष्णपक्षप्रतिपदुत्तमा; आहुश्च–'प्रतिपत्सु प्रयातानां सिद्धिरेव न संशयः' इति, तत्कृष्णप्रतिपद्विषयम् । हयेति । ननु तिथयः प्रोक्ताः, मध्ये वारान्विहाय नक्षत्रोक्तिर्न संगच्छते । किंच वसिष्ठेनोक्तत्वाद्वारा वक्तव्या एव; 'सुरेज्यदैत्येज्यशशींदुजानां वाराश्च वर्गाः शुभदाः प्रयाणे । आदित्यभूसूनुशनैश्चराणां वाराश्च वर्गा न शुभप्रदाः स्युः ॥' इति । फलान्यायाह राजमार्तड:-'सूर्यदिनेऽध्वनि नाशश्चंद्रे शक्तिक्षयोऽर्थनाशश्च । ज्वलनासक्पित्तरुजः कौजे बौधे सुहृत्प्राप्तिः । जैवे जयधनलब्धिः शुक्रे स्त्रीवस्त्रगंधधनलाभः । दैन्यवधबन्धरोगान्प्राप्नोति दिनेऽर्कपुत्रस्य ॥' इति । तस्माद्वारा वक्तव्या एवेति चेत् । उच्यते,-न वक्तव्या एव वारा इति वयं ब्रूमः । कुतः? नारदकश्यपावृषिभिरनुक्तत्वात् । किंच 'न मंदेंदुदिने प्राची न गच्छेद्दक्षिणां गुरौ । सितार्कयोन प्रतीची नोदीची ज्ञारयोरपि ॥' इति नारदवाक्यबोधि Page #350 -------------------------------------------------------------------------- ________________ मुहूर्तचिंतामणिः । [यात्रायां प्रशस्तनक्षत्राणि तम्, 'तुहिनकरमंदवारे शक्रदिशं न बजेद् गुरौ च याम्यायाम् । रविसितदिने प्रतीच्यां सौम्यदिशं ज्ञारयोश्च वारशूलं स्यात् ॥' इति वसिष्ठवाक्यबोधितमपि पापग्रहवारशूलं सर्वमते निरर्थकमापयेत, सामान्यत एव निषेधसत्वात् । दोषाधिक्यसूचनार्थमिति चेन्न । भिन्नकर्तृकेषु मुनिग्रंथेषु मुनिवचनानां वैयर्थ्यानहत्वादेवंविधा गतिरुचिता; नत्वेककर्तृके ग्रंथे । तत्र हि पूर्वापरविरोधे अर्थातरं वा कार्य, ग्रंथांतरेण सहैकवाक्यता वा कार्या । तत्रायं वसिष्ठवाक्यस्वरस:-'तुहिनकरमंदवारे' इति वाक्यात्पापवारनिषेधो गौण इत्यनुमीयते । तत्र तस्य गतिस्त्वेवम्-यदा स्वजन्मराशेरुपचयस्थानस्थो यो ग्रहः स्यात्स शुभः पापो वा भवतु सर्वदिक्षु हितः परंतु शूलदिशो विहाय, यदा त्वनुपचयस्थानस्थः स्यात्स कुत्रापि न हितः । यदाह राजमातेंड:-'उपचयकरग्रहदिने शुद्धिः क्रूरेऽपि पापिनां भवति । सौम्येऽप्यनुपचयस्थे न भवति यात्रा शुभा यातुः ॥' इति । एवं ग्रंथभेदेन चंद्रशुभाशुभोक्तिरपि परिहर्तव्या । केचित् पुष्टक्षीणचंद्रविषयेत्याहुः । तस्मानार्थो वारोक्त्या । अतो ग्रंथकृतापि नोक्ता वारा इत्यलमतिप्रसंगेनेति प्रस्तुतमनुसरामः। हयेति । हयोऽश्विनी, आदित्यं पुनर्वसुः, मित्रोऽनुराधा, इंदुम॒गः, जीवः पुष्यः, अंत्यं रेवती, हस्तादयः प्रसिद्धाः; एतैर्नवनक्षत्रैरेव यात्रा प्रशस्तोत्तमा । यदाह वसिष्ठः--'पौष्णद्वयादित्यकरेज्यमित्रविष्ण्विदुवस्वाह्वयभानि यानि । श्रेष्ठानि यात्रासु नवैव तानि मुक्त्वा त्रिपंचादिमसप्तमानि॥' इति । श्रेष्ठानि' इत्युक्तेः कियतां नक्षत्राणां मध्यमत्वं कियतां निकृष्टत्वं चानुमीयते । तदपि तेनैवोक्तम्'तिनोत्तरावारुणनैत्रतेंद्रपूर्वात्रयं ब्राह्मभयुग्दशैव । मध्यानि नेष्टान्यनलानिलेशद्विदैवचित्राहिमघांतकानि ॥' इति । तिस्र उत्तरा इति वक्तव्ये तिस्रोत्तरा इत्यार्षः संधिः । गुरुस्तु बहूनि भानि निषिद्धान्याह-'पूर्वासु त्रिषु याम्यः ज्येष्ठायां रौद्भौरगे । सर्वाशासु गते यात्रा प्राणहानिर्भविष्यति ॥' इति । केचित्तु-'पूर्वात्रयं सानलमग्रजानां राज्ञां तु पुष्येण सहोत्तराणि । सपौष्णमैत्रं पितृदैवतं च प्रजापतेभं च कृषीवलानाम् ॥ आदित्यहस्ताभिजिदाश्विनानि वणिग्जनानां प्रभवंति भानि । मूलत्रिनेत्रानलवारुणानि भान्युग्रजातेः प्रभविष्णुतायाः ॥ सौम्येंद्रचित्रावसुदैवतानि सेवाजनस्वाम्यमुपागतानि । सापं विशाखा श्रवणो भरण्यश्चांडालजातेरभिनिर्दिशंति ॥' इति वराहोक्तेर्जातिविशेषेण यात्रानक्षत्राण्याहुः; तच्चिंत्यम् । यतो वराहसंहितायां नक्षत्रव्यूहाध्याये पंचदशसंख्याके एतानि पद्यान्युक्तानि, तत्र देशजातिवस्त्वाद्युक्तेरशुभोपघाते तेषां देशानां जातीनां च गोधूमादिवस्तूनां च पीडा; अन्यथा हि शुभमिति तस्यार्थः । उक्तं च तत्रैव वराहेण-रविरविसुतभोगमागतं क्षितिसुतभेदनवक्रदूषितम् । ग्रहणगतमथोल्कयाहतं नियतमुषाकरपीडितं च यत् ॥ तदुपहतमिति प्रचक्षते प्रकृतिविपर्यययातमेव वा । निगदितपरिवर्गदूषणं कथितविपर्ययगं समृद्धये ॥' इति । परिवर्गः स्ववर्गः ॥ ९॥ Page #351 -------------------------------------------------------------------------- ________________ ३३५ तत्र वार-नक्षत्र-शूलादि ] यात्राप्रकरणम् ११ । अथ वारशूल-नक्षत्रशूले पृथ्वीछंदसाहन पूर्वदिशि शक्रभे न विधुसौरिवारे तथा न चाजपदभे गुरौ यमदिशीनदैत्येज्ययोः। न पाशिदिशि धातृभे कुजबुधेऽयमा तथा न सौम्यककुभि व्रजेत्स्वजयजीवितार्थी बुधः ॥१०॥ न पूर्वदिशीति ॥ शक्रभे ज्येष्ठानक्षत्रे पूर्वदिशि न व्रजेत् । तथा विधुसौरिवारे सोमशनिवारेऽपि पूर्वदिशि न व्रजेत् । तथा अजपदभे पूर्वाभाद्रपदानक्षत्रे तथा गुरौ गुरुवारेऽपि यमदिशि न व्रजेत् । इनदैत्येज्ययोः रविशुक्र. वारयोस्तथा धातृभे रोहिण्यां पाशिदिशि पाशी वरुणस्तस्य दिशि पश्चिम दिशि न व्रजेत् । कुजबुधे मंगलबुधवारे तथार्यमा उत्तराफल्गुन्यां सौम्यककुभ्युत्तरदिशि न व्रजेत् । कः ? बुधः पंडितो ज्ञाता वा राजादिः । कीदृशो बुधः ? स्वजयजीवितार्थी । स्वं धनं, जयः शत्रुपराजयपूर्वकः स्वोत्कर्षः, जीवितमायुष्यं, एतानि अर्थयतेऽसौ । गच्छतश्च पुंसो द्रव्यनाशो जयनाशो मरणं वा स्यादिति निष्कृष्टोऽर्थः । यदाह नारदः-'न मंदेंदुदिने प्राची न बजेद्दक्षिणां गुरौ । सितार्कयोन प्रतीची नोदीची ज्ञारयोरपि ॥' इति । राजमार्तडेन विशेष उक्तः-'तोयेशवह्निधनदांतकराक्षसानां यातोऽथवानिलशतक्रतुशंकराणाम् । दिग्भागमुष्णकिरणादिदिनेषु देवैः संरक्षितोऽपि निधनं न चिरादुपैति ॥ सूर्य शुक्रे कुजे राहो मंदे चंद्रे बुधे गुरौ । अग्रतः शोभना यात्रा पृष्ठतो मरणं ध्रुवम् ॥ प्रतीची रविवारेण प्राची च रविनंदने । उदीची भूमिपुत्रेण न यायाद्दक्षिणां गुरौ ॥' इति, तदेतदार्षवाक्यमूलाभावादुपेक्ष्यम् । वसिष्ठः'पुरुहूतदिशं पुरंदरः नेयाद्याम्यदिशं त्वजांघ्रिधिष्ण्ये । जलनाथदिशं पितामहः शूलाख्यान्यथ सौम्यमर्यमः॥' इति । पितामहः रोहिणी । सौम्यं सोमदेवताकं दिशम् , उत्तरदिशमित्यर्थः । एतत्फलमप्याह वसिष्ठः-'शूलसंज्ञानि धिष्ण्यानि शूलसंज्ञाश्च वासराः । यायिनां मृत्युदाः शीघ्रमथवा चार्थहा. निदाः ॥' इति । वारशूलपरिहारमाह गुरुः-'सूर्यवारे घृतं प्राश्य सोमवारे पयस्तथा । गुडमंगारके वारे बुधवारे तिलानपि ॥ गुरुवारे दधि प्राश्य शुक्रवारे यवानपि । माषान्भुक्त्वा शनेवारे गच्छन्शूले न दोषभाक् ॥ तांबूलं चंदनं मृच्च पुष्पं दधि घृतं तिलाः । वारशूलहराण्यांद्दानाद्धारणतोऽदनात् ॥' इति । ननु 'हयादित्य-' (१११९) इत्यादिना नवैव भानि यात्रायां प्रशस्तान्युक्तानि, तत्रैतासां ज्येष्ठापूर्वाभाद्रपदारोहिण्युत्तराफाल्गुनीनां यात्रायां प्राप्यभावः । किंच अग्रे (पृ०३५३) दिग्द्वारभानि सपरिघानि वक्ष्यते। तत्र ज्येष्टा पश्चिमास्थत्वात्प्रागुदीच्योः परिघः । पूर्वाभाद्रपदोत्तरास्थत्वाद्दक्षिणापश्चिमयोः परिघः। रोहिणी प्राक्स्थत्वाद्दक्षिणपश्चिमयोः परिघः। उत्तराफाल्गुनी दक्षिणास्थत्वात्प्रागुदीच्योः परिघः। तत्र 'प्राप्तिपूर्वकत्वात्प्रतिषेधस्य' इति न्यायान्नक्षत्रशूलाभिधानं व्यर्थमिति चेत् । उच्यते,-'योगासिद्धिर्धरणिपतीनाम्' (११।५४) इति वक्ष्यति-तत्र Page #352 -------------------------------------------------------------------------- ________________ ३३६ मुहूर्तचिंतामणिः । [ क्वचित्कालशूले यात्रानिषेधः योगयात्राया आत्ययिककार्यविषयत्वात् पंचाङ्गशुद्धिमनादृत्य केवललग्नशुद्धौ राज्ञां यात्रायाः प्रशस्ततरत्वोक्तेः । यदाह पराशरः - 'आत्ययिककार्ययाते दैवे - न निपीडितेच यातव्ये । केवलविलग्नयोगादपि याता सिद्धिमाप्नोति ॥' इति । तत्र यदि नक्षत्रशुद्धौ दैवाद्विहितनक्षत्रादन्यनक्षत्रेष्वपि यात्राप्रसक्तौ सत्यां कदाचित्पूर्वस्यां दिशि गंतुर्ज्येष्ठानक्षत्रेऽपि यात्रा स्यात् । एवं दक्षिणादिदिग्गमने पूर्वाभाद्रपदा दिनक्षत्रेष्वपि यात्रा स्यात्, सामा भूदित्येतदर्थं नक्षत्रशूलोक्तिः । किंच 'तिस्रोत्तरा - ' इत्यादीनां दशनक्षत्राणां निंद्यानिंद्यव्यतिरिक्तफलत्वेन मध्यमत्वोक्तेर्विहितनक्षत्रालाभसंभवे मध्यमनक्षत्रेषु यात्रायां प्राप्तायां ज्येष्ठादिषु दिक्शूलनक्षत्रेषु सर्वथा यात्रा न कार्येति वा समाधिः । अत एव दक्षिणदिशि त्रयाणामपि प्राशस्त्यावगतेः 'ऋक्षगुणैरपि भूदेवानाम् ' (११।५४) इति वचनाब्राह्मणानां नक्षत्रप्राशस्त्यस्यावश्यकत्वाच्च मध्यमनक्षत्रेषु सर्वथा यात्रा न कार्या इति वा समाधिः । अत एव दक्षिणदिशि धनिष्ठादिपंचकनिषेधोपपत्तिः । शततारका पूर्वाभाद्रपदोत्तराभाद्रपदानां मध्यमत्वात् । नन्वेवं सति दक्षिणदिशि धनिष्ठादिपंचकनिषेधादेव पूर्वाभाद्रपदा निषेधः सिद्धः, किं पुनर्निषेधेन ? उच्यते, – दोषाधिक्य सूचनार्थमेवेति ऋजवः । वयं तु यदा एकस्मिन्नेवाहनि प्रयाणं नगरप्रवेशश्च संभवेत्तदा प्रावेशिक एव मुहूर्तो विचार्य इत्युक्तम् । यदाह गर्गः - 'प्रवेशनिर्गमौ स्यातामेकस्मिन्नेव वासरे । तदा प्रावेशिकं चित्यं बुधैर्नैव तु यात्रिकम् ॥' इति । भृगुरपि - 'एकस्मिन्नपि दिवसे यदि चेद्गमनं प्रवेशश्च । प्रतिशुक्रवारशूलं न चिंतयेद्योगिनीपूर्वम् ॥' इति । तत्र यथा प्रतिशुभद्रादिको दोषो नास्ति, तथेह दक्षिणदेशगमने पंचकदोषोऽपि नास्ति, ताशेऽपि गमने पूर्वाभाद्रपदानिषेधो यथा स्यादित्यजपाग्रहणं कृतमिति ब्रूमः । एतच्च 'योगात्सिद्धिर्धरणिपतीनाम् ' (११।५४) इत्यत्र 'कुल्माषांस्तिलतंडुलानू' (११।८१) इत्यत्रापि च सम्यक् विचारयिष्यत इत्यलं पल्लवितेन ॥ १० ॥ अथ ध्रुवादिनक्षत्रैः पूर्वाह्लादिकालविशेषे कालशूले यात्रानिषेधं शार्दूलविक्रीडितेनाह पूर्वाह्णे ध्रुवमिश्र भैर्न नृपतेर्यात्रा न मध्याह्न के तीक्ष्णाख्यैरपराह्न के न लघुभैर्नो पूर्वरात्रे तथा । मैत्राख्यैर्न च मध्यरात्रिसमये चोग्रैस्तथा नो चरै रात्र्यं ते हरिहस्तपुष्यशशिभिः स्यात्सर्वकाले शुभा ॥। ११ ॥ पूर्वा इति ॥ नृपतेरिति सर्वत्र संबध्यते । ध्रुवाख्यैर्मिश्राख्यैश्च भैर्नक्षत्रैः पूर्वाह्णे यात्रा न स्यात् । तीक्ष्णाख्यै भैर्मध्याह्नके यात्रा न स्यात् । मध्याह्नक इति स्वार्थे कः । अपराह्नके लघुभैर्यात्रा न स्यात् । तथा पूर्वरात्रे मैत्राख्यैर्यात्रा न स्यात् । मध्यरात्रिसमये उग्रनक्षत्रैर्यात्रा न स्यात् । तथा राज्यंते रात्रि तृतीयभागे चरनक्षत्रैर्यात्रा न स्यात् । अत्र विशेषः - हरिहस्तपुष्यशशिभिः श्रवण Page #353 -------------------------------------------------------------------------- ________________ कालविशेषे निषेधः ] यात्राप्रकरणम् ११ । हस्तपुष्यमृगैः सर्वकाले षष्टिघटिकात्मकेऽहोरात्ररूपे यस्मिन्कस्मिंश्चित्काले शुभा स्यात् । यदाह वसिष्ठः - 'स्थिरसाधारणधिष्ण्यैः पूर्वाह्ने नैव गमनं सत् । गमनं न दारुणक्षैर्दिनदलसमये न कार्यमशुभं स्यात् ॥ क्षिप्रैर्नापरवासरसमये मृदुभिर्न रात्रिमुखे । उग्रक्षैर्निशि समये चरधिष्ण्यैरुषसि न श्रेष्ठम् ॥' निशिसमये=अर्धरात्रे । तथा चाह श्रीपतिः - 'पूर्वाह्णे ध्रुवमिश्रभैर्न गमनं तीक्ष्णैर्न मध्यंदिने श्रेष्ठं नापरवासरे च लघुभिमैत्रैर्न रात्रेर्मुखे । उग्राख्यैर्न च मध्यरात्रिसमये नेष्टं निशांते चरैः सर्वेष्वेव करैंदवेज्यहारिभिः कालेषु यात्रा शुभा ॥' इति । अत्र दिनस्य रात्रेश्च त्रेधा विभागं कृत्वा पूर्वाह्णादिव्यवहारः प्रसिद्धः । तदेतदुक्तं स्पष्टं महेश्वरेण - 'आद्येऽह्नखिलवे ध्रुवर्क्षसहितैर्मिश्रैर्न यात्रा शुभा नो तीक्ष्णैरपरांशके न लघुभैरह्नस्त्रिभागेऽन्तिमे । त्र्यंशे त्वादिमके निशो न मृदुभैरुमैर्न मध्येंऽशके नांत्यांशे चरभैः करश्रुतिमृगेज्यक्षैः शुभा सर्वदा ॥' इति । ननु 'प्राप्तिपूर्वकत्वात्प्रतिषेधस्य' इति न्यायात् ध्रुवक्षेषु यात्राप्राप्तिरेव नास्ति, किं पुनः पूर्वाह्नादिकालविशेषनिषेधेनेति चेत् । उक्तोऽत्र समाधिः । ननु प्राक्पद्ये 'तिस्रोत्तरा' इत्यादिधुवादीनां मध्यमत्वमं गीकृत्य समाहितम् । मिश्रादीनां तु विशिष्य निषेधात्कथं प्रागुक्तः समाधिरत्र संगच्छेतेति चेत् । सत्यम् । तुल्यन्यायत्वादावश्यकयात्रायां यथा भद्राव्यतीपातादिषु दुष्टेषु केवलां लग्भशुद्धिमाश्रित्यैव यात्रा राज्ञां प्रशस्ता तथा निषिद्धनक्षत्रेष्वपि । अस्मिन्नेवार्थे इदमेव वाक्यं ज्ञापकमिति वयं ब्रूमः । एवं सति काल विशेष निषेधोपपत्तिरपि संगता भवति । पूर्वरात्र इति । रात्रेः पूर्वः पूर्वरात्र इति 'पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे' इत्येकदेशिसमासस्तत्पुरुषः । तत्र समासशास्त्रांतर्गतस्य प्रथमांतपूर्वापरादिवाक्यस्थस्य पूर्वशब्दस्य प्रथमानिर्दिष्टं समास उपसर्जनम्' इत्युपसर्जनसंज्ञकत्वात् 'उपसर्जनं पूर्वम्' इति पूर्वनिपातः । ततः ‘भहः सर्वैकदेशसंख्यातपुण्याच्च रात्रेः' इत्यच्प्रत्ययः समासांत: । 'यस्येति च' इतीकारलोपः । अमुमेवाशयं मनसि निधाय 'उग्राख्यैर्न च मध्यरात्रसमये' इत्यत्र कृतसमासांतमध्यरात्रशब्दं केचित् पठंति; तचिंत्यम् । यतो रात्रेर्मध्यं मध्यरात्र इति विगृह्यते तदैकदेशिसमासविधायकसूत्रे मध्यशब्दस्याभावादेकदेशिसमासोऽनुपपन्नः । अत एव पूर्वनिपातोऽपि न । समासांतस्य त्वनुन्मेष एव । तस्माद्वात्रिमध्यसमये इत्येव पाठ्यं स्यादिति कथमयं प्रयोगः ? उच्यते, - मध्या चासौ रात्रिश्च मध्यरात्रिरिति 'विशेषणं विशेष्येण बहुलम्' इति समानाधिकरणस्तत्पुरुषः । 'पुंवत्कर्मधारयजातीय देशीयेषु' इति पूर्वपदस्य पुंवद्भावः। 'पूर्वा दिक् पश्चिमं नभः' इत्यादिवदेकदेशपर्यवसानमर्धरात्र इत्यर्थः। समासांतस्त्वत्र नैव भवति, 'अहः सर्वैकदेश -' इत्यत्र 'कृत्रिमाकुत्रिमयोः कृत्रिमे कार्ये संप्रत्ययः' इति न्यायादेकदेशिशब्देन पूर्वापरादिसूत्रस्थः प्रतिपदोक्त एकदेशिसमासो गृह्यते, तत एव च समासांतविधानादिति घंटापथकारादयः । ये त्वेवंविधेष्वपि समासेष्वेकदेशिसमासमाश्रित्य समासांतमाहुस्ते समासविधायकसूत्राभावात्समासांतविषये न्यायविरुद्धत्वाच्च चिंत्यो२९ मु० चि० -३३७ Page #354 -------------------------------------------------------------------------- ________________ ३३० मुहूर्तचिंतामणिः। [जीवपक्षादिसंज्ञाः कयो ध्येयाः । अतः 'उग्राख्यैनं च मध्यरात्रिसमये' इति श्रीपतिवाक्येऽपि मध्यरात्रिरितीकारांतः पाठः पाठ्यः । एवं मूलेऽपीत्यलमतिविस्तरेण ॥११॥ __ अथ तत्रापि कालविशेषे मध्यमानां निषिद्धानां च कियतां भानां वयंघटिका इंद्रवज्राछंदसाहपूर्वाग्निपित्र्यांतकतारकाणां भूपप्रकृत्युग्रतुरंगमाः स्युः । स्वातीविशाखेंद्रभुजंगमानां नाड्यो निषिद्धा मनुसंमिताश्च ॥१२॥ पूर्वेति ॥ पूर्वात्रये प्रथमातिक्रमे कारणाभावादादिमाः षोडश नाड्यो निषिद्धाः । एवमग्नेः कृत्तिकाया एकविंशतिघटिकाः, पित्र्यस्य मघाया एकादश घटिकाः, अंतकस्य भरण्याः सप्तघटिकास्त्याज्या इत्यर्थः। स्वातीविशाखाज्येष्ठाश्लेषाणां चतसृणां तारकाणां च चतुर्दश घटिकास्त्याज्याः । यदाह भरद्वाजः-'भरण्यां सप्त घटिका वह्निों चैकविंशतिः। एकादश घटीः पित्र्ये त्रिपूर्वासु च षोडश ॥ स्वातीसार्पविशाखासु ज्येष्ठायां च चतुर्दश ॥ वर्जयेच्छेषघटिका यातुः शुभफलप्रदाः ॥' इति एतदप्यावश्यकगमनविषयम् । तथा च तेनैवोक्तम्-'निषिद्धष्वपि ऋक्षेषु त्यक्त्वा दुष्टघटीः क्रमात् । तदन्या घटिका ग्राह्या अवश्यगमने सति ॥' इति । अपिशब्दान्मध्यमेषु ऋक्षेषु ॥१२॥ अथ मतांतरेण वयंघटीत्वमिंद्रवज्रयाहपूर्वार्धमाग्नेयमघानिलानां त्यजेद्धि चित्राहियमोत्तरार्धम् । नृपः समस्तां गमने जयार्थी स्वाती मघां चोशनसो मतेन ॥१३॥ पूर्वार्धमिति ॥ स्पष्टार्थमिदं पद्यम् । यदाह बृहद्यात्रायां वराहः-'विवजयेत्त्वाष्ट्रयमोरगाणामधं द्वितीयं गमने जयेप्सुः । पूर्वार्धमाग्नेयमघानिलानां स्वाती मघां चोशनसः समस्तम् ॥' इति । उशनसो मतेनेति शेषः ॥ १३ ॥ अथ भानां जीवपक्षादिकाः संज्ञा भुजंगप्रयातेनाह तमोभुक्तताराः स्मृता विश्वसंख्याः । शुभो जीवपक्षो मृतश्चापि भोग्याः । तदाक्रांतभं कर्तरीसंज्ञमुक्तं ततोऽळंदुसंख्यं भवेद्स्तनाम ॥ १४ ॥ • तमोभुक्ततारा इति ॥ तमो राहुनामा ग्रहो विपरीतगतिरस्ति, आगमप्रामाण्यात् ; तेन भुक्ता मुक्ता एवंविधा विश्वसंख्यास्त्रयोदशसंख्यास्तारा नक्षत्राणि जीवपक्षो जीवपक्षसंज्ञानि शुभः शुभकार्यकराणि । भोग्याः राहणाक्रांतनक्षत्रानोग्यानि भोक्तुं योग्यानि गम्यानि त्रयोदश नक्षत्राणि मृतो मृतपक्षसंज्ञानि । तदाक्रांतभं तेन राहुणाक्रांतभं कर्तरी इत्येवं नामकम् । ततो Page #355 -------------------------------------------------------------------------- ________________ जीवपक्षादीनां फलवैशिष्ट्यं ] यात्राप्रकरणम् ११ । राहाक्रांतनक्षत्रादक्षंदुसंख्यं पंचदशसंख्याकं भं ग्रस्तनामकं स्यात् । यथाराहुर्हस्तेऽस्ति, तेन भुक्तानि चित्रास्वातीविशाखानुराधाज्येष्ठामूलपूर्वाषाढोत्त. राषाढाभिजिच्छ्रवणधनिष्ठाशततारकापूर्वाभाद्रपदाख्यानि भानि जीवपक्षः। तदाक्रांतभात् हस्तात्पंचदशमुत्तराभाद्रपदाभं ग्रस्तसंज्ञं तेन राहुणा भोग्यानि उत्तराफल्गुनीमघाश्लेषापुष्यपुनर्वस्वामृगरोहिणीकृत्तिकाभरण्यश्विनीरेवत्याख्यानि मृतपक्षः हस्तस्तु कर्तरीसंज्ञमिति । यदाह वसिष्ठः-'राहुस्थितक्ष तस्यास्यं पुच्छं पंचदशं ततः । तदेव केतुर्विज्ञेयः सदा राहुः प्रतीपगः ॥ त्रयोदश च देयानि धिष्ण्यान्युभयपार्श्वयोः । मुखभागो मृतः पक्षो जीवपक्षस्तु पृष्टगः॥' इति । स्वरोदयेऽपि-राहुभुक्तानि ऋक्षाणि जीवपक्षस्त्रयोदश । त्रयोदशैव भोग्यानि मृतपक्षः प्रकीर्तितः ॥ यत्र ऋक्षे स्थितो राहुवंदनं तद्विनिर्दिशेत् । मुखपंचदशे ऋक्षे तस्य पुच्छं व्यवस्थितम् ॥' इति । ग्रंथकृता कर्तरीग्रस्तसंज्ञाः समरसारोक्तत्वात्कृताः। स्वरोदये षडंगरावभिधाने च कृताः । अत्र जीवपक्षमृतपक्षयोरन्वर्थसंज्ञाविज्ञानाजीवपक्षे यात्रा कार्या । मृतपक्षे यात्रा न कार्येति व्यंग्योऽर्थः । कर्तरीग्रस्तयोस्तु फलं स्वयमेव वक्ष्यति 'ग्रस्तक्षं मृतपक्षतः शुभकरं ग्रस्तात्तथा कर्तरी' (११।१५) इत्यादिना ॥ १४ ॥ अथ जीवपक्षादीनां विशेषफलं शार्दूलविक्रीडितेनाहमार्तडे मृतपक्षगे हिमकरश्चेजीवपक्षे शुभा __यात्रा स्याद्विपरीतगे क्षयकरी द्वौ जीवपक्षे शुभा। ग्रस्तर्क मृतपक्षतः शुभकरं ग्रस्तात्तथा कर्तरी ___ यायींदुः स्थितिमान् रविर्जयकरौ तौ द्वौ तयोर्जीवगौ १५ मार्तड इति ॥ मृतपक्षगते मार्तंडे सूर्ये सति चंद्रश्चेजीवपक्षे स्यात्तदा यात्रा शुभा स्यात् । विपरीतगे मार्तडे जीवपक्षगे सति चंद्रश्चेन्मृतिपक्षगस्तदा क्रियमाणा यात्रा यातुः क्षयकरी स्यात् । उक्तं च स्वरोदये-'जीवपक्षे क्षपानाथे मृतपक्षे रवी तथा । तस्मिन्काले शुभा यात्रा विपरीतातु हानिदा ॥' इति । द्वौ सूर्याचंद्रमसौ चेजीवपक्षे स्यातां तदा शुभा शुभतरेत्यर्थः । अर्थात् द्वावपि सूर्याचंद्रमसौ मृतपक्षे स्यातां तदा यात्राऽतिक्षयकरी स्यात् । एतदप्युक्तं तत्रैव'चंद्रादित्यौ यदा युक्तौ जीवपक्षे व्यवस्थितौ । तत्र क्षेमं जयो लामो यात्राकाले न संशयः ॥ मृतपक्षे यथाकाले संस्थितौ चंद्रभास्करौ । तदा हानिर्भयं भंग मृत्युर्यात्राफलं मतम् ॥' इति । अस्यापवादमाह-ग्रस्तक्षमिति । मृतपक्षतः मृतपक्षसंज्ञकनक्षत्रगणात् ग्रस्तक्षं राहाक्रांतनक्षत्रात्पंचदशसंख्याकं भं शुभकरं स्यात् । यथा शवान्मरिष्यमाणो देही प्रबलः, तथा ग्रस्ताद् ग्रस्तनक्षत्रात् कर्तरी राह्वाक्रांतं भं शुभकरं स्यात् । तदुक्तं समरसारे-प्रेताजग्धं किमपि तु वरं कर्तरी जग्धतश्च' इति । एवं सामान्यतः सर्वेषां यात्राफलविचारमभिधाय राज्ञा Page #356 -------------------------------------------------------------------------- ________________ · मुहूर्तचिंतामणिः। [सफलं कुलाकुलचक्र विशेषमाह-यायीति। द्विविधोराजा स्थायी यायी चेति । यो राजा स्वदेशे दुर्ग कृत्वा तिष्ठति स स्थायी । यो वैरिणमुद्दिश्य जिगमिषुः स यायी। तदुश्चंद्रो यायी यायिनो राज्ञः स्वामी, रविः स्थितिमान् स्थायिनो राज्ञः स्वामी, तौ द्वौ सूर्याचंद्रमसौ जीवगौ जीवपक्षगतौ संतो तयो राज्ञोः स्थायि-यायिनोर्जयकरौ संधिकरौ स्याताम् । रविश्वेज्जीवपक्षगः तदा स्थायिनो जयः, चंद्रश्चेज्जीवपक्षगस्तदा यायिनो जयः । अर्थात् द्वावपि चेत् मृतपक्षगौ तदा पराजयकरौ स्थाताम् । यदाह वसिष्ठः-'जीवपक्षगयोः सूर्यचंद्रयोः संधिमादिशेत् । उभौ पराजितौ ज्ञेयो मृतपक्षगयोस्तयोः ॥' इति । अत्रापि 'मार्तडे मृतपक्षगे' इत्यनुवर्तत एव । एवं सत्ययमर्थः-मृतपक्षगे सूर्ये चंद्रश्चेजीवपक्षगस्तदा यायिनां राज्ञां शुभा यात्रा जयः स्यात् स्थायिनां पराजयश्च । तदुक्तं वसिष्ठेन'रविः स्थायी शशी यायी तद्वशाच्च जयाजयो । मृतपक्षगते भानौ जीवपक्षगते विधौ ॥ यायिनां विजयस्तत्र स्थायिनां च पराजयः॥' इति । विपरीतगे इति । चंद्रे मृतिपक्षगते सूर्यश्चेजीवपक्षगतस्तदा स्थायिनां राज्ञा-शुभा यात्रा जयः स्यात् । अर्थाद्यायिनां पराजयः।उक्तं च तेनैव-'जीवपक्षगते सूर्य मृतपक्षगते विधौ । स्थायिनां विजयस्तत्र यायिनां च पराजयः ॥' इति । यदा तु सूर्यो राहाक्रांतनक्षत्रे चंद्रोऽक्षंदुसंख्ये तदा यायिनां स्वल्पो जयः स्थायिनां नैव । यदा तु चंद्रो राहाक्रांतनक्षत्रे सूर्योऽळंदुसंख्ये तदा स्थायिनां स्वल्पो जयो यायिनां नैव । यदा द्वावपि राहाक्रांतनक्षत्रे तदा द्वयोरपि पराजयः । यदा तु अरुंदुसंख्यभस्थितौ द्वौ तदा द्वयोरपि संधिरित्यपि विशेषो ध्येयः । यदाह वसिष्ठः'चंद्रे पुच्छे मुखे सूर्ये जयः स्वल्पोऽपि यायिनाम् । व्यत्यये व्यत्ययफलं युद्धेऽप्येवं विचिंतयेत् ॥ यात्रायामपि सर्वत्र चिंतनीयं प्रयत्नतः ॥' इति । तस्मादयं विचारो युद्धयात्रायां अर्थार्जनादिसामान्ययात्रायां च ज्ञेयः । सामान्यतो मंगलकृत्येष्वपि ज्ञेयः । उक्तं च खरोदये-'जीवपक्षस्थिते चंद्रे कार्य स्यादमृतोपमम् । मृतपक्षे मृतं ज्ञेयं यतश्चंद्रबले बलम् ॥' इति । अत्र खरोदयादियुद्धग्रंथेषु षडंगराहुदशांगराहुनक्षत्रराहुचरणराहुफलान्यभिहितानि, तानि ग्रंथका ग्रंथभूयस्त्वभयान्नोक्तानीति नास्माभिर्विविच्यंते, शुश्रूषुभिश्च तत एवावधार्याणीत्यलं पल्लवितेन ॥ १५ ॥ अथ सफलमकुलकुलाकुलचक्रं युद्धयात्रायां वसंततिलकाशार्दूलविक्रीडि-. ताभ्यामाह खात्यंतकाहिवसुपौष्णकरानुराधा दित्यध्रुवाणि विषमास्तिथयोऽकुलाः स्युः। सूर्यदुमंदगुरवश्च कुलाकुला ज्ञो मूलांबुपेशविधिभं दशषइद्वितिथ्यः॥ १६ ॥ पूर्वाश्वीज्यमदुकर्णदहनद्वीशेंद्रचित्रास्तथा शुक्रारौ कुलसंज्ञकाश्च तिथयोऽर्काप्टेंद्रवेदैर्मिताः । .१ अत्रापि 'यायींदुः स्थितिमान् रविः' इत्यादि चतुर्थचरणे। -- Page #357 -------------------------------------------------------------------------- ________________ पथिराहुचक्र] यात्राप्रकरणम् ११। यायी स्यादकुले जयी च समरे स्थायी च तद्वत्कुले संधिः स्यादुभयोः कुलाकुलगणे भूमीशयोर्युध्यतोः॥१७॥ खातीति । पूर्वेति । स्वाती प्रसिद्धा, अंतकं भरणी, अहिराश्लेषा, वसुधनिष्ठा, पोष्णं रेवती, करो हस्तः, अनुराधा, आदित्यं पुनर्वसु, ध्रुवाणि रोहिण्युत्तरात्रयं च, एतानि द्वादशभानि; विषमास्तिथयः प्रतिपत्तृतीयापंचमीसप्तमीनवम्येकादशीत्रयोदशीपंचदश्य इत्यष्टौ तिथयः, वाराः सूर्येदुमंदगुरवः, मंदः शनिः, चत्वारो वाराः; एतानि नक्षत्राणि तिथयो वाराश्च प्रत्येकमकुलसंज्ञका स्युः । अथ शो बुधवार एकः, मूलं प्रसिद्धं, अंबुपः शततारका, ईश आर्द्रा, विधिभमभिजित् , एतानि चत्वारि भानि; दशषदद्वितिथ्यः दशमीषष्ठीद्वितीयास्तिस्रस्तिथयश्व; एते पदार्थाः प्रत्येकं कुलाकुलसंज्ञकाः स्युः। अथ पूर्वास्तिस्रः अश्विनावश्विनी, इज्यः पुष्यः, मघा, इंदुम॒गः, कर्णः श्रवणः, दहनः कृत्तिका, द्वीशं विशाखा, इंद्रो ज्येष्ठा, चित्रा प्रसिद्धा, एतानि द्वादशभानि; शुक्रारौ शुक्रमंगलवारो, अर्केगवेदैर्मिताः द्वादशीचतुर्दशीचतुर्थीसंज्ञास्तिस्रस्तिथयः; एते प्रत्येकं कुलसंज्ञकाः स्युः। यदुक्तं स्वरोदये-'द्वितीया दशमी षष्ठी कुलाकुलमुदाहृताः। विषमा अकुलाः सर्वाः शेषाश्च तिथयः कुलाः। रविश्चंद्रो गुरुः सौरिश्चत्वारो ह्यकुला मताः। भौमशुक्रौ कुलाख्यौ च बुधवारः कुलाकुलः ॥ वारुणाभिजिन्मूलं कुलाकुलमुदीरितं । कुलानि मास(स्य?)धिष्ण्यानि शेषभान्यकुलानि तु ॥' अस्य फलमाह-यायीति । अकुलसंज्ञके तिथिवारनक्षत्राणां गणे समरे युद्धप्रारंभे सति यायी राजा जयी स्यात् । यदि कुलसंज्ञके तिथिनक्षत्रवारगणे सति समरे स्थायी राजा तद्वजयी जययुक्तः स्यात् । कुलाकुलसंज्ञके तिथिवारनक्षत्रगणे युद्ध्यतोयुद्धं कुर्वतोभूमीशयो राज्ञोरुभयोः परस्परं संधिः प्रीतिः स्यात् । उक्तं च स्वरोदये-तिथौ वारे च नक्षत्रे अकुले यायिनो जयः। कुलाख्ये स्थायिनो ज्ञेयः संधिश्चैव कुलाकुले ॥' इति । वसिष्ठेन तु फलांतरमप्युक्तम्-'कुलभेषु च ये जातास्ते मनुजा संभवंति कुलमुख्याः । उपकुलभे परविभवं भोक्तारस्त्वन्यभेषु सामान्याः' इति । एतत्तुल्यन्यायत्वाद्वारेषु तिथिष्वपि ध्येयम् ॥ १७ ॥ अथ पथिराहुचक्रं स्रग्धरयाहस्युर्धर्मे दस्रपुष्योरगवसुजलपद्वीशमैत्राण्यथार्थे याम्याजांघींद्रकर्णादितिपितृपवनोडून्यथो भानि कामे । वह्वया बुध्न्यचित्रानिक्रतिविधिभगाख्यानि मोक्षेऽथ रोहि ण्यार्यम्णाप्येंदुविश्वांतिमभदिनकराणि पथ्यादिराहौ॥१८॥ स्युरिति ॥ अश्विनीपुष्याश्लेषाधनिष्ठाशततारकाविशाखानुराधाख्यानि भानि धर्मे धर्मस्थाने लेख्यानि स्युः । अथ भरणीपूर्वाभाद्रपदाज्येष्ठाश्रवणपुन Page #358 -------------------------------------------------------------------------- ________________ मुहूर्तचिंतामणिः । [पथिराहुचक्रफलं र्वसुमधास्वात्याख्यान्युडूनि अर्थ लेख्यानि स्युः । अथ कृत्तिकाोत्तराभाद्रपदाचित्रामूलाभिजित्पूर्वाफाल्गुनीनक्षत्राणि कामे लेख्यानि स्युः । अथ रोहिण्युत्तराफाल्गुनीपूर्वाषाढामृगोत्तराषाढारेवतीहस्ताख्यानि भानि मोक्षमार्गे लेख्यानि स्युः। पथिशब्द आदिर्यस्य स तादृशे राही पथिराहावित्यर्थः । चक्रे इति विशेष्यमध्याहार्यम् । चक्रन्यासो यथा । तदुक्तं राजविजये-'ऊर्ध्वगाः पंच रेखाः स्युस्तिर्यरेखास्तथा नव । द्वात्रिंशत्कोष्टकैश्चक्रं पथिराहुः प्रकीर्तितः ॥ धर्मार्थकाममोक्षाः पथिराहुचक्रम् स्युरूध्वंकोष्टचतुष्टये । विन्यसेत्सर्पचलनादश्विन्यादीनि भान्यथ ॥' इति । सर्पचलनवद- | धर्मः अर्थः कामः मोक्षः नुलोमविलोमाभ्यां भानि लेख्यानीत्यर्थः । तदेतत्स्पष्टमुक्तमादियामले-'अश्विन्यादीनि चत्वारि गणयेत्सप्तधा पुनः । अनुलोमविलोमाभ्यां साभिजिति पुनःपुनः ॥ धर्मार्थकाममोक्षाख्या मार्गाश्चत्वार एव च ॥' इति । अत्र ग्रंथकृत्पद्ये गौरवदर्शनात्पूर्वपक्षो जायते' तदुपपत्तिस्तत्समाधिश्च 'अंधाक्षं वसुपुष्य-' (२।२२) इत्यादिपद्यव्याख्याने तिष्ठति, सा तत एवावधार्या । अत एवोक्तमादियामले-'तिष्याश्वाहिवि. शाखाश्च मैत्रं शतभिषग्वसुः । एतानि सप्त अभि उ ऋक्षाणि धर्ममार्गे नियोजयेत् ॥ अजपादमघाखातीयाम्यज्येष्ठाः पुनर्वसुः । श्रवणं 'सप्तताराश्च धनमार्गे प्रकीर्तिताः ॥ अहिर्बुभ्याभिजिन्मूलभगत्वाष्ट्राकृत्तिकाः । एतावत्यः सप्त ताराः काममार्गे व्यवस्थिताः ॥ विधींदुविश्वहस्ताश्च उत्तरावारिपौष्णकाः ॥ तारकाः सप्तसंख्याका मुक्तिमार्गे व्यवस्थिताः ॥' इति । विधिः रोहिणी ॥ १८॥ अथैवं पथिराहुचक्रमुक्त्वा तत्फलं स्रग्विणीछंदसाह धर्मगे भास्करे वित्तमोक्षे शशी वित्तगे धर्ममोक्षस्थितिः शस्यते । कामगे धर्ममोक्षार्थगः शोभनो मोक्षगे केवलं धर्मगः प्रोच्यते ॥ १९ ॥ धर्मग इति ॥ धर्ममार्गस्थिते भास्करे सूर्ये सति चेद्वित्तमोक्षगे अर्थमार्गे मोक्षमार्गे वा शशी स्यात्तदा शोभनश्चंद्रः । अथवा वित्तगे अर्थगे भास्करे Page #359 -------------------------------------------------------------------------- ________________ तिथिचक्रम् ] यात्राप्रकरणम् ११। सति धर्ममार्गस्थितो मोक्षमार्गस्थितो वा चेच्छशी स्यात्तदा शोभनः । अथवा कामगे काममार्गस्थिते भास्करे धर्ममार्गगो मोक्षमार्गगो वा अर्थमार्गगो वा स्याचेच्छशी तदापि शुभः । अथवा मोक्षमार्गस्थिते भास्करे केवलं धर्ममार्गस्थितश्वेचंद्रः स्यात्तदापि शुभः । अर्थात् विपरीतावस्थितौ द्वयोः सूर्याचंद्रमसोरशुभत्वं स्यात् । उक्तं चादियामले-'सूर्ये धर्मगते चंद्रो धने मोक्षे शुभप्रदः । सूर्ये धनगते वित्तमोक्षमार्गे शुभः शशी ॥ कामेऽर्के धर्ममोक्षार्थसंस्थश्चंद्रो जयप्रदः। मोक्षेऽर्के धर्मगश्चंद्रः शुभोऽन्यत्र न शोभनः ॥' इति । राजविजये तु शुभाशुभाख्यं फलद्वयमप्यनिहितम्'धर्ममार्गगते सूर्य चंद्रे तत्रैव संस्थिते । समं युद्धं भवेत्तत्र किंचिद्यायी जयी भवेत् ॥ धर्मे सूर्योऽर्थगश्चंद्रो यायिनो विजयप्रदौ । धर्मेऽर्कः कामगश्चंद्रो विरोधो बांधवैः सह ॥ धर्मेऽर्को मोक्षगश्चंद्रः शुभयोगेन लाभकृत् । अर्थेऽर्को धर्मगश्चंद्रः शुभयुक्तश्च लाभकृत् ॥ अर्थस्थौ चंद्रसूर्यौ च यायिनां भंगदायको । अर्थेऽर्कः कामगश्चंद्रो निंद्यौ यात्रासु कर्मसु॥ अर्थेऽर्को मोक्षगश्चंद्रः शुभयुग्भूमिलाभकृत् । कामेऽर्को धर्मगश्चंद्रः शुभयुग्रनलाभकृत् ॥कामेऽर्कोऽर्थगतश्चंद्रो बुधो जीवगतो यदि । श्रीलाभदौ समाख्यातौ भृगुणाथ समन्वितौ ॥ चंद्राकौं कामगौ यत्र रिपुयोगादिदुःखदौ । कामेऽर्को मोक्षगश्चंद्रः शुभयुक्तोऽर्थलाभकृत् ॥ मोक्षेऽर्कश्चंद्रमा धर्म महालाभः शुभान्विंतः । मोक्षे सूर्योऽर्थगश्चंद्रस्तथा यात्रा न निष्फला । मोक्षेऽर्कः कामगश्चंद्रो यात्रा दुःखप्रदा भवेत् । चंद्राकौं मोक्षमार्गस्थौ घोरविघ्नप्रदायकौ ॥ यात्रादिसर्वकार्येषु चक्रमेतद्विलोकयेत् । पथिराहुरिति ज्ञेयः शुभाशुभफलप्रदः ॥' इति । अत एवास्य निष्कृष्टमर्थमाहुरस्मपितामहानंतचरणाः-'धर्मेऽर्को वित्तमोक्षेऽनो वित्तस्थे धर्ममोक्षगः। कामं धर्मार्थमोक्षेषु मोक्षे धर्मगतः शुभः ॥' इति ॥ इति पथिराहुचक्रम् ॥ १९ ॥ ___ अथावश्यकर्तव्यायां यात्रायां तिथौ दुष्टायां तिथिचक्रं शालिनीवृत्तचतुष्टयेनाहपौषे पक्षत्यादिका द्वादशैवं तिथ्यो माघादौ द्वितीयादिकास्ताः । कामात्तिस्रः स्युस्तृतीयादिवञ्च याने प्राच्यादौ फलं तत्र वक्ष्ये २० सौख्यं क्लेशो भीतिर्थागमश्च शून्यं नैःस्वं निःस्वता मिश्रता च । द्रव्यक्लेशो दुःखमिष्टाप्तिरों लाभः सौख्यं मंगलं वित्तलाभः २१ लाभो द्रव्याप्तिर्धनं सौख्यमुक्तं भीतिर्लाभो मृत्युरर्थागमश्च । लाभः कष्टं द्रव्यलाभः सुखं च कष्टं सौख्यं क्लेशलाभौ सुखं च २२ सौख्यं लाभः कार्यसिद्धिश्च कष्टं क्लेशः कष्टात्सिद्धिरों धनं च । मृत्युर्लाभो द्रव्यनाशश्च शून्यं शून्यं सौख्यं मृत्युरत्यंतकष्टम् २३ पौषे इति ॥ सौख्यमिति ॥ लाभ इति ॥ सौख्यमिति ॥ अत्र Page #360 -------------------------------------------------------------------------- ________________ ॥ अथ तिथिचक्रम् ॥ & पा । फा ९ २ P00 ३ | ४ ३ ९ १० ११ । १२ १ २ । १० ११ १२ । चै | वै । ज्ये | भा | श्रा | भा | ा | का | मा | पूर्वा | दक्षिणा | पश्चिमा उत्तरा १० | ११ | १२ | सौख्यम् क्लेशः : भीतिः अर्थागमः | | शून्यम् | नैःस्वं मिश्रता १०।११ | १२ २ द्रव्यक्लेशः दुःखं इष्टाप्तिः अर्थः ३ | लाभः | सौख्यं मंगलं वित्तलाभः लाभ: | द्रव्याप्तिः | धनं सौख्यं १० ११ १२ ५] भीतिः | लाभः मृत्युः | अर्थागमः १ २ ६ । लाभः । कष्ट द्रव्यलाभः | सुखं १० । ११ । | कष्टम् । सोख्यं । क्लेशलाभौ | सुखं १० । ११ । १२ सौख्यम् लाभः कार्यसिद्धिः | कष्टं ११ १२ केशः | कष्टासिद्धिः अर्थः ९ १० मृत्युः लाभ: द्रव्यनाशः शून्यं ११ | शून्यम् सौख्यं । मृत्युः पौषमासादितः प्रतिमासं द्वादश द्वादश कोष्टका लेख्याः। एवं कृते चतुश्चत्वा मुहूर्वचिंतामणिः । [तिथिचक्रम् १० । ११ । १२ ४ । १२ १० | धनं १२ १ १२ . ५ अत्यतव Page #361 -------------------------------------------------------------------------- ________________ सर्वाकज्ञानम्] यात्राप्रकरणम् ११॥ ३४५ रिंशदधिकशतं कोष्टका जायते, मासकोष्टकसहिताः षट्पंचाशदधिकशतं कोष्टकाः स्युरित्यर्थः । एवं चक्राकृतिर्भवति । तत्र पक्षस्य शुक्लस्य कृष्णस्य वा मूलं प्रारंभः प्रतिपदिति यावत् । 'पक्षात्तिः' इति मूलेऽर्थे तिप्रत्ययः। प्रथम पौषे पौषमासे पक्षतिः प्रतिपत् तदादिकाः द्वादश तिथयोऽधोऽधो लेख्याः । माघादौ माधादिमासेषु द्वितीयादिकास्तिथयो लेख्याः। यथा-माघे द्वितीया. दिकाः, फाल्गुने तृतीयादिकाः, चैत्रे चतुर्थ्यादिकाः, वैशाखे पंचम्यादिकाः, ज्येष्ठे षष्ट्यादिकाः, आषाढे सप्तम्यादिकाः, श्रावणेऽष्टम्यादिकाः, भाद्रपदे नवम्यादिकाः, आश्विने दशम्यादिकाः, कार्तिके एकादश्यादिकाः, मार्गशीर्षे द्वादश्यादिका लेख्याः। सर्वास्तिथयो द्वादश्यता लेख्याः । कामात्तिस्रः स्युरिति विशेषोक्तेस्त्रयोदश्याद्यग्रहणादवशिष्टस्थानानि प्रतिपदादिभिः पूरणीयानि । तत्र त्रयोदशीचतुर्दशीपंचदश्यस्तिथयोऽवशिष्यते, तासां विभागमाहकामादिति । कामात्रयोदशीतस्तिस्रस्त्रयोदशीचतुर्दशीपंचदश्यस्तृतीयादितिथिवत्स्युः । यथा-त्रयोदशी तृतीयावत् , चतुर्दशी चतुर्थीवत् , पंचदशी पंचमीवत्स्युरित्यर्थः । फलार्थमतिदेशोऽयम् । तिथिचक्रन्यासो यथा-तत्र प्राच्यादौ प्राचीदक्षिणाप्रतीच्युदीचीषु चतसृषु दिक्षु याने गमने चिकीर्षिते सति फलं शुभाशुभरूपं 'सौख्यं क्लेशः' इत्यादिना वृत्तत्रयेण वक्ष्ये कथयिष्यामि । तत्र 'सौख्यं क्लेशः' इत्यादिवृत्तत्रयं स्पष्टार्थमेव । तत्र पौषमासे प्रतिपदि दिक्चतुष्टये सौख्यं क्लेशो भीतिरागमश्चेति फलचतुष्टयं क्रमेण ज्ञेयम् । एवं द्वितीयादिष्वपि क्रमेण दिक्चतुष्टये श्लोकतुर्यांशोक्तं फलं स्यात् । तदेतत्सर्व माघादिमासेषु द्वितीयादितिथिषु ध्येयमित्यर्थः ॥ २०-२३ ॥ अथ सर्वांकज्ञानं वसंततिलकयाहतिथ्यक्षवारयुतिरद्रिगजाग्नितष्टा स्थानत्रयेत्र वियति प्रथमेऽतिदुःखी । मध्ये धनक्षतिरथो चरमे मृतिः स्या स्थानत्रयेंकयुजि सौख्यजयौ निरुक्तौ ॥ २४ ॥ तिथ्यक्षवार इति ॥ तिथयोऽत्र शुक्लपक्षादितो ग्राह्याः । तत्र तिथिनक्षत्रवाराणां युतिः स्थानत्रये स्थाप्या, क्रमेण सप्तभिरष्टभिस्त्रिभिश्च तष्टा भक्तावशिष्टा सति प्रथम स्थाने वियति शून्ये सति अतिदुःखी यात्राकर्ता स्यात् । मध्ये द्वितीयस्थाने वियति सति धनक्षतिद्रव्यनाशः । अथो चरमे तृतीयस्थाने वियति सति मृत्युमरणं स्यात् । स्थानत्रयेऽकयुज्यंकयुते सौख्यजयौ भवेताम् । उक्तं च दैवज्ञमनोहरे चंडेश्वरेण-'तिथिवारं च नक्षत्रं संयुक्तं स्थापयेत्रिधा। द्वाभ्यां रामैस्तथा वेदैर्गुणयित्वाथ तदुधैः ॥ भाजितं चाष्टमुनिभिस्तथा द्विगुणपावकैः । आदिशून्ये भवेत्पीडा मध्यशून्ये महद्भयम् ॥ अंत्यशून्ये भवेद्धानिः सर्वशून्ये न जीवति । सर्वांके विजयो राज्ञो धनलाभो रिपोर्वधः ॥' १ अत्र प्रमाणवाक्ये तिथ्यादियुतेर्गुणकांका निर्दिष्टास्ते ग्रंथकर्ता कण्ठतो नोक्तास्तत्र हेतुश्चिंत्यः । टीकाकृतां स्तब्धत्वे हेतुस्तु प्रमाणवाक्यमेव स्यादिति विभाव्यते। Page #362 -------------------------------------------------------------------------- ________________ मुहूर्तचिंतामणिः। [दाक्षिणात्यप्रसिद्धा दोषाः इति । द्विगुणपावकाः षट् । ननु ग्रंथका स्थानत्रये शून्ययुजि फलाभिधानं कस्मानाकारीति चेत् । सत्यम् । असंभवादेव नोक्तमिति वयं ब्रूमः। अनेकधा हि तिथिवारनक्षत्रयुतौ कल्पितायां यथाकथंचित्स्थानद्वये शून्ययोगो भवति, न कदाचित्स्थानत्रय इति । चंडेश्वरस्य क आशय इति चेत् । सत्यम् । यद्यपि सर्वशब्दो वस्तुगतं बहुत्वं प्राह तथाप्यत्रासंभवादेकत्वव्यतिरिक्तसंख्यापरस्तथा सति स्थानद्वये शून्ययुजि मृत्युरित्यर्थः । अत्र सर्वांकध्रुवांके यात्राकर्तुनक्षत्रं योज्यमित्याहुः; तद्वाक्यं च...... ॥ २४ ॥ । अथ दाक्षिणात्यप्रसिद्धान् कियतो दोषान् वक्तुकामस्तावदाडलभ्रमणाख्यौ दोषो प्रमाणिकाछंदसाह ___ रखे तोऽब्जभोन्मितिनगावशेषिता यगा । - महाडलो न शस्यते त्रिषण्मिता भ्रमो भवेत् ॥ २५ ॥ रवेरिति॥ सूर्यनक्षत्रादब्जभस्य चंद्रनक्षत्रस्योन्मितिर्गणना कार्या, सा नगैः सप्तभिरवशेषिता सती ब्यगा द्विशेषमिता सप्तशेषमिता वा भवेत्तदा महाडलो दोषः स्यात् , स न शस्यते प्रशस्तो न भवेत् । प्रागुक्तप्रकारेण यदि त्रिषण्मिता विशेषमिता षद शेषमिता वा स्यात्तदा भ्रमणाख्यो दोषः स्यात् , सोऽपि न शस्यते; एतन्निर्मूलम् । ऋषिवाक्याभावात् । तथापि पौरुषवाक्यमेवत्-'सूर्यभाद्णयेच्चांद्रं सप्तभिर्भागमाहरेत् । एकं च पंच चत्वारि आडलो नास्ति निश्चयात् । त्रिषट्के भ्रमणं शेषे द्वौ सप्त स्थान्महाडलः॥' इति । तत्र भ्रमणाख्यं दोषं तु यात्रायामेव त्यजति । आडले बहूनि शुभकर्माणि त्यजति । आहुश्व'यात्रायंत्रहलप्रवाहसमरे चौर्ये च संधौ तथा कूपारामतडागबंधनविधौ पापर्द्धदुर्गग्रहे । अश्वेभोष्ट्ररथादिरोहणकृतौ त्याज्यं सदैवाडलं यत्नादन शुभेषु मंगलविधौ दोषो न तस्य क्वचित् ॥' इति ॥ २५ ॥ ___ अथ हिंवराख्यं योगमुपजातिकयाहशशांकभं सूर्यभतोत्र गण्यं पक्षादितिथ्या दिनवासरेण । युतं नवाप्तं नगशेषकं चेत्स्यादिवरं तद्गमनेऽतिशस्तम् ॥ २६ ॥ शशांकभमिति ॥ सूर्यनक्षत्राचंद्रनक्षत्रं गण्यं पक्षादितिथ्या पक्षस्य शुकृस्य कृष्णस्य वादिः प्रतिपत्तस्याः सकाशाद्वर्तमानया तिथ्या युतं दिनवासरेण रविवारादिना च युतं । तत्र नवभि९राप्तं भक्तं नग७शेषकं सप्तशेषं चेत्तदा हिंवराख्यं तद्धिंवरं गमनेऽतिशस्तं स्यात् । उक्तं च-'सूर्यभाद्णयेच्चांद्र पक्षादितिथिवारयुक् । नवभक्तं सप्तशेष हिंवरं तस्य कीर्तितम् ॥' इति । तदेतन्निमूलम् । [प्रेसंगात् घबाडमपि-'सूर्यभाद्णयेच्चांद्र त्रिगुणं तिथिसंयुतम् । सप्तभिस्तु हरेद्भागं विशेष स्याडबाडकम् ॥' एतच्च हैंवराच्छुभं ज्ञेयम् । एतत्सर्व दाक्षिणात्या विचारयंतीति । अत्र प्रसंगाद्रंथांतरस्थसंग्रहः-'सूर्यभाद्णयेचांद्रं तिथिवारं च मिश्रितम् ॥ सप्तभिस्तु हरेद्भागं पंचशेषं तु टेलकम् ॥ सूर्य १ [ ] चिह्नितो हि ग्रंथो न तु मूलानुसारी न च लिखितपुस्तकेषूपलभ्यते । कचिल्लिखिते टिप्पणरूपेणावस्थितोऽयं टीकाग्रंथ एवेति संभाव्य केनाप्यत्रोपन्यस्त इति भाति। Page #363 -------------------------------------------------------------------------- ________________ घातचन्द्र-घाततिथिः] यात्राप्रकरणम् ११। ३४७ भाद्णयेच्चांद्रं तिथिवारं च मिश्रितम् । अर्कसंख्यैहरेद्भाग नवशेषं तु गौरवम् ॥ प्रवेशे गौरवं दद्यान्निर्गमे हिंवरं तथा । तस्करे टेलकं दद्याद्भबाडं सर्वकर्मसु ।' इति ज्योतिर्निबंधे] ॥ २६ ॥ ___ अथ घातचंद्राख्यं दोषं शालिन्याहभूपंचांकव्यंगदिग्वह्निसप्तवेदाष्टेशाकश्चि घाताख्यचंद्रः।। मेषादीनां राजसेवाविवादे यात्रायुद्धाद्ये च नान्यत्र वयः ॥२७॥ भूपंचेति ॥मेषादीनां राशीनां भूपंचेत्यादिको घाताख्यचंद्रो ज्ञेयः। यथामेषस्य प्रथमो मेष एव । वृषस्य पंचमः कन्यास्थः, मिथुनस्य नवमः कुंभस्था, कर्कस्य द्वितीयः सिंहस्थः, सिंहस्य षष्ठो मकरस्थः, कन्यायाः दशमो मिथुनस्थः, तुलायास्तृतीयो धनुस्थः, वृश्चिकस्य सप्तमो वृषस्थः, धनुषश्चतुर्थो मीनस्था, मकरस्याष्टमः सिंहस्थः, कुंभस्यैकादशो धनुस्थः, मीनस्य द्वादशः कुंभस्थः; एते घातचंद्रा ज्ञेया इत्यर्थः । स घातचंद्रो राजसेवायां विवादे प्रतिवादिना सह झकटके (कलहे) विद्यासंबंधिनि वा विवादे यात्रायां प्रयाणे युद्धे मादिशब्दान्मृगयादिषु वयंः। अन्यत्र विवाहान्नप्राशनादिमंगलकृत्ये न वय॑ः। उक्तं च'अजाजन्मधीधर्मवित्तारिखत्रिस्मरांब्वष्टलाभांत्यगो घातचंद्रः । नृपद्वारयात्रावरोधागमादी विचिंत्यो विवाहादिके नैव चिंत्यः ॥' इति । अन्यत्रापि-'भूपंचनंदा यमषददिशश्च वह्वयद्विवेदा वसुरुद्रसूर्याः । मेषादिकानां क्रमशो भवंति यात्रासु युद्धेषु च घातचंद्राः ॥ युद्धे चैव विवादे च कुमारीपूजने तथा। राजसेवावाहनादौ घातचंद्रं विवर्जयेत् ॥ तीर्थयात्राविवाहान्नप्राशनोपनयादिषु । सर्वमांगल्यकार्येषु घातचंद्रं न चिंतयेत् ॥' इति । अत्र मदीयं घातचंद्रपद्यमिदम्-'मेषकन्याघटहरिनक्रयुग्मधनुर्वृषाः । मीनसिंहधनुःकुंभा घातचंद्रा अजादितः ॥' इति । अत्र गणनाभावादर्थलाघवम् । मूलपद्ये तु अमुकस्मादमुकसंख्याक इति गणनायाः कदाचिद्रमसद्भावाच गौरवमिति । एतदपि निर्मूलम् ॥ २७ ॥ 'आग्नेयत्वाष्ट्रजलपपित्र्यवासवरौद्रभे । मूलबालाजपादः पित्र्यमूलाजभे क्रमात् ॥१॥ रूपयम्यग्निभूरामद्यध्यग्यब्धियुगामयः। घातचन्द्रे धिष्ण्यपादा मेषाद्वया॑ मनीषिभिः ॥२॥ अथ घाततिथीरुपजातिकयाहगोत्रीझषे घाततिथिस्तु पूर्णा भद्रा नृयुक्कर्कटकेऽथ नंदा । कौव्जयोनक्रघटे च रिक्ता जया धनुःकुंभहरौ न शस्ताः॥२८॥ ... १ इदं पद्यद्वयमपि टिप्पण्यादिरूपेणावस्थितं ग्रंथमध्ये एव केनापि निक्षिप्तमिति प्रतीयते । Page #364 -------------------------------------------------------------------------- ________________ ३४० मुहूर्तचिंतामणिः। [घात-वार-तिथि-योगिनीदोषाः गोत्रीति ॥ गौतषः, स्त्री कन्या, झषो मीनः; एतद्राशिमति नरे पूर्णा तिथि: पंचमीदशमीपंचदशी घाततिथिः । नृयुमिथुन, कर्कटकः प्रसिद्धः, अनयोभद्रातिथिः; द्वितीया सप्तमी द्वादशी च घाततिथिः। कौर्यो वृश्चिकः, अजो मेषः एतयोर्नदातिथिः; प्रतिपत्षध्येकादशी च घाततिथिः । नघटे मकरतुलयो रिका चतुर्थी नवमी चतुर्दशी च धनुःकुंभसिंहानां जया तृतीयाष्टमीत्रयोदशी च घाततिथिः; एते घाततिथयो यात्रायां युद्धादौ च न शस्ता इति; तदुक्तं भूपालवल्लभे.........॥२८॥ अथ घातवारान् शालिन्याहनके भौमो गोहरिस्त्रीषु मंदश्चंद्रो द्वंद्वेऽर्कोऽजभे ज्ञश्च कर्के । शुक्रः कोदंडालिमीनेषु कुंभजूके जीवो घातवारा न शस्ताः॥२९॥ नके इति ॥ मकरराशिमति पुरुष भौमो घातवारः, वृषसिंहकन्यासु मंदवारः, द्वंद्वे मिथुने चंद्रवारः, अजे मेषेऽर्कवारः, कर्के बुधवारः, धनुर्वृश्चिकमीनेषु शुक्रवारः, जूकस्तुला, कुंभतुलयोर्जीवो गुरुर्घातवारः । एते घातवाराः यात्रायां न शस्ता इति । उक्तं च.........। एतदपि निर्मूलम् ॥ २९ ॥ अथ घातनक्षत्राण्यनुष्टुभाहमघाकरखातिमैत्रमूलश्रुत्यंबुपांत्यभम् । याम्यब्राह्मेशसापं च मेषादेर्यातभं न सत् ॥ ३०॥ मघाकरेति ॥ मेषादिराशीनां क्रमेण घातकभमिदं स्यात् । यथा-मेषस्य मघा, वृषस्य हस्तः, मिथुनस्य स्वाती, कर्कस्यानुराधा, सिंहस्य मूलं, कन्यायाः श्रवणः, तुलायाः शतभं, वृश्चिकस्य रेवती, धनुषो भरणी, मकरस्य रोहिणी, कुंभस्यार्दा, मीनस्याश्लेषा; एतद्धातनक्षत्रमित्यर्थः । तद्यात्रायां सत् शोभनं न । किंतु दोषदमित्यर्थः । उक्तं च-'मघार्कस्वातिमैत्राणि मूलं श्रवणवारुणे । रेवतीयाम्यधात्रीशसार्प मेषादिमृत्यवे ॥' इति ॥ क्वचित् 'धात्रग्निसार्पम्' इति पाठः, तत्राग्निः कृत्तिकानक्षत्रं कुंभस्य घातभं तदा याम्यब्राह्माग्निसा५ चेति कल्प्यमिति । तदेते दोषा दाक्षिणात्यप्रसिद्धा निर्मूलाः ॥ ३० ॥ अथ योगिनीदोषमाहनवभूम्यः शिववह्नयोऽक्षविश्वेऽर्ककृताः शक्ररसास्तुरंगतिथ्यः। द्विदिशोऽमावसवश्व पूर्वतः स्युस्तिथयः संमुखवामगा न शस्ताः३१ नवभूम्य इति ॥ एतास्तिथयः पूर्वतः पूर्वी दिशमारभ्य, ल्यब्लोपे पंचमी । पूर्वादितोऽष्टदिक्षु ज्ञेयाः । यथा-पूर्वस्यां नवभूम्यः नवमीप्रतिपञ्च, आग्नेय्यां शिववह्नयः एकादशी तृतीया च, दक्षिणस्यामक्षविश्वे पंचमी त्रयोदशी च, नैर्ऋत्यामर्ककृता द्वादशी चतुर्थी च, पश्चिमायां शक्ररसाः चतुर्दशी षष्ठी च, वायव्यां तुरंगतिथ्यः सप्तमी पूर्णिमा च, उत्तरस्यां द्विदिशो द्वितीया Page #365 -------------------------------------------------------------------------- ________________ घातलमानि ] यात्राप्रकरणम् ११। दशमी च, ऐशान्याममावास्याष्टमी च; एतास्तिथयस्तत्तहिक्षु योगिन्याख्या इति जीर्णाः। तास्तिथयः संमुखवामगा न शस्ताः। यथा-प्राच्यां गंतुः प्रतिपत् संमुखी, दक्षिणस्यां गंतुर्वामा, पश्चिमायां गंतुः पृष्ठगा, उत्तरस्यां गंतुर्दक्षिणा; एवं सर्वासु दिक्षु सर्वास्तिथयो विचार्याः, तत्र संमुख्यो वामगाश्च तिथयो न शुभाः। अर्थाद्दक्षिणाः पृष्ठगाश्च तिथयः शुभाः। उक्तं च स्वरोदये-'पूर्वस्यामुदयेद्राही प्रथमे नवमे तिथौ । माहेशी चोत्तरस्यां तु द्वितीयादशमीतिथौ ॥ एकादश्यां तृतीयायां कौमारी वह्निकोणगा। चतुर्थी द्वादशी प्रोक्ता वैष्णवी नैर्ऋते तथा ॥ वाराही दक्षिणे भागे पंचमी च त्रयोदशी । षष्ठी चतुर्दशी चैव इंद्राणी पश्चिमे तथा ॥ पूर्णिमायां च सप्तम्यां वायव्ये चंडिकोदयः । नष्टचंद्रदिनाष्टम्योर्महालक्ष्मीः शिवालये॥' इति । नष्टचंद्रदिनं अमावास्या। विजयकल्पलतायाम्'पृष्ठतो दक्षिणे वापि योगिनी गमने हिता । वामसंमुखयोर्नेष्टा वायुमेवं विचिं. तयेत् ॥' इति । समरसारे अर्धप्रहरयोगिन्यप्युक्ता । यथा-'प्राक्सोमानलरक्षोऽवाक् पाशीरेशदिक्षु दर्शातैः । तिथिभिस्तिथिपदतोऽर्धप्रहरैरिव नव तु योगिनी शस्ता ॥' इति । अस्यार्थः-अत्र पूर्वार्धेन योगिन्युक्ता उत्तरार्धेनार्धप्रहरा योगिन्युच्यते 'तिथिपदत' इत्यादिना । ईरः समीरो वायुः, पदं स्थान स्थितिः। या तिथिर्यस्यां दिशि प्रागुक्तक्रमेणावस्थिता तत्तिथिमारभ्य सर्वयोगिन्यस्तेनैव क्रमेण तत्तिथिमध्ये वारद्वयं भ्रमंति । यथा-द्वितीयोत्तरस्यां योगिनी, तां षोडशधा विभज्य प्रथमो विभागो द्वितीयायाः; एवमुत्तरस्यामर्धप्रहरयोगिनीसंज्ञः द्वितीयो विभाग आग्नेय्यां तृतीयाया अर्धप्रहरयोगिनीसंज्ञ इत्यग्रिमाः सर्वे विभागाः अर्धप्रहरयोगिनीसंज्ञा ज्ञेया इत्यर्थः । उक्तं च स्वरोदये-'यत्रोदयगता देवी ततो यामार्धभुक्तिगा । भ्रमंती तेन मार्गेण भवेतत्कालयोगिनी ॥' इति । उदयः स्थानं, देवी योगिनी । विजयकल्पलतायामपि-'यत्रैता उदयं यांति भ्रमंत्येवं तिथिक्रमात् । ततो यामार्धभुक्त्यैव योगिन्यः स्वेष्टकालिकाः ॥' इति । 'नव तु योगिनी शस्ता' इति स्पष्टार्थम् । स्वरोदये तु वारयोगिन्यप्युक्ता-'इंद्रचंद्राग्निनैर्ऋत्ययाम्यतोयानिले हरौ । सूर्यादिषु च वारेषु वर्जयेद्वारयोगिनीम् ॥' इति । फलमपि स्वरोदय एव-'जयदा पृष्ठदक्षस्था भंगदा वामसंमुखी । त्रिविधं योगिनीचक्रमित्युक्तं ब्रह्मयामले ॥' इति । त्रिविधत्वं तु तिथियोगिन्यर्धप्रहरयोगिनीवारयोगिनीभेदतः ॥ ३१ ॥ अथ घातलग्नान्याह भूमियब्ध्यद्रिदिवसांगाष्टांकेशॉग्निसायकाः । मेषादिघातलग्नानि यात्रायां वर्जयेत्सुधीः ॥ भूमीति ॥ स्पष्टार्थम् । एतदपि यात्रायां वय॑म् ॥ - १ इदमपि सटीकं पद्यं निक्षिप्तमेव । ३० मु. चि. Page #366 -------------------------------------------------------------------------- ________________ ३५० मुहूर्तचिंतामणिः। [काल-पाशयोगौ अथ कालपाशाख्यौ योगौ शालिन्याहकौबेरीतो वैपरीत्येन कालो वारेऽर्काये संमुखे तस्य पाशः । यात्रायुद्धे संमुखे वर्जनीयौ रात्रावेतौ व्यस्तसंज्ञौतु चिन्त्यौ ॥३२॥ ___कौबेरीति ॥ कुबेरो देवता यस्याः सा, 'सास्य देवता' इत्यण; आदिवृद्धिः, अण्णन्तत्वात् ङीप् । कौबेरी उत्तरा दिक्; ततः ल्यब्लोपे पंचमी । उत्तरां दिशमारभ्याऽर्काये वारे दिवसे वैपरीत्येन दिक्प्रातिलोम्येन संहारमार्गेण यस्यां दिशि वारेशस्थितिस्तस्यां दिशि कालः स्यात् । यथा-रविवारे उत्तरस्यां कालः, सोमे वायव्यां, भौमे पश्चिमायां, बुधे नैर्ऋत्यां, गुरौ दक्षिणस्यां, शुक्रे आग्नेय्यां, शनौ पूर्वस्यामित्यर्थः । अयमर्थः स्पष्टो रत्नसारे-रवावुत्तरतः कालः सोमे वायव्यभागके । भौमे तु पश्चिमे भागे बुधे नैर्ऋत्यकोणके ॥ जीवे च याम्यदिग्भागे शुक्रे चाग्नेयकोणके । शनौ तु पूर्वदिग्भागे कालचक्रं प्रकीर्तितम् ॥' इति । अथ पाशयोग उच्यते-ताय कालस्य संमुखे संमुखदिशि कालदिशातः पंचमदिशि तस्य कालस्य पाशो गलकर्तनरजः स्यात् । यथा-रविवारे दक्षिणस्यां पाशः, सोमे आग्नेय्यां, भौमे पूर्वस्यां, बुधे ऐशान्यां, गुरावुत्तरस्यां, शुक्रे वायव्यां, शनौ पश्चिमायामित्यर्थः। अथ फलमुच्यते-यात्रायामर्थयात्रायां, युद्धे युद्धयात्रायां; समाहारद्वंद्वः। तयोर्यात्रायुद्धयोरुपस्थितयोः सतोस्तौ कालपाशौ गंतव्यदिगवस्थितौ वर्जनीयौ । तदिशि न गच्छेदित्यर्थःअर्थाद्वामभागदक्षिणभागयोः कालपाशौ शुभौ। तत्रापि कालो दक्षिणभागस्थ एव शुभः, पाशो वामभागस्थ एव शुभ इत्यनुक्तोऽपि विशेषो ज्ञेयः । उक्तं च स्वरोदये-'वारोऽह्नः पूर्व दिग्भागे सतः सव्येन मंदगः। यत्रस्थस्तत्र कालः स्यात्पाशस्तस्य तु संमुखः ॥ दक्षिणस्थः शुभः कालः पाशो वामदिगाश्रयः । यात्रायां समरे श्रेष्ठस्ततोऽन्यत्र न शोभनः ॥' इति । सव्येन प्रदक्षिणमार्गेण । मंदगः शनैश्चरः। अन्यत्र संमुखपृष्ठभागयोः । अयं कालपाशविचारो दिवैव । रात्रौ विशेष उच्यते । तुर्विशेषे । एतौ कालपाशौ तु रात्रौ व्यस्तसंज्ञौ विपरीतनामको चिंत्यो ज्ञेयौ । दिवा यस्यां दिशि कालस्तस्यां दिशि रात्रौ पाशः, दिवा यस्यां दिशि पाशस्तस्यां दिशि रात्रौ कालः। यथारविवासरे रात्रौ दक्षिणस्यां कालः, उत्तरस्यां पाशः, एवं सर्ववारेष्वित्यर्थः । उक्तं च–'सौम्यादौ वाममार्गेण रवितः कालसंस्थितिः । तत्संमुखे भवेत्पाशो रात्रौ ज्ञेयो विलोमतः ॥' इति । सोमो देवता यस्याः सा, 'सोमायण' इति देवतार्थे व्यण, णित्त्वादादिवृद्धिः; 'यस्येति च' इत्यलोपः। ततो 'हलस्तद्धितस्य' इति यलोपः । सौमी उत्तरा दिक्, तदादौ सौम्यादौ । ननु वय॑त्वाविशेषाद्रात्रौ किंनाम वैपरीत्येन कृत्यमिति चेत् । उच्यते-गंतव्यदिशि कालो दक्षिणभागस्थः शुभो यथा भवेत्पाशो वामभागस्थः शुभो यथा स्यादित्येवमर्थमुक्तिरन्यथा ह्यशुभ इत्यर्थः । 'दक्षिणस्थः शुभः कालः पाशो वामदि १ प्रायोऽत्र 'रात्रावेतौ वैपरीत्येन गण्यौ यात्रायुद्धे संमुखे वर्जनीयौ।' इति मूलपाठो दृश्यते; परं टीकाकृत्संमत एव पाठोऽर्थप्रतीतौ सुसङ्गतिविधायक इति विभाव्य हस्तलिखितानुसारी पाठो मूले धृतः । Page #367 -------------------------------------------------------------------------- ________________ मुहूर्तराहोर्दिग्गणना] यात्राप्रकरणम् ११ । ३५१ गाश्रयः' इति वचनात् । ननु कालपाशयो मवैपरीत्यं स्वरोदयस्थवाक्ये कुतो नोक्तमिति चेत् । सत्यम् ; साक्षात् नोक्तं परंतु स्वरोदयकर्तुरभिप्रेतमस्तीत्यनुमीयते । तथा हि-यद्यपि 'घस्रो दिनाहनी वा तु क्लीबे दिवसवासरौ' इति कोशात् । 'दशाहं शावमाशौचं सपिंडेषु विधीयते' इति धर्मशास्त्रोक्तेश्चाहःशब्दस्याहोरात्रपरतैव । तथापि 'आगामिवर्तमानाहर्युक्तायां निशि पक्षिणी' इत्यादिषु निशीति पदोपादानादहःशब्दः सूर्यदर्शनपरिच्छेद्यकालवाचको यथास्ति तथेहापि 'वारोऽहः पूर्वदिग्भागे' इत्यत्र वासरः पूर्वदिग्भागे इति वक्तव्येहःशब्दोपादानान्यथानुपपत्त्याहःशब्दः सूर्यदर्शनपरिच्छेद्यं कालमाह । तेनाहनि दिवसे ह्येवं विचारो नतु रात्रावतस्तत्र वैलक्षण्यं तद्वैलक्षण्यं नाम किं वैपरीत्यमित्यर्थः । अतः पूर्वोक्तम् 'रात्रावेतौ व्यस्तसंज्ञौ तु चिंत्यौ' इति । अथ कालपाशप्रसंगात् खंडराहुरुच्यतेऽस्माभिः। यथा स्वरोदये-'ऐयां कृष्णे तृतीयायां सप्तम्यां शूलिनो दिशि । दशम्यां धनदाशायां वायव्यां भूतवासरे॥ शुक्लपक्षे तु वारुण्यां चतुर्थी समुदेत्यसौ । नैर्ऋत्ये च तथाष्टम्यामेकादश्यां यमौकसि ॥ आग्नेय्यां पंचदश्यां च मासे राहूदये सति । खंडगत्या भ्रमत्येवं खंडराहुस्ततो मतः ॥' इति । यमौकसि दक्षिणस्यां । शूलिनः ईशानस्य । अतस्तस्यां दिशि तत्तिथौ राहुसद्भावान्न गंतव्यमिति वाक्यतात्पर्यार्थः। एतासु भद्रातिथिषु भद्रामपहाय तद्दिक्तोऽन्यस्यां दिशि सुखेन गंतव्यमिति । खंडे तिथिखंडे तिथ्यधै भद्रारहिते गमनं गतिरित्यन्वर्थत्वमपि खंडराहो प्रतीयते । अथ सूक्ष्मोऽधः यामकाल उक्तः समरसारे-'हालांतकाभसखियामदलैस्तु कालः सूर्यादिवासरगतो युधि वर्जनीयः । भासारमे दलति यामदलानि भानुवारक्रमादपि पुनः स्वहितार्थमूहेत् ॥' इति । रवौ हाकारोपलक्षितोऽष्टमोऽधयामः, एवं सोमे तृतीयः, भौमे प्रथमः, बुधेऽपि प्रथमः, गुरौ चतुर्थः, शुक्रे सप्तमः, शनौ द्वितीयो युध्येव वर्जनीय इति पूर्वार्धस्यार्थः । उत्तरार्धे तु साहितिका अर्धयामा उक्ताः समस्तशुभकर्मसु निषिद्धाः । ग्रंथकापि विवाहप्रकरणेऽभिहिताः । अर्धयामो नाम दिनस्य रात्रेऽष्टमो भाग इति । अथार्धयामराहुरप्युक्तः स्वरोदये-'इंद्रवायुयमे रुद्रतोयाग्निशशिभास्करे। यामार्धमुदितो राहुर्धमत्येवं दिगष्टके ॥' इति । अयं यामार्धराहुभ्रमो दिवसे रात्रौ च तुल्यो ज्ञेयो विशेषानुक्तेः । अथ तत्रैव मुहूर्तराहुरप्युक्तः-'ईशानयमवातेंद्ररक्षःसोमाग्निवारुणे। पूर्वाह्नेऽपि भ्रमत्येवमपराह्नेऽप्ययं क्रमः॥ जलाग्निसौम्यनैर्ऋत्यशक्रानिलयमे हरे । पूर्वरात्रे भ्रमत्येवाऽपररात्रेऽप्ययं क्रमः॥ दिनस्य षोडशांशेन मुहूर्तः परिकीर्तितः । एवं मौहूर्तिको राहुर्ज्ञातव्यः स्वरवेदिभिः॥' इति । दिनस्येत्युपलक्षणं, रात्रेरप्येवमेव; अत्र मुहूर्तराहौ दिने चतुर्थचतुर्थदिग्गणनोक्ता, रात्रौ तु षष्ठषष्ठदिग्गणनोक्ता। यत्तु रामवाजपेयिभिः समरसारे उक्तम्-'प्राग्वातांतकशंभुपाशिहुतभुपौलस्त्यरक्षोदिशो यामा १ यवर्गे हकारोऽष्टमवर्ण इति तेनाष्टमोऽर्धयाम उपलक्ष्यते । एवं लकारस्तृतीयो वर्णः । तकारस्तवगें प्रथम इत्याह्यम् । Page #368 -------------------------------------------------------------------------- ________________ ३५२ मुहूर्तचिंतामणिः । [ राज्ञो जयचर्या धैरगुरह्नि पाशिककुभोऽसौ षष्ठषष्ठी निशि । पृष्ठे दक्षिणतः शुभो द्विघटिकोऽसौ तुर्यतुर्यां व्रजन्नीशावाक्पवनेंद्रराक्षसमरुद्वह्निप्रतीचीं दिशम् ॥' इति । अत्र यामाराह दिने प्राच्याः सकाशात्षष्ठषष्ठदिग्गणनोक्ता रात्रौ तु प्रतीच्याः सकाशातथैवोक्ता । उत्तरार्धे मौहूर्तिकराहौ तु दिनरात्रिविभागो नोक्तस्तट्टीकाकृता भरतेन तथैव व्याकृतश्च यथा - अथ द्विघटिको मौहूर्तिको राहुः प्रातरारभ्यैशानीतश्चतुर्थचतुर्थदिशं मुहूर्ते मुहूर्ते याति दिनरात्र्योर्द्वात्रिंशन्मुहूर्ता अष्टदिशां चत्वारो भ्रमास्तत्र क्रमः ऐशानीदक्षिणवायव्यपूर्वनैर्ऋतोत्तराग्नेयपश्चिमास्त्रिति । तदेतन्निर्मूलं मूलवाक्यानुपलंभात् । ननु कस्तर्हि तदुक्तावाशय इति चेत् । सत्यम् । तदेवोच्यते — स्वरोदये हि यामार्धराहौ षष्टषष्ठदिग्गणनोक्ता, मुहूर्त हौ तु दिने चतुर्थचतुर्थदिग्गणनामभिधाय रात्रौ तु षष्ठषष्ठदिग्गणनोक्ता सा अनुचितेत्यभिसंधाय स्वयं स्वपद्ये षष्टषष्ठदिग्गणनामुररीकृत्य दिनरात्रिवि - भागेन यामार्धराहुरुक्तः । मुहुर्तराहुरीशानतश्चतुर्थचतुर्थदिग्भागेन दिनरात्रिविभागमनात्योक्त इति । अथैवंविधे पाठे मूलांतरं मृग्यं । ऋषीणां तु स्वतत्रेच्छानां पर्यनुयोगानर्हत्वात्स्वरोदय एवमुक्तिः । एतादृशः स्थूलः सूक्ष्मो वा राहुः कस्यां दिशि शुभोऽशुभो वेति स्वरोदय एवाभिहितम् - 'संमुखा वामसंस्था वा यस्येयं राहुमंडली । पराजयो भवेत्तस्य वादद्यूतरणादिषु ॥ यस्य दक्षिणपृष्ठस्था ह्येषा राहुपरंपरा । सहस्रं स शतेनापि परसैन्यं निकुंतति ॥' इति । समरसारेऽपि — 'पृष्ठे दक्षे योगिनी राहुयुक्ता यस्यैकोऽयं शत्रुलक्षं निहंति । श्रेष्ठं सर्वेभ्यो बलेभ्यस्तदेव संक्षेपोऽयं सर्वसारोऽभ्यधायि ॥ ' इति । ननु योगिनी कालपाशवारयोगिनी मृतपक्षखंडराह्वादिभिः स्थूलैर्दोषैरर्श्वयामराह्वादिभिः सूक्ष्मैश्च स्वरोदयस्थैस्तथा सांहितिकैश्चायनशूलनिषिद्धमासवारशूलनक्षत्रनिषिद्धनक्षत्रपारिषदंडमृतपक्षादिभिश्च दोषैर्यात्रादिनोऽनुन्मेष एव । तथा हि- रवौ पूर्वस्यां वारयोगिनी दक्षिणस्यां पाशो दिवा रात्रौ तु कालः पश्चिमायां वारशूलं उत्तरस्यां कालो दिवा रात्रौ तु पाशः, विदिशस्तु महादिगंतर्गत एव, 'प्रादक्षिण्यं चैवमाशो विपूर्वाः' इति श्रीपत्युक्तेः । एवं सति रविवारे कस्यामपि दिशि यात्रा न स्यादन्ये पुनर्दोषा मृतपक्षादयो विचारणीयाः । एवं सति एवं सोमवारादिष्वपि यथासंभवं दोषा ऊहनीया इति प्रागुकदोषो वज्रायितः । अत्र समाधिः - अयं सर्वोऽपि स्वरोदयस्थो मृतपक्षयोगिनीकालपाशादिस्थूलसूक्ष्मदोषविचारो युद्धयात्रायामेव बहुधा विचार्यः प्रकरणस्यापि नियामकत्वात् । तथा हि- सर्वेष्वपि खरोदयग्रंथेषु नरपतिजयचर्या उच्यते । सा च युद्धं विना न संभवति । अत एव स्वरोदयबले प्रोक्तम्'पुष्पैरपि न योद्धव्यं यावद्धीनः स्वरोदयः । स्वरोदयबले प्राप्ते योद्धव्यं शस्त्रकोटिभिः ॥' इति । तथा चतुरशीतिचक्रांतेऽप्युक्तम् — 'एतानि सर्वचक्राणि ज्ञात्वा युद्धं समारभेत् । जयेदिह न संदेहः शक्रतुल्येऽपि वैरिणि ॥' इति । तथा भूपालवल्लभेऽप्युक्तम्- ' इमानि भूबलान्यत्र ज्ञात्वा यः प्रविशेद्रणम् । अरयस्तस्य नश्यति मेघा वातहता यथा ॥' इति । एवं सति सर्वतोभद्रकालदंष्ट्रा १ यात्रादिनः यात्रायुद्धादिकृत्यस्य । Page #369 -------------------------------------------------------------------------- ________________ पारिघदंडदोषः] यात्राप्रकरणम् १ । सूर्यचंद्रकालानलचक्राणि युद्ध एव विचार्याणि यथासंभवमन्येषु शुभकृत्येष्वपि विचार्याणि । उक्तं च तत्रैव-'लाभालाभं सुखं दुःखं जयं चैव पराजयम् । चंद्रकालानले चक्रे ज्ञानं संशयवर्जितम् ॥' इति । तथा 'यात्राजन्मविवाहेषु संग्रामे विग्रहेऽपि च । घोरकालानलं चक्रं ज्ञात्वा कर्म समारभेत् ॥' इति । अथ सामान्ययात्रायामप्यावश्यकानावश्यकवशेन यथासंभवं सांहितिकदोषहानिर्विचार्या । अन्यथा हि सर्वेषां स्वरोदयस्थानां साहितिकानां च स्थूलसूक्ष्मदोषाणां त्यागो वर्षसहस्रेणापि दुःशकः स्यात् । तत्रापि गुणानां भूयस्त्वं दोषाणां चाल्पत्वमंगीकृत्य निखिलकृत्यं निर्वाह्यम् । उक्तं च श्रीपतिना-समस्तगुणसंपदां न खलु लब्धिरल्पर्दिनैर्गुणप्रचुरता ततो बहुमता च दोषाल्पता । न भूरिगुणसंचये प्रभवतीह दोषोऽल्पको धुंदर्चिषि हुताशने सलिलबिंदुरेको यथा ॥' इति । तत्रापि महादोषः पापग्रहवेधयुतिकर्तरीमहापातादिश्चेत्तदावश्यं वयं एव । यदि तत्समः प्रतीकारकारको गुणो न भवेत् । उभयसंभवे हि प्रबलदुर्बलविचारः कार्यः । तदप्युक्तं श्रीपतिना-'एकोऽपि हंति गुणलक्षमपीह दोषः कश्चित्परो यदि गुणोऽस्ति न तद्विरोधी । मद्यस्य बिंदुरपि पावनपंचगव्यं संपूर्णमत्र कलशं मलिनीकरोति ॥' इत्यास्तां प्रसक्तानुप्रसक्तेन ॥ ३२॥ अथ पारिघदंडाख्यं दोषमनुष्टुभाह भानि स्थाप्यान्यब्धिदिक्षु सप्तसप्तानलद॑तः । वायव्याग्नेयदिक्संस्थं पारिवं नैव लंघयेत् ॥ ३३ ॥ भानीति ॥अब्धिदिक्षु चतुर्दिक्षु अनलक्षतः कृत्तिकातः सप्त भानि पूर्वस्यां स्थाप्यानि, मघातः सप्त भानि दक्षिणस्यां स्थाप्यानि, अनुराधातः सप्त भानि पश्चिमायां स्थाप्यानि, धनिष्ठातः सप्त भान्युत्तरस्यां स्थाप्यानि तत्र वायव्याग्नेयदिगुपनिबद्धा रेखा पारिघदंडः स्यात्तं सर्वथा नैव लंघयेत् । चक्राकृतिरियम् । यदाह नारदः-'क्रमादिग्द्वारभानि स्युः सप्तसप्ताग्निक्षतः । पारिघं लंघयेइंडं नाग्निश्वसनदिग्गतम् ॥' इति । कश्यपोऽपि-'अग्निधिष्ण्यात्सप्त सप्त क्रमाद्धिष्ण्यानि पूर्वतः । वाय्वग्निदिग्गतं दंडं पारिघं तु न लंघयेत् ॥' इति । ननु प्रागादिदिङ्न्यस्तानां नक्षत्राणां प्रयोजनं किं नोक्तम् ? पारिघदंडाख्यानार्थत्वं तु धनिष्ठादिचतुर्दशभानि वायव्यानेयदिशोः पूर्वभागे स्थाप्यानि । मघादिचतुर्दशभानि तयोरेव दिशोः पश्चिमविभागे स्थाप्यानीत्येवमर्थकपद्योपनिबंधनेन स्यात् । उच्यते-स्पष्टत्वानोक्तम् । तथा हि-प्रारद्वारिकैः कृत्तिकादिकसप्तनक्षत्रैः पूर्वस्यां यात्रा प्रशस्ततमा । एवं दक्षिणस्यां मघादिसप्तभैः । पश्चिमायामनुराधादिसप्तभैः । उत्तरस्यां धनिष्ठादिसप्तभैः । अयमर्थो यात्राप्रकरणे-'क्रमाद्वारभानि स्युः' इति नारदकश्यपायुक्तलभ्यते । किंच त्रिविधप्रतिशुक्रविचारेऽपि दिग्द्वारभानामुपयोगोऽस्ति । यदाहात्रिः-'यदिग्गतः समुदयेद्विचरेद्यत्र गोलके । यद्वारभेषु विचरेत्रिविधं प्रतिभार्गवम् ॥' इति । श्रीपतिश्च-'विचरति च भचक्रे येषु दिग्द्वारभेषु' Page #370 -------------------------------------------------------------------------- ________________ ३५४ मुहूर्तचिंतामणिः । [ सापवादः पारिषदंडदोषः इति । अन्यच्च गृहप्रवेशे पूर्वादिदिग्द्वारेषु गृहेषु तत्तद्दिनक्षत्रैः प्रवेशश्वोक्तः । तदुक्तं वसिष्ठेन - 'यहिग्द्वारं मंदिरं तद्दिगृक्षैरुक्तक्षैः स्यात्संनिवेशो न सर्वैः ॥' इत्यादीनि प्रयोजनानि ध्येयानि । तत्र प्रस्तुते पारिघदडोक्ते रेवं ज्ञायते । यद्धनिष्ठादिचतुर्दशभानि प्रागुत्तरदिशोर्यात्रायां प्रशस्तानि । मघादिचतुर्दशभानि दक्षिणपश्चिमदिशोः प्रशस्तानि । तत्र स्वदिशि प्रशस्ततमानि अन्यदिशि प्रशस्तानि । यथा - मघादिसप्तभानि पश्चिमायामनुराधादिसप्तभानि दक्षिणस्यां प्रशस्तानीत्यर्थः । अत एवाह दुर्गादित्यः - 'प्राग्दिग्गतैरुदग्दिशमुदग्गतैः प्राग्दिशं भनक्षत्रैः । दक्षिणगैरपरां दिशमपरगतैर्दक्षिणां यायात् ॥' इति । भानि =राशयो मेषाद्याः । नक्षत्राणि = कृत्तिकादीनि । यवनेश्वरोऽपि — 'प्राचीमुदग्द्वारिभिरत्र यायात्प्राग्द्वार भैश्वोडुभिरप्युदीचीम्। तथैव याम्यामपराश्रितै भैर्याम्याश्रयैश्वाप्यपरां प्रयायात् ॥' इति । एतेन - 'नो गच्छेदुत्तराशां त्रिदशपतिककुब्भैर्न याम्यप्रतीच्यैः' इति वदन् महेश्वरः प्रत्याख्यातो भवति । मूलवाक्यानुपलंभात् । किंतु सर्वथा प्रागुदङ्नक्षत्रैर्दक्षिणां पश्चिमां च नैव गच्छेत् । तथा दक्षिणपश्चिमनक्षत्रैः प्राचीमुदीचीं च नैव गच्छेत् पारिघदंडसत्त्वात् । यदाह बृहद्यात्रायां वराहः - 'दिशि दिशि बहुलाद्यास्तारकाः सप्त लेख्याः पवनदहनदिक्स्थस्तिर्यगत्युग्रदंडः । सुरपतिरपि कृच्छ्रं याति तं लंघयित्वा न हि भवति विरोधो दिक्षु दंडैकगासु ॥' इति ॥ ३३॥ अथ कस्यचिद्विदिग्गमनं चिकीर्षितं तदा पृथङ्नक्षत्रोपदेशाभावात्तासु विदिक्षु आग्नेय्यादिषु कैर्नक्षत्रैर्गमनं स्यादित्याशंक्य विदिक्षु नक्षत्राणि आवश्यकत्वे पारिघदंडापवादं च वसंततिलकावृत्तेनाह अर्दिशं नृप इयात्पुरुहूतदिग्भै रेवं प्रदक्षिणगता विदिशोऽथ कृत्ये । आवश्यकेsपि परिघं प्रविलंघ्य गच्छेच्छूलं विहाय यदि दिक्तनुशुद्धिरस्ति ॥ ३४ ॥ अग्नेरिति ॥ नृपः पुरुहूतदिक् प्राची तदुत्थैः कृत्तिकादिसप्तनक्षत्रैः अग्नेदिशमाग्नेयीमियाद्गच्छेत् । एवमनेन प्रकारेण प्रदक्षिणगता सृष्टिमार्गेणास्थिताविदिशो नैर्ऋत्यादीर्गच्छेत् । यथा - दक्षिणदिक्स्थैभैर्मघादिसप्तभिर्नैर्ऋती दिशं गच्छेत् । प्रतीचीस्थैरनुराधादिसप्तभिर्भैः वायव्यां गच्छेत् । उदीचीस्थैर्धनिष्ठादिसप्तभिर्भैः ऐशानीं गच्छेदित्यर्थः । यदाह नारदः - 'आग्नेयीं पूर्वदिक्संस्थैर्विदिशस्त्वेवमेव हि ।' इति । अस्यार्थ स्पष्टमाह गुरुः- 'प्राग्द्वारिकैश्व नक्षत्रैराग्नेय्यां शोभना गतिः । दक्षिणस्थैश्च नैर्ऋत्यां वायव्यां वारुणैरपि । ऐशान्यां दिश्युदक्संस्थैर्यात्रातीव शुभप्रदा ॥' इति । अथ पारिघदंडापवाद उच्यते - अथेति ॥ आवश्यके कृत्ये अवश्यकर्तव्ये गमनादिकृत्ये पारिवमपि पारिघदंडमपि प्रविलंघ्य लंघयित्वा नृपो गच्छेत् । परंतु शूलं Page #371 -------------------------------------------------------------------------- ________________ अपवादादरणे निषिद्धानि ] यात्राप्रकरणम् ११ । ३५५ वारशूलं नक्षत्रशूलं च विहाय त्यक्त्वा यदि दिक्तनुशुद्धिरस्ति स्यात् । अस्तीति स्यादित्यस्यार्थेऽव्ययम् । पूर्वादिचतुर्दिक्षु मेषादयस्त्रिरावृत्ता दिग्राशयः स्युस्त एव तस्यांतस्यां दिशि दिग्लग्नशब्देन व्यवहियंते तेषां शुद्धिः शुभफलदातृग्रहानुकूल्यसाहित्यं स्यात् । यदाह श्रीपतिः - 'प्रयोजनेष्वात्ययिकेषु भूपतिर्विलंध्य रेखामपि पारिघीं व्रजेत् । विहाय दिक्शूलसमाह्वयानुडून्यदि स्वदिग्लग्नविशुद्धिराप्यते ॥' इति । उडुशब्देन वारोऽप्युपलक्ष्यते । यतो वराहेण - 'उल्लंघ्य दंडमपि काममियान्नरेंद्रः शूलं विहाय यदि भस्य विलग्नशुद्धिः ॥ इत्यत्र शूलं विहायेति सामान्यतोऽभिधानात् । अत्र दिग्राशीनाह नारदः'दिग्राशयः स्युः क्रमशो मेषाद्याश्च पुनः पुनः' इति । फलमाह वसिष्ठः'पूर्वादिदिक्षु मेषाद्याः क्रमाद्दिग्द्वारराशयः । तत्तच्छुद्धिवशात्सर्वे तद्दिग्यातुः शुभप्रदाः ॥ तद्वर्गाश्च तदंशाश्च तदीशाश्च तथाविधाः ॥' इति ॥ ३४ ॥ अथानावश्यकत्वेऽपि पारिघदंडापवादे चिकीर्षिते सर्वदिग्द्वारकनक्षत्राणि वक्रिग्रहस्य केंद्रगतत्वादिनिषेधं चेंद्रवज्रयाह मैत्रार्कपुष्याश्विनभैर्निरुक्ता यात्रा शुभा सर्वदिशासु तज्ज्ञैः । वक्री ग्रहः केंद्रगतोऽस्य वर्गो लग्ने दिनं चास्य गमे निषिद्धम् ३५ मैत्रार्केति ॥ मैत्रमनुराधा, अर्को हस्तः, पुष्यः प्रसिद्धः, आश्विनमश्विनी; एतैश्चतुर्भिर्नक्षत्रैः ः कृत्वा सर्वदिशासु प्राच्यादिचतुर्दिक्षु तज्ज्ञैज्र्ज्योतिर्विद्भिर्यात्रा गमनं शुभा शुभफलदा निरुक्ता । यदाह वसिष्ठः - 'पुण्यार्काश्विनमैत्राणि सर्वदिग्द्वारभानि च । सर्वदिक्ष्वपि यात्रायां सर्वकामार्थदानि च ॥' इति । नारदः - 'पुष्ये मैत्रे करेऽश्विन्यां सर्वाशागमनं शुभम् ।' आशाः = दिशः । श्रीपतिरपि - 'हस्तः पुष्यो मैत्रमप्याश्विनं च चत्वार्याहुः सर्वदिग्द्वारभानि' इति । यत्तु बालवोधिन्याम् — 'पूर्वाद्याः शनिचंद्रगीष्पतिबुधादित्येषु शुक्रे कुजे नो गम्याः क्रमशस्तथा परिहरेत्प्राचीं च मूलेंद्रयोः । याम्यां च श्रवणादिषट्सु विधि पुष्ये प्रतीचीं त्यजेत्सौम्यां चोत्तरफाल्गुनीष्वपि तथा हस्ते न यायादुधः ॥' इति प्रागादिचतुर्दिक्षु श्रवणाश्विपुष्यहस्तानां क्रमेण त्याग उक्तः, स निर्मूलत्वादुपेक्ष्यः । किंच यद्येषामपि निषेधो वसिष्ठादीनामभिमतः स्यात्तदा 'पुरुहूतदिशं पुरंदरर्क्षे' इत्यादिनक्षत्रशूलपद्ये शूलनक्षत्रद्वयाभिधानं 'पुरुहूतदिशं हि विष्णुशा नेयाद्याम्यदिशं त्वजांघ्रिदास्त्रे । जलनाथदिशं विधातृपुष्ये शूलाख्यान्यथ सौम्यमर्यमार्के' इति सकृदेव कृतं स्यात् । एवमेव च नारदादीनामाशयो व्याख्येयः । बालबोधिनीवद्भिन्नं वाक्यं तु दूरापास्तमेव । अन्यच्च पुष्याद्यष्टभानां क्वचित्सार्वदिग्द्वारिकत्वं स्मर्यते । यदाह गुरुः - 'पुष्याश्विहस्तमैत्राणि पौष्णवैष्णव सौम्यभम् । वासवं सर्वदिक्ष्वाशु यात्रायां शोभनानि हि ॥' इति । वराहोऽपि – 'सार्वहारिकसंज्ञितानि गुरुभं हस्ताश्विमैत्राणि च श्रेष्ठान्यैदवपौष्णविष्णुव सुभान्याद्यैः सहाष्टौ सदा' इति । तत्राष्टानामपि सार्वदिग्द्वारिकत्वं - Page #372 -------------------------------------------------------------------------- ________________ ३५६ मुहूर्तचिंतामणिः । [सर्वदिक्त्वबहुदिक्त्वविचारः मर्यते । चतुर्णा का कथा? बहुमुनिवचनसंवादात् । तत्र मृगरेवतीश्रवणधनिष्ठानां सार्वद्वारिकत्वमावश्यकगमनेऽभ्यनुज्ञानार्थ; तत्र यदि पुष्यादीनि भानि दिग्विशेषेण त्यजेरन् तदा बहुदिक्त्वं स्यात् न सर्वदिक्त्वम् । ननु को विशेषः सर्वदिक्त्व-बहुदिक्त्वयोः? उच्यते—सर्वशब्दः शक्त्या वस्तुमात्रवचनः, तत्र वस्तुसंघ गृहीत्वैकस्योपपत्तिः-सर्वः पदार्थ इति तस्यैव द्वित्वे च सौ पदार्थों इति भवति । सर्वे इत्यत्र तु वस्तुगतं संघगतं च बहुत्वं सर्वशब्देनोच्यते, तदेव वचसा द्योत्यते । अत्र सर्वे इति बहुवचनेन त्रिचतुरादयः पदार्था उच्यते, बहुशब्देन त्रय एवोच्यते नाधिकाः । बहूनामंत्रयस्वेत्युक्ते चतुरादिशब्दासन्निधाने त्रय एव निमंत्र्यते। किमत्र प्रमाणम् ? इति चेच्छणु । मीमांसायां एकादशेऽध्याये 'वसंताय कपिंजलानालभेत' इति वैदिके वाक्ये विचारितम् । वसंताय वसंत इत्यर्थः। छांदसंरूपम् । कपिंजलाः पक्षिविशेषाः तानालभेत हन्यात् । तत्र कपि. जलानिति बहुत्वं तावत् गम्यते, तेन ज्यादयः परार्धावधिकाः कपिंजलास्त्रयो वा चत्वारो वा पंच वेति विकल्पेनालब्धव्या उत त्रय एवेति संशयः । तत्रैवं पूर्वपक्षा-कपिंजलानिति बहुवचनेन द्वित्वातिरिक्तसंख्या सामान्यरूपेणाभ्यधायि तद्विशेषाकांक्षायां सत्यांच्यादिपरार्धान्तातिरिक्तसंख्याविशेषाभावात् त्र्यादिसंख्याविशेषा आक्षिप्यते। नच तत्र त्रयोऽपि चत्वारोऽपि पंचापि हंतव्या इति संख्यांतरमेव तत्र प्रतीयते न यादयः। नच कपिंजलत्वावच्छेदकावच्छिन्नाः कपिजला हंतव्या इति वाच्यं । तथा सत्येकस्मिन्नेव यागे कृते जगतीतलवर्तिनां सर्वेषां कपिंजलानां विनाशप्रसंगः, तस्माद्यथाप्राप्तानां त्रिचतुरादीनां तेषामेव विकल्पेनालंभ इति । उक्तं च जैमिनिना पूर्वपक्षसूत्रेण 'बहुवचनेन सर्वप्राप्तेर्विकल्पः स्यात्'इति। सिद्धांतस्तुघटानानयेतिवदुच्चारितस्य बहुवचनांतस्य शब्दस्य चतु. रादिशब्दोपादानमंतरेण त्रित्वमानं वाच्यम् । तावतैव बहुत्वोपपत्तेः। अतिरिकाक्षेपे च प्रमाणाभावः । तस्मात्रय एव कपिंजला हिंस्याः । उक्तं च जैमिनिना-'प्रथमं वा नियम्येत कारणादतिक्रमः स्यात्' इति सिद्धांतसूत्रेण । अत एव बहुत्वं त्रित्वे पर्यवसन्नमिति लोकोक्तिः साधीयसी। एवं प्रस्तुतेऽपि दीयतां दृष्टिः। नन्वत्र प्रकृतिवाच्यमेकं बहुत्वमपरं विभक्तिवाच्यं, तेन सर्वशब्दसाम्यमिति चेन्न । प्रातिपदिकार्थेति सूत्रे वचनमाने प्रथमोक्तेः साधुत्वाख्यानार्थ बहव इत्यादौ प्रकृतिगतबहुत्वव्यंजकबहुवचनोत्पत्तिः । बहुः ओदनः इत्यत्र बहुवचनं कस्मान्न भवति? सत्यम् । नात्र बहुशब्देन संख्योच्यते।किंतु वैपुल्यम्। तस्माद्बहुशब्देन त्रित्वसंख्योच्यते । सर्वशब्देन तु चतुरादिका अपिअतोऽत्र महान्भेदः। ननु एवं पुष्यादीनां सर्वदिक्त्वे समर्थिते सत्यपि नैव सर्वदिक्त्वोपपत्तिः। यावता वारशूलसद्भावः तदिग्वर्जनादिक्त्रयमेवावशिष्यते, तेन बहुदिक्त्वमेवोपपद्यते इति । उच्यते-नैतावता भवदिष्टं सिध्यति । 'प्राची श्रवणशक्राभ्याम्' इत्यादिना नक्षत्रविशेषे दिग्विशेषत्याग इति । यतो वारशूलेनायमर्थ उच्यते-रविवारे पश्चिमशूलं, सोमे पूर्वेत्यादि । अतः बहुदिक्त्वसर्वदिक्त्वप्रतिपादकयोरन्यतरस्य सर्वदिक्त्ववाक्यस्य सबलत्वे निर्णीते तृतीयेन वारशूलेन सर्वदिक्त्वं ब्याहतं यद्यपि तथापि नियतबहुदिक्त्ववाक्यात्तु सबलमेव । नहि यथा Page #373 -------------------------------------------------------------------------- ________________ विलोमगः शुभ इति मतं] यात्राप्रकरणम् ११ । वालिसुग्रीवयोर्युध्यमानयोर्भगवता रामेण वालिनि हते वालिनि सुग्रीवापेक्षया दौर्बल्यं मन्यते शूराभिमानिन इति । किंच दक्षिणाशायां धनिष्ठोत्तरार्धादिपंचकं त्याज्यमित्युक्तं तत्राश्विनीत्यागे धनिष्ठादिषद्धं त्याज्यमित्येवं कस्मान्नोक्तम् ? नच प्रेतदातृणकाष्ठसंग्रहादिनिषेधार्थ तथाभिधानमिति वाच्यम् । वाक्यान्तरे हि प्रतिपदमेव पंचकस्य निषेधात् । यदाह वसिष्ठः-'वसुभस्योत्तरार्धाच्च पंचधिष्ण्येषु सर्वदा । याम्यदिग्यायिनां नृणां न मुहूर्तों जयप्रदः ॥' इति । अन्यच्चापरे माहुः-पश्चिमे पुष्यस्त्याज्य इत्युच्यते च । श्रीपतिना तु-'हस्तः पुष्यः' इत्यादिना पुष्यस्य सर्वदिग्द्वारगत्वमुक्त्वा नक्षत्रप्रकरणे-'ग्रहेण विद्धोऽप्यशुभान्वितोऽपि विरुद्वतारोऽपि विलोमगोऽपि । करोत्यवश्यं सकलार्थसिद्धिं विहाय पाणिग्रहमेव पुष्यः॥' इत्युक्तम् । अत्र हि 'विलोमग' इति पदं टीकाकृन्महादेवो विलोमगः प्रतीच्यादिगमनविरुद्धोऽपि तत्र शुभ इति शब्दार्थ व्याख्यत् ; तस्यायमाशयः-पुष्यो हि प्राचीनक्षत्रं तद्दक्षिणस्यां पश्चिमायां वा पारिघदंडसत्त्वाद्विदिग्गमनप्रतिबंधकर्तृ सदपोद्यते । तत्र 'द्विर्बद्धं सुबद्धं भवति' इति न्यायात्पुष्योऽपि सर्वदिग्द्वारग एव । यद्येवं हस्तेऽप्यपवादः पुण्यवत्कार्यः स्यात् तुल्यन्यायत्वात् । एककर्तृके ग्रंथे एकेनैव वाक्येन सर्वदिग्द्वारत्वे सिद्धे पुनरन्येनाभिधानं व्यर्थ स्यात् । तस्मान्नैवं शक्यं वक्तुमतः प्रागुक्तमेवोपोद्धलकं सत् । यद्येवं कस्तर्हि विलोमग इत्यस्यार्थः ? केचिदाहुः-विलोमं विपरीतं गच्छतीति विलोमगः । यथा-'तेषां संक्षेपोऽयं प्रकृतेरन्यत्वमुत्पातः' इति वराहोक्तेर्यदोत्पातेन विलोमगामित्वं पुष्यस्य स्यात्तदापि न दोषः । यथा भौमस्योष्णादिपंचविधं वक्रत्वमुक्तं तत्रोष्णं वक्रम् । 'स्वस्वोदयन्निवमेऽष्टमे वा सपलंगे वा क्षितिजे प्रतीपे । तद्वक्रमुष्णाह्वयमेव तत्र वहेर्भयं व्याधिभयं जनानाम् ॥' इति वसिष्टेन सलक्षणमुक्तम् । तत्रैतादृशं वक्र न कदाचित्संभवति तथापि उत्पातवशाद्गणितविरुद्धापि वक्रगतिः स्यात्तदर्थ फलोपन्यासः। एवं पुष्यवक्रत्वमप्यालोच्यम् । एतद्व्याख्यानं निर्मूलत्वादुपेक्ष्यम् । यथोष्णस्य वक्रस्यासंभवस्तथा पितृचरणष्टोडरानंदे भौमचारे सम्यक् प्रत्यपादि । अन्ये त्वाहः । विलोमगोऽपि विलोमग्रहाधिष्ठितोऽपि शुभः 'एकार्गलहतं धिष्ण्यं क्रूराक्रांतं च विद्धभम् । उत्पातदूषितं यत्तद्यात्रायां भंगदं सदा ॥' इति वसिष्ठादिवाक्यात् । क्रूरस्य वक्रिणो मार्गिणो वा योगो दुष्ट एव । अत एवाशुभान्वितोऽपि पुष्यः सकलार्थसिद्धिदातेत्युक्तम् । अनेन तु सौम्यस्य गुर्वादेर्वक्रिणो योगेऽपि अशुभफलदाता पुष्यो न स्यात् । तञ्चित्यम् । मूलभूतार्षवाक्यानुपलं. भात् । यत् वक्रिसौम्यग्रहयोगेप्यशुभफलदाता पुष्यो न भवेदिति । तथा हिनारदः-'पुष्यः परकृतं हंतुं शक्तस्तेनापि यत्कृतम् । दोषं परो न शक्तस्तु चंद्रेऽप्यष्टमगे सति ॥ रैर्विद्धो युतो वापि पुष्यो यदि बलान्वितः । विना पाणिग्रहं सर्वमंगलेष्विष्टदः सदा ॥' इति । वसिष्ठादिवाक्यान्यप्येवमर्थकानि मंति न कुत्रापि विलोमग इत्यभिहितम् । किंच सौम्यवक्रिग्रहाधिष्ठितोऽश्विन्यादिभगणश्चेत्तदाऽश्विन्यादेर्दोषवत्ता भवन्मते प्रसज्यते सा चाप्रसिद्धा । अन्यच्च विलोमग्रहाधिष्ठितत्व लक्षणया व्याक्रियते मुख्यार्थसंभवे साऽप्र Page #374 -------------------------------------------------------------------------- ________________ ३५८ मुहूर्तचिंतामणिः । [वक्रिमहस्य नेष्टत्वं युक्ता। अस्ति च मुख्यार्थसंभवो यदुत्पातादिना नक्षत्रस्य वक्रत्वमिति । अपरे पुनराहुः-विलोमा उत्पातास्तैः सह गच्छतीति विलोमगः । त्रिविधोत्पातैयदि पुष्यो निहतोऽपि तदापि शुभ इति । तदपि न । पुष्यस्त्रिविधोत्पातहतो दुष्ट एव । यदाह वसिष्ठः-'मृगगणमध्ये सिंहो ह्युडुगणमध्ये तथैव पुष्यश्च । निजबलसहितोऽप्येवं त्रिविधोत्पातैर्न शक्तिमानिहतः॥' इति । तस्माद्विलोमग इत्यस्यार्थश्चिंत्यः । ननु नक्षत्रविशेषे अश्विन्यादौ विहितत्वप्रतिषिद्धत्वाभ्यां विकल्पः कस्मान्न भवति ? षोडशीग्रहणाग्रहणवत् । उच्यते,तुल्यबलयोर्हि वाक्ययोर्विकल्पः । यथा षोडशीग्रहणाग्रहणयोः न पुनरतुल्यबलयोः । यथौदुंबर्याः सर्ववेष्टनस्पर्शनप्रतिपादिकयोः स्मृत्योः। तत्र हि स्पर्शनस्मृतेः प्रत्यक्षदृश्यो वेदः प्रमाणम् 'औदुंबरी स्पृष्ट्वोद्गायेत्' इति । सर्ववेष्टनस्मृतेस्तु मूलवेदानुपलंभः । एतच्च स्मृतिचरणे सम्यगुपपादितं वार्तिककृता। एवमैश्विन्यादिविषयकसार्वदिग्द्वारकप्रतिपादकस्य 'हस्तः पुष्यः' इत्यस्य वाक्यस्य वसिष्ठादिमुनिवाक्यानि प्रमाणानि, निषेधवाक्यस्य तु चिंत्यं मूलमित्यतुल्यबलत्वाद्विकल्पो न संभवति । तस्मान्मैत्रार्कपुष्याश्विनीनां भानां सार्वदिग्द्वारिकत्वं सिद्धम् । तत्र सर्वशब्दग्रहणाद्वा 'अग्नेर्दिशं नृप इयात्' (११।३४) इत्यादिना वा विदिक्ष्वाग्नेयादिदिक्ष्वपि मैत्रादिभिर्यात्रोचितेति भावः । वसिष्ठः-'सर्वस्मिन्नपि समये सर्वासु च दिग्विदिक्ष्वेव । सार्वद्वारिकधिष्ण्यान्यतिशुभदातॄण्यखिलनृणाम् ॥' इति । अत्र सार्वद्वारिकधिष्ण्यानामेव सर्वकालगामित्वमुक्तम् । रत्नमालायां तु श्रवणमृगशीर्षहस्तपुष्याणामुक्तम् । तच्च गुरूक्तसार्वदिग्द्वारिकत्वा. भिप्रायेण । अनुराधाविन्योस्तु सर्वमतेन सर्वकालगामित्वम् । तदा कालविशेषनिषेधे क्षिप्रग्रहणं अश्विनीरहितं ध्येयम् । मृदुग्रहणमनुराधारहितं ध्येयम् । गुरुमते रेवतीरहितमपि । चरग्रहणं धनिष्ठाव्यतिरिक्तं गुरुमते एव द्रष्टव्यम् । एवमष्टानां सार्वदिग्द्वारिकत्वं सर्वकालगमनार्थम् । चतुर्णा पुनमैत्रादीनां दिक्षु यात्रार्थमपि सार्वदिग्द्वारिकत्वमित्यलमतिप्रसंगेन। वक्री ग्रह इति । वक्र विपरीतं गमनं यस्य भौमादेः स वक्री ग्रहश्चेत्केंद्रगतः स्यात्स गमे यात्रायां निषिद्धः। अथवास्य वक्रीग्रहस्य लग्ने वर्गः षड्वर्गश्चेत्स्यात्तदापि भंगदः । अथवा अस्य वक्रीग्रहस्य दिनं वारोऽपि स्यात् सोऽपि निषिद्धः । यदाह वराहः- एकोऽपि वक्रोपगतो नराणां शुभोऽशुभो वापि चतुष्टयस्थः । वर्गोऽपि वास्योदयगो विनाशं बहुप्रकारं कुरुतेऽध्वगानाम् ॥' इति । श्रीपतिरपि-'नेष्टश्चतुष्टये वक्री तद्वर्गोऽपि विलग्नतः । करोति बहुधा नाशं तद्वारोऽपि यियासताम् ॥' इति । चतुष्टयं केंद्रम् । यत्तु वसिष्ठेनोक्तम्-‘एकोऽपि वक्रगः खेटो लग्नस्थो वारिराशिगः। नीचस्थो वा तदंशस्थो यात्राफलविनाशनः ॥' इति । वारिराशिः चतुर्थस्थानम् । नारदेनापि-विलोमगो ग्रहो यस्य यात्रालग्नोपगो यदि । तस्य भंगप्रदो राज्ञस्तद्वर्गोऽपि विलग्नगः ॥' इति । तद्वक्रीग्रहस्य लग्नादिस्थितत्वे दोषाधिक्यं सूचयितुम् । तर्हि कस्य वारे गमनं कार्यमित्याह वसिष्ठः-'बलप्रदस्य खेटस्य वारवर्गः शुभप्रदः । इतरग्रहवारादियात्राया. Page #375 -------------------------------------------------------------------------- ________________ ३५९ संमुखशुक्रदोषः] . यात्राप्रकरणम् ११। मशुभप्रदम् ॥' इति । अत्र केचित् 'नेष्टश्चतुष्टये वक्रः' इति पाठमादृत्य वक्रो मंगल इति व्याचख्युः। 'मारो वक्रः क्रूरदृक् चावनेयः' इति वराहोक्तेः। तन्न । वक्रमस्यास्तीति वक्र । अर्शमादित्वादच्, वक्री ग्रह एवेत्यर्थः । अत्रार्थे 'एकोऽपि वक्रगः खेट' इति 'बिलोमगो ग्रहो यस्येति च वसिष्ठनारदादिवाक्यान्यनुकूलानि । वक्रीति पाठे मत्वर्थीये इनिप्रत्यये सति वक्रीति रूपसिद्धौ भौमस्य गंधोऽपि नास्ति ॥ ३५ ॥ __ अथायनशुद्विमिंद्रवज्राछंदसाहसौम्यायने सूर्यविधू तदोत्तरां प्राचीं व्रजेत्तौ यदि दक्षिणायने । प्रत्यग्यमाशांच तयोर्दिवानिशं भिन्नायनत्वेऽथ वधोऽन्यथा भवेत् सौम्यायन इति ॥ यदि सूर्यचंद्रौ सौम्यायने उत्तरायणगतौ स्यातां तदा उत्तरां दिशं प्राची वा व्रजेत् । तद्दिङ्मुखा यात्रा शुभेत्यर्थः । यदि तु रविचंद्रौ दक्षिणायनगतौ स्यातां तदा प्रतीची दक्षिणां वा व्रजेत् । यदाह पराशरः-'चंद्राकौं दक्षिणगतौ यायाद्याम्यां परां प्रति । सौम्यायनगतौ यायात्प्राची सौम्यां दिशं प्रति ॥' इति । अथ तयोः सूर्याचंद्रमसोर्भिन्नायनत्वे अयनभेदे सति दिवानिशं व्रजेत् । यथा-सूर्यों यस्मिन्नयने तां दिशमुत्तरां दक्षिणां वा दिवा दिवसे यायात् । यदा चंद्रो यस्मिन्नयने तां दिशमुत्तरां दक्षिणां वा निशि रात्रौ यायात् । अत्रोत्तरस्यां पूर्वस्या अंतर्भावः, दक्षिणस्यां पश्चिमाया इत्यपि ध्येयम् । अत्र संमतिर्वक्ष्यते । अथान्यथा चेत्कुर्यात्तदा वधो मरणं भवेत् । यथा-भिन्नायनत्वे सति सूर्यो यस्मिन्नयने तां दिशं यदि रात्रौ गच्छेत् चंद्रश्च यस्मिन्नयने तां दिशं दिवसे गच्छेत्तदा यातुर्वधो भवेदित्यर्थः। यदाह वसिष्ठः-'यात्रेष्टसिद्धिदार्केद्वोरेकायनगयोस्तयोः। भिन्नायनगयोरह्नि निशि चेदन्यथा वधः ॥' इति । नारदोऽपि-रवींद्वयनयोर्यानमनुकूलं शुभप्रदम् । तदभावे दिवारात्रौ यात्रा, यातुर्वधोऽन्यथा ॥' इति । तदभावे एकायनत्वाभावे दिवारात्री यात्रागमनं स्यात् । स्पष्टं व्याख्यानं प्राग्वत् ध्येयम् । तदुक्तं रत्नकोशे-'दिनकरकरप्रतप्तां मकरादावुत्तरां च पूर्वां च । यायाच्च कर्कटादौ याम्यामाशां प्रतीची च ॥' इति । अतो विलोमदिग्यात्रायां वधः स्यात् । एतस्य नामायनप्रतिलोमयात्रेत्युच्यते । तन्माहात्म्यमाह वराहः-'यातोऽयनस्य प्रतिलोमकाष्टां यः स्यात्स्वतंत्रोऽपि जितः परेषाम् । स केवलव्याकरणाभियुक्तः काव्यज्ञगोट्यामिव हास्यमेति ॥' इति ॥ ३६॥ अथ राज्ञां यात्रायां संमुखशुक्रदोषमुपजातिकाछंदसाहउदेति यस्यां दिशि यत्र याति गोलभ्रमाद्वाथ ककुब्भसंघे । विधोच्यते संमुख एव शुक्रो यत्रोदितस्तां तु दिशं न यायात् ३७ उदेतीति ॥ शुक्रस्त्रिधा प्रकारत्रयेण संमुख उच्यते, मुनिभिरिति शेषः । Page #376 -------------------------------------------------------------------------- ________________ ३६० मुहूर्तचिंतामणिः । [यात्रायां संमुखशुक्रफलानि कथं ? शुक्रो यस्यां दिशि प्राच्यांप्रतीच्यां वा उदेति कालांशवशेनोदयं करोति अत्र गंतुः पुंसः शुक्रः संमुखः; अयमेकः प्रकारः । वा अथवा गोलभ्रमादुत्तरदक्षिणगोलभ्रमणवशेन यत्र यस्यां दिशि उत्तरस्यां दक्षिणस्यां वा याति गच्छति तत्र गंतुः संमुखः शुक्रः स्यात् ; अयं द्वितीयः प्रकारः । यत्र शब्दोऽनुवर्तते। अथ यत्र ककुब्भसंघे प्राच्यादिदिशि कृत्तिकादिन्यासवशेन यहिङ्नक्षत्रे चरति तत्र दिशि गंतुः संमुखः शुक्रः स्यात् । अयं तृतीयः प्रकारः। यदाहात्रिः-'यदिग्गतः समुदयेद्विचरेद्यत्र गोलके । यद्वारभेषु विचरेत्रिविधं प्रतिभार्गवम् ॥' इति । एवं प्रकारत्रयेण शुक्रसांमुख्य निर्णीते । उदयगतशुक्रदोषाधिक्यमाह-यत्रोदित इति । तुर्विशेषे । एवशब्दो भिन्नक्रमो दिशमित्यनेन संबध्यते । यस्यां दिश्युदितः शुक्रो दृश्येत तां दिशमेव न यायान गच्छेत् । अन्यदिश्यपि यथासंभवं न यायात् । यदाह श्रीपतिः-'उदयति दिशि यस्यां याति यत्र भ्रमाद्वा विचरति च भचक्रे येषु दिग्द्वारभेषु । त्रिविधमिह सितस्य प्रोच्यते संमुखत्वं मुनिभिरुदय एव त्यज्यते तत्र यत्नात् ॥' इति । स्पष्टार्थ पद्यम् । याति यत्र भ्रमाद्वेति । अत्र केचित्-खोदयकालात्प्रदक्षिणं प्राच्याद्यष्टदिक्षु प्रहराष्टकेन सूर्यवच्छुक्रोऽपि भ्रमति । सूर्यभ्रमणं च वसंतराजेनोक्तम्-'दग्धा दिगेंद्री ज्वलिता दिगैशी प्रधूमिता चानलदिक् प्रभाते । प्रत्येकमेवं प्रहराष्टकेन भुंक्ते दिशोऽष्टौ सविता क्रमेण ॥ दग्धा दिगुक्ता दिननाथमुक्ता विवस्वदाता भवति प्रदीप्ता । संधूमितायां सविता प्रयाता शेषा दिगंताः खलु पंच शांताः॥' इति । अनेन सूर्यभ्रमणप्रकारेण शुक्रोऽपि यस्यां दिशि स्यात् सा दिक् गंतुः संमुखा स्यात् । अतस्तस्मिन्प्रहरे सापि दिक् त्याज्येत्यर्थ इत्याहुः । तन्न । वसंतराजे हि सूर्यभ्रमणवच्छुकभ्रमणमप्यवसेयमित्येवंविधशुक्रातिदेशवाक्याभावात् । तस्मात् भ्रमादिति गोलभ्रमादित्येव व्याकतव्यं । अत्रार्थेऽत्रिरप्यनुकूलस्तद्वाक्यं च प्रागुपन्यस्तम् । प्रतिशुक्रदोषफलमाह वराहः-'प्रतिशुक्रबुधाशनिवृष्टिहतादिग्वधं कुरुते नृपतेर्गमने । मदिरामुदिता मदनाकुलिता प्रमदेव कुलं परवेश्मगता ॥' इति । नारदोऽपि-'मूढे शुक्र कार्यहानिः प्रतिशुक्रे पराजयः' इति । ननु वधूप्रवेशप्रकरणे 'दैत्येज्यो ह्यभिमुखदक्षिणे न शस्तः' इति पद्येन शुक्रसांमुख्यदोषोऽभिहितः । किं पुनर्दोषाभिधानेन ? उच्यते,-शिशुगर्भिणीनवोढाभिन्नानां लोकानां विशेषतो राज्ञां च यथासंभवं त्रिविधशुक्रसांमुख्यदोषनिराकरणार्थं पुनरभिधानम् । किंच आवश्यकयात्रायां यत्रोदितस्तामेव दिशं नेयात्। तथा सति 'पश्चादभ्युदिते शुक्रे यायात्प्राची तथोत्तराम् । प्राच्यामभ्युदिते शुक्रे प्रतीची दक्षिणां दिशम् ॥' इति वसिष्ठवाक्यमपि यथासंभवमादरणीयं च भवति । अनेन संमुखशुक्रव्यतिरिक्तदिग्यात्राभ्युपगमात् । किंच वधूप्रवेशप्रकरणे शिश्वादीनां विशेषफलाभिधानं कृतं । नतु सामान्यतो यात्रासाधारण्येनान्येषामपि राजादीनां कृतम् । अत एव यस्य विशेषतः पुनरप्यपेक्षा नास्ति 'नगरप्रवेशविषयाधुपद्वे' इति भृग्वंगिरोवत्स' इति चाभिहितस्य संमुखशुक्रापवादस्याभिधानमन्त्र पुनर्न कृतं । Page #377 -------------------------------------------------------------------------- ________________ शुक्रस्य वक्रास्तादिदोषाः ] यात्राप्रकरणम् ११ । तेनैव सिद्धेः । अथैवंविधेऽपि शुक्रसांमुख्येऽवश्यकर्तव्ये च गमने शांतिमाह वसिष्ठः-तद्दोपशमनार्थाय शांतिं वक्ष्ये समासतः । कृत्वा शांति प्रयत्नेन पश्चात्सर्व समाचरेत् ॥ भृगुलग्ने भृगोर्वारे भृगोर्वर्गे भृगूदये । उपोष्य भृगुवारेऽपि यावच्छुक्रोदयं प्रति ॥ रजतेन च शुद्धेन कारयेत्प्रतिमां भृगोः । लिखेदष्टदलं पद्मं कांस्यपाने च तंदुलैः ॥ शुक्लसूक्ष्मांबरवेष्ट्य प्रतिमां तत्र पूजयेत् । शुक्लपुष्पाक्षतैगंधैर्मुक्ताहारैर्विचित्रितैः ॥ उपचाराणि कार्याणि शुक्र ते अन्यदित्यूचा । तन्मत्रेण जपं कुर्यात्सम्यगष्टोत्तरं शतम् ॥ कर्माते तेन मंत्रेण भक्त्या चाऱ्या प्रदापयेत् । श्वेतगंधाक्षतैः पुष्पैः क्षीरमिश्रेण वारिणा ॥ दैत्यमंत्री दिवादी चोशना भार्गवः कविः । श्वेतोऽथ मंडली काव्यो विधिस्थो भृगवे नमः ॥ दत्त्वेत्यर्थ्य प्रयत्नेन प्रार्थयेदेव भक्तितः । अनेनैव च मंत्रेण प्रांजलिः प्रणतः स्थितः ॥ "त्वत्पूजयानया शुक्र संमुखत्वसमुद्भवम् । दोषं विनाशय क्षिप्रं रक्ष मां तेजसांनिधे ॥” इति प्रार्थ्य प्रयत्नेन प्रतिमा भूषणान्विता । दैवज्ञायैव दातव्या श्वेताश्वसहितैव च ॥ शिष्टेभ्यो दक्षिणां दद्याद्यथावित्तानुसारतः । ब्राह्मणान्भोजयेत्पश्चात्स्वयं भुंजीत बंधुभिः ॥ इतरेषां ग्रहाणां च पूजां कुर्यात्प्रयततः । तत्तत्संमुखजो दोषस्तत्क्षणादेव नश्यति ॥ सूर्याय कपिलां दद्यार्छखं चंद्रमसे तथा । कुजाय वृषभं दद्यात्स्वर्ण दद्याद्बुधाय च ॥ गुरवे पीतवस्त्रं चावं सितायासिताय गाम् । एवं प्रयत्नतः कृत्वा सर्वान्कामानवाप्नुयात् ॥' इति । शुक्रवदितरग्रहसमुख्ये तत्तलिंगस्वशाखोक्तवैदिकमंत्रैः पूजादिकं विधेयम् । अस्मादेव शांतिकथनज्ञापकादितरसांमुख्येऽपि सांमुख्याभिधायकं वाक्यं विनैव किंचिद्दोषोऽस्तीत्यनुमीयते । बुधसांमुख्यदोषं तु स्वयमेव वक्ष्यति । भौमसांमुख्यदोषं कंठतो वसिष्ठ एवाह; तद्वाक्यमधुनैव प्रदर्शयिष्यत इत्यास्तां प्रसक्तानुप्रसक्तम् । दीपिकायां तु दानमेवोक्तम्-सितमश्वं सितं छत्रं हेममौक्तिकसंयुतम् । ततो द्विजातये दद्यात्प्रतिशुऋप्रशांतये ॥' इति । एतच्छांतिप्रकाराशक्तौ ध्येयम् ॥ ३७॥ अथैवं संमुखशुक्रदोषमभिधायेदानीं तस्यैव वक्रास्तादिदोषं सापवादमुपजातिकयाहवक्रास्तनीचोपगते भृगोः सुते राजा वजन्याति वशं हि विद्विषां । बुधोऽनुकूलो यदि तत्र संचलन् रिपूञ्जयेन्नैव जयः प्रतींदुजे॥३८॥ . वक्रास्तेति ॥ भृगोः सुते शुक्रे वक्रोपगते अस्तोपगते नीचगते वा । उपलक्षणत्वाद्रहयुद्धपराजिते वर्णरहिते वा सनि राजा परराष्ट्रं व्रजन् सन् हि निश्चयेन विद्विषां शत्रूणां वशं याति । निबद्धो भवतीत्यर्थः । यदाह भारद्वाजः'विवर्णे विजिते नीचे वक्रिते वा सितेऽस्तगे । शत्रुगृहयुते वापि तदंशे तन्निरीक्षिते ॥ यात्रां नैव प्रकुर्वीत लक्ष्म्यायुर्बलहानिदाम् ॥' इति । श्रीपति ३१ मु० चि. Page #378 -------------------------------------------------------------------------- ________________ ३६२ मुहूर्तचिंतामणिः। [शुक्रास्तादौ विशेषः रपि-नीचगग्रहजिते प्रतिलोमे भार्गवे कलुषितेऽस्तगते वा । प्रस्थितो नरपतिः प्रबलोऽपि क्षिप्रमेव वशमेति रिपूणाम् ॥' इति । अत्र विशेषमाह लघुवसिष्ठः-'शुक्र वास्तंगते जीवे चंद्रे वास्तमुपागते । तयोर्बाल्ये वार्धके च सा यात्रा भयरोगदा ॥' इति । अथ शुक्रापवाद उच्यते-बुध इति । तत्र शुक्रास्ते यदि बुधोऽनुकूलः पृष्ठदिक्संस्थो भवेत्तदा संचलन् गच्छन् राजा रिपून शत्रून् जयेत् । यदाह श्रीपतिः-'एवंविधे ह्यास्फुजिति प्रयायादुधो यदि स्यादनुकूलवर्ती' इति । अपवादातरमप्याह नारदः-'नीचगोऽरिगृहस्थो वा वक्रगोवा पराजितः।यातुभंगप्रदः शुक्रः स्वोच्चस्थश्चेद्धनप्रदः॥' इति। नैवेति । प्रतींदुजे बुधसंमुखत्वे सति गंतू राज्ञो नैव जयः किंतु पराजयः । यदाह नारदः-'प्रतींदुजकृतं दोषं हंतुं शक्ता ग्रहा नहि' इति । वसिष्ठोऽपि'प्रतिशुक्रं प्रतिबुधं प्रतिभौमं गतो नृपः । बलेन शक्रतुल्योऽपि हतसैन्यो निवर्तते ॥' इति । अयं च प्रतिशुक्रादिविचारो नृणां प्रथमगमने, राज्ञां तु विजययात्रायामाहुः । तथा च रैभ्यः-'प्रतिशुक्रादिदोषोऽयं नूतने गमने नृणाम् । राज्ञां विजययात्रायां नान्यथा दोषमावहेत् ॥' इति । आदिशब्दाच्छुक्रास्तप्रतिभौमप्रतिबुधा गृह्यते, तेषामप्येवंविधे विषये दोषः ॥ ३८ ॥ अथ कालविशेष प्रतिशुक्रापवादं शुक्रास्ते च विशेष शालिनीछंदसाहयावचंद्रः पूषभात्कृत्तिकाद्ये पादे शुक्रोऽन्धो न दुष्टोऽग्रदक्षे । मध्येमार्ग भार्गवास्तेऽपि राजा तावत्तिष्ठेत्संमुखत्वेऽपि तस्य ॥३९॥ यावदिति ॥ चंद्रो यदा पूषभाद्रेवतीनक्षत्रादारभ्य कृत्तिकाचे पादे रेवत्यश्विनीभरणीकृत्तिकाप्रथमचरणे यावच्चंद्रस्तिष्ठति तावच्छुक्रोऽन्धो ज्ञेयः । दृष्टोऽपि शुक्रो दर्शनकार्य न करोतीत्यर्थः । तदेवाह-न दुष्ट इति । शुक्रोऽन्धो यदा भवेत्तदा अग्रे संमुखे दक्षिणभागे च दुष्टो न स्यात् । यदाह पराशरः'पोष्णादिवह्निभायांत्रिं यावत्तिष्ठति चंद्रमाः । तावच्छुको भवेदंधः संमुखे गमनं हितम् ॥' इति । मध्येमार्गमिति । मार्गस्य मध्ये मध्येमार्गम् , 'पारे मध्ये षष्ट्या वा' इत्यव्ययीभावः समासः । पूर्वपदस्यैदंतत्वं निपातनात् पारेमध्ये इति । सुमुहूर्तप्रस्थितो राजा मार्गमध्ये यदि शुक्रास्तो भवेत्तावत्कालं तस्मिन्नेव प्रयाणे तिष्ठेत् यावच्छुक्रोदयो भवेत् । यदि शुक्रो गंतू राज्ञः संमुखो दैवात्तावत्तस्य शुक्रस्य संमुखत्वेऽपि तस्मिन्नेव प्रयाणे तिष्ठेत् । उपलक्षणत्वाद्दुरावप्येवंविधे द्रष्टव्यम् । यदाह पराशरः-'जीवः शशांकः शुक्रो वा मार्गमध्येऽस्तगो यदि । तत्रैव निवसेदाजा यावदभ्युदितो भवेत् ॥' इति । उदयादनंतरं यदि संमुखः शुक्रस्तदापि स्थेयमिति प्राग्वचनाज्ज्ञायते । ततः शुक्रास्तापेक्षायां तत्रैव स्थितिः । ततः शुक्रोदयमपेक्ष्य तं च पृष्ठतः कृत्वाने सुमुहूर्ते वा गच्छेदित्यनुक्तसिद्धमप्येतत्सर्व ज्ञायत इति । एवं मध्यमार्ग बुधास्तश्चेत्स्यात्तदा दोषाभावः।सामान्यविशेषवाक्याभावात्।यदातुमध्येमार्ग Page #379 -------------------------------------------------------------------------- ________________ प्रयाणेऽनिष्टलग्नं] यात्राप्रकरणम् ११ । ३६३ बुधोदयो भवेत्स च पुनः संमुखः स्यात्तदा दोष एव । उक्तं च वसिष्ठेन'संमुखे चंद्रगजे यत्र मार्गमध्योदितो यदि । यावदस्तंगते तस्मिंस्तावत्तत्रैव संवसेत् ॥' इति ॥ ३९॥ अथैवं महतायासेन दिनशुद्धिमभिधायेदानी लग्नशुद्धिं वक्तुकामस्तावत्प्रयाणेऽनिष्टलग्नमनुष्टुभाह कुंभकुंभांशको त्याज्यौ सर्वथा यत्नतो बुधैः । तत्र प्रयातुनृपतेरर्थनाशः पदे पदे ॥ ४०॥ कुंभेति ॥ स्पष्टार्थमिदं पद्यम् । यदाह नारदः-निंद्यो निखिलयात्रासु घटलग्ने घटांशकः' इति । श्रीपतिरपि-'नेष्टः कुंभोऽप्युद्गमेंऽशस्थितो वा' इति । वराहोऽपि-'न कुंभलग्नं शुभमाह सत्यो न भागभेदाधवना वदंति' इति ॥ ४०॥ ___ अथान्यदनिष्टलग्नं शुभफलदलग्नं च मंजुभाषिणीछंदसाहअथ मीनलग्न उत वा तदंशके चलितस्य वक्रमिह वर्म जायते । जनिलमजन्मभपती शुभग्रही भवतस्तदा तदुदये शुभो गमः ४१ ___ अथ मीनेति ॥ मीनलग्ने वा सत्यपि लग्नांतरे तदंशे मीनांशे वा चलितस्य राज्ञो वर्म चक्र स्यात् । तदाह नारदः-'वक्रः पंथा मीनलग्ने यातुर्मीनांशकेऽपि वा' इति । श्रीपतिरपि—'वक्रः पंथा मीनलग्नेऽशके वा कार्या सिद्धिः स्यानिवृत्तिश्च तस्य' इति। दुर्गादित्यः-'मीनोदये गमनमन्यगृहोदयेऽपि मीनाशके कुटिलमेव च निष्फलं स्यात्' इति । एवमशुभलग्नमभिधायेदानीं शुभलग्नान्युच्यते-जनीति । जनिर्जन्म, तत्कालीनं लग्नं जनिलग्नं; जन्मभं जन्मराशिः; तयोर्जन्मलग्नजन्मराश्योः पती स्वामिनी शुभग्रहौ चेदुदये लग्ने भवत. स्तदा गमो गमनं शुभः स्यात् । जन्मलग्नं जन्मराशिश्च यात्रालग्नगं शुभमिति प्रागेवाभिहितम् 'जननराशितनू यदि लग्नगे' (११।२) इति । अर्थाजन्मलग्नजन्मराशिस्वामिनी पापग्रहो यदि यात्रालग्ने स्यातां तदा तादृशे लग्ने गमनमशुभफलदमित्यर्थः । यदाह वसिष्ठः-'जन्मराशी लग्नगते तदीशे वा विल. नगे। अभीष्टफलदा यात्रा राशीशश्वेच्छुभग्रहः ॥' इति । ननु 'जन्मराश्युदमो नैव जन्मलग्नोदयः शुभः। तयोरुपचयस्थानं यदि लग्नगतं शुभम् ॥' इति वृद्धनारदेन जन्मराशेर्यात्रालग्नावस्थितौ निषेधोऽभिहितः । सत्यम् । राशेः पापग्रहस्वामित्वे दोषः, न शुभस्वामित्वे, प्रागुक्तवसिष्ठवाक्यस्वरसात् । एवं जन्मलग्नोदयः शुभ इत्यपि जन्मलग्नस्य शुभग्रहस्वामित्वे शुभफलता, न पापस्वामित्वे इति व्याख्येयम् ॥ ४१ ॥ अथान्यदनिष्टं लग्नं रथोद्धताछंदसाहजन्मराशितनुतोऽष्टमे तथा स्वारिभाच रिपुमे तनुस्थिते । लग्नगास्तदधिपा यदाथवा स्युर्गतं हि नृपतेर्मृतिप्रदम् ॥ ४२ ॥ Page #380 -------------------------------------------------------------------------- ________________ ३६४ मुहूर्तचिंतामणिः। [प्रयाणे शुभलग्नानि - जन्मराशीति ॥ स्वस्य जन्मराशेर्जन्मलग्नाचाष्टमे राशौ लग्नस्थ सति, तथा स्वारिभात् जिगमिषतः स्वशनो दाशेलग्नाच्च रिपुभे षष्ठराशौ तनुस्थिते वा सति, अथवा स्वराशिलग्नाभ्यामष्टमभवने स्वशत्रोर्जन्मराशिलग्नाभ्यां षष्ठभवने तेषां स्वामिनो यात्रालग्नगताः स्युर्यदा तदा राज्ञो मृतिप्रदाः । यदाह श्रीपतिः-'जननसमयलग्नानधने जन्मभाद्वा निजरिपुभवनाद्वा शत्रुभे लग्नयाते। पतिभिरुत तदीयैलंग्नतः पार्थिवानां गमनमथ विषं वा भक्षितं तुल्यमेव ॥' इति । विषं वा भक्षितं, मरणप्रदमित्यर्थः । वसिष्ठेन तु स्वजन्मराशिलग्नाभ्यां द्वादशभवनमपि निषिद्धमुक्तम् । यथा-'स्वाष्टलग्ने लग्नगते राशी वा लग्नगे सति । यातुभंगो भवेत्तत्र द्वादशे वाथ लग्नगे ॥' इति ॥ ४२ ॥ . अथान्यच्छुभलग्नं शालिन्याहलग्ने चंद्रे वापि वर्गोत्तमस्थे यात्रा प्रोक्ता वांछितार्थंकदात्री । अंभोराशौ वा तदंशे प्रशस्तं नौकायानं सर्वसिद्धिप्रदायि ॥४३॥ - लग्न इति ॥ मीनकुंभव्यतिरिक्ते यस्मिन्कासंश्चिल्लग्ने वर्गोत्तमस्थे वर्गोत्तमनवांशगते सति वा अथवा चंद्रे वर्गोत्तमस्थे सति यात्रा वांछितार्थस्य मनोभीष्टार्थस्यैकाऽद्वितीया दात्री। यदाह वसिष्ठः-'वर्गोत्तमांशगे लग्ने त्वथवापि सुधाकरे। यात्रा कामदुधा यातुर्माता पुत्रस्य वै यथा ॥' इति । वै निश्चयेन । अथ नौकायात्राया असाधारणत्वेन लग्नमुच्यते-अंभोराशाविति । जलचरराशौ लग्नगते सति अथवा लग्नांतरे तदंशे जलचरांशे सति नौकायानं सर्वसिद्धिप्रदायि स्यात् । यदाह नारदः-'जलोदयो जलांशोऽपि जलयाने शुभप्रदः।' इति । दर्गादित्योऽपि-'नौयानमाप्यभवनेषु विलग्नगेषु कुर्यात्तथान्यगृहगेषु तदंशगेषु' इति। वराहोऽपि--'नौयानमिष्टं जलराशिलग्ने तदंशके वान्यगृहोदयेऽपि।' इति । एतेन संमतिदर्शनेन 'लग्ने चाप्येऽशे च नौयानमिष्टम्' इति श्रीपतिवाक्यं च आप्ये इति पदच्छेदेन स्पष्टार्थमपि चापसंबंधिनि लग्ने धनुर्लग्ने धनुरंशे च नौकायानमिष्टमित्येवं केचिद्व्याकुर्वते, तद्व्याख्यानमपाकृतं भवति । किंच तादृशे वाक्यार्थे क्रियमाणे मूलवाक्यानुपलंभः प्रयोगाशुद्धिश्च स्यात् । चापशब्दात् 'वृद्धिर्यस्याचामादिस्तद्वृद्धम्' इति वृद्धसंज्ञकात् 'वृद्धाच्छः' इति विहितस्य शैषिकच्छप्रत्ययस्येयादेशे चापीय इति पाठ्यं स्यात्तथा च पाठे छंदोभंगः स्यात् ॥ ४३ ॥ ___ अथ मेषादीनां दिगनुलोमप्रतिलोमराशीनां लग्नावस्थितौ फलमिंद्रवज्राछंदसाहदिग्द्वारभे लग्नगते प्रशस्ता यात्रार्थदात्री जयकारिणी च । हानि विनाशं रिपुतो भयं च कुर्यात्तथा दिक्प्रतिलोमलग्ने ॥४४॥ दिग्द्वारभ इति ॥ दिग्द्वारभानि मेषादिराशयस्तद्विलग्नेषु गंतव्यदिगव. १ आष्यभवनं जलराशिः कुंभो वा मीनो वा । Page #381 -------------------------------------------------------------------------- ________________ प्रयाणे शुभलग्नानि ] यात्राप्रकरणम् ११ । ३६५ स्थितेषु सत्सु यात्रा प्रशस्ता । प्रशस्तत्वमेवाह-अर्थदात्री जयकारिणी चेति । यथा-मेषः पूर्वस्यां, वृषो दक्षिणस्यां, मिथुनः पश्चिमायां, कर्कटः उत्तरस्यां; एवं सिंहादयो धनुरादयश्च पूर्वादिषु ध्येयाः । यदाह वसिष्ठः-'पूर्वादिदिक्षु मेषाद्याः क्रमादिग्द्वारराशयः । दिग्द्वारराशयः सर्वे तद्दिग्यातुः शुभप्रदाः॥' इति । हानिमिति । दिक्प्रतिलोमलग्ने विपरीतदिगवस्थिते लग्ने सति; यथा-पश्चिमायां मेषः, उत्तरस्यां वृषः, पूर्वस्यां मिथुनः, दक्षिणस्यां कर्कः । एवं पुनः पश्चिमादिषु दिक्षु सिंहादयो धनुरादयश्च ज्ञेयाः । तादृशे लग्ने गंतुः पुंसो यात्रा हानि द्रव्यादिनाशं रिपुतः शत्रुतो भयं च कुर्यात् । तथाशब्दः पादपूरणे । उक्तं च वसिष्ठेन-'दिग्द्वारभे लग्नगते यात्रार्थविजयप्रदा । लग्ने दिक्प्रतिलोमे सा हानिदा शत्रुभीतिदा ॥' इति । बृहयात्रायां वराहोऽपि-'यातव्यदिक्तनुगतस्य सुखेन सिद्धिय॑र्थश्रमो भवति दिक्प्रतिलोमलग्ने' इति ॥ ४४ ॥ अथ शुभलमान्येव वसंततिलकाछंदसाह राशिः स्वजन्मसमये शुभसंयुतो यो ___ यः स्वारिभानिधनगोऽपि च वेशिसंज्ञः । लग्नोपगः स गमने जयदोऽथ भूप योगैर्गमो विजयदो मुनिभिः प्रदिष्टः ॥ ४५ ॥ राशिरिति ॥ जिगमिषोः पुंसः स्वजन्मसमये यो राशिः शुभग्रहैश्चंदबुधगुरुशुक्रः संयुतोऽस्ति स राशिश्चेद्यात्रालग्नोपगः स्यात् , अथवा स्वारिभात् स्वशत्रोभ राशिर्लग्नं वा ततोऽष्टमो यो राशिः स चेद्यात्रालग्नोपगः स्यात् ,अथवा यो राशिर्वेशिसंज्ञः सूर्याक्रांतराशेर्द्वितीयो राशिर्वेशिसंज्ञः स चेद्यात्रालग्नोपगः स्यात् , तदा स राशिर्गमने जयदः स्यात् । यदाह नारदः-'यो ग्रहो जन्मनि शुभो यो राशिर्वेशिसंज्ञकः । तावुभौ जन्मलग्नं च यात्रायां शुभदं त्रयम् ॥' इति । शुभः=शुभग्रहयुतः । यदाह श्रीपतिः-'यः स्वजन्मनि शुभग्रहाश्रितो यश्च राशिरिह वेशिसंज्ञकः । यः स्वशत्रुभवनाच्च नैधने लग्नगः स गमने शुभावहः ॥' इति । वसिष्ठः-'शत्रोरष्टमलग्ने वा राशौ वापि विलग्नगे । तदीशस्थितलग्ने वा यातुः शत्रुक्षयः सदा ॥' इति । वेशिलक्षणमाह वराहः-'दिनकरयुताद्भावितीयो वेशिः' इति । अथवा भूपयोगैर्जातकोत्तयात्रालग्नावस्थितै राजयोगैर्गमो मुनिभिर्विजयदः प्रोक्तः । यदाह नारदः- ये नृपा यांत्यरीजेतुं तेषां योगैर्नृपाह्वयैः । उपैति शांति कोपाग्निः शत्रुयोषाश्रुवारिभिः ॥' इति । वराहोऽपि-'जातकोक्तनृपयोगगतानां • प्रतिदिनं भवति राज्यविवृद्धिः । वातघूर्णितमिवार्णवयानं पल्वले तु समुपैति विनाशम् ॥' इति । ते च राजयोगा बृहज्जातके सारावल्यां टोडरानंदे च संति, अतस्तत एवावधार्याः ॥ ४५ ॥ Page #382 -------------------------------------------------------------------------- ________________ ३६६ मुहूर्तचिंतामणिः। [लालाटिकयोगाः __ अथ लालाटिकयोगान्वक्तुकामस्तावद्दिस्वामिन उपजातिकयाहसूर्यः सितो भूमिसुतोऽथ राहुः शनिः शशी ज्ञश्च बृहस्पतिश्च । प्राच्यादितो दिक्षु विदिक्षु चापि दिशामधीशाः क्रमतः प्रदिष्टाः॥ सूर्य इति । स्पष्टार्थमिदं पद्यम् । यदाह वसिष्ठः-'दिगीश्वरा भास्करशुक्रभौमराह्वर्किचंद्रज्ञसुरार्चिताः स्युः' इति ॥ ४६॥ अथ दिगधीशकथनप्रयोजनं तनुमध्याछंदसाह: केंद्रे दिगधीशे गच्छेदवनीशः। लालाटिनि तसिन्नेयादरिसेनाम् ॥ ४७ ॥ केंद्रे इति ॥ दिवस्वामिनि 'सूर्यः सितः' (११।४६) इत्यादिनोक्त केंद्रे केंद्रवर्तिनि सति अवनीशो राजा गच्छेत् । तस्मिन् दिगधीशे लालाटिनि सति मरिसेनां नेयान गच्छेत् । यदाह श्रीपतिः-'ललाटगे न प्रवसेद्दिगीशे गंतव्यमस्मिन् खलु कंटकस्थे' इति ॥ ४७ ॥ अथ लालाटिकयोगान् शार्दूलविक्रीडितेनाहप्राच्यादौ तरणिस्तनौ भृगुसुतो लाभव्यये भूसुतः कर्मस्थोऽथ तमो नवाष्टमगृहे सौरिस्तथा सप्तमे । चंद्रः शत्रुगृहात्मजेऽपि च बुधः पातालगो गीष्पति वित्तभ्रातृगृहे विलग्नसदनाल्लालाटिकाः कीर्तिताः॥४८॥ प्राच्यादाविति ॥ प्राच्यादौ प्राच्याद्यष्टदिक्षु क्रमेण विलग्नसदनादिषु भावेषु सूर्यादिग्रहस्थित्या लालाटिकाः स्युरिति वाक्यार्थः । यथा-तनौ लग्नस्थस्तरणिः सूर्यः प्राच्यां गंतुर्लालाटिकः, एवमाग्नेय्यां भृगुसुतो लाभव्यये एकादशद्वादशस्थाने लालाटिकः, कर्मस्थो दशमस्थो भूसुतो मंगलो दक्षिणस्याम् , तमो राहुरष्टमनवमस्थानस्थितो नैरत्याम् , सौरिः शनिः सप्तमस्थः पश्चिमायाम् , चंद्रः शत्रुगृहात्मजे षष्ठपंचमस्थो वायव्याम् , बुधः पातालगश्चतुर्थस्थानस्थ उत्तरस्याम् , गीष्पतिवृहस्पतिर्वित्तभ्रातृगृहे द्वितीयतृतीयस्थानस्थ ऐशान्यां लालाटिक इत्यर्थः । यदाह नारदः–'लग्नस्थो भास्करः प्राच्यां दिशि यातुर्ललाटगः । द्वादशैकादशे शुक्र आग्नेय्यां तु ललाटगः । · दशमस्थः कुजो लग्नाद्याम्यायां तु ललाटगः । नवमाष्टगतो राहुनैऋत्यां तु ललाटगः ॥ लग्नात्सप्तमगः सौरिः प्रतीच्यां तु ललाटगः । षष्ठपंचमगश्चंद्रो वायव्यां च ललाटगः ॥ चतुर्थस्थानगः सौम्य उत्तरस्यां ललाटगः । द्वित्रिस्थानगतो जीव ऐशान्यां तु ललाटगः ॥ लालाटिदिक्पतिं त्यक्त्वा जीवितेप्सु Page #383 -------------------------------------------------------------------------- ________________ पर्युषितयात्रायोगाः] यात्राप्रकरणम् ११।। ३६७ बृजेन्नृपः' इति । वराहोऽपि-'लग्ने भानुः सुतरिपुगतश्चंद्र आरो नभःस्थः पातालस्थो हिमकरसुतः स्वत्रिगो देवमंत्री। तद्वच्छुक्रो व्ययभवगतो भास्करिः सप्तमस्थो राहुर्नित्यं निधननवगः स्वां दिशं वारयति ॥' यत्तु वसिष्ठवाक्ये'राशीनेको द्वाविनाक्रांतराशेरप्रादक्षिण्याद्विन्यसेदिग्विदिक्षु । यद्दियाशी लग्नगे संमुखत्वं तद्दिग्यातुर्मृत्युदस्तद्दिगीशः ॥' इति, तदयुक्तं प्रतिभाति । तथा हिसूर्याधिष्ठितराशेरप्रादक्षिण्येन द्वादशराशिचके दिश्येको विदिशि द्वावित्येवं व्यस्ते 'सूर्य सितः' (१११४६) इत्यादिना प्राच्याद्यष्टदिक्षु ग्रहन्याससहिते सति सूर्याक्रांतराशेश्चेञ्चतुर्थो बुधस्तदोत्तरस्यां लालाटिकः स्यात् , स चासंभवनीया, न हि केनापि गणितप्रकारेण सूर्याच्चतुर्थो बुधः स्यात् । अत एव वराहोऽपि'चतुर्थभवने सूर्याज्ञसितौ भवतः कथम्' इति । अन्यच्च सूर्याधिष्ठितराशेः सप्तमः शनिः पश्चिमायां लालाटिकः। तत एव दशमस्थो भौमो दक्षिणस्याम् । एवमेव सर्वेऽपि ग्रहाः लालाटिका इत्यापद्येत । इष्यते च लग्नराशेरेव । एवं सति सकलमुनिविरोधश्चापतेत् । तस्माद्वसिष्ठसंहितापुस्तके 'इनाक्रांतराशेः' इति लेखकभ्रमसंभूतपाठः । तस्मात् 'राशीनेको द्वावितो लग्नराशेः' इति पाठः साधीयान् कल्प्यः। एवं सति चतुर्थस्थानगतबुधासंभवः सकलमुनिविरोधश्च नास्ति । रत्नकोशे-'योऽधिपतिर्दिशि यस्यास्तस्मिंस्तत्स्थे न तां दिशं यायात् । अनुकूले च दिगीशे गंतव्यं कंटकोपगते ॥' इति । अत्र सूर्यभौमशनिबुधाना. मस्ति च कंटकोपगतत्वमस्ति च लालाटिकत्वम् । अन्येषां शुक्रादीनामुभयरूपत्वासंभव एव। तत्र लालाटिकस्थानव्यतिरिक्त स्थानत्रयं कंटकशब्देन व्यवहर्तव्यम् । बहुव्यापकत्वाल्पव्यापकत्वरूपसामान्यविशेषभावसत्त्वात् । तस्मालालाटिकव्यतिरिक्ते कंटकस्थाने यदि दिगीशस्तदा शुभफलदा यात्रा, अन्यथा ह्यशोभनेति हृदयम् ॥ ४८ ॥ अथ पर्युषितयात्रायोगचतुष्टयमनुष्टुभेंद्रवज्राभ्यामाहमृगे गत्वा शिवे स्थित्वाऽदितौ गच्छञ्जयेद्रिपून् । मैत्रे प्रस्थाय शाके हि स्थित्वा मूले व्रजस्तथा ॥४९॥ प्रस्थाय हस्तेऽनिलतक्षधिष्ण्ये स्थित्वा जयार्थी प्रवसेद्विदैवे । वस्वंत्यपुष्ये निजसीनि चैकरात्रोषितः मां लभतेऽवनीशः ५० मृगे इति ॥ प्रस्थायेति ॥ मृगशिरसि स्वगृहाद्यातव्यदिगभिमुखं कस्यचिदिष्टस्य गेहे गत्वा प्रस्थायार्द्रायां तस्मिन्नेव गृहे स्थित्वोषित्वाऽदितौ पुनवैसौ गच्छन् तद्नेहं त्यक्त्वा ग्रामावहिरेव गच्छन्सन् रिपून शत्रून् जयेत् । अयमेको योगः। एवमेव मैत्रेऽनुराधायां प्रस्थाय शाके ज्येष्ठायां स्थित्वा मूले व्रजन्सन् तथा शत्रून् जयेदित्यर्थः। अयं द्वितीयो योगः । तथा हस्ते प्रस्थायानिलतक्षधिष्ण्ये स्वातीचित्रानक्षत्रद्वये स्थित्वा द्विदैवे विशाखायां जयार्थी Page #384 -------------------------------------------------------------------------- ________________ ३६० 'मुहूर्तचिंतामणिः। [लग्नादिद्वादशभावसंज्ञाः भूपादिः प्रवसेद्देशान्तरं गच्छेत् । अयं तृतीयो योगः। वस्त्रंत्यपुष्ये धनिष्ठारेवतीपुष्येषु निजसीम्नि स्वनगरप्रांते प्रस्थितः सन् यदि एकरात्रोषितः स्यात्तदाऽवनीशो राजा क्ष्मां भूमि, शत्रोरिति शेषः। लभते जयेन प्रामोतीत्यर्थः । अयं चतुर्थो योगः। यदाह बृहद्यात्रायां वराहः-'सौम्ये गत्वाध्युष्य रौद्रेऽदितीशे संप्रस्थाता बाधते शत्रुसंघान् । मैत्रे गत्वा पौरुहूते समुष्य मूले यायाच्छत्रुनाशाय भूपः ॥ हस्ते गत्वा स्वातिचित्रे समुष्य शक्राम्योर्भे प्रस्थितो बाधतेऽरीन् । तिष्ये पौष्णे वासवे चैकरानं सीम्नि स्थित्वा भूतिमामोति याता॥' इति । क्वचिन्मृगे प्रस्थायायां पुनर्वसौ च स्थित्वा पुष्ये गच्छेदित्युक्तम् । यदाह गुरु:-'सौम्ये गत्वा समध्युष्य रौद्रादित्ये व्रजेत्पुनः । पुष्येऽतिसंपदे विद्वाल्लभते जीवसंपदः॥' इति । विशेषमाह वराहः-'यथेष्टवेलागमनं प्रशस्तं हस्तेदवोपेंद्रसुरेशभेषु । कृत्वा प्रयाणं श्रवणे श्रियोऽर्थी वसेन्न जातु क्षितिपः स्वसीम्नि ॥' इति । उपेंद्र श्रवणः । सुरेशभं-ज्येष्ठा ॥ ४९-५० ॥ अथ समयबलमनुष्टुभाहउषःकालो विना पूर्वां गोधूलिः पश्चिमां विना । विनोत्तरां निशीथः सन् याने याम्यां विनाऽभिजित् ॥५१॥ उषःकाल इति ॥ स्पष्टार्थ पद्यम् । सन्शब्दश्वरणचतुष्टयेऽपि संबध्यते । निशीथोऽर्धरात्रम् । याने यात्रायाम् । सर्वत्र विनायोगे द्वितीया, 'पृथग्विनानानाभिस्तृतीयान्यतरस्याम्' इति पक्षे द्वितीयाया अपि विधानात् । अत्र हि 'दग्धा दिगैशी ज्वलिता दिगेंद्री' इति वसंतराजोक्तरीत्या तुर्यस्य तत्तद्दिगवस्थानात्तस्यां तस्यां दिशि यात्रा निषिद्धेति युक्तिसिद्धोऽयमर्थ उपनिबद्धः । वराहेण दिग्विशेष समयविशेषः प्रशस्तोऽभिहितः। यथा-'पूर्वाह्ने तूत्तरां गच्छेन्मध्याह्ने पूर्वतो व्रजेत् । अपराह्ने व्रजेद्याम्यां मध्यरात्रे तु पश्चिमाम् ॥' इति । वसिष्ठोऽपि-'पूर्वाह्नेऽप्युत्तरां गच्छेत्प्राची मध्यंदिने तथा। दक्षिणा चापराह्ने तु पश्चिमामर्धरात्रके ॥ न तत्रांगारको विष्टियंतीपातो न वैधतिः । सिध्यंति सर्वकार्याणि यात्रायां दक्षिणे रविः॥' इति । अत्राभिजित्प्रशंसामाह श्रीपतिः-'भष्टमो ह्यभिजिदाह्वयक्षणो दक्षिणाभिमुखयानमंतरा। कीर्तितोऽपरककुप्सु सूरिभिर्यायिनामभिमतार्थसिद्धये ॥' इति ॥५१॥ - अथ लग्नादिभावानां संज्ञा अनुष्टुभाहलग्नाद्भावाः क्रमाद्देह १ कोश २ धानुष्क ३ वाहनम् ४ । मंत्रो५ऽरिदमार्ग आयुश्चव्हृद्९ व्यापारा१०गम११ व्ययाः१२ __ लग्नादिति ॥ हृन्मनः, 'स्वातं हृन्मानसं मनः' इत्यभिधानात् । भागमः प्राप्तिः । अन्यत्स्पष्टार्थ पद्यम् । 'मूर्तिः कोशो धन्विनश्च वाहनं मंत्रसंज्ञकः । शत्रुर्मार्गस्तथायुश्च मनोव्यापारसंज्ञकः॥प्राप्तिरप्राप्तिरुदयाद्भावाः स्युादशैव Page #385 -------------------------------------------------------------------------- ________________ लग्नादिभावस्थग्रहफलानि ] यात्राप्रकरणम् ११ । ३६९ ते ।' इति नारदोक्तेः । एवंविधसंज्ञाकथनप्रयोजनं तु क्रूरग्रहसाहित्ये तत्तद्भावानां पीडा शुभग्रहसाहित्ये तद्भावानां शुभमित्युत्सर्गः ॥ ५२ ॥ अथ विशिष्यशुभाशुभफलं शालिन्याहकेंद्रे कोणे सौम्यखेटाः शुभाः स्युर्याने पापाख्यायषट्खेषु चंद्रः। नेष्टो लग्नांत्यारिरंधे शनिः खेऽस्ते शुक्रो लग्नेण्नगांत्यारिरंध्रे ५३ __ केंद्रे इति ॥ केंद्राणि ॥४७॥१०, कोणं ९।५, यदि सौम्यग्रहाः केंद्रे कोणे स्युस्तदा याने शुभफलदाः स्युः; अर्थादन्येषु भावेष्वशुभफलदाः । पापग्रहास्यायषदखेषु तृतीयैकादशषष्ठदशमस्थानस्थाः शुभफलदाः; अर्थादन्येषु अशुभफलदाः । चंद्रो लग्नात्यारिरंधे लग्नद्वादशषष्ठाष्टमेषु स्थितो नेष्टोऽशुभफलदः । शनिः खे दशमे नेष्टोऽशुभफलदः । शुक्रोऽस्ते सप्तमे नेष्टः । यदाह वसिष्ठः-नंति क्रूरास्त्रिषष्ठायभावान्भित्त्वा परान्सदा । पुष्णंति सौम्यखचराः षष्ठाष्टांत्यं विना परान् ॥ लग्नषष्ठाष्टमं हंति चंद्रः शुक्रोऽस्तगस्तथा । मृत्युलग्नस्थितश्चंद्रो यातुर्मृत्युप्रदः सदा ॥' इति । अन्यत्रापि 'केंद्रत्रिकोणगैः सौम्यैस्त्रिभवारिगतैः परैः । अलग्नरिःफचंद्रेण यात्राभीष्टफलप्रदा ॥' इति । वराहोऽपि-'प्रायो जगुः सहजशत्रुदशायसंस्थाः पापाः शुभाः सवितृजं परिहृत्य खस्थम् । सर्वत्रगाः शुभफलं जनयंति सौम्यास्त्यक्त्वाऽस्तसंस्थममरारिगुरुं यियासोः ॥' इति । श्रीपतिरपि-'क्रूरग्रहाख्यरिदशायगताः शुभाः स्युर्हित्वा शनि दशमभावगतं यियासोः । मूर्त्यादिभावनिचये सकलेऽपि सौम्याः श्रेष्ठा भृगोस्तनयमस्तगतं विहाय ॥' इति । लग्नेडिति । लग्नेट यात्रालग्नस्वामी नगांत्यारिरंध्रे सप्तमद्वादशषष्ठाष्टमस्थश्चेत्तदानिष्टोऽशुभफलदो मृत्युद इत्यर्थः । यदाह गुरुः–'लग्नपो मृत्युदो याने रंध्रास्तारिव्ययोपगः । केऽप्याहुर्भयदो धर्म शेषस्थाने शुभावहः ॥' इति । अथात्र यात्राकालीनलग्ने लग्नादिद्वादशभावावस्थितानां ग्रहाणां फलानि बादरायणप्रोक्तानि लि. ख्यते । यथा-'राहुभौमदिवाकरेंदुरविजाः प्रस्थानलग्ने गताः क्षुत्तृष्णाऽग्निविषायुधज्वरभवा रोगाश्च नानाविधाः । जीवः सोमसुतस्तथैव भृगुजो यात्रोदयस्थो नृणां सा यात्रा धनधान्यभोगसुखदा पुण्यैः कृतैर्लभ्यते ॥ १ ॥ कोशस्थाने नराणामसुरगुरुबुधैर्धर्मकामार्थलाभं पुत्रोत्पत्तिं च जीवो धनसुखमतुलं शत्रुपक्षक्षयं च । मंदो बंधं सुदीर्घ मृतिमवनिसुतः कोशहानि च भास्वांश्चंद्रः कुर्यान्नरेंद्रं प्रियजनसहितं राहुरुत्पातरूपम् ॥२॥ प्रस्थाने भूमिपस्य क्षितिसुतरविजौ तिग्मभानुश्च राहुः शुक्रश्चंद्रात्मजो वा सुरगुरुरथवा शीतरश्मिर्धनायुः । दुश्चिक्यस्थानसंस्थो गजतुरगरथान्प्राप्य सर्वार्थसिद्धिं जित्वा शत्रूनशेषान्विचरति वसुधागोकुले गोपवेषः ॥३॥ बंधुस्थानगतो ददाति विपुलान्भोगान् भृगोरात्मजो जीवः शत्रुविनाशमिच्छति महालाभं करोतींदुजः । हानि बंधुगतः करोति रविजो वृद्धिं क्षयं चंद्रमा राहु १ हित्वा इति पाठः। Page #386 -------------------------------------------------------------------------- ________________ " मुहूर्तचिंतामणिः। [कदा याना सर्वथा नेष्टा भूमिसुतस्तथोष्णकिरणः कुर्वति दुःखं महत् ॥ ४॥ कुर्यादर्थस्य सिद्धिं सुत. भवनगतो वाक्पतिः शत्रुनाशं शुक्रः शीतांशुपुत्रः सुरगुरुसदृशं युद्धकाले करोति । सूर्यश्चंद्रश्च भौमो दिनकरतनयः सिंहिकानंदनोऽसौ सर्वे ते पंचमस्था विविधभयकराः पार्थिवानां रणोाम् ॥ ५॥ शत्रुस्थाने नराणां दिनकरतनयो भूमिपुत्रस्तथाः शीतांशुदैत्यमंत्री रजनिकरसुतः सैंहिकेयोऽथ जीवः । कुर्वत्येवार्थलाभं परबलमथनं सिद्धिमामोति कार्य शत्रुघ्नं भूमिपानां भवति हि गमने धर्मकामार्थसिद्धिः ॥ ६॥ नाशं शुक्रदिवाकराकेतनया राहुस्तथा भूमिजः क्षिप्रं शत्रुवशं नयंति पथिकं स्थाने स्थिताः सप्तमे । सौम्यो मित्रसमागमं सुरगुरुः स्त्रीवित्तलाभं नृणां चंद्रोऽभीष्टसुखं ददाति च धनं यात्रासु जामित्रगः ॥ ७ ॥ आरोग्यं चंद्रपुत्रो जनयति भृगुजः सर्वकामार्थसिद्धिं जीवो रक्षत्यशेषं सुतमिव जननी यात्रिकं नैधनस्थः । चंद्राकौं चेत्तमो वा जनयति नियतं शत्रुपक्षस्य वृद्धि भौमश्चार्कात्मजो वा जनयति सततं तस्करेभ्यो भयं च ॥ ८॥ शुक्रोऽतिसौख्यं नवमो बुधश्च जीवो जयश्रीधनधान्यलाभम् । चंद्रार्कसौरा नवमाः सभौमाः कुर्वत्यनेकान्पुरुषस्य दोषान् ॥ ९॥ कर्मस्थानस्थितोऽकः प्रचुरजयकरः पुष्टिदः शीतरश्मिर्जीवः संग्रामकाले भवति शुभकरः सर्वकार्यप्रदो ज्ञः । शुक्रः साम्राज्यलक्ष्मी वितरति च महीनंदनः प्राज्यकीर्ति राहुर्वैरापनुत्तिं जनयति सततं दीर्घरोग तथार्किः ॥ १० ॥ शशिबुधगुरुशुक्राः सूर्यराह्वार्किभौमा ब्रजति हि नरनाथे क्षिप्रमेकादशस्थाः । द्रुतमिह रिपुवर्ग नंति नूनं प्रयातुर्विचरति गजराजो युद्धमध्यस्थितो वा ॥ ११॥ क्षितिजरविसुतार्काः सैंहिकेयो नराणां जनयति रजनीशः श्रेष्ठभृत्येषु भेदम् । रिपुजयधननाशं भृत्यनाशं च कुर्युर्यदि बुधगुरुशुक्रा द्वादशस्था भवंति ॥ १२ ॥' इति बादरायणीययात्रायां भावफलानि । एवं सम्यग्याबालग्नं दत्त्वा यात्रा कारणीयेति तात्पर्यार्थः । तत्रैकस्मिन्नपि लग्नभंगिनि ग्रहे सति यात्रा सर्वथा न विधेया । तथा हि-मृत्युमूर्योश्चंद्रस्य स्थितिर्लग्नभंगिनी । सप्तमस्थानस्थितिः शुक्रस्य । दशमस्थानस्थितिः शनैश्चरस्य । एवंविधे ग्रहेऽन्येषु ग्रहेषु शुभफलदातृष्वपि नैव कार्या यात्रा । अत्र केचिद्ववल्गुःचेल्लमाधीशः केंद्रे स्यात्तदा लग्नभंगी ग्रहो दोषदो न भवति । यथा-मकरलग्नाधीशः शनिस्तुलायां दशमे स्यात् , कुंभलग्नाधीशो वृश्चिके, तथा वृषलमाधीशो भृगुः सप्तमे वृश्चिके स्यात् तुलाधीशश्च मेथे, तथा कर्कराशिस्थितश्चंद्रो यात्रालग्ने कर्काख्ये स्यात् ; एतादृशे यात्रालग्ने दोषो नास्तीति । उक्तं च जातकेऽपि-'लग्नाधिपो यदा केंद्रे लग्नादेकादशालये । सर्वग्रहकृतं रिष्टमेकोऽपि विलयं नयेत् ॥' इति । सत्यम् । इदं तावद्वाक्यं जातकविषयकमेवेति । तत्रैवोत्पत्तिसत्त्वात् । 'ये जातकोक्तक्षितिपालयोगैर्महीभृतो यांति रिपून्विजेतुम् । तेषां प्रकोपाग्निरुपैति शांतिं विद्वेषियोषाश्रुजलप्रवाहैः ॥' इतिवदतिदेशाभावाच । प्राग्वाक्यं तु निर्मुलमेव निबंधेष्वदृष्टत्वात् । सत्यपि वा समूलत्वे Page #387 -------------------------------------------------------------------------- ________________ केंद्गते लग्नेशे वैशिष्ट्यं ] यात्राप्रकरणम् ११ । ३७१ सामान्यदूषणस्य सामान्यत एव परिहार उचितः । यथा-'नंति क्रूराख्यायवर्ज हि भावान्न व्यापारं निहतः सूर्यभौमौ' इति वाक्यात्सर्वे क्रूरग्रहास्तुतीयैकादशस्थानवर्जितानि स्थानानि नंति, तत्र सूर्यभौमौ दशमस्थानं 'न हतः' इतिवत्सूर्यो वा भौमो वा चेल्लग्नाधीशः सन् लग्नचतुर्थसप्तमस्थानगतो भवति तदा केंद्रगतत्वेन 'नंति कुराख्यायवर्ज हि भावान्' इति तस्यापवादांतरमप्यस्तु न काप्यस्माकं हानिः । यत्र तु विशिष्यस्थानविशेषो ग्रहव्यक्तिविशेषश्वोच्यते । यथा-'शुक्रश्चास्तं मृत्युमूर्तिस्तथें,' 'हित्वा शनि दशमभावगतं हिमांशुम्' इति च । तत्रैतस्माद्विशेषवाक्यान्निषेधप्राबल्यमेवास्ति । यथा-शुक्रश्चेल्लग्नाधीशः सन् सप्तमाख्यकेंद्रे चंद्रो वा लग्नाधीशः सन् लग्न एव चेत्कर्के शनिर्वा लग्नाधीशः सन् दशमाख्यकेंद्रे एव चेत्स्यात्तदा निषेध एव प्रबलः, 'सामान्यशास्त्रतो नूनं विशेषो बलवान्भवेत्' इत्युक्तेः । मतो निषिद्धद्रव्यतिरिक्तकेंद्रेषु स्थिताः सोमशुक्रशनयः सामान्यतोऽरिष्टपरिहारकर्तारः स्युरिति कथमस्य सामान्यवाक्यत्वम् ? उच्यते,-लग्नाधिप इत्यत्र लग्नपदेन द्वादशराशय उच्यते। तेषामधिप इत्यनेन सप्तापि ग्रहाः प्रोच्यते । केंद्रपदेन च चत्वारि स्थानान्युच्यते इति परिहारवाक्ये सामान्यतोऽभिहितमस्ति । निषेधवाक्ये तूभयोः स्थानविशेषग्रहविशेषयोरभिधानमिति प्रागुक्तदोषो वज्रायितः । एवं लालाटिकयोगेष्वपि ध्येयम् । यथा-'प्राच्यादौ तरणिस्तनौ भृगुसुतो लाभव्यये भूसुतः कर्मस्थः' इति लालाटिकयोगवाक्येषु यदि प्राच्यां यातुः सिंहलग्नाधीशः सूर्यों लग्न एव चेत्तदा लालाटिकत्वेन दोष एवं प्रबलो नतु लग्नाधीशस्य केंद्रगतत्वेन सिंहलग्नं शुभदम् । एवं दक्षिणस्यां यातुर्मेषवृश्चिकयोरधीशो भौमः क्रमेण मकरस्थ उच्चगतः सिंहस्थो मित्रगृहगतोऽपि तथैव । एवं पश्चिमायां यातुर्मकरकुंभयोरधीशः शनिः क्रमेण कर्के सिंहे वा तथैव । एवं उत्तरस्यां यातुमिथुनकन्यालग्नयोरधीशो बुधः क्रमेण कन्यायां धनुषि वा चेत्तदापि तथैव । उच्चगतत्वादिकं तु दैवागतम् 'केंद्रे दिगधीशे' (१११४७) इति परिहारवाक्यं तु तत्तत्स्थानविशेषव्यतिरिक्तकेंद्रपरं द्रष्टव्यम् । यदिदं वाक्यमेप्वपि केंद्रेषु प्रवर्तते तदा प्राचीदक्षिणाप्रतीच्युत्तरासु महादिक्षु लालाटिकदोषाभिधानं खपुष्पायितमेव स्यात्तासु विषयालाभात् । किंतु विदिक्षु चतसृषु विशिष्यैव लालाटिकदोषाभिधानं वक्तव्यं स्यान्मुनीनाम् । एवं च-'लग्नपो मृत्युदो याने रंध्रास्तारिव्ययोपगे' इति गुरुवाक्येऽपि लग्नाधीशस्य सप्तमस्थानगतत्वमशुभमुक्तम् । तत्र सप्तमस्थानस्य केंद्रत्वेन परिहारोऽनुचित एव । अन्यथा दोषोक्तिरेव वक्तव्या भवेदिति । ननु-'एको हि दोषो गुणसन्निपाते निमजतींदोः किरणेष्विवांकः' इति दृष्टांताल्लग्नस्य समीचीनस्थानस्थितबहुग्रहसाहित्येन सबलत्वात्तत्तदोषाभाव इति चेत् चिंत्यमेतत् । यतो 'वक्रः पंथा मीनलग्नेऽशके वा कार्यासिद्धिः स्यान्निवृत्तिश्च तत्र । नेष्टः कुंभोऽप्युद्गमेशस्थितो वा लग्ने चाप्यंशे च नौयानमिष्टम्' इति स्वरूपतो दुष्टयोः कुंभमीनसंज्ञकयोर्यात्रा Page #388 -------------------------------------------------------------------------- ________________ ३७२ मुहूर्तचिंतामणिः । [योगयात्रायां सिद्धिहेतवः लग्नयोर्ग्राह्यता भवन्मते प्रसज्येत । तनेष्टापत्तिरिति चेत् । ज्योतिःशास्त्रे हि सामान्यशास्त्रेणैव सर्वसिद्धविषयस्य व्यापृतत्वाद्विशेषशास्त्रे दत्तजलांजलिता. दोषप्रसंगः स्यात् । एवं च 'न हिंस्यात्सर्वा भूतानि' इत्यादिसाधारणवैदिकवाक्यानां 'अग्नीषोमीयं पशुमालभेत' इत्यादिविशेषवाक्येष्वपि व्यापृतत्वाद्विशेषशास्त्रोच्छेदापत्तिः। अत्र ग्रहाणां फलदातृत्वं सबलानां दुर्बलानां वा यादृशतादृशानां वा स्यादिति संदेहस्तत्र निर्णयमाह श्रीपतिः-'अस्तंगता ग्रहजिता रिपुदृष्टदेहा नीचस्थिता विरुचयोऽरिगृहं प्रयाताः। ऋक्षाण्यवश्यकमपि स्वफलं विलग्ने दातुं क्षमाः खलु भवंति न खेचरेंद्राः ॥ युद्धे जिताः शुभफलानि विनाशयति पापानि चाशु नितरां परिवर्धयंति' इति । 'औत्पातिकाः सवितृलुप्तकरा विरुक्षा नीचं गता रिपुगृहं च नभश्चरेंद्राः' इति सारावल्याम् । अत एव तादृशाधिकारविशेषमाह श्रीपतिः-'वोच्चे रूपं चरणरहितं स्वत्रिकोणे स्वभेऽधं नागांशानां त्रयमधिसुहृदेहगेऽमित्रभेऽघ्रिः। अंशोऽष्टानां समगृहगते भूपभागोऽरिगेहे दंतांशः स्यादधिरिपुगृहे नीचगे. शून्यमेव ॥ एतच्छुभाख्यमशुभं च पुनर्गृहेषु स्वोच्चादिवर्तिषु वदंति तदूनमेकम्' इति ॥ ५३॥ अथ योगयात्रा व्याख्यायते । तत्र ग्रंथकृच्छंदःशास्त्रकृतपटुतराभ्यासं सूचयन्नानाविधैश्छंदोभिः मंजुभाषिणीप्रभृतिभिर्ग्रथितामावश्यकराजयात्रौपयिकी योगयात्रां वक्तुकामस्तदारंभप्रयोजनमाह योगात्सिद्धिर्धरणिपतीनामृक्षगुणैरपि भूदेवानाम् । चौराणामपि शकुनैरुक्ता भवति मुहूर्तादपि मनुजानाम् ॥५॥ योगादिति ॥ पादाकुलकं छंदः । तल्लक्षणं वृत्तरत्नाकरे-'यदतीतकृतविविधलक्ष्मयुतैर्मात्रासमादिपादैः कलितम् । अनियतवृत्तपरिमाणसहितं प्रथितं जगत्सु पादाकुलकम् ॥' इदं लक्षणम् 'द्विकगुणितवसुलघुरचलतिरिह' इत्येतत्प्रकरणे पठ्यते । तेन चरणचतुष्टये प्रत्येकं षोडशमात्रा ज्ञेयाः । तत्र गुरोर्मात्राद्वयं लघोर्मात्रैका मिलित्वा षोडश यथात्र पद्ये । अत्र प्रथमतृतीयचतुर्थचरणेषु मात्रासमकलक्षणम् । उक्तं च 'मात्रासमकं नवमो लगांतम्' इति । मात्रासमकाख्ये छंदसि नवमो ल लघुरित्यर्थः ।गांतं पादांते गुरुः । द्वितीयचरणे उपचित्रालक्षणम् । उक्तं च 'उपचित्रा नवमे परयुक्ते' परा दशमी मात्रा तया युक्ते नवमे नवमदशममात्राद्वयेनैको गुरुः स्यादित्यर्थः । अत एवो. क्तम्-'यदतीतकृतविविधलक्ष्मयुतैः' इति । न चास्त्यत्र मात्रासाम्यम् । परंतु अनियतवृत्तपरिमाणसहितमिति तेन पादाकुलकमित्यन्वर्थसंज्ञाप्यस्ति । धरणिपतीनांराज्ञां योगाद्वक्ष्यमाणसहितयोगयात्रालग्नवशाद् दुष्टेऽपि तिथ्यादौ सिद्धिर्वाछितकार्यनिष्पत्तिः स्यात् । भूदेवानां ब्राह्मणानामृक्षगुणैर्नक्षत्रगुणैचंद्रबलताराबलविहितनक्षत्रत्वादिभिः सिद्धिर्भवति । अपिशब्दात्पंचांगशुझ्यादिषु नावश्यकता। चौराणां शकुनैर्वक्ष्यमाणशुभसूचकशकुनैः सिद्धिर्भवति। Page #389 -------------------------------------------------------------------------- ________________ योगयात्राया अपवादविचारः] यात्राप्रकरणम् ११ । केचित्तु शिवालिखितोक्तमुहूर्तासिद्धिः स्यादित्याहुः । यदाह नारदः'फलसिद्धिर्योगबलाद्राज्ञो विप्रस्य धिष्ण्यतः । मुहूर्तशक्तितोऽन्येषां शकुनस्तस्करस्य च ॥' इति । वराहोऽपि–'योगैः क्षितिपालविनिर्मिताः शकुनैस्तस्करचारणादयः । नक्षत्रबलैर्द्विजातयः क्षणवीर्यादितरो जनोऽर्थभाक् ॥' इति । द्विजातयो ब्राह्मणाः । अत्र द्विजातय इति ब्राह्मणक्षत्रियवैश्या इति भट्टोत्पलो व्याख्यत् । तन्न । नारदवाक्ये साक्षाद्विप्रपदोपादानात् । अत एव वसिष्ठोऽपि-'फलसिद्धिर्धिष्ण्यगुणैरग्रजानां भवेत्सदा । योगलनैः क्षितीशानां चौराणां शकुनै शम् ॥' इत्यग्रजपदं प्रायुक्त । नन्वत्र राज्ञां योगैर्यात्रा फलसिद्धिदेत्युक्तं, तत्रेयं योगयात्रा किं सर्वदोषापवादिका, उत विषयविवेकः ? इति । सर्वापवादिकेति चेत् किं सर्वशब्देन शुभाशुभप्रकरणाभिहिता दोषा उच्यते, उत एतद्यात्राप्रकरणोक्तनक्षत्रशूलवारशूलपारिघदंडप्रतिशुक्रादिका दोषाः, उताविशेषात्सर्वेऽपि दोषाः? इति । तत्र यदि शुभाशुभप्रकरणोक्तदोषापवादकत्वे सति योगयात्रालग्ने तद्विचारस्य त्यागप्रसंगादिति चेत् । न । 'न हिंस्यात्सर्वा भूतानि' 'अग्नीषोमीयं पशुमालभेत' इति वदत्रोत्सर्गापवादस्य शिष्टसंमतत्वाभावात् । अत्र यात्राप्रकरणोक्तदोषापवादकत्वे सति नक्षत्रशूलप्रतिशुक्रादीनां राजविषयकाणामनभिधानप्रसंगात् । तथा हि'ज्येष्टायां पुरुहूतदिङ्मुखगतः प्राप्तो बलिबंधनं याम्यामाजपदे मुरश्च दितिजो यातो मुरारेर्वशम् । रोहिण्यां नमुचिः प्रतीच्यभिगतश्चूर्णीकृतो वज्रिणा सौम्यामर्यमदैवतेन गतवान्मृत्योर्वशं शंबरः ॥' इति । 'प्रतिशुक्रं प्रतिबुधं प्रतिभौम गतो नृपः । बलेन शक्रतुल्योऽपि हतसैन्यो निवर्तते ॥' इत्यादिषु नृपविषयत्वात् । ननु नक्षत्रशूलकथने वसिष्ठादिभी राजपदोपादानं तादृशो दृष्टांतो वा नाभ्यधायि, कथं नृपतिविषयतांगीक्रियते ? सत्यम् । सामान्यवाक्यस्य विशेषवाक्यानुरोधाद्विशेषे पर्यवसानम् । यथा-'पुरोडाशं चतुर्धा करोति,आग्नेयं चतुर्धा करोति' इतिवत् । तेन न वैश्वदेवाख्यपुरोडाशस्य चतुर्धाकरणम् । किंच योगादेव चेत्फलसिद्धिस्तदा 'न षष्टी न च द्वादशी नाष्टमी' (१।९) इत्येतप्रकरणपठितं तिथिशुद्ध्यादिकं व्यर्थं स्यात् । न च विप्राद्यर्थ तिथिशुद्ध्यादिसार्थकं स्यादिति वाच्यम् । तत्रापि नक्षत्रगुणादिभिरेव प्राशस्त्यावबोधनात् । अथोभयदोषापवादकत्वे इष्टे शुभाशुभप्रकरणं यात्राप्रकरणं चोल्लंघ्य स्थलांतरेऽतिदेश विना योगयात्रोपनिबंधः कर्तव्यः स्यात् शवप्रतिकृतिदाहश्राद्धनिर्णयकथनवत् । नहि तत्र पंचांगदोषा युज्यंते । यद्येवं संस्कारप्रकरणगृहप्रवेशप्रकरणादीनां पार्थक्योपनिबंधात्पंचांगदोषापवादकता कुतो नास्तीति चेत् । उच्यते-तत्र हि ‘पंचांगसंशुद्धदिनादिके च' इति वसिष्टादिभिः 'पर्वाख्यरिकोनतिथौ शुभेऽह्नि' इति ग्रंथकृताप्यतिदेशोपनिबंधस्य कृतत्वात् । अतः सर्वापवादिकेत्ययुक्तः पक्षः। तस्मात् 'अबाधेनोपपत्तौ बाधो न न्याय्यः' इति हेतोविषयविवेक इत्येव युक्तः पक्षः। स च यथा । यात्रा हि द्विविधा-एका साधारणयात्रा, अपरा समरविजयाख्या । साधारणयात्रा तु वर्णचतुष्टयसाधारणी। ३२ मु. चि. Page #390 -------------------------------------------------------------------------- ________________ ३७४ मुहूर्तचिंतामणिः । [यात्रायां योगस्य वैशिष्ट्यं तत्र बहुधा बहुना कालेन बहुदोषहानं बहुगुणोपादानं चोदितम् । द्वितीया समरविजयाख्या राज्ञामेव । तत्र योगयात्रा समरविजयोपयोगिनी । उपस्थिते युद्धे पंचांगशुद्धिर्बहुदिवसप्राप्येति तद्विचारानुपयोगात् । उक्तं च वसिष्ठेन योगयात्राप्रारंभे-'उक्ता साधारणी यात्रा युद्धयात्रां ब्रवीम्यहम् । व्रति ये नृपाः सूक्ष्मे लग्ने ते जयिनः सदा ॥ योगलग्गैर्युता राज्ञां यात्रा च विजयप्रदा। विचित्रान्योगलग्नांस्तान्सम्यग्वक्ष्ये समासतः ॥' इति । अन्ये तु युद्धं विनैव आत्ययिककार्यविषयैव योगयात्रेत्याहुः । यदाह पराशरः-'भात्ययिककार्यपाते दैवेन निपीडिते च यातव्ये। केवलविलग्नयोगादपि याता सिद्धिमामोति॥' इति । तत्रापि केवलेन योगयात्राबलेनैवंविधे विषये यात्रा न विधेया, किंतु यथासंभवं पंचांगसंबंधिनां द्विविधानां दोषाणां त्यागः तादृशानां गुणानां चोपादानं विधेयम् । संति हि द्विविधा दोषाः-नैसर्गिका अन्याहिताश्च । यथा तिथेः 'न षष्ठी न च द्वादशी' (११।९) इति नैसर्गिको दोषः। 'चापांत्यगे गोघटगे' (६।६४) इति दग्धदोषोऽन्याहितः । एवं वारनक्षत्रयोगानां द्वैविध्यं ऊह्यम् । एवं गुणा अपि द्विविधाः 'हयादित्य-' (११।९) इति विहितनक्षत्रत्वान्नैसर्गिको गुणः । शुभग्रहस्य साहित्यमन्याहितो गुणः । एवमन्येषामपि गुणानां द्वैविध्यमूह्यम् । तत्र यथा राज्ञां यथासंभवं दोषहानं गुणोपादानं चांगीकृत्य योगयात्रा विधेया। एवं ब्राह्मणादीनामप्यावश्यककार्यातिपातविषये नक्षत्रादिबलं ग्राह्यं । यथासंभवं च लग्नादिसमस्तदोषगुणानां हानोपादाने न्याय्ये स्त इति । तथाच लल्लः-'यातव्ये व्यसनगते ह्यनिष्टदेवे च भूपतिस्त्वरया। लग्नैरभीष्टकल्पैव्रजेत्तिथौ भेषु च समेषु ॥ कार्येषु पराधीनेष्वनेकसाधारणेषु शीघेषु । प्रायेण गमनमिष्टं सदैव नतु सूक्ष्मचिंताऽस्ति' इति ॥अत एव–'न तिथिनं च नक्षत्रं न ग्रहो नैंदवं बलम् । योगमेव प्रशंसंति वसिष्ठात्रिपराशराः ॥' इति वराहवाक्यं योगयात्रालग्नप्रशंसापरं नतु तिथ्यादीनामपवादकमिति तात्पर्यम् । ननु पूर्व दोषहानपूर्वकं समीचीनलग्नाभिधानं कृतमेवास्ति, कोऽस्ति योगयात्रालग्नेषु विशेषः ? उच्यते,-शुक्रः सप्तमो लग्नभंगकर्तेत्युक्तं प्राक्, अत्र तु शशिनि चतुर्थे सति शुक्रः सबुधश्चेत्सप्तमस्थस्तदा तद्योगयात्रालग्नमतीव शुभफलदम् । एतादृशं योगलग्नं ग्रंथकृद्वक्ष्यति । तत्र कियतामेव ग्रहाणां नियतस्थानावस्थित्या प्रागुक्तनीतेरशुभमपि शुभफलदायकं लग्नं भवति । यदाह श्रीपतिः-'यथा हि योगादमृतायते विषं विषायते मध्वपि सर्पिषा समम् । तथा विहाय स्वबलानि खेचराः फलं प्रयच्छंति हि योगसंभवम् ॥' इति । योगात् दुग्धादिद्रव्ययोगेन शोधनादित्यर्थः । सर्पिघृतम् । स्वभावतो लग्नप्राबल्ये योगोऽपि चेत्संभवेत्तदातीव शुभफलदं लग्नम् । अत एव योगेन यात्रा योगयात्रेत्यन्वर्थसंज्ञाविज्ञानमपि प्रतीयते । योगो नाम कियतां ग्रहाणां नियतस्थानावस्थितत्वम् । एवं वक्ष्यमाणेषु सर्वेष्वपि योगयात्रालग्नेषु यथासंभवं किंचिडूषणं समुह्य तस्मादेव वाक्याद्दोषाभावपूर्वकं गुणाधिक्यमस्तीति व्याकर्तव्यमित्यलमतिप्रसंगेन ॥ ५४॥ Page #391 -------------------------------------------------------------------------- ________________ योगयात्रा ] . यात्राप्रकरणम् ११ । ३७५ अथ योगयात्रालग्नमाह सहजे रविर्दशमभे शशी तथा शनिमंगलौ रिपुगृहे सितः सुते । हिबुके बुधो गुरुरपीह लग्नगः स जयत्यरीन्प्रचलितोऽचिरान्नृपः ॥ - सहजे इति ॥ मंजुभाषिणीछंदः । तल्लक्षणं च - 'सजसा जगौ भवति मंजुभाषिणी' इति । अस्यार्थः - सगणजगणसगणजगणगुरवो यस्य पद्यस्य चरणे तन्मंजुभाषिणीनाम । यथा । ननु मंजुभाषिणीति पद्यनामधेयमुक्तं, लक्षणं तु चरणस्यैवोक्तं न सकलस्य पद्यस्य । सत्यम् । एतच्चरणलक्षणं पादचतुष्टयेऽपि ध्येयम् । समवृत्तत्वात् । त्रिविधानि हि वर्णच्छंदांसि - समम्, अर्धसमं, विषमं चेति ‘सममर्धसमं वृत्तं विषमं च तथापरम्' इति तत्रैवोक्तत्वात् । तत्र यस्य पद्यस्य चत्वारश्चरणा एकलक्षणग्रथितास्तत्समवृत्तम् । उक्तं च 'अंध्रयो यस्य चत्वारस्तुल्यलक्षणलक्षिताः । तच्छंदः शास्त्रतत्त्वज्ञाः समवृत्तं प्रचक्षते ॥' तुल्यमेकम् । यथा द्रुतविलंबितम् — 'नवपलाशपलाशवनं पुरः स्फुटपरागपरागतपंकजम् । मृदुलतान्तलतान्तमलोकयत्स सुरभिं सुरभिं सुमनोभरैः ॥' इति । तल्लक्षणं चेदम् — 'द्रुतविलंबितमाह नभौ भरौ' इति । यस्य पद्यस्य प्रथमचरणस्तृतीयचरणश्चैकलक्षणलक्षितो द्वितीयश्चतुर्थश्चाप्येकलक्षणलक्षितस्तदर्धसमं वृत्तम् । 'प्रथमांत्रिसमो यस्य तृतीयचरणो भवेत् । द्वितीयस्तुर्यवद्वृत्तं तदर्धसममुच्यते ॥' इति तत्रैवोक्तत्वात् । एतेनार्धं सममर्धसममित्यन्वर्थसंज्ञापि । यथा पुष्पिताग्रा – 'अनुगिरमृतुभिर्वितायमानामथ स विलोकयितुं वनांतलक्ष्मीम् । निरगमदभिरोद्धुमादृतानां भवति महत्सु न निष्फलः प्रयासः ॥' इति । पुष्पिताग्रालक्षणं चेदम्— 'अयुजि नयुग रेफतो यकारो युजि च नजौ जरगाश्च पुष्पितामा' इति । यस्य चतुर्षु चरणेषु प्रत्येकं भिन्न भिन्नं लक्षणं तद्विषमं वृत्तम् । उक्तं च-‘यस्य पादचतुष्केऽपि लक्ष्म भिन्नं परस्परम् । तदाहुर्विषमं वृत्तं छंदःशास्त्रविशारदाः ॥' इति । यथोद्गता - ' ननु सर्व एव समवेक्ष्य कमपि गुणमेति पूज्यताम् । सर्वगुणविरहितस्य हरेः परिपूजया कुरुनरेंद्र को गुणः ॥' इति । लक्षणं चास्येदम्- 'सजसादिमे सलघुकौ च नसजगुरुकैरथोद्गता । त्र्यंघ्रिगतभनजला गयुताः सजसा जगौ चरणमेकतः पठेत् ॥ इति । मगणादिकगणा उक्ताः भामहेन - 'मस्त्रिगुरुखिलघुश्च नकारो भादिगुरुः पुनरादिलघुर्यः । जो गुरुमध्यगतो रलमध्यः सोऽन्तगुरुः कथितोऽन्तलघुस्तः ॥' इति । एवं सत्यन मंजुभाषिणीछंदसः समवृत्तत्वादेकचरणलक्षणाभिधानं कृतं केदारेणेत्यलमतिप्रसंगेन । अथ प्रस्तुतमनुसरामः । सहज इति । रविः सहजे तृतीयस्थाने स्यात्, शशी चंद्रो दशमभे दशमस्थाने, शनिमंगलौ रिपुगृहे षष्ठस्थाने स्याताम् सितः शुक्रः सुते पंचमस्थाने, बुधो हिबुके चतुर्थस्थाने, गुरुर्लग्नगश्चेत्स्यात्, अपि तथाशब्दौ पादपूरणे; इहैवंविधे योगे यात्रालग्ने Page #392 -------------------------------------------------------------------------- ________________ ३७६ मुहूर्तचिंतामणिः। [योगयात्रालग्नानि नृपो राजा प्रचलितः शत्रुनगरजयार्थ कृतयात्रः सनचिरात्स्वल्पकालेनैवारीन् शत्रून् जयति वशीकरोतीत्यर्थः । यदाह वराहः-'लग्ने गुरुर्बुधभृगू हिबुकात्मजस्थौ षष्ठौ कुजार्कतनयौ दिनकृत्तृतीयः। चंद्रश्च यस्य दशमे भवति प्रयातुस्तस्याभिवांछितफलाप्तिरलं नृपस्य ॥' इति । बुधो हिबुके, भृगुरात्मजे, इति यथासंख्येनान्वयः। क्वचित् 'भृगुबुधौ' इति पाठः, स चिंत्यः; 'भृगुर्हिबुके' इति तावद्युक्तं परंतु रविस्तृतीये बुधः पंचमे इतीदमयुक्तम् । नहि सूर्यात्तृतीयो बुधः क्वचिदपि संभवेत् , तस्मात्प्रागुक्त एव साधीयान् पाठः ॥ ५५ ॥ अथान्यद्योगयात्रालग्नमाह भ्रातरि सौरिभूमिसुतो वैरिणि लग्ने देवगुरुः । आयगते शत्रुजयश्चेदनुकूलो दैत्यगुरुः ॥५६॥ भ्रातरीति ॥ अस्य गाथाछंदः । तल्लक्षणं च–'विषमाक्षरपादं वा पादैरसमं दशधर्मवत् । यच्छंदो नोक्तमत्र गाथेति तत्सूरिभिः प्रोक्तम् ॥' इति । 'अत्र ग्रंथे उक्तछंदोभ्यो यदन्यद्विषमाक्षरपादं पादैरसमं वा छंदस्तगाथाख्यम्'इति केचिदाहुः। अपरे तु प्रागुक्तेषु समानाक्षरपादेषूक्तादिष्वपि विशिष्य यस्याभिधानं नोक्तं तद्गाथेत्यूचुः। तदेतदर्थद्वयं यच्छंदो नोक्तमत्र गाथेतीत्येतस्यावृत्त्या लभ्यम् । अत एव पिंगल: सूत्रकारोऽपि संमुग्धाकारेण-'अत्रानुक्तं गाथा' इत्यवोचत् । छंदोग्रंथांतरेऽस्य नामास्ति । भ्रातरि तृतीये सौरिः शनिः स्यात् , वैरिणि षष्ठे भूमिसुतो मंगलः, लग्ने देवगुरुः, आय एकादशस्थानं तत्र गतोऽर्कश्च एवंविधे योगे राज्ञः शत्रुजयो भवेत् । चेदैत्यगुरुः शुक्रोनुकूलो यातव्यदिक्पृष्ठवर्ती भवति। यदाह वराहः-'होरातृतीयरिपुलाभगतैः क्रमेण जीवार्किभौमरविभि गुजेऽनुकूले । यातोऽतिदृप्तमपि शत्रुबलं निहंति नैशं तमिस्रमिव तिग्ममयूखमाली ॥' इति । भृगुजानुकूल्यं यातव्यदिक्पृष्ठवर्तित्वं विवक्षितम् । यदाह बादरायणः-'लग्नत्रिलाभारिगतैः क्रमेण जीवार्किसूर्यावनिजैः सितश्च । यातव्यदिक्पृष्ठगतो नरेंद्रः शत्रोर्बलं हंति गतोऽचिरेण ॥' इति ॥ ५६॥ , अथान्यद्योगयात्रालग्नमाह तनौ जीव इंदुम॒तौ वैरिगोर्कः । प्रयाता महींद्रो जयत्येव शत्रून् ॥ ५७ ॥ तनौ जीव इति ॥ गाथाछंदः प्राग्वत् स्वमते ग्रंथांतरे च । तनौ लग्ने जीवो गुरुः स्यात् , मृतावष्टमस्थाने इंदुः स्यात्, वैरिगः षष्ठस्थानगतोऽर्कश्चेत्स्यात् ; एवंविधे योगे प्रयातागंता महींद्रो राजा शत्रून् जयत्येव । यदाह श्रीपतिः'गुरुर्लग्ने रविः षष्ठे रंध्रेणेंदुश्च गच्छतः । यस्य तस्यारिसेनाग्रे खलमैत्रीव न स्थिरा॥'इति। रंधेणेत्युपलक्षणे तृतीया। अत्र केचित् 'रंधे नेंदुः' इति पाठं पठति। १ छन्दःशास्त्रकृतामिदमभिमतम् । Page #393 -------------------------------------------------------------------------- ________________ योगयात्रालग्नानि ] यात्राप्रकरणम् ११ । ३७७ तत्र रंधेऽष्टमे स्थाने इंदु पेक्षितो यत्र कुत्राप्यस्तु चंद्र इति व्याकुर्वते । तद. शुद्धम् । यस्मात्स्पष्टमाह वराहः-'गुरुरुदये रिपुराशिगतोऽर्को यदि निधनेऽपि च शीतमयूखः। भवति गतोऽत्र शशीव नरेंद्रो रिपुवनिताननतामर- • सानाम् ॥' इति । नारदोऽपि-'जीवार्कचंद्रा लग्नारिरंध्रगा यदि गच्छतः । तस्याग्रे खलमैत्रीव न स्थिरा रिपुवाहिनी ॥' इति । बादरायणोऽपि-गुरुविलग्ने रिपुराशिगोऽर्कस्तथाष्टमे शीतमयूखमाली । गतोऽत्र योगे रिपुकामिनीनां वक्रारविंदेषु शशित्वमेति ॥' इति ॥ ५७ ॥ अथान्यद्योगयात्रालग्नमाह लग्नगतः स्याद्देवपुरोधाः। लाभधनस्थैः शेषनभोगैः ॥ ५८॥ लग्नगत इति ॥ अत्र सुप्रतिष्ठायां पंक्तिच्छंदः । तल्लक्षणं च-भौ गिति पंक्तिः' । यथा बृहस्पतिर्लग्नगतः स्यात् , अन्ये ग्रहा लाभधनस्था एका दशद्वितीयस्थानस्थाश्चेत्तदैवंविधे योगे राज्ञो विजयः। उक्तं च नारदेन-'लग्नस्थे त्रिदशाचार्ये धनायस्थैः परग्रहैः । गतस्य राज्ञोऽरिसेना नीयते यममंदिरम् ॥' इति । श्रीपतिनाऽपि-'वाक्पतौ तनुस्थिते वित्तलाभगैः परैः । गच्छतोऽरिवाहिनी नीयतेऽन्तकालयम् ॥' इति ॥ ५८ ॥ अथान्यद्योगयात्रालग्नमाह चूने चंद्रे समुदयगे जीवे शुक्रे विदि धनसंस्थे । - ईदृग्योगे चलति नरेशो जेता शत्रून्गरुड इवाहीन् ॥ ५९॥ .. धून इति ॥ अत्र पंक्तौ मत्ताच्छंदः । तल्लक्षणं च-'ज्ञेया मत्ता मभसगयुक्ता'। चंद्रे चूने सप्तमस्थाने सति, अर्के समुदयगे लग्नगते सति, जीवे शुक्र विदि बुधे, एषु त्रिषु ग्रहेषु धनसंस्थेषु द्वितीयस्थानेषु सत्सु एवंविधे योगे चेन्नरेशश्चलति तदा शत्रून् जेता जेष्यति । कः कानिव ? गरुडोऽहीन्सर्पान् यथा जयति । यदाह वराहः-'शुक्रवाक्पतिबुधैर्धनसंस्थैः सप्तमे शशिनि लग्नगतेऽर्के । निर्गतो नृपतिरेति कृतार्थों वैनतेयवदरीन्विनिहन्ति ॥' इति ॥ ५९॥ अथान्यदपि योगलग्नमाह वित्तगतः शशिपुत्रो भ्रातरि वासरनाथः । लागते भृगुपुत्रे स्युः शलभा इव सर्वे ॥ ६०॥ वित्तगत इति ॥ अस्यानुष्टुभि चित्रपदाछंदः । तल्लक्षणं च-'भौ गिति चित्रपदागः' । शशिपुत्रो बुधो वित्तगतः द्वितीयस्थः वासरनाथः सूर्यो भ्रातरि तृतीयस्थः भृगुपुत्रे शुक्रे लग्नसंस्थे सति एवंविधे योगे चेबाजा चलति तदा Page #394 -------------------------------------------------------------------------- ________________ मुहूर्तचिंतामणिः। [योगयात्रालग्नानि शत्रवः शलभा इव स्युः। यथा शलभा अग्नौ स्वयमेव गत्वा पतंति तथा शत्रवोऽपि गंतृराजप्रतापानले पतिष्यतीत्यर्थः । यदाह वराहः-'मूर्तिवित्तसहजेषु संस्थिताः शुक्रचंद्रसुततिग्मरश्मयः। यस्य यानसमये रणानले तस्य यांति शलभा इवारयः ॥' इति ॥ ६० ॥ अथान्यद्योगलग्नमाह उदये रविर्यदि सौरिररिगः शशी दशमेऽपि । वसुधापतिर्यदि याति रिपुवाहिनी वशमेति ॥ ६१ ॥ उदय इति ॥ अस्य गाथाछंदः प्राग्वत्स्वमते ग्रंथांतरे च । यदि उदयलग्ने रविः स्यात् , सौरिः अरिगः षष्ठस्थः स्यात् , शशी दशमस्थः स्यात् ,तदा एवंविधे योगे वसुधापतिः राजा याति तदा रिपुवाहिनी शत्रुसेना वशमेतीति । यदाह नारदः-व्यापारशत्रुमूर्तिस्यैश्चंद्रमददिवाकरैः । रणे गतस्य भूपस्य जयलक्ष्मी प्रमाणिका ॥' इति । व्यापारः दशमम् । वराहोऽपि-'दिवाकरो लग्नगतो यदि स्यात्षष्ठेऽर्कसूनुर्दशमे शशी च । योगेऽत्र यातस्य न तिष्ठतेऽन्यो बलेन हीनस्य बलान्वितोऽपि ॥' इति ॥ ६ ॥ अथान्यद्योगयात्रालग्नद्वयमाहतनौ शनिकुजौ रविर्दशमभे बुधो भृगुसुतोऽपि लाभदशमे । त्रिलाभरिपुभेषु भूसुतशनी गुरुज्ञभृगुजास्तथा बलयुताः ॥६२॥ तनाविति ॥ अस्य जगत्यां जलोद्भुतगतिछंदः । तल्लक्षणं च-रसैजसजसा जलोद्धतगतिः' रसैः षभिःषभिरक्षरैयतिर्विच्छेदः। इत भारभ्य 'वसुधापतियदि याति रिपुवाहिनी वशमेति'इत्युत्तरार्ध 'सहजे कुजः' (११।७२)इत्येतस्पधपयेतमनुवर्तते। तेन यत्र यत्र श्लोके फलनिर्देशो नास्ति तत्र जिगमिषो राज्ञो विजयः स्यादिति वाक्यार्थो ध्येयः । तनौ लग्नस्थौ शनिमंगलौ यथासंभवं स्यातां, रविर्दशमभे स्यात् , बुधो लाभे दशमे वा स्यात् , भृगुसुतो वा लाभे दशमे वा स्यात् । तदेवंविधे योगे प्रचलितस्य राज्ञो जयः स्यात् । यदाह वराहः'सौरौ भौमे लग्नगेऽर्के खमध्ये कर्मण्याये भार्गवे चंद्रजे वा । यायाभूपः शत्रुदेशं निहंतुं दृप्तं शत्रु कालवस्क्रूरचेष्टः ॥' इति । गुरुरपि-'मारे वा सूर्यजे वापि लग्नगे दशमे रवौ। कर्मण्याये सिते ज्ञे वा योगोऽयं यातुरुत्तमः ॥' इति । अयमेको योगः। अथ द्वितीययोगः । त्रिलाभरिपुभेषु तृतीयैकादशषष्ठस्थानानामन्यतमस्थानद्वयस्थितौ भूसुतशनी मंगलशनैश्चरौ यदि स्यातां, चेद्यस्मिन् कसिंश्चित्स्थाने स्थिता गुरुज्ञभृगुजा बलयुताः स्युः, तदैवंविधे योगे तथा राज्ञो विजय इत्यर्थः। यदाह नारदः-'त्रिषडायेषु सौरारौ बलवंतः शुभा यदि । यात्रायां नृपतेस्तस्य करस्था शत्रुमेदिनी ॥' इति । श्रीपतिरपि-न्यायारिषु यमारौ चेच्छक्तिभाजः शुभग्रहाः । प्रयाणे नृपतेर्यस्य हस्तस्था तस्य मेदिनी ॥' इति । शुभग्रहाश्चंद्ररहिता विवक्षिताः। यदाह Page #395 -------------------------------------------------------------------------- ________________ गयात्रालमानि ] यात्राप्रकरणम् ११ । ३७९ गुरुः–'यमारौ त्रिषडायस्थौ बुधजीवसितास्तदा। महाबलयुता योगो यातुरिष्टार्थदः सदा ॥' इति ॥ ६२॥ अथान्यद्योगयात्रालनमाह समुदयगे विबुधगुरौ मदनगते हिमकिरणे । हिबुकगतौ बुधभृगुजौ सहजगताः खलखचराः ॥६३॥ समुदयगे इति ॥ अस्य गाथाछंदः प्राग्वत्स्वमते ग्रंथांतरे च । समुदयगे लग्नस्थे गुरौ सति, हिमकिरणे चंद्रे मदनगते सप्तमस्थे सति, हिबुकं चतुर्थस्थानं तत्र गतौ बुधशुक्रौ स्यातां, खलखचरे पापग्रहे सहजं तृतीयस्थानं तत्र गते च सति, एवंविधे योगे वसुधापतिर्यदि याति रिपुवाहिनी तदा वशमेति । यदाह वराहः-'पापास्तृतीये हिबुके सितज्ञो जीवो विलग्ने मृगलांछनोऽस्ते । यस्योद्यमे तस्य बलं रिपूणां कृतं कृतघ्नेष्विव याति नाशम् ॥' इति ॥ ६३ ॥ अथान्ययात्रायोगमाहत्रिदशगुरुस्तनुगो मदने हिमकिरणो रविरायगतः । सितशशिजावपि कर्मगतौ रविसुतभूमिसुतौ सहजे ॥ ६४॥ त्रिदशगुरुरिति ॥ अस्य त्रिष्टुभि सुमुखीछंदः । तल्लक्षणं-'नजजलगैर्गदिता सुमुखी'। यथा बृहस्पतिर्लग्नगः स्यात् चंद्रः सप्तमे स्यात् शुक्रबुधौ दशमगतौ स्यातां सूर्य एकादशस्थः स्यात् शनिमंगलौ तृतीयस्थाने स्यातां एवंविधे योगे राज्ञो विजय एव । यदाह वराहः-'चंद्रेऽस्तगे देवगुरौ विलग्ने ज्ञशुक्रयोः कर्मणि लाभगेऽर्के । सौरारयोर्भातृगयोश्च याता नृपः स्वभृत्यानिव शास्ति शत्रून् ॥' इति ॥ ६४ ॥ अथान्यद्योगयात्रालग्नमाह देवगुरौ वा शशिनि तनुस्थे वासरनाथे रिपुभवनस्थे । पंचमगेहे हिमकरपुत्रः कर्मणि सौरिः सुहृदि सितश्च ॥६५॥ देवगुराविति ॥ अस्य त्रिष्टुभि श्रीछंदः । तल्लक्षणं च 'पंचरसैः श्रीमतनगगैश्च' पंचरसैः पंचभिः षभिरक्षरैश्च यतिः । गुरौ चंद्रे वा लग्नस्थे सति, सूर्य षष्ठस्थे बुधश्च पंचमस्थाने शनिर्दशमे स्यात् , शुक्रः चतुर्थस्थाने स्यात् , एवंविधे योगे जिगमिषो राज्ञो विजय एव । यदाह वराहः-गुरौ विलग्ने यदि वा शशांके षष्ठे रवौ कर्मगतेऽर्कपुत्रे । सितज्ञयोबंधुसुतस्थयोश्च यात्रा जनित्रीव हितानि धत्ते ॥' इति । जनित्री माता ॥ ६५ ॥ अथान्यद्योगयात्रालग्नमाहहिमकिरणसुतो बली चेत्तनौ त्रिदशपतिगुरुर्हि केंद्रस्थितः। व्ययगृहसहजारिधर्मस्थितो यदि च भवति निर्बलश्चंद्रमाः ६६ Page #396 -------------------------------------------------------------------------- ________________ मुहूर्तचिंतामणिः । [ योगयात्रालग्नानि हिमकिरणसुत इति ॥ अस्य जगत्यां प्रमुदितवदनाछंदः । तलक्षणं च - ' प्रमुदितवदना भवेन्नौ ररौ' । बुधो बली संश्चेत्तनौ लग्ने स्यात् हि निश्चयेन बृहस्पतिश्चेत्केंद्वगतः प्रथमचतुर्थसप्तमदशमानामन्यतमस्थानस्थः यदि च निर्बलो नीचाद्यशुभाधिकारप्राप्त्या बलरहितः सन् चंद्रो द्वादशतृतीयषष्ठनवमानामन्यतमस्थानस्थस्तदैवंविधे योगे जिगमिषो राज्ञो विजय एव । यदाह वराहः – 'त्रिषण्णवांत्येष्वबलः शशांक श्चांद्विर्बली यस्य गुरुश्च केंद्रे । तस्यारियोषाभरणैः प्रियाणि प्रियाः प्रियाणां जनयति सैन्ये ॥' इति । तस्य सैन्ये प्रियाः सैनिका अरियोषाभरणानि बलादपहृत्य स्वस्त्रीभ्यो दत्त्वा तासां प्रियाणि जनयतीत्यर्थः । अत्र यद्यपि बुधस्य स्थानविशेषो नाभ्यधायि तथापि लग्नस्थो बुध इति व्याकर्तव्यम् । यदाह गुरुः - ' त्रिषण्णवांत्यगे चंद्रे लग्ने च सबले बुधे । गुरौ केंद्रे तदा याता राजलक्ष्मीं लभेनृपः ॥' इति ॥ ६६ ॥ अथान्यद्योगयात्रालग्नमाह ३८० अशुभखगैरनवाष्टमदस्थैर्हिबुकसहोदरलाभगृहस्थः । कविरिह केंद्रगगीष्पतिदृष्टो वसुचयलाभकरः खलु योगः ॥६७॥ अशुभखगैरिति ॥ अस्य जगत्यामभिनवतामरसाख्यं छंदः । तल्लक्षणं च वृत्तरत्नाकरे ‘अभिनवतामरसं नजजाद्यः' इति । अशुभखगैः पापग्रहैर्हि निश्चितं नवमाष्टमसप्तमस्थानव्यतिरिक्तस्थानस्थैः सद्भिर्यदि कविः शुक्रः चतुर्थतृतीयैकादशस्थानस्थः सन् केंद्रस्थितो यो गीष्पतिर्गुरुस्तेन दृष्टो भवेत् एवंविधो योगो वसुचयो द्रव्यसमूहस्तस्य लाभकरः स्यात् । विजिगीषो राज्ञो विजयोऽपि स्यात् । उक्तं च वराहेण - 'केंद्रोपगतेन वीक्षिते गुरुणा घ्यायचतुर्थगे सिते । पापैरनवाष्टसप्तगैर्वसु तत्किं न यदाप्नुयान्नृपः ॥' इति । क्वचित्तु पापग्रहा नवमाष्टमसप्तमस्थाः शुभा एवेत्युक्तम् । तथा च गुरुः - ' भ्रात्रायगृहगे शुक्रे केन्द्रे देवगुरौ स्थिते । सप्ताष्टनवराशिस्थाः पापा यातुः शुभप्रदाः ॥'. इति । गृहं = चतुर्थस्थानम् ॥ ६७ ॥ 1 अथान्यद्योगयात्रालग्नमाह रिपुलग्नकर्महिबुके शशिजे परिवीक्षिते शुभनभोगमनैः । व्ययलग्नमन्मथगृहेषु जयः परिवर्जितेष्वशुभनामधरैः ॥६८॥ रिपुग्नेति ॥ अस्य जगत्यां प्रमिताक्षराछंदः । तल्लक्षणं च ‘प्रमिताक्षरा सजससैरुदिता' । षष्ठ ६ लग्न १ दशम १० चतुर्थ ४ स्थानानामन्यतमस्थानस्थे शशिजे बुधे शुभनभोगमनैः शुभग्रहैश्चंद्रगुरुशुकैः परिवीक्षिते दृष्टे सति द्वादश १२ लग्न १ सप्तम ७ स्थानेभ्यो व्यतिरिक्तस्थानस्थितैरशुभनामधरैः पापग्रहैरुपलक्षिते सति एवंविधे विशिष्टे योगे जिगमिषो राज्ञो जय एव स्यात् । यदाह वराहः – 'लग्नारिकर्महिबुकेषु शुभेक्षिते ज्ञे द्यूनांत्यलभर हितेष्वशुभग्रहेषु । Page #397 -------------------------------------------------------------------------- ________________ योगयात्रालमानि यात्राप्रकरणम् ११। ३०१ यातुर्भयं न भवति प्रतरेत्समुद्रं यद्यश्मनापि किमुतारिसमागमेषु ॥' इति ॥ ६८॥ अथान्यद्योगयात्रालग्नद्वयमाहलग्ने यदि जीवः पापा यदि लाभे कर्मण्यपि चेद्राज्याधिगमः स्यात् घूने बुधशुक्रौ चंद्रो हिबुके वा तद्वत्फलमुक्तं सर्वैर्मुनिवर्यैः ॥६९॥ लग्न इति ॥ अस्य जगत्यां मणिमालाछंदः । तल्लक्षणं च-त्यौ त्यौ मणिमाला छिन्ना गुहवः' तगणयगणतगणयगणाः गुहः कार्तिकेयस्तस्य वाणि मुखानि पद तैः षभिरक्षरैश्छिन्ना यतिसहिता। लग्ने गुरुयदि स्यात् अथवा लाभे एकादशस्थाने कर्मणि दशमस्थाने पापग्रहाः स्युस्तदा राज्यप्राप्तिर्भवेत् । उक्तंच वराहेण-'होराश्रिते देवगुरौ प्रयाता क्रूरग्रहैः कर्मणि लाभगैर्वा । कृत्वा रिपूणां क्षयमक्षतांगः क्षयं क्षितीशोऽक्षयकोशमेति ॥' इति । क्षितीशो राजा रिपूणां क्षयं नाशं कृत्वाऽक्षतांगः क्षतरहितशरीरः सन् अक्षयकोशमक्षीणकोशं क्षयं स्वगृहमेति आगच्छतीत्यर्थः । अथवा चूने सप्तमे बुधशुक्रौ स्यातां चंद्रश्च हिबुके चतुर्थस्थाने स्यादेवंविधे योगे सर्वैर्मुनिवर्यैस्तद्वत्फलमुक्तं राज्याधिगमः स्यात् । तथा च श्रीपतिः-'शशिनि चतुर्थे सविदि सितेऽस्ते जयति गतोऽरीन्हरिरिव युद्धे' इति । वराहोऽपि-'शशिनि चतुर्थगृहं समुपेते बुधसहिते च तथा भृगुपुत्रे । गमनमवाप्य पतिर्मनुजानां जयति रिपून्समरेण विनैव ॥' इति ॥ ६९ ॥ अथान्ययोगत्रयमाहरिपुतनुनिधने शुक्रजीवेंदवो ह्यथ बुधभृगुजौ तुर्यगेहं स्थितौ । मदनभवनगश्चंद्रमा वांबुगः शशिसुतभृगुजांतर्गतश्चंद्रमाः॥७॥ रिपुतनुनिधने इति ॥ अस्यातिजगत्यां चंद्रिकाछंदः । तल्लक्षणं च 'ननततगुरुभिश्चंद्रिकाऽश्वर्तुभिः' सप्तभिः षड्भिश्चाक्षरैर्यतिः । रिप्विति । अत्र स्थानसाम्यानहसाम्याच्च यथासंख्यं ज्ञेयम् । यथा रिपौ षष्ठे शुक्रः तनौ जीवः निधने अष्टमे इंदुश्चंद्र एवंविधे विशिष्टे योगे राज्ञो विजयः स्यादित्यर्थः। यदाह वराहः-'गुरौ विलग्ने भृगुजेऽरिसंस्थे चंद्रेऽष्टमे हंति गतोऽरिसेनाम् । वृष्टिं यथा दक्षिणमार्गचारी वृद्धो यथा हस्वतनुश्च शुक्रः॥' इति । अयं प्रथमो योगः ॥ अथ द्वितीययोगः । अथ बुधभृगुजौ तुर्यगेहं चतुर्थस्थानं तत्र स्थितौ चेत्स्यातां चंद्रमा मदनभवनगः सप्तमस्थानस्थितश्चेत्स्यात्तदैवंविधेऽपि योगे राज्ञो विजयः । यदाह वराहः-'सितेंदुजौ चतुर्थगौ निशाकरश्च सप्तमे । यदा तदा गतो नृपः प्रशास्त्यरीन्विना रणम् ॥' इति । अथ तृतीयो योगः । अथवा चंद्रमा अंबुगश्चतुर्थस्थः सन् शशिसुतभृगुजयोर्बुधशुक्रयोरंतर्गतो मध्यवर्ती स्यात् , एवंविधे योगे गंतू राज्ञो विजय एव । यदाह वराहः Page #398 -------------------------------------------------------------------------- ________________ ૨૮૨ मुहूर्तचिंतामणिः । [योगमात्रालमानि 'बुधभार्गवमध्यगते हिमगौ हिबुकोपगते च बुधः प्रवसेत् । पुरुहूतदिशं यदि वांतकृतः पुरुहूतयमप्रतिमो भवति ॥' इति । ननु चंद्रस्य बुधभार्गवमध्यवर्तित्वं किं भिन्नराशिस्थितत्वे सत्युतैकराशिस्थितत्वे सति विवक्षितम् ? तत्र भिन्नराशिकृतमध्यवर्तित्वे विवक्षिते सत्ययमर्थः स्यात् बुधभार्गवयोरन्यतरः तृतीयस्थाने परः पंचमे चंद्रश्चतुर्थे इति । एकराशिस्थितत्वे त्वंशकृतं पौर्वापर्यम्। चतुर्थे स्थाने बुधः शुक्रो वा स्वल्पांशः स्यात् । तयोरन्यतरोतिबईशस्तत्रैव स्थाने चंद्रस्तत्रैवांशैर्मध्यवर्ती स्यात् । यथा बुधो राश्यादिः ३।५।१० चंद्रः ३।१५।२० शुक्रः ३।२५।३० एवं पक्षद्वयसंभवे किं युक्तमिति? उच्यते-यद्यपि वराहवाक्ये संदेहस्तथापि बादरायणवाक्यादेकराशिव्यवधानकृतमेव मध्यवर्तित्वं विवक्षितम् । यदाह बादरायणः-'पुत्रांबुदुश्चिक्यगतैः क्रमेण दुश्चिक्यतोयात्मजसंस्थितैर्वा । बुधेदुशुक्रैर्यमशक्रनाथकाष्ठां प्रयातस्य जयः प्रदिष्टः ॥' इति । काष्ठां दिशम् । एतञ्चोपलक्षणं तेन लग्नस्थचंद्रः पार्श्ववर्तिस्थानद्वयवतिनोर्बुधशुक्रयोर्मध्यवर्ती चेत्स्यात्तदा सोऽपि राज्ञो विजयद इति । यदाह गुरुः-'चंद्रे ज्ञसितयोर्मध्ये हिबुके लग्नगेऽपि वा। प्रयाता श्रियमामोति जित्वा शत्रून्महीमपि ॥' इति ॥ ७० ॥ अथान्यद्योगयात्रालग्नद्वयमाह सितजीवभौमबुधभानुतनूजा स्तनुमन्मथारिहिबुकत्रिगृहे चेत् । क्रमतोऽरिसोदरखशात्रवहोरा हिबुकायगैर्गुरुदिनेऽखिलखेटेः ॥ ७१॥ सितजीवेति ॥ अस्य गाथाछंदः प्राग्वत्स्वमते ग्रंथांतरे च । लग्ने शुक्रः स्थात् , सप्तमे जीवः, षष्ठे भौमः, चतुर्थे बुधः, तृतीये शनिः, एवंविधे विशिष्टे योगे राज्ञो विजय एव । यदाह वराहः-'यस्योदयास्तारिचतुस्त्रिसंस्थाः शुक्रांगिरोऽङ्गारकसौम्यसौराः। द्विषद्बलस्त्रीवदनानि तस्य कांतानि कांता न विलोकयति ॥' इति । नारदोऽपि-शुक्रायज्ञार्किभौमेषु लग्नास्तांबुत्रिशत्रुषु । गतस्याने घरिचमूरनौ लाक्षेव लीयते ॥' श्रीपतिरपि-'यमशशुक्रेज्यमहीसुतेषु त्रिबंधुलग्नास्तरिपुस्थितेषु । विलीयते वैरिचमू रणाग्रे लाक्षेव वह्नौ नृपतेर्गतस्य ॥' इति । अयमेको योगः ॥ अथान्यः । गुरुदिने बृहस्पतिवासरे अखिलखेटैः समस्तग्रहैः सूर्यादिभिः सप्तभिः क्रमतोऽर्यादिस्थानस्थितैः सद्भिरुपलक्षिते सति; यथा-षष्ठे सूर्यः, तृतीये चंद्रः, दशमे मंगलः, षष्ठे बुधः, लग्ने गुरुः, चतुर्थे शुक्रः, एकादशे शनिरिति एवंविधे योगे राज्ञो विजय एव । यदाह वराहः-'सूर्यादयोऽरिसहजांबरशत्रुलग्नबंधवायगाः सुरगुरोर्दिवसश्च यस्य । यानेऽरिसैन्यमुपगच्छति तस्य नाशं मीमांसकश्रमणकेष्विव तीर्थपुण्यम् ॥' इति । मीमांसाविचारस्तन्मात्रनिष्ठामीमांसका नतु वेदार्थविदः एवंविधा ये Page #399 -------------------------------------------------------------------------- ________________ योगयात्रालमानि ] यात्राप्रकरणम् ११ । ३०३ श्रमणका बौद्धसंन्यासिनस्तेषु वैदिकानां तीर्थगतेषु यथा तीर्थानां पुण्यनाशः ॥ ७१॥ अथान्यद्योगयात्रालग्नद्वयमाहसहजे कुजो निधनगश्च भार्गवो मदने बुधो रविररौ तनौ गुरुः । अथ चेत्स्युरिज्यसितभानवो जल त्रिगताहि सौरिरुधिरौ रिपुस्थितौ ॥ ७२ ॥ सहज इति ॥ अस्यातिजगत्यां मंजुभाषिणीछंदः । तल्लक्षणमुक्तं प्राक् । यथा तृतीये मंगलः स्यात् भष्टमे शुक्रः सप्तमे बुधः षष्ठे सूर्यः लग्ने गुरुः एवंविधे योगे गंतू राज्ञो विजय एव । यदाह वराहः-'त्रिनिधनतनुसप्तमारिसंस्थाः कुजसितजीवबुधा रविश्च यस्य । खलजनजनितेव लोकयात्रा न भवति तस्य चिराय शत्रुसेना ॥' इति । अयमेको योगः ॥ अथेति योगांतरमुच्यते-इज्यसितभानवो बृहस्पतिशुक्रसूर्याः जलनिगताश्चतुर्थतृतीयस्थानगताश्चेत्स्युः सौरिरुधिरौ शनिमंगलौ रिपुस्थितौ षष्ठस्थितौ भवेतां एवंविधे विशिष्टे योगे हि निश्चितं राज्ञो जयः स्यात् । यदाह वराहः-'कुजरविजयुतेऽरिभे गतानां जलसहजोपगतैः सितार्कजीवैः । रिपुबलमुपयाति नाशमाशु श्रुतमधनस्य कुटुंबचिंतयेव ॥' इति ॥ ७२ ॥ अथ नामविशेषपुरस्कारेण योगयात्रालग्नान्याहएको क्षेज्यसितेषु पंचमतप केंद्रेषु योगस्तथा द्वौ चेत्तेष्वधियोग एषु सकला योगाधियोगः स्मृतः । योगे क्षेममथाधियोगगमने क्षेमं रिपुणां वधं चाथो क्षेमयशोवनीश्च लभते योगाधियोगे व्रजन् ॥७३॥ एक इति ॥ अस्यातिश्त्यां शार्दूलविक्रीडितं छंदः । तल्लक्षणं च 'सूर्याश्वमसजस्तताःसगुरवः शार्दूलविक्रीडितम्'सूर्याश्चैदशभिः सप्तभिश्चाक्षरैयतिः। ज्ञेज्यसितेषु बुधबृहस्पतिशुक्रेष्वेकोऽपि बुधो वा गुरुर्वा शुक्रो वा चेत्पंचमतपःकेंद्रेषु स्यात् पंचमे वा स्थाने तपसि नवमे वा केंद्रे प्रथमचतुर्थसप्तमदशमानामन्यतमे स्थाने वा स्यात् तदा योगाख्यो योगः । तथा तेषु शेज्यशुक्रेषु द्वौ बुधगुरू बुधशुक्रौ वा गुरुशुक्रौ वा चेत्पंचमतपःकेंद्राणामन्यतमस्थाने स्थानभेदेनैक्येन वा स्थितौ स्यातां तदाअधियोगाख्यो योगः। तथा सकला ज्ञेज्यसिता एषु पंचमतपःकेंद्राणामन्यतमस्थानेषु स्थानभेदेन स्थानैक्येन वा स्थिताश्वेत्स्युस्तदा योगाधियोगाख्यो योगः । अथ फलमाह-योग इति । योगे Page #400 -------------------------------------------------------------------------- ________________ ३८४ मुहूर्तचिंतामणिः । [स्थानत्रयाक्रांतमहत्रयभेदाः वजन् राजा क्षेमं कुशलं लभते कुशलेन गतागतं करोतीत्यर्थः । अथाधियोगे राजा वजन क्षेमं तथा रिपूणां शत्रूणां वधं च लभते । अथो योगाधियोगे व्रजन् राजा क्षेम यशोऽवनीश्चकाराच्छत्रुवधं च लभते॥यदाह नारदः-'केंद्रत्रिकोणेष्वेकेन योगः शुक्रज्ञसूरिषु । अधियोगः स चेद्वाभ्यां त्रिभियोगाधियोगकः ॥ योगे यियासतां क्षेममधियोगो जयावहः । योगाधियोगे क्षेमायुविजयार्थविभूतयः ॥' इति । वराहोऽपि-'एकेन वा बुधबृहस्पतिभार्गवाणां योगो भवेन्नवमपंचमकंटकेषु । द्वाभ्यां वदंति मुनयस्त्वधियोगमेषां योगाधियोगमपरे त्रिभिरुद्दिशति ॥ योगेन ये नृपतयोऽरिपुरं व्रति क्षेमेण ते गमनमागमनं च कुर्युः । क्षेमं यशोरिपुविनाशमथाधियोगे योगाधियोगगमनेन जयेद्धरित्रीम् ॥' इति । अत्र योगस्याधियोगस्य च भेदविचारः । तत्र योगस्याष्टादश १८ भेदाः। तथा हि-त्रयो ग्रहाः, षट् स्थानानि, तत्रैकस्य तु तनुस्थानषट्कस्थित्या षदभेदाः,एवं गुरोः षद,शुक्रस्यापि षद,एवं योगेऽष्टादश भेदाः।अथाधियोगस्याष्टोत्तरशतभेदाः। यथा-ज्ञेज्यशुक्राणां द्वयोर्द्वयोर्योगे त्रयो भेदाः, बुधगुरू बुधशुक्रो गुरुशुक्रौ तत्र बुधगुोरेकैकस्थानस्थित्या षट् भेदाः, स्थानभेदे तु बुधः प्रथमे स्थाने गुरुर्द्वितीयादिषु पंचसु स्थानेषु स्थितस्तदा पंच, एवं गुरुः प्रथमे स्थाने बुधो द्वितीयादिषु पंचसु तत्रापि पंचैव,अथ बुधो द्वितीये गुरुस्तृतीयादिषु चतुर्षु तदा चत्वारो भेदाः, एवं वैपरीत्येऽपि चत्वारः, तथा बुधस्तृतीये गुरुश्चतुर्थादिषु तदा त्रयः, एवं वैपरीत्येऽपि त्रयः, तथा बुधश्चतुर्थे गुरुः पंचमे षष्ठे वा तदा द्वौ भेदौ, एवं वैपरीत्येऽपि द्वौ, तथा बुधः पंचमे गुरुः षष्ठे तदैको भेदः एवं वैपरीत्येऽप्येकः, एवं बुधगुर्वोः सर्वे मिलिताः षदत्रिंशत् ३६ भेदाः स्युः । अनेनैव प्रकारेण बुधशुक्रयोः पत्रिंशद्भेदाः। एवं गुरुशुक्रयोरपि तावंत एव । मिलित्वाऽष्टोत्तरशतं १०८ भेदा भवेयुः । अथ योगाधियोगभेदाः । तथा हि-ज्ञेज्यशुक्राणां संघेनैकैकस्थानस्थित्या षद भेदाः भवंति । अथ स्थानभेदेनोच्यते भेदाः । तत्र द्वयोः समुदाय एको भिन्नश्चैवं ग्रहाणां त्रयो भेदाः स्युः । यथा हि संघः प्रथमस्थाने एको द्वितीयादिषु तदापि पंचैव । अथ द्विग्रहसंघो द्वितीये एकः, तृतीयादिषु चतुर्यु चत्वारो भेदाः,एवं भेदवैपरीत्येऽपि चत्वारः, तथा द्विसंघस्तृतीये एकः, चतुर्थादिषु तदा त्रयः,तथा द्विग्रहसंघश्चतुर्थे एकः,पंचमे षष्ठे वा तदा द्वौ भेदौ। एवं वैपरीत्येऽपि द्वौ । तथा द्विग्रहसंघः पंचमे एकः षष्ठे तदैको भेदः वैपरीत्येऽप्येक एव । एवं बुधगुरुसमुदायस्य शुक्रसहितस्य ३० त्रिंशद्भेदाः; एवमेव बुधशुक्रसंघस्य गुरुसहितस्य त्रिंशत् ३०, तथा गुरुशुक्रसंघस्य बुधसहितस्य तावंत एव ३०, सर्वभेदैक्यं ९० । अथ त्रयाणां ग्रहाणां स्थानत्रयाक्रांतत्वेन भेदा उच्यते । तत्र बुधगुरुशुक्राणामन्योन्यपरिवर्तनात्षदभेदा भवंति । यथा एतदुत्पत्तिप्रकारो भास्कराचार्येण 'अंकपाशगणितस्थानांतमेकादिचांकघातः' इत्यादिनाभ्यधायि । तत्र त्रिभिर्घहैः षण्णां स्थानानां मध्ये निरंतरस्थानत्रयाक्रांतत्वेन Page #401 -------------------------------------------------------------------------- ________________ चेतोविशुद्धिरप्यावश्यिकी ] यात्राप्रकरणम् ११ । चत्वारो भेदाः, एवं पंचभिरपि भेदैरित्येवं ।।। चत्वारो जाताः सर्वे चतुर्विशतिः २४ । बु. शु.बु. . शु. शु.. अत्रायं विचारः-बुधश्चतुर्थे उत्तरस्यां बु. शु... बु. बु. बु. शु. दिशि लालाटिकः केंद्गतत्वाद्योगकर्ताच, 3.3.3. शु. . . बु.। तत्र किं योगः प्रबलः, उत लालाटिक इति ? तत्र सामान्यविशेषभावेन लालाटिकयोग एवं प्रबलः। एवं सप्तमश्च शुक्रो लग्नभंगी प्रबल एव । तथैवाधियोगे योगाधियोगे चोक्तहेतुः । तथैव बुधशुक्रयो लाटिकलग्नभंगिदोषौ प्रबलाविति बालानामप्येतत्सुबोधम् । अत्र वसिष्ठकश्यपनारदावृषिभिर्वराहादिभिश्च भूयांसि योगयात्रालग्नान्युक्तानि तानि तद्वंथेभ्य एवावधार्याणि, ग्रंथाधिक्यभयादत्र ग्रंथकृता नोक्तानि ॥ ७३ ॥ अथ विजयादशमीसंज्ञकं सिद्धमुहूर्तमाहइषमासि सिता दशमी विजया शुभकर्मसु सिद्धिकरी कथिता । श्रवणक्षयुता सुतरां शुभदा नृपतेस्तु गमे जयसंधिकरी ॥७४॥ इषमासीति ॥ अस्य जगत्यां तोटकाख्यं छंदः । तल्लक्षणम्-इह तोटकमबुधिसैः प्रथितं ।' स्पष्टार्थ पद्यम् । यदाह नारदः-'वलक्षपक्षदशमी आश्विने विजयाभिधा । विजयस्तत्र यातॄणां संधिर्वा न पराजयः ॥' इति । कश्यपोऽपि-'मासीषे शुक्लदशमी सर्वदा विजयाभिधा । जयप्रदा सा यातॄणां संधिर्वा न पराजयः ॥' इति । वसिष्ठेन तु श्रवणसाहित्येऽतिप्राशस्त्यमुक्तम् । 'श्रवणक्षं यदा काले सा तिथिर्विजयाभिधा । विजयादशमी तत्र सर्वकार्येष्वनिंदिता ॥ यात्रायां जयदा राज्ञां संधिं वापि प्रयच्छति ॥' इति । आश्वयुक्शुक्ले इत्यनुवर्तते । काले कालस्वामिकायां तिथौ दशम्याम् ॥ ७४ ॥ . अथैवं महतायासेन विचारिते पंचांगशुद्धिसहिते लग्ने सत्यपि मनोविशुद्धौ वक्ष्यमाणशकुनाद्यावश्यकत्वं तत्रापि प्रबलदुर्बलभावं च वसंततिलकाछंदसाह चेतोनिमित्तशकुनैरतिसुप्रशस्त त्विा विलग्नबलमुर्त्यधिपः प्रयाति । सिद्धिर्भवेदथ पुनः शकुनादितोऽपि चेतोविशुद्धिरधिका न च तां विनेयात् ॥ ७५ ॥ चेत इति ॥ अथशब्दो मंगलार्थ आनंतर्यार्थश्च । चेतोऽन्तःकरणं, निमित्तमंगस्फुरणादि, शकुनानि वक्ष्यमाणानि; एतैः खलु निश्चयेन सुप्रशस्तैः सद्भिः कृत्वा तथा समीचीनं विलग्नबलमपि ज्ञात्वा उर्व्यधिपो राजा प्रयाति तथा सिद्धिांछितकार्यसिद्धिर्भवति । यदाह नारदः-'मनोनिमित्तशकुनैर्लग्नं ३३ मु० चि० Page #402 -------------------------------------------------------------------------- ________________ ३८६ मुहूर्तचिंतामणिः । [यात्रायामतिनिषिद्धयोगाः लब्ध्वा रिपोः पुरम् । विजिगीषुर्यो व्रजति विजयश्रीस्तमेस्यलम् ॥' इति । निमित्तम्-अंगस्फुरणादि । श्रीपतिरपि-'शकुननिमित्तमनोभिरनिधैरुदयविशुद्धिमिह प्रतिपच । रिपुविषयं प्रति यो विजिगीषुव्रजति तमेस्यचिराद्विजयश्रीः ॥' इति । यदा तु लग्नादिबले सत्यपि निंद्यानि चेच्छकुनादीनि स्युस्तदा यात्रा निषिद्धैव । यदाह वसिष्ठः-शुभानि निमित्तानि उत्पातशकुनानि च । यात्राकाले नृणां तेषां निधनायाधनाय वा ॥' इति । यदा तु दैवाच्छकुनलमादीन्यनिधानि लब्धानि, मनोविशुद्धिश्च नास्त्येव, तत्र कस्य प्राबल्यमित्यत आह-अधिकेति । शकुनादितः सकाशाच्चेतोविशुद्धिरधिका तां चेतोविशुद्धिं विना नेयात् न गच्छेत् । यदाह कश्यपः-'निमित्तशकुनादिभ्यः प्रधानो हि मनोजयः । तस्माधियासतां नृणां फलसिद्धिर्मनोजयात् ॥' इति । श्रीपतिश्व-निमित्तराशिरेकतो नृणां मनस्तथैकतः । अथो यियासतां बुधैर्मनोविशुद्धिरिष्यते ॥' इति ॥ ७५ ॥ अथ शुभसूचकसकलपदार्थसमवायेऽपि यात्रायामवश्यनिषिद्धनिमित्तान्याहव्रतबंधनदैवतप्रतिष्ठाकरपीडोत्सवसूतकासमाप्तौ । न कदापि चलेदकालविद्युद्धनवर्षातुहिनेऽपि सप्तरात्रम् ॥ ७६॥ व्रतबंधनेति ॥ अस्य विषमछंदसि वसंतमालिकाछंदः । तल्लक्षणं च'विषमे ससजा गुरू समे चेत्सभरा यश्च वसंतमालिका सा।' व्रतबंधनं यज्ञोपवीतं, दैवतप्रतिष्ठा प्रसिद्धा, करपीडा विवाहः, उत्सवो होलिकादिः, सूतकं द्विविध-जननसूतकं मरणसूतकं च; एतेषां पदार्थानां शास्त्रोक्तयावदिनसमाप्यानामसमाप्तौ समाप्तिं विना कदापि नैव चलेगच्छेत् । यदाह नारदः'उत्सवोपनयोद्वाहप्रतिष्ठाशौचसूतके । असमाते न कुर्वीत यात्रा तत्र जिजीविषुः॥' इति । आशौचं मरणाशौचं । सूतकं जननाशौचम् । अकालेति। विधुत्प्रसिद्धा, घनो घनगर्जितं, वर्षा वृष्टिः, तुहिनं नीहारः; एषु पदार्थेष्वकालजेषु सत्सु सप्तरानं दिवससप्तकं न चलेत् । यदाह राजमार्तडः-पौषादिचतुरो मासान्प्राप्ता वृष्टिरकालजा । व्रतं यात्रादिकं चैव वर्जयेत्सप्तवासरान् ॥' श्रीपतिः-'वृष्टिरकालप्रभवा चतुर्षु मासेषु पौषपूर्वेषु । आसप्ताहं त्याज्यं व्रतं च यात्रादिकं तत्र ॥' इति । नारदोऽपि-'अकालजेषु नृपतिर्विद्युद्गर्जितवृष्टिषु । उत्पातेषु त्रिविधेषु सप्तरात्रं नतु ब्रजेत् ॥' इति । त्रिविधत्वं दिव्यांतरिक्षभौमभेदेन । यदाह श्रीपतिः-'सौदामिनीवर्षणगर्जितेषु नाकालजेषु प्रवसेन्नरेंद्रः। आसप्तरात्राद्ध्वमद्भुतेषु दिव्यांतरिक्षक्षितिजेषु चैवम् ॥' इति । ग्रंथकात्रोत्पातग्रहणं न कृतम् । 'उत्पातमहतोऽयहांश्च' (१।३२) इति शुभाशुभप्रकरणेऽभिहितत्वात् । अत्रोत्पाताः केतुव्यतिरिक्ता द्रष्टव्याः। केतौ तु यावद्दर्शनं गमननिषेधः। यदाह ऋषिपुत्र:-'यावदभ्युदितः केतुरस्तमेवोपगच्छति । तावद्राजा Page #403 -------------------------------------------------------------------------- ________________ निर्गमप्रवेशदिनैक्ये विचारः] यात्राप्रकरणम् ११। न गच्छेत नावर्तेत गतोऽन्यथा ॥' इति । अत्र श्रीपतिवाक्ये 'सौदामिनी-' इत्यादिषु तात्कालिक एव निषेधः। आसप्तरात्रादिति तूत्तरार्धपठितेषूत्पातेष्वेव संबध्यत इत्याहुः । यदाह वसिष्ठः-'प्रयाणसमये यस्य विद्युनीहारवृष्टयः। अकालजा भवत्येते तदा भंगकरा नृणाम् ॥' इति । ननु देहलीदीपन्यायेनात्र पूर्वत्रापरत्र वा संबंधः स्यानोभयत्र । कथम्-'सकृदुच्चरितः शब्दः सकृदर्थप्रत्यायकः' इति न्यायेनैकत्र पूर्वत्रापरत्र वा संबंधः स्यानोभयत्र । न चावृत्त्या सेत्स्यतीति वाच्यम् । आवृत्तौ प्रमाणाभावात् गौरवापत्तेश्च । अत्रोच्यतेआसप्तरात्रादित्युभयत्रापि संबध्यते । 'ध्रुवमद्भुतेषु दिव्यांतरिक्षक्षितिजेषु चैवम्' इति समुच्चयद्योतकस्य चकारस्य स्पष्टानुवृत्तिसूचकस्य चैवंकारस्य करणात् । अत एव नारदोऽपि-'अकालजेषु नृपतिर्विद्युन्नीहारवृष्टिषु । उत्पा. तेषु त्रिविधेषु सप्तरानं नतु व्रजेत् ॥' इति दोषानुवादपूर्वकम् 'सप्तरानं नतु बजेत्' इति वाक्यांतेऽभिदधाति स्म। कश्यपोऽपि-'उत्पातेषु त्रिविधेषु तडिद्गर्जितवृष्टिषु । अकालजेष्वेषु सत्सु सप्तरात्रं नतु व्रजेत् ॥' इति । 'प्रयाणसमये यस्य' इति वसिष्टवाक्यं प्रयाणदिवसोत्पन्नस्य विद्युदादेर्दोषातिशयसूचनार्थम् । तेन तस्मिन् दिने नैव गच्छेदित्यर्थः । वृष्ट्यर्थ स्वयमेवाग्रे वक्ष्यति 'यदि मास्सु' (११।९५) इति ॥ ७६ ॥ अथ राज्ञ एकदिनसाध्ये एकसानगरानगरांतरगमने चिकीर्षिते दिक्शूलत्वाद्यभावं वंशस्थवृत्तेनाह महीपतेरेकदिने पुरात्पुरे यदा भवेतां गमनप्रवेशको । भवारशूलप्रतिशुक्रयोगिनीर्विचारयेनैव कदापि पंडितः ७७ महीपतेरिति ॥ यथा वाराणसीनगराचरणाद्विगमनमेकदिनसाध्यम् । तद्वदन्यत्रापि महीपते राज्ञः पुरादेकसानगरात्पुरे नगरांतरे एकदिने एव गमनप्रवेशको स्याताम् । कोऽर्थः ? यस्मिन्नेव दिने एकस्मात्पुरानमनं तस्मिन् दिने एव च नगरांतरे प्रवेशः। तत्र यथाकथंचित्पंचांगशुद्धिमालोच्य नक्षत्रशूलं वारशूलं प्रतिशुक्रश्च योगिन्यश्च एतान् दोषान् पंडितः कदापि नैव विचारयेत् । उक्तं च भृगुणा-'एकस्मिन्नपि दिवसे यदि चेद्गमनं प्रवेशश्च । प्रतिशुक्रवारशूलं न चिंतयेद्योगिनीपूर्वम् ॥' इति । यदा तु दिनभेदेन यात्राप्रवेशौ भवतस्तदा यात्रायां प्रतिशुक्रवारशूलादिविचारोऽस्त्येव ॥ ७७ ॥ __ अथैकदिनसाध्ये निर्गमप्रवेशरूपे कार्ये चिकीर्षिते किं विचार्यमित्याशंक्योत्तरमार्यावृत्तेनाह यद्यकस्मिन्दिवसे महीपतेर्निर्गमप्रवेशौ स्तः। तर्हि विचार्यः सुधिया प्रवेशकालो न यात्रिकस्तत्र ॥७८॥ यदीति ॥ स्पष्टार्थ पद्यम् । प्रवेशकालो गृहप्रवेशप्रकरणे वक्ष्यते । यात्रिको यात्रासंबंधी कालः । तत्र नगरानगरांतरगमने। यदाह गर्ग:-'प्रवेशनिर्गमौ Page #404 -------------------------------------------------------------------------- ________________ * मुहूर्तचिंतामणिः । [ प्रयाणे त्रिनवमीदोषः स्यातामेकस्मिन्नपि वासरे । तदा प्रावेशिकं चित्यं बुधैर्नैव तु यात्रिकम् ॥' इति । प्रावेशिकं वासरं यात्रिकं च वासरम्, 'वा पुंसि क्लीने दिवसवासरौ' इति वासरशब्दस्य पुंनपुंसकत्वात्सामानाधिकरण्येन संबंधः । अत्राहुः एतत्पचोपनिबंधन प्राक्पद्योपनिबंधस्याजागलस्तनायमानत्वमस्त्येक कर्तृकत्वात् । भिन्नकर्तृके तु नायं दोषः, यथा संमतिवाक्ययोः । अत्र समाधिः- एकस्मि नेव दिने यात्राप्रवेशकालयोः कियद्वटिकाकृतो विलंबस्तिष्ठते । परंतु यात्रासमये भद्राव्यतीपातादिकं महादोषजातं विचार्य वा न वेति संदेहः । यदि विचार्य तदा विशिष्य प्रोक्तं प्रतिशुक्राद्यपि विचार्यम् । यदि न विचार्य तदेदमपि न विचार्यम् । एवं सति भृगुवाक्यमनर्थकं स्यात् । ननु सामान्यविशेषवाक्यभावेन प्रतिशुक्रादिकं बाधकं भविष्यतीति चेन्न । एतत्प्रकरणपठितानां शुभाशुभप्रकरणस्थदोषाणां च नास्ति सामान्यविशेषभावः । अयं विचारो 'योगात्सिद्धिर्धरणिपतीनाम् ' (११।५४ ) इति पद्यव्याख्यानेऽभिहितः । तस्मात्प्रकरणद्वयपठिते दोषविचारे प्रसक्ते विना वचनं दोषत्यागोपादानविचारो न निर्णय पदवीमवगाहत इति प्राक्पद्योपनिबंधः सार्थक इति ॥ ७८ ॥ अथ प्रयाणे त्रिनवमीदोष मनुष्टुभाह प्रवेशान्निर्गमं तस्मात्प्रवेशं नवमे तिथौ । नक्षत्रेsपि तथा वारे नैव कुर्यात्कदाचन ॥ ७९ ॥ प्रवेशादिति ॥ त्रिविधा नवमी - प्रयाणनवमी प्रवेशनवमी तिथिश्च नवमी । तत्र गृहप्रवेशतिथितो नवमे तिथौ निर्गमं न कुर्यात् । इयं च प्रयाणनवमी। पुनश्च गमनदिवसान्नवमे तिथौ गृहप्रवेशं न कुर्यात् । इयं च प्रवेशनवमी । नवमी तिथिस्तु प्रसिद्धैव । यदाह वसिष्ठः - ' नवमी ज्ञेया त्रिविधा प्रवेशनवमी प्रयाणनवमदिनम् । निर्गमनतः प्रवेशात्प्रयाणनवमी नवमंदिनं च ॥ सततं नवमीत्रितयं यात्रायां प्राणहानिदं यातुः ।' इति । अत्र पद्ये तु नवमीदोषः प्रागुक्तत्वान्नोपनिबद्धः । ननु प्रयाणनवम्यां तिथौ च नवम्यां यात्रा निषिद्धेति युक्तं, प्रवेशनवम्यां तु बहिःस्थस्य पुंसो गृहप्रवेश निषेधस्यैव युक्तत्वात्कथं पुनस्तस्य गृहाद्गमनसंभवो युक्तः ? भतो दोषाभिधानमपि न युक्तम् । उच्यते,— यथा गृहान्निर्गतः पुमान् दैवाच्छीघ्रमेव कृतकार्यः सन् सप्तमेऽष्टमे तिथौ गृहं प्रविष्टः स चेत्पुनः कार्यनिपातप्रवेशतिथेः सकाशात्तृतीया द्वितीया वा तिथिः प्राङ्गनिर्गमतिथितो नवमीतिथिस्तस्यां तिथौ यात्रां नैव विदध्यादित्यर्थः । नक्षत्रेऽपीति । तथा तेनैव तिथिः प्राङ्गनिर्गमतिथितो नवमीतिथिस्तत्तुल्येन प्रकारेण नक्षत्रे वारे वा कदाचन नैव कुर्यात् । अयमर्थः — यस्मिन्नक्षत्रे गृहप्रवेशः कृतस्ततो नवमे नक्षत्रे प्रयाणं न कार्यं । यथा मृगे प्रवेशो हस्ते गमनं । निर्गमनक्षत्रान्नवमे नक्षत्रे प्रवेशो न कार्यः । यथा हस्ते गमनमुत्तराषाढायां प्रवेशः । अत्रापि प्रागभिहितरीत्या यात्रापि निषिद्धा । एवं वारेऽपि ध्येयम् । यथा बुधवारे प्रवेशस्ततो नवमे दिवसे गुर्वाख्ये प्रयाणं न कार्यम् । गुरुदिवसाच्च नवमे शुक्राख्ये दिवसे प्रवे Page #405 -------------------------------------------------------------------------- ________________ नक्षत्राणां दोहदाः ] यात्राप्रकरणम् ११ ३८९ शोऽपि न कार्य इत्यर्थः । यदाह गर्गः - 'प्रवेशान्निर्गमश्चैव निर्गमाच्च: प्रवेशनम् । नवमे जातु नो कुर्याद्दिने वारे तिथावपि' इति ॥ ७९ ॥ अथ यात्रादिनीयं विधिं शालिनीछंदसाह - अनं हुत्वा देवतां पूजयित्वा त्वा विप्रानर्चयित्वा दिगीशम् । दत्त्वा दानं ब्राह्मणेभ्यो दिगीशं ध्यात्वा चित्ते भूमिपालोऽभिगच्छेत् ॥ ८० ॥ अग्निमिति ॥ स्पष्टार्थम् । यदाह नारदः - 'हुताशनं तिलैर्हुत्वा पूजयेत्तु दिगीश्वरम् । तथा प्रणम्य भूदेवानाशीर्वादैर्नृपो व्रजेत् ॥' इति । वसिष्ठोऽपि - 'दिगीश्वराकृतिं कृत्वा सुवर्णेन स्वमंत्रकैः । स्वस्ववर्णैः सुगंधाद्यैर्धूपैर्दीपैर्मनोरमैः ॥ तद्वर्णवस्त्रनैवेद्यैर्भक्त्या सम्यक्प्रपूजयेत् । दिमीशं च सुसंपूज्य तिलहोमं च कारयेत् ॥ दैवज्ञाय ततो दद्यात्प्रतिमां भूषणान्विताम् । देवान्गुरुन्पितृन्विप्रान्स्वस्तिवाचनपूर्वकम् । नत्वा तुष्टः प्रीतमना व्रजेन्मंगलनि:स्वनैः ॥' इति । अत्र यात्रादिनात्प्राक्सप्तदिनमध्ये गुह्यकपूजनमुक्तम् । त्र्यहं पूर्वं विजयस्नानमुक्तं सप्तमदिने ग्रहमखश्च । तदेतद्वराहेण बृहद्यात्रायां महता ग्रंथसंदर्भेणाभिहितं तत्तत एवावधार्यम् । वसिष्ठादिभिस्तु दिगीश्वरध्यानान्यपि उक्तानि । तान्यपि तत्तत्पूजायां पाठात्तत्रैव द्रष्टव्यानीति नास्माभिर्लिख्यते । गमनसमये ध्यानम् 'इंद्राय नमः अग्नये नमः' इत्यादिनापि संभवति ॥८०॥ अथ नक्षत्राणां दोहदाशार्दूलविक्रीडिताभ्यामाहकुल्माषांस्तिलतंडुलानपि तथा माषांश्च गव्यं दधि त्वाज्यं दुग्धमथैणमांसमपरं तस्यैव रक्तं तथा । तद्वत्पायसमेव चापपललं मार्गं च शाशं तथा पाष्टिक्यं च प्रियंग्वपूपमथवा चित्रांडजान्सत्फलम् ८१ कौ सारिकगौधिकं च पललं शाल्यं हविष्यं हयाक्षे स्यात्कृसरान्नमुद्रमपि वा पिष्टं यवानां तथा । मत्स्यानं खलु चित्रितान्नमथवा दध्यन्नमेवं क्रमा द्भक्ष्याभक्ष्यमिदं विचार्य मतिमान्भक्षेत्तथाऽऽलोकयेत् ॥ कुल्माषानिति ॥ कौर्ममिति ॥ अत्र प्रथमपद्ये चतुर्थचरणे 'प्रियंग्वधूप' इत्यत्र छंदोभंगोऽस्ति सगणप्रक्षेपाकरणात् । सत्यम् । 'प्रहेवा' इति पिंगलसूत्रकारेण रेफसंयोगे च प्राग्वर्णस्य लघुत्वाभिधानात् । तथा च कालिदासः १ ' प्रणम्य देवभूदेवान्' इति जीर्णपुस्तके पाठः । Page #406 -------------------------------------------------------------------------- ________________ मुहूर्तचिंतामणिः । [ नक्षत्राणां दोहदाः 'गृहीतप्रत्युद्गमनीयबस्त्रा' (कुमार० ७ । ११) इति, तद्वदत्रापि छंदोभंगाभावः। सूत्रेsकारोच्चारणं मुखसुखार्थम्, तेन प्रीत्यादावपि लघुत्वम् । अन्ये तु संयोगमात्रे परभूते लघुत्वमतीव्रप्रयत्नतयेत्याहुः । उक्तं च सरस्वतीकंठाभरणे - 'यदा तीव्रप्रयलेन संयोगादेरगौरवम् । न च्छंदोभंगमप्याहुस्तदा दोषाय सूरयः ॥' इति । एतच्च श्रुत्वा गदितो भवांस्त्वं सीतोपलंभे च कुरु प्रबुद्धिम्' इति च । ततो तीव्रप्रयत्नेनात्र प्रीत्यस्योच्चारणे प्राग्वर्णस्य लघुतैव तेन सगणप्रक्षेप एव । तथासति छंदोभंगाभाव इत्यलमतिप्रसंगेन । हयावृक्षे अश्विन्यादिसप्तविंशतिभेषु नक्षत्र दोहदं 'कुल्माषान्' इत्यादिकमिदं भक्ष्याभक्ष्यं वर्णभेदेन देशभेदेन वा इदं भक्ष्यमेतदभक्ष्यमिति विचार्य भक्ष्यसंभवे भक्षेत्, अभक्ष्यसंभवे भालोकयेत्पश्येत् स्पृशेद्वेत्यपि ध्येयम् । यथा - अश्विन्यां कुल्माषानक्षतस्विन्नमाषान्, भरण्या तिलमिश्रतंडुलान्, कृत्तिकायां माषान्, रोहिण्यां गव्यं गोसंबंधि दधि, मृगे गव्यमाज्यं घृतं, आर्द्रायां दुग्धं गव्यमेव, पुनर्वसावेणमांसं हरिणमांसं, पुष्ये तस्येव मृगस्य रक्तं रुधिरं, आश्लेषायां पायसं दुग्धमध्ये वह्निसंपर्केण पाचित - तंडुलान्, मघायां चाषस्य पक्षिणः पललं मांस, पूर्वाफल्गुन्यां मृगस्येदं मार्ग मांसं, उत्तराफल्गुन्यां शशस्येदं शाशं मांस, हस्ते षाष्टिक्यं षष्टिकान्नं 'साठी ' इति भाषायां, चित्रायां प्रियंगुः फलिनी, स्वात्यामपूपं घृतपक्को भक्ष्यविशेषः, विशाखायां चित्रांडजान्नानावर्णान्पक्षिणः, अनुराधायां सत्फलमुत्तमफलमावादि, ज्येष्ठायां कूर्मस्य कच्छपस्येदं कौर्म मांस, मूले सारिकायाः पक्षिण्या इदं -सारिकं मांस, पूर्वाषाढायां गोधाया इदं गौधिकं मांस, उत्तराषाढायां शाल्यं शल्यस्य पक्षिण इदं शाल्यं पललं मांसम् 'श्वावित्तु शल्यः' इत्यमरः । 'सारसलम्' इति भाषया । अभिजिति हविष्यं मुद्गादि, श्रवणे कृसरान्नं 'खिचडी', धनिष्ठायां मुगानं मुद्गौदनं, शतभे यवानां पिष्टं, पूर्वाभाद्रपदायां मत्स्यमिश्रितमनमोदनं, उत्तराभाद्रपदायां चित्रितान्नं नानाविधैरन्नैर्गोधूमादिभिः पक्कैर्मिश्रमन्नमोदनमिति केचित् । वयं त्वेवं व्याकुर्मः - यवतंदुलतिला मेषीदुग्धेन पक्त्वा मेषकर्णोपरक्तेनारक्ताश्चित्रान्नमोदनमिति चित्रितशब्देनोच्यते इति । रेवत्यां दध्यन्नं दध्योदनमिति । अपि च तथेत्यादीन्यव्ययानि पादपूर णार्थाणि । यदाह नारदः - 'कुल्माषांश्च तिलान्माषान्दधि गव्यं घृतं पयः । मृगं मांसं च तत्सारं पायसं चाषकं मृगम् ॥ शशमांसं च षाष्टिक्यं प्रियंगुकमपूपकम् । चित्रांडजान्फलं कूर्म शाटीं गोधां च शल्यकम् ॥ हविष्यं कृस - रानं च मुद्गान्नं यवपिष्टकम् | मत्स्यानं चित्रितान्नं च दध्यन्नं दाखभावकमात् ।' इति । तत्सारं = मृगरुधिरम् । अत्र चित्रांडजाफलमित्येकमेव दोहदमाहुः । तन्न । 'चित्रांडं च फलं ततः' इति कश्यपेन पृथगुक्तेः । अंडा ३९० ין १ दृश्यते चोदाहृतोऽयं पाठो ह्युदाहरणत्वेन छंदोमञ्जरी - वृत्तरलाकरादिग्रन्थटीकाकारैः, परं कुमारसंभवे तु 'गृहीतपत्युद्गमनीयवस्त्रा' इति पाठमादृत्य 'पत्युर्वरस्योद्गमनीयवस्त्रा' इति मल्लिनाथो व्याख्यातवान् । क्षीरस्वाम्यपि 'गृहीतपत्युद्गमनीय' इत्युदाजहारोगमनीयशब्दविवरणे । रहस्यं त्वत्राभियुक्तैरेव विनिगमनीयम् । ' Page #407 -------------------------------------------------------------------------- ________________ दिशां दोहदाः] यात्राप्रकरणम् ११। अंडजा उच्यते, अंडगतवैचित्र्याभावात् । यत्त श्रीपतिवाक्ये-'चित्रांडजायाः फलम्' इत्युक्तं तस्यार्थं न विद्मः । 'प्राश्याः प्रियंगुचित्रांडजाः फलं यावकं कुलित्थाश्च' इति वराहपद्यव्याख्याने चित्रानाकाराः पक्षिणश्चित्रायां प्राश्याः, फलानि प्रसिद्धानि स्वाताविति भट्टोत्पलो व्याख्यत् । चित्रानलक्षण. मुक्तं दीपिकायाम्-'अजाक्षीरेण संस्खिन्ना यवाः सतिलतंदुलाः । अजकर्णस्य रक्तेन रक्ताश्चित्रानसंज्ञकाः ॥' इति । अत्र यदभक्ष्यं दुष्प्रापं वा तत्स्मृत्वा दृष्ट्वा दत्त्वा वागंतव्यमित्याह गुरु:-'अलभ्यलभ्याऽभक्ष्यान्वा स्मृत्वा स्पृष्ट्वाथ तान्ब्रजेत् । दत्त्वा वा सिद्धिमामोति दुष्टभादिषु भूपतिः ॥' इति । आदिशब्दात्तिथिवारदिग्दोहदेषु स्मरणं स्पर्शनं दानं भक्षणं वा यथासंभवं ध्येयम् । नक्षत्रदोहदेषु वसिष्ठादिपधेषु क्वचिद्भेदस्तत्र विकल्पस्तुल्यबलत्वात् । भक्षेदिति 'भक्ष अदने' इति धातुश्चुरादिस्तस्मात् 'सत्यापपाश-' इति स्वार्थणिजंताद्विधिलिङि तिपि शबादौ च कृते 'इतश्च' इतीकारलोपे भक्षयेदिति भवितव्यं नतु भक्षेदिति कथमयं प्रयोगः ? उच्यते,-चुरादिभ्यस्तु णिजनित्योऽस्ति, 'अनित्यण्यंताक्षुरादयः' इत्युक्तेरेवं सति णिजभावपक्षे विधिलिङि भक्षेदिति सिद्यति । ज्ञापकं चात्र चुरादौ हि 'चिति स्मृत्याम्' इति चितिधातोरिदित्करणं तद्धि चिंतित इत्यादौ 'इदितो नुम् धातोः' इति नुमि 'अनिदितां हल उपधायाः क्विति' इति नलोपो मा भूदित्येवमर्थ कृतं नित्ये तु णिचि नलोपस्याप्रसंगादित्वं वृथैव भवति । नुमर्थमिति चेन्न । 'चिन्त स्मृत्यां' इति सनुमेव पठितव्यं किमि दित्त्वेन ? एवं सतीदित्त्वं कृतं ज्ञापकमुक्तार्थस्य संपन्नमिति । अत एव-'महीपालवचः श्रुत्वा जुघुषुः पुण्यमानवाः' इति विशब्दनार्थस्य चौरादिकस्य घुषे?षयामासुरित्यर्थे जुघुषुरित्यादिमहाकविप्रयोगोपपत्तिरिति वामनः । पक्षे चोरतीत्यादि प्रक्रियाकौमुदीकृञ्चेत्याह सेत्यलमतिप्रसंगेन । अथवा व्यक्तमेवं पठितव्यम् 'खादेत्तथालोकयेत्' इति ॥ ८१-८२ ॥ अथ दिग्दोहदमनुष्टुभाह आज्यं तिलौदनं मत्स्यं पयचापि यथाक्रमम् । भक्षयेद्दोहदं दिश्यमाशां पूर्वादिकां व्रजेत् ॥ ८३ ॥ आज्यमिति ॥ भाज्यं घृतं पूर्वस्यां, तिलौदनं तिलमिश्रौदनं दक्षिणस्यां, मत्स्यं प्रसिद्धं पश्चिमायां पयो दुग्धं उत्तरस्याम् । एतद्यथाक्रम दिश्यमभीष्टदिग्भवं दोहदं भक्षयेत्ततः पूर्वादिकामाशां जिगमिषितां दिशं ब्रजेत् । यदाह श्रीपतिः-'भाज्यतिलौदनमत्स्यपयोभिः प्राक्प्रभृति क्रमशः खलु भुक्त्वा' इति । नारदेन त्वन्यथोक्तम्-'घृतानं तिलपिष्टानं मत्स्यान्नं धृतपायसम् । प्रागादिक्रमशो भुक्त्वा याति राजा जयत्यरीन् ॥' वसिष्ठेनापि'घृतानं कृसरानं च मत्स्यानं घृतपायसम् । पूर्वादिषु क्रमाद्भुक्त्वा याता सिद्धिमवाप्नुयात् ॥' इति । अत्रैवं विरोधे विकल्पो यथादेशाचारं वा व्यवस्था ॥८३॥ Page #408 -------------------------------------------------------------------------- ________________ ३९२ मुहूर्तचिंतामणिः । [ तिथिदोहदम् अथ वारदोहदमनुष्टुभाह रसालां पायसं कांजी भृतं दुग्धं तथा दधि । पयोऽमृतं तिलान्नं च भक्षयेद्वारदो हदम् ॥ ८४ ॥ रसालामिति ॥ रसाला शर्करादधिमरीचकर्पूरैलासंसृष्टा, लोके 'शिखंरिणी' इति प्रसिद्धा तां रविवारे । पायसकांज्यौ प्रसिद्धे सोममंगलवारयोः । शृतं पक्कं दुग्धं बुधे । 'शृतं पाके' इति साधु । तत्रापि 'क्षीरहविषोरेव' इति वार्तिकात्प्रस्तुते क्षीरे साधुत्वं । दधि प्रसिद्धं गुरुवारे, अशृतमपक्कं दुग्धं शुक्रे, तिलान्नं तिलमिश्रमोदनं शनौ । एतद्वारदोहदं रविवारादौ क्रमेण भक्षयेत् । यदाह श्रीपतिः - 'मज्जिकां सघृतपायसं तथा कांजिकं श्रुतयो दधि क्रमात् । क्षीरपक्कमथितं तिलौदनं वारदोहदविधिर्बुधैः स्मृतः ॥' इति । वसिष्ठनारदाभ्यां दुग्धस्य पक्कविशेषो नाभ्यधायि - 'मज्जिका परमान्नं च कांजिकं च पयोदधि । क्षीरं तिलौदनं भुक्त्वा भानुवारादिषु क्रमात् ॥' . इति । मज्जिका = रसाला, 'स्याद्वसाला तु मज्जिका' इत्यभिधानात् । गुरुस्तु विशेषमाह - 'सूर्यवारे घृतं प्राश्यं चंद्रवारे पयस्तथा । गुडमंगारके वारे बुधवारे तिलानपि । गुरुवारे दधि प्राश्यं शुक्रवारे यवानपि । माषान्भुक्त्वा शनेवरे शूले गच्छन्न दोषभाक्' इति ॥ ८४ ॥ अथ तिथिदोहदं वसंततिलकाछंदसाहपक्षादितोऽर्कदलतंदुलवारि सर्पिः श्राणा हविष्यमपि हेमजलं त्वपूपम् । भुक्त्वा व्रजेद्रुचकमंबु च धेनुमूत्रं " यावान्नपायसगुडानसृगन्नमुद्गान् ॥ ८५ ॥ पक्षादित इति ॥ पक्षादिः प्रतिपत्तस्याः ल्यब्लोपे पंचमी । प्रतिपदादिपंचदशतिथिषु क्रमेण तिथिदोहदं भुक्त्वा व्रजेत् । यथा - प्रतिपदि अर्धस्य वृक्षविशेषस्य दलानि पर्णानि, 'रुई' इति भाषायां । द्वितीयायां तंदुलवारि क्षालिततंदुलजलं, तृतीयायां सर्पिर्वृतं चतुर्थ्यां श्राणा यवागूः, 'अंबिलि' इति भाषायां पंचम्यां हविष्यं मुद्रादि, षष्ठ्यां हेमजलं प्रक्षालितसुवर्णजलं । सप्तस्यामपूपं, अष्टम्यां रुचकं बीजपूरफलम् ; 'फलपूरो बीजपूरो रुचको मातुलिं'ग' इत्यमरः; नवम्यामंबु जलं, दशम्यां धेनुमूत्रं स्त्रीगवीमूत्रं; नतु वृषमूत्रं धेनुशब्दग्रहणात्, एकादश्यां यावान्नं यवविकारं, द्वादश्यां पायसं त्रयोदश्यां गुडमिक्षुविकारं, चतुर्दश्यामसृक् रुधिरं । पंचदश्यामन्नमुद्गानोदन मिश्रितमुद्गान् । यदाह बृहस्पतिः - 'अर्कपत्रं भवेद्यातुः प्रथमायां तु भक्षणम् । द्वितीयायां भवेद्यातुर्भक्ष्यं सत्तंदुलोदकम् ॥ तृतीयायां यथा सर्पिर्यवागूः स्यात्ततः परं । पंचम्यां तद्धविष्यं स्यात्षष्ठ्यां वा कांचनोदकम् ॥ अपूपभुक्तिः १ 'श्रीखंड' इति लोके Page #409 -------------------------------------------------------------------------- ________________ गमनसमयविधिः] यात्राप्रकरणम् ११ । सप्तम्यामष्टम्यां बीजपूरकम् । नवम्यां तोयपानं स्यागोमूत्रं तु ततः परम् ॥ एकादश्यां यवानद्यावादश्यां पायसं भवेत् । त्रयोदश्यां गुडं लेां रुधिरं स्थाच्चतुर्दशे ॥ मुद्गौदनं भवेगोज्यं पंचदश्यां यियासतः। पक्षयोरुभयोरेवं यात्रायोगे विधिः स्मृतः ॥' इति । दैवज्ञमनोहरेऽपि क्वचि दो यथा-'अर्कदलतंदुलोदकसपौषि हविष्यदधिसुवर्णपयः । तिलवारिबीजपूरकमध्वाज्यकसूत्रपिष्टिकाश्चापि ॥ तिलपिष्टकंदमूलानि शाकमथ शस्तवृक्षपर्णानि । प्रतिपप्रभृतिषु भुक्त्वा प्रस्थाता सिद्धिमामोति ॥' इति । ननुच-'अलभ्यलभ्याऽभक्ष्यान्वा स्मृत्वा दृष्ट्वाथ तान्व्रजेत् । दत्त्वा वा सिद्धिमानोति दुष्टभादिषु भूपतिः॥' इति गुरूक्तेः वारादिषु दोहदाभिधानं सार्थकं, विहितेषु पुनर्नक्षत्रतिथिवारादिषु दोहदाभिधानं व्यर्थम् , दोषनिवारणफलको हि दोहदस्तदभावेन वैयर्थ्यप्रसंगात् । उच्यते-'दुष्टभादिषु भूपतिः' इत्यत्र दुष्टत्वं किं नैसर्गिकमुतान्याहितं इति विशेषानभिधानात् सत्यावश्यकगमने राज्ञां बलेनैव गमने प्राशस्त्याभिधानात् यदि विहितनक्षत्रेष्वपि क्रूरग्रहसाहित्यादिर्महान् दोषः संभावितोऽस्ति तदपाकरणाय दोहदाभिधानं युक्तम् । एवं सर्ववर्णानामपि पारिघदंडे विरुद्धताराक्रूरग्रहसाहित्यादिमहादोषनिवारणाय दोहदोक्तेः सार्थक्याच्च । एवं विहिततिथिदोहदाभिधानं योगिन्यादिदोषनाशार्थ 'सङ्करराशेरशुभा तिथिः स्यात्' इत्येतद्दोषनिवारणार्थं च तदोषाभिधानम् । रत्नमालायां च-'आद्याश्चतस्रः क्रियपूर्वकाणां मेषाच्चतुर्णामिह पंचमी स्यात् । पराः परेषां परतस्तथैव सङ्करराशेरशुभा तिथिः स्यात् ॥' इति । एवं वारदोहदोक्तिरपि वक्रिग्रहवारशूलादिदोषहान्या सार्थिका । दिग्दोहदोक्तिरपि त्रिविधप्रतिबुधप्रतिशुक्रप्रतिभौमादिदोषहान्या सार्थिका ॥ ८५॥ अथ गमनसमयभवं विधि प्रहर्षिणीछंदसाहउद्धृत्य प्रथमत एव दक्षिणांघ्रि द्वात्रिंशत्पदमभिगत्य दिश्ययानं । आरोहेत्तिलघृतहेमताम्रपात्रं दत्त्वादौ गणकवराय च प्रगच्छेत् ॥ उद्धृत्येति ॥ राजा गमनसमय एव प्रथमतो दक्षिणांघ्रिं दक्षिणचरणमुद्धृत्य पश्चावात्रिंशत्पदं द्वात्रिंशत्पदपरिमितां भूमिं गत्वा दिश्ययानं वक्ष्यमाणं दिग्विशेषे हस्त्यादियानमारोहेदिति । यदाह गुरुः- पूर्व दक्षिणमुद्धृत्य पादं यायानराधिपः । द्वात्रिंशतं पदं गत्वा यानमारुह्य संव्रजेत् ॥' वराहोऽपि-'कल्याणनामसचिवाप्तजनायुधीयदैवज्ञविप्रजनकंचुकिमध्यसंस्थः । द्वात्रिंशतं समुपगम्य पदानि भूमौ प्रागादि नागरथवाजिनरैस्तु यायात् ॥' इति । तिलेति । आरोहणसमये तिलघृतहेमसहितं ताम्रपात्रमादौ गणकवराय ज्योतिर्विच्छ्रेष्ठाय चकारादन्येभ्योऽपि ब्राह्मणेभ्यो यथाशक्ति दानं दत्वा प्रगच्छेत् । यदाह गुरुः-'ताम्रपाने तिलान्कृत्वा सघृतान्हेमसंयुतान् । निवेद्य विप्रमुख्याय दैवज्ञाय विशेषतः ॥' इति ॥ ८६ ॥ Page #410 -------------------------------------------------------------------------- ________________ मुहूर्त चिंतामणिः । [प्रस्थानवस्तुनि मथावसरप्राप्तानि दिश्ययानान्यनुष्टुभाह प्राच्यां गच्छेद्गजेनैव दक्षिणस्यां रथेन हि । दिशि प्रतीच्यामश्वेन तथोदीच्यां नरैर्नृपः ॥ ८७॥ प्राच्यामिति ॥ स्पष्टार्थ पद्यम् । नरैर्नरबादैः सुखासनादिभिः । यदाह श्रीपतिः-'हस्तिरथाश्वनरैर्यदि राजा याति तदाऽऽशु जयत्यरिचक्रम्' इति । वराहोऽपि-'प्रागादि नागरथवाजिनरैस्तु यायात्' इति ॥ ८७ ॥ अथ निर्गमनस्थानानि पादाकुलकछंदसाहदेवगृहाद्वा गुरुसदनाद्वा खगृहान्मुख्यकलत्रगृहाद्वा। प्राश्य हविष्यं विप्रानुमतः पश्यन्शृण्वन्मंगलमेयात् ॥८८॥ देवेति ॥ देवा विष्ण्वादयः पूज्यंते यस्मिन् गृहे तद्देवगृहं, गुरुरध्यापकः स्वस्य कुलगुरुर्वा, स्वगृहं खशय्यागृहं, बहुस्त्रीत्वसंभवे मुख्यकलत्रं पट्टराज्ञी तद् एषां मध्ये मनोभीष्टात्सकाशागृहात् भोजनसंभवे हविष्यमनं प्राश्य मक्षयित्वा विप्रैर्ब्राह्मणैरनुमतः कृतोत्साहः मंगलं मंगलद्व्यं मनोभीष्टं पश्यन् सन् तथा शृण्वन् सन् एयात् गच्छेत् । यदाह लल्ल:-'स्वनिकेताद्देवगृहाप्रधानदाराश्रयाद्गुरुगृहाद्वा। यायात्कृताग्निकार्यःप्राश्य हविष्यं द्विजानुमतः॥ द्विजो विष्णुक्रमाद्भूपं मंत्रेणानेन चालयेत् । “इदं विष्णुर्विचक्रम" इत्येवं पादमुद्धरेत् । मंगलानि ततः पश्यन् स्पृशन्छृण्वन्नृपो व्रजेत् ॥' इति । वराहोऽपि'अंतःपुराद्वा स्वनिवेशनाद्वा सिंहासनादग्निपरिग्रहाद्वा । कुर्यानरेंद्रः प्रथम प्रयाणं विप्रैः शताः कृतमंगलाशीः ॥ "इदं विष्णुर्विचक्रम" इत्येवं पादमुद्धरेत् । अमुकस्य वधायेति दक्षिणं क्षितिपो न्यसेत् ॥' इति । अग्निपरिग्रहः= अग्निहोत्रगृहम् ॥ ८८॥ __ अथ गमनकाले निर्णीते सत्यपि स्वस्यावश्यकार्यानिष्पादाद्गमनविलंबे वर्णक्रमेण प्रस्थानवस्तूनि प्रहर्षिणीछंदसाहकार्याधैरिह गमनस्य चेद्विलंबो भूदेवादिभिरुपवीतमायुधं च । क्षौद्रं चामलफलमाशु चालनीयं सर्वेषां भवति यदेव हत्प्रियं वा।। __ कार्याद्यैरिति ॥ किंचिदावश्यकं कार्य नाभूदिति गमनस्य चेद्विलंबः स्यात्तदा विचारिते यात्रालग्ने भूदेवादिभिाह्मणप्रभृतिमिरेतानि वस्तूनि आशु चालनीयानि प्रस्थापनीयानि । यथा-ब्राह्मणेनोपवीतं, क्षत्रियेणायुधं, वैश्येन मधु, शूद्रेण अमलं निर्मलं फलं नारिकेलादि । यदाह वसिष्ठः-तस्मिन्मुहूर्ते स्वयमप्रयाणे प्रयोजनापेक्षितया च दैवात् । तत्रैव तन्निर्गमनं च कार्य स्त्रीयासनाच्चापि तदुच्यमानम् ॥' इति । राजमार्तड:-'प्रस्थाने ब्राह्मणादीनां यज्ञसूत्रमथायुधं । मध्वामलफलं चैव प्रशस्तं वृद्धिकारणम् ॥' इति । वा अथवा सर्वेषां वर्णानां यदेव हृत्प्रियं मनोभीष्टं तदेव प्रस्थापनीयम् । १ परिगृह्यते अस्मिन्निति परिग्रहः। परिग्रहणस्थानमित्यर्थः। 'ग्रहवृदृनिश्चिगमश्च" इति अधिकरणार्थे अपप्रत्ययः । Page #411 -------------------------------------------------------------------------- ________________ प्रस्थानपरिमाणं] यात्राप्रकरणम् ११ । उक्तं च वसिष्ठेन-'श्वेतातपत्रध्वजचामराश्वविभूषणोष्णीषगजांबराणि ॥मांदो. लिकारतरथाश्चवारान्छय्यासनाचं मनसस्त्वभीष्टम् ॥' इति । नारदोऽपि'भप्रयाणे स्वकं कार्यमपेक्षी भूपतिस्तथा । कुर्यानिर्गमनं छत्रध्वजवाहनसंयुतम् ॥' इति ॥ ८९॥ अथ स्वयं गमने कियङ्करं प्रस्थानं कार्यमित्येतदाशंक्य प्राच्यमतेन प्रस्थानपरिमाणं मंदाक्रांताछंदसाह गेहाद्हांतरमपि गमस्तर्हि यात्रेति गर्गः सीम्नः सीमांतरमपि भृगुर्वाणविक्षेपमात्रम् । प्रस्थानं स्यादिति कथयतेऽथो भरद्वाज एवं यात्रा कार्या बहिरिह पुरात्स्याद्वसिष्ठो ब्रवीति ॥९॥ गेहादिति ॥ स्वगृहात्परगृहमतिसमीपवर्त्यपि तत्रापि चेद्गमो गमनं स्यात्तर्हि यात्रा जातेति गर्गः कथयते । अथवा स्वग्रामसीमामुलंध्य सीमांतर ग्रामांतरसीमां प्राप्य वसेदिति भृगुः कथयते । अथवा महता योद्धा स्वबलेन क्षिप्यमाणः शरो यावरं गच्छति तावन्मानं प्रस्थानं स्यादिति भरद्वाजः कथयते । अथवा पुरानगराबहिर्यात्रा कार्या स्यादित्येवं वसिष्ठः कथयते । यदाह राजमार्तड:-'गृहाद्गृहांतरं गर्गः सीनः सीमांतरं भृगुः । शरक्षेपारद्वाजो वसिष्ठो नगराबहिः ॥' इति । एतच्च यथायोग्य कार्यस्यावश्यकतायां च ध्येयम् ॥ ९० ॥ अथ मुनिमतेन प्रस्थानपरिमाणं वसंततिलकाछंदसाहप्रस्थानमत्र धनुषां हि शतानि पंच केचिच्छतद्वयमुशंति दशैव चान्ये । संप्रस्थितो य इह मंदिरतः प्रयातो गंतव्यदिक्षु तदपि प्रयतेन कार्यम् ॥ ९१ ॥ प्रस्थानमिति ॥ धनुषः परिमाणमाह भास्करः-'नवोदरैरंगुलमष्टसंख्यैर्हस्तोऽङ्गुलैः षड्गुणितैश्चतुर्भिः । हस्तैश्चतुर्भिर्भवतीह दंडः क्रोशः सहस्रद्वितयेन तेषाम् ॥' इति । अत्र गमनकाले तादृशानां धनुषां पंचशतानि, हस्तसहस्रद्वयमिति यावत् । स्वगृहात्तावद्धस्तावधि प्रस्थानं स्यादिति केचिदूचुः । अन्ये तु तादृशानां धनुषां शतद्वयमष्टौ शतानि हस्तास्तावत्प्रस्थानमित्याहुः । अपरे तु इह यात्राकाले मंदिरतः स्वगृहाद्दशैव धनूंषि चत्वारिंशद्धस्तास्तावहूरे संप्रस्थितः प्रयात एव ज्ञेय इत्याहुः । यदाह वसिष्ठः-'प्रस्थान धनुषां पंचशतान्युत शतद्वयम् । स्वदेवसदनाद्वापि दशभिः प्रस्थितो गतः ॥' इति । नायं स्वेच्छाविकल्पः किंतु कार्यस्यानावश्यकावश्यकत्वात्ताशप्रस्था १ दंडः धनुर्दड इत्यर्थः । Page #412 -------------------------------------------------------------------------- ________________ ३९६ मुहूर्तचिंतामणिः । [प्रस्थातुर्विहितनियमाः नम् । अत एव नारदोऽपि-'स्वस्थानानिर्गमस्थानं दंडानां च शतद्वयम् । चत्वारिंशत्पंचविंशत्प्रस्थितः स स्वयं गतः॥' इति प्रस्थानविकल्पानाह । मत एव 'भप्रयाणे स्वकं कार्यमपेक्षी' इत्याह च।गंतव्यदिश्विति। तदपि प्रस्थान प्रयतेन सविधानेन राजादिना गंतव्यदिक्षु यस्यां दिशि गमनं चिकीर्षितं तदिगभिमुखं कार्यम् । यदाह राजमार्तड:--'गंतव्यदेशाभिमुखे प्रदेशे प्रस्थानमाहुः शुभदं नराणाम्' इति । अतः स्वयंप्रस्थाने गुणमप्याह स एव'स्वशरीरेण यः कश्चिमिर्गच्छेच्छ्रद्धयान्वितः । तस्य यात्राफलं सर्व संपूर्ण पथि सिध्यति ॥' इति । यदा तु स्वयं प्रस्थानं कृतं ततोऽपरदिनेऽष्टमचंद्रादिदोषसद्भावे न गंतव्यमित्याह नारदः-'जन्मझे चाष्टमे चंद्रे वारे भौमे शनैश्चरे । प्रस्थितेऽपि न गंतव्यं यदि स्याद्गर्हितं दिनम् ॥' इति । अष्टमचंद्रादिदोषसद्भावदुष्टे दिने यात्रा न कार्येत्यर्थः । ये तु व्यतीपातवैधतिभद्राभरण्यादिदोषसद्भावेन गर्हितेऽपि दिने यात्रा नेत्याहुस्तक । पूर्वार्धस्य वैयापाताद्वाक्यमेदाच । दोषोपलक्षणार्थमिति चेन्न । एकस्मिन्नेव दोषे उपलक्षणार्थे वक्तव्ये बहुदोषकथनस्य वैयर्थ्यात् । तस्मादष्टमचंद्रादिदोषेषु सर्वथा यात्रा न कार्या । व्यतीपातादिदोषसद्भावप्रतिबंधेषु सुखेन यात्रेति तत्त्वमिति प्रतीमः। यस्तु गृहानिर्गतो न प्रस्थानमाचरति तस्य केन क्रमेण प्रथमादिदिनगमनमित्याह चंडेश्वरः-'क्रोशं वा यदि वाऽप्यधं प्रथमेऽहनि शस्यते । द्वितीये योजनं गत्वा निवसेत महीपतिः ॥ तृतीये योजनं साधं वसेदाक्रम्य दूरतः । ततः परं यथेष्टं तु मार्गे यायान्महीपतिः ॥' इति ॥ ९१ ॥ अथ कृते प्रस्थानेऽधिकारिविशेषपुरस्कारेण कियद्दिवसनिषेधमुत्तरार्धन मैथुननिषेधं च स्नग्धराछंदसाहप्रस्थाने भूमिपालो दशदिवसमभिव्याप्य नैकत्र तिष्ठे सामंतः सप्तरात्रं तदितरमनुजः पंचरात्रं तथैव ।। ऊर्ध्वं गच्छेच्छुभाहेऽप्यथ गमनदिनात्सप्त रात्राणि पूर्व चाशक्तौ तदिनेऽसौ रिपुविजयमना मैथुनं नैव कुर्यात् ९२ ' प्रस्थाने इति ॥ भूमिपाल एकत्र प्रस्थाने दशदिवसमभिव्याप्य दशाहोरात्राणि न वसेत् । सामंतो मांडलिक एकत्र प्रस्थाने सप्तरानं न वसेत् । तदितरमनुजो ब्राह्मणादिः तथैव एकत्र प्रस्थाने पंचरात्रं न वसेत् । यदि दैवाद्वसेत्तदा किं कुर्यादित्यत आह-ऊर्ध्वमिति । अवधिदिवसातिक्रमानंतरं पुनर्गृहमागत्य शुभाहे पूर्वोक्तप्रकारेण विचारितशुभदिवसे गच्छेत् । यदाह वसिष्ठः-'आरभ्य निर्गमाद्यावद्दशाहं न वसेन्नृपः । मंडलीकः सप्तरात्रं प्राकृतः पंचरात्रतः । अत उचं व्रजेद्भूयो भद्रेऽन्यदिवसे नृपः । इति । भद्रे कल्याणकारिणि । श्रीपतिरपि-'वसेन चैकत्र दश क्षितीशो दिना Page #413 -------------------------------------------------------------------------- ________________ प्रस्थातुर्विहितनियमाः] यात्राप्रकरणम् ११ । ३९७ न्यथो सप्त च मांडलीकः । यः प्राकृतः सोऽपि न पंचरात्रं भद्रेण यात्रा परतः प्रयोज्या ॥' इति । नन्वत्र प्रस्थाने दशदिवसायतिक्रमे भूयः सुमुहूर्तेन यात्रा कार्येत्युक्तं, तन्न युक्तिसहं प्रतिभाति । यतो यात्रा हि शत्रुमारणादिद्रव्याजनाद्यर्था शत्रुमारणादिकमनोभीष्टवस्तुप्राप्तिर्यात्रासमाप्तिरित्युच्यते । न हि तां विना पुनर्मुहूर्त विचारो युक्तः । आहुश्च 'अयुक्तमेतत्प्रतिभाति नूनं होराविदां युक्तिमतां बहूनाम् । यात्रासमाप्तिः खलु वांछितार्थफलस्य सिद्ध्यै नियतं प्रदिष्टा ॥' इति । उच्यते,-वसिष्ठावृषिवचःप्रामाण्यमंगीकुर्वद्भिः किमीदृशं युक्तिविरुद्धं वक्तुमुचितम् ? यतोऽवधिकथनार्थकानां तत्तदृषिवाक्यानामप्रामाण्यप्रसंगाज्यौतिषस्मृतिलंघने दुरितोत्पत्तिः स्यात् । किंच मासगम्यमध्वानमतिक्रम्य यदि कार्यवशादशाहाद्यतिक्रमे सति तत्रापि तत एव स्थानात्सुमुहूर्तविचारोऽस्ति, किं पुनः प्रस्थाने ? यदाह वराहः-'एकत्राध्युषितस्य जगुर्यात्रामत्रात्रिगौतमच्यवनाः । पंचत्रिसप्तरात्राद्भूयाद्भद्रेण संयोज्याम् ॥' इति । 'अयुक्तमेतत्प्रतिभाति नूनम्' इति तु वाक्यं निर्मूलत्वादुपेक्ष्यम्। न हि वचनबोधितेऽर्थे युक्तिः प्रभवेत् । यथा...... तस्मादवध्यतिक्रमे सति शुभमुहूर्तेन यात्रा विधेया । अवधिमध्ये तु निषिद्धभद्राव्यतीपातादिमहादोषपरिहारायान्या यात्रा स्यादित्यलमतिप्रसंगेन । क्वचिद्दिग्विशेषेण प्रस्थाने दिवसनियमोऽभिहितः । यदाह राजमार्तड:-'प्राच्यामहानि मुनयः प्रवदंति सप्त याम्यामतीव शुभदानि दिनानि पंच । त्रीण्येव पश्चिमदिशि क्षितिनायकानां प्रस्थानकेषु दिवसद्वयमुत्तरस्याम् ॥' इति । यदा तु स्वयं प्रस्थाय परावृत्य गृहमागच्छेत्तदा पुनः सुमुहूर्तेन यात्रा कार्या । यदाह राजमार्तड:-'यस्तु संप्रस्थितो यात्रां निवर्तेत पुनर्गृहम् । कामाद्वा यदि वाकामान्न स सिद्धिमवाप्नुयात् ॥' इति । दुगोदित्यः-'कार्यवशायदि कथमपि निवर्तते प्रस्थितः स्वगृहमेव । यायात्तदा विशुद्धैः पुनरपि तिथिकरणदिवसाद्यैः ॥' इति । अथ प्रस्थानकर्तुर्नियममाह-अथेति । असौ राजादिः रिपुविजयमनाः शत्रुजये कृतांतःकरणः सन् यात्रादिनात्पूर्व सप्त रात्राणि मैथुनं संभोगं नैव कुर्यात् । यदाह च्यवन:-'त्रिरात्रं वर्जयेत्क्षीरं पंचाहं क्षुरकर्म च । तदहश्चावशेषाणि सप्ताहं मैथुनं त्यजेत् ॥' इति । वा अथवा अशक्ती सप्ताहमतिकामितया स्थातुमशक्तौ तद्दिने यात्रादिवसे मैथुनं नैव कुर्यात् । यदाह गर्ग:-'यात्राकाले तु संप्राप्ते मैथुनं यो निषेवते । रोगातः क्षीणकोशश्च स निवर्तेत वा न वा ॥' इति । अत एवानयोर्वाक्ययोमैथुनपीडासहिएण्वसहिष्णुपरा विषयव्यवस्था । मार्गमध्येऽपि मैथुननिषेधे विकल्पानाह च्यवनः-'यावद्रजति चाध्वानं यावत्कार्य न सिध्यति । यावद्वा न निवर्तेत तावद्वज्यं हि मैथुनम् ॥' इति । यदा तु प्रयाणदिने स्त्री ऋतुस्नाता भवति गमने चावश्यकता तदा मैथुनं कार्य न वेति संदेहः । तत्र यदि न कार्यमिति धेद्रूषे तदा धर्मशास्त्रविरोधः । यदाह स्वायंभुवः-'ऋतुस्नातां तु यो भार्या संनिधौ नोपगच्छति । घोरायां भ्रूणहत्यायां युज्यते नात्र संशयः ॥' इति । ३४ मु. चि. Page #414 -------------------------------------------------------------------------- ________________ ३९८ . मुहूर्तचिंतामणिः। [प्रस्थातुर्नियमान्तराणि यदि कार्यमिति चेत् ज्यौतिषस्मृत्युलंघनम् । तद्वचः प्रागभिहितम् । अत्र निर्णयमाह च्यवन एव-'आत्ययिककार्यपाते पुष्पस्नातासमागमं कृत्वा । मुदितो गच्छंल्लभते मनोरथानचिरकालेन ॥' इति । यदा हि पुनर्गमनार्थ कालांतरमप्यस्ति तदातदिने मैथुनं कृत्वा कालांतरे सुलग्ने यायादित्यर्थसिद्धम्। यदा प्रस्थानकालः श्वोदिवसस्तत्पूर्वरात्रावपि मैथुनं न कार्यमित्याह लल्ल:'कृत्वा तु मैथुनं रात्रौ प्रभाते योऽधिगच्छति । नासौ फलमवामोति कृच्छ्रेण च निवर्तते ॥ कृच्छ्रेण कष्टेन ॥ ९२ ॥ अथान्यानपि प्रस्थानक नियमान्शालिन्याहदुग्धं त्याज्यं पूर्वमेव त्रिरात्रं क्षौरं त्याज्यं पंचरात्रं च पूर्वम् । क्षौद्रं तैलं वासरेऽसिन्वमिश्च त्याज्यं यत्नाभूमिपालेन नूनम्।।९३॥ दुग्धमिति ॥ यात्रादिनात्पूर्व भूमिपालेन राज्ञा उपलक्षणत्वाद्गमनकर्ता यत्वात् दुग्धं पेयस्वेन त्याज्यं न तु द्रव्यत्वेन तद्विकारः पायसं च निषिद्धम् । च पुनः पंचरात्रं पूर्व क्षौरं क्षुरसंबंधि कृत्यं मुंडनं श्मश्रुकर्म च त्याज्यम् । अस्मिन वासरे यात्रादिने क्षौद्रं मधु भक्ष्यत्वेन तैलं तैललापनं त्याज्यम् । चमिश्चेदैवोद्भूता शरीरशोधनार्थ बलात्कारकृता वा यात्रादिने निषिद्धा नूनं निश्चितम् । यदाह च्यवनः-'वपनं वमनं क्षौद्रं तैलं चैव विवर्जयेत् । तदहश्नावशेषाणि सप्ताहं मैथुनं त्यजेत् ॥' इति । वपनं श्मश्रुकर्मणोऽप्युपलक्षणम् । तथोक्तं वसिष्ठेन-'यात्राहवे तूत्कटभूषिते च भुक्तोत्कटे रात्रिषु संध्ययोर्वा । क्षौर प्रकुर्यात्खलु चात्मनो हि श्रेयोभिलाषी न कदाचिदेव ॥' इति क्षौरपदोपादानात् । क्षौरमशुभपदार्थोपलक्षणम् । यदाह स एव-कामं क्रोधं तथा लोभं मयं मांसं च रोदनम् ॥' इति ॥ ९३ ॥ अथान्यानपि प्रस्थानक नियमान् गीताख्यछंदसाहभुक्त्वा गच्छति यदि चेत्तैलगुडक्षारपक्वमांसानि । विनिवर्तते स रुग्णः स्त्रीद्विजमवमान्य गच्छतो मरणम् ॥१४॥ भुक्त्वेति ॥ तैलं तैलपक्कानि वटकादीन्यनानि वा, गुडमिक्षुविकारं तस्पाचितमझं वा क्षारं सलवणं पक्कमांसानि रंधितमांसानि यो भुक्त्वा गच्छति स राजादिः रुग्णो रोगसहितो निवर्तते । यदाह गर्ग:-'कटुतैलगुडक्षारपक्रमांसाशनं तथा । भुक्त्वा यो यात्यसौ मोहाद्वयाधितः स निवर्तते ॥' इति । अत्र मांसदुग्धादिनिषेधस्तत्तन्नक्षत्रादिदोहदव्यतिरिक्तविषयः । दोहदस्य विशेषविहितत्वात् । स्त्रीद्विजमिति । स्त्री च द्विजश्व अनयोः समाहारः, स्त्रीद्विजं स्त्रियं स्वीयां परकीयां वा । द्विजः ब्राह्मणः, 'दंतविप्रांडजा द्विजाः' इत्यभिधानात् । अवमान्य धिक्शब्दताडनादिना मानभंगं कृत्वा गच्छतः पुंसो मरणं स्यात् । यदाह गर्ग:-'यस्तु संप्रस्थितो यात्रा भायाँ नैवाभिनंदति । भार्या वा नाभिनंदेत. न स प्रतिनिवर्तते ॥ परकीयां Page #415 -------------------------------------------------------------------------- ________________ अकालवृष्टिदोषः ] यात्राप्रकरणम् ११ । ३९९ स्वकीयां वा स्त्रियं पुरुषमेव वा । ताडयित्वा तु यो मोहात्तदंतं तस्य जीवितम् ॥ यात्रायां प्रस्थितो यश्च ब्राह्मणानवमानयेत् । नासौ प्रतिनिवर्तेत तदंतं तस्य जीवितम् ॥' इति । केचित् शुभाशुभशब्दान् यात्राकाले शुभाशुभसूचकानाहुः । यदाह लल्लः - 'प्रापय गच्छ विसर्जय निर्गच्छ व्रज विमुंच संसर्प । सिद्धिकराः खल्वेते प्रमोदजयजीवशब्दाश्च ॥ मा गास्तिष्ठ निवर्त व गम्यते मूढ दुर्मते मोहात् । यात्रां नेच्छंति बुधाः क्षुतका सितभीतशब्दैश्च इति । कासितं = रोगार्तध्वनिर्हिक्कादिः ॥ ९४ ॥ अथ कालवृष्ट्याख्यं दोषं सलक्षणं वसंतमालिकाछंदसाह— यदि मास्सु चतुर्षु पौषमासादिषु वृष्टिर्हि भवेदकालवृष्टिः । पशुमर्त्यपदांकिता न यावद्वसुधा स्यान्न हि तावदेव दोषः ॥ ९५ ॥ यदीति ॥ पौषादिषु चतुर्षु पौषमाघफाल्गुन चैत्राख्येषु मासेषु यदि वृष्टिर्भवेत् साऽकालवृष्टिः स्यात् । पौषादयश्चत्वारो मासा वृष्ट्यकालः, तत्र भवा वृष्टिरकालवृष्टिरुच्यते । यदाह राजमार्तडः - ' पौषादिचतुरो मासान् प्राप्ता वृष्टिरकालजा ॥' इति । तत्राकालवृष्ट्यां जातायां यदि वसुधा पृथ्वी यावत्पशवो गवादयः मर्त्या मनुष्यास्तेषां पदैश्वरणैरंकिता चिह्निता न भवति तावदकालवृष्टिदोषो नास्ति । यदा पशुचरणांकिता वसुधा स्यात्तदाऽकालवृष्टेर्दोषवत्त्वमस्येव । यदाह राजमार्तड : - ' वृष्टिः करोति दोषं तावन्नाकालसंभवा राज्ञाम् । यावन्न भवति याने नरपशुचरणांकिता वसुधा ॥' इति । अस्यार्थः- अकालसंभवा वृष्टिः राज्ञां गमने तावद्दोषं न करोति । यावद्वसुधा याने गमने नरपशुचरणांकिता न भवति । तेनातिस्वल्पया रजोपगममात्र भवति । तत्र पश्वादिचरणचिह्नाभावाद्दोषाभावः । यदा तु किंचिदधिका वृष्टिः स्यात्तदा कर्दमसद्भावात्पश्वादिचरणचिह्नानि जायंते तदा दोष एव । स च सप्तरात्रिक इत्युक्तं प्राक् । अत्र केचिदल्पा वृष्टिर्दोषाय, न महतीति वदंति । तत्रेयं युक्तिः – अल्पवृष्ट्या कर्दमबाहुल्यात्पश्वादिचरणचिह्नानां वसुधायां दर्शनादित्यल्पवृष्टेर्दोषवत्त्वम्, महत्त्वात्तु वृष्ट्याः सकलकर्दमापाकरणात्पश्वादिचरणचिह्नादर्शनाद्दोषाभावः । तदेतदृषिप्रणीत संहिताग्रंथाभिहितविषयाऽज्ञानां केवलन्यायाभिनिविष्टमनसां मतम् । तथा हि- मार्गशीर्ष शुक्लपक्षप्रतिपदादयः सार्धाः षण्मासा मेघानां गर्भग्रहणकालस्तदनंतरं वृष्टिर्भवति । यदाह कश्यपः - 'सितादौ मार्गशीर्षस्य प्रतिपद्दिवसे तथा । पूर्वाषाढागते चंद्रे गर्भाणां धारणं वदेत् ॥' इति । गर्गोऽपि - 'शुक्लादौ मार्गशीर्षस्य पूर्वाषाढाव्यवस्थिते । निशाकरे तु गर्भाणां तदादौ लक्षणं वदेत् ॥' इति । गर्भप्रसवकालज्ञानं वराहेण प्रोक्तम्- 'यन्नक्षत्रमुपगते गर्भश्चंद्रे भवेत्स चंद्रवशात् । पंचनवतौ दिनशते १९५ तत्रैव प्रसवकालमायाति ॥' इति । माससंहितायां च 'पौषासितपक्षाद्यैः श्रावण शुक्लादयो विनिर्देश्याः । साधैः षड्भर्मासैर्गर्भविपाकः स्वनक्षत्रे ॥' इति । विशेषमाह वराहः - 'सितपक्षभवाः कृष्णे शुक्ले कृष्णा Page #416 -------------------------------------------------------------------------- ________________ W मुहूर्तचिंतामणिः। [अकालवृष्टिदोषफलं धुसंभवा रात्रौ । नक्तंप्रभवाश्चाहनि संध्याजातास्तु संध्यायाम् ॥' इति । कृष्णाः कृष्णपक्षोद्भवा गर्भाः। एवं सार्धषण्मासा गर्भग्रहणकालः, तदनंतरं जायमाना वृष्टिः कालवृष्टिरिति । यदा वृष्टिकालव्यतिरिक्ते काले वृष्टिर्गर्भनिर्गलनरूपा स्यात् साऽकालवृष्टिः, भकाले अयोग्ये काले वृष्टिरिति निर्वचनसंभवात् । एतदेवाभिप्रेत्योक्तं 'सौदामिनीवर्षणगर्जितेषु' इति पद्यव्याख्याने महादेवेन गृहीतगर्भाणां मेघानां यो वृष्टिकाल उक्तस्तं विना यदि वृष्टिर्गर्भनिर्गलनरूपा स्यात्साऽकालवृष्टिरिति । तत्र मार्गशीर्षशुक्लादितो मेघानामवश्यं गर्भसंभवात्तचिह्नभूता किंचिदृष्टिरवश्यमपेक्षितैव । यदाह वराहः-'पवनसलिलविद्युद्गर्जिताभान्वितो यः स भवति बहुतोयः पंचभूताभ्युपेतः । विसृजति यदि तोयं गर्भकाले तु भूरि प्रसवसमयमित्वा शीकरांभः करोति ॥' इति । तेन किंचिदृष्ट्यांगर्भसत्तानिश्चयादल्पा वृष्टिर्न दोषमावहतीति। अल्पवृष्ट्यामपि त्रैराशिकवशादत्यल्पवृष्टयां नैव दोषः। ततः किंचिदधिकायां दोषतारतम्यम् । तत्र मार्गशीर्षाद्या गर्भा मंदफलाः।पौषशुक्लजाताश्चेति । बृहद्यात्रायां वराहोक्तेर्मार्गशीर्षगर्भाणां मंदफलत्वम् । तं च मार्गशीर्षमतिक्रम्य पोषादिवृष्टेरकालिकत्वम् । अत एवोक्तम्-'पौषादिचतुरो मासान्प्राप्ता वृष्टिरकालजा ॥' इति । मंदफलत्वादितुल्यन्यायतया च मार्गवृष्टेरप्याकालिकत्वम् । तदप्युक्तं राजमार्तडेन'मार्गान्मासात्प्रभृति मुनयो व्यासवाल्मीकिगर्गाश्चैत्रं यावद्गमनसमये वृष्टिदोष वदंति ॥' इति । एवं सति गर्भनिर्गलनं विकृतिः, सा यथा स्वल्पा सती नरपशुचरणांकितत्वेन किंचिद्दोषं जनयति, तथा उपचीयमानापि विकृतिर्महांतं दोषमादधाति, तेन महावृष्टेर्दोषवत्त्वमेव न दोषाभावः । अत एवोक्तंवराहसंहितायाम्-'गर्भसमयेऽतिवृष्टिर्गर्भाभावाय निमित्तकृता । द्रोणाष्टांशेऽभ्यधिके वृष्टेनर्भः सुतो भवति ॥' निमित्तं शुक्रास्तादि । बृहधात्रायामपि-'भृशं क्षरंतो रुधिरारुणाभाः सशक्रचापाः खररूक्षनादाः । रणोपयोज्याकृतिचित्ररूपा रणाय दृष्टा गमनेऽम्बुवाहाः ॥' इति । अन्यदपि तेनैवोक्तम् । 'सप्ताहं सतताऽन्यतौं वृष्टिर्हन्यानराधिपम् ।' इति । सतता निरंतरा । मेघभेदस्तेनैवोक्तः-'सप्ताहांतर्बलभयकरी वृष्टिरन्यर्तुजाता केचिद्यात्रामसितजलदैः संयुतां पूजयति। चित्राभ्रायां बलमतिवधो रुक्सपीतांबुदायां शुक्लाब्दायां न भवति चिराद्वयंबुदायां च नाशः॥' इति । चित्राभ्रायां वृष्टाविति शेषः । अनेनैवाशयेन क्वचित्पठ्यते-'वृत्तेऽप्यकालवर्षे तु तावहोषो न जायते । यावन्न यानसमये पशुपादांकिता मही ॥' इति । तस्सासिद्धमेतत्-यदत्यल्पायामकालवृष्टौ दोषाभावः, अल्पायामकालवृष्टौ अल्पदोषः, महत्यामकालवृष्टौ महादोष इति । वसिष्ठोऽपि वृष्टिविशेष फलविशेषमाह-'अकालं सततं वृष्टिः सप्ताहं नृपतेर्वधः । रक्तवृष्टौ रणोद्योगो मांसवृष्टौ महद्रणम् ॥ मरकश्चास्थिवर्षे स्यादसावर्षेऽपि तत्फलम् । क्षौद्रवर्षे राष्ट्रनाशस्त्वंगारैः पांशुभिर्गदः । धान्याकफलपुष्पाचुलोहैश्चापि महद्भयम् । पर्णैस्तृणैः काष्ठवषैस्तदेव फलमादिशेत् ॥ पाषाणवृष्टिरभ्रेषु प्राणिवृष्टिरथापि वा । चित्र... १ महामारी इति भाषायाम् । Page #417 -------------------------------------------------------------------------- ________________ दुष्टशकुनशांतिः] यात्राप्रकरणम् ११ । ४०१ वृष्टिर्यदि भवेत्सस्यानामीतिकारणम् ॥' इति । अत्र रक्तवृष्ट्यादीनां वृष्टित्वादेव निषेधे सिद्धे पुनर्ग्रहणं कृतं तत्कालवृष्टावण्यासां वृष्टीनां दोषसूचनार्थम् । यत आसां वृष्टीनामुत्पातत्वमस्ति, 'तेषां संक्षेपोऽयं प्रकृतेरन्यत्वमुत्पातः' इति वराहोक्तेः ॥ ९५ ॥ अथामुमेवार्थ स्पष्टीकुर्वन्सन्नावश्यकयात्रायां तच्छांतिकं प्रसंगाढुष्टशकुनोद्भूतारिष्टशांतिकं चातिशक्कां गाथाछंदसाहअल्पायां वृष्टौ दोषोऽल्पो भूयस्यां दोषो भूयान् जीमूतानां निर्घोषे वृष्टौ वा जातायां भूपः । सूर्यन्द्वोर्बिबे सौवर्णं कृत्वा विप्रेभ्यो दद्या दुःशाकुन्ये साज्यं स्वर्ण दत्त्वा गच्छेत्स्वेच्छाभिः॥९६॥ अल्पायामिति ॥ अल्पायामकालवृष्टावल्पो दोषः स्यात् । भूयस्यामतिशयेन बह्वी भूयसी तस्यामकालवृष्टौ भूयानतिशयेन महान्दोषः । अतो यत्प्राच्याः पठंति-'तावत्प्रयाणादिषु भूपतीनामकालवृष्टिः प्रकरोति दोषम् । यावद्भवेत्संचरतां जनानां तथा पशूनां चरणांकिता भूः ॥' इति, तदेतन्निर्मूलत्वाद्युक्त्यसहत्वाच्चोपेक्ष्यम् । अयं चाकालवृष्ट्याख्यो दोषः प्रयाणानंतरं सप्तरात्रं यावद्विलोकनीय इति महादेवेन व्याख्यातं, न तत्र प्रमाणं पश्यामः । किंतु जातायामकालवृष्टौ यात्रामेव न कुर्यात् । कृते तु स्वयं प्रस्थाने मार्गमध्ये नास्त्ययं दोषः। शुक्राद्यस्तादिदोषो मार्गमध्ये 'जीवः शशांकः शुक्रो वा' इति वचनबलादंगीक्रियते । प्राच्यास्तु महत्यामकालवृष्टौ दोषाभावं वर्ण. यति तेषामाशयं न विद्मः। अथ सत्यप्यकालवृष्ट्यादिनिमित्ते आवश्यकयात्रायां दानमाह-जीमूतानामिति ॥ जीमूतानां मेघानां नि?षे शब्दे वृष्टावकालवृष्टौ जातायां वा सूर्येद्वोः सूर्याचंद्रमसोबिंबे स्वरूपे सौवर्णे यथाशक्ति सुवर्णनिर्मिते कृत्वा भूपो राजा विप्रेभ्यो ब्राह्मणेभ्यो दद्यात् । यदाह मांडव्यः'दुर्दिने गर्जिते वृष्ट्या सूर्याचंद्रमसोईयोः। बिंबे विधाय शांत्यर्थं श्रोत्रियाय निवेदयेत् ॥' इति । यद्यपि 'श्रोत्रियंश्छंदोधीते' इति पाणिनिवचनाच्छंदोऽध्येतृत्वेन श्रोत्रियत्वमुच्यते, तञ्च वर्णत्रयसाधारणम् । तथापि प्रतिग्रहाधिकारी ब्राह्मण एव श्रोत्रियशब्देन व्याकर्तव्यः । अत एव मूले विप्रपदोपादानम् । अकालवृष्टौ शांतिर्महता ग्रंथसंदर्भेण बृहद्यात्रायां वराहेणाभ्यधायि, सातत एवावधार्या । क्वचिदकालवृष्टेरपवादः पठ्यते । यथा-'एकेनैकमहः प्रोक्तं द्वितीयेन त्रिरात्रकम् । तृतीयेन तु सप्ताहं दशरात्रमतः परम् । पौषे दिनत्रयं वयं माघे चैव दिनद्वयम् । फाल्गुने दिनमेकं तु चैत्रे तु घटिकाद्वयम् ॥' इति, तदेतदप्यात्ययिककार्यविषयं ध्येयम् । अथ प्रसंगाढुष्टेऽपि शकुने जातेऽवश्यविधेयायां यात्रायां दानमाह-दुःशाकुन्ये इति । शकुन एव शाकुन्यम् । चतुर्वर्णादेराकृतिगणत्वात्ष्यञ्।दुष्टं च तत् शाकुन्यं च दुःशाकुन्य, Page #418 -------------------------------------------------------------------------- ________________ मुहूर्तचिंतामणिः। [शुभसूचकशकुनाः तस्मिन् दुष्टे शकुने वक्ष्यमाणे प्रस्थानकाले संभूते सति साज्यं सघृतं स्वर्ण सुवर्ण श्रोत्रियाय दत्त्वा स्वेच्छाभिर्गच्छेत् । यदाह मांडव्य:-'यदाऽपशकुनं पश्येद्विपरीतमुपस्थितम् । सघृतं कांचनं दत्त्वा निर्विशंकस्ततो व्रजेत् ॥' इति । इति यात्रोपयोगिदोषविवरणम् ॥ ९६ ॥ अथ शुभाशुभसूचकत्वेन द्वेधा शकुनाः संति तान्वक्तुकामस्तावच्छुभसूचकान्छकुनान् शार्दूलविक्रीडिताभ्यामाहविप्राश्वेभफलानदुग्धदधिगोसिद्धार्थपद्माम्बरं वेश्यावाद्यमयूरचाषनकुला बढेकपश्वामिषम् । सद्वाक्यं कुसुमेक्षुपूर्णकलशच्छत्राणि मृत्कन्यका__ रत्नोष्णीषसितोक्षमद्यससुतस्त्रीदीप्तवैश्वानराः ॥ ९७ ॥ आदर्शाजनधौतवस्त्ररजका मीनाज्यसिंहासनं __ शावं रोदनवर्जितं ध्वजमधुच्छागास्त्रगोरोचनम् । भारद्वाजन्यानवेदनिनदा मांगल्यगीतांकुशा दृष्टाः सत्फलदाः प्रयाणसमये रिक्तो घटः स्वानुगः ९८ विप्रेति ॥ आदर्शति ॥ विप्रा बहवो द्वौवा, न त्वेकः, अश्वः प्रसिद्धः, इभो हस्ती अनुन्मत्तः, फलानदुग्धदधीनि प्रसिद्धानि, गौः स्त्रीगवी, सिद्धार्थः सर्षपाः, 'सिरसा' इति भाषायां । पद्मं कमलं, अंबरं वस्त्रं स्वच्छं, वेश्या गणिका, वाद्य मर्दलादि, मयूरचाषौ पक्षिणौ, नकुलः प्रसिद्धः, बढेकपशुः रज्वादिबद्धो वृषः भारतादिवर्णः, मामिषं मांसं, सद्वाक्यं 'कार्यसिद्धिरस्तु'इत्यादिवाक्यं, कुसु. मानि पुष्पाणि, इक्षवः प्रसिद्धाः,जलपूर्णकलशः, छत्रं प्रसिद्धं, मृत् आर्द्रमृत्तिका, कन्या कुमारी, रत्नं माणिक्यादि, उष्णीषं शिरोवेष्टनं, सितोक्षा श्वेतो वृषः, अयमबद्धोऽपि; मयं प्रसिद्धं, ससुतस्त्री सपुत्रापि काचित् स्त्री, दीप्तो जाज्वव्यमानोऽग्निः शिखावानित्यर्थः, आदर्शो दर्पणः, अंजनं 'सुर्मा', धौतवस्त्ररजको उज्वलीकृतवस्त्रो वस्त्रनिर्णेता, मीनो मत्स्यः, माज्यं घृतं, सिंहासनं देवादेः, शावं शवमेव शावं मृतकं, पृष्ठगामिलोकरोदनरहितं; ध्वजः पताका, मधु क्षौद्रं, छागो मेषः, अस्त्रं धनुरादि, गोरोचनं प्रसिद्धं, भारद्वाजः पक्षी, नृयानं सुखासनं, वेदनिनदः अधीयानानां ब्राह्मणानां मुखान्निःसरन्वेदध्वनिः, मांगल्यं प्रसिद्धं, गीतं गानं, अंकुशो हस्तिनिवारणमस्त्रं; एते पदार्था गंतुर्भूपादेः प्रयाणसमये यात्राकाले संमुखं दृश्यमानाः सत्फलदाः शुभफलदाः; तथा रिक्तो जलरहितो घटः स्वानुगः स्वस्य पश्चाद्भागगामी सोऽपि शुभफलदः जलेन भरिष्यमाणत्वात् । यदाह नारदः-'प्रज्वलाग्निश्च तुरगनृपासनपुरोगमाः। गंधपुष्पाक्षतच्छत्रचामरांदोलिकागजाः॥ भक्ष्येक्ष्वंकुशमृत्सानमध्वा Page #419 -------------------------------------------------------------------------- ________________ शुभसूचकशकुनाः] यात्राप्रकरणम् ११ ॥ ४०३ ज्यदधिगोवृषाः । मत्स्यमांससुराधौतवस्त्रशंखरवध्वजाः ॥ पण्यस्त्रीपूर्णकलशरत्न,गारदर्पणम् । भेरीमृदंगपटहशंखवीणादिनिःस्वनाः ॥ वेदमंगलघोषाः स्युर्याने वै कार्यसिद्धिदाः' इति । श्रीपतिरपि-'भारद्वाजो नाकुलश्चाषसंज्ञइछागो बहीं शोभनो वीक्षितः स्यात् । भंगारांजनवर्धमानमुकुराबढेकपश्वामिषोष्णीषक्षीरनृयानपूर्णकलशच्छत्राणि सिद्धार्थकाः । वीणाकेतनमीनपंकजदधिक्षौद्राज्यगोरोचनाः कन्याशंखसितोक्षवस्तुसुमनोविप्राश्वरत्नानि च ॥ प्रज्वलज्वलनदंतितुरंगभद्रपीठगणिकांकुशमृत्स्नाः । अक्षतेक्षुफलचामरभक्ष्याण्यायुधानि च भवंति शुभानि ॥ भेरीमृदंगमृदुमर्दलशंखवीणावेदध्वनिर्मधुरमंगलगीतघोषाः । पुत्रान्विता च युवतिः सुरभिः सवत्सा धौतांबरश्च रजकोऽभिमुखः प्रशस्तः ॥' इति । शृंगारः सुवर्णकलशः। 'शृंगारः कनकालुका' इत्यमरः । वर्धमानः शरावः, 'शरावो वर्धमानकः' इत्यमरः । वसिष्ठः-'दृष्टे शवे रोदनवर्जिते च संपूर्णयात्राफलमेव तत्र । दृष्टः प्रवेशे तु शवः शवत्वं करोति तद्रोदनवर्जितोऽपि ॥' इति । कश्यपोऽपि-कार्यसिद्धिर्भवेद्दष्टे शवे रोदनवर्जिते । प्रवेशे रोदनयुतः शवः स्यात्तु शवप्रदः ॥' इति । वसंतराजः-'आदाय रिक्तं कलशं जलार्थी यदि व्रजेत्कोऽपि महाध्वगेन । पूर्ण समादाय निवर्ततेऽसौ यथा कृतार्थः पथिकस्तथैव ॥' इति । एतानि शकुनानि यदि दैवात्स्युस्तदोत्तमान्येव । यदि वा स्वयं रचितानि तदापि शुभान्येव । यदाह वराहः-'स्वयमथ रचितान्ययत्ततो वा यदि कथितानि भवंति मंगलानि । स जयति सकलां ततो धरित्री ग्रहणदृशां श्रुतिपाठतो यथांहः॥' इति । शकुनप्रयोजनमाह वराहः-'अन्यजन्मांतरकृतं शुभं वा यदि वाऽशुभम् । यत्तस्य पाकं शकुनो निवेदयति गच्छताम् ॥' इति । लल्लोऽपि-'नक्षत्रस्य मुहूर्तस्य तिथेश्च करणस्य च । चतुर्णामपि चैतेषां शकुनो दंडनायकः॥' इति । अत्र कैश्चिल्लग्नवशेन शुभसूचकाः शकुना उक्ताः 'लग्ने वाक्पतिशुक्राणां ब्राह्मणाः संमुखाः स्त्रियः । बुधशुक्रौ च केंद्रस्थौ सवत्सा गौः प्रदृश्यते ॥ चंद्रसूयौं च भवतो दशमस्थौ यदाऽथवा । दीपादशौं सुमनसो रजका धौतवाससः ॥ सुतस्थाने यदा सौम्यो वृषो बद्धस्तु संमुखः । गुरुश्चेत्पंचनवमो दक्षिणे सझ वायसः ॥ चंद्रो गुरुश्च सहजे श्वानो वामांगभागतः । सर्वे कर्मायनवमे भारद्वाजोऽथ नाकुलः ॥ चाषस्य दर्शनं वा स्थाद्वामांगेऽत्यंतदुर्लभम् । मादित्यो राहुसौरी च सहजस्थौ कुमारिका ॥ प्रौढानां सुभगानां वा दर्शनं सर्वकामदम् । षष्ठे तृतीये कर्माये भौमश्चेत्तत्फलं भवेत् ॥ दास्यो वेश्या सुरा मांसं लाभश्चैव सुनिश्चितः ॥ सप्ताष्टपंचमे यस्य जीवो ज्ञो वात्र वर्तते । आदर्शपुष्पमांसानि सुरादर्शश्च लाभदः ॥ राहुभौमश्च मंदश्च लग्नाद्यदि तृतीयगः । उद्धृतं गोमयं पश्येच्छीघ्रं लाभं धनं दिशेत् ॥' इति । एवमादीनि शकुनानि लग्नबलेन शकुनग्रंथेष्वभिहितानि, तानि तत एवावधार्याणि विस्तरभयानास्माभिर्लिख्यंत इति ॥ ९७-९८ ॥ Page #420 -------------------------------------------------------------------------- ________________ ४०४ मुहूर्तचिंतामणिः । [ प्रयाणे शुभसूचकाः शकुनाः अथाशुभसूचकान् शकुनान् शार्दूलविक्रीडिताभ्यामाह - वंध्या चर्म तुषास्थिसर्पलवणांगारेंधनक्की बविट्तैलोन्मत्तव सौषधारिजटिलप्रत्रातॄणव्याधिताः । नग्नाभ्यक्तविमुक्तकेशपतितव्यंगक्षुधार्ता असृक् स्त्रीपुष्पं सरठः स्वगेहदहनं मार्जारयुद्धं क्षुतम् ॥ ९९॥ काषायी गुडत पंकविधवाकुब्जाः कुटुंबे कलि र्वत्रादेः स्खलनं लुलायसमरं कृष्णानि धान्यानि च । कार्पासं वमनं च गर्दभरवो दक्षेऽतिरुट् गर्भिणी " मुंडाबरदुर्वचोऽन्धबधिरोदक्या न दृष्टाः शुभाः ॥ १००॥ वंध्येति ॥ काषायीति ॥ वंध्या कदापि गर्भसंभावनारहिता, चर्म अश्वादेश्चर्म, तुषं धान्यादितुषम्, अस्थिसर्पलवणानि प्रसिद्धानि, अंगारो निर्धूमोऽग्निपिंड, इंधनं काष्ठादि, क्लीबो नपुंसकः, विद विष्ठा, 'अस्त्री विष्ठाविषौ स्त्रियौ' इत्यमरः । तैलं प्रसिद्धं, उन्मत्तो मद्यभूताद्यावेशवान्, वसा शरीरमांसविशेषः, वसाग्रहणादन्ये मांसविभागाः समीचीनाः; औषधं प्रसिद्धं, भरिः शत्रुः, जटिलो जटावान्, प्रवाद संन्यासी, तृणं प्रसिद्धं, व्याधितोऽचिकित्स्यव्याधिमान्, नग्नः अपरिहितवस्त्रः कुमारव्यतिरिक्तः, अभ्यक्तः कृततैलाभ्यंगः, विमुक्तकेशः प्रसृतकेशः, बद्धकेशस्तु प्रशस्तः; पतितो मद्यपानाद्यभिशापवान् द्विजः, व्यंगः छिन्ननासिकादिः, क्षुधार्तः क्षुत्पीडितः असृक् रुधिरं, स्त्रीपुष्पं स्त्रीणामृतुः, सरठः कृकलासः, ‘गिर्गिधम' इति भाषा प्राच्यानां । स्वगेहदहनं स्वगृहदाहः, मार्जारयुद्धं प्रसिद्धं, क्षुतं शिक्का, काषायी कषायो रागविशेषस्तेन रक्तं वस्त्रं काषायं तद्वान्, गुडतऋपंकविधवाकुजाः प्रसिद्धाः, कुटुंबे कलिः स्वपुत्रमित्रादिभिः सह कलहः, वस्त्रं प्रसिद्धं, आदिशब्देन गेडुकच्छत्रादिस्खलनं स्वहस्तानिर्निमित्तपतनं, लुलाया महिषास्तेषां समरं युद्धं, कृष्णानि श्यामवर्णानि धान्यानि माषादीनि कार्पासं वमनं च प्रसिद्धं, दक्षे दक्षिणभागे गर्दभस्य रवः शब्दः, अर्थाद्वामभागे गर्दभशब्दः साधीयान् ; अतिरुद्ध क्रोधाधिक्यं, गर्भिणी गर्भवती, मुंडो मुंडितशीर्षो यः कश्चित्, आर्द्राबरो जलार्द्रवस्रः, दुर्वचः स्वमुखोत्थं परमुखोत्थं वा दुष्टं वाक्यं, अंधबधिरौ प्रसिद्ध्ौ, उदक्या रजस्वला स्त्री; एते पदार्था गंतुर्भूपादेर्यानसमये दृष्टाः संतो न शुभा न शुभफलदाः, किंतु गमने सति अशुभफलदाः । यदाह कश्यपः'औषधक्कीबबधिरैर्जटिलोन्मत्तपावकैः । अभ्यक्तांगारकाष्ठास्थिचर्माधचिररोगिभिः ॥ तैलकार्पासलवणगुडतक्रुतृणोरगैः । कषायकुब्जैकपाद मुक्तकेशबुभुक्षितैः ॥ सनग्नमुंडैर्दृष्टैस्तु यात्रा नैव फलप्रदा ॥' इति । श्रीपतिः - 'तृणतुषफणिचर्मागारकार्पास पंकैर्लवणगुडवसास्थिक्कीबतै लौषधैश्च । रिपुविडसितधान्यव्याधिताभ्यक्ततत्रैः पतितजटिलमुंडोन्मत्तवांतैर्न सिद्धिः ॥ विमुक्तकेशकाषायनग्र्मेधनबुभुक्षितैः । कुब्जांधवंध्याबधिरैर्दृष्टैः सिद्धिर्न जायते ॥ कुटुंब१ 'गगिंटान' इति जीर्णपुस्तकपाठः । २ आंगठी इति लोके । Page #421 -------------------------------------------------------------------------- ________________ प्रयाणे शकुनापशकुनाः ] यात्राप्रकरणम् ११ ॥ 1 कलहो गृहज्वलनमार्तवं योषितो बिडालसमरं क्षुतं स्खलनमंबरादेस्तथा । दुरुक्तमतिकोपता महिषयोश्च युद्धं भवेत्प्रयाणसमये नृणामभिमतार्थविच्छि तये ॥' इति । बृहद्यात्रायां वराहः-' —' कार्पासौषधकृष्णधान्यलवणक्कीबास्थितालानलं सर्पांगारगराहिचर्मशकृतः केशारिसव्याधिताः । वांतोन्मत्तजडांधकतृणतुषक्षुत्क्षामतकारयो मुंडाभ्यक्तविमुक्तकेशपतिताः काषायिणश्चाशुभाः ॥ ' तालो हरितालः, गरो विषं, केशारिः क्षुरादिः । 'ध्वजातपत्रायुधसंनिपातः क्षितौ प्रयाणे यदि मानवानाम् । उत्तिष्ठतो वायुधमेति संगं पतेत वा तन्नृपतेर्भयाय ॥' इति । योगयात्रायां वराहः - 'न सरठो दृष्टः शुभाय क्वचित्' इति । चंडेश्वरः - 'खरोष्ट्रमहिषारूढा अमंगल्यादिसंयुताः । कर्णतालादिभिर्हीना विवशाः कृष्णवाससः ॥ मुक्तकेशातिकृष्णांगा स्तैलाभ्यक्तरजस्वलाः । गर्भिणी - विधवोन्मत्ताः क्कीबांधबधिरा नराः ॥ एतेषां दर्शने जाते न गंतव्यं कदाचन ॥' इति । वसंतराज : - 'सर्वं शुभं दक्षिणतः कार्यं निंद्यं तु वामतः । * इति । अथ क्षुते विशेष उच्यतेऽस्माभिः: - तत्र नारदः - 'सर्वदिक्षु क्षुतं नेष्टं गोक्षुतं मरणप्रदं । अफलं तत्क्षुतं वाच्यं वृद्धपीनसकैतवे ॥' इति । सर्वशाकुने- 'अथ क्षुतफलं वक्ष्ये दिक्षु यामक्रमेण च । लाभो वह्निर्धनं मित्रं चतुर्यामेषु पूर्वतः ॥ लाभो वह्निः सुतो वह्निः क्रमादाग्नेयतो भवेत् । यामक्रमाद्दक्षिणस्यां धनमन्नं मृतिः कलिः ॥ लाभो मित्रं सुखं वार्ता लाभो नैरृत्यदेशतः । गमनोत्साहकलहवस्त्राप्तिः पश्चिमादिशि ॥ वायव्यायां जयो लाभः पुत्राप्तिर्मंगलं क्रमात् । शत्रुनाशो रिपुप्राप्तिर्लाभोऽन्नं चोत्तरे क्षुतं ॥ संग्रामनाशरुग्बुद्धिरीशे यामक्रमेण च । क्षुते गतघटी वारतिथियुग्वसुभिर्हता ॥ विषमा लाभदा नित्यं समा विघ्नमृतिप्रदा । औषधे वाहनारोहे विवादे शयनेऽशने ॥ विद्यारंभे बीजवापे क्षुतं सप्तसु शोभनम् ।' इति । वसंतराजः - ' निषिद्धमग्रेऽक्षिणि दक्षिणे च धनव्ययं दक्षिणकर्णदेशे । तत्पृष्ठभागे कुरुतेऽरिवृद्धिं क्षुतं प्रकामं शुभमादधाति ॥ भोगाय वामश्रवणे स्वपृष्ठे कर्णे च वामे कथितं जयाय । सर्वार्थलाभाय च वामनेत्रे जातं श्रुतं स्यात्क्रमतोऽष्टधैवम् ॥' इति ॥ ९९-१०० ॥ अथान्यच्छकुनं शार्दूलविक्रीडितेनाहगोधाजाहककराहिशशकानां कीर्तनं शोभनं नो शब्दो न विलोकनं च कपिऋक्षाणां ततो व्यत्ययः । नद्युतारभयप्रवेशसमरे नष्टार्थसंवीक्षणे ४०५ व्यत्यस्ताः शकुना नृपेक्षणविधौ यात्रोदिताः शोभनाः ॥ गोधेति ॥ गोधा 'गोह' इति प्राच्याः, 'घोरपड' इति दाक्षिणात्याः; जाहकः गात्रसंकोची जंतुविशेषः, सूकराहिशशकाः प्रसिद्धाः ; यानसमये एषां गोधादीनां कीर्तनं स्वमुखेनान्यमुखेन वोच्चारणं शोभनं शुभफलदातृ स्यात् । च पुनरेषां गोधादीनां शब्दो रुतं विलोकनं दर्शनं च न शोभनं निषिद्धम् । Page #422 -------------------------------------------------------------------------- ________________ मुहूर्तचिंतामणिः। [अंगभागावस्थितशकुनाः कपिऋक्षाणामित्यत्र 'ऋत्यकः' इति प्रकृतिभावः । 'न समासे' इति निषेधवार्तिकं हि 'इकोऽसवणे' इति सूत्र एव, नतु 'ऋत्यकः' इत्यत्र इति सिद्धान्तः। व्यत्ययो यथा-वानराणां भल्लूकानां च कीर्तनं निषिद्धं, तेषामेवं शब्दितं दर्शितं वा न निषिद्धमित्यर्थः । यदाह श्रीपतिः-'जाहकाहिशशसूकरगोधाकीर्तनं शुभमुदाहृतमायैः । नो रुतं न च विलोकनमेषामन्यथा गदितमृक्षकपीनाम् ॥' इति । वसिष्ठः-'शाखामृगाख्यभल्लूकदर्शनं शब्दितं तथा। शशसूकरगोधानां यातुः कार्यविनाशनम् ॥' इति । शाखामृगः वानरः । अथ विशेषमाह-नद्युत्तारेति । नद्या गंगादेरुत्तारणे भये भयसंबंधिनि कार्य पलायनादिके प्रवेशे गृहप्रवेशे समरे संग्रामे नष्टस्यार्थस्य द्रव्यस्य संवीक्षणे गवेषणे एतत्कृत्यसंबंधिनि गमने क्रियमाणे सति प्रागुक्ताः शुभाशुभाः शकुना व्यत्यस्ता ज्ञेयाः । शुभशकुनाः 'विप्राश्वेभ-' (१११९७-९८) इत्यादयोऽशुभा ज्ञेयाः। 'वंध्याचर्म-' (२११९९-१०० )इत्यायशुभशकुनाः शुभफलदा ज्ञेया इत्यर्थः । यदाह वसंतराज:-'नधुत्तारे भये युद्धे प्रवेशे नष्टवीक्षणे । शकुना व्यस्तगाः शस्ता नृपालोके प्रयाणवत्॥' इति । वराहः-'नद्युत्तरणयुद्धेषु प्रवेशे नष्टमागेणे । यानव्यस्तगताः शस्ताः शकुना दैवचिंतकैः ॥' इति । नृपेति । नृपस्येक्षणविधौ दर्शनार्थगमने यात्रायामुदिताविप्राश्वेभेत्यादयःशुभशकुनाः शोभना ज्ञेयाः । 'नृपालोके प्रयाणवत्' इत्युक्तेः। श्रीपतिरपि-'नृपावलोके शकुनः प्रयाणवत्' इति । राजदर्शनस्य भयस्थानत्वात्तदपवादोऽयम् ॥ १०१ ॥ अथ कोकिलादीनां वामांगभागेन शकुनमनुष्टुभाहवामांगे कोकिला पल्ली पोतकी सूकरी रला । पिंगला छुच्छुकाः श्रेष्ठाः शिवाः पुरुषसंज्ञिताः ॥ १०२ ॥ वामांग इति ॥ कोकिलापल्लयौ प्रसिद्धे, पोतकी दुर्गेति पितृचरणाः । सूकरी जात्यचटिका, रला पक्षिविशेषः, पिंगला भैरवी, छुच्छुका छुच्छंदरी, शिवा शृगाली, पुरुषसंज्ञिताः पुन्नामानः कपोतखंजनतित्तिरहंसादयः; एते गच्छतां राजादीनां वामांगे शरीरवामभागे शस्ताः स्युः । यदाह श्रीपतिः'छुच्छुका भवनगोधिका रला पिंगला पिकवधूश्च पोतकी। सूकरी पुरुषसंज्ञिताः शिवा वामतः खलु यियासतां शुभाः ॥' इति । वराहोऽपि-शिवा श्यामा रला छुच्छुः पिंगला गृहगोधिकाः । सूकरी परपुष्टा च पुनामानश्च वामतः॥' इति । श्यामा पोतकी भवनगोधिका पल्ली परपुष्टा कोकिला ॥ १०२॥ अथ दक्षिणांगभागावस्थितं शकुनं चानुष्टुभाहछिकरः पिकको भासः श्रीकंठो वानरो रुरुः । स्त्रीसंज्ञकाः काकऋक्षश्वानः स्युदक्षिणाः शुभाः॥१०३॥ छिक्कर इति ॥ छिक्करो मृगजातिः, पिक्ककः पक्षिविशेषः, भासः पक्षी, श्रीकंठः पक्षिविशेषः, वानरः प्रसिद्धः, रुरुमंगविशेषः-स्त्रीसंज्ञकाः। काकः प्रसिद्धः, ऋक्षो भल्लूकः, अत्रापि 'ऋत्यकः' इति प्रकृतिभावः। वा कुक्कुरः; एते. Page #423 -------------------------------------------------------------------------- ________________ प्रयाणेऽपशकुननिंदा ] यात्राप्रकरणम् ११ । यात्रायां गतुर्भूपादेः दक्षिणभागगताः शुभाः शुभफलदाः । यदाह श्रीपतिः'ऋक्षो भासरिछकरो वानरश्च श्रीकंठः श्वा पिक्ककाख्यो रुरुश्च । ये स्त्रीसंज्ञा दक्षिणास्ते प्रशस्ताः प्रोक्ताः पूर्वैः सूरिभिस्ते प्रयाणे ॥' इति । वराहः - 'स्त्रीसंज्ञाश्चाषभषककपिश्री कर्णछिक्कराः । शिखिश्रीकंठपिककरुरुश्येनाश्च दक्षिणाः ॥ ' इति । भषकः=वा । वराहेण प्राच्यादिदिक्परत्वेन शकुना उक्ताः - - 'कुक्कुटेभचिरल्वाश्च शिखिवंजुलछिक्कराः । बलिनः सिंहनादाश्च कूटपूरी च पूर्वतः ॥ क्रोष्टुकोलूकहारीतकाककोकर्क्षपिंगलाः । कपोतरुदिताक्रंदक्रूरशब्दश्च याम्यतः ॥ गोशशक्रौंच लोमाशहंसक्रोशकपिंजलाः | विलोमोत्सववादित्रगीतहासाश्च वारुणाः ॥ शतपत्रकुरंगाखुमृगैकशफकोकिलाः । चाषशल्यकपुण्याहघंटा शंखरवा उदक् ॥' इति ॥ १०३ ॥ अथोक्तव्यतिरिक्तानां मृगपक्षिणां सामान्यतः प्रादक्षिण्येन शकुनमनुष्टुभाहप्रदक्षिणगताः श्रेष्ठा यात्रायां मृगपक्षिणः । ओजा मृगा व्रजतोऽतिधन्या वामे खरखनः ॥ १०४ ॥ प्रदक्षिणेति ॥ रुरुव्यतिरिक्ताः मृगाः पक्षिणश्च यात्रायां प्रादक्षिण्येन गताश्चलिताः श्रेष्ठाः शुभफलदाः स्युः । परंतु मृगा ओजा विषमसंख्यात्रिपंचसप्तादयश्चेद्रजंतो दृष्टाः स्युस्तदातिधन्याः । यदाह श्रीपतिः - 'मृगा विहगाश्च गताः प्रदक्षिणं महीभृतां कांक्षितकार्यसिद्धये । मृगा व्रजंत: परमोजसंख्यया' इति । वराहस्तु पक्षिणामपि विषमसंख्याकत्वमाह । यथा'ओजाः प्रदक्षिणं शस्ता मृगाश्वनकुलांडजाः' इति । अंडजाः = पक्षिणः । वामे इति । स्ववामभागे खरस्वनो गर्दभशब्दोऽतिधन्यः । अथ शकुनानां कियतां देशकालविशेषे नैष्फल्यमाह - 'ग्राम्ये नारण्यको ग्राह्यो नारण्ये ग्रामसंस्थितः । दिवाचरो न शर्वर्या न च नक्तंचरो दिवा ॥ द्वंद्वरोगार्दितास्तत्र कलहामिषकांक्षिणः । आपगांतरिता मत्ता न ग्राह्याः शकुनाः क्वचित् ॥ रोहिताश्वाजवालेयकुरंगोष्ट्रमृगाः शशाः । निष्फलाः शिशिरे ज्ञेया वसंते काककोकिलौ ॥ नतु भाद्रपदे ग्राह्याः शुकराश्च वृकादयः । शरवृक्षादयः क्रौंचाः श्रावणे हस्तिचातकौ ॥ व्याघ्रर्क्षवानरद्वीपिमहिषाः सबिलेशयाः । हेमंते निष्फला ज्ञेया बालाः सर्वे विमानुषाः ॥' इति । अथ स्थानविशेषे शकुनः शुभोऽपि दुष्टफलद इत्याह वराह एव - ' प्रभग्नशुष्कद्रुमकंटकीषु श्मशानभस्माग्नितुषाकुलेषु । प्राकारशून्यालयजर्जरेषु सौम्योऽपि पापः शकुनः प्रकल्प्यः ॥' इति । विरुद्ध शकुननिंदाभिहिता दैवज्ञमनोहरे - 'वरं श्रेयो दुर्जनकृष्णसप बरं क्षिपेत्सिंहमुखे स्वमंगम् । वरं तरेद्वारिनिधिं भुजाभ्यां नोलंघयेदुः शकुनं कदापि ॥' इति ॥ १०४ ॥ ४०७ Page #424 -------------------------------------------------------------------------- ________________ मुहूर्तचिंतामणिः । [आवश्यकयात्रायां कर्तव्यं .. अथावश्यकर्तव्यायां यात्रायां विरुद्धे शकुने जाते किं कर्तव्यमित्यनुष्टुभाह.. आद्येऽपशकुने स्थित्वा प्राणानेकादश व्रजेत् । - द्वितीये षोडश प्राणांस्तृतीये न कचिद्रजेत् ॥१०५॥ . - आद्य इति ॥ निर्गमसमये यदापशकुने 'वंध्याचर्म (१११९९-१००) इत्यादिके विरुद्ध शकुने आये प्रथमे संजाते सति एकादशसंख्याकान् प्राणान् स्थित्वा 'कालाध्वनोरत्यंतसंयोगे'इति द्वितीया।एकादशप्राणपरिच्छेद्यकालं स्थित्वेत्यर्थः। ततः समीचीने शकुने व्रजेत् । अथ तत्रापि द्वितीये विरुद्ध शकुने संवृत्त षोडशसंख्याकान् प्राणान् स्थित्वा शुभशकुने व्रजेत् । तत्रापि पुनस्तृतीये विरुद्ध शकुने संवृत्ते क्वचिदपि न बजेत्किंतु परावृत्य गृहमागच्छेत् । यदाह वसंतराजः'जाते विरुद्ध शकुनेऽध्वनीनो व्यावृत्य कृत्वा करपादशौचम् । आचम्य च क्षीरतरोरवस्तात्तिष्ठेत्प्रपश्येच्छकुनांतराणि ॥' इति । श्रीपतिः-'माघे विरुद्ध वाकुने प्रतीक्ष्य प्राणानृपः पंच च षद प्रयायात् । भष्टौ द्वितीये द्विगुणास्तृतीये व्यावृत्त्य नूनं गृहमभ्युपेयात् ॥' इति । प्राणशब्देन विंशतिलघ्वक्षराणि दश गुर्वक्षराणि वा यावता कालेन पूर्यन्ते तावान्काल उच्यते । यदाह शौनकः'लध्वक्षरैः स्फुटोक्तैः प्राणः कथितस्तु विंशतिभिः' इति । भास्करः'गुर्वक्षरैः खेदुमितेरसुः' इति । अन्यत्रापि 'दश गुर्वक्षरैः प्राणः' इति । कश्यपेन तु प्राणायामत्रयमेव प्रतीक्ष्यमित्युक्तम् ; यथा-'यायी विरुद्धशकुनमादौ दृष्ट्वा प्रयत्नतः । प्राणायामत्रयं कुर्याद्वितीये द्विगुणं चरेत् । तृतीये पुनरावृत्त्य शांत्या यायादिनांतरे ॥' इति प्राणायामस्तु वर्णत्रयप्रसिद्धः । शांतिरक्ता दैवज्ञमनोहरे-'यदा हि शकुनं पश्येद्विपरीतमुपस्थितम् । सघृतं कांचनं दत्त्वा निर्विशंकः सुखं व्रजेत् ॥' इति । एतच्च मूले स्पष्टमुक्तं'दुःशाकुन्ये साज्यं स्वर्ण दत्त्वा गच्छेत्स्वेच्छाभिः' इति । एवं निखिलदोषशुद्धिं विचार्य शुभलग्ने गंतुर्भूपस्य शत्रुपराजयपूर्वकस्तन्मरणपूर्वको जयो वा भवत्येव । तत्र शत्रुनगरे जिते सति राज्ञा किं कार्यमित्याह वसिष्ठः'विगजतुरगभीतान्पुण्यलोकाभिलाषान्विरथशिथिलवस्त्रान्मुक्तशस्त्रास्त्रकेशान्। तृणमुखगतसत्त्वान्प्रांजलीनुद्यमानान्क्षितिपतितनयादीन्युद्धभूमौ न हन्यात् ॥ सपनदेशानगरान्प्रपश्यन् महीपतिर्देवगुरुद्विजार्थे । कुर्यान्न वांछां न कुलांगमानां प्राणाभिलाषी च कदाचिदेव ।' इति। वराहोऽपि-'नार्ता न भीता न तृणाननाश्च विमुक्तशस्त्रा विपलायमानाः । क्षीणायुधा वाजिगजावतीर्णा ह्येते न वध्या न च पीडनीयाः ॥ कुलैकतंतुः शरणं गतो वा कृतांजलिर्यश्च वदेत्तवास्मि । अयुध्यमानानवगम्य चान्यान्न बालकान्स्त्रीपरिरक्षितांश्च ॥' इति । ग्रंथकर्ता तदर्थकं पद्यं नोपनिबद्धं, मुहूर्त विचारेऽनुपयोगात् । यत्तु श्रीपतिनोक्तम्-'न परविषयप्राप्तो राजा द्विजामरसज्जनद्रविणहरणे चेतः कुर्यान्न वा कुलयोषिताम् । विगजतुरगानान्हिन्यान्न भीतनिरायुधाप्रमुदितमनाः सैन्यैः शस्ते क्षणे स्वपुरं विशेत् ॥' इति । 'तन्महतामनुरोधो न्याव्यः' इति मनस्यालोच्याभिहितम् ॥ १०५ ॥ १ नगरान्प्रविश्य इति पाठः। Page #425 -------------------------------------------------------------------------- ________________ यात्रानिवृत्तिप्रवेशमुहूर्तः ] यात्राप्रकरणम् ११ ॥ तत्र शस्ते क्षणे प्रवेशस्योक्तत्वाद्विजययात्रां विधाय परावृत्य गृहमागतस्य भूपस्य यात्रानिवृत्ति गृहप्रवेशीयमुहूर्तं जगत्यामुपजातिछंदसाह - यात्रानिवृत्तौ शुभदं प्रवेशनं मृदुधुवैः क्षिप्रचरैः पुनर्गमः । atasa दारुण तथोग्रभे स्त्रीगेहपुत्रात्मविनाशनं क्रमात् ॥ ४०९ यात्रानिवृत्ताविति ॥ चतुर्धा प्रवेशः- नववधूप्रवेशः, सुपूर्वप्रवेशः, अपूवैप्रवेशः, द्वंद्वाभयप्रवेशश्चेति । तत्र नववधूप्रवेशः प्रागुक्तः । अपूर्वप्रवेशद्वंद्वाभयप्रवेशौ वक्ष्येते । इह तु सुपूर्वप्रवेश उच्यते । तत्र नववधूप्रवेशस्यान्वर्थसंज्ञाविज्ञानादेव तलक्षणं नोक्तं कैश्चिदपि । अपूर्वादित्रिविधगृहप्रवेशलक्षणान्याह वसिष्ठः – 'अपूर्वसंज्ञः प्रथमः प्रवेशो यात्रावसाने च सुपूर्वसंज्ञः । द्वंद्वाभयस्त्वग्निभयाद्विजातस्त्वेवं प्रवेशस्त्रिविधः प्रदिष्टः ॥' इति वास्तुप्रकरणोक्तविधिना गृहनिर्माणं विधाय यः प्रवेशः सोऽपूर्वसंज्ञः प्रवेशः । यस्तु भूपस्य समरविजययात्रां विधाय गृहमागतस्य प्रवेशः स सुपूर्वसंज्ञः । यस्तु अग्निभयेनाग्निकृतदाहेनादिशब्देन नद्यादिसमीपवर्तित्वाज्जलाप्लवनेन वा क्रुद्धराजादिपातनेन वा गेहनाशस्तगृहं पुनर्यदा संपाद्यते तस्मिन् यः प्रवेशः स 'द्वंद्वाभय' इत्युच्यते । अन्वर्थसंज्ञा चेयम् । द्वंद्वं शीतोष्णम् । अथ शीतशब्देन जलं उष्णशब्देनाग्निरुच्यते लक्षणया । जलाप्लवनेन वा अनवरत कियविसवृष्टिपातेन वा गृहनाशस्तज्जलभयं अभिकृतदाहेन यो गृहनाशस्तदग्निभयं तस्माच्छीतोष्णरूपात् द्वंद्वादपि पुनरुत्थापनेन यदभयं तद्द्वंद्वाभयमित्युच्यते । द्वंद्वाभयं विद्यते यस्मिन्निति 'अर्शआदिभ्योऽच्' इति मत्वर्थीयोऽचूप्रत्ययः । तादृशः प्रवेशो द्वंद्वाभय इति । तत्र गुरुशुक्रास्तादिकालशुद्धिविचारस्तु नूतनोत्थापितगृहप्रवेशे एव न द्वंद्वाभयसुपूर्वसंज्ञप्रवेशयोः । वास्तुपूजा सर्वेष्वपि प्रवेशेषु । यदाह वसिष्ठः -- 'नवप्रवेशे त्वथ कालशुद्धिर्न द्वंद्वसौपूर्विकयोः कदाचित् । प्रवेशपंचांगदिने सुलग्ने वास्त्वर्चनं पूर्ववदेव कुर्यात् ॥ ' इति । पूर्ववत्पूर्वस्मिन्नपूर्वे गृहप्रवेशे यथा वास्त्वचनं तथाऽपरयोरपि । अमुमेवाशयं मनसि निधायाग्रे ग्रंथकृद्वक्ष्यति - 'जीर्णे गृहेभ्यादिभयान्नवेऽपि मार्गोर्जयोः श्रावणिकेऽपि सत्स्यात् । वेशोऽम्बुपेज्यानिलवासवेषु नाव - इयकास्तादिविचारणात्र ॥' इति । अतोऽत्र यात्रानिवृत्तिप्रवेशमुहूर्तविचारे शुक्रास्तादिदोषविचारो नाभिहितः किंतु यथाकथंचित्पंचांगशुद्धिमानमपेक्ष्य विशेषतश्च पंचांगशुद्धिं लग्नशुद्धिं चाग्रे ( पृ०४२९) वक्ष्यति, साप्यत्र यथासंभवमूह्या । नक्षत्रशुद्धिस्त्वेवंविधे प्रवेशे विशेषाभिधानान्न ग्रंथकृतोक्ता । तत्र कालशुद्धिमाह श्रीपतिः - 'अथ प्रवेशे नवमंदिरस्य यात्रानिवृत्तावथ भूपतीनाम् । सौम्यायने पूर्वदिने विधाय वास्त्वर्चनं भूतबलि च सम्यक् ॥' इति । नारदोऽपि - 'अथ सौम्यायने कार्यं नववेश्मप्रवेशनम् । राज्ञां यात्रानिवृत्तौ च' इति । सौम्यायन इत्येतत्तु राज्ञां यात्रानिवृत्तौ कालविलंबसहत्वे बोद्धव्यम् । वसिष्ठस्वरसात् । स्मृत्योर्विरोधे विषयकल्पनैवोचिता नतु विकल्पः । यथो३५ मु० चि० Page #426 -------------------------------------------------------------------------- ________________ मुहूर्तचिंतामणिः । [निर्गमान्नवमे प्रवेशनिषेधः I क्तम्—'स्मृतिद्वैधं तु यत्र स्यात्तत्र धर्मावुभौ स्मृतौ । स्मृतिद्वैधे तु विषयः कल्पनीयः पृथक् पृथक् ॥' इत्यलमतिप्रसंगेन । यात्रानिवृत्ताविति । मृदूनि चित्रानुराधामृगरेवत्यः, ध्रुवाणि रोहिणीत्र्युत्तराश्च, एभिर्नक्षत्रैः राज्ञां यात्रानिवृत्तौ प्रवेशनं शुभदं । यदि क्षिप्रैः अश्विनीपुष्यहस्ताभिजिद्भिः । चरैः श्रवणधनिष्ठाशततारकापुनर्वसुस्वातीभिर्नक्षत्रैः प्रवेशनं स्यात्तदा पुनरपि राज्ञो गमो यात्रा स्यात् । तस्मादेतानि मध्यमानि । द्वीशादिनक्षत्रेषु प्रवेशे क्रमात् ख्यादीनां नाशः । यथा - विशाखायां प्रवेशे स्त्रियो राज्ञ्या मरणं, कृत्तिकायां प्रवेशे गृहनाशनमग्निना गृहं दग्धं स्यात् ; दारुणभे मूलज्येष्ठाद्रीश्लेषासु प्रवेशे पुत्रस्य राजकुमारस्य मरणं; तथोप्रभे पूर्वात्रय भरणीमघासु प्रवेशे आत्मनः स्वस्यैव राज्ञो मरणं स्यादित्यर्थः । यदाह श्रीपतिः - 'शुभप्रवेशो मृदुभिर्भुवाख्यैः क्षिप्रैश्वरैः स्यात्पुनरेव यात्रा । उमैर्नृपो दारुणभैः कुमारो राज्ञी विशाखासु विनाशमेति ॥ कृत्तिकासु भवनं कृशानुना दह्यते प्रविशतां न संशयः ॥' इति । कृशानुरभिः । अथाग्रे ग्रंथकृता प्रोक्तापि पंचांगलग्नशुद्धिरत्रोपयोगात्तम्मूलवाक्यान्युच्यते । वसिष्ठः - 'चंद्रजार्यसितवासरेषु तु श्रीकरं सुखमहार्थलाभदम् । सूर्यसूनुदिवसे स्थिरप्रदं किंतु चौरभयमत्र विद्यते ॥' इति । श्रीपतिः–‘रिक्ता तिथिर्भूसुतभानुवारौ निंद्याश्च योगाः परिवर्ज - नीयाः । मेषः कुलीरो मकरस्तुला च त्याज्याः प्रवेशे हि तथा तर्दशाः ॥' इति । अत्र मेषादिनिंद्यलग्नानां फलं सापवादमुक्तम् । राजमार्तंडे - 'भूपो यात्रा मेषलग्नप्रवेशे नाशं गच्छेत्कर्कटस्योदये च । व्याधिं तौलिन्याश्रिते लग्नवर्तन्यारे प्राप्नुयाद्धान्यनाशम् ॥' आकेकेर ः = मकरः । 'लग्नेऽन्यत्रांशकेऽप्येषामेते दुष्टफलप्रदाः । शुभान्यन्यानि लग्नानि प्रवेशे मुनयो विदुः ॥ निंदिता अपि शुभांशसमेतास्तौलिमेषमकराः सकुलीराः । कर्तृभोपचयगाश्च विलग्ने राशयः शुभफलाय भवंति ॥' इति । वसिष्ठः - ' त्रिकोणकेंद्र त्रिधनायसंस्थैः शुभैस्त्रिषष्ठायगतैः खलैश्च । लग्नांत्यषष्ठाष्टविवर्जितेन चंद्रेण लक्ष्मीनिलयप्रवेशः ॥ नैधने भेऽपि न चाष्टल ने पंचेष्टकेऽप्यष्टमशुद्धियुक्ते । कार्यः प्रवेशो न चरांशग्ने शुभेक्षिते वाप्यथ संयुते वा ॥ प्रवेशलग्नान्निधनस्थितो यः करग्रहः क्रूरगृहे यदि स्यात् । प्रवेशकर्तारमथ त्रिवर्षाद्धंत्यष्टवर्षैः शुभराशि चेत् ॥' इति । अन्यदप्वाह वसिष्ठ एव - ' कृत्वा शुक्रं पृष्ठतो वामतोऽर्क विप्रान्पूज्यानग्रतः पूर्णकुंभम् । हर्म्यं रम्यं तोरणस्रग्वितानैः स्त्रीभिः स्रग्वी गीतवाद्यैर्विशेत्तत् ॥' इति । वामसूर्यज्ञानोपायमाह विश्वकर्मा - 'लग्नाप्रागादितो दिक्षु द्वौ द्वौ राशी नियोजयेत् । एकमेकं न्यसेत्कोणे सूर्यं वामे विचिंतयेत् ॥' अत्रेदं ध्येयम्-यत्र मासे यात्रा कृता तन्मासान्नवमे मासि यात्रादिनान्नवमदिने वा प्रवेशो निषिद्धः । यदाह गुरुः - ' निर्गमान्नवमे मासि प्रवेशो नैव शोभनः । नवमे दिवसे चैव प्रवेशं नैव कारयेत् ॥” इति । एतत्सविशेषं नूतनगृहप्रवेशव्याख्यानावसरेऽभिधास्यते इत्यास्तां प्रसक्तानुप्रसक्तमिति ॥ १०६ ॥ -- ४१० Page #427 -------------------------------------------------------------------------- ________________ यात्राडोषातिदेशः] यात्राप्रकरणम् ११ । ४११ अथ विवाहप्रकरणोक्तदोषानतिदिशन्प्रागुक्तान्यात्राप्रकरणोक्तदोषान् शिष्याणामविस्मरणार्थ मंजुभाषिणीभ्यां स्रग्धरया च संगृह्णातिअयनर्भमासतिथिकालवासरोद्भवशूलसंमुखसितज्ञदिक्कपाः । भृगुवक्रतादिपरिघाख्यदंडको युवतीरजोऽप्यशुचितोत्सवादिकं॥ मृतपक्षरिक्तरवितर्कसंख्यकास्तिथयश्च सौरिरविभौमवासराः। अपि वामपृष्ठगविधुस्तथाडलो वसुपंचकाभिजिदथापि दक्षिणे॥ लग्ने जन्मर्थतन्वोमृतिगृहमहिताच षष्ठं तदीशा वा लग्ने कुंभमीनक्षेनवलवतनू चापि पृष्ठोदयं च । पृष्ठाशासंस्थमृक्षं दशमशनिरथो सप्तमे चापि काव्यः केंद्रे वक्राश्च वक्रिग्रहदिवसविवाहोक्तदोषाश्च नेष्टाः ॥१०९॥ अयनर्केति ॥ मृतपक्षेति ॥ लग्न इति ॥ एतेऽयनादयो दोषा विवाह प्रकरणोक्ताश्च दोषा यात्रायां कर्तव्यायां नेष्टाः । तत्रायनशूल: 'सौम्यायने सूर्यविधू तदोत्तराम्' (१५।३६) इत्यादिकः। मासोद्भवः शूलो द्विविधः-'वृषादित्रित्रिराशिष्व प्राच्यादिदिक्षु न गंतव्यम्' इत्येकः, कपाटकंटकादिश्च द्वितीयः युद्धयात्रायां स्वरोदयशास्त्रे सर्वतोभद्रचक्रेऽभिहितः । यथा-'यत्र त्रयो वृषाद्याश्च पूर्वाशादिबुधैः क्रमात् । राशयो द्वादशैवं तु मेषांताः सृष्टिमार्गगाः ॥ यत्र पूर्वादिकाष्ठायां वृषराश्यादिगो रविः । सा दिशाऽस्तमिता ज्ञेया तिस्रः शेपाः सदोदिताः ॥' इति । कपाटकंटकादिर्यथा—'कपाटं पूर्वतो ज्ञेयं कार्तिकादित्रिकं तथा । नभस्यतो वास्तुमध्ये मधोरेकेन कंटकः॥' इति ज्योतिषार्कवचनात् । नक्षत्रवारशूलः 'न पूर्वदिशि शक्रभे न विधुसौरिवारे तथा'(११।१०) इत्युक्तः। तिथिशूलः योगिनी 'नवभूम्यः शिववह्नयः' (१११३१) इत्युक्तः । संमुखसितशदिक्कपा इति । संमुखः शुक्रः संमुखो बुधः संमुखो दिक्स्वामी लालाटिकत्वेन 'यत्रोदितस्तां ककुभं न यायात्'(११।३७ ) इत्यादिनोक्तः । भृगुः वक्रतादीति । आदिशब्दाक्षीणास्तमितनीचगतपराजितत्वबाल्यादिकम् 'वक्रास्तनीच' (११।३८) इत्युक्तम् । परिघाख्यदंडकः 'पूर्वादिषु चतुर्दिनु' (११।३३) इत्युक्तः। युवतीरजः स्वपत्नीरजोदर्शनं,अशुचिता आशौचं,जननाशौचं मरणाशौचं च; अशुचितेत्यत्र 'न नम्पूर्वात्तत्पुरुषात्' इत्यनेन यो निषेधः स ह्येतस्मात्सूत्रादनंतरं वक्ष्यमाणविषये ध्येयः । उत्सवः दीपोत्सवादिः, आदिशब्देन विवाहव्रतबंधादिः। मृतपक्षः 'तमोभुक्ततारा' (११।१४) इत्युक्तः, रिक्तरवितर्कसंख्यकाचतुर्थीनवमीचतुर्दशीद्वादशीषष्ठ्यस्तिथयः, उपलक्षणत्वादष्टमीपूर्णिमामावास्याशुक्लप्रतिपदः । सौरिरविभौमवासराः शनिसूर्यमंगलवाराः । अयं च निषेधो दिक्शूले न सर्वत्रेति प्रागभिहितम् । वामपृष्ठगविधुरपि वामभागे पृष्ठभागेच चंद्रो निषिद्धः । उक्तं च-'संमुखोऽर्थस्य लाभाय दक्षिणे सुखसंपदः। १ टीकाकृद्भिः ‘भानि स्थाप्यान्यब्धिदिक्षु' इति मूलपाठमादृत्य परिघलक्षणं (पृ० ३५३) व्याख्यातम् , अत्र च 'पूर्वादिषु चतुर्दिक्षु' इति तत्पाठपठने हेतुर्मुग्यः। Page #428 -------------------------------------------------------------------------- ________________ ४१२ मुहूर्तचिंतामणिः। [यात्रादोषातिदेशः पृष्ठतो मरणं चंद्रे वामचंद्रे धनक्षयः ॥' इति । एतच्च निर्मूलत्वादुपेक्ष्यम् । सत्यपि मूलवत्त्वे एतत्सार्वद्वारिकनक्षत्रव्यतिरेकेण ज्ञेयम् , अन्यथा सर्वत्र दिग्द्वयनिषेधे पुष्यादीनां सर्वदिग्द्वारकता भज्येत । तथाडल:- रवे तोऽब्जभोन्मितिः' (११।२५) इत्युक्तः । उपलक्षणत्वाश्रमणमपि निषिद्धम् । वसुपंचकं वसुशब्देन धनिष्ठोत्तरार्धमुच्यते, तदादिकं नक्षत्रपंचकं; अभिजिदभिजित्संज्ञको मुहूर्तो दिवसेऽष्टमः, एतद्वयमपि दक्षिणे; एते पंचांगदोषाः॥ अथ लग्नदोषाः। लग्न इति । लग्ने यात्रालग्ने विचारयितव्ये सति जन्मर्वातन्वोर्जन्मराशिर्जन्मलग्नं तत्संबंधिमृतिगृहमष्टमस्थानं अहितच्छित्रुराशेः शत्रुलग्नाद्वा षष्ठस्थानं तदीशाः स्वजन्मराशितोऽष्टमाधिपतिः स्वजन्मलग्नाद्वाष्टमाधिपतिः स्वशत्रुराशितः षष्ठस्वामी स्वशत्रुजन्मलग्नाद्वा षष्ठाधिपतिः; एते लग्ने लग्नस्थिताः स्युः कुंभमीनःनवलवतनू कुंभलग्नं मीनलग्नं लग्नांतरसद्भावे वा कुंभनवांशो मीननवांशो वा पृष्ठोदयं च। पृष्ठोदयराशयः 'गोऽजाश्विकर्किमिथुनाः समृगा निशाख्याः पृष्ठोदया विमिथुनाः' इति वराहोक्ताः । पृष्ठाशासंस्थमृक्षं दिग्विलोमलग्नमित्यर्थः । दशमशनिः दशमे स्थाने शनिदेशमशनिः, अथो सप्तमे स्थाने स्थितः काव्यः शुक्रः, केंद्रे वका वक्रिणो ग्रहाः, वक्रिग्रहस्य वक्रिग्रहयोर्वा वक्रिग्रहाणां वा दिवसा वाराः; एते दोषा यात्रायां नेष्टा अवश्यं वाः । अत्रार्थे मूलवाक्यानि प्रागलिखितानि । अथ च विवाहोक्तदोषा विवाहप्रकरणेऽभिहिता ये दोषास्तेऽपि निषिद्धाः । त इमे-'उत्पातान्सहपातदग्धतिथिभिर्दुष्टांश्च योगांस्तथा चंद्रेज्योशनसामथास्तमयनं तिथ्याः क्षयर्थी तथा । गंडांतं च सविष्टि संक्रमदिनं तन्वंशपास्तं तथा तन्वंशेशविधूनथाष्टरिपुगान् पापस्य वर्गास्तथा॥ सेंदुरखगोदयांशमुदयास्ताशुद्धिचंडायुधान् खाजूंरं दशयोगयोगसहितं जामित्रलत्ताव्यधम् । बाणोपग्रहपापकर्तरि तथा तिथ्यक्षवारोत्थितं दुष्टं योगमथार्धयामकुलिकाद्यान्वारदोषानपि ॥ क्रूराक्रांतविमुक्तभं ग्रहणभं यत्क्रूरगंतव्यभं त्रेधोत्पातहतं च केतुहतभं संध्योदितं भं तथा । तद्वच्च ग्रहभिनयुद्धगतभं सर्वानिमान्संत्यजेदुद्वाहे शुभकर्मसु ग्रहकृतॉल्लनस्य दोषानपि ॥' इति । यदाह वसिष्ठः-'एकविंशन्महादोषास्त्वेते ब्रह्ममुखोदिताः । कदाचिन्नैव सीदति गुणानां कोटिकोटिभिः ॥ तस्मादेतेषु दोषेषु कदाचिन्नाचरेच्छुभम् । विवाहे विधवा नारी मरणं व्रतबंधने ॥ ग्रामनाशः प्रतिष्ठायां सीमन्ते गर्भनाशनम् । नवान्नभोजने मृत्युः कृषौ तत्फलनाशनम् ॥ कर्तुर्नाशो गृहारंभे प्रवेशे पतिनाशनम् । यात्रायां कर्तृनाशः स्थायुद्धयाने विशेषतः । लभ्यते सुमहत्पुण्यमेषु श्राद्धादिकर्मभिः ॥' इति । अत्र सप्तमशुक्रव्यतिरिक्तो जामित्रदोषो धनुरर्कादिमासदोषोऽपि नास्तीति ध्येयम् । यदुक्तं गणेशदैवज्ञैः-'सर्वमुद्वहन मासास्तदोषौ विना' इति । मासदोषो धनुरर्कादिः, अस्तदोषो जामित्रदोषः । तथापि शुक्रराहित्यं विव. क्षितम् । यतः सप्तमशुक्रस्य यात्रायां विशिष्य निषेधोऽस्ति । बुधगुरू तु प्रशस्तावेव । एवं मासदोषजामित्रदोषा विवाहोक्ता यात्रायां न निषिद्धाः Page #429 -------------------------------------------------------------------------- ________________ स्वगृहनिर्माणप्रयोजनं] वास्तुप्रकरणम् १२। ४१३ किंतु विहिता इत्येतद्वर्जम् ; अन्ये विवाहोका दोषा यात्रायां निषिद्धा एवेति शिवम् ॥ १०७ - १०९॥ अथ यात्राप्रकरणं गयेनोपसंहरतिइति श्रीदैवज्ञानंतसुतदैवज्ञरामज्योतिर्विद्विरचिते मुहूर्तचिंतामणौ .. यात्राप्रकरणं समाप्तम् ॥११॥ स्पष्टार्थमेतत् ॥ ज्योतिर्विद्वरनीलकंठविदुषः श्रीचंद्रिकायास्तथा पुत्रेणाहिगविप्रसारितधिया मौहूर्तचिंतामणेः ॥ गोविंदेन विनिर्मिते नयनिधौ पीयूषधाराभिधे व्याख्याने खलु यात्रिकप्रकरणं संपूर्णतामध्यगात् ॥ १ ॥ इति श्रीमदैवज्ञमुकुटालंकारनीलकंठज्योतिर्वित्पुनगोविंदज्योतिर्विद्विरचितायां मुहूर्तचिंतामणिटीकायां पीयूषधाराभिधायां यात्राप्रकरणं समाप्तम् ॥ ११ ॥ अथ वास्तुप्रकरणम् १२। गौरीनंदनमिष्टसिद्धिसदनं विघ्नावलीभेदनं नत्वा ज्योतिषिकायरामरचिते मौहूर्तचिंतामणौ । गोविंदो बुधनीलकंठविधिवित्सूनुः सतामग्रणी बह्वर्थ गृहनिर्मितिप्रकरणं व्याख्याति विद्वन्मुदे ॥ १॥ अथ वास्तुप्रकरणं व्याख्यायते। तत्र विविधप्रवेशे वसिष्ठायमिहिते 'अपूर्वसंज्ञः प्रथमः प्रवेश' इत्युक्तं स च गृहनिर्माणायत्त इति वास्तुनिर्माणप्रारंभ उच्यते । यदाह वसिष्ठः-'वास्तुज्ञानं प्रवक्ष्यामि यदुक्तं ब्रह्मणा पुरा। ग्रामसद्मपुरादीनां निर्माणं सूक्ष्मतोऽधुना ॥' इति । गृहनिर्माणप्रयोजनमभिहितं भविष्यत्पुराणे-'गृहस्थस्य क्रियाः सर्वा न सिध्यति गृह विना। यतस्तस्माद्गृहारंभप्रवेशसमयौ ब्रुवे ॥' गृहं स्वसत्ताकं । न सिध्यंति निष्फला भवंतीत्यर्थः। एतदपि स्पष्टमभिहितं तत्रैव-'परगेहे कृताः सर्वाः श्रौतस्मातक्रियाः शुभाः। निष्फलाः स्युर्यतस्तासां भूमीशः फलमभुते ॥' इत्येतत्सर्व मनस्यालोच्य गृहारंभप्रकरणं विवक्षुः ग्रंथकृद्धामपुरादिस्थानेषु स्वस्थ Page #430 -------------------------------------------------------------------------- ________________ मुहूर्तचिंतामणिः । [ नामभाद्रामशुभाशुभत्वं शुभमशुभं वा लाभमलाभं वा द्वारनिवेशनं च शार्दूलविक्रीडितेनाहयद्धं द्व्यंकसुतेशदिमितमसौ ग्रामः शुभो नामभात् स्वं वर्गं द्विगुणं विधाय परवर्गाढ्यं गजैः शेषितम् । काकिण्यस्त्वनयोश्च तद्विवरतो यस्याधिकाः सोऽर्थदो ४१४ d Sr द्वारं द्विजवैश्यशूद्रनृपराशीनां हितं पूर्वतः ॥ १ ॥ यदिति ॥ ग्रामः स्वस्य शुभोऽशुभो वेति तावश्चिंत्यते । व्यवहारप्रसिद्धं यन्नाम नीलकंठ इत्यादिकं तस्यावकहडाचक्रानुसारेण यदनुराधादिकं नक्षत्रं ततो यद्वृश्चिकादिकं भं राशिः स्यात्तन्नामभं । एवं यस्मिन् ग्रामे नगरे वा वस्तुमिध्यते तस्य चरणाद्विरित्यादिकं यन्नाम तस्माज्जातो यो राशिर्मीनादिस्तद्धामभमेवं नामद्वयं ज्ञात्वा नामभात् पुरुषनामराशेः सकाशाद् यद्वं यस्य ग्रामस्य भं राशिः स चेद्वितीयो नवमः पंचम एकादशसंख्यो दशमश्च स्यात्तदाऽसौ ग्रामः स्वस्य शुभः शुभफलदाता स्यादन्यथा न भवतीत्यर्थः । यथा-नीलकंठस्य वृश्चिकराशित: पंचमो मीनराशिरतश्चरणाद्विर्नीलकंठस्य वासयोग्यः सन् शुभफलदो न वाराणस्यादिः । उक्तं च मुहूर्तमार्तडे ( ६ । १) - 'नामर्क्षाद्विसुतांकदिग्भवगतो ग्रामः शुभोऽन्योऽन्यथा' इति । अथ काकिण्यादौ नामराशिरेव ग्राह्यः । उक्तं च'काकिण्यां वर्गशुद्धौ च वादे द्यूते स्वरोदये | मंत्रे पुनर्भूवरणे नामराशेः प्रधानता ॥' इति । अथ ग्रामात्मनोरुत्तमर्णत्वमधमर्णत्वं चाह - स्वं वर्गमिति । वर्गास्तु- 'अकचटतपयशवर्गाः खगेशमार्जारसिंहशुनाम् । सर्पानुमृगावीनां निजपंचमवैरिणामष्टौ ॥' इत्युक्ताः; तत्र यस्य पुंसः यत्संख्याको वर्गो गरुडादिः स्यात्तद्वर्गसंख्यां द्विगुणां विधाय कृत्वा परस्य ग्रामस्य वर्गसंख्यया आढ्यां च कृत्वा गजैरष्टभिः शेषितमवशिष्टं ताः काकिण्यो ज्ञेयाः पुंसः । एवं ग्रामस्यापि स्ववर्गसंख्यां द्विगुणां कृत्वा परस्य पुंसः वर्गसंख्यया युक्तां च कृत्वा गजभक्ताsaशिष्टाः काकियो ग्रामस्य भवंति । एवमनयोः पुरुषग्रामयोः काकिण्यः स्युः । तत्र तद्विवरतः पुरुषकाकिणीनां ग्रामकाकिणीनां च विवरमंतरं तस्मिन् क्रियमाणे यस्य ग्रामस्य दातृत्वात् पुंसः काकिण्यवशेषे पुंसो द्रव्यहानिः ग्रामस्य प्रतिग्रहीतृत्वादित्यर्थः । यथा - नीलकंठस्य वर्गः सर्पः तत्संख्या ५ द्विगुणा १० चरणाद्वेर्वर्गः सिंहस्तत्संख्यया ३ युक्ताः १३ गज ८ भक्तावशेषं ५ नीलकंठस्य काकिण्यः ५; एवं ग्रामवर्गसंख्या ३ द्विगुणा ६ नीलकंठवर्ग ५ संख्यया युक्ताः १९ अष्टभक्तावशेषं ३ ग्रामस्य काकिण्यः ३; द्वयोरंतरे शेषं २ नीलकंठस्य दातृत्वात्स्वद्रव्यहानिरित्यर्थः । उक्तं च- 'स्ववर्गं द्विगुणं कृत्वा परवर्गेण योजयेत् । अष्टभिस्तु हरेद्भागं योऽधिकः स ऋणी भवेत् ॥' इति । इतोऽन्यथाहुः कश्यपवसिष्ठनारदाः - 'अकारादिषु वर्गेषु दिक्षु प्रागादिषु क्रमात् । गृध्रमार्जारसिंहश्वसर्पाखुगजशाशकाः ॥ दिग्वर्गाणामियं योनिः स्वर्गात्पंचमो रिपुः । रिपुवर्गं परित्यज्य शेषवर्गाः शुभप्रदाः ॥ साध्यवर्गं पुरः स्थाप्य पृष्ठतः साधकं न्यसेत् । विभजेदष्टभिः शेषं साधकस्य धनं स्मृतम् ॥ व्यत्ययेनागतं शेषं साधकस्य ऋणं स्मृतम् । धनाधिकं स्वल्पऋण सर्वसंपत्प्रदं स्मृतम् ॥' इति । गृधोऽत्र गरुडः । गरुडसर्पयोर्महावैर Page #431 -------------------------------------------------------------------------- ________________ राशितो निषिद्धस्थानविवेकः ] वास्तुप्रकरणम् १२ । ४१५ सत्त्वात् । साध्येति । साध्यो वासयोग्यो प्रामादिस्तस्य वर्ग वर्गसंख्यां पुरः संस्थाप्य साधकस्य नीलकंठादेः वर्गसंख्यां पृष्ठतो न्यसेत् , एवं विशिष्टोsकोऽष्टभिर्भक्तः शेषं साधकस्य ऋणं स्यात् । यथा-साध्यवर्गसंख्या ३ पुरः स्थापिता साधकस्य वर्गसंख्या ५ च पृष्ठतः सा चैवं ५३ जातास्त्रिपंचाशत् अष्टभक्तावशिष्टं ५ धनं साधकस्य, विपरीतं स्थापितं यथा ३५ अष्टभक्तावशेष ३ साधकस्य ऋणं स्यात् । अथ द्वारनिवेशनमाह-अथेति। द्विजादिराशिमतां पुंसां क्रमेण पूर्वतः प्राच्यादिदिक्चतुष्टये द्वारं हितम् । यथा-द्विजराशयः कर्कवृश्चिकमीनास्तेषां पूर्वदिशि वैश्यराशयो वृषकन्यामकरास्तेषां दक्षिणदिशि शूद्रराशयो मिथुनतुलाकुंभास्तेषां पश्चिमदिशि नृपराशयो मेषसिंहधनुर्धरास्तेपामुत्तरदिशि द्वारनिवेश इत्यर्थः । यदाह ......॥ १ ॥ अथ राशिपरत्वेन ग्रामनिवासे निपिद्धस्थानानि वसंततिलकाछंदसाहगोसिंहनक्रमिथुनं निवसेन्न मध्ये ग्रामस्य पूर्वककुभोलिझपांगनाश्च । कर्को धनुस्तुलभमेषघटाश्च तद्व द्वर्गाः स्वपंचमपरा बलिनः स्युरैयाः ॥२॥ गोसिंहेति ॥ वस्तुमिष्टस्य ग्रामस्य वस्त्रविभागवन्नवधा विभागं कृत्वा मध्ये मध्यमविभागे गोसिंहनक्रमिथुनम् । समाहारद्वंद्वः । न वसेत् वृषसिंहमकरमिथुनराशिमंतः पुरुषाः न वसेयुः। अथ पूर्वककुभः पूर्व दिशातोऽष्टदिक्षु अलिवृश्चिकः तदादिराशिमंतः पुरुषाः न वसेयुः । यथा-पूर्वस्यां वृश्चिकः, आग्नेय्यां झपो मीनः, दक्षिणस्यां कन्या, नैर्ऋत्यां कर्कः, पश्चिमायां धनुः, वायव्यां तुला, उत्तरस्यां मेषः, ऐशान्यां कुंभः न वसेदित्यर्थः। अथ वर्गाः अकचटतपयशवर्गाः अष्टौ एंट्याः पूर्वदिशमारभ्य अष्ट दिक्षु बलिनः । यथा-अवर्गः पूर्वस्यां, कवर्ग आग्नेय्यां, चवर्गो दक्षिणस्यां, टवर्गो नैर्ऋत्यां, तवर्गः पश्चिमायां, पवर्गो वायव्यां, यवर्ग उत्तरस्यां, शवर्ग ऐशान्यां, बलीत्यर्थः । कीदृशा वर्गाः ? स्वपंचमपराः स्वस्मात् पंचमः परः शत्रुर्येषां ते। यस्य अवर्गः पूर्वस्यां वली तेन पश्चिमायां द्वारं निवासो वा न विधेयः। एवं कवर्गादीनामाग्नेयादिसतदिक्षु बलित्वं सप्रयोजन ज्ञेयम् । यदुक्तं मुहूर्तमार्तडे-'नामर्शाविसुतांकदिग्भवगतो ग्रामः शुभोऽन्योऽन्यथा तत्कोणेऽत्यभुवां शुभं निवसतांदोषः परेषामलम् । कन्याकर्किधनुस्तुला क्रियघटाः कौडिजौ याम्यतो मध्येऽन्ये न वसंत्यर्थेदककुभो वर्गाः स्युरोजस्विनः॥' इति। ओजस्विनो बलिनः। कौप्यों वृश्चिकः । चक्रोद्धारो यथा....॥ अथेष्ट नक्षत्रेष्टायाभ्यां इष्टभूम्यां विस्तारायामौ इंद्रवज्रयेंद्रवंशापूर्वार्धन चाहएकोनितेष्टक्षहता द्वितिथ्यो रूपोनितेष्टायहतेंदुनागैः। युक्ता घनश्चापि युता विभक्ता भूपाश्विभिः शेपमितो हि पिंडः॥३॥ १ टीकायां कश्यपादिवचनस्थमिदं प्रतीकम् । २ शत्रुत्वं चोक्तं भूपालवल्लभे'वर्गशास्तार्क्ष्यमार्जारसिंहश्वसर्पमूषकाः । इभैणी पूर्वतस्तेषां स्ववर्गात् पंचमो रिपुः' इति । ३ 'कोयंडजो' इति पाठमादृत्य 'कौपी-वृश्चिकः' इति मुहूर्तमार्तडकारो व्याख्यातवान् । Page #432 -------------------------------------------------------------------------- ________________ ४१६ मुहूतचिंतामणिः। [इष्टभूम्यां विस्तारायामो खेष्टायनक्षत्रभवोऽथ दैर्घ्यहत्स्याद्विस्तृतिविस्तृतिहच दीर्वता । ___ एकोनितेति ॥ खेष्टायेति ॥ यत्र गृहं कर्तुमिष्टं भवति सा भू नाकारा संभवति समचतुरस्रविषमचतुरस्रन्यसाधनेकभेदेन, तत्र यदेव नक्षत्रं स्वव्यवहारनाम्नः 'राशिकूटादिकं सर्वं दंपत्योरिव चिंतयेत्' इति वसिष्टोक्तेः विवाहोक्तमेलापकविधिना शुभदं स्यात्तदेव स्वेष्टभं कल्प्यं । कल्पितमक्षं तेन हता गुणिता द्वितिथ्यः १५२ कार्याः; ततो रूपेणोनितो य इष्टायो ध्वजादिकः तेन हता इंदुनागाः एकाशीतिस्तया युक्ताः कार्याः; ततो घनैः सप्तदशभिरपि युक्ताः,ततो भूपाश्विभिः षोडशाधिकद्विशत्या विभक्ताः, ततो भक्ते सति यच्छेषं तन्मितः पिंडः क्षेत्रफलं स्यात् , स च पिंडः स्वेष्टायनक्षत्रभवः स्वस्य गृहकर्तुरिष्टं यन्नक्षत्रं इष्टः आयश्च ताभ्यां भवतीति तादृशः स्यात् । अथ स पिंडो दैर्घ्यहृत् कल्पितदैर्घ्यभक्तः सन् विस्तृतिविस्तारः स्यात् । अथ स पिंडो विस्तृतिहृत् कल्पितविस्तारभक्तो दीर्घता स्यात् । उक्तं च सारसमुच्चये-'रूपाष्टभि ८१ विनिहतो भवनस्य बंधो नक्षत्रमिष्टमिह युग्मशरेंदु १५२ निघ्नम् । एकीकृतं धन १७ युतं च रसेंदुयुग्म २१६ भक्तस्ततो भवति मध्यगृहस्य पिंडः ॥' इति । अनोदाहरणम्-नीलकंठस्य अनुराधानक्षत्रं तस्य रोहिण्या सह मेलापकः संभवतीति इष्टभं रोहिणी कल्पितं, विषमायः सिंहस्तृतीयः३इष्टकं ४ एकोनितं ३ अनेन द्वितिथ्यो १५२ हताः ४५६ इष्टायः ३ रूपोनितः २ आभ्यामिदुनागा ८१ हताः १६२ एतैर्युक्ताः ६१८ घनै १७ र्युताः ६३५ भूपाश्विभिः २१६ विभक्ताः शेषमिदमेव क्षेत्रफलं गृहस्य २०३ अथ कल्पितदैये २९ अनेन भक्तो लब्धो विस्तारः ७ अथ कल्पितविस्तृतिः ७ अनेन भक्तो लब्धं दैर्घ्य २९ । यदाह प्रकारांतरेण गोपिराज:-'विष्णुं व्येकायगोभू १९ हतिभयुजि फलं गोपिराजो भशेषात्सायं वाहाष्टिदृग्नेष्टयुतमहिहता दृक्प्रकृत्याख्य २१ विश्वे १३ । बाणाः ५ सिद्धा २४ ष्टि १६ नागो ८ व २७ तिरति १९ गिरिश ११ व्या ३ कृती२२ द्र १४ तु ६ तत्त्वा २५ त्यष्ट्यं १७ क ९क्ष्मा १ नखे २० ना १२ र्णव४ विकृति २३ दिना १५ यु७ त्कृती २६ भेंदु १८ काष्टाः १०॥ इति । अस्यार्थः-गोपिराजो व्येकायगोभूहतिभयुजि सति भशेषात् विष्णुं अहिहता दृक्प्रकृत्याख्या विश्वादयः फलं स्यादित्याहेति योजना । विगत एको यस्मात्स व्येकः स चासौ आयश्च व्येकायः ध्वजादिरिष्टायः स च गोभुवश्च १९ एषां हतिः परस्परगुणनं व्येकायगोभूहतिश्च भं च व्येकायगोभूहतिभे तयोर्युक् व्येकायगोभूहतिभयुक् तस्मिन्सति भशेषाद्धैः २७ भक्ते सति यच्छेषं तस्माद्विष्णुनामानं शिष्यं अहिहताश्चाष्टगुणिताः दृक् द्वौ प्रकृत्याख्या एकविंशतिर्विश्वे त्रयो १ सद्यःप्रतीत्यर्थ शेषाङ्क-फलविज्ञापकं चक्रमत्र दीयते; तद्यथा| शेषाङ्कः | १ २ ३ ४ ५ ६ ७ ८ ९ ० ११ १२ १३ १४ | फलं २२११३ ५२४ १६ ८२७१९/११ ३२२१४ ६ | शेषाङ्कः १५/१६/१७/१८/१९२० २१ २२ २३ २४/२५ २६ २७ । | फलं २५१७ ९ १२०१२/४/२३/१५ ७२६१८१० । Page #433 -------------------------------------------------------------------------- ________________ वर्णपरत्वेनायविचारः] वास्तुप्रकरणम् १२ । दशेत्यादयो गृहक्षेत्रफलं सायमिष्टायसहितं स्यात् इत्याह वदति गोपिराजः । अत्रोदाहरणम् - पूर्वोक्त इष्टायः ३ व्येकः २ गोभू १९ हतिः ३८ इष्टर्क्ष रोहिणी तत्संख्यया ४ युतं ४२ अस्मात् भैः २७ शेषं १५ एतत्संख्यया फलं २५ अहि८ हतं २०० इष्टायसहितं २०३ इदं स्वेष्टायनक्षत्रभवं क्षेत्रफलं पूर्वसममेव । अथ महागृहप्रमाणार्थमाह - वेति । वा अथवा इष्टायसहितं जातं यत्फलं तत् अष्टिनेष्टयुतं अष्टिश्च दृशश्च अष्टिदृशः षोडशाधिकद्विशती २१६ तया हतो गुणितो य इष्ट एकद्वित्र्याद्यंकस्तेन युक्तं कार्यं तन्मनोभीष्टस्य महागृहस्य क्षेत्रफलं स्यादित्यर्थः ॥ ३ ॥ ४१७ अथेंद्रवंशोत्तरार्धेन ध्वजान्वदन्नायैर्वर्णपरत्वेन च द्वारनिवेशनं उपजात्याहआया ध्वज धूमहरिश्वगोखरेभध्वांक्षकाः पिंड इहाष्टशेषिते ॥ ४ ॥ ध्वजादिकाः सर्वदिशि ध्वजे मुखं कार्य हरौ पूर्वयमोत्तरे तथा । प्राच्यां वृषे प्राग्यमयोर्गजेऽथवा पश्चादुदक्पूर्वयमे द्विजादितः ५ आया इति ॥ ध्वजादीति ॥ पिंडे क्षेत्रफलेऽष्टशेषिते अष्टभक्ते सति यदवशिष्यते तत्परिमिता आया ध्वजादिकाः स्युः । ध्वजधूमौ प्रसिद्धौ, हरिः सिंहः, श्वा कुक्कुरः, गौर्वृषः, खरो गर्दभः, इभो हस्ती, ध्वांक्षः काकः, ध्वांक्ष एव ध्वांक्षकः, स्वार्थे कः । यदाह विश्वकर्मा - 'विस्तारेणाहतं दैर्घ्यं विभजेदृष्टभिस्ततः । यच्छेषं स भवेदायो ध्वजाद्यास्ते स्युरष्टधा । ध्वजो धूमो हरिः श्वा गौः खरेभौ वायसोऽष्टमः । पूर्वादिदिक्षु चाष्टानां ध्वजादीनामवस्थितिः ॥' इति । सर्वदिशीति । ध्वजाख्ये आये आगते सति सर्वदिशि दिक्चतुष्टयेऽपि गृहद्वाराणि कार्याणि स्युरित्यर्थः । हरौ सिंहाये पूर्वदक्षिणोत्तरदिक्षु द्वाराणि स्युः न पश्चिमदिशि । तथा वृषाख्ये आये प्राच्यां दिश्येव मुखं, नान्यदिक्षु । गजाख्ये आये प्राग्यमयोः पूर्वदक्षिणदिशोगृहमुखं कार्यं स्यात् । यदाह श्रीपतिः - 'गृहेषु चाया विषमाः प्रशस्ताः स्वस्थानगाः सर्वगतो ध्वजश्च । ध्वजो हरौ तौ च गजे वृषे ते वृषो हि नान्यत्र समाश्रितः स्यात् ॥' वसिष्ठोsपि - 'विषमायः शुभायैव समायः शोकदुःखदः । ध्वजः सिंहे तौ च गजे ह्येते गवि शुभप्रदाः ॥ वृषो न पूज्यतेऽन्यत्र ध्वजः सर्वत्र पूजितः ॥' इति । अस्यार्थःध्वजः प्रागवस्थित्या तत्र पूजित एव परंतु हरावपि दक्षिणस्यामभिपूजितः तौ च गजे तौ ध्वजसिंहायौ गज उत्तरस्यामपि प्रशस्तौ स्वस्थाने किमुत ? एते ध्वजसिंहगजाख्या आयाः पश्चिमायामपि पूजिताः स्वस्थाने किमुत ? वृष आयस्तु अन्यत्र पूर्वदक्षिणोत्तरदिक्षु न पूजितः किंतु स्वावस्थित्या पश्चिमदिश्येव । ध्वजस्तु सर्वत्रैव पूजित इति । अनया रीत्या ये आया यत्रावस्थिताः स्युस्तत्तत्संमुखदिक्षु द्वाराणि स्युरित्यर्थः । 'प्रत्यग्ध्वजे द्वारमथोऽक्षिण पूर्व हरावपि स्याद्विरदे च याम्याम्' इति श्रीपत्युक्तेः । महेश्वरोऽपि - 'सर्वद्वार इह ध्वजो वरुणदिग्द्वारं च हित्वा हरिः प्राग्द्वारो वृषभो गजो यमसुरेशाशामुखः स्याच्छुभः' इति । आयानां प्रयोजनांतरमाह विश्वकर्मा - 'वृषः सिंहो गजश्चैव कुंडे कर्कटकीटयोः । द्विपः पुनः प्रयोक्तव्यो वापीकूपसरःसु च ॥ मृगेंद्र - Page #434 -------------------------------------------------------------------------- ________________ ४१८ मुहूर्तचिंतामणिः। [गृहारंभे निपिद्धकालः मासने दद्याच्छयने च गजं पुनः । वृष भोजनपात्रेषु छत्रादिषु पुनर्वजम् ॥ अग्निवेश्मसु सर्वेषु गृहे वह्नयुपजीविनाम् । धूमं नियोजयेत्केत्तिच्छ्वानं म्लेच्छा. दिजातिषु ॥ खरो वैश्यगृहे शस्तो ध्वांक्षः शेषकुटीषु च । वृषसिंहौ ध्वज. श्चापि प्रासादपुरवेश्मसु ॥' इति । वसिष्ठः-'गजाये वा ध्वजाये वा गजानां सदनं शुभम् । अश्वालयं ध्वजाये वा खराये वृषभेऽपि वा। उष्ट्राणां मंदिरं कार्य गजाये वा वृषे ध्वजे ॥ पशुसन वृषाये वा ध्वजाये वा शुभप्रदम् । शय्यासु वृषभः शस्तः पीठे सिंहः शुभप्रदः ॥ अमत्रच्छत्रवस्त्राणां वृषाये वा ध्वजेऽपि वा ॥ पादुकोपानही कायौं सिंहाख्येऽप्यथवा ध्वजे । उक्तानामप्यनुक्तानां मंदिराणां ध्वजः शुभः ॥' इति । अथ ब्राह्मणादिवर्णपरत्वेन द्वारनिवेशनमुच्यते-अथवेति । द्विजादितः ब्राह्मणादिवर्णविभागेन पश्चादित्यादिदिक्षु गृहद्वारं स्यात् । यथा-ब्राह्मणस्य पश्चान्मुखं गृहद्वारं, क्षत्रियस्योद. ग्दिशि, वैश्यस्य पूर्वस्यां, शूद्रस्य यमे दक्षिणस्यामित्यर्थः । उक्तं च श्रीपतिना'ध्वजे प्रतीच्या मुखमग्रजानामुदङ्मुखं भूमिभृतां च सिंहे। विशो वृषे प्राग्वदनं गजे तु शूद्रस्य याम्याननमामनंति ॥' इति । टोडरानंदे च्यवन:'ध्वजे परास्यं विप्राणां राज्ञां सिंहेऽप्युदङ्मुखम् । गजे शूद्रस्य याम्यास्यं विशः पूर्वामुखं वृषे ॥' इति ॥ ४-५॥ अथ गृहारंभे विशिष्यकालनिषेधमुपजातिकयाहगृहेशतत्स्त्रीसुखवित्तनाशोऽर्केन्द्विज्यशुक्रे विवलेऽस्तनीचे । कर्तुः स्थिति! विधुवास्तुनोमें पुरःस्थिते पृष्ठगते खनिः स्यात् ६ - गृहेशेति ॥ चेद् गृहस्वामिनो जन्मराशिवशाद्' अर्केन्द्विज्यशुक्रे विबले निर्बले अस्ते अस्तंगते नीचे नीचराशिगते वा सति क्रमाद् गृहेशतत्स्त्रीसुखवित्तनाशो भवति । यथा-सूर्ये दुष्टे विबले निर्बले नीचस्थिते च गृहेशस्य नाशः, इंदौ चंद्रे निर्बले अस्तमिते नीचगते वा गृहेशस्त्रीनाशः, इज्ये गुरौ तादृशे सति गृहेशसुखनाशः, शुक्रे तादृशे गृहेशस्य वित्तं द्रव्यं तस्य नाशः। यदाह श्रीपतिः-रवौ गृहस्थो गृहिणी शशांके धनं सिते देवगुरौ च सौख्यम् । विनाशमायाति बलेन हीने नीचस्थिते वाऽस्तमुपागते वा॥' इति । वसिष्ठस्तु नैःस्वमेवाह-'नीचे शत्रुगते जीवे शुक्रे वा यदि वा बुधे । शशांके वा कृतं गेह. मतिनिःस्वत्वमामुयात् ॥' इति । इदमस्तस्याप्युपलक्षणम् । अत्रास्तगतत्वं किं क्षितिजसन्निधिकृतमुत सूर्यकृतं विवक्षितमिति ? उच्यते-क्षितिजसन्निधिकृतमस्तगत्वं तु दैनंदिनं तच्च सूर्यादिसकलग्रहसाधारणम् । तस्मिन्विवक्षितेऽस्तगतत्वविशेषणानर्थक्यम् । अनेनैवाशयेन वास्तुशास्त्रे पठ्यते 'अस्तदोषोऽत्र न ग्राह्यः प्रातिदैवसिको बुधैः । नास्तदोषः सदा चांद्रे न मैत्रेऽब्जस्य नीचता ॥' इति । अब्जस्य चंद्रस्य । कर्तुरिति । विधुवास्तुनोभै यन्नक्षत्रे दिनचंद्रगस्तद्विधुभं यद्गृहस्य विस्तारायामवशादुत्पन्नं भं तद्गृहभं तस्मिन्पुरःस्थिते संमुखस्थिते सति कर्तुर्गृहनिर्मातुस्तस्मिन्गृहे स्थितिर्निवासो न स्यात् । पृष्ठगते वा विधुवास्तुनोहें . १ वेश्यागृहे इति पाठांतरम् । Page #435 -------------------------------------------------------------------------- ________________ सव्ययसकथनमंशज्ञानं] वास्तुप्रकरणम् १२ । ४१९ सति खनिः खननं चौरकृतापहारं तद्वशात्सर्वस्वहानिरित्यर्थः । उक्तं च वास्तुशास्त्रे-ऋक्षं चंद्रस्य वास्तोश्च त्वने पृष्ठे न शस्यते ॥' इति । श्रीपतिना तु चंद्रफलमुक्तम्-'क्षपाकरे नैव गृहं पुरःस्थे कुर्याद्वसेत्तत्र न जातु कर्ता । पतंति स्वमानि च पृष्ठसंस्थे यत्नेन तस्मादिदमत्र चिंत्यम् ॥' इति । पुरःस्थितत्वं लग्नवशादिति केचिद्वयाचख्युः । यथा-प्राङ्मुखे गृहे कर्तव्ये लग्नस्थश्चंद्रः पुरःस्थितो भवति,दक्षिणमुखे तु गृहे वामगः, पश्चिममुखे तु पृष्ठगः, उत्तरमुखे तु दक्षिणगः,एवं दशमस्थश्चंद्रो दक्षिणमुखे गृहे संमुखः। एवं सर्वास्वपि दिक्षु पृष्ठगत्वं संमुखत्वं च ध्येयम् । तत्रार्थात् दक्षिणवामगत्वं चंद्रस्य समीचीनमित्यर्थः । रत्नमालाटीकाकारो महावास्तुदिग्द्वारभक्रमेण संमुखादिवाऽवस्थेति व्याख्यत् । यथा गृहद्वारं यस्यां दिशि विधित्सितं तद्दिङ्नक्षत्रेषु गृहारंभो न कार्य इति । अर्थादिङ्नक्षत्रवशेन वामदक्षिणगे चंद्रे गृहारंभः सुखेन कार्यः । यदाह ब्रह्मशंभुः-'धनलाभः प्रवासः स्यादायुश्चौरभयं क्रमात् ॥ दक्षाग्रवामपृष्ठस्थे गृहभर्तुर्निशाकरे ॥' इति । केचित्सूर्येऽप्येवमेव फलमाहुः । यदाह ब्रह्मशंभुरेव-'भानावपि तथैव स्यादधिकं च तदंतरे। धनलाभो मृतिाधिरविनाशो विलोमतः॥' इति । तदंतरे विदिक्षु, विलोमतः ऐशानवायव्यनैर्ऋत्याग्नेयदिक्षु क्रमेण धनलाभो मरणं व्याधिरविनाशः फलं स्यादित्यर्थः । इदं दिग्द्वारनक्षत्रवशेन चंद्रफलं तुल्यन्यायत्वाद्वास्तुनक्षत्रेऽपि ध्येयम् । यदुक्तं ब्रह्मशंभुना'गृहायलब्धऋक्षेषु यत्र ऋक्षे च चंद्रमाः । शलाकासप्तके ध्येयं कृत्तिकादिक्रमेण च ॥ वामदक्षिणभागे तु प्रशस्तं शांतिकारकम् । अग्रे पृष्ठे न दातव्यं यदीच्छेच्छ्रेय आत्मनः ॥ ऋक्षं चंद्रस्य वास्तोश्च त्वग्रे पृष्ठे न शस्यते ॥' इति । [अय. माशयः-कृत्तिकादिसप्तनक्षत्रेषु अनुराधादिसप्तसु वा गृहनक्षत्रे चंद्रनक्षत्रे च सति पूर्वद्वारं पश्चिमद्वारं वा न कार्य तत्र चंद्रः पृष्ठस्थितोऽग्रस्थितो वा भवति । एवं मघादिसप्तसु धनिष्ठादिसप्तसु वा गृहनक्षत्रे चंद्रनक्षत्रे वा सति दक्षिणद्वारमुत्तरद्वारं वा न कार्यमित्यर्थः ] ॥ ६ ॥ __अथैवमायं सफलमभिधाय व्ययकथनपुरःसरं अंशकज्ञानं सफलमुपजात्याहभं नागतष्टं व्यय ईरितोऽसौ ध्रुवादिनामाक्षरयुक् सपिंडः। तष्टो गुणैरिंद्रकृतांतभूपा मंशा भवेयुर्न शुभोऽन्तकोऽत्र ॥७॥ भमिति ॥ प्रागुक्तदिशा कल्पितं यद् गृहभं तन्नागैरष्टभिस्तष्टं भक्तावशिष्टं स व्यय ईरितः । यथा-भं रोहिणी ४ नागतष्टं ४ अयमेव व्ययः असौ व्ययः ध्रुवादिनामाक्षरयुक् ध्रुवादीनां नामानि अधुनैव वक्ष्यति यत्संख्याकानि दिक्ष द्वाराणि चिकीर्षितानि तदनुरोधेन यदागतं ध्रुवादिगृहनाम तदक्षरसंख्यया युक्तः ततः सपिंडः प्रागानीतपिंडयुक्तः गुणैस्त्रिभिस्तष्टः भक्तावशिष्टः एकद्वित्रिशेषेण इंद्रयमराजसंज्ञकास्त्रयोंऽशाः स्युः।अत्र गृहारंभेऽन्तको यमाख्योऽशको न शुभः । अर्थादिंदराजानौ शुभफलदौ । यदाह श्रीपतिः-'धिष्ण्ये विभक्ते वसुभिर्व्ययः स्याद्बह्वायमूनव्ययमालयं सत् । व्ययान्विते क्षेत्रफले गृहस्य ध्रुवादिनामाक्षरमिश्रिते च । त्रिभिर्विभक्ते क्रमशोऽशकः स्यादिंद्रो यमो Page #436 -------------------------------------------------------------------------- ________________ मुहूर्तचिंतामणिः । [ शाला ध्रुवांकानयनं भूपतिरंतकोऽसन् ॥' इति । वास्तुशास्त्रेऽपि - ' मूलराशौ व्यये क्षिप्ले गृहनामाक्षरैः पुनः । युते हरेत्रिभिर्भागं यच्छेषं सोंऽशको भवेत् । इंद्रो यमश्च राजा स्याद्यमांशी नैव शोभनः ॥' इति । मूलराशिः = क्षेत्रफलम् ॥ ७ ॥ अथ विवक्षितशालाध्रुवांकानयनं पथ्यावक्राख्येनानुष्टुभाह ४२० दिक्षु पूर्वादितः शालाध्रुवा भूद्व कृता गजाः । शालाभ्रुवांकसंयोगः सैको वेश्म ध्रुवादिकम् ॥ ८ ॥ दिविति ॥ पूर्वादितो दिक्षु प्राच्यादिषु चतुसृषु दिक्षु इमे शालाधुवाः स्युः । यथा- प्राच्यां द्वारे चिकीर्षिते शालाध्रुवांकः एकः, दक्षिणस्यां द्वौ, पश्चिमायां कृताश्चत्वारः, उत्तरस्यां गजाः अष्टौ । अथ दिक्परत्वेन यावंति द्वाराणि एकं द्वे त्रीणि चत्वारि वा चिकीर्षितानि तावतां शालाध्रुवांकानां संयोगः कार्यः सैकः एकयुक्तः सन् ध्रुवादिकं वेश्म गृहं स्यात् । अत्रोपपत्तिर्नीलकंठगुरुचरणप्रसादत उच्यते । यथाह नारदः - 'गुरोरंधो लघु न्यस्य पुरस्तात्पूर्ववन्यसेत् । गुरुभिः पश्चिमं पूर्वं यावत्सर्वलघुर्भवेत् ॥' एतच्च सामान्यतो यस्मिन्कस्मिंश्चित्प्रस्तारे संभवति तथापि गृहेषु विदिग्द्वारानौचित्याद्दिक्ष्वेव द्वाराणां प्राशस्त्योक्तेः दिशां च चतुष्ट्वाच्चत्वार एव गुरवः स्थाप्याः, ततो गुरोरधो लघुः स्थाप्य इति विधिः कार्यः । तत्र प्रथमातिक्रमे कारणाभावादादिगुरोरेवाधो लघुः स्थाप्यः । एवमग्रेऽपि । गुरुलघुस्वरूपं वृत्तरत्नाकरे - 'असौ ग्वक्रो ज्ञेयोऽन्यो मात्रिको लजुः' इति । असौ ग् गुरुर्वको लेख्यः यथा ( s) भन्यो गुरुव्यतिरिक्तः ल लघुर्मान्त्रिकः एकमात्रः ऋजुः सरलः ऊर्ध्वदंडाकृतिर्लेख्यः । यथा (1) चतुर्णां प्रस्तारो यथा अत्र दिशां चतुष्ट्वात् क्रमेण लघुस्थानेनालिंदं गुरुमाश्रितं । 'प्रदक्षिणैर्गृहद्वारादलिंदैर्देशषड्विधा' इति । गृहभेदाः स्युरिति शेषः । अलिंदं अलिंदशब्देन शालाभित्तेर्बाह्ये या गमनिका जालकावृतांगणसंमुखा क्रियते सा ज्ञेयेत्युत्पलः । प्रतिशालाख्यमिति महादेवः । ' प्रघाणप्रघणालिंदा बहिर्द्वारप्रकोष्टके' इत्यमरः । तत्र चतुर्गुरोः प्रथमभेदस्य लघोरभावाद् दिग्द्वाराभावादूर्ध्वमुखं गृहं कोष्ठीसदृशं स्यात् । अन्येषु पंचदशसु भेदेषु लघुस्थानावस्थित्या तत्तद्दिक्षु द्वाराणि स्युः । तत्र ग्रंथद्विनापि प्रस्तारोक्तिं लाघवेन शालाध्रुवानानयति स्म । यथा एकस्मिन्नेव द्वारे प्राच्यां चिकीर्षिते शालाध्रुवांक: १ एवं दक्षिणदिशि २ पश्चिमदिशि च ४ उत्तरदिशि च ८ प्रत्यक्षतो ते । तत्र द्वित्र्यादिद्वारज्ञानार्थमुपायः । यद्यद्दिक्षु द्वारेच्छा तत्तद्दिक्शाला ध्रुवयोगः कार्यः; यथा- पूर्वस्यां पश्चिमायां १ गुरोरधो लघुः स्थाप्यः पुरस्तादूर्ध्ववन्यसेत् ॥ गुरुभिः पश्चिमं पूर्वं सर्वलघ्ववधिविधिः ॥ इति पाठो लिखितपुस्तके । 9 S S S S RISSS ३ ऽ।ऽऽ ४ । ।ss || ५s s । s ६ । ऽ । ऽ ७s ।।s ८। ।।s ९sss १० ।ऽऽ । ११ऽ।ऽ। १२।।s १३ ऽ ऽ । १४ ।ऽ । १५७ ।। १६।।। Page #437 -------------------------------------------------------------------------- ________________ षोडशगृहनामानि ] वास्तुप्रकरणम् १२ । च द्वारे अभीष्टे शालाध्रुवौ १।४ अनयोर्योगः ५ एवं पूर्वदक्षिणोत्तरद्वारेऽभीष्टे शालावानां १।२।८ एषां योगः ११ एवं दिकूचतुष्टयेऽपि द्वारे शालाध्रुवांकयोगः १५ प्रस्तारलिखितक्रमेण प्रत्यक्षत उपलभ्यते । ध्रुवादिसंज्ञास्तु चतुर्गुरुप्रस्तारमारभ्योक्ताः । तत्र चतुर्गुरोः प्रथमभेदस्य दिग्द्वाराभावेन गणनाभावात्तत्त्यागस्य प्राप्तत्वात्स माभूदित्येकयोगः कृतः सर्वत्र । यथा पूर्वपश्चिमयोः ६ कांताख्यं गृहं जातमेवं पूर्वदक्षिणोत्तरदिक्षु १२ धनदाख्यं गृहं दिक्चतुष्टये १६ विजयाख्यं गृहम् । अत एवोक्तम् 'दिक्षु पूर्वादितः' इत्यादि ॥ ८ ॥ अथैवं विवक्षितध्रुवानयनमभिधायेदानीं ध्रुवादीनां नामाक्षरसंख्यां पथ्यावऋछंदसाह - ह ९ तिथ्यैकष्टष्टिगोरुद्रशक्रे नामाक्षरं त्र्यम् । भून्धी दिग्वह्निविश्वेषु द्वौ नंगेऽधेयः ॥ ९ ॥ तिथ्यर्केति ॥ 'दिक्षु पूर्वादितः' इत्यादिना यद्वेश्मध्रुवादि समागतं तस्य 'शाला ध्रुवांकसंयोगः सैकः' इत्युक्तदिशा संख्यामवधारयेत्, सा चेटसंख्या पंचदशी द्वादशी अष्टमी षोडशी नवमी एकादशी चतुर्दशी वा स्यात्तदा गृहनामाक्षरत्रयात्मकं स्यात् । यथा - १५।१२।८।१६।९।११।१४ अत्र त्रीण्येवाक्षराणि । पुनः सैव संख्या प्रथमाद्वितीयाचतुर्थीपंचमीषष्ठीदशमीतृतीयात्रयोदशी वा स्यात्तदा गृहनाम द्वौ अक्षरद्वयात्मकं स्यात्; यथा- १।२।४|५| ६ । १० । ३ । १३ अत्र द्वे अक्षरे । पुनः सा संख्या सप्तमी स्यात्तदाऽब्धयश्चतुरक्षरं गृहनाम । यथा - ७ चत्वार्यक्षराणि । एतच्च पद्यं ध्रुवधान्याद्यक्षरगणनामूलमिति नात्र मूलवाक्य समानार्थकस्योपन्यासः ॥ ९ ॥ ૪ १ रिपुदं वित्तदं नाशं इति पाठः । ३६ मु० चि० 93 ४२१ अथ षोडशगृहाणां नामान्यार्यागीतिछंद साहध्रुवधान्ये जयनंदौ खरकांतमनोरमं सुमुखदुर्मुखोग्रं च । अहितं धनदं नाशं चाक्रंदं विपुलविजयाख्यं स्यात् ॥ १० ॥ ध्रुवधान्ये इति || आर्यागीत्याख्यं छंदोदः । तल्लक्षणं वृत्तरत्नाकरे'आर्या पूर्वार्ध यदि गुरुणैकेनाधिकेन निधने युक्तम् । इतरं तद्वन्निखिलं यदीयमुदितेयमार्यागीतिः ॥ ' इति । तथा प्रस्तारः ॥ ऽऽऽऽ॥॥॥॥॥॥ ऽ ऽऽ पूर्वार्धे । उत्तरार्धे ॥ऽ॥ऽऽऽऽऽऽ ॥ ॥ऽऽऽअत्रार्यासामान्यात्तल्लक्षणमप्यनुसंधेयम् । विशेषलक्षणस्य सामान्यलक्षणाधीनत्वात् । निधने प्रांते । ध्रुवेत्यादिपद्यं स्पष्टार्थमेव तथापि विविच्यते । यथा ध्रुवधान्ये जयनंदाविति चेतरेतरयोगद्वंद्वः खरकान्तेत्यादिः समाहारद्वंद्वः । अहितं विपक्षाख्यं । उग्रं क्रूरम् । विपुल विजयाख्यमिति समाहारद्वंद्वः । ध्रुवमूर्ध्वमुखं प्रथमं गृहं, धान्यं पूर्वद्वारं द्वितीयं, जयं दक्षिणद्वारं तृतीयं, नंद प्राग्दक्षिणद्वारं चतुर्थ, खरं पश्चिमद्वारं पंचमं, कांतं प्राक्प्रत्यग्द्वारं षष्ठं, मनोरमं दक्षिणपश्चिमद्वारं सप्तमं, सुमुखं प्राग्दक्षिणपश्चिमद्वारमष्टमं, दुर्मुखमुत्तरद्वारं नवमं, उग्रं पूर्वोत्तरद्वारं दशमं, अहितं विपक्षाख्यं दक्षिणोत्तरद्वारमेकादशं धनदं पूर्वदक्षिणोत्तरद्वारं द्वादशं, नाशं क्षयाख्यं पश्चिमोत्तरद्वारं त्रयोदर्श, आक्रंदं पूर्वपश्चिमोत्तरद्वारं चतुर्दशं विपुलं दक्षिणपश्चिमोत्तरद्वारं पंचदर्श, I Page #438 -------------------------------------------------------------------------- ________________ मुहूर्तचिंतामणिः । [ गृहस्यायादिनवकं 1 विजयं पूर्वदक्षिणपश्चिमोत्तरद्वारं षोडशमिति । ननु ध्रुवाद्यक्षरसंख्याज्ञानं प्राक्पद्येनैवोक्तं, तत्किं पुनर्धुवादीनां नामग्रहणेन ? उच्यते, - नामसदृश फलसूचनार्थं तदुपादानम्, अन्यथा द्वारानुरोधेन ध्रुवाद्यक्षरसंख्यायोगे उक्ते कीदृशानां गृहाणां विधिर्निषेधो वेति न निश्चीयेत । तस्माद्येषां शुभफलदानि नामानि तेषां गृहाणां ग्रहणं येषां चाशुभं फलं तेषां त्यागो विधेय इति निष्कृष्टोऽर्थः । उक्तं च वसिष्ठेन - 'ध्रुवसंज्ञं गृहं त्वाद्यं धनधान्यसुखप्रदम् । धान्यं धनप्रदं नृणां जयं स्याद्विजयप्रदम् । नंदं स्त्रीहानिदं नूनं खरं संपद्विनाशनम् । पुत्रपौत्रप्रदं कांत श्रीप्रदं स्यान्मनोरमम् ॥ सुवक्रं भोगदं नूनं दुर्मुखं विसुखप्रदम् । सर्वदुःखप्रदं क्रूरं विपक्षं शत्रुभीतिदम् । धनदं धनदं गेहं क्षयं सर्वक्षयप्रदम् । आनंदं शोकजननं विपुलं श्रीयशःप्रदम् । विपुलं नामसदृशं धनदं विजयाभिधम् ॥' इति ॥ १० ॥ अथ केषांचिन्मतेन गृहस्यायादिनवकमुपजातिका पथ्यावक्राभ्यामाहपिंडे नेवांकां गगजाग्निर्नागनागान्धिनागैर्गुणिते क्रमेण । विभाजिते नागनगां सूर्य नागर्क्षतिध्यक्षख भानुभिश्च ॥ ११ ॥ आयो वारोंशको द्रव्यमृणमृक्षं तिथिर्युतिः । आयुश्वाथ गृहेशर्क्षगृहभैक्यं मृतिप्रदम् ॥ १२ ॥ पिंड इति ॥ आय इति ॥ पिंडे क्षेत्रफले नवधा स्थापिते क्रमेण नवादिभिरंकैर्गुणिते क्रमेण च नागादिभिरंकैर्भक्ते सति यदवशिष्टं तदायादिकं स्यात् । यथा - क्षेत्रफलं नवभिर्गुणितमष्टभिर्भक्तं शिष्टमायः स्यात्, पुनर्नवभिर्गुणितं सप्तभिर्भक्तं शिष्टं वारः । पुनः षद्भिर्गुणितं नवभिर्भक्तं शिष्टोंऽशकः । पुनरष्टभिर्गुणितं द्वादशभिर्भक्तं शिष्टं द्रव्यं स्यात् । पुनस्त्रिभिर्गुणितमष्टभिर्भक्तं शिष्टमृणं । पुनरष्टभिर्गुणितं सप्तविंशत्या भक्तं शिष्टमृक्षं । पुनरष्टभिर्गुणितं पंचदशभिर्भक्तं शिष्टा तिथिः । पुनश्चतुर्भिर्गुणितं सप्तविंशत्या भक्तं शिष्टा युतियोंगो विष्कंभादिः । पुनरष्टभिर्गुणितं क्षेत्रफलं खभानु १२० भिर्भक्त शिष्टमायुः स्यादित्यर्थः । तद्यथा - पिंड : २०३ नवभिर्गुणित: १८२७ अष्टभक्ते शेषं ३ सिंह आयो जातः, पुनः नवभिर्गुणितं सप्तभिर्भक्तं शिष्टं वारः ७ एवं सर्वेऽप्यानीताः अंशकः ३ द्रव्यं ४ ऋणं १ नक्षत्रं ४ रोहिणी तिथिः ४ चतुर्थी योगः २ प्रीतिः आयुः ६४ । उक्तं च- 'गोऽङ्कर्त्वष्टगुणाष्टना गजलधिव्यालै ९ । ९ । ६।८।३।८।८।४ । ८ । र्हतं भूफलं नागाद्वयंकदिवाकराष्ट्रभतिथीयोगैः खसूर्यै ८ । ७ । ९ । १२ । ८ । २७ | १५ | २७ । १२० र्भजेत् । आयं वारमथांशकं धनमृणं तारां तिथिं चिंतयेद्योगं चायुरितीह शेषकपदे भागैर्हते तांत्रिकैः ॥' इति । वसिष्ठादिभिस्तु षडेते निर्दिष्टाः । यदाह - 'विस्तारायामगुणितं गृहस्य पदमुच्यते । तस्माद्धुनाऽधनायर्क्षे वासराख्यनवांशकाः ॥ गजरामांकवस्वकऋतुभि ८ । ३ । ९ । ८ । ९ । ६ । गुणितात्पदात् । सूर्याष्टाष्टर्क्षशैलांक १२ । ८|८| २७ । ७ । ९ विभक्तादवशिष्टकाः ॥ संपूर्णाः शुभदास्त्वेते ह्यसंपूर्णास्त्वनिष्टदाः ॥' इति । पदं क्षेत्रफलं । अधनमृणम् । अत्रोपपत्तिः गुणकानां भाजकानां च ४२२ १ वसिष्ठो हि विपक्ष इति पाठोऽत्र पठति; गर्गस्तु - 'सुपक्षं धनदं क्षयम्' इत्यनेन तमेव 'सुपक्ष' इत्याचष्टे । एवमत्र सुपक्ष-विपक्षयोर्वैषम्यं कथं लुप्तं तत्सुज्ञैर्विमर्शनीयम् । Page #439 -------------------------------------------------------------------------- ________________ गृह-गृहकोंरेकभे फलं] वास्तुप्रकरणम् १२ । ४२३ आया अष्टावेव, वाराः सप्तैव, अंशा नवैव, धनं ऋणं, नक्षत्राणि सप्तविंशतिः, तिथयः पंचदश, योगाः सप्तविंशतिः, परमायुः विंशत्यधिकशतम् । अथैषामायादीनां प्रयोजनमुच्यतेऽस्माभिः। आयस्य तावत्-'विषमायः शुभायैव समायः शोकदुःखदः' इति वसिष्ठोक्तेः। वाराणां च 'सूर्यारवारराश्यंशाः सदा वह्निभयप्रदाः। शेषग्रहाणां वारांशाः कर्तुरिष्टार्थसिद्धिदाः ॥' इति । यथा-गणिते. नागतो भौमवारः सोऽपि निंद्यः, तद्राशी मेषवृश्चिकौ निंद्यौ, तदंशाः यस्मिन्कस्मिंश्चिल्लग्ने मेषवृश्चिकनवांशावपि निंद्यौ । एवमन्येष्वपि वारेषु नवांशानां च । 'गृहस्यागतं भं यत्तु तद्विराश्यात्मकं यदि । तन्नवांशवशात्तत्र ज्ञातव्यं सर्वदा गृहे' इति । यथा कृत्तिका द्विराश्यात्मिका तत्रैकावशेष मेषः, न्यादिशेषे वृषः, मृगेऽपि ब्यधिके शेषे मिथुनमन्यथा वृषः,पुनर्वसावप्यंशकत्रयं यावन्मिथुनमन्यथा कर्कः, एवमुत्तराफल्गुन्यादिषु द्विराश्यात्मकेपूहनीयं विद्वद्भिः । नतु निःसंदिग्धेष्वेकराश्यात्मकेषु अश्विन्यादिषु । धनर्णयोश्च 'धनाधिकं गृहं वृद्ध्यै निर्धनाय ऋणाधिक मिति । नक्षत्रस्य 'विपत्प्रदा विपत्तारा प्रत्यरा प्रतिकूलदा। निधनाख्या तारका तु सर्वथा निधनप्रदा ॥ विवय॑तारकास्वेतन्निर्माणमशुभप्रदम् । कुर्वन्नज्ञानतो मोहाद् दुःखभाव्याधिभाग्भवेत् ॥' अयमर्थः-गृहनक्षत्रात् दिनभं यत्संख्यं तन्नवभक्तमवशिष्टतारका विपत्तारादिकाः स्युश्चेत्तदाऽनिष्टास्तद्दिने गृहारंभं न कुर्यादन्यस्मिन्दिने शुभतारासु गृहारंभं कुर्यादित्यर्थः-इति केचित् । अपरे तु गृहकर्तुर्नामनक्षत्रागृहभं गण्यं नवभक्तमवशिष्टं विपत्तारादिकं स्यात्तदा तद्गृहमनिष्टमन्यथा शुभमिति । यदाह कश्यपः-'दत्ते दुःखं तृतीया पंचमक्ष यशःक्षयम् । आयुःक्षयं सप्तमक्षं कर्तुर्भाद्यदि सप्तभम् ॥' इति । वास्तुशास्त्रेऽपि-'गृहभात्स्वामिभं गण्यं भक्तं च नवभिः पुनः। यच्छेषं सा भवेत्तारा सप्तपंचत्रिकाधमा ॥' इति । यदा तु गृहकर्तुग़हस्य चैकं नक्षत्रं चेत्स्यात्तदा तच्छुभमशुभं वेति निर्णय स्वयमेवाह-अथेति। गृहेशो गृहस्वामी तस्या नक्षत्रं प्रागुक्तप्रकारेण चानीतं भं गृहभं तयोरैक्यं तयोरेकमेव चेनं स्यात्तद्गृहकर्तुर्मृतिप्रदं मरणकरं स्यात् । यदाह वसिष्ठः-'गृहस्य तत्पतेस्त्वेकं धिष्ण्यं चेन्निधनप्रदम्' इति । निधनं मरणम् । राश्यैक्येऽयं दोषः, नतु भिन्नराशित्वे । तद्वाक्यस्य विवाहप्रकरणोक्तत्वात् । कैश्चिदन्यदपि प्रयो. जनमुक्तम् । तदुक्तं व्यवहारसमुच्चये-'त्रिभिस्त्रिभिर्वेश्मनि कृत्तिकाद्यैरुच्छेदपुत्राप्तिधनानि शोकः । शत्रोभयं राजभयं च मृत्युः सुखं प्रवासश्च नव प्रभेदाः ॥' इति । गृहभवशाद्राशिज्ञानेऽपि प्रयोजनमाह स एव-राशिकूटादिकं सर्व दंपत्योरिव चिंतयेत् । नैःस्वं द्विादशे नूनं त्रिकोणे त्वनपत्यता। षष्टाष्टके नैधनं स्याद्व्यत्यये मध्यमं स्मृतम् । परेषु शुभदं प्रोक्तं गेहं तत्कर्तृराशितः॥' इति । व्यत्ययेद्वादशद्वितीय इत्यादिके। अन्ये राशिकूटप्रभेदा 'वर्णों वश्यम्' (६।२१) इत्यादिका विवाहप्रकरणोक्ता ध्येयाः । सर्वपदोपादानात् 'राक्षसामरमोक्तं गणयोन्यादिकं पुनः । ज्ञेयं ज्योतिषशास्त्रात्तदिदमित्यत्र नोदितम् ॥' इति वास्तुशास्त्रोक्तेश्च । कृत्तिकादिषु द्विराशिषु भेषु राशिनिर्णयो वास्तुशास्त्रे-'अश्विन्यादित्रयं मेषे सिंहे प्रोक्तं मघात्रयम् । मूलादि Page #440 -------------------------------------------------------------------------- ________________ ४२४ मुहूर्तचिंतामणिः। [गृहारंभे वृषवास्तुचक्रं त्रितयं चापे शेषेषु नवराशयः ॥' इति । शेषेषु भेषु रोहिण्यादिषु नवराशयो ज्ञेयाः । यथा-रोहिणीमृगयोवृषः, आपुनर्वस्वोमिथुनं, पुष्याश्लेषयोः कर्कः, एवं हस्तादिद्विके श्रवणादिद्विके च कन्यामकराया राशयः स्युरित्यर्थः । अयं च पक्षो वास्तुशास्त्रे नवांशानुक्तेरुक्तः । अत्र राशिकूटे नाडीवेधो न दोषाय । उक्तं च ज्योतिश्चिंतामणो—'सेव्यसेवकयोश्चैव गृहतत्स्वामिनोरपि। परस्परं मित्रयोश्चेदेकनाडी प्रशस्यते ॥' इति । तिथिप्रयोजनं तिथ्यानयनप्रकारांतरं च वास्तुशास्त्रे-'शकाहतं क्षेत्रफलं त्रिंशद्भक्तावशेषकम् । तिथिः प्रतिपदा ज्ञेया दर्श रिक्तां च वर्जयेत् ॥' इति । तुल्यन्यायत्वाच्छुभाशुभप्रकरणोक्तं दुष्टयोगवर्जनं च योगानां प्रयोजनं आयुषश्च प्रयोजनं स्पष्टमेव यत् 'तावत्कालं गृहस्थिति'रिति । अथ यत्र हस्तादिगणनया क्षेत्रफले क्रियमाणे आयव्ययांशकादिषु शुद्धिोंपलभ्यते, तत्राप्यंगुलादिकं निक्षिप्य संशोध्य वा क्षेत्रफलं साध्यम् । यदाह भीमपराक्रमः-'करमानादगुणं चेत्तदांगुलादि प्रदाय हित्वा वा । क्षेत्रफलं गणितेन प्रसाधयेदिष्टसिद्ध्यर्थम् ॥' इति । अगुणमायव्ययादिगुणशून्यं यदि स्यात्तदेष्टसिद्ध्यर्थमिष्टानामायांशकानां सिद्ध्यर्थं प्रक्षिपेत् । अत्र वृत्तादिक्षेत्रेषु क्षेत्रफलानयनं लीलावतीप्रभृतिषु ज्योतिर्ग्रथेषु द्रष्टव्यम् ॥ ११-१२॥ ___ अथ गृहारंभे वृषवास्तुचक्रं शालिनीभ्यामाहगेहाद्यारंभेर्कभाद्वत्सशीर्षे रोमैर्दाहो वेदभैरग्रपादे । शून्यं वेदैः पृष्ठपादे स्थिरत्वं रामैः पृष्ठे श्रीयुगैर्दक्षकुक्षौ ॥१३॥ लाभो रामैः पुच्छगैः स्वामिनाशो वेदैःस्व्यं वामकुक्षौ मुखस्थैः । रामैः पीडा संततं वार्कधिष्ण्या,श्व रुद्रैर्दिग्भैिरुक्तं वसत्सत् ॥१४॥ गेहाद्यारंभ इति ॥लाभो रामैरिति ॥ गेहं गृहम् , आदिशब्देन प्रासादादि । तदारंभे सति अर्कभात् सूर्याक्रांतनक्षत्राद् रामैस्त्रिभिभैंर्वत्सस्य वृषस्य शीर्षे स्थितैर्दाहः फलं स्यात् । ततो वेदभैश्चतुर्भिभैंः अग्रपादे पुरःस्थितपादद्वये स्थितैः शून्यं जनवासशून्यं स्यात् । ततश्चतुर्भि|ः पृष्टपादद्वये स्थितैः स्थिरत्वं गृहकर्तुः। ततो रामभैः पृष्ठे स्थितैः श्रीः स्यात् । ततो युगैश्चतुर्भिदक्षिणकुक्षौ स्थितैर्लाभः । ततस्त्रिभिः पुच्छगैः स्वामिनो गृहकर्तुर्नाशः । ततो वेदैश्चतुर्भिभैर्वामकुक्षौ स्थितैः नैःस्व्यं दारिद्यम् । ततस्त्रिभिर्मुखस्थितैर्गृहकर्तुः पीडा संततमनवरतं स्यात् । उक्तं च ज्योतिःप्रकाशे-'वास्तुचक्र प्रवक्ष्यामि यच्च व्यासेन भाषितम् । यदृक्षे वर्तते भानुस्तत्रादौ त्रीणि मस्तके ॥ चतुष्कमग्रपादे स्यात्पुनश्चत्वारि पश्चिमे । पृष्ठे च त्रीणि ऋक्षाणि कुक्षौ चत्वारि वामतः ॥ चत्वारि दक्षिणे कुक्षौ पुच्छे भत्रयमेव च । मुखे भत्रयमेव स्युरष्टाविंशतितारकाः ॥ शिरस्ताराग्निदाहाय गृहेऽवासोऽग्रपादयोः । स्थैर्य स्यात्पश्चिमे पादे पृष्ठे चैव धनागमः ॥ कुक्षौ स्यादक्षिणे लाभो वामकुक्षौ दरिद्रता ॥ पुच्छे स्वामिविनाशः स्यान्मुखे पीडा निरंतरम् ॥' इति । पितामहानंतचरणा अपि-'त्रिवेदवेदाग्नियुगाग्निवेदत्रिकेषु ३।४। ४ । ३ । ४ । Page #441 -------------------------------------------------------------------------- ________________ गृहनिर्माणनक्षत्राणि] वास्तुप्रकरणम् १२ । ४२५ ३। ४ । ३ भानो शशिभं गृहेषु । दाहो विनाशः स्थिरता धनं श्रीः शून्यं च दारिद्यवधौ क्रमेण ॥' इति । अथैतस्य चक्रस्य प्रकारांतरेण निष्कृष्टमर्थमाहवेति। अर्कधिष्ण्यादश्वैः सप्तभैरसत्फलं रुदैरेकादशभिः सत्फलं, ततो दिग्भिदेशभैरसत्फलमुक्तं स्यादिति निष्कृष्टोऽर्थः । उक्तं च-रविभात्सप्त नेष्टानि शुभान्येकादशाष्टमात् । दश शेषाण्यनिष्टानि साभिजिद्वृषवास्तुनि ॥' इति । पूर्व सविस्तरोक्तिस्तु मूलवाक्यानुरोधात् ॥ १३-१४ ॥ ___ अथ सौरचांद्रमासैक्येन प्राच्यादिदिक्षु द्वाराणि गृहनिर्माणनक्षत्राणि च सूतिकागृहनिर्माणप्रवेशमुहूतौं च स्रग्धराछंदसाहकुंभे फाल्गुने प्रागपरमुखगृहं श्रावणे सिंहकोः __ पौषे नके च याम्योत्तरमुखसदनं गोऽजगेर्के च राधे । मार्गे जूकालिगे सद्धृवमृदुवरुणवातिवस्वर्कपुष्यैः सूतीगेहं त्वदित्यां हरिभविधिभयोस्तत्र शस्तः प्रवेशः॥१५॥ कुंभेऽर्क इति ॥ कुंभे कुंभस्थिते सूर्ये फाल्गुने च मासि प्रागपरमुखं गृहं प्राङ्मुखं पश्चिममुखं च गृहं सत् शुभफलदं कार्य स्यादित्यर्थः । श्रावणे मासि सिंहकर्किसंक्रांत्योः प्रागपरमुखं गृहं स्यात् । पौषे मासे नके मकरसंक्रांती च प्रागपरमुखं गृहं स्यात् । अथ गोऽजगे वृषमेषगे सूर्ये राधे वैशाखे मासे च तथा मार्गे मार्गशीर्षे मासि जूकालिगे तुलावृश्चिकगते सूर्य सति याम्योत्तरमुखं सदनं दक्षिणमुखमुत्तरमुखं च सदनं स्यात् । यदाह नारदः-'गृहसंस्थापनं सूर्ये मेषस्थे शुभदं भवेत् । वृषस्थे धनवृद्धिः स्यान्मिथुने मरणं ध्रुवम् ॥ कर्कटे शुभदं प्रोक्तं सिंहे भृत्यविवर्धनम् । कन्या रोगं तुला सौख्यं वृश्चिके धनवर्धनम् ॥ कार्मुके तु महाहानिर्मकरे स्याद्धनागमः। कुंभे तु रत्नलाभः स्यान्मीने सद्म भयावहम् ॥' इति । चांद्रमासानाह श्रीपतिः'शोको धान्यं मृतिपशुहृती द्रव्यवृद्धिर्विनाशो युद्धं भृत्यक्षतिरथ धनं श्रीश्च वह्वेर्भयं च । लक्ष्मीप्राप्तिर्भवति भवनारंभकर्तुः क्रमेण चैत्रादूचे मुनिरिति फलं वास्तुशास्त्रोपदिष्टम् ॥' इति । अन्यच्च-'भाषाढचैत्राश्वयुजोर्जमाघज्येष्ठेषु सप्रौष्ठपदेषु नूनम् । निकेतनानां घटनं नृपाणां योगेश्वराचार्यमते न शस्तम् ॥' इति । मते न इति पदच्छेदः। अत्र सौराणां चांद्रमासानां च महान् शुभाशुभफलभेदेन विरोधः । तत्र चिकीर्षितगृहद्वारानुकूलरविसंक्रमसमीचीनविहितमासेष्वेव वैशाखादिषु गृहारंभः कार्य इति विरोधाभाव इति पितचरणाः। तत्र द्वारनियममाह श्रीपतिः–'कर्किनक्रहरिकुंभगतेऽर्के पूर्वपश्चिममुखानि गृहाणि । तौलिमेषवृषवृश्चिकयाते दक्षिणोत्तरमुखानि च कुर्यात् ॥ अन्यथा यदि करोति दुर्मतिाधिशोकधननाशमनुते । मीनचापमिथुनांगनागते कारयेन्न गृहमेव भास्करे ॥' इति । तत्र कुंभार्कसहिते फाल्गुने मासि पूर्वपश्चिममुखं गृहम् । सिंहकर्कसहिते श्रावणे मासि तादृशमेव गृहमुक्ताद्धेतोः । एवं मकरार्कसहिते पौषे मासे । अनेनैव हेतुना Page #442 -------------------------------------------------------------------------- ________________ ४२६ मुहूर्तचिंतामणिः। [सूतिकागृहनिर्माणकालः दक्षिणोत्तरमुखं गृहं मेषवृषार्कसहिते वैशाखे स्यात् । तुलावृश्चिकार्कसहिते मार्गशीर्षमासे तथैव गृहं स्यादित्यर्थः । अथात्र सौराणां चांद्राणां च मासानां निषेधस्तृणादिनिर्मेयगृहाद्यारंभे नैव भवति । यदुक्तं व्यवहारसमुच्चये-'निषिद्धेष्वपि ऋक्षेषु स्वानुकूले शुभे दिने । तृणदारुगृहारंभे मासदोषो न विद्यते॥' इति।जगन्मोहनेऽपि-पाषाणेष्ट्यादिगेहानि निंद्यमासे न कारयेत् । तृणदारुगृहारंभे मासदोषो न विद्यते ॥' अत्र केचिदनियतदिग्गृहारंभे सर्वदा कालदोषो न प्रवर्तत इत्याहुस्तन्न । वचनाभावात् किंच-'दिङ्मूढे कुलनाशः स्यात्' इत्यनियतदिग्गृहस्य विचारकोटिसन्निवेशाभावात् । अथ गृहनिर्माणनक्षत्राण्याह-ध्रुवेति। ध्रुवाणि मृदूनि च प्रसिद्धानि, वरुणः शतभं, स्वाती प्रसिद्धा, वसुः धनिष्ठा, अर्को हस्तः, पुष्यश्च; एषु भेषु गृहनिर्माणं सत् शुभफलदम् । यदाह गर्ग:-'त्र्युत्तरेऽपि च रोहिण्यां पुष्ये मैत्रे करद्वये । धनिष्ठाद्वितये पौष्णे गृहारंभःप्रशस्यते ॥' अत्र वाक्ये मृगानभिधानं तदुक्तिमहेश्वरवाक्यालोचनेन । 'प्रारंभो भवनस्य वारुणमृदुस्वात्यर्कपुष्यध्रुवैर्वस्वृक्षेण युतैः' इति । अथ सूतिकागृहनिर्माणे विशेषमाह-सूतीगेहमिति ॥ अदित्यां पुनर्वसौ सूतिकागृहनिर्माणं शस्तम् । शस्त इति वक्ष्यमाणस्यात्र नपुंसकत्वेन संबंधात् । तत्रेति । तत्र सूतीगृहे हरिभविधिभयोः श्रवणाभिजितोर्नक्षत्रयोः प्रवेशः शस्तः । उक्तं च श्रीपतिना-'पुनर्वसौ च सूतिकागृहस्य निर्मितिः शुभा । विरंचिविष्णुभांतरे प्रवेशनं हितं भवेत् ॥' इति । केचित्त-विरंचिः रोहिणी, विष्णुभं श्रवणः, तयोरंतरे मध्यवर्तिनि नक्षत्रसमुदाये इत्याहुः । तन्न । असंदेहार्थ विरंचिभादिभूपेषु इत्येवं ब्रूयात् । तस्माद् विरंचिरभिजिन्नक्षत्रम् । अन्तरे मध्ये । विरंचिविष्णुतारयोरित्येव सप्तमीविभक्त्याऽधिकरणत्वे बोधिते अंतरपदोक्तिः स्पष्टार्था । तदेतद्राह्मणव्यतिरिक्तवर्णत्रयसाधारणम् । यदाह लल्लः'पुनर्वसौ नृपादीनां कर्तव्यं सूतिकागृहम् । श्रवणाभिजितोर्मध्ये प्रवेशं तत्र कारयेत् ॥' इति । आवश्यकत्वे तु श्रवणाभिजितोर्मुहूर्तस्तदुदयो वा ग्राह्य इत्यर्थः । ब्राह्मणस्य तु प्रागुक्तनक्षत्रेप्वेव सूतिकागृहनिर्माणप्रवेशौ । तत्र सूतिकागृहं नैर्ऋत्यां कार्यम् । यदाह वृद्धवसिष्ठः-'ऐयां तु विक्रमस्थानमाग्नेय्यां पचनालयः । वारुण्यां भोजनगृहं नैर्ऋत्यां सूतिकागृहम् ॥ याम्यायां शयनस्थानं वायव्यां पशुमंदिरम् । कौबेयां तु धनस्थानमैशान्यां देवतालयः ॥' इति । स्मृतिभास्करे गर्गः-'वारेऽनुकूले राशौ तु दिने दोषविवर्जिते । सानुकूलदिशि प्रोक्तं सूतिकाभवनं बुधैः॥' इति। कालनियम उक्तो रत्नकोशे'आसन्नप्रसवे मासि कुर्याच्चैव विशेषतः । तद्वत्प्रसवकाले स्यादिति शास्त्रेषु निश्चयः' इति। वराहेणात्रानेकनक्षत्राद्यभिधानं कृतम् । यथा-'हस्तादित्यशशांकतिष्यपवनप्राजेशमित्रोत्तराश्चित्राश्विश्रवणेषु वृश्चिकघटौ हित्वा विरिक्ते तिथौ। शुक्राचार्यशनैश्चरज्ञशशिना वारेऽनुकूले विधौ सद्भिर्वेश्मनि सूतिकागृहविधिः क्षेमंकरः कीर्त्यते ॥' इति । वेश्मनि-चतुर्थस्थाने। सद्भिः शुभग्रहैः । सूतिका १ 'सदा दोषो न विद्यते' इति पाठांतरम्। २ प्रजेशस्य प्रजापतेर्नक्षत्रं प्राजेशं रोहिणी । Page #443 -------------------------------------------------------------------------- ________________ सौरचांद्रमासानामेकवाक्यता] वास्तुप्रकरणम् १२ । ४२७ गृहप्रवेशे कालविशेषमाह ज्योतिर्वसिष्ठः-'अथातः संप्रवक्ष्यामि सूतिकागारवेशनम् । मासे तु नवमे प्राप्ते पूर्वपक्षे शुभे दिने ॥ प्रसूतिसंभवे काले सद्य एव प्रवेशयेत् ॥' इति । पूर्वपक्षे शुक्लपक्षे । नक्षत्रादीन्याह गर्गः'रोहिण्यदवपौष्णेषु स्वातीवारुणयोरपि । पुष्ये पुनर्वसौ हस्तधनिष्ठाव्युत्तरासु च ॥ मैत्रत्वाष्ट्रे तथाश्विन्यां सूतिकागारवेशनम् । सर्वे शुभग्रहाः केंद्रे पापाश्च त्रिषडायगाः ॥ शुभांशे शुभसंदृष्टौ सूतिकावेशनं शुभम् ॥' इति ॥ १५॥ ___ अथ प्रागभिहितानां सौराणां चांद्राणां वा मासानां प्रकारांतरेणैकवाक्यतां शार्दूलविक्रीडितेनाहकैश्चिन्मेपरवौ मधौ वृषभगे ज्येष्ठे शुचौ कर्कटे भाद्रे सिंहगते घटेऽश्वयुजि चोर्जे लौ मृगे पौषके । माघे नक्रघटे शुभं निगदितं गेहं, तथोर्जी न सन् कन्यायां च तपाधनुष्यपि न सन् कृष्णादिमासाद्भवेत्॥१६॥ कैश्चिदिति॥ पूर्व दिग्द्वारविशेषेणैकवाक्यता उक्ता इदानीमेतादृशी उच्यते । मेषसंस्थे रवौ मधौ चैत्रे मासि गेहं प्रारब्धं शुभं स्यात् । तथा वृषस्थे सूर्य ज्येष्ठे मासे, कर्कस्थेऽर्के शुचावाषाढे सिंहगतेऽर्के भाद्रपदे मासि धटे तुलास्थे रवौ आश्वयुजि आश्विनमासे अलौ वृश्चिकगेऽर्के ऊर्जे कार्तिके मासि मृगे मकरस्थेऽर्के पौषे मासे नक्रघटे मकरकुंभस्थेऽर्के माधे मासि प्रारब्धं गृहं शुभं स्यादित्यर्थः-इति कैश्चिन्निगदितमस्यायमाशयः। मीनचाप-'(पृ.४२५)इत्यादिना द्विस्वभावराशयो निषिद्धाः; शोको धान्यम्' (पृ.४२५) इत्यादिना च कियंतश्चांद्रा अपि मासा निषिद्धाः । अतोऽन्ये सौराश्चांद्रा वा विहितास्तेषामयमेकवाक्यताप्रकारः । मेषस्थे रवौ चैत्रेऽपि गृहं शुभम् । यस्तु चैत्रो निषिद्धः स मीनार्कविषयः । वृषभस्थे रवी ज्येष्ठेऽपि शुभम् । वैशाखस्तु विहित एवास्ति । ज्येष्ठो निषिद्धः स मिथुनार्कविषयः। कर्कटस्थे सूर्ये आषाढेऽपि शुभम्। आषाढनिषेधस्तु मिथुनार्कविषयः, सिंहगते सूर्ये भाद्रपदेऽपि शुभं, श्रावणश्चेत्तत्र स्यात्स विहितत्वादेव शुभः । यस्तु भाद्रपदनिषेधः स कन्याविषयः । तुलागते सूर्ये आश्विनेऽपि शुभम् । यस्त्वस्य निषेधः स कन्यापरः । वृश्चिकस्थे सूर्य कार्तिकेऽपि शुभं स्यात् । निषेधविषयं स्वयमेव वक्ष्यति । मार्गशीर्षों विहित एव । मकरस्थे सूर्ये पौषे शुभम् । धनुरर्कस्य साहित्ये सोऽप्यशुभः । मकरकुंभस्थे सूर्ये माघेऽपि शुभम् । निषेधस्तु धनुरर्कविषयः । अत एव–'पौषफाल्गुनवैशाखमाघश्रावणकार्तिकाः । मासाः स्युर्गृहनिर्माणे पुत्रारोग्यशुभप्रदाः ॥' इति नारदवाक्यम् । 'मासे तपस्ये तपसि माधवे नभसि त्विषे । ऊर्जे च गृहनिर्माणं पुत्रपौत्रधनप्रदम् ॥' इति वसिष्ठवाक्यं च आश्विनकार्तिक Page #444 -------------------------------------------------------------------------- ________________ ४२८ मुहूर्तचिंतामणिः । [तिथिपरत्वेन गृहद्वारनिषेधः माघमासानां शुभत्वप्रतिपादकं तुलावृश्चिकमकरकुंभार्कसाहित्यप्राशस्त्यपरम् । वचनांतरबोधितो निषेधः प्रागुक्तविषय एव । एवं फाल्गुनस्य शुभत्वं कुंभार्कविषयम् । मीनार्कसाहित्ये तु निषिद्धः सः । ननु कार्तिकमाघमासौ श्रीपतिना निषिद्धौ तयोः को विषय इत्यत आह । तथेति । ऊर्जः कार्तिको मासः कन्यायां कन्यागते रवौ न सन् न शुभः । च पुनः तपाः माघमासो धनुषि धनुरर्के न सन् । अपिः पादपूरणे । नन्वेतदयुक्तं प्रतिभाति । यतश्चांद्रमासेन चैत्रादिमाससंज्ञाः संति, तत्र कार्तिके मासि कन्यासंक्रांतिःमाघेमासि धनुरर्कश्च कदापि न संभवेत् ; यतः कार्तिकस्य माघस्य वा शुक्लप्रतिपदादि त्रिंशत्तिथयः यावत्तावत् तत्संज्ञेत्यत आह-कृष्णादिमासादिति । अस्ति द्विविधो मासः-शुक्लादिः, कृष्णादिश्चेति । तत्र शुक्लप्रतिपदमारभ्यामावास्यापर्यंत शुक्लादिः; कृष्णपक्षप्रतिपदमारभ्य पूर्णिमांतं कृष्णादिः । यथा चैत्रशुक्लपक्षो मतद्वयेऽपि स एव, चैत्रपौर्णमास्यनंतरं कृष्णपक्षश्चैत्रमास एव, एवं चांदमासो भवति । स एव कृष्णपक्षो यदि वैशाखकृष्णपक्षत्वेन व्यवह्रियते तदनंतरभावी शुक्लपक्षो वैशाखशुक्लः सर्ववादिसिद्धः तदा कृष्णादिर्मासः संभवति । उभयथा हि शास्त्रे व्यवहारः। 'अश्वयुक्कृष्णपक्षे तु श्राद्धं कुर्यादिने दिने।' इति । अष्टमी कृष्णपक्षस्य रोहिणी ऋक्षसंयुता । भवेत्प्रौष्ठपदे मासि जयंती नाम सा स्मृता ॥' इति । अत्र यदि दर्शातो मासो विवक्ष्यते तदा भाद्रपदकृष्णपक्षे श्रावणे मासि चेत्येवं ब्रूयात् । तदेतन्मासस्य कृष्णादित्वे प्रमाणम् । 'अत ऊर्ध्वममी युक्ता गतकालाद्यसंख्यया ॥ मासीकृतायुतैर्मासैर्मधुशुक्लादिभिर्गतैः ॥' इत्यादीनि बहुवाक्यानि शुक्लादित्वे प्रमाणम् । तत्राश्विनपूर्णिमातः कार्तिक शुक्लपौर्णिमांतं कृष्णादित्वेन कार्तिकव्यवहारात् कन्यासंक्रांतिसंभवात् निषेध उपपन्नो भवति । एवमेव माघे मासि धनुरर्कसंभवे तनिषेधस्य सार्थक्यमित्यलमियता ॥ १६ ॥ अथ तिथिपरत्वेन द्वार निषेधमुपजातिकयाहपूर्णेदुतः प्राग्वदनं नवम्यादिपूत्तरास्यं त्वथ पश्चिमास्यम् । दर्शादितः शुक्लदले नवम्यादौ दक्षिणास्यं न शुभं वदंति ॥१७॥ पूर्णंदुत इति ॥ पूर्णेन्दुतः पूर्णिमातः कृष्णाष्टमीपर्यंत प्राङ्मुखं गृहं शुभं न वदंति । कृष्णनवमीतश्चतुर्दशीपर्यंतं क्रियमाणं गृहमुत्तरास्यं न शुभम् । अथ दर्शादितः शुक्लाष्टमीपर्यंतं पश्चिमास्यं गृहं न शुभम् । शुक्लनवमीतश्चतुर्दशीपर्यंतं दक्षिणास्यं गृहं न शुभं वदंति । तासु तिथिषु तत्तद्दिङ्मुखं गृहं न कर्तव्यमिति वाक्यार्थः फलितः । यदुक्तं व्यवहारसमुच्चये-'पूर्णिमातोऽष्टमी यावत्पूर्वास्यं वर्जयेद्गृहम् । उत्तरास्यं न कुर्वीत नवम्यादिचतुर्दशीम् ॥ अमावास्याष्टमी यावत्पश्चिमास्यं विवर्जयेत् । नवम्यादौ दक्षिणास्यं यावच्छुक्लचतुदेशीम् ॥' इति । विहिततिथयोऽपि तत्रैवोक्ताः-'द्वितीया पंचमी मुख्यास्तृती Page #445 -------------------------------------------------------------------------- ________________ गृहारंभे पंचांग-लमशुद्धी] वास्तुप्रकरणम् १२। ४२९ या षष्ठिका तथा। सप्तमी दशमी चैव द्वादश्येकादशी तथा ॥ त्रयोदशी पंचदशी तिथयः स्युः शुभावहाः । दारिद्यं प्रतिपत्कुर्याच्चतुर्थी धनहारिणी ॥ अष्टम्युच्चाटनं चैव नवमी शस्त्रघातिनी । दर्श राजभयं ज्ञेयं भूते दारविनाशनम् ॥' इति। पक्षफलं च तत्रैव-'शुक्लपक्षे भवेत्सौख्यं कृष्णे तस्करतो भयम् ॥' इति । अथात्र प्रसंगाद् द्वारवेधफलानि लिख्यते । तत्र वराहः-'मार्गतरुकोणकूपस्तंभभ्रमविद्धमशुभदं द्वारम् । उच्छ्रायाविर्गुणितां भूमिं त्यक्त्वा न दोषाय ॥' इति । भ्रमो जलनिर्गमप्रदेशः प्रणालिकेत्यर्थः । विद्धं संमुखावस्थितं । अत्रोच्छ्रायो द्वारस्य गृह्यते । तथा च गर्गः-'द्वारोच्छायाद्विगुणितां भूमिं त्यक्त्वा बहिःस्थिताः। न दोषाय भवंत्येते' इति । 'रथ्याविद्धं द्वार नाशाय कुमारदोषदं तरुणा। पंकद्वारे शोको व्ययोऽम्बुनिःस्राविणि प्रोक्तः ॥ कूपेनापस्मारो भवति विनाशश्च देवताविद्धे ॥ स्तंभेन स्त्रीदोषः कुलनाशो ब्रह्मणोऽभिमुखे॥' इति । पंकविद्धं द्वार पंकद्वारं यस्य द्वारस्याग्रतः निरंतरं पंकस्तिष्ठति । देवताः सुरप्रतिमाः। नाशः स्वामिन एव । ब्रह्मवेध एकाशीतिपदचक्र स्थितब्रह्मस्थानवेधो गृह्यते। यदाह विश्वकर्मा-'गृहमध्ये कृतं द्वारं द्रव्यधान्यविनाशनम् ॥' इति । विशेषमाह भरद्वाजः-'शिरा मर्माणि वंशश्च नालं मध्यं च सर्वशः। विहाय वास्तुमध्यं च द्वाराणि विनिवेशयेत् ॥' इति । वास्तुमध्यं ब्रह्मस्थानम् । 'तत्र द्वारं चेन्निधनप्रद'मिति वसिष्ठोक्तेश्च । अस्यापवादमाह विश्वकर्मा-'देवागारे विहारे च प्रपायां मंडपेषु च। प्रतोल्यां च मखे चैव मध्ये द्वारं निवेशयेत् ॥' इति । देवालयादिस्थानेषु कृतस्य गृहांतर्गतद्वारस्य ब्रह्मणो न वेध इति निष्कृष्टोऽर्थः । अत्रैकाशीतिपदचक्रं च सामान्यविशेषभावपुरःसरं ग्रंथसंदर्भेण वराहसंहितायामुक्तमपि नोक्तमेतस्मिंश्चक्रे मुहूर्तविचाराऽप्रसंगात् । केचित् प्रयोजनाभावानोक्तमित्याहुस्तन्न । तत्र हि वास्तुनरस्य शिरामर्मवंशादिदुष्टस्थानानामशुभफलदानां त्यागोक्त्या सप्रयोजनत्वात् । तथा तस्यैव शुभफलदानामन्येषां बाह्वादिस्थानानां ग्राह्यत्वोक्त्या च । वसिष्ठावृषिसंहितासु तु वास्तुशांत्यर्थमेव तस्याभिधानमित्यतोऽत्रानुक्तिः ॥ १७ ॥ अथ गृहारंभे पंचांगशुद्धिं लग्नशुद्धिं चानुष्टुभाहभौमार्करिक्तामायूने चरोनेऽङ्गे विपंचके । व्यष्टांत्यस्थैः शुभैगेंहारंभस्यायारिगैः खलैः ॥१८॥ भौमार्केति ॥ भौमाौं वारौ रिक्ताश्च प्रसिद्धाः, अमा अमावास्या, आदिः प्रतिपद्, उपलक्षणत्वादष्टम्यपि; एतैःऊने काले तथा विपंचके पंचकं धनिष्ठोत्तरार्धादिका पंचनक्षत्री पंचकमित्युच्यते । पंचशब्दात् संघार्थे 'संख्यायाः संज्ञासंघसूत्राध्ययनेषु' इति कन्प्रत्ययः । विगतं पंचकं यस्मिन्नेवंविधे च काले सति। Page #446 -------------------------------------------------------------------------- ________________ ४३० मुहूर्तचिंतामणिः । [ देवालयादौ राहुमुखनिर्णयः चरोने चरराशिभिः मेषकर्कतुला मकरैरूनेऽङ्गे लग्ने स्थिरे द्विस्वभावे च गृहारंभः कार्यः। यदुक्तं व्यवहारसमुच्चये - 'द्वितीया पंचमी मुख्यास्तृतीया षष्टिका तथा । सप्तमी दशमी चैव द्वादश्येकादशी तथा । त्रयोदशी पंचदशी तिथयः स्युः शुभावहाः ॥' इति । अन्यास्तिथयोऽर्थान्निषिद्धास्तदप्युक्तं तत्रैव - 'दारिद्र्यं प्रतिपत्कुर्यात्' इत्यादि । वास्तुशास्त्रेऽपि - 'चरलग्ने चरांशे वा रिक्तामारार्कवासरे । अंगाष्टांत्यारिगे चंद्रे रंध्रे पापे क्षयः प्रभोः ॥' इति । नन्वत्र निष्ठ पंचकदोषोऽनुपपन्नः । नक्षत्रप्रकरणोक्तधनिष्ठादिपंचकनिषेधेन गतार्थत्वात् । न पुनरुक्तमिति वयं । यतो गृहगोपनमिति पूर्वमुक्तं तत्र गृहस्य तृणकाष्ठादिभिराच्छादनं गोपनं तद्धि सिद्धस्य गृहस्य संभवेत् । गृहारंभस्तु प्राग्भवनरूपः स त्वसिद्धस्यैवेति । ननु 'ध्रुवमृदुचरभस्वातिवस्वर्कपुष्यैः' इति गृहारंभे नक्षत्रेषु धनिष्ठाशततारकोत्तराभाद्रपदा रेवतीनां विहितत्वेनैकस्या एव पूर्वाभाद्रपदाया निषेधोक्तौ कर्तव्यतायां च सत्यां पुनः पंचकनिषेधानुपपत्तिः । सत्यं; स्तंभोच्छ्रायविषयकोऽयं निषेधः । यदाह मांडव्यः - ' धनिष्ठापंचके' नैव कुर्यात्स्तंभसमुच्छ्रयम् । सूत्राधारशिलान्यासप्राकारादि समारभेत् ॥' इति । प्राकारो देवालयम् । अन्ये पुनरेव आहुः । विवाहप्रकरणोक्तानि पंचकानि रोगाग्निराज चौरमृत्युसंज्ञानि तैः रहितेऽङ्गे लग्ने पंचकरहिते लग्ने इत्यर्थः । उक्तं च गणेशदैवज्ञैः – 'विमृत्यु केंद्रखलगेऽङ्गे वर्जिते पंचकैः' इति । नात्रार्षवाक्यं प्रमाणमस्ति । व्यष्टांत्येति । अष्टमस्थानद्वादशस्थानव्यतिरिक्तस्थानस्थैः शुभैः, खलैः पापैस्तृतीयैकादशषष्ठस्थानस्थैश्चोपलक्षिते लग्ने सति गृहारंभः कार्यः । उक्तं च श्रीपतिना - 'पापैस्त्रिषष्ठाय गतै त्रिकोण केंद्राश्रितैः साधुभिरालयस्य । वदंति निर्माणमिहाष्टमस्थः क्रूरस्तु कर्तुर्मरणं करोति ॥' इति । अन्यदपि उक्तं तेनैव—‘यंगे स्थिरे वा भवने विलग्ने सौम्यग्रहैर्युक्त निरीक्षिते वा । कर्मस्थितैवीर्ययुतैश्च सौम्यैर्निर्माणमाहुर्भवनस्य संतः 11 शुद्ध केंद्रनिधन स्थिरोदये सौम्यवर्गमनुजोद्गमेऽपि च । सन्निवेश उदितो हि वास्तुनः सूरिभिर्नतु चरोदये क्वचित् ॥' इति ॥ १८ ॥ अथ देवालये गृहारंभे जलाशये च विदिगवस्थितं राहुमुखं सफलमिंद्रवंशाछंदसाह - देवालये गेहविधौ जलाशये राहोर्मुखं शंभुदिशो विलोमतः । मीनार्कसिंहार्कमृगार्कतस्त्रिभे खाते मुखात्पृष्ठ विदिक्शुभा भवेत् ॥ देवालय इति ॥ अत्र यथासंख्यं संबंधः । देवालयप्रारंभ राहोर्मुखं मीनार्कतस्त्रित्रिराश्यवस्थिते सूर्ये ऐशानीतो विलोमतो विपरीतं विदिक्षु वायव्यादिषु राहोर्मुखं स्यात् । यथा - मीनमेषवृषराश्यवस्थिते सूर्ये राहोर्मुखमैशान्याम् । मिथुन कर्क सिंहराश्यवस्थिते सूर्ये वायव्यां राहुमुखम् । कन्यातुलावृश्चिकस्थे सूर्ये नैर्ऋत्यां राहुमुखम् । धनुर्मकरकुंभराइयवस्थे सूर्ये आग्नेय्यां राहोर्मुखमित्यर्थः । एवं गृहारंभेऽपि सिंहार्कतस्त्रित्रिराश्यवस्थितेऽर्के विलोमत ऐशान्यादिविदिक्षु राहुमुखं स्यात् । वृश्चिकादित्रये वायव्यां कुंभादित्रये नैर्ऋत्यां Page #447 -------------------------------------------------------------------------- ________________ गृहारंभे खातारंभादिनक्षत्राणि ] वास्तुप्रकरणम् १२ । वृषादित्रये च आग्नेय्यां राहुमुखं स्यात् । जलाशयारंभेऽपि मकरार्कतस्त्रित्रिराइयवस्थेऽर्के विलोमत ऐशान्यां राहुमुखं स्यात् । मेषादितः त्रिभिर्वायव्यां कर्कादितस्त्रिभिर्नैर्ऋत्यां तुलादितस्त्रिभिरानेय्यां राहुमुखं स्यात् । त्रयाणामपि स्पष्टार्थं न्यासो यथा राहुमुखचक्रम् | आरंभः ऐशान्याम् वृषभ | देवालयारंभः स्थिते सूर्ये रा गृहारंभः हुमुखम् सिंह कन्या तुलास्थिते सूर्ये रा हुमुखम् कुंभमीनजलाशयारंभः स्थिते सूर्ये रा हुमुखम् ४३१ वायव्याम् नैर्ऋत्याम् आग्नेय्याम् मिथुन कर्कसिं कन्यातुलावृ- धनुर्मकरकुंभहस्थे सूर्ये रा- श्चिकस्थे सूर्ये स्थिते सूर्ये हुमुखम् राहुमुखम् राहुमुखम् वृश्चिकधनुर्म कुंभमीनमेष वृषभ मिथुनकरस्थे सूर्ये | स्थिते सूर्ये कर्कस्थे सूर्ये राहुमुखम् |राहुमुखम् मेषवृषभमि- कर्कसिंहक- तुलावृश्चिकथुनस्थे सूर्ये न्यास्थिते सूर्ये धनुःस्थे सूर्ये राहुमुखम् राहुमुखम् राहुमुखम् राहुमुखम् 1 फलमाह - खात इति । देवालयादिविषयके खाते भूमिशोधने कर्तव्ये सति राहुमुखाक्रांत दिशः सकाशात्पृष्ठवर्तिनी दिक् शुभा भवेत् । यथा - देवालयविषये मीनादित्रिराशिस्थितसूर्यत्वेन ऐशान्यां राहुमुखं तत्पृष्ठविदिगानेयी तस्यां प्रथमखातप्रारंभः शुभफलदः; एवं मिथुनादिराशित्रयस्थे सूर्ये राहुमुखं वायव्यां तत्पृष्ठविदिगैशानी तस्यां खातारंभः शुभः । एवं सर्वत्र । तथैव गृहविधौ जलाशयविधावपि राहुमुखं कस्यां विदिश्यस्तीत्यवधार्य तत्पृष्ठविदिशि खातं शुभफलदं कार्यमित्यर्थः । यतः सर्पेण विदित्रयं व्याप्तं यत्र मुखावस्थितिः सा प्रथमा । यत्रोदरावस्थितिः सा द्वितीया यत्र पुच्छावस्थितिः सा तृतीया । यथा-ऐशान्यां मुखं, वायव्यामुदरं, नैर्ऋत्यां पुच्छम् ; अतः खाते आग्नेयी सम्यक् । एवमन्यत्राप्यूहनीयम् । यदाह विश्वकर्मा - 'ईशानतः सर्पति कालसपों विहाय सृष्टिं गणयेद्विदिक्षु । शेषस्य वास्तोर्मुखमध्यपुच्छं त्रयं परित्यज्य खनेच्चतुर्थम् ॥' इति । ज्योतिश्चिंतामणौ - 'वृषार्कादित्रिकं वेद्यां सिंहादि गणयेद् गृहे । देवालये च मीनादि तडागे मकरादिषु ॥' इति । वसिष्ठस्तु गृहारंभे वास्तुनरमाह - 'त्रिषु त्रिषु च मासेषु नभस्यादिषु च क्रमात् । यहिझुखो वास्तुनरस्तन्मुखं सदनं शुभम् ॥ अन्यदिङ्मुखगेहं तद्दुःखशोकभयप्रदम् ॥' इति । 'चतुर्दिशादिशालानामेष दोषो न विद्यते ।' इति । नभस्यादिग्रहणं सिंहाद्यर्कसंक्रमोपलक्षणं नागस्तु विदिशि खननार्थः । नरवास्तुस्तु गृहस्य तत्तद्दिङ्मुखार्थः । तत्र खातारंभादिनक्षत्राण्याह मांडव्यः - 'अधोमुखैर्भेबिंदधीत खातं शिलास्तथा चोर्ध्वमुखैश्च पट्टम् । तिर्यङ्मुखैर्द्वारकपाट्यानं गृहप्रवेशो मृदुभिर्ध्रुवक्षैः ॥' इति । खातं = भूमिशोधनम् ॥ १९ ॥ Page #448 -------------------------------------------------------------------------- ________________ ४३२ मुहूर्तचिंतामणिः। [दिक्परत्वेनोपगृहनिर्माणं अथ गृहे कूपादिनिर्माणदिगवस्थित्या फलं शालिनीछंदसाहकूपे वास्तोर्मध्यदेशेऽर्थनाशस्त्वैशान्यादौ पुष्टिरैश्वर्यवृद्धिः। सूनो शः स्त्रीविनाशो मृतिश्च संपत् पीडा शत्रुतः स्याच सौख्यम् कूपे इति ॥ 'वेश्मभूर्वास्तुरस्त्रियाम्' इति वास्तुशब्दः पुल्लिंगेऽपि । वास्तोगुहस्य मध्यदेशे मध्यभागे जलकूपे कृते सति स्वामिनोऽर्थनाशः स्यात् । अर्थशान्यादिषु सृष्टिमार्गेणाष्टसु दिक्षु पुष्टिरित्यादिफलम् । यथा-ऐशान्यां कूपे पुष्टिः, पूर्वस्यां कूपे ऐश्वर्यवृद्धिः, आग्नेय्यां कूपे पुत्रनाशः, दक्षिणस्यां कूपे स्त्रीविनाशः,नैर्ऋत्यां कूपे गृहकर्तुर्मतिः, पश्चिमायां कूपे सम्यक् शोभनं,वायव्यां कूपे शत्रुतः सकाशात्पीडा, उत्तरस्यां कूपे सुखं गृहस्वामिन एव न्यासः । उक्तं च वसिष्ठेन-‘ऐश्वर्य पुत्रहानिश्च स्त्रीनाशो निधनं भवेत् । संपच्छत्रुभयं सौख्यं पुष्टिः प्रागादितः क्रमात् ॥' इति ॥ २० ॥ कूपे कृते गृहमध्ये करिष्यमाणानामुपकरणगृहाणां दिक्परत्वेन करणं वसंततिलकाछंदसाह स्नानस्य पाकशयनास्त्रभुजेश्च धान्य भांडारदैवतगृहाणि च पूर्वतः स्युः। तन्मध्यतस्तु मथनाज्यपुरीपविद्या___भ्यासाख्यरोदनरतौषधसर्वधाम ॥ २१ ॥ स्नानेति ॥ पूर्वतः पूर्वाद्यष्टदिक्षु स्नानगृहादीनि गृहाणि स्युः । यथापूर्वस्यां स्नानगृहम् , आग्नेय्यां पाकगृहं, दक्षिणस्यां शयनगृहं, नैऋत्यां शस्त्रगृहं, पश्चिमायां भोजनगृहं, वायव्यांधान्यसंग्रहगृहम् , उत्तरस्यां भांडारस्य द्रव्यस्य गृहम् , ऐशान्यां दैवतगृहं स्यादित्यर्थः । यदाह वसिष्ठः-'ऐन्यां दिशि स्नानगृहमाग्नेय्यां पचनालयः । याम्यायां शयनं वेश्म नैर्ऋत्यां शस्त्रमंदिरम् ॥ वारुण्यां भोजनगृहं वायव्यां धान्यमंदिरम् । उदीच्यां हाटकं सद्म ऐशान्यां देवमंदिरम् ॥' इति । हाटकस्य सुवर्णस्येदं हाटकम् । कश्यपोऽपि-'प्राच्यां दिशि स्नानगृहमाग्नेय्यां पचनालयः । शयनं याम्यदिग्भागे नैर्ऋत्यां शस्त्रमंदिरम् । प्रतीच्यां भोजनगृहं वायुभागेऽन्नसंग्रहम् । भांडारसदनं सौम्ये त्वैशान्यां देवतालयम् ॥' इति । नारदस्तु विशेषमाह-'भाण्डागारं तूत्तरे स्याद्वायव्यां पशुमंदिरम् ॥' इति । विश्वकर्मा पुनः–'उत्तरस्यां जलस्थानं पूर्वस्यां श्रीगृहं तथा' इत्याह । तन्मध्यत इति । पूर्वाद्यष्टदिक्षु तन्मध्यतस्तयोदिविदिशोर्मध्ये अष्टसंख्याके मथनाद्यष्टौ गृहाणि स्युः । यथा-पूर्वाग्नेय्योर्मध्ये मथनस्य दध्यालोडनस्य गृहम् । आग्नेयीदक्षिणयोर्मध्ये आज्यस्य घृतसंग्रहस्य गृहं, दक्षिणनैर्ऋत्योर्मध्ये पुरीषस्य विष्ठात्यागस्य गृहं, नैर्ऋतिपश्चिमयोर्मध्ये विद्याभ्यासस्य गृहं, पश्चिमवायव्योर्मध्ये रोदनस्य गृहं, उत्तरवायव्ययोर्मध्ये रतस्य Page #449 -------------------------------------------------------------------------- ________________ महस्थानस्थायुर्दाययोगाः] वास्तुप्रकरणम् १२ । संभोगस्य गृहम् , उत्तरैशान्योर्मध्ये औषधस्य गृहम् , ऐशानीप्राच्योर्मध्ये उक्तव्यतिरिक्तसर्ववस्तूनां धाम गृहं कार्य स्यादित्यर्थः। यदाह वसिष्ठः-'इंद्राम्योर्मथनं मध्ये याम्याम्योघृतमंदिरम् । यमराक्षसयोर्मध्ये पुरीषत्यागमंदिरम् । राक्षसांबुपयोर्मध्ये विद्याभ्यासस्य मंदिरम् । तोयेशानिलयोर्मध्ये रौदनं मंदिरं स्मृतम् । वायव्योत्तरयोर्मध्ये संभोगस्यैव मंदिरम् । उत्तरेशानयोर्मध्ये त्वौषधागारमुच्यते । पुरंदरेशयोर्मध्ये सर्ववस्तुसुसंग्रहम् । सदनं कारयेदेवं क्रमादुक्तानि षोडश ॥' इति । कश्यपोऽपि-'इंद्राग्योर्मथनं गेहं यमान्योघृतमंदिरम् । पुरीषत्यागसदनं मध्ये राक्षसकालयोः ॥ विद्या जलेशनैर्ऋत्योमध्ये च सदनं स्मृतम् । रौदनं सदनं नूनं जलाधीशसमीरयोः ॥ नवरत्नालयं मध्ये कुबेरेश्वरयोस्तथा । इंद्रेशयोर्धान्यगृहम्' इति ॥ २१ ॥ ___ अत्र गृहारंभप्रसक्तानुप्रसक्तं सामान्यतः प्राग्लग्नबलमप्यभिधायेदानीमारब्धगृहस्य लग्ने ग्रहाणां नियतस्थानावस्थित्या नियतायुर्दाययोगद्वयमुपजातिकयाहजीवार्कविच्छुक्रशनैश्चरेषु लग्नारिजामित्रसुखत्रिगेषु । स्थितिः शतं स्याच्छरदां सिताकोरेज्ये तनुव्यंगसुते शते द्वे २२ जीवेति ॥ अत्र योगद्वये ग्रहस्थानयोर्यथासंख्यं संबंधः । यथा-जीवो लग्ने, अर्कः सूर्यः षष्ठे, वित् बुधो जामित्रे सप्तमे, शुक्रश्चतुर्थे, शनैश्चरस्तृतीये; एवं नियतस्थानावस्थितग्रहसहिते लग्ने प्रारब्धस्य गृहस्य स्थितिरब्दशतं वर्षशतं स्यात् ;अयमेको योगः। यदाह श्रीपतिः-'उदये गुरुरस्तगृहे शशिजः सहजे तु शनिश्च रविश्च रिपौ। जलगश्च सितो भवनस्य तदा शरदां शतमायुरुशंति बुधाः ॥' इति । जलं चतुर्थस्थानम् । अथ द्वितीयो योगः-सितेति । शुक्रो लग्ने, अर्कस्तृतीये, आरो भौमः षष्ठे, इज्यः पंचमे; एवंविधे लग्ने प्रारब्धगृहस्थितिढे शते शतद्वयं वर्षाणां स्यात् । यदाह श्रीपतिः-'लग्ने भृगुः पुत्र- . गतश्च जीवः षष्ठे कुजस्तिग्मकरस्तृतीयः । निवेशने यस्य गृहस्य तद्धि शतद्वयं तिष्ठति वत्सराणाम् ॥' इति ॥ २२ ॥ अथान्यन्नियतायुर्दाययोगद्वयमिंद्रवंशाछंदसाहलग्नांबरायेषु भृगुज्ञभानुभिः केंद्रे गुरौ वर्षशतायुरालयः । बंधौ गुरुयॊग्नि शशी कुजार्कजौ लाभे तदाशीतिसमायुरालयः॥ लग्नेति ॥ अत्रापि योगद्वये स्थानग्रहयोर्यथासंख्यं संबंधः। लग्ने भृगुः दशमे बुधः एकादशे सूर्यः लग्नव्यतिरिक्तकेंद्रे गुरुः स्यात्तदैवंविधे योगे प्रारब्धालयो गृहं वर्षशतमायुरवस्थानं यस्य तादृशः स्यात् । यदाह श्रीपतिः'यदि विलग्नगतो भृगुजोऽम्बरे शशिसुतः खलु केंद्रगतो गुरुः । दिनकृदायगतश्च तदा बुधैः शतमितायुरुदीरित आलयः' इति । अयं प्रथमो योगः। अथ द्वितीयः। बंधाविति । चतुर्थे गुरुः दशमे चंद्रः मंगलशनैश्चरौ एकादशे स्यातां तदा आलयोऽशीतिसमायुः मशीतिसमाः वर्षाण्यायुर्यस्य तादृशः ३७ मु. चि. Page #450 -------------------------------------------------------------------------- ________________ ४३४ ..., मुहूर्तचिंतामणिः। [शुभसूचकफलविशेषाः स्यात् ।श्रीपतिः-शशांकजीवौ खरसातलस्थौ कुजार्कजौ लाभगतौ च यस्य । प्रारंभकाले भवनस्य तस्य स्थितिनिरुक्ता शरदामशीतिः॥' इति । आलयशब्दः पुलिंगः 'गृहाः पुंसि च भूम्येव निकाय्यनिलयालयाः' इत्यमरः। पुंसि चेति संबध्यते । रूपभेदेन वा पुलिंगः। अत एव नैषधीये प्रयुक्तः 'निशि माणिक्यमया यदालयाः' इति । 'पंक्तिविंशति' इत्यादिना सूत्रेण अशीतिशतशब्दौ संख्यावाचिनौ निपातितौ ॥ २३ ॥ अथ लक्ष्मीयुक्तगृहयोगत्रयमनुष्टुभाह खोचे शुक्रे लग्नगे वा गुरौ वेश्मगतेऽथवा । - शनौ खोचे लाभगे वा लक्ष्म्या युक्तं चिरं गृहम् ॥ २४ ॥ वोच्चे इति ॥ स्वोच्चस्थे मीनस्थे शुक्रे लग्नगते गृहं चिरं लक्ष्म्या युक्तं स्यात् ; अथवा स्वोच्चस्थे कर्कस्थे गुरौ चतुर्थस्थानगते सति तादृशमेव गृहम् ; अथवा स्वोच्चस्थे तुलास्थे शनावेकादशस्थानगेऽपि लक्ष्मीयुक्तं गृहं स्यात् । एतत्प्रत्येक योगत्रयम् । यदाह श्रीपतिः-'स्वोच्चवर्तिनि भृगौ विलग्नगे देवमंत्रिणि रसातलेऽथवा। स्वोच्चगे रविसुतेऽथवायगे स्यास्थितिश्च सुचिरं सह श्रिया ॥' इति ॥ २४ ॥ अथ गृहस्य परहस्तगामित्वयोगमनुष्टुभाह यूनांबरे यदैकोऽपि परांशस्थो ग्रहो गृहम् । अब्दांतः परहस्तस्थं कुर्याचेद्वर्णपोऽबलः ॥ २५॥ नांबरे इति ॥ एकोऽपि ग्रहोऽत्युत्कृष्टशुभफलदाता परांशस्थः शत्रुनवांशस्थितः सन् यदि छूने सप्तमे स्यादथवांबरे दशमे स्यात्तदा स ग्रहस्तद् गृहं प्रारब्धमब्दांतर्वर्षमध्य एव परहस्तस्थमन्यहस्तगामि कुर्याच्चेद्वर्णपो ब्राह्मणादिवर्णस्वामी 'विप्राधीशौ भार्गवेज्यौ' (५।४३) इत्यभिहितः स चेदबलः स्यात् । उक्तं च वसिष्ठेन-‘एको ग्रहश्चेत्परभागवर्ती जायागतः कर्मगतोऽथवा स्यात् । करोति गेहं परहस्तयातं करोति वर्षाद्विबलः स खेटः ॥' इति । खेट: वर्णस्वामी । तदुक्तं श्रीपतिना-'एकोऽपि नूनं परभागवर्ती वियत्स्मरस्थः खचरोऽब्दमध्ये । करोति गेहं परहस्तयातं स्याद् दुर्बलश्चेदिह वर्णनाथः ॥' इति । यदातु वर्णाधीशः सबलः स्यात्तदा परहस्तगामि न स्यादित्यर्थतः सिद्धम् ॥२५॥ अथ गृहारंभे नक्षत्रविशेषेण च फलविशेषान् विवक्षुस्तावच्छुभसूचकं फलविशेषयोगद्वयं वसंततिलकाछंदसाह पुष्यध्रुवेंदुहरिसर्पजलैः सजीव स्तद्वासरेण च कृतं सुतराज्यदं स्यात् । द्वीशाश्वितक्षिवसुपाशिशिवैः सशुक्र वारे सितस्य च गृहं धनधान्यदं स्यात् ॥ २६ ॥ पुष्येति ॥ पुष्यः ध्रुवाणि च प्रसिद्धानि, इंदुर्मुगः, हरिः श्रवणं, सर्प आश्लेषा, जलं पूर्वाषाढा; एतैर्नक्षत्रैः सजीवैः गुरुयुक्तैर्गुधिष्ठितैः तद्वासरेण बृह Page #451 -------------------------------------------------------------------------- ________________ शुभाशुभफलदा योगाः ] वास्तुप्रकरणम् १२ । ४३५ स्पतिवासरेण कृतं कर्तुमारब्धं गृहं सुतान्पुत्रान् राज्यं च ददाति तादृशं स्यात् । यदाह वसिष्ठः - 'इज्योत्तरात्रयाहीन्दुविष्णुधातृजलोडुषु । गुरुणा सहितेष्वेषु कृतं गेहं श्रिया युतम् ॥' इति । वारेण गृहफलविशेषश्च नारदवाक्ये - 'श्रवणाषाढयोश्चैव रोहिण्यां चोत्तरात्रये । गुरुवारे कृतं वेश्म राजयोग्यमिहोच्यते । तद्गृहे जातपुत्रस्य राज्यं भवति निश्चयात् ॥' इति । नक्षत्र - भेदो वचनप्रामाण्यात् । द्वीशेति । द्वीशं विशाखा, अश्वि अश्विनी, तक्षि त्वाष्ट्रं वसु धनिष्ठा, पाशी शतभं, शिव आर्द्रा; एतैर्नक्षत्रैः सशुत्रैः शुक्रसहितैः सितस्य शुक्रस्य वारे कृतं गेहं धनानि सुवर्णादीनि धान्यानि तंदुलादीनि तानि ददाति तादृशं गृहं स्यात् । यदाह वसिष्ठः – 'द्विदैवत्वाष्ट्रवारीशरुद्रादित्यवसूडुषु । शुक्रेण सहितेष्वेषु कृतं धान्यप्रदं गृहम् ॥' इति । नारदोऽपि - 'अश्विनीशततारासु विशाखाभाद्वचित्रके । धनिष्ठादितिसंयुक्त संयुक्ते शुक्रवासरे ॥ गृहं नाटकशालाख्यं देवागारं कृतं शुभम् । तद्वेश्मनि प्रजातस्तु कुबेरसदृशो भवेत् ॥' इति । अत्रापि नक्षत्रभेदे प्राग्वदेव समाधिः ॥ २६ ॥ अथान्यद्योगद्वयमशुभशुभदातृ इंद्रवज्राछंदसाह सारैः करेज्यांत्यमघांबुमूलैः कौजेऽह्नि वेश्माग्निसुतार्तिदं स्यात् । सज्ञैः कदास्रार्यमतक्षहस्तैर्शस्यैव वारे सुखपुत्रदं स्यात् ॥ २७ ॥ सारैरिति ॥ हस्तपुष्य रेवतीमघापूर्वाषाढा मूलैः सारैमंगलयुक्तैः कौजे भौमसंबंध अह्नि वारे च कृतं वेश्म गृहमग्निसुतार्तिदमग्निपीडा पुत्रपीडा च तां ददाति तादृशं स्यात् । यदाह वसिष्ठः - 'पितृमूलेज्यभाग्यार्क पौष्णभेषु च यत्कृतम् । कुजेन सहितेष्वेषु गृहं संदह्यतेऽग्निना ॥' इति । नारदोऽपि - 'मूलं च रेवती चैव कृत्तिकाषाढमेव च । पूर्वाफाल्गुनिहस्तश्च मघा तु सप्तके ॥ एषु भौमेन युक्तेषु वारे तस्यैव वेश्म यत् । अग्निना दह्यते . कृत्स्नं पुत्रनाशश्च जायते ॥' इति । अत्र विशेषमाह वसिष्ठः – 'अग्निनक्ष चैव गे सूर्ये चंद्रे वा संस्थिते यदि । निर्मितं मंदिरं नूनमग्निना दह्यतेऽचिरात् ॥' इति । आवश्यकत्वाद्विहितनक्षत्रानुपलब्धौ मध्यमेषु भेषु गृहारंभः प्राप्तः, स कृत्तिकायां मा भूदिति निषेधः । सूर्यनक्षत्र कृत्तिकायां मा भूदिति पूर्वोऽपि । सज्ञैरिति । रोहिण्यश्विन्युत्तरा फाल्गुनीचित्राहस्तैः सज्ञैर्बुधयुक्तैर्ज्ञास्यैव वारे च कृतं गेहं सुखदं पुत्रदं स्यात् । यदाह वसिष्ठः - 'हस्तार्यमत्वाष्ट्रदखचतुरास्येंदुभेषु च । बुधेन सहितेष्वेषु धनपुत्र सुखप्रदम् ॥' इति ॥ २७ ॥ अथाशुभफलदमेकमेव योगमनुष्टुभाह - अजैकपादहिर्बुध्यशक्रमित्रानिलांतकैः । समदैर्मदवारे स्याद्रक्षोभूतयुतं गृहम् ॥ २८ ॥ अजैकपादिति ॥ पूर्वाभाद्रपदोत्तराभाद्रपदाज्येष्ठानुराधास्वातीभरणीनक्षत्रैः समदैः शनैश्चरयुक्तैर्मदस्यैव वारे च प्रारब्धं गृहं रक्षोभिर्भूतैश्च युतं स्यात् । यदाह वसिष्ठः - 'अजपाद्वितये याम्यमित्रेंद्रानिलभेषु च । यत्कृतं शनिसंयुक्ते दिह्यते यक्षराक्षसैः ॥' इति । दिह्यते उपचीयते, 'दिह Page #452 -------------------------------------------------------------------------- ________________ ४३६ मुहूर्तचिंतामणिः। [द्वारचक्रमन्यमतानुगुणं उपचये' इति धातुः । नारदोऽपि-'ज्येष्ठानुराधके चैव भरणीस्वातिपूर्वभे । धनिष्ठास्वपि ऋक्षेषु शनिस्तिष्ठेद्दिनस्य च ॥ कृपणो नामतः प्रोक्तो धनधान्यादिके गृहे । पुत्रो जातोऽथवा तस्मिन्गृह्यते यक्षराक्षसैः ॥' इति । अत्रायं निकृष्टोऽर्थः-पूर्व गृहारंभे नक्षत्राणि अवधार्याणि, ततो वृषवास्तुके शोध्यानि, पश्चादिदं योगपंचकं विचार्यम् ; एवं सति गृहारंभ उक्तफलदाता भवेत् । अयं सर्वोऽपि गृहविचारः प्रासादवापीकूपादिष्वपि ध्येयः । तदुक्तं विष्णुधर्मोत्तरे'प्रासादेष्वेवमेव स्याद्वापीकूपेषु चैव हि' इति । प्रासादो देवगृहम् ॥ २८ ॥ अथ केषांचिन्मतेन द्वारचक्र सफलं शार्दूलविक्रीडितेनाहसूर्याधुगभैः शिरस्यथ फलं लक्ष्मीस्ततः कोणभै गैरुद्वसनं ततो गजमितैः शाखासु सौख्यं भवेत् । देहल्यां गुणभैर्मृतिगृहपतेमध्यस्थितैर्वेदभैः सौख्यं चक्रमिदं विलोक्य सुधिया द्वारं विधेयं शुभम् ॥२९॥ सूर्यादिति ॥ अत्र द्वारस्य चत्वारः पाषाणा आवश्यकाः, द्वौ ऊर्ध्वाधोभावेनावस्थितौ समावल्पपरिमाणौ।भाषया 'उत्तरंग इत्यूर्वावस्थितस्य संज्ञा। अधोवस्थितस्य तु देहलीति सर्वसाधारणं नाम । द्वौ पार्श्वद्वये स्थितौ महापरिमाणौ उच्चत्वेन 'साहर' इति भाषया द्वयोरपि संज्ञा । एवं दीर्घचतुरस्रद्वार भवति । पाषाणासंभवे तु काष्टादेरपि । तत्र द्वारे चिकीर्षिते सूर्याधिष्ठितनक्षत्राद्युगभैश्चतुर्भिर्नक्षत्रैः शिरस्यवस्थितैः सद्भिः लक्ष्मीप्राप्तिरूपं फलं स्यात् । ततस्तदग्रिमै गैः कोणभैयोरवस्थित्या चतुष्कोणेष्ववस्थितैरष्टसंख्याकैर्नक्षत्रैरुद्वसनं तद्द्वारगृहं सर्वदा जनवासरहितं स्यात् । ततस्तदग्रिमैगजमितैरष्टभिभैंःशाखासु भाषया 'साहर' इति नाम;तत्रावस्थितैर्गृहस्वामिनः सौख्यरूपं फलं स्यात् । ततस्तदग्रिमैर्गुणभैस्त्रिभिर्नक्षत्रैदेहल्यामवस्थितैगृहपतेम॒तिः स्यात् । ततस्तदग्रिमैर्वेदभैश्चतुर्भिनक्षत्रैर्मध्ये स्वरूपेऽवकाशे स्थितैः सौख्यं स्यात् । फलितार्थमाह-चक्रमिति । इदं द्वारचक्रं विलोक्य सुधिया शुभं शुभफलदातृ द्वारं विधेयं कर्तव्यम् । तदुक्तं ज्योतिर्निबंधे-'द्वारचक्र प्रवक्ष्यामि भाषितं विश्वकर्मणा । सूर्यभानचतुष्कं तु द्वारस्योपरि विन्यसेत् । द्वे द्वे कोणे प्रदातव्ये शाखायुग्मे द्वयं द्वयम् । अधश्च त्रीणि देयानि वेदा मध्ये प्रतिष्ठिताः ॥ राज्यं स्थादूर्ध्वनक्षत्रे कोणेषूद्वासनं भवेत् । शाखायां लभते लक्ष्मीमधश्चैव मृति लभेत् ॥ मध्यगेषु लभेत्सौख्यं चिंतनीयं सदा बुधैः ॥' इति । द्वारचक्रं यथा द्वारचक्रम् । अथ द्वारस्थापनम् । द्वारस्थापननक्षत्राण्युच्यतेस, शिर. ४ र 'अश्विनी चोत्तरा हस्तपुष्यश्रुतिमृगाः शुभाः । स्वाती " पूष्णि च रोहिण्यां द्वारशाखावरोपणम् ॥' इति ज्यो४ शा. तिर्निबंधेऽभिहितत्वात्तिथयोऽपि तत्रैवाभिहिताः। र 'पंचमी धनदा चैव मुनिनंदवसौ शुभम् । प्रतिपत्सु न कर्तव्यं कृते दुःखमवाप्नुयात् ॥ द्वितीयायां द्रव्य शा. म. को.२ ३.३ Page #453 -------------------------------------------------------------------------- ________________ १३७ गृहप्रवेशे कालशुद्ध्यादि] गृहप्रवेशप्रकरणम् १३ । हानिः पशुपुत्र विनाशनम् । तृतीया रोगदा ज्ञेया चतुर्थी भंगकारिणी ॥ कुलक्षयं तथा षष्ठी दशमी धननाशिनी । विरोधकृदमा पूर्णा न स्याच्छाखावरोपणम् ॥' इति । एवं सति विरुद्धतिथिं विहाय विहिततिथिषु विहितभेषु च तत्रापि चक्रशुद्धेषु भेषु द्वारं विहितं शुभफलदातृ स्यादिति निष्कृष्टोऽर्थ इति शिवम् ॥ २९॥ ___ अथ गृहारंभप्रकरणं गयेनोपसंहरतिइति श्रीदैवज्ञानंतसुतदैवज्ञरामज्योतिर्विद्विरचिते मुहूर्तचिंतामणौ वास्तु(गृहनिर्माण)प्रकरणं समाप्तम् ॥ १२ ॥ स्पष्टार्थमेतत् ॥ ज्योतिर्विद्वरनीलकंठविदुषः श्रीचंद्रिकायास्तथा . पुत्रेणाहिगवीप्रसारितधिया मौहूर्तचिंतामणेः । गोविंदेन विनिर्मिते नयनिधौ पीयूषधाराभिधे ___ व्याख्याने गृहनिर्मितिप्रकरणं संपूर्णतामध्यगात् ॥ १॥ इति श्रीमदैवज्ञमुकुटालंकारनीलकंठज्योतिर्वित्पुत्रगोविंदज्योतिर्विद्विरचितायां मुहूर्तचिंतामणिटीकायां पीयूषधाराभिधायां वास्तुप्रकरणं समाप्तम् ॥ १२ ॥ अथ गृहप्रवेशप्रकरणम् १३ । GHODHलंबोदरं नमस्कृत्य गोविंदेन विदां मुदे। गृहवेशप्रकरणं सम्यग्व्याख्यायतेऽन्तिमम् ॥ अथ गृहप्रवेशप्रकरणं व्याख्यायते। तत्र चतुर्धा प्रवेश इत्युक्तं प्रागस्माभिः। तत्र नववधूप्रवेशो विवाहप्रकरणांतेऽभिहितः । अन्यप्रवेशत्रयमुहूर्तोऽत्राभिधीयते । ननु 'यात्रानिवृत्तौ शुभदं प्रवेशनम्' (११११०६) इत्यादिना सुपूर्वप्रवेशस्याभिहितत्वात्प्रवेशद्वयमेव वक्तव्यं स्यानतु प्रवेशत्रयमिति । उच्यते-यात्रां कृत्वा प्रतिनिवृत्तस्य भूपादेरासुमुहूर्त नगराबहिः स्थातुमशनुवतो दैवादागतवृष्ट्याद्यभिभूतस्य यथाकथंचिच्छुभाशुभप्रकरणोक्तां पंचांगशुद्धिं विचार्योक्तपद्यविहितनक्षत्रैरेव प्रशस्तः प्रवेशोऽभिहितः, नतु विशिष्य तादृशे प्रवेशे कालशुद्धिर्वोक्तेत्यतः सुपूर्वस्याभिधानम् । तत्रापूर्वप्रवेशसुपूर्वप्रवेशयोः कालशुद्यादिकमिंद्रवंशाछंदसाहसौम्यायने ज्येष्ठतपोऽन्त्यमाधवे यात्रानिवृत्तौ नृपतेनवे गृहे । स्याद्वेशनं द्वास्थमृदुध्रुवोडुभिर्जन्मक्षलग्नोपचयोदये स्थिरे ॥१॥ Page #454 -------------------------------------------------------------------------- ________________ how ४३८ मुहूर्तचिंतामणिः । [कर्कसंक्रांत्यादावपि-केचित् सौम्यायने इति ॥ एतेषु सौम्यायन इत्यादिकेषु पदार्थेषु सत्सु नृपतेर्यावानिवृत्तौ अथवा नवे नूतनोत्थापिते गृहे वेशनं 'विश प्रवेशने' प्रवेशनं स्यात्। सौम्यायने उत्तरायणे । अत्र शुक्रगुर्वस्तादिको दोषो 'वाप्यारामतडाग-' (१।४६) इत्यादिनोक्त इति न पुनरुक्तः । एवं 'गीर्वाणांबुप्रतिष्ठा-' (५।२६) इत्यादिना दक्षिणायननिषेधोऽपि । अतः परिशेषात्सौम्यायनग्रहणे सिद्धे तदुक्तिमंदबुद्धीनां शीघ्रप्रतिपत्त्यर्था । उक्तं च वसिष्ठेन–'अथ प्रवेशो नवसद्मनश्च सौम्यायने जीवसिते बलाव्ये' इति । बलाढ्ये उदिते । नारदेनापि-'अथ सौम्यायने कार्य नववेश्मप्रवेशनम् । राज्ञां यात्रानिवृत्तौ वा' इति । केवलायां भूमौ क्रीतायां प्राप्तायां वा स्वतःसिद्धायां वोत्थापितं गृहं नूतनमित्युच्यते। ज्येष्ठेति । ज्येष्ठमाघफाल्गुनवैशाखमासेष्वेव सत्यप्युत्तरायणे प्रवेशनं शुभम् । यदाह नारदः-'माघफाल्गुनवैशाखज्येष्ठमासेषु शोभनः । प्रवेशो मध्यमो ज्ञेयः सौम्यकार्तिकमासयोः ॥' इति । सौम्या मार्गशीर्षः । मध्यमोक्तिरावश्यकविषया। चांद्रमासफलान्याह वसिष्ठः-'माघेऽर्थलाभः प्रथमप्रवेशे पुत्रार्थलाभः खलु फाल्गुने च । चैत्रेऽर्थहानिर्धनधान्यलाभो वैशाखमासे पशुपुत्रलाभः ॥ ज्येष्ठे च मासेषु परेषु नूनं हानिप्रदः शत्रुभयप्रदश्च । शुक्ले च पक्षे सुतरां विवृद्ध्यै कृष्णे च यावद्दशमी च तावत् ॥' इत्याद्युक्तेरेव ग्रंथकृता पक्षविशुद्धिर्नोक्ता, तिथिवारशुद्धिश्चाग्रे वक्ष्यते । वसिष्ठेन तु गृहप्रवेशे सौरमानमनूद्य दूषितम् । यथा-'मृगादिषड्राशिषु संस्थितेऽर्के नवप्रवेशः शुभदः सदैव । कुंभं विनान्येष्वपि केचिदूचुन सौरमिष्टं खलु सन्निवेशे ॥' इति । अस्यार्थः-नूतनगृहप्रवेशो मकरादिषड्राशिसंस्थिते सूर्ये शुभफलदो भवति, तत्रापि माघादिषु विहितेषु चतुर्पु मासेषु शुभः । ननु 'अथ प्रवेशो नवसद्मनश्च सौम्यायने' इति स्वयं प्राक् सौम्यायन इत्युक्तत्वात्किमित्येतत्पुनरुक्तमित्यत आह—कुंभं विनेति । सत्यप्युत्तरायणे कुंभसंक्रांतो नूतनगृहप्रवेशो न भवतीत्येतदर्थं पुनरुक्तमित्यर्थः । नन्विदं पूर्वापरविरुद्धम् । तथा हि 'माघेऽर्थलाभः प्रथमप्रवेशः' इत्यादिना माघफाल्गुनयोश्वांद्रमासयोः शुभफलाभिधानात्तत्रैव च कुंभसंक्रांतिसद्भावाद्वयोरन्यतरस्याशुभत्वं प्रतिपाद्यते । उभयमासनिर्मुक्तः कुंभस्तु नास्त्येवेति चेत् । उच्यते,संति हि द्विविधाश्चांद्रमासाः-शुक्लादयः कृष्णादयश्चेति; तत्र फाल्गुनपूर्णिमोत्तरमासस्य कृष्णादिमासगणनया चैत्रत्वात्तस्य च विरुद्धफलत्वात्तद्विषयकोऽयं कुंभसंक्रांतिनिषेधः । चांद्रमासस्य शुक्लादिकृष्णाद्यभिधायकानि वाक्यानि गृहारंभप्रकरणेऽस्माभिरुक्तानि । अयमपि निषेधो मासस्य कृष्णादित्वे ज्ञापकः। अथ कर्कादिसंक्रांतिषु मतांतरमाह-अन्येष्वपीति । केचिदाचार्या अन्येष्वपि कर्कादिषड्राशिस्थिते सूर्येऽपि नवगृहप्रवेशः कार्य इत्यूचुः । तदेतद्वंद्वसौपूर्विकगृहप्रवेशविषयम् । तदुक्तं (पृ०४०९) स्वयमेव-'नवप्रवेशे त्वथ कालशुद्धिर्न द्वंद्वसौपूर्विकयोः कदाचित्' इति । नूतनतृणागारप्रवेशविषयं वा । सदुक्तं ज्योति प्रकाशे-'गृहारंभोदितैर्मासैर्धिष्ण्यैारैर्विशेद्गृहम् । विशेत् Page #455 -------------------------------------------------------------------------- ________________ नवगृहप्रवेशलग्नानि ] गृहप्रवेशप्रकरणम् १३. । सौम्यायने हयं तृणागारं तु सर्वदा ॥' इति । अत एव-'कुलीरकन्यकाकुंभे दिनेशे न विशेद्गृहम् । ग्रामं वा नगरं वापि पत्तनं वा सुराधिप ॥' इति गुरुवाक्यमप्येवमेव व्याख्येयम् । ननु पौषचैत्रादिषु विरुद्धफलेषु चांद्रमासेषु विहितसंक्रांतिश्चेत्तदा नूतनगृहप्रवेशः कार्यों वा न वेत्यत आह-न सौरमिति । खलु निश्चयेन सौरं मानं सन्निवेशे गृहप्रवेशे नेष्टं न शुभफलदम् । विरुद्धशुभफलयोश्चांदसौरमासयोः साहित्ये विहितचांद्रमासैरेव गृहप्रवेशः कार्य इत्यलमतिप्रसंगेन । द्वाःस्थेति । द्वारनक्षत्राणि 'भानि स्थाप्यान्यब्धिदिक्षु' (११।३३) इत्यादिनोक्तानि, मृदूनि ध्रुवाणि चोडूनि प्रसिद्धानि । द्वाःस्थानि च तानि मृदुध्रुवोडूनि चेति कर्मधारयः, तादृशैभैंः प्रवेशनं हितं स्यात् । अयमर्थः-यस्मिन् गृहे प्रवेशः कर्तुमिष्यते तस्य द्वारं यद्दिगभिमुखं तद्दिङ्नक्षत्रैर्विहितैः प्रवेशः कार्यः । यदाह वसिष्ठः-'यदिग्द्वारं मंदिरं तद्दिगृक्षैरुक्तक्षैः स्यात्संप्रवेशो न सर्वैः ॥' इति । उक्तीण्याह स एव-'चित्रोत्तराधातृशशांकमित्रवस्वंत्यवारीश्वरभेषु नूनम् । आयुर्धनारोग्यसुपुत्रपौत्रसत्कीर्तिदः स्यात्रिविधः प्रवेशः॥' इति । नारदोऽपि-'वस्विज्यांत्येषु वरुणत्वाष्ट्रमित्र स्थिरोडुषु । शुभः प्रवेशो देवेज्यशुक्रयोदृश्यमानयोः ॥' इति । अत्र पुष्यधनिष्ठाशततारकाग्रहणं जीर्णगृहप्रवेशविषयम् । उक्तं च ज्योतिःप्रकाशे-'प्रवेशो नूतने हय ध्रुवैमैत्रैः सुखाप्तये । पुष्यस्वातीयुतैस्तैश्च जीर्णे स्याद्वासवद्वये ॥' इति । एतद्रंथकृदप्यग्रिमपद्ये वक्ष्यति । अमुमेवाशयं मनसि निधायाह श्रीपतिः-'शुभः प्रवेशो मृदुभिर्बुवाख्यैः क्षिप्रैश्चरैः स्यात्पुनरेव यात्रा । उग्रैर्नृपो दारुणभैः कुमारो राज्ञी विशाखासु विनाशमेति ॥ कृत्तिकासु भवनं कृशानुना दह्यते प्रविशतां न संशयः । यन्मुख च सदनं हि तत्ककुद्वारभेषु शुभकृत्प्रवेशनम् ॥' इति । वसिष्ठोऽपि'अर्कानिलार्यादितिदस्रविष्णुऋक्षे प्रविष्टं नवमंदिरं यत् । अब्दत्रयात्तत्परहस्तयातं शेषेषु धिष्ण्येषु च मृत्युदं स्यात् ॥' इति । प्रवेशलग्नान्याह-जन्मक्षेति । जन्मक्ष जन्मराशिः, जन्मलग्नं प्रसिद्धं, ताभ्यामुपचये तृतीयषष्ठैकादशदशमस्थानेषु तथा स्थिराख्यराशिपु लग्नगतेषु सत्सु नवगृहप्रवेशनं शुभम् । यदाह वसिष्ठः-'कर्तुर्विलग्नादथ जन्मराशेर्लग्नस्थितो राशिरिति प्रदिष्टः । निर्व्याधिदारिययशस्कराश्च सुहृत्सुतघ्नो रिपुनाशनश्च ॥ कलत्रहंता निधनप्रदश्च रोगप्रदः सिद्धिकरोऽर्थदश्च । क्रमाच्च वेरामयदः क्रमेण. सदैव नूनं त्रिविधः प्रवेशः ॥' इति । अतो निष्कृष्टमर्थमाह गृहप्रवेशे राजमार्तड:'कर्तृभोपचयगाश्च विलग्ने राशयः शुभफलाय भवंति' इति । नारदोऽपि'कर्तुर्जन्मक्षलग्ने वा ताभ्यामुपचयेऽपि वा । प्रवेशलग्ने स्यादृद्धिरन्यभे शोकनिःस्वता ॥' इति । पुनर्वसिष्ठः-'सौम्ये स्थिरे भे शुभदृष्टियुक्ते लग्नेऽथवा ब्यंगगृहे विलग्ने' इति । सौम्ये सौम्यग्रहयुक्ते, व्यंगगृहे द्विस्वभावराशौ । अत्र विवाहप्रकरणोक्ता एकविंशतिमहादोषा वा इत्यपि ध्येयम् । एकविंशतिदोपानुपक्रम्य वसिष्ठेनोक्तम्-'कर्तु शो गृहारंभे प्रवेशे पतिनाशनम्' इति ॥१॥ Page #456 -------------------------------------------------------------------------- ________________ ४४० मुहूर्तचिंतामणिः । [जीर्णगृहप्रवेशेऽस्तादिविचारः अथ जीर्णगृहादिविषयकप्रवेशविशेषमिंद्रवज्राछंदसाह जीर्णे गृहेऽग्यादिभयान्नवेऽपि __ मार्गोजयोः श्रावणिकेपि सन् स्यात् । वेशोऽम्बुपेज्यानिलवासवेषु नावश्यमस्तादिविचारणात्र ॥२॥ जीर्णे इति॥ जीर्णे पुरातनेऽन्यनिर्मिते गृहेऽथवा सिद्धे एव गृहे, अन्यादिभयादग्निकृतं भयं दाहः, आदिशब्देन बहुवृष्टिपातभयं राजकोपो वा, इत्याधुपद्वैः पतिते गृहे पुनरपि सम्यक् नवे कृते उत्थापिते गृहेऽपि प्राक्पद्योक्ताः सर्वेऽपि मासास्तादृशगृहप्रवेशे ध्येयाः। किंच मार्गोर्जयोः मार्गशीर्षकार्तिकयोश्च श्रावणिकेऽपि श्रावणे मासि वेशः प्रवेशः सन् शुभफलदः स्यात् । 'श्रावणे तु स्यानभाः श्रावणिकश्च सः' इत्यमरः । यदाह सनत्कुमार:-'गृहारंभोदितैसिर्धिष्ण्यैारैर्विशेद् गृहम्' इति । अत्र सामान्यतो गृहारंभोदिता मासा गृहप्रवेशेऽभिहितास्ते चेमे-'सौम्यफाल्गुनवैशाखमाघश्रावणकार्तिकाः। मासाः स्युगृहनिर्माणे पुत्रारोग्यधनप्रदाः॥' इति नारदोक्तः। मार्गशीर्षफाल्गुनवैशाखमाघश्रावणकार्तिका विहिताः। तत्र उत्तरायणे एव गृहप्रवेशस्य वाक्यांतरेण विहितत्वात् । श्रावणकार्तिकमार्गशीर्षाणामुत्तरायणत्वाभावाद्विरोधेन नूतनजीर्णगृहप्रवेशाभ्यां व्यवस्था । कथम् ? प्रागभिहितनारदवाक्येनोत्तरायणसाहचर्येण नूतनगृहप्रवेशसुपूर्वगृहप्रवेशयोर्विधानात् । 'गृहारंभोदितैर्मासैः' इत्यनेन तु सामान्यतस्त्रिविधस्यापि गृहप्रवेशस्याभिधानादुत्तरायणीया मासास्त्रिविधगृहप्रवेशे शुभाः। दक्षिणायनीया मासाः श्रावणादयस्तु जीर्णगृहप्रवेशविषयाः । अत एव नारदो मार्गशीर्षकार्तिकयोनूतनगृहप्रवेशे मध्यमत्वमाह । अर्थादेव जीर्णगृहप्रवेशे उत्कृष्टत्वमध्यवस्यते । अंबुपेति । अंबुपः शततारका, इज्यः पुष्यः, अनिलः स्वाती, वासवं धनिष्ठा; एष्वपि भेषु जीर्णे गृहेऽझ्यादिभयानवेऽपि गृहे प्रवेशः शुभः । प्राक्पयोक्तेषु तु भेषु शुभ एवेति कैमुतिकन्यायादवगम्यते । यदुक्तं ज्योति:प्रकाशे–'प्रवेशो नूतने हर्थे ध्रुवैमैत्रैः सुखाप्तये । पुष्ये स्वातियुतैस्तैश्च जीर्णे स्याद्वासवद्वये ॥' इति । नावश्यमिति । अत्रैवंविधे जीर्णे गृहे अन्यादिभयान्नवेऽपि गृहेऽवश्यमस्तादिविचारणा शुक्रास्तगुर्वस्तबाल्यवार्धकसिंहस्थगुरुमकरस्थगुरुलुप्तसंवत्सरादीनां दोषाणां विचारणा विचारो नास्ति । अस्तादयः कालदोषाः संतु वा मा वा तथापि गृहप्रवेशः कार्यः। परंतु सोऽपि यथाकथंचित्पंचांगशुद्धिमात्रमंगीकृत्य विहितनक्षत्रेष्वेव कार्यः । वास्तुपूजा त्वेवंविधेऽपि गृहप्रवेशे भवतीत्यपि ध्येयम् । यदुक्तं ज्योति प्रकाशे-'नित्ययाने गृहे जीर्णे प्राशने परिधानके। वधूप्रवेशे मांगल्ये न मौढ्यं गुरुशुक्रयोः ॥' इति । वसिष्ठेनाप्युक्तम्-'नवप्रवेशे त्वथ कालशुद्धिर्न द्वंद्वसौ Page #457 -------------------------------------------------------------------------- ________________ वास्तुपूजापूजाप्रकारः ] गृहप्रवेशप्रकरणम् १३ ॥ पूर्विकयोः कदाचित्' इति । अस्यार्थः - नूतनगृहप्रवेशे कालशुद्धिर्विचार्या । द्वंद्वं द्वंद्वाभयाख्यो गृहप्रवेशः सौपूर्विको राज्ञो यात्रासमाप्तौ गृहप्रवेशः तादृशयोगृहप्रवेशयोः कालशुद्धिः कदाचिदपि नापेक्षिता । सति संभवे सुखेनास्तु किंतु प्रवेशदिनीयपंचांग शुद्धिसहिते सुलग्ने गृहप्रवेशः कार्यः । पूर्वस्मिन्नाद्ये नूतने प्रवेशे यथा वास्तुपूजा तथा द्वंद्वसौपूर्विकयोरपि कार्येत्यर्थः । नारदस्तु यात्रानिवृत्तिप्रवेशे कालशुद्धिरपेक्षितैवेत्याह । तद्वाक्यं प्रागभिहितम् । तदेतयोर्वाक्ययोरावश्यकानावश्यकत्वेन व्यवस्था । त्रयाणां गृहप्रवेशानां लक्षणमुक्तं वसिष्ठेन - 'अपूर्वसंज्ञः प्रथमः प्रवेशो यात्रावसाने तु सुपूर्वसंज्ञः । द्वंद्वाभयस्त्वग्निभयादिजातः प्रवेश एवं त्रिविधः प्रदिष्टः ॥' इति । एतद्व्याख्यानं 'यात्रानिवृत्तौ - ' (११।१०६) इतिपद्यव्याकृतावस्ति, तत्तत एवावधार्यम् । अत्रेदं ध्येयम्-यत्रिविधेऽपि प्रवेशे प्रवेशदिनीयनक्षत्रं क्रूराक्रांतं क्रूरविद्धं वा तत्सर्वथा वर्ज्यमिति । उक्तं च वसिष्ठेन - 'क्रूरग्रहाधिष्ठितविद्धभं च विवर्जनीयं त्रिविधप्रवेशे' इति ॥ २ ॥ अथ गृहप्रवेशदिनात्प्राक्कर्तव्यां वास्तुपूजां विवक्षुस्तन्नक्षत्राण्युपजातिकापूर्वार्धनाह— ४४१ मृदुध्रुवक्षिप्रचरेषु मूलभे वास्त्वर्चनं भूतबलिं च कारयेत् । मृद्वति ॥ मृदूनि ध्रुवाणि क्षिप्राणि चराणि नक्षत्राणि प्रसिद्धानि, मूलभं च । एषु संप्तदशसु भेषु नक्षत्रेषु वास्तोः वास्तुपुरुषस्यार्चनं भूतबलि च कारयेत् । गृहपतिर्वास्तुपूजां कुर्यात् । पुरोहितो गृहपतिं वास्तुपूजादिकं कारयेत् । 'हृक्रोरन्यतरस्याम्' इत्यणौ कर्तुः कर्मत्वम् । यदाह ऋक्षोच्चयः'चित्रा शतभिषा स्वाती हस्तः पुष्यः पुनर्वसुः । रोहिणी रेवती मूलं श्रवणोतरफल्गुनी ॥ धनिष्ठा चोत्तराषाढा तथा भाद्रोत्तरान्विता । अश्विनी मृगशीर्षं च अनुराधा तथैव च ॥ वास्तुपूजनमेतेषु नक्षत्रेषु करोति यः । स प्राप्नोति नरो लक्ष्मीमिति प्राह पराशरः ॥' इति । वास्तुपूजाप्रकारमाह वसिष्ठः - ' निर्माणे मंदिराणां च प्रवेशे त्रिविधेऽपि वा । वास्तुपूजा तु कर्तव्या यस्मात्तां कथयाम्यतः । गृहमध्ये हस्तमात्रं समंतात्तंडुलोपरि । एकाशीतिपदं कार्यं तिलैस्तुल्यं सुशोभनम् । एकद्वित्रिपदाः पंच चत्वारिंशत्सुराचिताः ॥ द्वात्रिंशद्वाह्यतो वक्ष्यमाणाश्चांतस्त्रयोदश ॥ तेषां स्थानानि नामानि वक्ष्यामीश्वरकोणतः । तत्राग्निः शंभुकोणस्थस्त्वसौ चैकपदेश्वरः ॥ तस्माद्वितीयः पर्जन्यश्चासावेकपदेश्वरः । जयंतेंद्रार्कसत्याख्या भृशश्च द्विपदेश्वराः । आकाशवायू परतः क्रमादेकपदेश्वरौ । एवं प्राच्यां नव ज्ञात्वा त्वेवमेवान्यदिक्षु च ॥ आद्याश्रांत्यावेकपदौ द्विपदाः पंच मध्यगाः । पूषाद्यष्टौ यमांताः स्युरमरा याम्यभागगाः ॥ आद्याश्चांत्यावेकपदौ द्विपदाः पंच मध्यगाः । अष्टौ पितृगणाधीशाः पापांताः पश्चिमेश्वराः ॥ आद्यंतौ द्वावेकपदौ द्विपदाः पंच मध्यगाः । रोगादिदित्यंतसुराः सप्त सौम्यदिशि क्रमात् ॥ तत्राधःस्थचतुष्कोणे१ अत्र नक्षत्राणां सप्तदशसंख्यानं चिंत्यम् । Page #458 -------------------------------------------------------------------------- ________________ ४४२ मुहूर्तचिंतामणिः। [लग्न-तिथि-वारशुद्धयः वीशानादिषु च क्रमात् । आपः सावित्रविजयरुद्राश्चैकपदेश्वराः ॥ मध्ये नवपदो ब्रह्मा तस्यैशानादिकोणगाः।आपवत्सोऽथ सविता विबुधाधिपसंज्ञकः॥ राजयक्ष्मा च चत्वारः सुराश्चैकपदेश्वराः । ब्रह्मणः पूर्वतो दिक्षु त्रिपदाश्चामरा अमी ॥ अर्यमा च विवस्वांश्च मित्रः पितृधरः क्रमात् । स्वस्वस्थलेषु देवेषु स्थापितेष्वीदृशं भवेत् ॥ कोणेषु पंच पंचैव चतुर्थैकपदाः सुराः । प्रागादिदिक्षु द्विपदाः पंच पंच यथाक्रमम् ॥ ब्रह्मणः पूर्वतो दिक्षु त्रिपदाः स्युः समीपगाः। हिरण्यरेताः पर्जन्यो जयंतः पाकशासनः ॥ सूर्यः सत्यो भृशाकाशौ वायुः पूषा च वै तथा । गृहक्षतः पितृपतिगंधर्वो भुंगराजकः ॥ मृगः पितृगणाधीशस्तथा दौवारिकाह्वयः । सुग्रीवः पुष्पदंतश्च जलाधीशो निशाचरः ॥ शोषः पापश्च रोगोहिर्मुख्य भल्लाट एव च । सोमसौं दित्यदिती द्वात्रिंशदमराः स्मृताः ॥ आपश्चैवापवत्सश्च जयो रंध्रस्तथैव च । मध्ये नवपदो ब्रह्मा तस्थौ तस्य समीपगाः । प्राच्यां झंतरिता देवाः परितो ब्रह्मणः स्मृताः । अर्यमा सविता चैव विवस्वान्विबुधाधिपः ॥ मित्रोऽथ राजयक्ष्मा च तथा पृथ्वीधरः क्रमात् । आपवत्सोऽष्टमः पंचचत्वारिंशत्सुरोत्तमाः ॥ ज्ञात्वैवं स्थाननामानि ब्रह्मणा सहितान्यसेत् । वास्तुज्ञो वास्तुमंत्रेण गंधपुष्पाक्षतादिभिः ॥ प्रणवेनार्चयेद्वापि अथवा स्वस्वनामभिः । शुक्लवस्त्रयुगं दद्याद्रूपदीपफलैः सह ॥ अपूपैर्भूरि नैवेद्यैर्वाद्यैः सह समर्चयेत् । तांबूलं च ततो दद्याद्देवेभ्यश्च पृथक् पृथक् ॥ दत्त्वा पुष्पांजलिं कर्ता प्रार्थयेद्वास्तुपूरुषम् । वास्तुपुरुष नमस्तेऽस्तु भूमिशय्यारत प्रभो ॥ मद्गृहं धनधान्यादिसमृद्धं कुरु सर्वदा । इति प्रार्थ्य ततो दद्यादक्षिणामर्चकाय च ॥ विप्रेभ्यो भोजनं दत्त्वा स्वयं भुंजीत बंधुभिः । एवं यः कुरुते सम्यग्वास्तुपूजां प्रयत्नतः । आरोग्यं पुत्रपौत्रादिधनधान्यं लभेन्नरः । वास्तुपूजामकृत्वा यः प्रविशेन्नवमंदिरे । रोगान्नानाविधान्क्लेशानश्नुते सर्वसंकटम् ॥' इति वसिष्ठसंहितायां वास्तुशांतिः ॥ विशेषस्त्वन्यसंहिताभ्योऽवसेयः । एवं भूतबलिरपि । उपक्रमोपसंहाररूपो वास्तुशांतिप्रकारः प्रयोगरत्नादिनाम्नीषु स्वस्वशाखाभेदेन भिन्नासु पद्धतिषु द्रष्टव्यः, ग्रंथविस्तरभयान्नेह लिख्यत इत्यलमतिप्रसंगेन । केचित्तु पंचांगशुद्धिमात्रयुक्ते पूर्वदिन एक वास्तुपूजामाहुः । यदाह नारदः-विधाय पूर्वदिवसे वास्तुपूजाबलिक्रियाम्' इति । श्रीपतिरपि-'अथ प्रवेशो नवमंदिरस्य यात्रानिवृत्तावथ भूपतीनाम् । सौम्यायने पूर्वदिने विधाय वास्त्वर्चनं भूतबलिं च सम्यक् ॥' इति ॥ - अथ लग्नशुद्धिं तिथिवारशुद्धिं चोपजातिकोत्तरार्धेनेंद्रवज्रया चाहत्रिकोणकेंद्रायधनत्रिगैः शुभैलग्ने त्रिषष्ठायगतैश्च पापकैः ॥३॥ शुद्धांबुरंधे विजनुर्भमृत्यौ व्यरिरिक्ताचरदर्शचैत्रे । वामं रविं पूर्णघटं पुरश्च कृत्वा विशेद्वेश्म भकूटशुद्धम् ॥ ४ ॥ १ अग्रे सुपूर्ण कलशं द्विजांश्च; अग्रेऽम्बुपूर्ण कलशं द्विजांश्च । Page #459 -------------------------------------------------------------------------- ________________ निषिद्धलग्नफलानि ] गृहप्रवेशप्रकरणम् १३ ॥ ४४३ त्रिकोण इति ॥ शुद्धेति ॥ नवमपंचमचतुर्थसप्तमदश नैकादश द्वितीयतृतीयस्थानानामन्यतमस्थानस्थैः शुभग्रहैरुपलक्षिते पूर्णचंद्रबुधगुरुशुक्रैरुपलक्षिते । अत्र चंद्रस्य लग्नराहित्यं ध्येयम् । तथा तृतीयषष्ठैकादशस्यैः पापग्रहैः क्षीणचंद्रसूर्य भौमशनिराहुकेतुभिरुपलक्षिते तथा अंबु चतुर्थस्थानं रंध्रमष्टमस्थानं शुद्धे सर्वग्रहरहिते अंबुरंध्रे यस्मिंस्तादृशे लग्ने वेश्म गृहमाविशेत् । यदाह वसिष्ठः — 'केंद्रत्रिकोणायधनत्रिसंस्थैः शुभैस्त्रिषष्ठायगतैः खलैश्च । लग्नांत्य - षष्ठाष्टमवर्जितेन चंद्रेण लक्ष्मीनिलयः प्रवेशः ॥' इति । अन्यच्च - 'प्रवेशलग्ना-' न्निधनस्थितो यः क्रूरग्रहः क्रूरगृहे यदि स्यात् । प्रवेशकर्तारमथ त्रिवर्षाद्धंयष्टवर्षैः शुभराशिगश्चेत् ॥' इति । नारदः - 'स्थिरलग्ने स्थिरे राशौ नैधने शुद्धिसंयुते । त्रिकोणकेंद्र स्वाद्याय सौम्यैरुयायारिगैः परैः ॥ लग्नांत्यार्यष्टमस्थानवर्जितेन हिमांशुना ।' इति । प्रवेशः स्यादिति पूर्वेण संबंधः । गुरुः'सप्तमं शुद्धमुद्वाहे यात्रायामष्टमं तथा । दशमं च गृहारंभे चतुर्थं संनिवेशने ॥' इति । यत्तु श्रीपतिना - 'केंद्रच्छिद्रव्ययैः शुद्धैः क्रूरैः षट्त्र्यायगैर्गुरौ । लग्ने भृगोवा केंद्रे वा स्थिरग्राम्योदये विशेत् ॥' इति केंद्रस्य शुद्धत्वमुक्तं तत्पापग्रहराहित्यकृतं ध्येयम् । लग्नस्थगुरुभृग्वोरुक्तिस्त्वतिप्राशस्त्याभिधानार्था । कीदृशे लग्ने ? विजनुर्भमृत्यौ; भं राशिर्लग्नं च, जनुषि जन्मकाले भे जनुर्भे, ताभ्यां मृत्युरष्टमभवनं जनुर्भमृत्युः विगतो जनुर्भमृत्युर्यस्मिन् । स्वजन्मलग्नात्स्वजन्मराशेर्वाष्टमो राशिः प्रवेशलग्नगतो नापेक्षित इत्यर्थः । पुनः कीदृशे ? ब्यर्काररिक्ताचरदर्शचैत्रे । अर्कारौ प्रसिद्धौ वारौ, रिक्ता ४/९/१४, उपलक्षणत्वादग्धतिथयोऽपि, चरलग्नानि मेषकर्कतुलामकराः, उपलक्षणत्वात्तदंशा अपि, दशमावास्या, चैत्रो मासः । उपलक्षणत्वादाषाढोऽपि । विगता अर्कादयो यस्मिन् ; अर्कादयः प्रवेशदिने निषिद्धा इत्यर्थः । यदाह वसिष्ठः - 'न नैधने भेऽपि न चाष्टलग्ने पंचेष्टकेऽप्यष्टमशुद्धियुक्ते । कार्यः प्रवेशो न चरांशलग्ने शुभेक्षिते वाप्यथ संयुते वा । रिक्ताममां दग्धतिथिं दिनेशभूसूनुषड्वर्गमिनेन्दुदृष्टिम् । क्रूरग्रहाधिष्ठितविद्धभं च विवर्जनीयं त्रिविधप्रवेशे ॥' इति । वारफलमप्याह स एव - 'दह्यते प्रविशतां च मंदिरं वह्निना नियतमेव वह्निभे । ब्रघ्नभूमिसुतवासरे तथा शीतरश्मिदिवसे हि वृद्धिदम् ॥ चंद्रजार्यसितवासरेषु च श्रीकरं सुखमहार्थलाभदम् । सूर्यसूनुदिवसे स्थिरप्रदं किंतु चौरभयमत्र विद्यते ॥' इति । एषां निष्कृष्टमर्थमाह श्रीपतिः -- 'रिक्तातिथिर्भू सुतभानुवारौ निंद्याच योगाः परिवर्जनीयाः । मेषः कुलीरो मकरस्तुला च त्याज्याः प्रवेशे हि तथा तदंशाः ॥ ' इति । निषिद्धलग्नफलान्यभिहितानि राजमार्तंडे - 'भूपो यात्रा मेषलग्ने प्रवेशे नाशं गच्छेत्कर्कटस्योदये वा । व्याधिं तौलिन्याश्रिते लग्नवर्तिन्याकेकेरे चाप्नुयाद्धान्यनाशम् ॥' आकेकेरे मकरे । 'लग्नेऽन्यत्रांशकेऽप्येषामेतद्दुष्टफलप्रदाः । शुभान्यन्यानि लग्नानि प्रवेशे मुनयो विदुः ॥' इति । अन्यानि स्थिराणि द्विस्वभावानि च । उक्तं च वसिष्टेनपंचांगसंशुद्धदिने निशेशताराबले चाष्टकवर्गयुक्ते । सौम्ये स्थिरे मे शुभदृष्टियुक्ते लग्नेऽथवा द्वथंगगृहे विलग्ने ॥' इति । विशेषो राजमार्तडे - 'निंदिता Page #460 -------------------------------------------------------------------------- ________________ ४४४ मुहूर्तचिंतामणिः। [गृहप्रवेष्टुमिसूर्यज्ञानं अपि शुभांशसमेतास्तौलिमेषमकराः सकुलीराः । कर्तृभोपचयगाश्च विलग्ने राशयः शुभफलाय भवंति ॥' इति । एतल्लग्नांतराशुद्धौ बहुकालासहिष्णुत्वे वा द्रष्टव्यम् । शुभांशाः वृषमिथुनकन्याधनुर्मीनानामंशा इत्यर्थः। कर्कतुलाशयोः स्वरूपतो निषिद्धत्वात् । विशेषांतरमाह वसिष्ठः-'यःक्षीणचंद्रोऽन्त्यषडष्टसंस्थः पापेक्षितः पापयुतोऽथवा स्यात् । कर्तुः स्त्रियं हंति स वत्सरेण त्रिवर्षतः सौम्यनिरीक्षितश्चेत् ॥' इति । अथ राज्ञां यात्रानिवृत्तिप्रवेशे विशेषो ध्येयः। यत्र मासे यात्रा कृता तस्मानवमे मासि यात्रादिनानवमे दिने वा प्रवेशो निषिद्धोऽस्ति । यदाह गुरुः–'निर्गमानवमे मासि प्रवेशो नैव शोभनः । नवमे दिवसे चैव प्रवेशं नैव कारयेत् ॥' इति । वामं रविमिति । गृहप्रवेशसमये रविं सूर्य वामं यद्दिगभिमुखात्प्रवेश्य गृहाद्वामभागस्थं कृत्वा वेश्म गृहं विशेत् । तथा पुरोऽग्रे स्वसंमुखं पूर्णघटं जलपूर्ण कलशमुपलक्षण. त्वात्पूगीफलादिपूर्ण घटं वा कृत्वा चकारस्यानुक्तसमुच्चयार्थत्वाद् ब्राह्मणांश्च सजलकलशानपि ब्राह्मणान्वाऽने कृत्वा वेश्म विशेत् । अत्र शुक्रः पृष्ठगः कार्य इत्यनुक्तोऽपि विशेषो ध्येयः। यदाह वसिष्ठः-'कृत्वा शुक्र पृष्ठतो वामतोऽर्क विप्रान्पूज्यानग्रतः पूर्णकुंभम् । हयं रम्यं तोरणस्रग्वितानैः स्त्रीभिः स्रग्वी गीतमाल्यैर्विशेत्तत् ॥' इति । गुरुस्तु-वामगोऽग्रगो वा शुक्रो निषिद्धः, किंतु पृष्ठगतो दक्षिणगतो वा शुभ इत्याह-'पृष्ठगं दक्षिणं वापि भृगुं कृत्वा विशेत्सदा । पुरोगं वामगं वापि शुक्रं कृत्वा विशेञ्च न ॥' इति । अत्र शुक्रस्य दिक्चतुष्टयस्थत्वज्ञानं चंद्रवदेव ज्ञेयं विशेषानुक्तेः। तच्च गृहारंभप्रकरणेsस्माभिरुक्तम् । अयं च सर्ववर्णानां त्रिविधेऽपि प्रवेशे विधिः। राज्ञां तु यात्रानिवृत्तौ विशेषमप्याह श्रीपतिः- कृत्वा विप्रान्सजलकलशांश्चाग्रतो वामतोऽक स्त्रातः स्रग्वी विमलवसनो मंगलैर्वेदघोषैः । व्यस्तैर्यात्राकथितशकुनैारमार्गेण राजा हयं पुष्पप्रकररुचिरं तोरणाढ्यं विशेच्च ॥' इति । कीदृशं वेश्म? भकूटशुद्ध; भकूटं षष्ठाष्टकादि,तेन शुद्धं उपलक्षणत्वाद्विवाहप्रकरणोक्तम् 'वर्णो वश्यं तथा तारा' (६।४१) इत्येवमादिकं च तेनापि शुद्धं ध्येयम् । यदाह वसिष्ठः- राशिकूटादिकं सर्व दंपत्योरिव चिन्तयेत् ॥' इति ॥ ३ ॥ ४ ॥ __अथावसरप्राप्तं वामगतार्कज्ञानं तिथिपरत्वेन पूर्वाद्यभिमुखप्रवेशं चंद्रवंशाछंदसाहवामो रविमृत्युसुतार्थलाभतो पंचभे प्राग्वदनादिमंदिरे । पूर्णातिथौ प्राग्वदने गृहे शुभो नंदादिके याम्यजलोत्तरानने ५ वाम इति ॥ अष्टमपंचमद्वितीयैकादशस्थानेभ्यः पंचसु स्थानेषु स्थिते रवौ सति प्राग्वदनादिमंदिरे प्रवेष्टव्ये । गृहप्रवेशकर्तुर्वामो रविज्ञेयः । तद्यथायस्मिन् लग्ने प्रवेशः कर्तुमिष्यते तस्मादष्टमं यत्स्थानं तस्मात्पंचसु स्थानेषु अर्के स्थिते पूर्वाभिमुखगृहप्रवेशकर्तुर्वामः सूर्यः स्यात् । तथा लग्नाद्यत्पंचम स्थानं ततः पंचसु स्थानेषु अर्के स्थिते दक्षिणाभिमुखगृहप्रवेशकर्तुर्वामः १ गृहाबहिनिष्क्रमणे सति गंतुर्मुखं पूर्वाभिमुखं भवेत् , प्रवेशे च पश्चिमदिगभिमुख गन्तुर्मुखं चेद्भवेत्तदा तद्गृहस्य पूर्वाभिमुखत्वं ज्ञेयम् । एवं गृहाद्वहिनिष्क्रमणे या गन्तुरभिमुखा दिक् तदभिमुखत्वं तद्गृहस्येति दिक् । Page #461 -------------------------------------------------------------------------- ________________ गृहप्रवेषाचक्रम् ] गृहप्रवेशप्रकरणम् । सूर्यः, एवं लग्नायद्वितीयं स्थानं ततः पंचसु स्थानेषु स्थिते सूर्ये पश्चिमाभिमुखगृहप्रवेशकर्तुर्वामः सूर्यः । तथैव लग्नाद्यदेकादशं स्थानं ततः पंचसु स्थानेषु सूर्ये स्थिते उत्तराभिमुखगृहप्रवेशकर्तुमिः सूर्य इत्यर्थः । पथा चक्रोद्धारः गृहप्रवेशचक्रम् । पूर्वमुखे दक्षिणमुखे | पश्चिममुखे उत्तरमुखे लग्नात् सूर्यः ८ लग्नात् सूर्यः ५ | लग्नात् सूर्यः २ लमात् सूर्यः १७ सू० ९ । सू० ६ - सू० ३ सू० १२ ५०१० सू० ७ सू० ११ सू० ८. सू० ५ सू०२ सू० १२ सू. ९ | सू०६ उक्तं च-रंध्रात्पुत्राद्धनादायात्पंचखर्के स्थिते क्रमात् । पूर्वाशादिमुखं गेहं विशेद्वामो भवेद्यतः ॥' इति । विश्वकर्माऽपि- लग्नात्प्रागादितो दिक्षु द्वौ द्वौ राशी नियोजयेत् । एकमेकं न्यसेत्कोणे सूर्य वामे विचिंतयेत् ॥' इति । लग्नात् प्राच्यां द्वौ राशी स्थाप्यौ, कोणे चैकः, एवं दक्षिणस्यां प्रतीच्यामुदीच्यां चेत्यर्थः । पूर्णातिथाविति । प्राग्वदने पूर्वाभिमुखे गृहे पूर्णातिथौ पंचम्यां दशम्यां पूर्णिमायां वा प्रवेशः शुभः। नंदादिके तिथिगणे याम्यजलोत्तरानने गृहप्रवेशः शुभः । यथा-दक्षिणाभिमुखे गृहे नंदायां प्रतिपदि षष्ट्यामेकादश्यां वा प्रवेशः शुभः । जलं पश्चिमदिक्, तद्दिगभिमुखे भद्रायां द्वितीयायां सप्तम्यां द्वादश्यां वा प्रवेशः शुभः । उत्तराभिमखे गृहे जयायां तृतीयायामष्टम्यां त्रयोदश्यां वा प्रवेशः शुभ इत्यर्थः । यदाह गुरु:-'नंदायां दक्षिणद्वारं भद्रायां पश्चिमामुखम् । जयायामुत्तरद्वार पूर्णायां पूर्वतो विशेत् ॥' इति । मूले नंदादिके इति पदोपादानाद्विक्ताग्रहणं यद्यप्यायाति तथापि विदिक्षु द्वारनिषेधाद्दिशां च चतुष्टयेन चतुर्णा द्वाराणां संभवात् स्वरूपतो निषेधाच रिक्ताग्रहणासंभवो ध्येयः । सोऽपि संमतिवाक्ये स्पष्ट एव ॥५॥ ३८ मु० चि. Page #462 -------------------------------------------------------------------------- ________________ .. मुहूर्तचिंतामणिः। [कलशवास्तुचर्क अथ गृहप्रवेशे कलशवास्तुचक्र शार्दूलविक्रीडितेनाहवक्रे भूरविभात्प्रवेशसमये कुंभेऽग्निदाहः कृताः प्राच्यामुद्वसनं कृता यमगता लाभः कृताः पश्चिमे । श्रीर्वेदाः कलिरुत्तरे युगमिता गर्ने विनाशो गुदे - रामाः स्थैर्यमतः स्थिरत्वमनलाः कंठे भवेत्सर्वदा ॥६॥ वक्र इति ॥ कलशस्याष्टधा विभागाः परिकल्प्याः । मुखं कंठो गर्भो गुदं चेति चत्वारो विभागाः, पूर्वादिदिक्परत्वेन चत्वारो विभागाः, एवमष्टो स्युः । तत्र विभागपरत्वेन सूर्यभान्नक्षत्रन्यासे फलमुच्यते-वत्रे इति । गृहप्रवेशसमये इति सर्वत्रापि संबध्यते । कुंभे कलशाकृतौ वास्तुनि, रविभात् सूर्याक्रांतनक्षत्रादिति ल्यब्लोपे पंचमी । रविमारभ्य नक्षत्रन्यास इत्यर्थः । तत्र कलशस्य ववे मुखे भूरेकं सूर्याक्रांतनक्षत्रमेव स्थाप्यं, तत्फलं गृहस्थाग्निदाहः । ततः सूर्यभात्कृता अग्रिमाणि चत्वारि भानि प्राच्यां स्थाप्यानि, फलमुद्वसनं जनवासशून्यं गृहं स्यात् । ततः कृता यमगतास्तदुनिमाणि चत्वारि भानि दक्षिणस्यां यमदिशि स्थाप्यानि, फलं गृहपतेर्लाभो द्रव्यप्राप्तिः । ततः कृताः पश्चिमे तदग्रिमाणि चत्वारि भानि पश्चिमायां स्थाप्यानि, फलं गृहपतेः श्रीप्राप्तिः। ततो वेदा उत्तरे तदग्रिमाणि चत्वारि भानि उत्तरस्यां स्थाप्यानि, फलं कलिलोकैः सह गृहसंबंधी निरर्थको झकटः स्यात् । ततो युगमितास्ततोऽग्रिमाणि चत्वारि भानि गर्भे कलशमध्ये स्थाप्यानि, फलं विनाशः । कस्येत्याकांक्षायां गर्भोपादानादाविनां गर्भाणां विनाश इत्यर्थः । ततो रामास्तदग्रिमाणि त्रीणि भानि गुदे बुध्ने स्थाप्यानि, फलं स्थैर्य गृहपतेबहकालं तत्र गृहे निवासः । ततोऽनलास्तदग्रिमाणि त्रीणि भानि कंठे स्थाप्यानि, फलं स्थिरत्वं सर्वदा गृहपतेर्भवेत् । एवमभिजिद्रहितानि सप्तविंशतिभानि स्युः । तदुक्तं विश्वकर्मणा-'घटाकारं लिखेच्चक्रं रविधिष्ण्यक्रमण च । मुखैकं दिक्षु चत्वारि त्रीणि त्रीणि गुदकंठयोः । एवं चक्रं समालेख्यं प्रवेशार्थ सदा बुधैः ॥' अत्र चत्वारि इति वीप्सा द्रष्टव्या । दिक्षु इत्यनेन गर्भोऽप्युपलक्ष्यते । तथा च फलनिर्देशस्तत्रैव-अग्निनाशो मुखे प्रोक्त उद्वासः पूर्वतो भवेत् । दक्षिणे चार्थलाभाय पश्चिमे श्रीप्रदो भवेत् ॥ उत्तरे कलहश्चैव गर्भे गर्भविनाशनम् । स्थिरता च गुदे कंठे कलशस्य प्रकीर्तिता।' इति । ज्योति प्रकाशेऽपि-'भूर्वेदपंचकं त्रिस्त्रिः १॥४४॥४॥४४॥३॥३॥प्रवेशे कलशेऽर्कभात् । मृतिर्गतिर्धनं श्रीः स्याद्वैरं शुक् स्थिरता सुखम् ॥' इति । वेदपंचकं वेदाश्चत्वारस्तेषां पंचकं पंचवारं चत्वारि भानि लेख्यानीत्यर्थः । मृतिरित्यादीन्यष्टौ यथासंख्यं फलानि । अत्र कलशचक्रे शुभफलदस्थानपाते सत्येव विहितनक्षत्राणां परिग्रहो युक्तस्तत्रापि यद्दिङ्मुखे प्रवेशो विधित्सितः तद्दिङ्मुखविहितनक्षत्रपरिग्रहः । यथा-पूर्वदिङ्मुखगृहप्रवेशे विधि Page #463 -------------------------------------------------------------------------- ________________ प्रवेशोत्तरकालविहितं कर्म ] गृहप्रवेशप्रकरणम् १३ । ४४७ सिवे रोहिणीमृगे ग्राले । दक्षिणाभिमुखगृहप्रवेशे उत्तराफल्मुनीचित्रे एवं पश्चिमाभिमुख अनुराधोत्तराषाढे; एवं उत्तराभिमुखे उत्तराभाद्रपदारेवल्यौ ग्राले इति निष्कृष्टोऽर्थः । अत एवोक्तं वसिष्ठेन-ध्यदिग्द्वारं मंदिरं तद्दिगृ:रुक्तः स्यात्सन्निवेशो न सर्वैः।' इति । तद्दिगृक्षैरिति उक्तरिति चानयोः सामानाधिकरण्येनान्वयः । भिन्नवाक्यत्वे तु विवक्षिते चकारः कर्तव्यः। 'संभवत्येकवाक्यत्वे वाक्यभेदो हि दूषणम्' इति न्यायाच्च । अत एव-'अर्काग्नितोयादितिदत्रविष्णुऋक्षे प्रविष्टं नवमंदिरं यत् । अब्दत्रयात्त. त्परहस्तयातं शेषेषु धिष्ण्येषु च मृत्युदं स्यात् ॥' इति निषेधोऽप्युपपन्नो भवति ॥ ६॥ __ अथ गृहप्रवेशप्रकरणोपसंहारं सूचयन् प्रवेशोत्तरकालीनकर्तव्यं विधिमुपजावाहएवं सुलग्ने स्वगृहं प्रविश्य वितानपुष्पश्रुतिघोषयुक्तम् । शिल्पज्ञदैवज्ञविधिज्ञपौराबाजार्चयेभूमिहिरण्यवस्त्रैः ॥ ७॥ __ एवं सुलग्न इति॥ एवं प्रागुक्तप्रकारेण विचारिते सुलग्ने निर्दूषणे सकलगुणयुक्ते च शोभनलग्ने स्थिरराश्यादिके राजा वितानपुष्पश्रुतिघोषयुक्तं वितानानि वनमंडपाः पुष्पाणि स्वर्तुजातानि मालत्यादीनि श्रुतिघोषो वेदध्वनिश्च तैर्युक्तमुपलक्षणत्वात्तोरणाधनेकमांगल्यवस्तुसहितमेतादृशं स्वगृहं स्वसत्ताकं गृहं प्रविश्य शिल्पज्ञान् गृहोत्थापकान् स्थपतिवर्धक्यादीन् दैवज्ञान् ज्योतिर्विदः विधिज्ञांश्च पूजाभूतबलिगृहप्रवेशनीयविधिज्ञान् पुरोहितप्रभृतीन् पोरान्नागरिकान् पंडितदीनानाथांधकृषणांश्च भूमिहिरण्जवस्त्रैर्यथाशक्ति हिरण्येन वा वस्वैर्वा व्यस्तैर्वा समुञ्चितैर्वा उपलक्षणत्वादश्वगजादिभिर्वा अर्चयेत्पूजयेत् । यदाह वसिष्ठः-'हर्म्य रम्यं तोरणस्रग्वितानैः स्त्रीभिः स्रग्वी गीतवाद्यैर्विशेत्तत् ।' इति । राजमार्तडेऽपि-भूरि पुष्पनिकरं सतोरणं तोयपूर्णकलशोपशोभितम् । गंधपुष्पबलिपूजितामरं ब्राह्मणध्वनियुतं विशेगृहम् ॥' इति । कीदृशं गृहं प्रवेशयोग्यं न भवतीति वसिष्ठेनाभ्यधायि-'यद्वास्तुपूजारहितं त्वदत्तबलि त्वनाच्छन्नगृहं विरूपम् । कपाटहीनं न विशेद्यतस्तत्सर्वापदामालयमेव तत्स्यात् ॥' इति । नारदोऽपि-'अकपाटमनाच्छन्नमदत्तबलिभोज. नम् । गृहं न प्रविशेद्धीमान्विपदामालयं हि तत् ॥' इति । तस्मात्सकपाटमुपरिष्टादाच्छादितं कृतवास्तुपूजं दत्तवलि एवं गृहं प्रविशेत् । प्रवेशोत्तर. कर्तन्यं विधिमाह श्रीपतिः-'ततो नृपो विप्रसुहृत्पुरोधसः शिल्पज्ञभूगोलविदश्च लिंगिनः । धनैश्च रलैः पशुभिः समर्चयेत्सहांधदीनान्पुरवासिनस्तथा ॥ इति शिवम् ॥ ७ ॥ __ अथ गृहप्रवेशप्रकरणं गद्येनोपसंहरतिइति श्रीदैवज्ञानंतसुतदैवज्ञरामज्योतिर्विद्विरचिते मुहूर्तचिंतामणौ गृहप्रवेशप्रकरणं समाप्तम् ॥ १३ ॥ Page #464 -------------------------------------------------------------------------- ________________ ४४८ मुहूर्तचिंतामणिः । स्पष्टार्थमेतत् ॥ ज्योतिर्विद्वरनीलकंठविदुषः श्रीचंद्रिकायास्तथा पुत्रेणाहिगवीप्रसारितधिया मौहूतचिंतामणेः । गोविंदेन विनिर्मिते नयनिधौ पीयूषधाराभिधे व्याख्याने गृहवेशनप्रकरणं संपूर्णतामध्यगात् ॥ १ ॥ इति श्रीमदैवज्ञमुकुटालंकारनीलकंठज्योतिर्वित्पुत्रगोविंदज्योतिर्विद्विरचितायां मुहूर्तचिंतामणिटीकायां पीयूषधाराभिधायां गृहप्रवेशप्रकरणं समाप्तम् ॥ १३ ॥ अथ वंशवर्णनप्रकरणम् १४ । अथ मुहूर्तचिंतामणेज्यौतिषग्रंथस्य समाप्तिं कर्तुकामो ग्रंथकृत्तत्सूचनाऽलंकारभूतं स्वपितामहचिंतामणिदैवज्ञवर्णनं शार्दूलविक्रीडितेनाह आसीद्धर्मपुरे षडंगनिगमाध्यवृद्विजैमंडिते । .. ज्योतिर्वित्तिलकः फणींद्ररचिते भाष्ये कृतातिश्रमः । तत्तजातकसंहितागणितकृन्मान्यो महाभूभुजां ___तोलंकृतिवेदवाक्यविलसद्बुद्धिः स चिंतामणिः ॥१॥ __ आसीदिति ॥ प्रसिद्धः चिंतामणिश्चिंतामणिनामा धर्मपुरे विदर्भदेशप्रदेशविशेषे नर्मदासमीपवर्तिनि मातृपुराख्ये मासीत् । कीदृशे धर्मपुरे? षडंगनिगमाध्यतृद्विजैमंडिते निगमो वेदः षट् अंगानि यस्यासौ षडंगः । षडंगानीमानि-शिक्षा कल्पो व्याकरणं निरुक्तं छंदो ज्यौतिषं चेति । षडंगश्चासौ निग. मश्च षडंगनिगमस्तस्याध्येतारोऽध्ययनकर्तारः । अध्येतृभिरध्यापका अप्युपलक्ष्यंते । न हि विनाध्यापकं वेदाध्ययनं क्वचिद् दृष्टम् । तादृशा द्विजाः ब्राह्मणाः ब्राह्मणक्षत्रियवैश्या वा तैमंडिते भूषिते । कीदृशः चिंतामणिः ? ज्योतिर्वित्तिलकः, ज्योतींषि नक्षत्राणि लक्षणया तत्प्रतिपादका ग्रंथा ज्योतिः शब्देनोच्यते, तान्विदंति ते ज्योतिर्विदः, 'सत्सूद्विषत्' इत्यादिना किए । ज्योतिर्वित्सु तिलक इव ज्योतिर्विच्छ्रेष्ठ इत्यर्थः । पुनः कीदृशः ? फणींद्ररचिते फणींद्रः शेषो महानागस्तेन रचिते भाष्ये व्याकरणमहाभाष्ये कृतोऽतिश्रमोऽत्यभ्यासो येन सः, महाभाष्याध्ययनपारग इत्यर्थः । पुनः कीदृशः? तत्तजातकसंहितागणितकृत् । तानि तानि स्वल्पबृहदादिभेदेनानेकविधानि जात. कानि जातकशास्त्राणि, संहिताः संहिताशास्त्राणि, गणितानि गणितशास्त्राणि करोति तादृशः, होरासंहितागणितरूपस्कंधत्रयात्मकस्य ज्योतिःशास्त्रस्य स्वपधैर्निर्मातेत्यर्थः; अनेन महाकविरित्यपि सूचितम् । पुनः कीदृशः? महाभूभुजां सकलजंबुद्वीपवर्तिराजमुकुटमणीनां महतां राज्ञां पातशाहादीनां पूज्यः, Page #465 -------------------------------------------------------------------------- ________________ वंशवर्णनप्रकरणम् १४ । महाराजमान्य इत्यर्थः। पुनः कीदृशः ? तर्कालंकृतिवेदवाक्यविलसद्बुद्धिः, तर्को न्यायशास्त्रं, अलंकृतिरलंकारशास्त्रं,वेदवाक्यं वेदवाक्यविचारप्रतिपादको ग्रंथो मीमांसाशास्त्रं वेदांतशास्त्रं च, तेषु विलसंती विलासयुक्ता बुद्धिर्यस्य सः। 'द्वंद्वांते श्रूयमाणं पदं प्रत्येकमभिसंबध्यते' इति न्यायात्तर्कशास्त्रज्ञः अलंकारशास्त्रज्ञः मीमांसाज्ञो वेदांतज्ञश्चेत्यर्थः । आसीदिति 'असं भुवि' इत्यस्माल्लङि 'आडजादीनाम्' इत्याद, 'नसोरल्लोपः' इत्यकारस्य लोपः। षडंगनिगमाध्यतृद्विजैरित्यत्र समस्तपदे षडंगनिगम इत्यत्र 'तत्पुरुषः समानाधिकरणः कर्मधारयः' इति कर्मधारयसमासः। अध्येतृशब्दे च 'इअध्ययने' इत्यस्मात् 'इङिकावध्युपसर्गान्न व्यभिचरतः' इत्युक्तेरधिपूर्वकात् ‘ण्वुल्तृचौ' इति कर्तरि तृच् , 'सार्वधातुकार्धधातुकयोः' इति गुणः, ततो यणादेशः। ततः षडंगनिगमस्याध्येतार इति षष्ठी' इति षष्ठीसमासः । नन्वत्र कथं षष्ठीसमासः? यावता 'कर्तृकर्मणोः कृति' इति कर्मणि षष्ठी, उत 'षष्ठी शेषे' इति संबन्धसामान्ये षष्ठी ? तत्र यदि विशेषषष्ठी तदा ‘कर्तरि च' इति कर्बर्थोत्पन्नाभ्यां तृजकाभ्यां कर्मषष्ठीसमासनिषेधप्रसंगः । न च तृचमंगीकृत्यैतद्दषणं त्वया दापितमेव नांगीकुर्मः, किंतु तच्छीलाधिकारविहितं तृनं विधास्यामः । तद्योगे प्राग्वदेव षष्ठी विधाय षष्ठीसमासो भविष्यतीति वाच्यम् ; 'एकं संधिसतोऽपरं प्रच्यवते' इति न्यायेन 'न लोकाव्ययनिष्ठाखलर्थतनाम्' इति तृनो योगे षष्ठ्येव नास्ति कुतस्तरां षष्ठीसमासः ? ननु च नायं कृद्योगनिमित्तकर्मषष्ट्या समासः, किं तर्हि षडंगनिगममधीयत इति विगृह्य तृन्यानीते-'उपपदमतिङ्' इत्युपपदसमासे कृते पडंगनिगमाध्येतार इति भविष्यत्येव किं कल्पनांतरेण सदूषणेन । न च सोपपदाद्धातोस्तृज्विधानं नास्तीति वाच्यम् । 'हिमवच्छ्रोता आदित्यद्रष्टा' इत्यादिमहाभाष्यकारप्रयोगेष्वसमाधानं स्यादिति। एवं तर्हि कर्मण्युपपदे 'कर्मण्यण्' इत्यण् प्रसज्येत । ततश्च षडंगनिगमाऽध्याया इति स्यात् । तस्माद्विशेषषष्ठीमंगीकृत्यानुपपन्नः षडंगनिगमाध्येतार इति प्रयोगः । सत्यम् । ज्ञापकाद्भविष्यति समासः। किं ज्ञापकम् ? 'जनितकर्तुः प्रकृतिः' इति । अनेन 'कर्तरि च' इति षष्टीसमासप्रतिषेधोऽनित्य इति ज्ञाप्यत इत्यनित्यत्वं षष्ठीसमासप्रतिषेधस्य मनसि निधाय साधुत्वमंगीकृतवानस्य प्रयोगस्य ग्रंथकृत् । अत एव-'भीष्मः कुरूणां भयशोकहंता' 'कालचक्रप्रयोक्तारम्' 'सैव सिद्धांतवेत्ता' इत्यादयो महाकविप्रयोगा उपपन्ना भवंति । एवमेव विवाहप्रकरणे 'भवति विवाहविनाशकारकोऽयम्' इति 'पापौ कर्तरिकारको' इत्यत्र विवाहविनाशकारक इति 'कर्तरिकारको' इत्यनयोः प्रयोगयोरिदानीमुक्तपूर्वपक्षयोायस्त्वात् 'तत्प्रयोजको हेतुश्च' इति ज्ञापकान्निषेधाऽनित्यत्वमंगीकृत्य समाधिरंगीकार्यः। अत एव 'निजत्रिनेत्रावतरत्वबोधिकाम्' इत्यादिप्रयोगोपपत्तिः। यदि तु संबंधमात्रे षष्ठीति मतं तदा कर्मषष्ठ्यभावादेव 'कर्तरि च' इति निषेधाभावात्सुखेन षष्ठीसमासः। अथवा षडंगनिगममध्येतुं शीलं येषां ते इति विगृह्य तच्छीलाधिकारविहितं तृनं Page #466 -------------------------------------------------------------------------- ________________ मुहूर्तचिंतामणिः । विधाय गम्यादीनामिष्टिरिति गम्यादेराकृतिगणत्वात् तृनो योगे षष्ठ्यभावाच्च द्वितीयतत्पुरुषसमास इत्यलमतिप्रसंगेनेति शिवम् ॥ १ ॥ अथ क्रमप्राप्तं तातवर्णनं शार्दूलविक्रीडितेनाहज्योतिर्विद्द्भणवंदितांत्रिकमलस्तत्सूनुरासीत्कृती नाम्नाऽनंत इति प्रथामधिगतो भूमंडलाहस्करः । यो रम्यां जनिपद्धतिं समकरोद्दुष्टाशयध्वंसिनीं टीकां चोत्तमकामधेनुगणितेऽकार्षीत्सतां प्रीतये ॥ २ ॥ ज्योतिर्विद्गणेति ॥ तत्सूनुस्तस्य चिंतामणिदैवज्ञस्य सूनुः पुत्रोऽनंत इति नाम्ना प्रथां ख्यातिमधिगतः प्राप्त आसीत् । कीदृश: ? ज्योतिर्विद्वणवंदितांघ्रिकमलः । ज्योतिर्विदां ज्यौतिषिकाणां यो गणः समूहस्तेन वंदिते अंधिकमले चरणसरोरुहे यस्य तादृशः सकलज्योतिर्विदां ज्योतिःशास्त्राध्ययने एष एवाध्यापक इत्यर्थः । पुनः कीदृश: ? भूमंडलाहस्करः, भूमंडलस्य पृथ्वीमंडलस्याहस्करः सूर्यः, प्रकाशकत्वात् । यथा सूर्यः स्वकिरणैरखिलां पृथ्वीं प्रकाशयति तथा ज्योतिःशास्त्राध्यापनद्वारा पृथिव्याः प्रकाशक इति भावः । पुनः कीदृशः ? कृती कुशलः, 'कृती कुशल इत्यपि' इत्यमरः । नानाग्रंथ करणकुशल इत्यर्थः । ग्रंथकर्तृत्वमेवोत्तरार्धन प्रकाशयति-यो रम्यामिति । योऽनंत ः जनिपद्धतिं जनिर्जन्म 'जनुर्जननजन्मानि जनिरुत्पत्तिरुद्भवः' इत्यमरः । तस्य पद्धतिर्मार्गः भावादीनामंतर्दशांत गणितेन जातकशास्रोक्तशुभाशुभफलकालोपदेशप्रतिपादको ग्रंथो जन्मपद्धतिस्तां समकरोत्सम्यक् चकार । सम्यक्त्वमेवाह - कीदृशीं जनिपद्धतिं ? दुष्टाशयध्वंसिनीम् । दुष्टाः जन्मपद्धतिमार्गसंप्रदायानभिज्ञास्तेषामाशयोऽभिप्रायो युक्त्या वैपरीत्याख्यानं तं ध्वंसितुं शीलं यस्याः सा तादृशीम् । यथा"भाद्या दशा चेत्सवितुर्विधोर्वा तदा बलं संस्कृतमेव तस्य' इति श्रीपतिवाक्ये संस्कृतमिष्टकष्ट बलांतरेण गुणितमिति जातकालंकाराख्यटीका कृता व्याकृतम् । तन्नादिशर्मपद्धतिवाक्यं संमतित्वेन दर्शितं तदुभयमपि चिंत्यं चिंत्यप्रकारस्त्वनुवादपूर्वकः स्वपद्यैरेवोपनिबद्धः । यथा - 'य इष्टकष्टांतरनिघ्नवीर्याद्दशाक्रमं रिष्टमनिष्टभंगम् । विचारयंतीह नमोऽस्तु तेभ्यः श्रीश्रीधरोक्तं बहुसंमतं सत् ॥ यस्येष्टकष्टे सदृशे भवेतां तदंतरम्नं बलमेव शून्यम् । यदा तदासौ बलवान् प्रधी वेत्थं विचित्यं भुवनोचितं हि ॥ यतः शुभं वाप्यशुभं ग्रहस्य वीर्य सहैवास्ति न तस्य हानिः । तस्मान्न नाशो विवरेऽनयोस्तु द्वैधं फलाप्त्यै न 'दशक्रमादौ ॥' इति । एवमन्येषु स्थलेषु दुष्टाशय निराकरणं कृतमिति । अतः रम्यां दोषापाकरणेनातिसुंदराम् । यथान्योऽपि राजादिः पद्धतिं मार्ग चौरादिदुष्टनिराकरणेनातिसुंदरां करोतीति ध्वनिः । किंच यः उत्तमकामधेनुगणिते उत्तममल्पक्लेशेन ब्रह्मार्य भट्टपक्षीयपंचांगानयनप्रतिपादकं यत्कामधेनुनामकं गणितशास्त्रं तत्र टीकां तदभिप्रायविवृतिमकार्षीत् । किमर्थ ? सत ४५० Page #467 -------------------------------------------------------------------------- ________________ वंशवर्णनप्रकरणम् १४ । गणितशास्त्राभिज्ञानां प्रीतये तुष्टयै । अनेनास्यानेकग्रंथकरणप्रयासकर्तृत्वं न स्वार्थमत्यल्पायासेन दृढतरज्योतिःशास्त्राभिज्ञत्वात् । किंतु सत्तुष्ट्यर्थमेव । यावस्वीयशास्त्राभ्यासो ग्रंथकरणद्वारान प्रकाश्यते तावत्सकलसंतुष्टिर्न भवतीत्यनेकग्रंथकरणप्रयास इति सूचितम् । कृतीति 'अत इनिठनौ' इतीनिः। ननु एकाक्षरास्कृतो जातेः सप्तम्या च न तौ स्मृतौ' इत्युक्तेः कृतशब्दस्य कृदंतत्वात्कथमत्रेनिः? उच्यते-नायं समुच्चयः कृतो जातेश्चेति, किं तर्हि ? जातिर्विशेषणं कृद्रहणं कृद्योगे जातिरिति । एवं च कार्यो कार्यिकः, तंडुली तंडुलिक इत्यपि सिध्यति, तेन व्याघ्रवानित्यादावेव इनिठनोनिषेधो नान्यत्रेति महाभाष्यकारेणैवं वार्तिकच्याख्यानागवत्येवात्रेनिः। अहस्कर इति 'दिवाविभानिशा-' इत्यादिना कर्मण्यणो बाधकष्टप्रत्ययः । समकरोदिति 'डुकृञ् करणे' इत्यस्मात्संपूर्वात् 'अनद्यतने लङ्' इति लङ् । अकार्षीदिति तस्मादेवानिटो लुङि च्लेः सिच् ‘सिधि वृद्धिः परस्मैपदेषु' इति वृद्धिः 'उरणपरः' इति रपरत्वम् ॥ २॥ अथ स्वनामकथनपूर्वकं मंगलं सूचयन् मुहूर्तचिंतामणिनामकज्यौतिषग्रंथसमातिं पृथ्वीछंदसाह तदात्मज उदारधीविबुधनीलकण्ठानुजो गणेशपदपंकजं हृदि निधाय रामाभिधः। गिरीशनगरे वरे भुज जेषुचन्द्रमिते शके विनिरमादिमं खलु मुहूर्तचिंतामणिम् ॥३॥ तदात्मज इति ॥ तदात्मजस्तस्याऽनंतज्योतिर्विद मात्मजः पुत्रो रामाभिधो रामसंज्ञक: गिरीशनगरे गिरीशो महादेवस्तस्य नगरे वाराणसाख्ये मुहूर्तचिंतामणिनामकं ज्यौतिषग्रंथमिमं प्रत्यक्षदृश्यं विनिरमात् मकार्षीत् । खलुशब्दो वाक्यालंकारे। कीदृशो रामाभिधः? उदारधीः,उदारा भनेकशिष्यविद्यादिदानकारिका धीर्बुद्धिर्यस्यासौ तथा । पाठितानेकशिष्य इत्यर्थः। पुनः कीदृशः? विबुधनीलकंठानुजः, चिबुधः ज्योतिषव्याकरणाद्यनेकविद्यायां पंडितो नीलकंठस्तस्यानुजो लघुभ्राता। किं कृत्वा? गणेशस्य स्वकुलोपास्यमहागणपतेः पदपंकजं चरणकमलं,जात्यभिप्रायेणैकवचनं गणेशपदपंकजे इत्यर्थः। ते मंतःकरणे निधाय 'मङ्गलान्तानि शास्त्राणि प्रथंते वीरपुरुषाण्यायुष्मत्पुरुषकाणि च' इति महाभाष्यकारोक्तेश्च । कीदृशे गिरीशनगरे? वरे मोक्षदातृत्वेन श्रेष्ठे। यद्यपि 'अयोध्या मथुरा माया काशी कांची अवंतिका। पुरी द्वारावती चैव सप्तैता मोक्षदायकाः ॥' इति वाक्यान्मोक्षरूपफलप्रदत्वेनायोध्यादीनां नगरीणां साम्यमेव प्रतीयते । तथापि 'अन्यानि मुक्तिक्षेत्राणि काशीप्राप्तिकराणि वै । काशी प्राप्य विमुच्येत नान्यथा तीर्थकोटिभिः ॥' इति वाराणस्या विशिष्यमुक्तिप्रदत्वेनाऽभिधानाच्छ्रेष्ठ्यं वाराणस्याः । ननु 'अयोध्या मथुरा माया' इत्यादिवाक्यस्य 'अन्यानि मुक्तिक्षेत्राणि' इत्यस्य च व्यासप्रणीत Page #468 -------------------------------------------------------------------------- ________________ ર मुहूर्तचिंतामणिः । त्वसाम्यादेकस्य साम्यांपादकस्य काशीमुक्तिदप्राग्वचनस्याप्रामाण्यं प्रतिभाति । उच्यते, - अयोध्यादीनि तीर्थानि सम्यग्ज्ञानोत्पादनद्वारेण सालोक्यमुक्तिप्रदान | अन्यानि मुक्तिक्षेत्राणीति मुक्तिपदोपादानात्पुनर्गर्भवासं च प्रयच्छंति; काशी तु सर्वथा ज्ञानादज्ञानाद्वा येन केनाप्युपायेन वा मरणानंतरं मुक्तिमेव प्रयच्छति न पुनर्गर्भवासम् । तदुक्तं पद्मपुराणे - 'तीर्थातराणि क्षेत्राणि विष्णुभक्तिश्च नारद | अंतःकरणसंशुद्धिं जनयंति न संशयः ॥ वाराणस्यपि देवर्षे तादृश्येव परंतु सा । प्रकाशयति ब्रह्मैक्यं तारकस्योपदेशतः ॥' काशीखंडे - 'अविमुक्तिरहस्यज्ञा मुच्यंते ज्ञानिनो नराः । अज्ञानिनोऽपि तिर्यंचो मुच्यते हि सकल्मषाः ॥' इति । अत एव वाराणस्याः श्रेष्ठ्यम्; एतदप्यभिहितं पद्मपुराणे- 'नैमिषे च कुरुक्षेत्रे गंगाद्वारे च पुष्करे । स्नानात्संसेवनाद्वापि न मोक्षः प्राप्यते नरैः ॥ इह संप्राप्यते येन तत एव विशिष्यते । ' इह = काश्याम् । किंच काइयां मरणे कालकृतोऽपि विशेषो नास्ति । उक्तं च काशीखंडे - 'उत्तरं दक्षिणं वापि अयनं न विचारयेत् । सर्वोऽप्यस्य शुभः कालो ह्यविमुक्ते प्रिये यतः ॥ इति । देशविशेषापेक्षाप्यत्र नास्तीत्युक्तं सनत्कुमारसंहितायाम् — 'रध्यान्तरे मूत्रपुरीषमध्ये चांडालवेश्मन्यध वा श्मशाने । कृतप्रयत्नोऽप्यकृतप्रयत्त्रो देहावसाने लभतेऽत्र मोक्षम् ॥' इति । अन्यच्च तीर्थांतरे अंतरिक्षादिमरणदोषोऽस्ति सोऽप्यत्र नास्ति । तदुक्तं पाझे- 'भूमौ जलेन्तरिक्षे वा यत्र क्वापि मृतो द्विजः । ब्रह्मैकत्वमवाप्नोति काशीशक्तिरुपाहिता ॥' इति । नाप्यत्र दुर्मरणदोषोऽस्ति । तदुक्तं पद्मपुराणे - 'सूच्यग्रमात्रमपि नास्ति ममास्पदेऽस्मिन् स्थानं सुरैश्च विमृतस्य न यन्त्र मुक्तिः । भूमौ जले वियति वा भुवि मध्यतो वा सर्पाग्निदस्युपविभिनिहतस्य जंतोः ॥' इति । पविर्वज्रम्, 'वज्रमस्त्री स्यात्कुलिशं भिदुरं पविः ' इत्यमरकोशोक्तेः । अत एव ब्रह्मवैवर्ते प्रश्नप्रतिवचनाभ्यां वाराणस्यां विशेषोऽभिहितः । यथा-‘जितेंद्रियाः पापविवर्जिताश्च शांता महांतो मधुसूदनाश्रयाः । अन्येषु तीर्थेष्वपि मुक्तिभाजो भवंति काश्यामपि को विशेषः ॥' इति दीपक गुरुणोत्तरितम् - विशेषं शृणु वक्ष्यामि काश्याः कथयतो मम । कृतानि साधनान्यत्र स्वल्पान्यपि महामते ॥ भवंति काशीमाहात्म्यात्सिद्धान्येव न संशयः। अन्यत्र साधुसुकृतैः कृतैर्मुच्येत वा न वा । अन्न साधनवैकल्ये काशी पूर्णं प्रकल्पयेत् ॥' इति । अयं भावः - साधनसंपत्तिमतामधिकारिणां काश्यतिरिक्तेऽपि क्षेत्रे मुक्तिः, काइयां त्वन्येषामपीति । अत एवोक्तं काशीखंडे - 'संसारभयभीता ये ये बद्धाः कर्मबंधनैः । येषां क्वापि गतिर्नास्ति तेषां वाराणसी गतिः ॥ श्रुतिस्मृतिविहीना ये शौचाचारविवर्जिताः । येषां क्वापि गतिर्नास्ति तेषां वाराणसी गतिः ॥' इत्याद्यनेकैः पद्यैः काश्या महत्त्वमुक्तम् । अत्रार्थे येऽर्थवादमाहुस्ते नास्तिका मंतव्याः । तदुक्तं काशीखंडे - 'यत्र विश्वेश्वरो देवः साक्षात्स्वर्गतरंगिणी | मिथ्या तत्रानुसूयंते तार्किकाश्चानुसूयकाः ॥ उदाहरंति ये मूढाः कुतर्कबलदर्पिताः । Page #469 -------------------------------------------------------------------------- ________________ वंशवर्णनप्रकरणम् १४ । ४५३ काश्या सर्वार्थवादोऽयं ते विट्कीटा युगे युगे॥' विद विष्ठा । अत एव ब्रह्मवैवर्ते-'मा जानीरार्थवादत्वं काश्यां मुक्तिविनिर्णये' इति । तस्मात्सर्वस्यापि काश्यां मरणान्मुक्तिरिति सिद्धम् । काशीखंडेऽपि-'ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा वै वर्णसंकराः। कृमिम्लेच्छाश्च ये चान्ये संकीर्णाः पापयोनयः॥ कीटाः पिपीलिकाश्चैव ये चान्ये मृगपक्षिणः । कालेन निधनं प्राप्ता अविमुक्ते शृणु प्रिये ॥ चंद्रार्धमौलयः सर्वे ललाटाक्षा वृषध्वजाः' इति । तथा'अकामो वा सकामो वा तिर्यग्योनिगतोऽपि वा। अविमुक्ते त्यजन्प्राणान्मम लोके महीयते ॥' इति । अन्यश्च मरणानंतरं सालोक्यादिचतुर्विधमुक्तिरपि क्रमेण भवति न पुनर्गर्भवासः; तदुक्तं पद्मपुराणे-'काश्यां मृतस्तु सालोक्यं साक्षात्प्रामोति सत्तमः। ततः सरूपतां याति ततः सान्निध्यमश्नुते ॥ ततो ब्रह्मैकतां याति न परावर्तते पुनः' इति । सालोक्यं शिवलोकवासित्वं, सरूपतां शिवतुल्यरूपतां, सान्निध्यं शिवसामीप्यं, ब्रह्मैकतां शिवाभेदताम् । एतद्वयवस्थापि तत्रैव-'सलोकतां च सारूप्यं सान्निध्यं वापि सत्तमः । कल्पं कल्पमवामोति ततो ब्रह्मात्मको भवेत् ॥' इति । अन्ये तु क्षेत्रभेदेन सालोक्यादिमुक्तितारतम्यमेतदप्युक्तं ब्रह्मपुराणे-'चतुर्विधेऽपि क्षेत्रेऽस्मिन्प्रमीतो गर्भयातनाम् । नैवामोति मुनिश्रेष्ठा विशेषोऽयं ब्रवीमि वः ॥' इति । तत्र काश्यात्मके क्षेत्रे सालोक्यमुक्तिः, वाराणस्यात्मके क्षेत्रे सारूप्यमुक्तिः, अविमुक्तात्मके क्षेत्रे सान्निध्यमुक्तिः अंतर्गेहात्मके क्षेत्रे कैवल्यमुक्तिः। उक्तं च पद्मपुराणे-चतुर्धा वितते क्षेत्रे सर्वत्र भगवाम्छिवः । व्याचष्टे तारकं वाक्यं ब्रह्मात्मैक्यप्रबोधकम् ॥ काश्यां मृतस्तु सालोक्यं साक्षात्प्राप्नोति सत्तमः । वाराणस्यां मृतो जंतुः साक्षात्सारूप्यमभुते ॥ अविमुक्त विपन्नस्तु साक्षात्सानिध्यमाप्नुयात् । अंतर्गेहे विपन्नस्तु साक्षात्कैवल्यमाप्नुयात् ।' इति । केवलभावः कैवल्यं शिवतादात्म्यं प्राप्नुयात् , साक्षाच्छिवस्वरूप एव भवतीत्यर्थः । काश्यादिक्षेत्रपरिमाणानि पद्मपुराणीयपातालखंडे-'परिमाणं प्रवक्ष्यामि तन्निबोधत सत्तमाः। मध्यमेश्वरमारभ्य यावद्देहलिविघ्नपम् ॥ सूत्रं संस्थाप्य तद्दिक्षु भ्रामयेन्मंडलाकृति । तत्र या जायते रेखा तन्मध्यक्षेत्रमुत्तमम् ॥ काशीति यद्विदुर्वेदास्तत्र मुक्तिः प्रतिष्ठिता। काश्यतं परमं क्षेत्रं विशेषफलसाधनम् ॥ वाराणसीति विख्यातं तन्मानं निगदामि वः। दक्षिणोत्तरयोर्नधौ वरणाऽसिश्च पूर्वतः ॥ जाह्नवीपश्चिमे चापि पाशपाणिर्गणेश्वरः। अस्या अंतःस्थितं दिव्यं विशेषफलसाध. नम् ॥ अविमुक्तमिति ख्यातं तन्मानं च ब्रवीमि वः। विश्वेश्वराच्चतुर्दिक्षु धनुःशतयुगोन्मितम् । अविमुक्ताभिधं क्षेत्रं मुक्तिस्तत्र न संशयः॥ गोकर्णेशः पश्चिमे पूर्वतश्च गंगामध्यं धुत्तरे भारभूतः । ब्रह्मशानो दक्षिणे संप्रदिष्टस्तत्तु प्रोक्तं भवनं विश्वभर्तुः ॥' इति, काशीपरिमाणवाक्ये मुक्तिपदं सालोक्यमुक्तिपरम् । अविमुक्तपरिमाणवाक्ये मुक्तिपदं सान्निध्यमुक्तिपरम् । पूर्वाभिहितवाक्यैकवाक्यताबलात् । अस्याः वाराणस्याः। धनुः चतुश्चतुर्हस्तमितम् । Page #470 -------------------------------------------------------------------------- ________________ ४५४ मुहूर्तचिंतामणिः। एवं सति विश्वेश्वरस्थानाच्चतुर्दिक्ष्वष्टशतहस्तमितमित्यर्थः । विश्वभर्तुर्भवनमंतहम् । ततश्च यथा यथा मुक्तीनां सालोक्मसारूप्यसानिध्यकैवल्याख्यानां पूर्वपूर्वापेक्षयोत्कृष्टत्वं तथा तथा काशीवाराणस्यविमुक्तांतर्ग्रहाख्यानां चतुः क्षेत्राणां पूर्वपूर्वांतर्भाविपूर्वपूर्वापेक्षया न्यूनपरिमाणमिति संपिंडितोऽर्थः। तसा. सर्वथा मथुरादिमुक्तिपुर्यपेक्षया काशी श्रेष्ठेति सिद्धमित्यास्तां प्रसक्ताऽनुप्रसक्तम् ॥ नमु कस्सिन्कालेऽयं ग्रंथः कृतः इत्यत आह-भुजेति । भुजौ द्वौ, पुनरपि भुनी द्वौ, इषवः पंच,चंद्र एकः, भुजभुजेषुचंद्रास्तैः। कोऽर्थः? 'अंकानां वामतो गतिः' इति दैवज्ञसंप्रदायागतवाक्यावाविंशत्यधिकपंचदशशती तवा मिते गणिते शके शकाः यवनास्तेषां स्वामी लक्षणया शकशब्देनोच्यते, तत्रापि लक्षणया शकशब्देन तद्राज्यप्राप्तिसमयागतवर्षाणि प्रोच्यते । एवं सति लक्षितलक्षणया लोकव्यवहारमूलभूतोऽयमों लभ्यते । तम निखिलभूपालचूडामणेः श्रीशालिवाहनमृपस्य राज्यप्राप्तिस्तु इदानींतनादष्टाविंशा. कलियुगादेकोनाशीत्यधिकैकत्रिंशच्छतीपरिमिते गते काले जाता । तत आरभ्य शालिवाहननृपशकप्रवृत्तिः । उक्तं च भावत्याम्-'शाको मवाद्रींदुकृशाउ ३१७९ युक्तः कलेभवत्यन्दगणस्तु वृत्तः' इति । स च शालिवाहनमृपक्षककालो ग्रंथकरणसमये द्वाविंशत्यधिकपंचदशशती १५२२ मितो गतो. ऽभूदत एतावत्संख्याके शककाले व्यतिक्रांते सति रामज्योतिर्विन्मुहूर्तचिंतामणिनामकं ज्यौतिषग्रंथं व्यधादित्यर्थ इति शिवम् ॥ ३ ॥ अथ ग्रंथकृवंशवर्णनप्रकरणं गयेनोपसंहरन्मुहूर्तचिंतामणिनामकज्योतिग्रंथसमातिं करोतिइति श्रीदैवज्ञानंतसुतदैवज्ञरामज्योतिर्विद्विरचिते मुहूर्तचिंतामणौ ग्रंथकर्तुवंशवर्णनप्रकरणं समाप्तम् ॥ १४ ॥ स्पष्टार्थम् ॥ कीर्त्या विद्योतिताशो द्रविणवितरणैरर्थिनां पूरिताशो ज्योतिर्विद्वंदवंद्यो निखिलवसुमतीमंडलाखंडलेज्यः । दर्भाग्रप्रख्यबुद्धिर्द्विजकुलतिलकोऽभूद्विदर्भाख्यदेशे ज्योतिःशास्त्रारविंदप्रविकसनरविबिंदुचिंतामणिः सः ॥ १॥ तस्वात्मजोऽभवदमंत उमातनूजपादारविंदमकरंदमधुव्रताम्यः । ज्योतिर्नयत्रिनयनेस हठादवापे येन त्रिकालविदुषा खलु भर्गभावः ॥ २ ॥ तत्सूनुर्नीलकंठः श्रुतपरिकलनाऽकुंठितप्रौढबुद्धि ज्योतिःशास्त्रैकसिंधोर्घटनविघटनासर्गधाता बभूव । यत्प्रोक्तं ग्रंथासिंधुच्छलदमलकणाकर्णनेनापि लोको गर्गाचार्याद्धि यस्मिनचयति जगति प्रौढभावं नितांतम् ॥ ३ ॥ Page #471 -------------------------------------------------------------------------- ________________ ४५५ वंशवर्णनप्रकरणम् १४। रामोऽनुजस्तस्य बभूव काश्यां यत्प्रोकसुज्यौतिषजानिबंधान् । निपीय सौहित्यमुपेत्य सचः सुधा मुधा विंदति बिंदुवृंदम् ॥ ४ ॥ श्रीमद्भूपतिशालिवाहनशके चंद्रांकशझै १४९१ मिते मासीवेऽपरपक्षगे नग ७ तिथौ तिग्मांशुवारेऽदितौ। धर्मज्योतिषशासपाणिनिमहाशास्त्रादिपारंगमा संभूतः खलु नीलकंठविदुषो गोविंदनामा सुतः ॥ ५ ॥ शाके तत्वतिथीमिते १५२५ युगगुणाब्दो ३४ नीलकंठात्मभू दुग्धाब्धि निखिलार्थयुक्तममलं मौहूर्तचिंतामणिम् । काश्यां वाक्यविचारमंदरनगेनामथ्य लेखप्रियां गोविंदो पिपिचिङ्करोऽतिविमलां पीयूषधारां व्यधात् ॥ Excxxxxxxxxxxx . इति ग्रंथकर्तृ-टीकाकर्तृवंशवर्णनम् ॥ Hocomxxxxxxcxxc.XKommxx इति श्रीपीयूषधारासहितो मुहूर्तचिंतामणिः समाप्तः ॥ CE . Page #472 --------------------------------------------------------------------------  Page #473 -------------------------------------------------------------------------- ________________ मुहूर्तचिंतामणिगतश्लोकानुक्रमः। ا س ३५४ هه m ९९ २१ श्लो. पृ० भावगर्भसुतकन्ययोर्द्व १४ २३५ अकचटतपयशवर्गाः ३५ २६० भाद्येऽपशकुने स्थिरवा १०५ ४०० अग्निं हुत्वा देवतां ८० आये पिता नाशमुपैति ५४ ९३ अमेर्दिशं नृप इयात् ३४ भानंदाख्यः कालदंडश्च २३ २१ अजैकपादहिर्बुध्य २० आयो वारोंऽशको १२ ४२२ मथ मीनलम इत- .. १६३ भासीद्धर्मपुरे . १ ४५८ अथोचुरन्यो प्रथमाष्ट ५३ ९२ अनुराधा द्वितीयायां १२ 0 इषमासि सिता. ७४ ३४५ भन्यनवांशे न च परि ८३ २९५/ अन्धाक्षं वसुपुष्यधातु २२ ६७ उत्तरायरोहिण्यो २ ५४ भब्दायनर्तुतिथिमासभ ८७ उस्पातमृत्यू किल काण २४ मभुक्तमूलं घटिकाचतु- ५२ ९२ उत्पातान्सहपात १०५ ३११ अयनक्षमासतिथि १०८ ४११ उदये रविर्यदि६१ ३७८ अयोगे सुयोगोऽपि ४२ ३४ उदेति यस्यां दिशि ३७ ३५९ अर्कतर्कत्रितिथिषु प्रदोषः५५ २१७/ उद्धृत्य प्रथमत एव ८६ ३९३ अर्कादिवारे संक्रान्तौ १२ १३४ उपग्रहक्ष कुरुबाहिकेषु ६७ २८७ अर्कालमात्सायनात् १०३ ३०९ उषःकालो विना पूर्वां ५१ ३६० अल्पायां वृष्टी दोषो ९६ ४०१ अशुभखगैरनवा ६७ ऋक्षाणि क्रूरविद्धानि ५६ २७४ अश्विन्यंबुपयोहयो निग २५ २४७ ऋतुमत्याः सूतिकायाः ३३ १९२ अश्यादिरूपं तुरगास्य ५८ ११५ अस्तं याते गुरुदिवसे ९९ ३०७ एकार्गलोपमहपातलत्ता ६६ २८६ अस्ते निशाप्रहरके च ३ ૧૨૨ एको ज्ञेज्यसितेषु . ७३ ३८३ अस्ते वय सिंहनक्रस्थ ४० ४८ एकोनितेष्टक्ष आ एतेषु श्रुतिवारुणादिति २९ ७२ आग्नेयत्वाष्ट्रजल *१ एवं सुलग्ने स्वगृहं ७ ४४७ आज्यं तिलौदनं मत्स्यं ८३ ३९१ क आदर्शाअनधौत ९० ४०२ | कदास्रभे त्वाष्ट्रवायू १४ १४ आदौ संपूज्य रत्नादि २ २२४ | कन्याद्वरभं यावत्कन्या२४ . २४६ आद्यं रजः शुभं माघ १ १५९ / कवीज्यचंद्रगलनपा रिपौ ४१ २०४ * मु.चि. Page #474 -------------------------------------------------------------------------- ________________ - मुहूर्तचिंतामणिगतश्लो. पृ० । श्लो. पृ० कवीज्यास्तचैत्राधिमासे १६ १७७ क्षीणेंदुपूर्णचंद्रज्यज्ञ १९ १०१ कार्मुकतौलिककन्यायुग्म ८२ २९४ कार्यायैरिह गमनस्य ८९ ३९४ खगो दंडशरासतोमर १५ खरामतोऽत्यादिति १०० ४०४ | खर काषायी गुडतक्र ४७ २७२ कुजशुक्रसौम्यशशिसूर्य ३७ २६३ कुम्भकर्कद्वये माँऽले ४५ ३० गणेशविष्णुवानमाः ३७ १९७ गंडांतं त्रिविधं त्यजेनि .५ १६२ कुम्भकुम्भांशको ४० ३६३ गंडांतेंदभशूलपात ५६ ९७ कुम्भेऽके फाल्गुने .. १५ गांधर्वादिविवाहे ९३ ३०३ कुयोगास्तिथिवारोत्था ३१ २४ गिरिशभुजगमित्राः ५० २७४ कुलिकः कालवेला च ३७ ३२ | गीर्वाणांबुप्रतिष्ठापरिणय २६ १८६ कुल्माषास्तिलसंडुलान् ८१ ३८९ गुरुर्लग्नकोणे कुजो ४ ३२६. कूपे वास्तोर्मध्यदेशे । २०४३२ गुरुशुद्धिवशेन कन्यका १२ २३२ कृष्णे पक्षे सौरि . ९२ ३०२ गृहप्रवेशे यात्रा २२ २० कृष्णे प्रदोषेऽनध्याये. ४० २११ गृहेशतत्स्त्रीसुख केंद्रत्रिकोणसहजेषु शुभैः१० १७८ गेहादेहांतरमपि गम ९० ३९५ केंद्रत्रिकोणेषु शुभैश्च ७. गेहाद्यारंभेऽर्कभात् १३ ४२४ केंद्रे कोणे जीव आये ८८ ३०० गोऽजांत्यकुंभेतर ५३ केंद्रे कोणे सौम्यखेटाः ५३ ३६९ गोधाजाहकसूकरा १०१ ४०५ केंद्रे दिगधीशे ४७ ३६६ गोसिंहनक्रमिथुनं २ ४१५ केशांतं षोडशे वर्षे : ६० २२१ गोस्त्रीझषे घात २८ ३४७ कैश्चिन्मेषरवौ १६ गौरीश्रव केतक - २ कौबेरीतो वैपरीत्येन ३२ ३५० कौम सारिकगौधिकं ८२ ३८९ | घटो झषो गौर्मिथुनं मेष१६ १८ ऋतुपाणिपीडमृति ३५ १९५ घने तुलाली बधिरौ ७९ २९३ क्रमाच्छुभो विद्ध इति ४ १४० घोरार्कसंक्रमण १ १२१ ऋयः विक्रयो नेष्टो. १६. ६२ क्रियाकलापप्रतिपत्तिहेतुं - ५ चंद्रे सूर्यादिसंयुक्त ४३ ऋराक्रांतविमुक्तमं । १०७ ३११ चरेदथौजहायने १ ३१६ क्रूरो जडो भवेत्पापः ४९ २१३ चापांत्यगे गोघटगे पतंगे६४ २८५ क्षिप्रध्रुवान्त्यचरमैत्रमंघा३४ ७७ चापे जीवे तनुस्थे ३ ३२२ क्षिप्रध्रुवाहिचरमूलमृदु ४० २०० चित्राद्वीशौ शिवायर्काः १५ १८ क्षिप्रान्त्यवखिंदुमरुजले १८ ६४ / चूडा वर्षात्तृतीयात्प्रभव २९ १८९ क्षिप्राहिमूलेंद्रहरीशवायु४८ ८४ / चूडा व्रतं चापि विवा १८ २४३ क्षिप्रे मैने वित्सितार्केज्य २६ ६९ चेतोनिमित्तशकुनै ७५ ३८५ क्षीणचंद्रकुजसौरिभा ३० १८९ / चेल्लग्नार्को सायना १०४ ३१० ४७ ४२७ Page #475 -------------------------------------------------------------------------- ________________ श्लोकानुक्रमः।श्लो० पृ. श्लो. पृ० | तिथयो मासशून्याश्च १८ १९ छिक्करः पिक्कको भासः १०३ ४०६ | तिथीशा वहिको गौरी ३ ९ तिथ्यर्काष्टाष्टिगो ९ ४२१ जघन्यभे संक्रमणे मुहू ११ १३३ | तिथ्यक्षवारयुति २४ ३४५ जननराशितनू यदि २ ३२९ | तीक्ष्णमिश्रध्रुवोत्रैर्यद्रव्यं २४ ६८ जन्मप्रत्यरितारयोर्मृति ५१ ८७ तीक्ष्णाजपादकरवह्नि ३१ ७५ जन्मक्षमासतिथयो ३४ २८ ते दशाहं द्वयोः प्रोक्ते २८ १८८ जन्मक्षमासलग्नादौ व्रते ४५ २०८ तोरणं बलिनिभं च कुंडलं५७ ११५ जन्मः निधनं ग्रहे जनि ६ १४४ त्यक्त्वाष्टभूतशनिविष्टि ४३ ८१ जन्मराशितनुतो ४२ ३६३ त्रिकोणे कुजात्सौरि ६ ३३१ जन्मलग्नभयोर्मत्युराशौ ४४ २७१ त्रिकोणे केंद्रे वा मदन ८९ ३०१ जन्माख्यसंपद्विपदः १२ १५२ त्रिव्यंगपंचाग्निकुवेद ५७ ११४ जन्मोत्थं च विलोक्य ७ २२६ त्रिदशगुरुस्तनुगो ६४ ३७९ जलाशयारामसुरप्रतिष्ठा ६० ११६ व्यायाष्टषट्सु रविकेतु ८५ २९७ जीणे गृहेऽत्यादि २ ४४० ज्याशं त्रिकोणं चतुरस्र ७३ २९० जीवार्कविच्छुक्रशनै २२ ४३३ | त्वाष्ट्रान्मित्रकभाद्रयेऽबुप३० ७४ जीवारिदिने मृगेज्य ८ १६७ जीवेऽन्त्यमैत्राश्वयदितीज्य२९ २२ ज्ञराहुपूर्णेदुसिताः स्वपृष्ठे५७ २७९ | दंतक्षौरनखक्रियात्र ३४ १९३ ज्येष्ठद्वंद्वं मध्यमं संप्रदिष्टं १५ २३६ | दंतार्कभूपतिदिमित १५ १७६ ज्येष्ठापौष्णभसार्पभांत्य ४१ २६५ | दारिद्य बधिरतनौ दिवांध ८१ २९४ ज्येष्टामैत्रभयोः कुरंग २६ २४७ दास्रादर्के मृगादिंदौ २५ २१ ज्येष्ठार्यम्णेशनीराधिपभ ३४ २५७ | दिक्षु पूर्वादितः । ८ ४२० ज्येष्ठे पतिज्येष्ठमथा ३ ३१५ | दिग्द्वारभे लग्नगते ज्योतिर्विद्गणवंदिता २ ४५० दिग्भास्करामनुमिताश्च ३९ ३३ दीक्षामौंजिविवाहमुंडन ४७ ३८ तजातकर्मादि शिशोर्विघे ११ १७१ दुग्धं त्याज्यं पूर्वमेव ९३ ३९८ तथायनांशाः खरसाह ९ १३१ दुष्टे योगे हेम चंद्रे च १८ १५७ तदात्मज उदारधी | देवगृहाद्वा गुरु ८८ ३९४ तनोरिष्टांशकात्पूर्व देवगुरौ वा शशिनि ६५ तनौ जीव इंदुम॒तौ ५७ ३७६ | देवद्व्यंकर्तवोऽष्टाष्टौ ७८ २९३ तनौ शनिकुजौ ६२ ३७८ देवालये गेहविधौ १९ ४३० तमोभुक्तताराः स्मृता १४ ३३८ देत्येज्यो ह्यभिमुखदक्षिण २ ३१७ तस्मिन्काले स्थापये २२ १८२ | दोलारोहेऽर्कभात्पंच १४ १७६ तारादौष्टयेऽजे त्रिकोणो ३२ १९२ | यूनांबरे यदैको २५ ४३४ २ ३० Page #476 -------------------------------------------------------------------------- ________________ - मुहूतचिंतामणिगत __ श्लो० पृ० श्लो० पृ० घूने चंद्रे समुदयगे ५९ ३७७ द्विजा झपालिकर्कटास्ततो२२ २४५ पक्षादितस्त्वोजतिथौ १७ १९ द्वीशात्तोयाद्वासवात्पौष्ण ३० २३ | पक्षादितोऽर्कदलतंदुल ८५ ३९२ द्वीशाद्यपादत्रयजा क २० २४४ पंग्वंधकाणलग्नानि मास १९ १९ द्वौ द्वौ ज्ञभृग्वोः पंचेंदौ ९० ३०१ पंचयद्रिकृताष्टरामरस ४४ ३५ पंचमासाधिके मातुर्ग) ३१ १९१ ब्यन्त्ये नवांशेऽद्विगुणे ३ १४० पंचास्याजौ गोमृगौ तौ ५९ २८० परिघा, पंच शूले षट् ३५ २८ धनुर्मेषसिंहेषु ८ ३३२ | पातोपग्रहलत्तासु नेष्टो ६२ २८३ धर्मगे भास्करे वित्त १९ ३४२ पादोनरेखापरपूर्वयोजनै ५४ धरणिदेवोऽथवा कन्य ११ २३२ | पापांतः पापयुग्ने पापा ७ १५० धार्य लाजावर्तकं राहु ११ १५२ पापस्तनौ रुङ्गिधने, ३ ३२६ ध्रुवक्षिप्रमृदु २ पापो कतरिकारको रिपु ८६ ३ २९८ ध्रुवधान्ये जयनंदौ १० ४२१ पिंडीभूते दिनकृति ९८ ३०६ ध्वजादिकाः सर्वदिशि ५ ४१७ | पिंडे नवांकागगजा ११ ४२२ ध्वांझे वज्रे मुद्गरे चेषु २६ २२ पिश्ये गृहे चेत्कुच ४ ३१८ पुरः पश्चाअगोर्खाल्यं २७ १०८ नके भौमो गोहरिस्त्रीषु २९ ३४८ पूर्ण निशीथे यदि संक्रमः ६ १२५ नगरप्रवेशविषया ३ ३१८ पूर्णंदुतः प्राग्वदनं १७ ४२८ पृथ्वोवेशहमीभपूज्य ३३ १४३ नास्यामृक्षं न तिथि ९७ ३०५ निजनिजगणमध्ये प्रीति ३० २४९ पौषे पक्षत्यादिका २० ३४३ निर्वधैः शशिकरमूल ५३ २७५ पौष्णध्रुवाश्विकरपंचकवा १० ५७ नृपाणां हितं क्षौरभे ३६ १९४ पौष्णध्रुवेंदुकरवातहयेषु १२ १७४ नृपेक्षणं सर्वकृतिश्च संग १९ १३७ पौष्णेशशाकाद्रससूर्य *४१ २६५ नेष्टं ग्रहक्षं सकलार्ध ३३ २७ प्रदक्षिणगताः श्रेष्ठा १०४ ४०७ नो कर्कनऋझषकुंभ २ ३२१ प्रवासनाशी मरणं जय १५ १५४ नृपाणां हितं क्षौरभे ३६ १९४ | पाणपकरपा९५3 . ... नृपेक्षणं सर्वकृतिश्च संग १९ १३७ पौष्णेशशाकाद्रससूर्य *४१ २६५ नेष्टं ग्रहक्षं सकलार्ध ३३ २७ प्रदक्षिणगताः श्रेष्ठा १०४ ४०७ नो कर्कनऋझषकुंभ २ ३२१ प्रवासनाशौ मरणं जय १५ १५४ Page #477 -------------------------------------------------------------------------- ________________ ६८ श्लोकानुक्रमः। श्लो० पृ० श्लो० पृ० प्रवेशान्निर्गमं तस्मात् ७९ ३८८ | मघादिपंचपादेषु गुरुः ५० प्रश्नतनोर्यदि लग्ने ५ २२५ मनोईिदैवानिलसौम्य ४० प्रश्नलग्नक्षणे यादृशापत्य ८ २२९ मन्वाद्यास्त्रितिथी मधौ ५७.५० महीपतेरेकदिने ७७ ३८७ प्रश्ने गम्यदिगीशात् ७ ३३१ माणिक्यमुक्ताफलविद्रु १० १५१ प्रस्थानमन धनुषां ९१ ।। ३९५ मार्तडे मृतपक्षगे १५ ३३९ प्रस्थाने भूमिपालो ९२ ३९६ मासे चेत्प्रथमे भवेत्स १३ १७५ प्रस्थाय हस्तेऽनिल ५० ३६७ मासेश्वराः सितकुजेज्य ९ १६९ प्रारब्रह्मौदनपाकागतबंधा ५६ २१८ मित्राणि घुमणेः कुजेज्य२७ २४८ प्राच्यां गच्छेन्द्रनेनैव ८७ ३९४ मित्रार्कध्रुववासवांबुपम २५ प्राच्यादौ तरणिस्तनौ ४८ ३६६ मित्रे चास्य रिपुः शशी २८ २४८ प्रोक्ते दुष्टभकूटके परि ३२ २५१ मिथुनकुंभमृगालिवृषा १३ २३४ मिश्नोग्ररौद्रभुजगेंद्रवि ३३ बटुकन्याजन्मराशे स्त्रि ४६ २०९ | मीनोक्षकर्कालिमृगस्त्रि ४५ २७२ बधिरा धन्वितुलालयो ८० २९ मुद्राणां पातनं स व २० बुधानुराधामष्टम्यां २१ २० मूलद्वीशमघाचरध्रुवमृदु २८ ७१ मूलाग्निदाने नव पि ४६ ८३ मूलार्द्राभरणीपित्र्यमृगे ३९ ७९ भं नागतष्टं व्यय ७ ४१९ मूलाहिमिश्रोग्रमधोमुखं ९ ५६ भद्रातिथी रविजभूतन ४९ ८६ मूलेऽङ्गबाणाः द्वि ४९ २७३ भद्रानिद्रासंक्रमे दर्शरिक्ता ३ १६१ मूलैंद्राहिमं सौरिस्ती ८ ५६ भद्राषष्ठीपर्वरिक्ताश्च संध्या६ १६३ मृगात्कराच्छ्रुतेस्त्रयेऽश्वि ३८ १९७ भाग्यार्यमश्रुतिमघेद्रवि ३२ ७५ मृगान्त्यचित्रामित्रलं मृदु ७ ५६ भाद्रे चंद्रदृशौ नभस्यन १० १६ मृगे गत्वा शिवे स्थित्वा४९ ३६७ भानि स्थाप्यान्यब्धि ३३ ३५३ मृगेज्यमित्रभाग्येषु ४२ ८१ भार्या त्रिवर्गकरणं शुभ १ २२३ मृतपक्षरवितिथि . १०८ ४११ भिक्षाशी यज्ञकृद्दीर्घजी २० मृतिभवनांशो यदि च ४६ २७२ भुक्त्वा गच्छति यदि ९४ मृत्युः षट्काष्टके ज्ञेयो ३१ २५१ भूपंचांकद्वव्यंग मृत्युकचदग्धादीनिंदौ ४१ ३४ भूमिद्वयब्ध्यद्रि १ ३४९ भैषज्यं सल्लघुमृदुचरे १५ ६१ मृत्यौ स्वर्णतिलान्विपद्य १३ १५३ भौमारिकामाघूने १० मृदुध्रुवक्षिप्रचरे से गुरौ ४१ ८० भ्रातरि सौरिभूमिसुतो ५६ ३७६ | मृदुध्रुवक्षिप्रचरेषु मेषादिगेऽऽष्टशरा १०० ३०४ मघाकरस्वाति ३० ३४८ मेषादिराशिजवधू १०८ ३१३ ४२९ Page #478 -------------------------------------------------------------------------- ________________ मुहूर्तचिंतामणिगतश्लो० पृ० श्लो. पृ० मेषेऽके सद्रतोद्वाही गंगा५१ ४६ | रिपुतनुनिधने मैत्रार्कपुष्याश्विनभै ३५ ३५५ | रिपुलग्नकर्महिबुके ६८ ३८० मैत्र्यां राशिस्वामिनोरंश ३३ २५७ | रूपयन्यग्निभूराम २ ३४७ रेवापूर्वे गंडकीपश्चिमे च५२ ४६ यदा लग्नांशेशो लवमथ ७४ २९० | रौद्राहिशाक्रांबुपयाम्य ४७ ८४ यदि पृच्छितनौ वसु ४ ३३० यदि भवति सितातिरिक्त ६ २२६ लग्नगतः स्याद्देव ५८ ३७७ यदि मास्सु चतुर्यु ९५ ३९९ लग्नाचंद्रान्मदनभवनगे ६५ २८५ यनं द्वयंकसुतेश १ ४१४ लग्नात्पापावृज्वनृजू व्ब ४२ २६८ यद्येकस्मिन्दिवसे ७८ ३८७ लग्नाद्भावाः क्रमाद्देह १२ ३६८ यात्रानिवृत्तौ शुभदं १०६ ४८९ | लग्नाम्बरायेषु भृगुज्ञ २३ ४३३ यात्रायां प्रविदितजन्मनां १ ३२८ लग्ने चंद्रे वापि वर्गो ४३ ३६४ याम्यत्रयविशाखेन्द्रसार्प३८ ७९ लग्ने जन्मक्षतन्वो १०९ ४११ याम्यायने विष्णुपदे ८ १२७ लग्नेनाव्या याततिथ्यो ७० २८८ यावच्चंद्रः पूषभात् ३९ ३६२ लग्ने यदि जीवः ६९ ३०१ यावश्चोतुमदो निशांजन १६ १३५ लग्ने शुभे चाष्टमशुद्धि १४ ६१ योगासिद्धिर्धरणि ५४ ३७२ लवपतिशुभमित्रं वीक्ष- ७६ २९२ लवेशो लवं लग्नपो लग्न ७५ २९१ लाजाकुष्ठबलाप्रियंगुघन १६ १५५ रक्षोनरामरगणाः क्रमतो२९ २४९ | लाभाष्टमे चाद्यशरे रसां २ १४० रवावर्यमा ब्रह्मरक्षश्च ५२ २७५ लाभो द्रव्याप्तिधनं २२ ३४३ रवेर्भतोऽब्जभो २५ लाभो रामैः पुच्छगैः १४ ४२४ रसगुणशशिनागाब्ध्या ७१ । २८८ व रसाला पायसं कांजी ८४ राजसेवी वैश्यवृत्तिः ५१ वक्रास्तनीचोपगते ३८ ३६१ राजाभिषेकः शुभ १ वक्त्रे भूर विभात् रात्रौ चौररुजौ दिवा ७२ २८९ वज्रं शुक्रेऽब्जे सुमुक्ता ९ १५१ राधामूलमृदुध्रुवःवरुण १३ ६७ वध्वा वरस्यापि कुले नि१७ २४२ राशिः स्वजन्मसमये ४५ ३६५ वन्ध्याचर्मतुषा ९९ ४०४ राश्यादिगौ रविकुजौ १९ १५९ वर्जयेत्सर्वकार्येषु हस्ता २० १९ राश्यैक्ये चेगिन्नमृक्षं ३६ २६१ वर्णों वश्यं तथा तारा २१ २४५ रिक्तानंदाष्टदर्श हरिदि १७ १७८ वस्त्राणां नवभागकेषु च ११ ५८ रिक्तारवज्य दिवसेऽति ६१ ११६ वाताम्राग्निमहीपचोर ६९ २८७ रिपुजन्मलग्नभ ३ ३२९ । वाप्यारामतडागकूपभव ४६ ३८ १ २१४ ३२३ Page #479 -------------------------------------------------------------------------- ________________ WW. GSG. ., श्लोकानुक्रमः। श्लो० पृ० : श्लो. पृ० बामांगे कोकिला पल्ली१०२ ४०६. शंखभेरी विपंचीरवैमंगलं ९ २२९ चामो रविर्मृत्युसुता ५ ४४४ | शराष्टदिक्शकनगातिकृत्य ६१ २८३ वारादेटिका द्विघ्नाः ५५ ४९ शशांकभं सूर्यभतो २६ ३४७ वारे प्रोक्तं कालहोरासु ५६ ५० शशांकसूर्यक्षयुतेर्भशेषे ६८ २८७ वारे भौमार्किहीने ध्रुव २३ १८३ शाक्रश्रवःक्षिप्रमृदु २ ३२५ विचैत्रव्रतमासादौ विभौ५९ २२० शाकेज्ये शतभानिले ५५ २७७ वित्तगतः शशिपुत्रो ६० ३७७ | शाखेशवारतनुवीर्यमती ४४ २०६ विद्यानिरतः शुभराशि ५० २१३ शिवोऽजपादादष्टौ स्यु: ५१ २७४ विधुकुजयुतलग्ने ५ ३३० । | शिवो नृयुग्मे द्वितनौ च ६२ ११८ विधोर्बलमवीक्ष्य . ९४ ३०३ | शुक्रज्ञजीवशनिभूतनयस्य ३९ २६३ विधौ सितांशगे सिते ५३ २१५ | शुक्रारार्किषु दर्शभूतमदने५० ८७ विनष्टार्थस्य लाभोंऽधे २३ ६७ शुक्रे जीवे तथा चंद्रे सूर्य ५२ २१४ विपाशेरावतीतीरे शुतु ४० ३३ शुक्के पूर्वार्धेऽष्टमीपंच ४३ ३५ विप्रांश्च मिश्रभभृगौ तु २ शुचिशुक्रपौषतपसां ५४ २५६ विप्राज्ञया तथोद्वाहे १२ ५९ शुद्धांबुरंध्रे विजनु ४ ४४२ विप्राणां व्रतबंधनं निग ३९ १९९ | श्रुतित्रयमृदुक्षिप्रध्रुव २ १६१ विप्राधीशौ भार्गवेज्यौ ४३ २०५ श्वश्रूः सितोऽर्कः श्वषुर ९१ ३०२ विप्राश्वेभफलान ९७ ४०२ श्वश्रूविनाशमहिजो सुतरां१९ २४३ विशाखाग्नेयभे सौम्यो ५ ५५ विश्वस्वातीवैष्णवपूर्वात्रय १० २३१ | षडशीत्याननं चापनृ ४ १२३ विषमभांशगतौ शशि ३ २२४ षष्टिनं गतभं भुक्तघटी १४ १५४ विषुवायनेषु परपूर्वमध्य ७७ २९२ | षष्ठाष्टस्थः प्रश्नलग्नाद्यदींदु ४ वेदक्रमाच्छशिशिवाहिक ५७ २१९ षष्ट्यष्टमीभूतविधुक्षयेषु ७ १३ वेदांगाष्टनवार्केद्रपक्ष ३६ ३१ / षष्ट्यादितिथयो मंदा ६ १३ वेधोऽन्योन्यमसौ विरि ५४ २७६ व्यन्त्यादितिध्रुवमघानिल४० ८० संक्रांतिकालादुभयत्र ५ १२४ व्ययाष्टशुद्धोपचये लग्नगे ४४ ८२ | संक्रांतिधिष्ण्याधरधिष्ण्य१८ १३७ व्यये शनिः खेऽवनिज ८४ २९६ | संक्रांतियातघसाथै १०१ ३०८ व्याघातगंडव्यतिपात ६० २८२ संधार्याः कुंतवर्मेष्वसन २१ ६६ व्रतबंधनदैवत संध्या त्रिनाडीप्रमितार्क ७ १२५ संशुद्ध मृतिभवने त्रिको २५ १८५ व्रतबंधेऽष्टषरिःफवर्जि ४२ २०४ समं मृदुक्षिप्रवसुश्रवो १० १३३ समगृहमध्ये शशिरवि ३८ २६३ शकाः पंच सिते शका ११ १६ | समाद्रिपंचांकदिने १ ३१४ शकार्कदिग्वसुरसाब्ध्य ६३ २८४ / समुदयगे विबुध ६३ ३७९ ही 20mm ३८६ mt me Page #480 -------------------------------------------------------------------------- ________________ मुहूर्तचिंतामणिगत श्लो० पृ० ३७५ श्लो० पृ० सर्वसिन्विधुपापयुक्तनु ३२ २४ स्नानस्य पाकशयन २१ ४३२ सहजे कुजो निधन ७२ ३८३ स्पष्टार्कसंक्रांतिविहीन २० १३० सहजे रविर्दशमभे ५५ स्यात्तैतिले नागचतुष्पदे १३ १३४ सारैः करेज्यांत्यमघा २७ स्यादग्निहोत्रविधि १ ३२१ सितजीवभौमबुध ७१ स्थावादशांश इह राशित४० २६४ सितासितादौ सद्दष्टे ८ १५० स्याद्भूषाघटनं त्रिपुष्करचर१९ ६४ सिंहे गुरौ सिंहलवे विवा४९ ४५ स्यान्मल्लिका पाटलिका १७ १३५ सिंहव्याघ्रवराहरासभग १४ १३५ स्युर्धर्मे दस्रपुष्योरग १८ ३४१ सुतपरिणयात्षण्मासांत: १६ २३८ स्वजन्मराशे रिह वेधमाहु ५ १४३ सूर्यः सितो भूमि ४६ ३६६ स्वर्गे शुचिप्रौष्ठपदेषमाघे ५५ ९६ सूर्यभात्रित्रिभे चंद्रे ३५ ७७ स्वातीचित्रे त्रयोदश्यां १३ १७ सूर्यभावेदगोतर्क २७ २२ स्वातीन्द्रपूर्वाशिवसार्पभे ४५ ८२ . सूर्याधुगभैः शिर २१ ४३६ स्वात्यन्तकाहिवसु १६ ३४० सूर्यादिवारे तिथयो भ ९ १५ स्वात्यादित्यमृदुद्विदैव २७ ७. सूर्यारसौम्यास्फुजितोक्ष १७ १५६ स्वात्यादित्ये श्रुतेस्त्रीणि ३ ५४ सूर्येऽङ्गनासिंहघटेषु ९६ ३०५ स्वेष्टायनक्षत्रभवो ४ ४१६ सूर्येऽर्कमूलोत्तरपुष्यदा २८ २२ स्वोच्चे शुक्रे लग्नगे २४ ४३४ सूर्येशपंचाग्निरसाष्टनंदा ० १५ स्वोच्चे स्वभे स्वमैत्रे वा ४७ २१० सूर्ये षट्स्वरनागदिङ्मनु ३८ ३२ सूर्यो रसांत्ये खयुगेऽग्नि १ १४० हर्षणवैधतिसाध्यव्यति ५८ २७९ सेंदुक्रूरखगोदयांश १०६ ३११ हस्तानिलाश्विमृगमैत्रवसु ४ १६२ सेव्याधमर्णयुवतीनगरा*४१ २६५ हस्ताश्विपुष्याभिजितः ६ ५५ सैका तिथिारयुता ३६ ७८ सौख्यं क्लेशो भीति २१ ३४३ हस्तोच्छ्राया वेद ९५ ३०४ सौख्यं लाभः कार्यसि २३ ३४३ हित्वैतांश्चैत्रपौषावमहरि २४ १८४ सौम्यायने ज्येष्ठवपो १ ४३७ हित्वा मृगेंद्र नरराशिव २३ २४५ सौम्यायने सूर्यविधू ३६ ३५९ हिमकिरणसुतो ६६ ३७९ ന ന Page #481 -------------------------------------------------------------------------- ________________ सं. १ २ SRAWA ૪ ७ ८ ९ १० ११ १२ १३ १४ १५ सं. १ २ Mm x 5 w ४ ९ १० ११ १२ १३ १४ १५ पेरिशिष्टम् । १- मुहूर्त - देवता - नक्षत्र - संज्ञाः (दिवसे) मुहूर्तनाम नक्षत्रम् शिव सार्प मित्र पितृ वसु अंबु विश्वेदेव अभिजित् ब्रह्मा इंद्र इंद्रानि निशाचर जलाधीश अर्यमा शिव अजैकपाद् अहिर्बुध्य रोहिणी ज्येष्ठा विशाखा मूल शततारका उत्तरा फल्गुनी पूर्वा फल्गुनी भग २- मुहूर्त - देवता - नक्षत्र - संज्ञाः (रात्रौ ) मुहूर्तनाम नक्षत्रम् पूषा दख यम अभि ब्रह्मा चंद्र अदिति आर्द्रा आश्लेषा अनुराधा मघा धनिष्ठा गुरु विष्णु सूर्य त्वष्टा वायु पू. षा. उ. षा. अभिजित् आर्द्रा पूर्वाभाद्र ० उत्तरभाद्र ० रेवती अश्विनी भरणी कृत्तिका रोहिणी मृगशीर्ष पुनर्वसु पुष्य श्रवण संज्ञा दारुण- तीक्ष्ण दारुण- तीक्ष्ण मृदु-मैत्र उग्र-क्रूर चर-चल हस्त चित्रा स्वाती क्रूर - उग्र ध्रुव-स्थिर लघु- क्षिप्र 'ध्रुव-स्थिर दारुण- तीक्ष्ण मिश्र - साधारण दारुण- तीक्ष्ण चर-चल ध्रुव-स्थिर क्रूर-उग्र संज्ञा दारुण- तीक्ष्ण क्रूर-उग्र ध्रुव - स्थिर मृदु-मैत्र लघु - क्षिप्र क्रूर-उम्र मिश्र - साधारण ध्रुव-स्थिर मृदु-मैत्र चर-चल लघु- क्षिप्र चर-चल लघु - क्षिप्र मृदु-मैत्र चर-चल १ परिशिष्टस्यास्यायोजनेनाधमर्णयन्ति सहृदयाः स्वसुहृद्वरा भट्ट - कृष्णराम वहालजीमाधवपुरकरशर्माण इति सानुनयं निवेदयति-संशोधकः । Page #482 -------------------------------------------------------------------------- ________________ (१०) ३-नक्षत्र-वार-संज्ञाः, संज्ञा वारः नक्षत्रम् ध्रुव-स्थिर उग्र-क्रूर चर-चल लवु-क्षिप्र मृदु-मैत्र मिश्रं-साधारण दारुण-तीक्ष्ण गुरु शुक्र बुध शनि रोहिणी, उ. फ., उ.षा., उ. भा. भरणी, मघा, पू. फ., पू. षा., पू. भा. पुन. खाती, श्रवण, धनिष्ठा, शतभिषक् अश्विनी, पुष्य, हस्त, अभिजित् मृगशीर्ष, चित्रा, अनुराधा, रेवती . कृत्तिका, विशाखा आद्रों, आश्लेषा, ज्येष्ठा, मूल ४-वर्णकोष्टकम् ब्राह्मण क्षत्रिय वैश्य शुद्र वृषभ कर्क वृश्चिक मीन सिंह कन्या मिथुन तुला कुंभ मकर ५-वश्यकोष्टकम् जलचर चतुष्पाद मनुष्य वनचर कीटक कर्क | मेष मिथुन वृषभ कन्या मकर- -उत्तरार्धम् मीन तुला धनुः उत्तरार्धम् | मकरपर्वाम ६-वर्गः धनुः पूर्वार्धम् कुंभ → वैरवर्गः सर्प त, थ, द, ध, न मूषक प, फ, ब, भ, म मृग य, र, ल, व मेष श, ष, स, ह -- - वर्ग: गरुड अ, इ, उ, ए मार्जार क, ख, ग, घ, ङ सिंह च, छ, ज, झ, ञ श्वान ट, ठ, ड, ढ, ण वैरवगे: - Page #483 -------------------------------------------------------------------------- ________________ योनिः अश्व गज मेष सर्प श्वान गौ (११) -योनिकोष्टकम् ( मु० चिं० ६।२५-२६ ) वैरम् वैरम् < नक्षत्रम् अश्वि. श. भ. रे. कृ. पुष्य रो. मृ. आर्द्रा.म. पुन. आले. उ.फा.उ.भा. शत्रवः श. शु. रा. -योनिः महिष सिंह वानर नकुल मृग मूषक व्याघ्र ८ - मैत्रीकोष्टकम् (मु० चिं० ६।२७-२८) ग्रहाः सू. चं. मं. बु. गु. शु. श. मित्रा. चं. मं. गुर बु. र. चं. र. शु. र. चं. बु. रा. बु. शु. बु. शु. श. रा. मं. मं. गु. शु.श. मं. श. श. रा. मं. गु. गु. श. रा. गु. समाः बु. शु. श. गु. | रा. देवः मनुष्यः अश्वि. मृ. भ. रो. कृ. आले. पुन. पु. आई. पू.फ., म. चि. ह. खा.उ.फ., पू.षा. वि. ज्ये. अनु. श्र. उ. षा.पू.भा.मू. ध. उ. भाद्र. शत. रे. राक्षसः नक्षत्रम् बु. रा. चं. बु. शु. र. चं. र. चं. र. चं. मं. मं. १९ - गणकोष्टकम् (मु. ६।२९) १० - नाडीकोष्टकम् (मु. ६।३४ ) आद्या ह. खा. ध. पू. भा., पू. बा., श्र. उषा. अभि. अनु. ज्ये. म. पू. फ. चि. वि. अ. आर्द्रा. पुन. उ. फ. ह. ज्ये. मू. शत. पू. भा. मध्या रा. अंत्या भ. मृ. कृ. रो. पुष्य. पू. फ. आले. म. चि. स्वा. वि. अनु. गु. पू.षा., ध. उ. भा. उ. षा., श्र. रे. Page #484 -------------------------------------------------------------------------- ________________ 11 वर्णगुणकोष्टकम् वरस्य | ब्रा. | क्ष.। वै. शू. // 12 नाडीगुणकोष्टकम् वरस्य | आ | म | अं. आ ब्रा. / 1 कन्यायाः कन्याया: वै. 13 गणगुणकोष्टकम् १४संक्षिप्त तारामुणकोष्टकम्(मु.६।२४) वरस्य | दे. | म. | रा. // वरस्य | 1 3 ब १अ ی 3 / 1 // कन्यायाः میں कन्यायाः रा. . . . . कुंभ 15 प्रीतिषडष्टकम् मेष मिथुन / सिंह धनुः वृश्चिक मकर / मीन | वृषभ कन्या 16 मृत्युषडष्टकम् मेष मिथुन | सिंह - तुला धनुः कन्या वृश्चिक | मकर - मीन वृषभ 17 शुभद्विदशकम् मीन वृषभ | कर्क, सिंह | कन्या | वृश्चिक | मकर मेष मिथुन | सिंह , कन्या, तुला | धनुः कुंभ 18 अशुभद्विादशकम् मिथुन / तुला वृषभ कर्क , वृश्चिक / मकर 19 शुभनवपंचकम् मेष | वृषभ | मिथुन | सिंह | तुला | वृश्चिक | धनुः मकर सिंह | कन्या | तुला | धनुः | कुंभ | मीन | मेष / 20 अशुभनवपंचकम् / मेष कुंभ मीन - - " वृषभ कुंभ कके वृश्चिक कन्या मकर मिथुन : कक