________________
होमाहुतिशुद्धिमुहूर्तः ] नक्षत्रप्रकरणम् २ ।
अथ शांतिकपौष्टिकादिकृत्येषु मुहूर्त वसंततिलकेनाहक्षिप्रध्रुवांत्यचरमैत्रमघासु शस्तं स्याच्छांतिकं च सह पौष्टिकमंगलाभ्याम् । खेड विधौ सुखगते तनुगे गुरौ नो मौयादिदुष्टसमये शुभदं निमित्ते ॥
३४ ॥
क्षिप्रेति ॥ क्षिप्रादीनि मघांतानि प्रसिद्धानि तेषु पौष्टिक = पुष्टिकारकं, मंगलं=विनायकशांत्यादि, शांतिकं = दुष्टफलदमूलनक्षत्राद्युत्पन्नशांत्यादि; एतानि कर्माणि कार्याणि । उक्तं च दीपिकायाम्— 'मित्रादित्यमघोत्तराशतभिषक्स्वातीविरंच्यच्युतस्वर्गाधीश्वरपूज्यपौष्णरविषु स्फीते तुषारत्विषि । रिक्तां पर्व विहाय सौम्यदिवसे शस्तं नृणां भूतये सर्वं शांतिकपौष्टिकं निगदितं गर्गादिभिर्निश्चयात् ॥' इति । अथ लग्नशुद्धिः । तत्रार्के सूर्ये खे दशमे सति विधौ चंद्रे सुखगते चतुर्थस्थे गुरौ तनुगे लग्नस्थे सति शांत्यादिकं कर्म कार्यम् । उक्तं च रत्नमालायाम् —' पूर्ण चंद्रे वेश्मगेऽर्केऽम्बरस्थे लग्ने जीवे वाक्पतेर्वासरे च । श्रीमंत्यायुष्याणि कार्याणि कार्याणि' इति । तच्छांतिकादि मौये गुरुशुक्रयोरस्तादिके बाल्यवार्धकसिंहस्थ गुर्वादिरूपे दुष्टसमये नो शुभदम् । तथा निमित्ते केत्वाद्युत्पातदर्शने सति गुरुशुक्रास्तादिदुष्टसमयेऽपि शुभदम् । उक्तं च दीपिकायाम् — 'शांतिकर्माणि कुर्वीत रोगे नैमित्तिके तथा । गुरुभार्गवमौढ्येऽपि दोषस्तत्र न विद्यते ॥' इति । युक्तं चैतत्, यतोऽस्तीदं शांतिकं नैमित्तिकम् । 'अनिमित्तकृता शांतिर्निमित्तायोपजायते ।' इति स्मरणात् । तत्र निमित्ते रोगरूपे केत्वाद्युत्पातांतरदर्शनरूपे च भवति नैमित्तिकं, तच्च बहुदिनव्यापके गुरुशुक्रास्तादिदोषेऽप्यवश्यं विधेयम् । यतो जन्मांतरीयदुरदृष्टसूचकमिदं निमित्तमुत्पन्नं तस्य शान्त्या निरासादशुभादृष्टस्यापि निरासः । बहुदिनप्राप्ये निर्दूषणे काले क्रियमाणं शांतिकं किंचिद्दुरदृष्टशामकं यद्यपि भवति तथापि तावद्भिर्दिनैर्दुरदृष्टस्य प्राबल्याद्दुःखप्राप्तिः । यथाल्पोऽप्यग्निरल्पेनैव जलेन शांतो भवति, तथा सकलनगरदाहको मनुष्यैर्बहुभिर्युगपद्गृहीतजलपूर्णघटैरेकदेशनिर्वापितोऽपि सकलोऽग्निर्न निर्वाप्यते इत्यतः सर्वथा मौढ्यादिदोषं विनैव यथाकथंचित्कथितप्रकारेण दिनशुद्धिमंगीकृत्य शांतिकाद्यवश्यं विधेयम् ॥ ३४ ॥
अथ होमाहुतिशुद्ध मुहूर्तमनुष्टुप्छंदसाह
७७
सूर्यभात्रित्रि चंद्रे सूर्यविच्छुक पंगवः ।
चंद्रा रेज्यागुशिखिनो नेष्टा होमाहुतिः खले || ३५ ॥ सूर्यभादिति ॥ सूर्यः स्पष्टमानेन यन्नक्षत्रेऽस्ति तस्मात्रित्रिके आदितो भत्रयमेककिमेवं सप्तविंशतिभेषु नवत्रिकानि भवति । तत्र सूर्यनक्षत्रादारभ्य