________________
७८
मुहूर्तचिंतामणिः । [होमदिने वह्निवासवशेन फलं प्रथमद्वितीयादित्रिकस्थे चंद्रे सति क्रमादेषां मुखे आहुतिः पतति । यथा प्रथमत्रिके सूर्यस्य, ततो बुधस्य, ततःशुक्रस्य, ततः पंगोः शनेः, ततश्चंद्रस्य, तत आरस्य भौमस्य, तत इज्यस्य गुरोः, ततोऽगो राहोः, ततः शिखिनः केतोः । एवं सति यद्दिने पापग्रहमुखे होमाहुतिः पतति सा नेष्टा न शुभदा । अर्थादेव शुभग्रहमुखे आहुतिपातः शुभफलदः । उक्तं च कश्यपेन-'नक्षत्रे यत्र भानुः स्यात्तदायूक्षत्रिकं त्रिकम् । सूर्यज्ञशुक्रसौरीणामिंदुभौमबृहस्पतेः ।। राहोः केतोश्च निर्दिष्टं वदनादौ शुभाशुभम् । सौख्यार्थनाशः सूर्ये स्यादिंदौ जलमयी कृषिः ॥ भौमेऽग्निदाहो राष्ट्रस्य बुधे बुद्धिविवर्धनम् । गुरौ लब्धिरभीष्टस्य राज्यं सौभाग्यनंदितम् ॥ भार्गवे कार्यसंपत्तिरैहिकामुष्मिकी भवेत् । शनेर्मुखाहुतौ ज्ञेयो राज्यभंगो धनक्षयः । राहोर्मुखाहुतौ हानिः सर्वस्य परिकीर्तिता । केतोर्मुखाहुतौ ज्ञेयं दुर्भिक्षं देशविप्लवम् ॥ मरणं प्राणिनां चैव राज्यभंगं तथैव च । तस्मात्सर्वप्रयत्नेन ग्रहनक्षत्रसंगमे ॥ दुष्टे न कुर्याद्धवनमित्याहुर्भार्गवादयः ॥' इति । तदयमत्र निष्कृष्टोऽर्थः-सूर्याक्रांतनक्षत्रात् चंद्रनक्षत्रस्य त्रिकत्रिकगणनया पापमुखे आहुतिनिद्या । शुभग्रहमुखे समीचीना । अत एव पितृचरणैरप्युक्तम्-'विवस्वदृक्षात्रिकमेकमेवं विधौ स्थितेऽकंज्ञसितार्कजानाम् । चंगारजीवागुशिखावदास्ये होमाहुतिः पापमुखे निषिद्धा ॥' इति । गुर्जरदेशे प्रसिद्धमिदम् । अथ दैवात्कृतस्य पापग्रहमुखे हवनस्य शांतिरुक्ता विष्णुधर्मोत्तरे—'ऋरग्रहमुखे चैव संजाते हवने शुभे । शांति विधाय गां दद्याद्राह्मणाय कुटुंबिने ॥ आयसी प्रतिमां कृत्वा निक्षिपेत्तामधोमुखीम् । गोमूत्रमधुगंधाद्यैरर्चितां प्रतिमां ततः । कुंडे निधाय संपूज्य तत्र होमो विधीयते ॥' इति ॥ ३५ ॥
अथ यद्दिने होमश्चिकीर्षितस्तहिने वह्निवासवशेन शुभाशुभफलमिंद्रवज्रयाहसैका तिथिर्वारयुता कृताप्ता शेषे गुणेऽभ्रे भुवि वह्निवासः । सौख्याय होमे शशियुग्मशेषे प्राणार्थनाशौ दिवि भूतले च ३६
सैकेति ॥ शुक्लादिमासगणनया वर्तमानतिथिर्गण्यैकयुता वर्तमानवारयुता चतुर्भक्ता यच्छेषं तद्गुणमितं शून्यमितं चेत्तदा वह्वेर्वासो वसतिस्थान भुवि वर्तते । तत्फलमाह-सौख्यायेति । होमदिवसे भुवि वह्निवासः सौख्यजनको भवतीत्यर्थः । अथ शशियुग्मशेषे क्रमेणैकमिते शेषेऽग्निवासो दिवि स्वर्गे, तत्फलं कर्तुः प्राणनाशो मरणं भवेत् । द्विमिते शेषेऽग्निवासो भूतले पातालेऽस्ति, तत्फलं कर्तुरर्थनाशो द्रव्यनाशः । उक्तं च-'तिथिवारयुतिः सैका वेदभक्तावशेषकात् । निवासोऽग्नेयाम्नि रूपे वित्तप्राणविनाशकः । पाताले द्विकशेषेण धनसंचयनाशकः । गुणवेदावशेषेण भूमौ विपुलसौख्यदः ॥ संस्कारेषु विचारोऽस्य न कार्यों नापि वैष्णवे । नित्ये नैमित्तिके कार्य न चान्दे मुनिभिः स्मृतः ॥' इति ॥ ३६ ॥