SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ ७९ वेतालाभिचारसिद्धिमुहूर्ताः] नक्षत्रप्रकरणम् २ । अथ प्रतिवर्षोत्पन्ननवान्नभक्षणमुहूर्तमनुष्टुभाह नवान्नं स्याचरक्षिप्रमृदुभे सत्तनौ शुभम् । विना नंदाविषघटीमधुपौषार्किभूमिजान् ॥ ३७॥ नवानमिति ॥ चरक्षिप्रमृदुसंज्ञकद्वादशभेषु तथा सत्तनौ समीचीनलग्ने शुभग्रहैर्युते दृष्टे चेत्यर्थः । परंतु नंदाः प्रतिपत्षष्ट्यैकादश्यः, विषघटीर्विवाहप्रकरणे वक्ष्यमाणाः, मधु-चैत्रमासं, पौषं च, आर्कि-शनि, भूमिजं मंगलवारं, एतान्विना वर्जयित्वा नवान्नभक्षणं शुभं स्यात् । यदाह भुजबल:-'नवान्नभोजनं नृणां मृदुक्षिप्रचरैः शुभम् । शुभेक्षितयुते लग्ने विषनाडी विवर्जयेत् ॥ नवान्नं न च नंदायां मासे पौषे मधौ तथा ॥' इति ॥ ३७ ॥ अथ नौकाघटनमुहूर्तमनुष्टुभाह याम्यत्रयविशाखेन्द्रसार्पपित्र्येशभिन्नभे। भृग्वीज्यार्कदिने नौकाघटनं सत्तनौ शुभम् ॥ ३८ ॥ याम्येति ॥ याम्यत्रय भरणीकृत्तिकारोहिण्यः, विशाखा, इन्द्रः-ज्येष्टा, सार्प-आश्लेषा, पित्र्यं-मघा, ईशः आः; एतैर्वर्जिते रहिते अवशिष्टेष्वष्टादशनक्षत्रेषु तथा शुक्रगुरुसूर्यवारे सत्तनौ प्राग्व्याख्यातगुणविशिष्टे लग्ने नौकायाः घटनं निर्माणं शुभम् । उक्तं च दीपिकायाम्-'ज्ञभहरिघटलग्ने शक्रपित्र्यद्विदैवत्रिनयनविधियाम्यद्वंद्वसापात्यभेषु । सुकरणतिथियोगे शुक्रजीवार्कवारे तरणिघटनमिष्टं चंद्रताराविशुद्धौ॥' इति । ज्ञभे=मिथुनकन्ये, हरिः= सिंहः । तरणिः नौः । अथ घटनस्थानान्नौचालनमुहूर्ता मयोच्यते । तत्र दीपिका-'शुभाहे विष्णुयुग्मेंदुभगमैत्राश्विपाणिषु । चालनं घटनस्थानान्नावः शुभतिथींदुषु ॥' इति । अथ दीपिकायां नौकायात्रामुहूर्तोऽपि- अश्विकरेज्यसुधानिधिपूर्वामित्रधनाच्युतभे शुभलग्ने । तारकयोगतिथींदुविशुद्धौ नौगमनं शुभदं शुभवारे ॥' इति ॥ ३८॥ अथ वीरसाधनाभिचारयोर्मुहूर्तमनुष्टुभाह मूलार्द्राभरणीपित्र्यमृगे सौम्ये घटे तनौ । सुखे शुक्रेऽष्टमे शुद्धे सिद्धिर्वीराभिचारयोः॥ ३९॥ मूलेति ॥ मूलादिनक्षत्रपंचके तथा घटे तनौ कुंभलग्ने तत्र स्थिते सौम्ये बुधे सति तथा शुक्र सुखे चतुर्थस्थे अष्टमे शुद्धे । शुद्धत्वं प्राग्व्याख्यातम् । तादृशे लग्ने वीरस्य वीरसाधनाया अभिचारकर्मणश्च सिद्धिनिष्पत्तिः । उक्तं च वसिष्टेन-'शशिनैर्ऋतयमपितृभेष्वष्टमशुद्धौ भृगौ च पाताले । घटलग्नगते शशिजे निखिला वेतालसिद्धिः स्यात् ॥' इति । आर्दाग्रहणं रत्नमालायाम्-'पित्र्येशयाम्यमूलेंदुभेषु शुद्धेऽष्टमेऽपि च । वेतालसिद्धिः पाताले भृगौ से घटलग्नगे ॥' इति । वेतालो नाम वीरसाधना ॥ ३९ ॥ १ अत्र ‘अवशिष्टेष्वष्टादशनक्षत्रेषु' इति पाठो विचार्योऽभियुक्तैः; यतो ग्रंथकृदुक्तान्यटनक्षत्राण्यष्टादशैमिलितानि समस्तनक्षत्राणां षडिशतिसंख्यापादकानि स्युः ।
SR No.002342
Book TitleMuhurt Chintamani
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherNirnaysagar Press
Publication Year1945
Total Pages484
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy