________________
मुहूर्तचिंतामणिः। [शिल्पविद्यामुहूर्तः अथ रोगनिर्मुक्तस्नानमुहूर्त वसंततिलकेनाह
व्यंत्यादितिध्रुवमघानिलसार्पधिष्ण्ये . रिक्तातिथौ चरतनौ विकवींदुवारे । स्नानं रुजा विरहितस्य जनस्य शस्तं
हीने विधौ खलखगैर्भवकेंद्रकोणे ॥४०॥ व्यंत्येति ॥ अंत्यं रेवती, अदित्यादीनि भानि प्रसिद्धानि; एतानि नव धिष्ण्यानि विगतानि येषु तान्यवशिष्टान्यष्टादश भानि तेषु तथा रिक्तासंज्ञासु तिथिषु तथा कविः शुक्रः, इंदु: चंद्रः, आभ्यां रहितेषु वारेषु तथा विधौ= चंद्रे, हीने निषिद्धस्थानस्थिते । निषिद्धस्थानानि गोचरप्रकरणे वक्ष्यति । तथा भवे-एकादशे, केंद्रे प्रथमचतुर्थसप्तमदशमस्थाने,कोणे नवपंचमे; एषु स्थानेषु स्थितैः पापग्रहैरुपलक्षिते लग्ने सति रुजा रोगेण विरहितस्य निर्मुक्तस्य जनस्य स्नानं आरोग्यस्त्रानं शस्तं शुभम् ॥ उक्तं च कश्यपेन-'पितृमारतसत्यस्थिरष्विदुशुक्रयोः । न कुर्याद्वारयो रोगमुक्तः स्नानं कदाचन ॥' इति । पुनर्वसोरपि निषेधो रत्नमालायाम्-'इंदोर्वारे भार्गवे च ध्रुषेषु सादित्यस्वातियुक्तेषु भेषु । पित्र्ये चांत्ये चैव कुर्यात्कदाचिन्नैव स्नानं रोगमुक्तस्य जंतोः ॥' इति । पुष्यशततारकयोर्निषेधो नारदसंहितायाम्-'स्थिरेज्यादितिसात्यपितृवारुणभेषु च । न कुर्याद्रोगमुक्तस्य स्नानं वारेऽजशुक्रयोः ॥' इति । अर्थादन्यनक्षत्रेषु कार्यमित्यर्थः । अथ लग्नादिशुद्धिमाह श्रीपतिः'लग्ने चरे सूर्यकुजेज्यवारे रिक्तातिथौ चंद्रबले च हीने । त्रिकोणकेंद्रायगतैश्च पापैः स्नानं हितं रोगविमुक्तकानाम् ॥' इति । दीपिकायां तु विशेषः'व्यादित्येषु चरेषु शकदिनकृत्पुष्योगचंद्रेषु च क्रूराहव्यतिपातविष्टिदिवसेविंदावशस्ते तिथौ । केंद्रस्थेष्वशुभेष्वकामतिथिषु स्नानं गदान्मुक्तिदं शस्तं नात्र सुशोभना विधिभुजंगःदुसद्वासराः ॥' इति । अकामतिथिषु-त्रयोदशीरहितासु तिथिषु ॥ ४०॥ अथ शिल्पविद्यामुहूर्तमनुष्टुभाह
मृदुध्रुवक्षिप्रचरे से गुरौ वा खलग्नगे ।
विधौ ज्ञजीववर्गस्थे शिल्पविद्या प्रशस्यते ॥४१॥ मृदुधुवेति॥मृदुगणध्रुवगणक्षिप्रगणचरगणेषु शिल्पं काष्ठतक्षणपाषाणादिघटननानावर्णनिर्मितमूर्त्यादिकं तद्विद्यायाःप्रारंभः प्रशस्यते । अथ लग्नशुद्धिः। तत्र ज्ञे बुधे खलग्नगे दशमस्थे लग्नस्थे च वा अथवा गुरौ बृहस्पतौ खलग्नगे दशमस्थे लग्नस्थे च सति तथा विधौ चंद्रे ज्ञजीववर्गस्थे बुधगुरुषड्वर्गस्थे च सति शिल्पविद्या प्रशस्यते । उक्तं च रत्नमालायाम्-'लग्नकर्मगते सौम्ये जीवे वामृतदीधितौ । तयोर्वर्गस्थिते शिल्पविद्यारंभः प्रशस्यते ॥' इति । कश्यपेन त्वेवमुक्तम्-'लमधर्मगते सौम्ये गुरौ वा हिमदीधितौ । तयोर्वर्गस्थिते शिल्प