________________
परीक्षामुहूर्तः] नक्षत्रप्रकरणम् २। कारंभः प्रशस्यते ॥' इति ॥ वसिष्ठेन त्वन्यथैवोक्तम्-'शशितनये जीवे वा चंद्रे वा लमगे बलिनि धर्मे । तद्वर्गे लग्नगते शिल्पारंभः प्रशस्यते सततम् ॥' इति ॥४१॥
अथ संधानमुहूर्तमनुष्टुभाह- मंगेज्यमित्रभाग्येषु चाष्टम्यां तैतिले हरौ।
शुक्रदृष्टे तनौ सौम्यवारे संधानमिष्यते ॥ ४२ ॥ मृगेज्येति ॥ मृगेज्यमित्राः प्रसिद्धाः, भाग्यं पूर्वाफल्गुनी; एषु भेषु तथाऽष्टम्यां हरौ द्वादश्यां वा तैतिले करणे वा तथा शुक्रदृष्टे शुक्रयुत इत्यपि द्रष्टव्यम् । तादृशे तनौ लग्ने तथा सौम्यग्रहाणां वारे संधानं प्रीतिरिष्यते । उक्तं च रत्नमालायाम्-'भाग्ये मैत्रे शीतरश्मौ सपुष्य द्वादश्यां वा शुक्रदृष्टे च लग्ने । अष्टम्यां वा तैतिलाख्ये प्रदिष्टा पूर्वाचार्यैस्तत्र संधानसिद्धिः॥' अत्र केचिदेवं व्याकुर्वते-पुष्येण सहिते सपुष्ये भाग्ये मैत्रे च एतन्नक्षत्रत्रयसंस्थे शीतरश्मौ चंद्रे सति संधानं कार्यम् । अनेन भाग्यमैत्रपुष्यात्मकं नक्षत्रत्रयमुक्तं भवति । यदाह वसिष्ठः-'सुरगुरुमैत्रे भाग्ये द्वादश्यां वाथ पक्षमध्यतिथौ । सितयुतवीक्षितलग्ने तैतिलकरणे च संधिः स्यात् ॥' इति । कश्यपोऽपि-'भाग्ये पुष्ये समैत्रे च लग्ने शुक्रेक्षिते युते । करणे तैतिलेऽष्टम्यां द्वादश्यां संधिरिष्यते ॥' इति । एतदेव रत्नमालापद्यव्याख्यानं ज्यायः। संमतिवाक्ययोरार्षत्वात् । 'भाग्ये मैत्रे शीतरश्मौ' इति वक्रोक्तावाशयं न विद्मः। एवं च मूलपद्ये 'देवेज्यमित्रभाग्येषु' इत्येव पठनीयम् ॥ ४२ ॥ अथ परीक्षामुहूर्त वसंततिलकेनाह
त्यक्त्वाष्टभूतशनिविष्टिकुजाञ्जनुर्भ• मासौ मृतौ रविविधू अपि भानि नाड्याः । यंगे चरे तनुलवे शशिजीवतारा
शुद्धौ करादितिहरींद्रकपे परीक्षा ॥ ४३ ॥ त्यक्त्वेति ॥ अष्ट=अष्टमी, भूतः चतुर्दशी, शनिकुजौ वारौ प्रसिद्धौ, विष्टिः भद्रा, जनुर्भमासौ-जननकालीननक्षत्रं जन्ममासं च, मृतौ अष्टमस्थाने, रविविधू-जन्मराशेः सकाशादष्टमं सूर्य चंद्रं च; तथा नाड्याः भान्यपि नाडीनक्षत्राण्यपि । रविविधू अपीत्यत्र 'ईदूदेट्विवचनं प्रगृह्यम्' इति प्रगृह्यसंज्ञायां 'प्लुतप्रगृह्या अचि नित्यम्' इति प्रकृतिभावः । एतावत्पदार्थकदंबकं त्यक्त्वा परीक्षा कार्या । परीक्षा नाम सुवर्णस्तेयादिमहापातकाभिशस्तशुद्ध्यशुद्धिविचारात्मिका तप्तमाषादिरूपा । दिव्यमिति यावत् । सामा. न्यतो भद्रानिषेधेऽपि पुनर्भद्रानिषेधो 'रात्रिभद्रा यदाह्नि स्यात्' इत्यादिपरिहाराणामप्यनवकाशतां सूचयितुमुपात्तः। जन्मभस्य नाडीनक्षत्रत्वादेव निषेधे पुनरुपादानमावश्यकत्वं द्योतयितुम् । जन्ममासस्य तु पुननिषेधो नाद्यगर्भ१ अत्र ‘सुरेज्यमित्रभाग्येषु' इत्यपि पाठो लभ्यते । २ ‘जीर्णाः' इति पाठः। .