________________
मुहूर्तचिंतामणिः। [ज्वरनिवृत्तौ दिनसंख्या विषये यथा स्यादित्येवमथं सामान्यवाक्यमाद्यगर्भविषयमेव । एतच्चाने निणेप्यते । एवं परीक्षायां निषिद्धनिमित्तान्यभिधाय विहितनिमित्तान्याह-चंग इति । तनुलव इति प्रत्येकं संबंधः। व्यंगे द्विस्वभावे मिथुनकन्याधनुर्मीनरूपे, तनौ लग्ने, अंशे नवांशे च द्विस्वभावे, तथा चरे-मेषकर्कतुलामकररूपे लग्ने नवांशे च, तथा शशिजीवताराशुद्धौ-चंद्रशुद्धौ गुरुशुद्धौ ताराशुद्धौ च सत्यां । एषां शुद्धिश्च गोचरप्रकरणेऽभिधास्यते । तथा करादितिहरींद्रकपे-करः हस्तः, अदितिः पुनर्वसुः, हरिः श्रवणः, इंद्रः ज्येष्ठा, कपः वरुणः, तद्भ-शततारका; एषु च भेषु परीक्षा स्यादित्यर्थः । अत्रानुक्तोऽपि प्रातःकालोऽतिशस्तः । उक्तं च दीपिकायाम्-'नो शुक्रास्तेऽष्टमा गुरुसहितरवौ जन्ममासेऽष्टमेंदौ विष्टौ मासे मलाख्ये कुजशनिदिवसे जन्मतारासु चाथ । नाडीनक्षत्रहीने सुरगुरुरजनीनाथताराविशुद्धौ प्रातः कार्या परीक्षा द्वितनुचरगृहांशोदये शस्तलग्ने ॥' इति । व्यवहारोच्चयः-'अष्टम्यां च चतुर्दश्यां प्रायश्चित्तपरीक्षणे । न परीक्षाधिवासश्च शनिभौमदिने भवेत् । ज्येष्ठाश्रवणहस्ताश्च तथा ज्ञेयः पुनर्वसुः। तद्वच्छतभिषा प्रोक्ता त्वभियुक्तविचारणे॥' इति । अभियुक्तः सुवर्णस्तेयादिपातकसंभावनावान् , तस्य विचारणे शुद्ध्यशुद्धिनिर्णये । नाडीनक्षत्राणि दीपिकायामुक्तानि—'जन्माचं कर्म ततो दशमं सांघातिकं च षोडशकम् । समुदायमष्टादशभं विनाशसंशं त्रयोविंशम् ॥ आद्यात्तु पंचविंशं मानसमेवं नरः षडक्षः स्यात् । नवनक्षत्रो नृपतिः स्वजातिदेशाभिषेकक्षैः ॥' इति । एतानि नाडीनक्षत्राणीति वाक्यशेषो दीपिकाकृताभिहितः । जातिाह्मणादिका तन्नक्षत्राणि 'पूर्वात्रयं सानलमग्रजानां' इति वराहोक्तानि । तद्वाक्यं च मया यात्राप्रकरणे लिखिष्यते । देशोऽर्गलापुरादिकस्तनक्षत्राणि शतपदचक्रानुसारेण ज्ञेयानि । तद्वाक्यं च नामकर्मप्रकरणे मया लिखिष्यते । यस्मिन्पुष्यादिके नक्षत्रेऽभिषिक्तो राजा तदभिषेकक्षम् ॥ ४३॥ अथ सामान्यतः समस्तशुभकार्येषु लग्नशुद्धिमनुष्टुभाह
व्ययाष्टशुद्धोपचये लग्नगे शुभदृग्युते ।
चंद्रे त्रिषड्दशायस्थे सर्वारंभः प्रसिध्यति ॥ ४४ ॥ व्ययेति॥ व्ययः-द्वादशस्थानं, अष्ट अष्टमस्थानं; एतत्स्थानद्वयं शुद्धं शुभपापग्रहसाहित्यदोषरहितं यस्मिन् तादृशे स्वजन्मराशेः स्वजन्मलग्नाद्वा उपचयभवने त्रिषडेकादशदशमस्थाने लग्नगते शुभग्रहैदृष्टे युते च; तथा चंद्रे त्रिषड्दशमायस्थानस्थिते सति सर्वेषां शुभकार्याणामारंभः प्रसिध्यति । यदाह वसिष्ठः-'उपचयभे लग्नगते व्ययनैधनशुद्धिसंयुते लग्ने । उपचयगे शीतकरे मंगलकर्माणि कार्याणि ॥' इति ॥ ४४ ॥ - अथ नक्षत्रेषु ज्वरोपत्तौ सत्यां तन्निवृत्तौ दिनसंख्यादिकं द्वितीयोपजातिकयोपेंद्रवज्रया चाहखातींद्रपूर्वाशिवसापेमे मृतिवरेऽत्यमैत्रे स्थिरता भवेद्रुजः । याम्यश्रवोवारुणतक्षभे शिवा घस्रा हि पक्षो द्वयधिपार्कवासवे४५