________________
८३
सर्पदंशेऽवश्यमारकनक्षत्राणि] नक्षत्रप्रकरणम् २ । मूलाग्निदास्रे नव पित्र्यभे नखा बुध्न्यार्यमेज्यादितिधातृभे नगाः। मासोऽब्जवैश्वेऽथ यमाहिमूलभे मिश्रेशपित्र्ये फणिदंशने मृतिः॥
स्वातीति ॥ मूलाग्नीति ॥ स्वाती, इंद्रः ज्येष्ठा, पूर्वास्तिस्रः, शिवः= आर्द्रा, सार्पभं-आश्लेषा; एषु भेषु ज्वरे पुंसः स्त्रियो वा ज्वरोत्पत्तौ मृतिरेव स्यात् । उक्तं च वसिष्ठेन-'पूर्वात्रयस्वातिभुजंगरौद्रसुरेश्वरःषु च यस्य रोगः। स्याद्रक्षितुं देवचिकित्सकोऽपि क्षितावशक्तः खलु रोगिणं तम् ॥' इति । देवचिकित्सकः देववैद्यो धन्वंतरिः । अथांत्यमैत्रे रेवत्यनुराधयोर्वरोत्पत्तौ रुजो रोगस्य स्थिरता भवेत् । बहुकालेन रोगनिवृत्तिः स्यादित्यर्थः। तथा भरण्यादिनक्षत्रचतुष्के शिवा एकादश घस्रा दिवसाः रोगस्थैर्य स्यात् , तदनंतरं रोगमुक्तिरिति सर्वत्र व्याख्येयम् । 'घस्रो दिनाहनी वा तु' इत्यमरः । व्यधिपंविशाखा, अर्कः हस्तः, वासवं धनिष्ठा; एषु त्रिषु भेषु पक्षः पंचदश दिवसा रोगस्थैर्यस्य । मूलाग्निदात्रे मूलकृत्तिकाश्विनीषु त्रिषु नव दिवसाः। पित्र्यभे मघायां नखा विंशतिर्दिवसाः। 'नामैकदेशे नामग्रहणम्' इति न्यायेन बुद्धयःअहिर्बुध्न्य उत्तराभाद्रपदा, अर्यमा उत्तराफल्गुनी, इज्यादितिधातृभानि प्रसि• द्धानि; एषु पंचभेषु नगाः सप्तदिवसाः। अजवैश्वे मृगोत्तराषाढयोर्द्वयोर्मासस्त्रिंशद्दिनानि रोगस्थैर्य, ततो रोगनिवृत्तिः । यदाह वसिष्ठः-'कृच्छ्रात्स्फुटं प्राणिति मित्रपौष्णधिष्ण्ये च मासाच्छशिविश्वधिष्ण्ये । रोगस्य मुक्तिः पितृदेवधिष्ण्ये वारैर्भवेद्विंशतिभिश्च नूनम् ॥' इति । प्राणिति जीवतीत्यर्थः । 'पक्षाद्वसुद्वीशकरेषु भेषु मूलाश्विनाग्नित्रितये नवाहात् । तोयेशचित्रांतकविष्णुभेषु नैरुज्यमेकादशभिर्दिनैश्च ॥ पुष्ये त्वहिर्बुध्यपुनर्वसौ च ब्रह्मार्यमःषु च सप्तरात्रात् ॥' इति । अत्र शीघ्र रोगविमुक्तये संक्षिप्ता शांतिरप्यभिहिता वसिष्ठेन-'ऋक्षेशरूपं कनकेन कृत्वा तलिंगमंत्रैश्च सुगंधिपुष्पैः । वस्त्राक्षतैर्गुग्गुलधूपदीपनैवेद्यतांबूलफलैश्च सम्यक् । पूजां च कृत्वाऽऽमयनाशनाय द्विजाय दद्यादतुलं शिवाय ॥' इति । आमयः-रोगः । अतुलं अपरिमितद्रव्यम् । प्रत्येकनक्षत्रशांतिर्विशदा नक्षत्रशांत्यध्याये वसिष्ठेनोक्ता, सा तत एव सम्यगवधार्या । अथ सर्पदंशे नक्षत्राण्याह-अथेति ॥ अथानंतरं यमाहिमूलभे= भरण्याश्लेषामूलेषु; तथा मिश्रेशपित्र्ये कृत्तिकाविशाखामघासु एवं सप्तसु भेषु यस्य कस्यचित्फणिर्दशने सर्पदंशे मृतिर्मरणमेव भवेदित्यर्थः । यदाह वसिष्ठः-'मघाविशाखानलसार्पयाम्यनैर्ऋत्यरौद्रेषु च सर्पदष्टः । सुरक्षितो विष्णुरथेन सोऽपि प्राप्नोति कालस्य मुखं मनुष्यः ॥' इति । विष्णुरथेन= गरुडेन । अत्र सर्पदंशे यस्यैषु नक्षत्रेषु गोचरवशेन चंद्रबलं न भवति तस्यैव सर्पदंशेऽवश्यं मरणं स्यात् । उक्तं च दीपिकाटीकाकृताच्युतभट्टेन'यद्यत्र चन्द्रस्तस्यैव गोचरे चाशुभप्रदः । तदा नूनं भवेन्मृत्युः सुधासंसिक्तदेहिनः ॥' इति ॥ ४५ ॥ ४६॥ .