________________
: मुहूर्तचिंतामणिः । [प्रेतदाहे निषिद्धदिनादि अथ शीघ्रं रोगिमरणे विशिष्टं योग द्वितीयोपजातिकयाह... रौद्राहिशाक्रांबुपयाम्यपूर्वाद्विदैववस्वग्निषु पापवारे ।
रिक्ताहरिस्कंददिने च रोगे शीघ्रं भवेद्रोगिजनस्य मृत्युः४७
रौद्राहीति ॥ रौद्रादीनि भानि प्रसिद्धानि, पापवाराः सूर्यभौमशनयः, रिक्ताः प्रसिद्धाः, हरिः द्वादशी, स्कंददिन षष्ठी; एतास्तिथयः एवं विधे विशिष्टयोगे यस्य रोगोत्पत्तिर्भवेत्तस्य रोगिजनस्य शीघ्रं मृत्युर्भवेत् । उक्तं च दैवज्ञमनोहरे-'उरगवरुणरुद्रा वासवेंद्रत्रिपूर्वा यमदहनविशाखाः पापवारेण युक्ताः । तिथिषु नवमिषष्ठी द्वादशी वा चतुर्थी सहजमरणयोगो रोगिणां कालहेतुः ॥' इति । चतुर्थीग्रहणं चतुर्दश्युपलक्षकं मत्वा मूले रिक्ताग्रहणं कृतम् । अत एवाह वसिष्ठः-'आश्लेषात्रिपूर्वीयमवरुणमरुच्छक्रवारानलाः स्युर्दादश्यां स्कंदरिक्तातिथिषु च रविजार्कारवारेषु येषाम् । रोगः संजायते ते यमपुरमचिरात्प्रामवंत्येव चंद्रे जन्मन्यष्टाख्यबंधुव्ययभवनगते मृत्युलग्ने च राशौ ॥' इति ॥ ४७ ॥ ___ अथ प्रेतदाहमुहूर्त प्रेतदाहादिनिषिद्धदिनं चंद्रवंशाछंदसाहक्षिप्राहिमूलेंद्रहरीशवायुभे प्रेतक्रिया स्याज्झषकुंभगे विधौ। प्रेतस्य दाहं यमदिग्गमं त्यजेच्छय्यावितानं गृहगोपनादि च ४८
क्षिप्रेति ॥ अश्विनीपुष्यहस्ताश्लेषामूलज्येष्ठाश्रवणार्दास्वातीनक्षत्रेषु प्रेतक्रिया प्रेतानां प्रेतत्वविमुक्तिपूर्वकोत्तमलोकप्राप्तिकारकं श्राद्धादिकर्म क्रियाशब्देनोच्यते, सा यदि कारणवशाच्छवदाहसमये अकृता सती एषु भेषु कार्या स्यात् । उक्तं च हेमाद्रौ ज्योतिःपराशरेण-'साधारणध्रुवोमैत्रेषु न शस्यते मनुष्याणाम् । प्रेतक्रिया न शस्ता त्रिपुष्करे यमलधिष्ण्ये च॥' इति । अत्रैतानि निषिद्धानि-कृत्तिका विशाखा रोहिण्युत्तरात्रयं पूर्वात्रयं मघाभरणी मृगश्चित्रानुराधा रेवतीत्येवं पंचदश भानि; तथा त्रिपुष्करे त्रिपादनक्षत्रे तत्रान्येषु त्रिपादनक्षत्राणां उक्तभेष्वंतर्भूतत्वात्पुनर्वसुरवशिष्टः; तथा यमलधिष्ण्ये द्विपादनक्षत्रे इति हेमाद्रिणा व्याख्यातम् । तत्र मृगचित्रयोमैत्रनक्षत्रेष्वंतर्भावाद्धनिष्ठायमलधिष्ण्ये अत्र गृह्यते । धनिष्ठापंचकनिषेधश्चाधुनैव वक्ष्यते । एवमष्टादश भानि प्रेतक्रियायां निषिद्धानि । अवशिष्टानीमानि-अश्विनीपुष्यहस्ताश्लेषाज्येष्ठामूलश्रवणास्वातीषु नवऋक्षेषु प्रेतक्रिया कार्येत्यर्थादुक्तं भवतीति । अत एतान्येव ग्रंथकोंपनिबद्धानि क्षिप्राहीत्यादिना। अत एव 'कराच्यहिरुद्रपुष्यस्वातींद्रमूलहरिभेषु मृतक्रियेष्टा' इति व्यवहारतत्त्वकोक्तम् । अथ झषकुंभगे मीनकुंभराशिस्थिते चंद्रे सति धनिष्ठोत्तरार्धादारभ्य शततारकापूर्वाभाद्रपदोत्तराभाद्रपदारेवतीषु प्रेतस्य मृतस्य दाहं ज्वलनं त्यजेन्न कुर्यात् । च पुनर्यमदिग्गस दक्षिणदिशि गमनं यात्रां त्यजेत् । तथा शय्यायाः खवाया वितानं वयनं तथा गृहगोपनं गृहाच्छादनं आदिशब्देन तृणकाष्ठसंग्रहं च