________________
i
पंचकमृतौ शांतिः] - नक्षत्रप्रकरणम् २ । त्यजेत् । यदाह वसिष्ठः-'वस्वपरार्धात्पंचकधिष्ण्ये गेहस्य गोपनं नैव । दक्षिणदिसुखगमनं दाहं प्रेतस्य काष्ठसंग्रहणम् ॥' इति। नारदः-'वखंत्यार्धादिपंचः संग्रहं तृणकाष्ठयोः । याम्यदिग्गमनं शय्यां न कार्य गृहगोपनम् ॥' इति । श्रीपतिरपि-'वासवोत्तरदलादिपंचके याम्यदिग्गमनगेहगोपनम् । प्रेतदाहतृणकाष्ठसंग्रहं शय्यकावितननं च वर्जयेत् ॥' इति । त्रिविक्रमोऽपि'शय्यावितानं प्रेतादिक्रियां काष्ठतृणार्जनम् । याम्यदिग्गमनं कुर्यान चंद्रे कुंभमीनगे ॥' इति । ननु प्रेतदाहे किं नक्षत्रांतरे मृतस्य धनिष्ठोत्तरार्धादिके दाहो न कार्य इति, उत पंचक एव मृतस्य पंचके दाहो न कार्य इति, माहोस्विद्यस्मिन्कस्मिंश्चिन्नक्षत्रे पंचकातिरिक्ते पंचके वा मृतस्य पंचके दाहो न कार्य इति त्रयः पक्षाः संभवंति । तत्र यदि विज्ञायते नक्षत्रांतरे मृतस्य पंचके दाहो न कार्य इति तर्हि तत्र पंचके मरणस्य दोषवत्ता न प्राप्नोति । तञ्चायुक्तम् । यस्मादुक्तं ब्रह्मपुराणे-'कुंभमीनस्थिते चंद्रे मरणं यस्य जायते । न तस्योर्ध्वगतिर्दृष्टा संततौ न शुभं भवेत् ॥' इति । अथ विज्ञायते पंचक एवं मृतस्य पंचके दाहो न कार्य इति, तदपि न । श्रवणे धनिष्ठापूर्वार्धे च मृतस्य पंचके दाहनिषेधो न प्रामोति किंतु दाहः कर्तव्य इत्येव प्रामोति; अस्त्वेवमिति चेन्न । 'प्रेतस्य दाहं त्यजेत्' इति दाहस्यैव क्रियाकारकसंबंधेन प्राधान्यतो निषेधात् । किंच 'त्रिगुणफलदो वृद्धौ नष्टे हृते च मृतेऽपि वा' इति त्रिपुष्करयोगफलवत्पंचकमरणनिषेध एव वक्तव्ये दाहनिषेधस्य पृथगुपादानात्कर्तव्यतापत्तिः । तस्माद्यस्मिन्कस्मिंश्चिन्नक्षत्रे मृतस्य पंचके दाहो न कार्य इति तृतीयः पक्षः साधीयान् । प्राधान्यादाहस्यैव निषेध इत्युक्तं प्राक् । अतः पंचकात्प्राङ्मरणदोषो नास्ति, तथा तत्रैव दाहोऽपि न दोषाय । यदि क्रियाकरणवशात्कालातिकमे सति पंचकप्रवृत्तिस्तदा शांति विधाय दाहः कार्यः । पंचके तु द्वयमपि निषिद्धं मरणं दाहश्चेति । उक्तं च ब्रह्मपुराणे-'कुंभमीनस्थिते चंद्रे मरणं यस्य जायते । न तस्योर्ध्वगतिर्दृष्टा संततौ न शुभं भवेत् ॥ न तस्य दाहः कर्तव्यो विनाशः स्वेषु जंतुषु । पंचकानंतरं कार्य कार्य दाहादिकं खलु ॥ अथवा तद्दिने कार्यो दाहस्तु विधिपूर्वकम् ॥' रेवतीप्रांते मृतस्य रेवतीमपहाय दाहः कार्य इत्यर्थः । धनिष्ठोत्तरा'र्धादिमृतस्य दाहस्तु सद्य एव । पंचकस्य बहुकालव्यापित्वात्पर्युषितदाहनिषेधाच्च । स च दाहः शांतिविधिपूर्वकः कार्यः। स विधिरुत्तो ब्रह्मपुराणे“दाहदेशे शवं नीत्वा स्नापयेच्च प्रयत्नतः। दर्भाणां प्रतिमाः कार्याः पंचोर्णासूत्रवेष्टिताः। यवपिष्टेनानुलिप्तास्ताभिः सह शवं दहेत् ॥ प्रेतवाहःप्रेतसखःप्रेतपः प्रेतभूमिपः । प्रेतहर्ता पंचमश्च नामान्येतानि च क्रमात् ॥' इति । विशेषस्त्वंत्येष्टिपद्धत्यादौ द्रष्टव्यः। नन्वत्र-'त्रिगुणफलदो वृद्धौ नष्टे हृते च मृतेऽपि वा' इतिवत् मरणनिषेध एव वक्तव्ये किं पुनर्दाहनिषेधेन ? उच्यते,-दोषाधिक्यसूचनार्थ हि पुनर्दाहनिषेधः । अत एव पंचके मृतस्य पुत्तलकविधानं कृत्वा दाहः कार्यः । ततः सूतकांते पुत्रादिभिः शांतिकं च विधेयम् । उक्तं च
८ मु. चि.