________________
• मुहूतचिंतामणिः । [त्रिपुष्करपोगः बत्फलंच गरुडपुराणे-'ततो दाहः प्रकर्तव्यस्तैश्च पुत्तलकैः सह । सूतकांते तदा पुत्रैः कार्य शांतिकपौष्टिकम् ॥ पंचके तु मृतो योऽसौ न गतिं लभते नरः। तिलांश्चैव हिरण्यं च तमुद्दिश्य घृतं दहेत् ॥' इति । अतो नक्षत्रांतरे मृतस्य पंचके दाहप्राप्तौ पुत्तलकविधिरेव भवति । नतु सूतकांते शांतिकं च । एवं पंचकांते मृतस्याश्विन्या दाहप्राप्तौ पुत्तलकविधिर्न किंतु सूतकांते शांतिकमेव विधेयमित्यलमतिप्रसंगेन । अथात्र दीपिकायाम्-'छेदनं संग्रहं चैव काष्ठादीनां न कारयेत् । श्रवणादौ बुधः षढे न गच्छेदक्षिणां दिशम् ॥' इति यदुक्तं तचित्यम् । मार्षमूलवाक्यानुपलब्धेर्वसिष्ठादिमुनिवाक्यविरोधाच । अत एव तट्टीकाकृताच्युतभट्टेनाप्यस्य श्लोकस्य व्याख्यानांते कदाचिच्छ्रवणधनिष्ठापूर्वार्धयोरेतानि समाचरेत् नतु जातु धनिष्ठोत्तरार्धादिपंचके । तथा च रत्नमालायाम्-'वासवोत्तरदलादिपंचके' इत्यादिसंमतिवाक्यमुक्तम् । काष्ठादीनामित्यत्रादिशब्देन गृहगोपनं प्रेतदाहं खटाया वयनं च न कुर्यादिति व्याख्यातम् ॥ ४८ ॥ मर्थ त्रिपुष्करयोगं सफलं वसंततिलकयाहभद्रातिथी रविजभूतनयार्कवारे
द्वीशार्यमाजचरणादितिवह्निवैश्वे । ..... त्रैपुष्करो भवति मृत्युविनाशवृद्धौ
त्रैगुण्यदो द्विगुणकद्वसुतक्षचांद्रे ॥४९॥ भनेति ॥ भद्रासंज्ञिका तिथिः द्वितीयासप्तमीद्वादशी । अत्र 'रोरि' इति रेफलोपे 'ठूलोपे पूर्वस्य दीर्घोऽणः' इति पूर्वस्याणो दीर्घः । तथा शनिभौमसूर्यवारे, तथा द्वीशं विशाखा, अर्यमा उत्तराफल्गुनी, भजचरणः पूर्वाभाद्रपदा, अदितिः पुनर्वसुः, वह्निः कृत्तिका, वैश्वं उत्तराषाढा; एषु षण्नक्षत्रेषु उक्ततिथिवारनक्षत्ररूपे विशिष्टयोगे सति त्रिपुष्कर एव त्रैपुष्करः। 'प्रज्ञादिभ्यश्च' इति स्वार्थेऽण् । त्रिपुष्करनामा योगो भवतीत्यर्थः । कीदृशः? मृत्युविनाशवृद्धौ त्रैगुण्यदः, तद्दिने यदि कश्चिन्नियेत तदा तदीयास्तसहितास्त्रयो म्रियेरन् । यदि किंचिद्वस्तु विनष्टं तदा तस्य वस्तुत्रयनाशः । तथा किंचिद्वस्तु लब्धं तदा त्रिगुणतद्वस्तुलाभ इत्यर्थः । उक्तं च वसिष्ठेन-'रविरविजभौमवारे भद्रायां विषमपादमृक्षं चेत् । त्रैपुष्कराख्ययोगस्त्रिगुणफलो यमलभैर्द्विगुणः ॥' इति । नारदेनापि 'अर्कार्किभौमवारे चेगद्रायां विषमांघ्रिभम् । त्रिपुष्करस्त्रिगुणदो द्विगुणो यमलांघ्रिभे ॥' इति । अत्र यस्मिनक्षत्रे प्रथमपादांते तृतीयपादांते वा राशिसमाप्तिस्तद्विषमपादमृक्षमुच्यते । तदेव स्पष्टं 'द्वीशार्यमा-' इत्यादिनोपनिबद्धम् । अथ वासवः धनिष्ठा, तक्षा-चित्रा, चांद्र-मृगः; एतानि भानि भद्रास्तिथयः रविभूतनयार्कवाराश्च । अत्रापि विशिष्टयोगे सति द्विपुष्करनामा योगो भवति, तत्फलं मृत्युविनाशवृद्धौ द्वैगुण्यकृत् मृते नष्टे वृद्धौ का द्वि