________________
प्रेतसंस्कारस्य द्वैविध्यम् ]
नक्षत्रप्रकरणम् २ |
गुणतां करोतीत्यर्थः । 'द्विगुणो यमलांघ्रिभे' इत्युक्तेः । यन्नक्षत्रे द्वितीयचरणांते राशिसमाप्तिस्तद्यमलांत्रिभं तच्च मृगचित्राधनिष्ठारूपमेव । अथ दैवात्रिपुष्करादिके तिथिवारनक्षत्रात्मके विशिष्टयोगे सति कस्यचिन्मरणसंभवस्तदा तोषशांत्यर्थं दानं विधेयम् । यदाह वसिष्ठः - 'त्रितयं गवां हि दद्यादोषत्रितयापनुत्तये विद्वान् । द्वितयं द्विपुष्करेऽपि च तिलपिष्टैर्विप्रमुख्येभ्यः ॥' इति । द्वितयं गवामिति शेषः । अत्र तिथिवारयोरभावे केवलं विषमांघ्रिभे यमलांघ्रिभे वा मरणसंभवे दोषो नास्तीत्यर्थः । अमुमर्थं स्पष्टमाह नारदः - 'दद्यात्तद्दोषनाशाय गोत्रयं मूल्यमेव वा । द्विपुष्करे द्वयं दद्यान्न दोषस्त्वर्क्षमात्रतः ॥ इति । अत्र त्रिपुष्करयोगे क्वचिद्वृहस्पतिवारोऽप्युक्तः । यदाह कश्यपः'भद्रातिथिशनीज्यारवा रे चेद्विषमांघ्रिभम् । त्रिपुष्करं त्रिगुणदं द्विगुणं व्यंघ्रिभे मृतौ ॥' इति । इदमेव दृष्ट्वा श्रीपतिनाप्युक्तम् - विषमचरणं धिष्ण्यं भद्रातिथिर्यदि जायते सुरगुरुशनिक्ष्मापुत्राणां कथंचन वासरे । मुनिभिरुदितः सोऽयं योगस्त्रिपुष्करसंज्ञितस्त्रिगुणफलदो वृद्धौ नष्टे हृते च मृतेऽपि वा ॥' इति । अस्य पूर्वोक्तवाक्यस्य चैकवाक्यतां देवाः कर्तुमर्हति । कश्यपवाक्ये मृताविति पदोपादानान्मरणं एवायं विचारो न तु नष्टे वृद्धौ च । यदुक्तं ब्रह्मपुराणेsपि - 'धनिष्ठापंचके जीवो मृतो यदि कथंचन । त्रिपुष्करे याम्यभे च कुलजान्मारयेद् ध्रुवम् ॥ तदनिष्टविनाशार्थं विधानं समुदीरयेत् ॥' इति । ग्रंथकर्त्रा तु श्रीपत्युक्तिमंगीकृत्य मृत्युविनाशवृद्धावित्युक्तम् । वसिष्ठनारदवाक्ययोः सामान्यतोऽभिधानं दानं च मृतावेवेति विषयविवेकः ॥ ४९ ॥ अथ शवप्रतिकृतिदाहे निषिद्धकालं शार्दूलविक्रीडिताभ्यामाह-शुक्राराकिंषु दर्शभूतमदने नंदासु तीक्ष्णोग्रमे
पौष्णे वारुणभे त्रिपुष्करदिने न्यूनाधिमासेऽयने । याम्येऽब्दात्परतश्च पातपरिघे देवेज्यशुक्रास्त के
भद्रावैधृतयोः शवप्रतिकृतेर्दा हो न पक्षे सिते ॥ ५० ॥ जन्मप्रत्यरितारयोर्मृतिसुखांत्येऽब्जे च कर्तुर्न स
न्मध्य मैत्रभगादितिध्रुव विशाखाद्व्यंघ्रिमे ज्ञेऽपि च । श्रेष्ठोऽर्केज्यविधोर्दिने श्रुतिकरस्वात्यश्विपुष्ये तथा
त्वाशौचात्परतो विचार्यमखिलं मध्ये यथासंभवम् ॥ ५१ ॥ शुक्राति ॥ जन्मेति ॥ एवंविधे दिने शवस्य मृतस्य प्रतिकृतिः पर्णशरादिना सावयवत्वकल्पनं तस्य दाहो न कार्यः । कुतः ? यतो द्विविधः प्रेतसंस्कारः-प्रत्यक्षशरीरस्यैकः, :, प्रतिकृतेरन्यः । तत्र प्रत्यक्षशरीरसंस्कृतौ शुभाशुभदिनविचाराभावः । यदाह गार्ग्य:- 'प्रत्यक्षशवसंस्कारे दिनं नैव विशोधयेत्'