________________
: मुहूर्तचिंतामणिः। [प्रतिकृतिदाहे वयंकाल इति । प्रतिकृतिसंस्कारस्य हि कालत्रय, आशौचमध्ये वर्षमध्ये वर्षानंतरं चेति । अत्राशौचमध्ये यदि प्रतिकृतिसंस्कारश्चिकीर्षितस्तदा यथासंभवं दिनशुद्धिर्विचार्या । वर्षमध्ये वर्षानंतरं वा प्रतिकृतिसंस्कारे अवश्यं कालशुद्धिविचार्या । एतदप्याह गार्ग्य एव–'आशौचमध्ये क्रियते पुनःसंस्कारकर्म चेत् । शोधनीयं दिनं तत्र यथासंभवमेव तु ॥ आशौचविनिवृत्तौ चेत्पुनः संस्क्रियते मृतः । संशोध्यैव दिनं ग्राह्यमूर्ध्व संवत्सरायदि ॥ प्रेतकार्याणि कुर्वीत' इति । अत एवोक्तम्-'आशौचात्परतो विचार्यमखिलं मध्ये यथासंभवम्' इति । एतद्वाक्यमत्रैव स्पष्टं व्याख्यास्यते । तत्र दिनशुद्धिरुच्यते-शुक्रारेत्यादिना। शुक्रः प्रसिद्धः, आरः मंगलः, आर्किः-शनिः; एषां वारे प्रतिकृते
हो नेति प्रत्येकं संबंधः। तथा दर्शः अमावास्या, भूतः चतुर्दशी, मदनः= त्रयोदशी, नंदा प्रतिपत्षष्ठ्येकादश्यः; आसु तिथिषु दाहो न कार्यः । यदाह मरीचिः-'नंदायां भार्गवदिने चतुर्दश्यां त्रिपुष्करे । पितृश्राद्धं न कुर्वीत गृही पुत्रधनक्षयात् ॥ एकादश्यां तु नंदायां सिनीवाल्यां भृगोर्दिने । नभस्ये च चतुदश्यां कृत्तिकासु त्रिपुष्करे॥' इति । द्वितीयवाक्यमतिदुष्टताकथनार्थम् । सिनीवाल्याममावास्यायां भृगोर्दिने शुक्रवारे इति संबंधो व्याख्येयः। अत्र श्राद्धं न कुर्वीतेत्यनुषंगः । श्राद्धशब्देनात्र प्रेतक्रिया विवक्षिता। तथा तीक्ष्णोप्रमे-मूलज्येष्ठाश्लेषास्तीक्ष्णानि,उग्राणि-पूर्वानयभरणीमघाः,पौष्णे रेवत्यां,वारुणभे= शतभे, त्रिपुष्करदिने भद्रातिथयः सूर्यभौमशनिवाराः कृत्तिकापुनर्वसूत्तराफाल्गुनीविशाखोत्तराषाढापूर्वाभाद्रपदाः एतत्रितयसंहतिरूपे दिने, प्रतिकृतेर्दाहो न कार्य इति केचियाकुर्वते । तन्न; पूर्वपद्येनैव निषेधसत्त्वात् । ननु प्रत्यक्षमृतौ स निषेधो नतु प्रतिकृतिदाहे । एवं तर्हि संमतिवाक्याभावामायमर्थ इति ब्रूमः। यदुक्तं ज्योतिःपराशरेण-'साधारणे ध्रुवोग्रे मैत्रे नो शस्यते मनुष्याणाम् । प्रेतक्रिया कथंचित्रिपुष्करे यमलधिष्ण्ये वा ॥' इति । अत्र त्रिपुष्करशब्देन विशिष्टयोगो विवक्षित इति चेत् । अत्र ब्रूमः-त्रिचरणनक्षत्राण्येव त्रिपुष्करपदेनोच्यते, अतो हेमाद्रिणापि कृत्तिकादीन्येव त्रिचरणानि भानि त्रिपुष्करशब्देन व्याख्यातानि । अत एवाह कश्यपः-'भरण्याा मघाश्लेषा मूलं त्रिचरणानि च । प्रेतक्रियासु दुष्टानि धनिष्ठाद्यं च पंचकम् ॥' इति । पराशरवाक्ये बहूनि प्रेतकृत्ये सामान्यतो निषिद्धानि । कश्यपवाक्येऽल्पान्यतिदुष्टान्युक्तानि । इदमेवाभिप्रेत्य ग्रंथकृतोक्तानि । तत्र धनिष्ठाया अग्रहणं मध्यमेषु भेषु-प्रवक्ष्यमाणत्वात् । अथ न्यूनाधिमासे क्षयमासे अधिकमासे च शवप्रतिकृतिदाहो न कार्यः । उक्तं च ज्योतिर्निबंधे गरुडपुराणे-'न कुर्याद्गुरुशुक्रास्ते पौषे स्वापे मलिम्लुचे । विलंबितं प्रेतकार्य गयां गोदावरी विना ॥' इति । मेधातिथि:-'अस्तं गते गुरौ शुक्र पौषाषाढाधिमासके । प्रेतकार्य न कुर्वीत गयां गोदावरी विना ॥' इति । अधिमासस्योप: लक्षणत्वात्क्षयमासेऽपि न कार्य प्रेतकार्यमित्यर्थः ॥ मत एव मूले न्यूनमासनिषेधः । अथाब्दादेकरमाद्वर्षात्परत ऊर्ध्व याम्येऽयने दक्षिणायने कर्कादि: