________________
शवप्रतिकृतिदाहे वर्ण्यकालः] नक्षत्रप्रकरणम् । षड़ाशिस्थिते सूर्ये न दाहः कार्यः । अर्थादुत्तरायणं सम्यक् । उपलक्षणत्वादवमदिनमपि निषिद्धम् । उक्तं च गार्येण-'अवं संवत्सराद्यदि । प्रेतकार्याणि कुर्वीत श्रेष्ठं तत्रोत्तरायणम् । कृष्णपक्षश्च तत्रापि वर्जयेत्तु दिनक्षयम् ॥' इति । गरुडपुराणेऽपि-'न कुर्याद्गुरुशुक्रास्ते पौषे स्वापे मलिम्लुचे । विलंबितं प्रेतकार्य गयां गोदावरी विना ॥' इति । अत्र वाक्ये पौषस्वापयोनिषिद्धत्वान्मार्गशीर्षस्य मध्यमत्वं प्रतीयते तदावश्यकविषयम् । प्रथमवर्षे तु दक्षिणायनमपि शुभमेव । अथ पातपरिघे व्यतीपाताख्ये योगे गणितागते । व्यतीपाताख्ये महापात इत्यपि केचित् । परिघाख्ये योगे तथा देवेज्यशुक्रास्तके गुरुशुक्रयोरस्ते । अत्र स्वार्थे कः । तथा भद्रावैधतयोः भद्रावैश्तौ प्रसिद्धौ । गणितसाध्ये वैश्ताख्ये महापाते इत्यपि केचित् । तथा सिते पक्षे शुक्लपक्षे शवप्रतिकृतेर्दाहो न कार्यः । यदुक्तं नारदेन-श्राद्धलक्षणाध्याये-'चतुर्दशी तिथिं नंदां भद्रां शुक्रारवासरौ । सितेज्ययोरस्तमयं यंघ्रिभं विषमांघ्रिभं । शुक्लपक्षं च संत्यज्य पुनर्दहनमुच्यते॥' इति । अन्यत्रापि 'नंदामदनभूतामापातवैधतिविष्टिषु । शुक्रार्किभौमपरिघध्रुवमिश्रोग्रमैत्रभे ॥ कर्तुश्चंद्रेऽष्टवेदांत्ये जन्मप्रत्यरितारके । त्रिपादभे सिते पक्षेऽयने याम्येऽब्दतः परम् ॥ शवप्रतिकृतेर्दाहः शुक्रेज्यास्ताधिमासके । नेष्टो मध्यो द्विपान्मैत्रद्वीशादितिभगध्रुवे ॥' इति । तथा कर्तुः प्रेतश्राद्धाद्यधिकारिणो जन्मप्रत्यरितारयोः जन्मतारा-उत्पत्तिनक्षत्रं दशममेकोनविंशं चेति । प्रत्यरितारा जन्मभात्पंचम चतुर्दशं त्रयोविंशं चेति; तथा कर्तुतिसुखांत्येऽजे स्वजन्मराशेरष्टमचतुर्थद्वादशस्थे चंद्रे सति दाहो न सन् न प्रशस्तः । तदुक्तं वाराहपुराणे-'चतुर्थाष्टमगे चंद्रे द्वादशे च विवर्जयेत् । प्रेतकृत्यं व्यतीपाते वैश्तौ परिघे तथा । करणे विष्टिसंज्ञे च शनैश्चरदिने तथा॥त्रयोदश्यां विशेषेण जन्मतारात्रये तथा॥' इति। विष्टिसंशं करणं भद्रा। महाभारते-'नक्षत्रेण न कुर्वीत यस्मिजातो भवेन्नरः। नप्रोष्ठपदयोः कार्य तथाग्नेयेऽपि भारत। दारुणेषु च सर्वेषु प्रत्यरे च विवर्जयेत् ॥' इति । प्रोष्ठपदयोः पूर्वाभाद्रपदोत्तराभाद्रपदयोः, आग्नेये कृत्तिकायां । कालविशेषादिकं नारदेनोक्तम्-'दिनोत्तरार्धे तत्कर्तुश्चंद्रताराबलान्विते । पापग्रहे बलयुते शुक्रलग्नांशवर्जिते ॥ तत्पुनर्दहनं प्रोक्तम्' इति । अथ शवप्रतिकृतिदाहे मध्यनक्षत्राण्युच्यते। मैत्रं अनुराधा, भगः पूर्वाफल्गुनी, अदितिध्रुवविशाखाः प्रसिद्धाः, यंघ्रिभं-मृगचित्राधनिष्ठाः, शेऽपि बुधवारेऽपि, शवप्रतिकृतिदाहो मध्यमः; न शुभफलदो नाप्यनिष्टफलद इत्यर्थः। उक्तं च कश्यपेन-'फल्गुनीद्वितयं रोहिण्यनुराधा पुनर्वसुः । द्वे आषाढे विशाखा च भानि द्विचरणानि च । एतानि किंचिद्दष्टानि वर्जयेत्सति संभवे॥' इति । 'नेष्टो मध्यो द्विपान्मैत्रद्वीशादितिभगध्रुवे' इति चेत्युक्तेर्बुधे संमत्यभावः । अथार्केज्यविधोरर्केज्याभ्यां सहितो विधुरिति मध्यमपदलोपी समासः । सूर्यगुरुचंद्राणां दिने वारे दाहः श्रेष्ठस्तथा तेन प्रकारेण श्रुतिकरस्वात्यश्विपुष्ये एषु निषिद्धनक्षत्रगणादुर्वरितेषु पंचसु भेषु शवप्रतिकृतेर्दाहः श्रेष्ठोऽनुष्ठीयमानः शुभफलद इत्यर्थः । आशौचात्परतं इत्यादि व्याख्यातार्थम् । ननु प्रतिकृतिसंस्कारः किंनिमित्तः ? उच्यते,दैवान्मानुषाद्वापराधान्मृतस्य विधिवद्दाहो नाभूत्किंतु काष्टवद्दाहो जातोऽथवा