SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ मुहूर्तचिंतामणिः। [पालाशप्रतिकृतिदाहविधिः परदेशगतस्य चौरदंष्ट्रयादिहतस्य तद्भीतेरेव केनचित्काष्ठवहाहोऽपि न कृतोऽथवैकाकित्वाच जातस्तदा प्रतिकृतिदाहो विधेयः । उक्तं च ब्रह्मपुराणे'अनाहिताग्नेर्देहस्तु दाह्यो गृह्याग्निना द्विजैः । तदभावे पलाशोत्थैः पत्रैः कार्यः पुमानपि ॥ सुपिष्टैर्जलसंमित्रैर्दग्धव्यश्च तथाग्निना । असौ स्वर्गाय लोकाय स्वाहेत्युक्त्वा सबांधवैः ॥ एवं पर्णशवं दग्ध्वा त्रिरात्रमशुचिर्भवेत् ॥' इति। तदभावे-देहाभावे, तथाग्निना-गृह्याग्निना; अपिशब्दात्स्वीमरणे तद्देहाभावे त्यपि पलाशोत्थैः पत्रैः कार्येत्यर्थः । आहिताग्नेस्तु श्रौतसूत्रे विधिमाहापस्तंबः-'यद्याहिताग्निः प्रोषितः प्रमीतो न प्रज्ञायेत स यां दिशमभिप्रस्थितस्तां दिशमस्याग्निभिः कक्षं दहेयुरपि वा त्रीणि षष्टिशतानि पलाश तानि तैः कृष्णाजिने पुरुषाकृतिं कृत्वा तामस्याग्निभिर्दहेयुरिति वाजसनेयकमिति । अत्र पक्षद्वयं यथा-प्रवासगतो यदि न प्रज्ञायेत प्रमीत इति यतो मृत इत्येव निर्णये स यां दिशं प्रति प्रस्थितो भवेत्तां दिशं प्रति यः कक्षोऽकृष्टो भूमिप्रदेशस्तृणवांस्तं देशमस्य मृतस्य श्रौताग्निभिस्तूष्णीं दहेयुर्बोधवाः पितृमेधविधिना । अयमेकः पक्षः । अपि वा अथवा त्रीणि षष्ट्युत्तराणि शतानि ३६० पलाशतानि पालाशानि पर्णानि यत्र तिष्ठति तादृशानि तानि संपाद्य तैर्वृतैः पलाशवृक्षीयैस्त्रिपत्रैवृतैः कृष्णाजिने पुरुषाकृतिं कृत्वा तामाकृतिमस्यामिभिः पितृमेधविधिना दहेयुरिति वाजसनेयिनां मतमिति द्वितीयः पक्षः ॥ पराशरेण तु कुशैः प्रतिकृतिः कार्येत्युक्तम्-'कृष्णाजिने समास्तीर्य कुशैस्तु पुरुषाकृतिम्' इति । कुर्यादिति शेषः। अत्र पलाशवृंतकुशविध्योरन्यतरेणानुष्ठानं बीहियववत्तुल्यबलत्वात् । शवप्रतिकृतिदाहानुष्ठानविधिस्तु शौनकायुक्तदिशा ज्ञेयः । नात्राप्रस्तुतत्वाल्लिख्यते । अयं च पलाशवृतादिभिः प्रतिकृतिविधिरस्थ्यलाभे । यदा तु मृतास्मां लाभस्तदा तैरेव प्रतिकृतिः कार्या। तदुक्तं छंदोगसूत्रे-'अथातः पुनर्दाहविधि व्याख्यास्यामः । यदि शरीरं नश्येदस्थीन्यादायास्थीनि क्षीरोदकेन प्रक्षाल्यास्थिभिः कृष्णाजिने पुरुषाकृतिं कृत्वा पूर्ववद्दहेत् । तेषामलाभे पलाशवृतैः कृष्णाजिने पुरुषाकृतिं चत्वारिंशता शिरो दशभिग्रीवां विंशत्योरास्त्रंशतोदरं पंचाशता पंचाशता बाहू तयोरेव पंचभिः पंचभिरंगुलीन् सप्तत्या सप्तत्या पादौ तथैवांगुलीरष्टाभिः शिश्नं द्वादशभिर्वृषणं तां कुशैर्वेष्टयित्वा तस्मिन्नेव पूर्ववद्दहेत्' इति । अस्यार्थः-चत्वारिंशत्पलाशवृतैः शिरः संपाद्य दशभिर्सवां विंशत्योरस्त्रिंशता जठरं पंचाशतैकबाहुं (तथैव पंचाशताऽपरबाई) तत एव पंचभिः पंचभिरंगुलीः, एवं पंच; चत्वारिंशतैको बाहुःसंपन्नः, तथा सप्तत्या सप्तत्या पादद्वयं, तत एव पंचभिः पंचभिरंगुलीः; एवं चपंचषष्ट्यैकः पादः संपन्नः। अष्टाभिः शिश्नं,द्वादशभिर्वृषणद्वयं एवं च षष्ट्यधिकत्रिशत्या पलाशतैरवयवकल्पना भवति । तां प्रतिकृति तस्मिन्नेव कृष्णाजिने एव पूर्ववदिति पितृमेधविधिना दहेदित्यर्थः । एतादृशे विषये कालनियमः १ धर्मसिंधौ तु-शिरसि ४०, ग्रोवायां १०, बाह्रोः प्रत्येकं पंचाशदेवं १००, करांगुलीषु १०, उरसि २०, जठरे ३०, शिश्न ४, अंडयोस्रयं त्रयं ६, ऊर्वोः प्रत्येक पंचाशत् एवं १००, जंघांतः पादतलांतं प्रत्येकं पंचादश, एवं ३०, एवं ३६० दर्भः पलाशसमिद्भिर्वा शरीरं कुर्यादित्युक्तम् ।
SR No.002342
Book TitleMuhurt Chintamani
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherNirnaysagar Press
Publication Year1945
Total Pages484
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy