________________
आपत्तावाशौचविचारः ] नक्षत्रप्रकरणम् २ । 'शुक्रारार्किषु'इत्यादिनोक्तः । यतः-'अथातः संप्रवक्ष्यामि यत्पुनर्दहनं नृणाम्' इत्यादिना पद्यसमुदायेन कालशुद्धिमुक्त्वा 'अतीतविषये काम्ये न्यूने श्राद्ध महालये । एतत्सर्व विचिंत्याशु कुर्याच्छ्राद्धमतंद्रितः ॥' इति कश्यपेन कालातीतविषयत्वेनाभिधानात् । तत्राधिकारी पुत्रादिर्यस्मिन्नेव क्षणे पित्रादिमरण शृणुयात्तद्दिनमारभ्यैव यथोक्ताशौचाधिकारी भवति ॥ तदाह पैठीनसिः-'पितरौ चेन्मृतौ स्यातां दूरस्थोऽपि हि पुत्रकः । श्रुत्वा तद्दिनमारभ्य दशाहं सूतकी भवेत् ॥' इति । अन्येषां तु देशांतरमरणे विशेषमाह वृद्धवसिष्ठः-'मासत्रये त्रिरात्रं स्यात्षण्मासात्पक्षिणी तथा । अहस्तु नवमादगूिज़ सानेन शुध्यति ॥' इति । पक्षिणी-सार्ध दिनम् । 'आगामिवर्तमानाहर्युक्तायां निशि पक्षिणी' इत्यमरोक्तेः । अत्र श्रुत्वेत्युक्तेर्मरणश्रवणमेवाशौचनिमित्तम् । 'निर्दशं ज्ञातिमरणं श्रुत्वा' इति मनूक्तेश्च । दशाहेभ्यो निर्गतं निर्दशम् । दशाहेभ्यो बहिरित्यर्थः । दशाहपदं स्वस्ववर्णाशौचोपलक्षणम् । षट्त्रिंशन्मतेऽपि–'उभाभ्यामपरिज्ञाते सूतकं नैव दोषकृत् । एकेनापि परिज्ञाते भोक्तुर्दोषमुपावहेत् ॥' इति । यदि तु दशाहमध्ये शृणुयात्तदा शेषैरहोभिरेवाशौचं तस्य स्यात् । उक्तं च मिताक्षरायाम्-'विगतं तु विदेशस्थं शृणुयाद्यो ह्यनिर्दशम् । यच्छेषं दशरात्रस्य तावदेवाशुचिर्भवेत् ॥' इति । दशरात्रस्येत्युपलक्षणम् । वर्णापेक्षया वयोवस्थापेक्षया वा यस्य यावानाशौचकाल उक्तस्तन्मध्ये एव विदेशगतमरणश्रवणे सत्याशौचावशिष्टैरेवाहोभिर्विशुध्यतीत्यर्थः । अत एव-'जनने मरणे नित्यमाशौचमनुधावति । सपिंडांश्चैव बंधूंश्च यत्र क्वचन गच्छति ॥' इत्याद्येवंविधानि देवलादिमुनिवाक्यानि श्रवणनिमित्ताशौचपराणि व्याख्येयानि । तत्र वर्णाशौचदिनसंख्यामाह दक्षः-'शुद्येद्विप्रो दशाहेन द्वादशाहेन भूमिपः । वैश्यः पंचदशाहेन शूद्रो मासेन शुद्ध्यति ॥' इति । तत्र यदा मरणदिनादारभ्य यथोताशौचदिनमध्ये एव चेन्मरणं शृणुयात्तदाऽवशिष्टाशौचदिनमध्ये अथवा स्वस्ववर्णोक्ताशौचदिवसातिक्रमानंतरं चेन्मरणं शृणुयात्तदा तद्दिनादारभ्य यथोक्ताशौचदिनमध्ये प्रतिकृतिसंस्कारश्चिकीर्षितः तदा यथासंभवं दिनशुद्धिविचार्या । अत एवोक्तं गर्गेण–'आशौचमध्ये क्रियते' इत्यादि । भद्राभरणीधनिष्ठापंचकादिदोषराहित्यमपेक्षितम् । नैव बहुकालव्यापिशुक्रास्तादिदो'षापेक्षा कार्येति गर्गवाक्ये यथासंभवपदस्यार्थः। सर्वथा त्वाशौचदिनेषु दुष्टेषु दोषतारतम्येन महादोषत्यागोऽल्पदोषांगीकारो यथालोकप्रसिद्धिः तादृशे दिने शवप्रतिकृतिदाहो विधेयः । सर्वथा दोषरहिते दिने तूत्तम एव सः । अथ यदि मरणश्रवणानंतराशौचदिनानां राजिकदैविकब्राह्मणाद्यलाभरूपप्रतिबंधादतिक्रमणमभूत्तदाशौचमस्ति न वेति विचारः । राजिकदैविकोपद्रवसंभावनायां सद्य एव शौचं स्यान्नत्वाशौचम् । यदाह पराशरः-'दुर्भिक्षे राष्ट्रसंतापे आपदां च समुद्भवे । उपसर्गमृते चैव सद्यःशौचं विधीयते ॥' इति । यमबृहस्पती-'दैवे भये समुत्पन्ने प्रधानांशे विनाशिते ।