________________
मुहूर्तचिंतामणिः ।
. [अभुकमूलनक्षत्रदोषः
सद्यः शौचं समाख्यात कांतारापदि संयति ॥' इति । पैठीनसिरपि 'विवाहदुर्गयज्ञेषु यात्रायां तीर्थकर्मणि । न तत्र सूतकं तद्वत्कर्म यज्ञादि कारयेत् ॥' इति । कालांतराऽलभ्यायां गयादियात्रायां तादृशे एव तीर्थकर्मणि तीर्थस्नानदानादिकर्मणि तादृशे विषये आशौचग्रहाभावादेव शवप्रतिकृतिदाहाभावः । यदा तु ब्राह्मणाद्यलाभस्तदाशौचपरिग्रहः स्यादेव । परं त्वाशौचदिनानंतरं वर्षमध्ये दिनशुद्धिमपेक्ष्यैव शवप्रतिकृतिदाहो विधेयः । 'आशौचस्य निवृत्तौ चेत्पुनः संस्क्रियते मृतः । संशोध्यैव दिनं ग्राह्यम्' इति गर्गेणैवकारसहितदिनपदोक्तेः । अयमर्थः - 'अत्रापि भद्राभरणीपंचकादिर्दोषः कतिपयदिनव्यापी त्याज्य एव, नतु शुक्रास्तादिकबहुकालव्यापिदोषप्रतीक्षा | तदुक्तं ज्योतिर्निबंधे पितृखंडे - 'शुक्रस्यास्तमने चैव देवेज्यस्य तथैव च । प्रेतकार्य प्रदुष्येत प्रथमं वत्सरं विना ॥' इति । अथ यदि वर्षमध्ये राजिकदैविकाद्युपद्रवः संपन्नस्तदा वर्षोत्तरं निरवधिके दक्षिणायनशुक्रास्तादिमहादोषरहिते भद्राभरणीपंचकादिदोषरहिते च काले शवप्रतिकृतिदाहः कार्यः । उक्तं च गाग्र्येण - 'ऊर्ध्वं संवत्सराद्यदि । प्रेतकार्याणि कुर्वीत श्रेष्ठं तनोत्तरायणम्' इत्यादीनि मूलवाक्यानि प्रागभिहितानि । अत एव मूलपद्येऽप्यब्दात्परतो याम्येऽयने तथा देवेज्यशुक्रास्तके शवप्रतिकृतिदाहो न कार्य इति व्याख्येयम् । प्रथमे वर्षे तु नायं दोषः । सर्वत्रापि गयागोदावर्योस्तीर्थयोः प्राप्तयोः सतोरयं शुक्रेज्यास्तदक्षिणायनादिमहादोषविचारः कोऽपि नास्ति । तदुक्तं ज्योतिर्निबंधे प्रेतमंजर्याम्- 'प्रेतकार्याणि सर्वाणि व्रतस्नानजपादिकम् । वर्ज्यं शुक्रेज्ययोरस्ते गयां गोदावरीं विना ॥' इति । अन्यानि तु गयागोदावरीविषयाणि वचांसि प्रागुक्तानीत्यलमतिप्रसंगेन ॥ ५० ॥ ५१ ॥
९२
अथ नक्षत्रसंबंधेन मुहूर्तानुक्त्वा नक्षत्रप्रसंगान्नक्षत्रविशेषोत्पन्नस्याभुक्तमूलदोषमनेकविधं सफलमुपजातिकाभ्यामाह - अभुक्तमूलं घटिकाचतुष्टयं ज्येष्ठांत्यमूलादिभवं हि नारदः । वसिष्ठ एकद्विघटीमितं जगौ बृहस्पतिस्त्वेकघटीप्रमाणकम् ॥ ५२ ॥ अथोचुरन्ये प्रथमाष्टघट्यो मूलस्य शाक्रान्तिमपंचनाड्यः । जातं शिशुं तत्र परित्यजेद्वा मुखं पितास्याष्टसमा न पश्येत् ॥ ५३ ॥
अभुक्तमूलमिति ॥ अथोचुरिति च ॥ अत्राभुक्तमूलस्यानेके भेदाः, तन्त्रैकस्तावदयं भेदः-ज्येष्ठानक्षत्रांते भवं ज्येष्ठांत्यं, मूलादौ भवं मूलादिभवं, ज्येष्ठांत्यजातं घटीचतुष्टयं मूलादिजातं घटीचतुष्टयं मिलित्वाष्टौ घटिकाः प्रहर इति यावत्तावान्कालोऽभुक्तमूलाख्यमिति नारद आह- उपलक्षणत्वादाश्लेषांतिमघटीचतुष्टयं मघादिमघटीचतुष्टयं चाभुक्तमूलाख्यः कालः । यदाह नारदः – 'यो ज्येष्ठामूलयोरंतरालप्रहरजः शिशुः । अभुक्तमूलजः सार्पमघानक्षत्रयोरपि ॥' इति ॥ अथापरो भेदः - एकेति । ज्येष्ठांते एकघटीमिà