________________
९३
पादवशेन मूलाश्लेषाजन्मफलं ] नक्षत्रप्रकरणम् २ । मूलादौ घटीद्वयमितमेवं मिलित्वा विघटिकमभुक्तमूलं स्यादिति वसिष्ठो मुनिर्जगौ । यदाह वसिष्ठः-'ज्येष्ठांत्यपादघटिकामितमेव केचिन्मूलं ह्यभुक्ता मपरे पुनरामनंति । मूलाद्यपादघटिकाद्वितयेन सार्धमष्टौ समाः परिहरेदिह जन्मभाजाम् ॥' इति ।समाः वर्षाणि ॥ अथान्यो भेदः-एकेति । ज्येष्ठांत्याघटिका मूलादावर्धघटिका मिलित्वा एकघटीप्रमाणमस्य तदेकघटिप्रमाणकम् । 'शेषाद्विभाषा' इति कप् । तादृशमभुक्तमूलं स्यादिति बृहस्पतिर्जगौ । तदाह गुरुः-ज्येष्ठांत्यघटिकाधं च मूलादौ घटिकार्धकम् । तयोरंतर्गता नाडी ह्यभुक्तं मूलमुच्यते ॥' इति ॥अथेतरो भेदः-अथेति । अथशब्दः पादपूरणे। मूलनक्षत्रस्य प्रथमा आदिमा अष्टघटिकाः, शाक्रस्य ज्येष्ठाया अंतिमाः पंच नाड्यो घटिकाः; एवमुभयोज्येष्ठामूलयोरंतरालवर्तिन्यस्त्रयोदश घटिका अभुक्तमूलमिति लोका ऊचुः, 'ज्येष्ठान्त्यघटिकाः पञ्च मूलाद्या वसुनाडिकाः । अभुक्तमूलमित्युक्तं तत्र जातं शिशुं त्यजेत् ॥' इति स्मरणात् । एवमभुक्तमूल: स्थानेकभेदसंभवे कः साधीयान् पक्ष इति चेत् । उच्यते,-नारदोका पक्ष एव साधीयान् । किमत्र प्रमाणमिति चेच्छृणु । बहुमुनिसंवाद एवात्र प्रमा णम् । तदाह कश्यपः-'ज्येष्ठांत्यमूलयोरंतरालयामोद्भवः शिशुः । अभुक्त मूलजः सोऽप्याश्लेषापितृभयोरपि ॥' इति । वसिष्ठोऽपि-'भुजंगपौरदरपौष्णभानां तदनभानां च यदंतरालम् । अभुक्तमूलं प्रहरप्रमाणं त्यजेत्सुतं तत्र भवां सुतां च ॥' इति । अत एव पूर्वमुक्तं वसिष्ठवाक्यं केचिन्मताभिप्रायेण । यतस्तद्वाक्ये केचिदिति अपर इति चेत्युक्तिरस्ति । यद्येवं घटीन्यूना, धिकभावाभिधायिनां प्रागुक्तवाक्यानां का गतिरिति चेत् , उच्यते,-दोषस्याधिक्याल्पत्वसूचनमेव गतिः । अथाभुक्तमूलसंज्ञाकथनस्य प्रयोजनमाहजातमिति । तत्राभुक्तमूलाख्ये काले जातं शिशुं बालकं उपलक्षणत्वात्तत्र जातां कन्यां वा पिता परित्यजेनिष्कासयेत् । 'त्यजेत्सुतं तत्र भवां सुतांच' इति वसिष्ठोक्तेः । यद्यशक्यनिष्कासनं स्यात्तदा किं कार्यमित्यत आहवेति । वा अथवा पूर्वपक्षकर्तव्यताशक्तौ पिताऽस्य शिशोः कन्याया वा मुखमष्टसमाः अष्टौ वर्षाणि । 'संवत्सरो वत्सरोऽब्दो हायनोऽस्त्री शरत्समाः।' इत्यमरः । तावत्कालं न पश्येत् । यदाह नारदः-'अभुक्तमूलजं पुत्रं पुत्रीमपि परित्यजेत् । अथवाब्दाष्टकं तातस्तन्मुखं न विलोकयेत् ॥' इति । च्यवनोऽपि-'अभुक्तमूलभे भवं परित्यजेच बालकम् । समाष्टकं पिताथवा न तन्मुखं विलोकयेत् ॥' इति । गंडांतदोषस्तु विवाहप्रकरणे व्रक्ष्यत इति कृत्वात्र नोक्तः ॥ ५२ ॥ ५३॥
अथ प्रसंगान्मूलाश्लेषाजातस्य बालस्य चरणवशेन शुभाशुभफलमुपजात्याहआधे पिता नाशमुपैति मूलपादे द्वितीये जननी तृतीये । धनं चतुर्थोऽस्य शुभोऽथ शांत्या सर्वत्र सत्स्यादहिभे विलोमम् । • आधे इति ॥ मूलनक्षत्रस्याचे पादे प्रथमे चरणे चतुर्थाशे इति यावत्