________________
९४
मुहूर्तचिंतामणिः । [मूलांत्यपादेऽपि शान्तिः कार्या तत्र जातस्य शिशोः कन्याया वा पिता नाशं मरणमुपैति प्रामोति । तथा मूलद्वितीये पादे जननी माता नाशमुपैति । तथा तृतीये मूलपादे धनं द्रव्यं नाशमुपैति । चतुर्थो मूलपादोऽस्य शिशोः शुभः शुभफलदः । उक्तं च ब्रह्मपुराणे-'मूलायेंऽशे पितु शो द्वितीये मातुरेव च । तृतीये धनधान्यादिनाशस्तुयें धनागमः ॥' इति । तुर्य चतुर्थे । रत्नमालायाम्-'तदाद्यपादके पिता विपद्यते जनन्यथ । तृतीयके धनक्षयश्चतुर्थकः शुभावहः ॥' इति । अत्र पितुर्बहुस्त्रीत्वेऽपि स्वमातुरेव नाशो वाच्यो म सापत्रमातुः । यदाह कश्यपः-'मूलाद्यपादजो हंति पितरं तु द्वितीयजः । मातरं स्वां तृतीयोअर्थान्सुहृदश्च तुरीयजः ॥ इति । यतो मातृशब्दः सापत्नमातुरपि वाचकः । यदाह गौतमः-'पितृपत्यः सर्वा मातरस्तद्रातरो मातुलास्तदपत्यानि मातुलेयानि' इति । अतः स्पष्टार्थमेव कश्यपवाक्ये स्वामिति पदोपादानम् ॥ अत्र विशेषो वसिष्ठसंहितायाम्-'मूलाद्यपादो दिवसे यदि स्यात्तजः पितुनाशनकारणं स्यात् । द्वितीयपादो यदि रात्रिभागे तदुद्भवो मातृविनाशकः स्यात् ॥ मूलाधपादो यदि रात्रिभागे तदात्मनो नास्ति पितुर्विनाशः । द्वितीयपादो दिनगो यदि स्थान मातुरल्पोऽपि तदास्ति दोषः ॥' इति । नारदसंहितायां च-'दिवाजातस्तु पितरं रात्रौ तु जननी तथा । आत्मानं संध्ययोहंति नास्ति गंडो विपर्यये ॥' इति । एतदेव मातापितृगंडमिति जीर्णा व्यवहरंति ॥ अथ दोषसत्त्वे किं कार्यमत आह-अथेति । अथानंतरं शांत्या मूलाश्लेषाशांत्या स्वनुष्ठितया सर्वत्र चरणचतुष्टयेऽपि शुभमनिष्टफलनाशकं कल्याणं स्यात् । उक्तं च वसिष्ठेन-'नैर्ऋत्यभौजंगमगंडदोषनिवारणायाभ्युदयाय नूनम् । पितामहोक्तां रुचिरां च शांतिं प्रवच्मि लोकस्य हिताय सम्यक् ॥ शास्त्रोक्तरीत्या खलु सूतकांते मासे तृतीयेऽप्यथ वत्सरान्ते ॥' इति। नैर्ऋत्य-मूलं तदोषः, भौजंगमं=आश्लेषा तद्दोषः; गंडो वक्ष्यमाणस्तद्दोषश्व 'द्वंद्वांते श्रूयमाणं पदं प्रत्येकमभिसंबध्यते' इति न्यायात् । अतस्तदोषाणां निवारणं तदर्थ। अत एव कश्यपेन-'तद्दोषशमनार्थ हि शांतिं कुर्यात्प्रयत्नतः' इति सामान्यत उक्तम् । अत्र वसिष्ठवाक्ये कालत्रयकथनं सामर्थ्यासामर्थ्यकृतं ध्येयम् । तथा हि-यदि मातुः शीतोदकस्राने सामर्थ्य स्यात्तदा सूतकान्त एव शान्तिः, तत्राप्यशक्तौ तृतीये मासि शांतिः, दीर्घरोगादिना तदाप्यशक्तिश्चेत्तर्हि वर्षसमाप्तिदिवसे शांतिः । मातृगंडे तु विशेषस्तेनैवोक्तः-'मातृगंडे सुते जाते सूतकांते विचक्षणः । कुर्याच्छांतिं तदृक्षे वा तद्दोषस्थापनुत्तये ॥' इति । शिष्टास्तु सर्वत्र यस्मिनक्षत्रे जन्म तनक्षत्र एव शांतिरिति व्यवहरंति । ननु मूलपादचतुष्टयेऽपि शांतिः कर्तव्येत्युक्तं तत्र चतुर्थचरणस्य शुभफलत्वाच्छांतिरयुक्तेति प्रतिभाति ॥ 'अनिमित्तकृता शांतिर्निमित्तात्रोपजायते' इति सरणात् । उच्यते,-यद्यपि चतुर्थचरणे धनागमरूपं शुभफलमभिहितं तथापि कश्यपेन-'सुहृदश्च तुरीयजः' इति सुहृवाशरूपस्य फलस्यानिष्टस्योचेस्तदपाकरणार्थमवश्यं कर्तव्या शांतिः । नहि कस्यचिद्वैरि