________________
मूलोद्भूतकन्याया मूलांगविभागः] नक्षत्रप्रकरणम् २ । नाशवन्मातुलाधनेकसुहन्नाश इष्टः। किंच मूलवृक्षविचारेऽपि चतुर्थपादे पुरुषकन्ययोरशुभफलकथनाच । मूलवृक्षस्तु समनंतरमेव मया वक्ष्यते । यदि मूलाश्लेषादिदोषसंभवे शांतिर्न क्रियते तदानिष्टं भवत्येवेत्याह नारदः"वत्सरात्पितरं हंति मातरं तु त्रिवर्षतः । द्युम्नं वर्षद्वयेनैव श्वशुरं नववर्षतः ॥ जातं बालं वत्सरेण वषैः पंचभिरग्रजम् । शालकं चाष्टभिर्वरनुक्तान् हंति सप्तभिः । तस्साच्छांतिं प्रकुर्वीत प्रयत्नाद्विधिपूर्वकम् ॥' इति । घुम्नं धनम् । तस्मादवश्यं चरणचतुष्टयेऽपि शांतिर्विधेयेति । अहिभे विलोममिति । अहिमे आश्लेषायामुक्तं फलं विलोमं विपरीतं ज्ञेयम् । तद्यथा-मूलस्य प्रथमे पादे पितृनाश इति फलमुक्तं तत्फलमाश्लेषाचतुर्थपादोत्पन्नस्य स्यात् । मूलस्य द्वितीयपादेमातृनाश इत्युक्तं फलं तदाश्लेषातृतीयचरणोत्पन्नस्य स्यात् । मूलस्य तृतीयचरणे धननाश इत्युक्तं तदाश्लेषाद्वितीयचरणोत्पन्नस्य स्यात् । मूलस्य चतुर्थपादः शुभ इत्युक्तं तदाश्लेषाप्रथमचरणोत्पन्नस्य स्यादित्यर्थः । यदाह कश्यपः-‘फलं तदेव सार्पः प्रतीपं त्वंत्यपादतः' इति । वसिष्ठोऽपि'मूलाद्यपादजनितः पितरं निहंति द्वैतीयजः स्वजननी त्रिपदेऽर्थवृंदम् । तौरीयजः शुभकरः फलमेतदेव वैलोमतो भुजगधिष्ण्यभवस्य सर्वम् ॥' इति । द्वितीय एव द्वैतीयः । प्रज्ञादेराकृतिगणत्वात्स्वार्थेऽण् । एवं तौरीयवैलोमशब्दौ साध्यौ । अयमर्थः स्पष्टमुक्तो भास्करव्यवहारे-'सापाशे प्रथमे राज्य द्वितीये तु धनक्षयः । तृतीये जननीनाशश्चतुर्थे मरणं पितुः ॥' इति । अंश:-चरणः । अत्र लग्नदौष्ट्ये सति दुष्टं फलमविकलं भवतीत्याह बादरायणः-'मूलसादिज दौष्ट्यं स्यात्संपूर्ण तु लग्नपे । सक्रूरेऽजे च विबले शुभदृष्टिविवर्जिते ॥' इति । अत आश्लेषादौष्ट्येऽपि शांतिकं विधेयम् । तथाश्लेषांत्यमघादिस्थांतरालप्रहरात्मकोऽभुक्तमूलाख्यकालो विहितस्तत्रोत्पन्नस्थापि शांतिकं विधेयम् । अत्र संमतिवाक्यं प्रागभिहितम् । तत्र मूलशांतिराश्लेषाशांतिश्च 'गंडांतेंद्रभ-' (लो० ५६) इति पद्यव्याख्यानानंतरं लिख्यते ॥
अथात्र प्रसंगान्मूलवृक्षविचारोऽभिधीयते । जयार्णवे-'मूलं स्तंभस्त्वचा शाखा पत्रं पुष्पं फलं शिखा । मुनयोऽष्टौ दिशो रुद्राः सूर्याः पंचांघ्रयोऽग्नयः ॥ मूले ७ तु मूलनाशः स्यात्स्तंभे ८ वंशविनाशनम् । त्वचि १० मातुर्भवेत्क्लेशः शाखायां ११ मातुलस्य च ॥ पत्रे १२ राज्यं विजानीयात्पुष्पे ५ मंत्रिपदं स्मृतम् । फले ४ च विपुला लक्ष्मीः शिखाया ३ मल्पजीवितम् ॥' इति । अथ मूलाख्यस्य पुरुषस्यांगेषु घटीविन्यासस्तत्रैव-'मूलस्य घटिकान्यासो मूर्ध्नि पंच ५ नृपो भवेत् । मुखे सप्त ७ मृतिः पित्रोः स्कंधे वेदा ४ महाबलः ॥ बाह्वोरष्टौ ८ बली पाण्योस्तिस्रो ३ हत्यान्वितो भवेत् । हृदि खेटा ९ भूपमंत्री नाभौ द्वौ २ ब्रह्मविद्भवेत् ॥ गुह्ये दशा १० ऽतिकामी स्याजानुनोः षण् ६ महामतिः । पादयोः षण् ६ मृतिस्तस्येत्युक्तवान्कमलासनः ॥' इति । अथ मूलोद्भतायाः कन्यायाः फलार्थ मूलांगविभागस्तत्रैव-'चतस्रो ४ नाडिकाः शीर्षे कुर्वति पशुनाशनम् । मुखे षड् ६
१ हृत्यान्वित, हस्तान्वित इति पाठांतराणि ।