________________
... मुहूर्तचिंतामणिः। [खलादिधारणमुहूर्ताः धनहानिश्च कंठे पंच ५ धनागमः ॥ कौटिल्यं हृदये पंच ५ बाह्वोर्वित्तागर्म च तत् ५। वेदाः ४ पाण्योर्दयाधर्म वेदा ४ गुह्येऽतिकामिनी ॥ ज्येष्ठमातुलनाशश्च जंघयोर्युग ४ नाडिकाः।ज्येष्ठभ्रातृविनाशश्च चतस्रो ४ जानुयुग्मके॥ पादयोर्दश १०.नाड्यश्च तत्र वैधव्यमादिशेत् । इति मूलप्रसूतायाः फलमीरितमीदृशम् ॥' इति ।मस्यार्थः-शीर्षे चतस्रो ४ घटिकाः, मुखे षट् ६, कंठे पंच ५, हृदये पंच ५, बाहोर्बाहुद्वये पंच पंच ५।५ इति वीप्सा । पाण्योर्मणिबंधादधोभागयोश्चतस्रश्वतस्र ४१४ इत्यत्रापि वीप्सा। गुह्ये चतस्रः ४ जंघयोजघाद्वये द्वे द्वे शर एवं चतस्रः जानुद्वये द्वे द्वे एवं चतस्रः । पादयोः पादद्वये पंच पंचेत्येवं दश १०; एवं मिलित्वा षष्टि ६० घटिका भवंति ॥ अथाश्लेषाजातयोः पुत्रकन्ययोरंगविभागेन फलं तत्रैवोक्तम्-'मूर्ध्नि पंच ५ सुपुत्राप्तिर्मुखे सप्त ७ पितृक्षयः । नेत्रे द्वे २ जननीनाशो ग्रीवायां त्रिषु ३ लंपटः ॥ स्कंधे वेदा ४ गुरौ भक्तिहस्तेऽष्टौ ८च बली भवेत् । हृद्येकादश ११ भिश्चात्मघाती संजायते नरः ॥ स्त्री वा नाभौ भ्रमः ६ षभिर्गुदे नंदै ९ स्तपोधनः । पादे पंच ५ धनं हंति सार्पादेतत्फलं क्रमात् ॥' इति । अथाश्लेषावृक्षोऽपि तत्रैवोक्तः-'फलं पुष्पं दलं शाखा त्वग्लताकंद एव च । सार्पवल्लयां दशा १० क्षां ५ क ९ स्वर ७ विश्वा १३ ऽर्क १२ सागराः ४ । नाडिकास्तद्वे बाले फलं ज्ञेयं यथाक्रमम् । श्रीः श्रीराजभयं हानिर्मातृपित्रात्मसंक्षयः ॥' इति । अयं च विभागो नक्षत्रस्य षष्टि ६० घटिकात्मकत्वे ज्ञेयः । न्यूनाधिकत्वे तु त्रैराशिकमूह्यम् । वसिष्ठेन त्वन्येष्वपि कियत्सु नक्षत्रेषु जातस्यारिष्टमुक्तम्-'चित्राद्यर्धे पुष्यमध्ये द्विपादे पूर्वाषाढाधिष्ण्यपादे तृतीये । जातः पुत्रश्चोत्तराये विधत्ते पित्रोातुः खस्यचापि प्रणाशम् ॥ द्विमासस्योत्तरादोषः पुष्ये चैव त्रिमासिकः । पूर्वाषाढाष्टमे मासि चित्रा पाण्मासिकं फलम् ॥' इति । अनोत्तराशब्देनोत्तराषाढा गृह्यते पूर्वाषाढासाहचर्यात् । अत एष्वपि नक्षत्रेषु यथाशक्ति मूलवच्छांतिकं दोषपरिहारार्थ विधेयम् । परं त्वत्र देवताभेद एव केवलं ध्येयः । स च तत्स्वामिकृतः, तत्तन्मंत्राश्च वेदादेवावगंतव्याः, तच्छांतिकं च तिथिगंडांतशांतावसामिर्वक्ष्यत इत्यलमतिप्रसंगेन ॥ ५४ ॥ · अथ मूलनिवासं सफलमिंद्रवज्राछन्दसाहवर्ग शुचिप्रौष्ठपदेषमाघे भूमौ नभःकार्तिकचैत्रपौषे । मूलं ह्यधस्तात्तु तपस्यमार्गवैशाखशुक्रेष्वशुभं च तत्र ॥ ५५ ॥
खर्गे इति॥ शुचिः आषाढः, प्रौष्ठपदः भाद्रपदः, इषः आश्विनः, माघः प्रसिद्धः, एषु मासेषु मूलं मूलनक्षत्रं स्वर्गेऽस्ति, स्वर्गे निवासस्तस्य । नभाः= श्रावणः, अन्ये प्रसिद्धाः, श्रावणकार्तिकचैत्रपौषेषु भूमौ मूलं तिष्ठति । तपस्यः= फाल्गुनः, शुक्रः-ज्येष्ठः, अन्यौ प्रसिद्धौ; फाल्गुनमार्गशीर्षवैशाखज्येष्ठेष्वधस्तात्पाताले मूलं तिष्ठति । एष मूलनिवास उक्तः । एतत्फलं च मूलनक्षत्रं यदा यस्मिन्मासे यन्न वसति तत्रैव स्वर्गभूमिपातालेष्वेव स्वोक्तशुभाशुभफलं