________________
वीरप्रसवशान्तिः ]
नक्षत्रप्रकरणम् २ ।
ददाति । अयमत्र तात्पर्यार्थः - द्रव्याद्यभावेन शांतिकं कर्तुमशक्नुवतः पुंसः स्वर्गपातालनिवासित्वेन मूलस्यारिष्टदोषस्तथा न प्रभवेत् । यदा तु भूमावेव निवासस्तदा दोषनिवारणं नैव स्यादित्यशक्तेनापि शांतिकं विधेयम् । नैता - वा प्रागुक् विषये शांत्यभाव एव किंतु यथाशक्ति तत्रापि शांतिकं विधेयम् । शक्तेन तु सर्वत्रैव विधेयम् । तदुक्तं ज्योतिषार्णवे — 'मार्गफाल्गुनवैशाखज्येष्ठे मूलं रसातले । माघाश्विननभस्येषु शुचौ मूलं सुरालये ॥ पौषश्रावणचैत्रेषु कार्तिके भूमिसंस्थितम् । भूमिष्ठं दोषबहुलं स्वल्पमन्यत्र संधितम् ॥' इति । कचित्संक्रांतिपरत्वेन मूलनिवासोऽभिहितः - 'वृषालिसिंहेषु घटे च मूलं दिवि स्थितं युग्मतुलांगनांत्ये । पातालगं मेषधनुः कुलीरनक्रेषु मृत्याविति संस्मरन्ति ॥ स्वर्गे मूले भवेद्राज्यं पाताले च धनागमः । मृत्युलोके यदा मूलं तदा शून्यं समादिशेत् ॥ इति ज्योतिषरत्नेऽभिहितत्वात् ॥ ५५ ॥ अथ मूलप्रसंगाद्दुष्टेषु गंडांतादिनिमित्तेषु सत्सु जातस्यारिष्टं सपरिहारं शार्दूलविक्रीडितेनाह—
९७
गंडांतेंद्र भशूलपातपरिघव्याघातगंडावमे संक्रांतिव्यतिपातवैधृतिसिनीवाली कुहूदर्शके । वज्रे कृष्णचतुर्दशीषु यमघंटे दुग्धयोगे मृतौ
विष्टौ सोदर जनर्न पितृभे शस्ता शुभा शांतितः ५६ गंडांतेति ॥ एतेषु पदार्थेषु सत्सु जनिः शिशोरुत्पत्तिर्न रास्ता दुष्टफलदा । गंडांतः=संधिविशेषः । स त्रिविधः - नक्षत्र - तिथि - लग्नभेदेन । तल्लक्षणं 'ज्येष्ठा पौष्णभ-' (श्लो० ४१) इत्यादिना विवाहप्रकरणे वक्ष्यति । इंद्रभं=ज्येष्ठानक्षत्रं । शूलः =शूलाख्यो दुष्टयोगः । पातः = महापातो गणितसाध्यो व्यतीपाताख्यो वैष्टताख्यश्च । परिघव्याघातगंडा अपि दुष्टयोगाः । अवमः = तिथिक्षयः । संक्रान्तिः=सूर्यस्य राज्ञ्यंतरसंक्रमपुण्यकालः । व्यतीपातवैधृती - सप्तदशसप्तविंशतितमौ दुष्टयोगौ । सिनीवाली - दृष्टेंदुरमावास्या । कुहूः=नष्ठेदुरमावास्या । 'स्याद्दृष्टेदुः सिनीवाली सा नष्टेंदुकला कुहूः' इत्यभिधानात् । दर्शः = चंद्रदर्शनादर्शनरहितामावास्या । एतच्चाग्रे सम्यक् प्रतिपादयिष्यते । वज्रे दुष्टयोगे । कृष्णे = कृष्णपक्षे चतुर्दशी | बहुवचनमावृत्त्यभिप्रायम् । यमघंटे = 'मघाविशाखा' इत्युक्ते दुष्टयोगे । दग्धयोगे= 'सूर्येशपंचाग्निरसाष्टनंदा' इत्युक्ते दुष्टयोगे । केचित्तु - 'चापांत्यगे गोघटगे पतंगे' इति वक्ष्यमाणे दुष्टयोग इति व्याचख्युः । मृतौ-'द्वीशातोयात् ' (१।३० ) इत्यादिनोक्ते मृत्युयोगे । विष्टौ =भद्रायां । सोदरस्य भ्रातुर्भगिन्या वा भे नक्षत्रे | पितृभे= माता च पिता च पितरौ तयोर्भे मातृभे पितृभे च । एषु निमित्तेषु सुतस्य सुताया वा जन्म चेत्स्यात्तदनिष्टकृत्स्यादित्यर्थः । दुष्टनिमित्तस्योपलक्षणत्वात्सूर्यचंद्रग्रहणजन्मत्रीतरजन्माप्यनिष्टम् । सजातीयापत्यत्रयप्रस्रवानंतरं विजातीयापत्यप्रसवस्त्रीतरः । यथा - पुत्रत्रयप्रसवानंतरं कन्याया जननं, क्रन्यान्रयप्रसवानंतरं पुत्रस्य जननम् । अत एव त्रिभ्यः सजातीयेभ्य ९ मु० चि०