________________
मुहूर्तचिंतामणिः । [ मूलनक्षत्रजननशान्तिः
इतरो विजातीयस्त्रीतरः, स्त्री च त्रीतरेति व्युत्पत्तिश्च । त्रीतरश्च त्रीतरा च श्रीतरौ, 'पुमानूस्त्रिया' इत्येकशेषः । अथ परिहारोऽप्युच्यते । सा जनिः शांतितो वसिष्ठायृषिप्रोक्तायाः शांत्याः स्वनुष्ठिताय हेतुतः शुभा परिणामे सुखदायिनी । शारीरक्लेशानुभवपूर्वकनीरोगदीर्घायुषं शिशोः स्यादित्यर्थः ।
९८
अत्र मूलवाक्यानि सशांतिकानि लिख्यंते । अत्र प्राक्पद्यप्रतिज्ञाता सकलशांतिसामान्यकमौपयिकी च मूलशांतिस्तावदुच्यते ॥ शौनक उवाच'अथातः संप्रवक्ष्यामि मूलजातहिताय च । मातापित्रोर्धनस्यापि कुले शांतिं हिताय च ॥त्यागो वा मूलजातस्य स्यादष्टाब्दात्प्रदर्शनम् । अभुक्तमूलजातानां परित्यागो विधीयते ॥ अदर्शने वापि पितुः स तु तिष्ठेत्समाष्टकम् । एवं च दुहितुर्ज्ञेयं मूलजातफलं बुधैः ॥ मुख्यकालं प्रवक्ष्यामि शांतिहोमस्य यत्नतः । जातस्य द्वादशाहे तु जन्मक्षं वा शुभे दिने ॥ समाष्टके वा मतिमान्कुर्याद्वै शांतिमादरात् । यदैव शांतिकं कुर्यात्कर्म तत्र प्रचक्ष्महे ॥ सुसमे पुण्यदेशे तु मंडपं कारयेद्बुधः ॥' इति । मंडपपरिमाणं च वसिष्ठेनोक्तम्- 'ऐशान्यामथवा प्राच्यामुदीच्यां दिशि कल्पयेत् । मंडपं त्वष्टभिर्हस्तैश्चतुर्भिर्वा समंततः ॥ चतुर्द्वारसमायुक्तं तोरणाद्यैरलंकृतम् । कदलीस्तंभसंयुक्तमाम्रपल्लवराजितम् ॥ पुष्पमालायुतं सम्यक्तूर्य घोष निनादितम् । पिष्टेन कल्पयेत्सर्वं तथा गोमयमंड ॥ कुंडं च तद्बहिः कुर्याग्रहयज्ञोक्तमार्गतः ॥' इति । पुनः शौनकः - 'पुण्यग्भिर्मंत्रितैस्तोयैः प्रोक्षितायां क्षितौ ततः । तत्रोदकुंभं सुश्लक्ष्णं रक्तं व्रणविवर्जितम् ॥ अकृष्णमूलं निर्णिक्तं पूरयेन्निर्मलांभसा । वस्त्रावगुंठितं कुर्यात्पूरयेत्तीर्थवारिणा ॥ कूर्चहेमसमायुक्तं चूतपल्लवसंयुतम् । स्वस्तिकोपरि विन्यस्य क्षीरिद्रुमसपल्लवैः ॥ द्रोणव्रीहींश्च निक्षिप्य ऐशाने च निधापयेत् । पंचरत्नानि निक्षिप्य सर्वैषधिसमन्वितम् ॥ अर्चितं गंधपुष्पाद्यैः श्रीरुद्रं स्थापयेत्ततः । तत्राप्रतिरथं सूक्तं शतरुद्वानुवाककम् ॥ रक्षामंत्रं तथा पुण्यं राक्षोघ्नं च स्पृशञ्जपेत् । त्रियंबकं जपेत्सम्यगष्टोत्तरसहस्रकम् ॥ एकैकवारं जापी च पावमानीः स्पृशञ्जपेत् । जपस्य पंचकुंभाश्च द्वयं वा तदलाभतः॥ श्रीरुद्रस्यैककुंभश्च सर्वसूक्तानि तत्र तु । तथान्यं पंचमं कुंभं पूर्वोक्तर्लक्षणैर्युतम् ॥ चतुःप्रस्रवणं कुर्यात्पंचवक्त्रं च तद्भवेत् । वस्त्रावगुंठितं कुर्यात्पूरयेत्तीर्थवारिणा ॥ पंचरत्त्रसमायुक्तमाम्रपल्लवसंयुतम् । गजाश्वरथ्यावल्मीकसंगमहृदगोकुलात् ॥ राजद्वारप्रदेशाच्च मृदमानीय निक्षिपेत् । कुंभस्य नैर्ऋते देशे होमदेश प्रकल्पयेत् ॥ गोमयालेपिते देशे कुर्यात्स्थंडिलमुत्तमम् । कृत्वाभिमुखपर्यंतमुल्लेखादि स्वशाखतः ॥ पूर्णपात्रनिधानांतं कृत्वा पूजां समारभेत् । नक्षत्रदेवतारूपं सुवर्णेन प्रयत्नतः ॥ निष्कमानेन वार्थेन पादेनापि स्वशक्तितः । प्रतिमां लक्षणेनैकां कारयित्वा विचक्षणः ॥ यद्वा मूल्यं सुवर्णस्य स्थापयित्वा प्रपूजयेत् । सुवर्णं सर्वदैवत्यं सर्वदेवात्मकोऽनलः ॥ सर्वदेवात्मको विप्रः सर्वदेवमयो हरिः । संस्मरेन्निर्ऋतिं श्यामं सुमुखं नरवाहनम् ॥ रक्षोभिपं खड्गहस्तं दिव्याभरणभूषितम् । प्रतिमापूजनार्थाय वस्त्रयुग्मं प्रकल्पयेत् ॥
1