________________
तत्राभिषेकविधिः] नक्षत्रप्रकरणम् २ । पंकजं कारयेद्भूमौ रक्ताभै!हितंडुलैः । चतुर्विंशहलोपेतं शुक्लैर्वा कर्णिकान्वि. तम् ॥ तस्योपरि न्यसेत्पात्रं स्वर्ण वा रौप्यमृन्मयम् । शुद्धवस्त्रेण संकाय तत्र मूलानि निक्षिपेत् ॥ (मूलानीति शतमूलानि । तदलाभे-) विष्णुकांता सहदेवी तुलसी तु शतावरी। मूलानीमानि गृह्णीयाच्छतालाभे विशेषतः ॥ स्थापयेत्कर्णिकामध्ये वस्त्रगंधायलंकृतम् । कूर्चहेमजलोपेतं कुंकुमौषधिसंयुतम् । कुंभोपरि न्यसेद्विद्वान्मूलनक्षत्रदैवतम् । अधिप्रत्यधिदेवौ च दक्षिणोत्तरदेशयोः ॥ अधिदेवं जपेदादौ ज्येष्ठानक्षत्रदैवतम् । (पूर्वाषाढायां जलं उत्तराषाढाक्षे विश्वेदेवाः विष्णुः वसवः वरुणः अजैकपात् अहिर्बुध्यः पूषा अश्विनौ यमः अग्निः प्रजापतिः सोमः रुद्रः अदितिः बृहस्पतिः सर्पाः पितरः भगः अर्यमा सविता त्वष्टा वायुः इंद्राग्नी मित्रः इत्याद्यनुराधांतमर्चयेत् ।) ऐंद्रादीशानपर्यंतं पूजयेत्स्वस्वनामतः। स्वलिंगोक्तैश्च मंत्रैश्च प्रधानादीन्प्रपूजयेत् ॥ पंचामृतेन संस्त्राप्य आवाह्याथ समर्चयेत् । उपचारैः षोडशभिर्यद्वा पंचोपचारकैः । रक्तचंदनगंधाढ्यैः पुष्पैः कृष्णसितादिभिः ॥ मेषशंगादिधूपैश्च घृतदीपैस्तथैव च ॥ सुरापोलिकमांसाद्येनैवेद्यैर्भोजनादिभिः । मत्स्यमांससुरादीनि ब्राह्मणानां विवर्जयेत् ॥ सुरास्थाने प्रदातव्यं क्षीरं सैंधवमिश्रितम् । पायसं लवणोपेतं मांसस्थाने प्रकल्पयेत् ॥ उक्तगंधाद्यलाभे तु यथालाभं समर्पयेत् । पुष्पांतं तु समभ्यर्च्य होमं कुर्याद्यथोदितम् ॥ निर्वापप्रोक्षणादीनि चरोः कुर्याद्यथाविधि । हविर्गृहीत्वा विधिवन्नैर्ऋत्यां च ऋचा हुनेत् ॥ मोषुणः परापरेति यत्ते देवेति वा पुनः। पायसं घृतसंमिश्रं हुनेदष्टोत्तरं शतम् ॥ (हुनेत्-होमयेत् ) समिदाज्यचरून् पश्चाच्छक्तितः संख्यया हुनेत् ॥ अधिदैवतयोश्चैव जुहुयात्स्वस्वमंत्रतः ॥ चतुर्थ्यतैर्नमोंतैश्च स्वाहांतैः स्वस्वमंत्रकैः । नक्षत्रदेवताभ्यश्च पायसेन तु होमयेत् ॥ कृणुष्वेति पंचदशभिर्जुहुयात्कृसरं ततः। गायत्र्या जातवेदेति त्रियंबकमिति क्रमात् ॥ सीरायुंजंति तामग्निं वास्तोष्पत्यग्निमेव च। तामग्निवर्णां तपसा ज्वलंती वैरोचनी कर्मफलेषु जुष्टां ॥ दुर्गा देवीं शरणमहं प्रपद्ये सुतरसितरसे नमः सुतरसितरसे नमः ॥ क्षेत्रस्य पतिना गृणानाग्निं दूतं तथैव च । श्रीसूक्तेन तथा विद्वान् समिदाज्यचरून्क्रमात् ॥ अष्टोत्तरशतैर्वापि अष्टाविंशतिभिः क्रमात् । अष्टाष्टसंख्यया. वापि जुहुयाच्छक्तितो बुधः ॥ त्वं नः सोमेन पायसं जुहुयात्तु त्रयोदश। चतुर्गृहीतमाज्यं च यातेरुद्रेति मंत्रतः ॥ सुवेण जुहुयादाज्यं महाव्याहृतिभिः क्रमात् । हुत्वा स्विष्टकृतं पश्चात्प्रायश्चित्ताहुतीर्खनेत् ॥ आचार्यों यजमानो वा अग्नौ पूर्णाहुति हुनेत् । होमशेषं समाप्याथ वह्निमारोपयेहुधः ॥ कुंभाभिमंत्रणं कुर्याद्दक्षिणेनाभिमंत्रयेत् ॥ मृत्युप्रशमनार्थाय जपेश्रेयंबकं शतम् । रुद्रकुंभोक्तमार्गेण रुद्रमंत्रं स्पृशअपेत् । धूपं दीपं च नैवेद्यं कुम्भयुग्मे निवेदयेत् ॥ प्रसादयेत्ततो देवमभिषेकार्थमादरात् । तस्मिन्काले ग्रहातिथ्यं कर्तव्यं भूतिमिच्छता ॥ पृथक् प्रशस्तं तच्चैव नक्षत्रेष्टया सहैव च । अभिषेकविधिं वक्ष्ये सर्वाचार्यैरुदीरितम् । भद्रासनोपविष्टस्य यजमानस्य ऋत्विजः । दारपुत्रसमेतस्य कुर्युस्तस्याभिषेचनम् ॥ अक्षीभ्यामिति सूक्तेन