________________
१००
मुहूर्तचिंतामणिः। [आश्लेषाजननशान्तिः पावमानीभिरेव च । आपोहिष्टेति नवभिरापइद्वाद्वयेन च ॥ सहस्राक्षतके मापि देवस्यत्वेति मंत्रकैः । शिवसंकल्पमंत्रेण वक्ष्यमाणैश्च मंत्रकैः ॥ योऽसौ वज्रधरो देवों महेंद्रो गजवाहनः । मूलजातशिशोर्दोष मातापित्रोयंपोहतु ॥ योऽसौ शक्तिधरो देवो हुतभुङ् मेषवाहनः। सप्तजिह्वश्च देवोऽग्निर्मूलदोषं व्यपोहतु ॥ योऽसौ दंडधरो देवो धर्मो महिषवाहनः । मूलजातशिशोर्दोष ग्यपोहतु यमो मम ॥ योऽसौ खड्गधरो देवो निती राक्षसाधिपः। प्रशामयतु मूलोत्थदोषं गंडांतसंभवम् ॥ योऽसौ पाशधरो देवो वरुणश्च जलेश्वरः । नक्रवाहः प्रचेताबो मूलोत्थाचं व्यपोहतु ॥ योऽसौ देवो जगत्प्राणो मारुतो मृगवाहनः। प्रशामयतु मूलोत्थं दोषं बालकशांतिदः ॥ योऽसौ निधिपतिदेवः खड्गभृद्वाजिवाहनः । मातापित्रोः शिशोश्चैव मूलदोषमपोहतु ॥ योऽसौ पशुपतिर्देवः पिनाकी वृषवाहनः । आश्लेषामूलगंडांतदोषमाशु व्यपोहतु ॥ विघ्नेशः क्षेत्रपो दुर्गा लोकपाला नवग्रहाः। सर्वदोषप्रशमनं सर्वे कुर्वन्तु शांतिदाः ॥ तच्छंयोरभिषेकं तु सर्वदोषोपशांतिदम् । सर्वकामप्रदं दिव्यं मंगलानां च मंगलम् ॥ वस्त्रांतरितकुंभाभ्यां पश्चात्तु नापयेत्ततः ॥ ततः शुक्लांबरधरः शुक्लमाल्यानुलेपनः । यजमानो दक्षिणाभिस्तोषयेदृत्विगादिकान् ॥ धेनुं पयस्विनीं दद्यादाचार्याय सवत्सकाम् । निर्ऋतिप्रतिमां वसं कुंभं हेम च दापयेत् ॥ ग्रहार्थं वस्त्रप्रतिमास्तत्तद्गोभूश्च दापयेत् ॥ श्रीरुद्रजापिने देयः कृष्णोऽनड्वान् प्रयत्नतः । तत्कुम्भवस्त्रप्रतिमास्तस्मै दद्यात्प्रयत्नतः ॥ इतरेभ्योऽपि विप्रेभ्यो दद्याच्छक्त्या च दक्षिणाम् । उक्तालाभे ततो दद्यादाचार्यब्रह्मऋत्विजाम् ॥ तत्तन्मूल्यं प्रदातव्यं शक्त्या वापि प्रदापयेत् । आचार्याय च यद्दत्तं तदर्धे ब्रह्मणे भवेत् ॥ सदस्याय ब्रह्मणोऽर्धमृत्विग्भ्यश्च तदर्धकम् । आशीश्च तेभ्यो गृह्णीयात्प्रणम्याथ क्षमापयेत् ॥ दद्यादझं पायसादि ब्राह्मणाभोजयेच्छतम् । अलाभे सति पंचाशद्दशकं तदभावतः ॥ सर्वशांतेश्च पठनं ब्राह्मणैराशिषस्तथा।गृही क्षमापयेद्विद्वान्निर्ऋतिःप्रीयतामिति ॥ विधाने चरितेऽस्मिंस्तु ततः शांतिर्भवेद् ध्रुवम् । गंडांतेऽप्येवं कर्तव्यं पुष्यार्धे तद्वदेव तु। समाष्टके द्वादशाहे कुर्याद्वा शांतिमादरात् । इत्युक्तं मनुना सम्यङ्मलजातहिताय च । मातापित्रोर्धनस्यापि बंधोः शोकोपशांतये ॥' इति श्रीशौनकप्रोक्तो मूलशांतिविधिः॥ . अथाश्लेषाशांतिविधिरुच्यते-'आश्लेषायां तु जातानां शांति वक्ष्याम्यतः परम् । जातस्य द्वादशाहे च शांतिहोम समाचरेत्.। असंभवे तु जन्मः अन्यस्मिन्वा शुभे दिने ॥ स्नातोऽभ्यंगादिभिस्तस्मिन्वरयेत्तु द्विजोत्तमान् । विभवे पंच कुंभांस्तु द्वयं वा तदलाभतः ॥ देवतास्थापने चैकमेकं रुद्राभिमंत्रणे ॥ मूलहॊक्तप्रकारेण कुंभे निक्षिप्य पूजयेत् ॥ गोमयालेपिते देशे धात्वाद्यैः परिशोभिते । पंकजं कारयेत्तत्र चतुर्विशद्दलान्वितम् ॥ तंदुलैः कारयेद्यद्वा रक्तपीतसितासितैः। कर्णिकायां न्यसेद्रीहीन्स्थापयेत्तेषु कुंभ. कम् ॥ आकलशेष्वित्यनया कलशस्थापनं शुभम् । इसमे इति मंत्रेण पूरये.