________________
गंडांतजननशांतिः] नक्षत्रप्रकरणम् । तीर्थवारिणा ॥ कुंभं च वस्त्रगंधायैस्तत्तन्मत्रैश्च पूजयेत् ॥ याः फलिनीरित्यनया क्षिपेत्रौषधादिकान् ॥ कुंभोपरिस्थपात्रे तु आश्लेषाप्रतिमा प्रजेत् । निष्कनिष्कार्धपादैर्वा कारयित्वा स्वशक्तितः ॥ तत्पूर्वोत्तरनक्षत्रे दक्षिणोत्तरयोर्यजेत् । ऐंद्रादीशानपर्यंतमितराणि पूजयेत् ॥ मूलोक्तेन विधानेन कुंभयोरभिमंत्रणम् । रुद्रार्चा रुद्रकुंभे तु पूर्ववच्छेषमाचरेत् ॥ नमोऽस्तु सभ्य इति पूजामंत्र इतीरितः । सो रक्तस्त्रिनेत्रश्च द्विभुजः पीतवस्त्रकः ॥ फलकासिघरस्तीक्ष्णो दिव्याभरणभूषितः । एवं ध्यात्वा ततोऽभ्यर्च्य होमकर्म समाचरेत् ॥ कर्तुः शाखोक्तमार्गेण आचार्यस्याथवा चरेत् ॥ मुखांतं कर्म निर्माय हविरादाय शास्त्रतः । इदं सर्पेभ्यो जुहुयात्साधिप्रत्यधिदैवतम् ॥ अष्टोत्तरशतं वाथ अष्टाविंशतिमेव च । मूलनक्षत्रवच्छेषं होमशेष समापयेत् ॥ पूर्णाहुत्यंतकर्माणि कृत्वा संपातकं तथा । कुंभाजलं तु प्रक्षिप्य अभिषेकमथाचरेत् । दारपुत्रसमेतस्य यजमानस्य पूर्ववत् ॥ अभिषिंचेत्तदाचार्यऋत्विग्भिः सहितस्ततः ॥ अभिमंत्रितकुम्भाद्भिरभिषेचनमाचरेत् । तथा पौराणमंत्रैश्च पल्लवैरभिषेचयेत् ॥ आश्लेषाऋक्षजातस्य मातापित्रोर्धनस्य च । भ्रातृज्ञातिकुलस्थानां दोषं सर्व व्यपोहतु ॥ योऽसौ वागीश्वरो नाम अधिदेवो बृहस्पतिः । मातापित्रोः शिशोश्चैव गंडांतं च व्यपोहतु ॥ पितरः सर्वभूतानां रक्षतु पितरः सदा । सर्पनक्षत्रजातस्य वित्तं च ज्ञातिबांधवान् ॥ एवं कृतेऽभिषेके तु सर्पशांतिर्भवेढुवम् ॥ ततः शुक्लांबरधरो यजमानः सुभूषितः॥ दक्षिणाभिस्ततो विप्रान्मूलवच्च प्रतोषयेत् । भुक्तवयश्च विप्रेभ्यः स्वीकुर्यादाशिषं गृही ॥ इत्युक्तेन विधानेन सर्वारिष्टं व्यपोहति । सर्वे कामाश्च सिचंति वेदोक्तायुभविष्यति ॥ इत्युक्तं सर्पशांत्यर्थ सारमागमचोदितम् । मानवानां हितार्थाय मनुना सार्वकामिकम् ॥ साधीश नमस्तुभ्यं नागानां च गणाधिप । गृहाणायं मया दत्तं सारिष्टप्रशांतये ॥' इत्यर्घ्यमंत्रः । 'मूलनक्षत्रवत्कुर्यात्सर्पगंडे स्वनामतः' । इति श्रीमानवसंहितायामाश्लेषाशांतिविधिः । एतच मूलाश्लेषाशांतिकद्वयं विवाहे उपस्थिते श्वशुरस्य श्वश्वाश्च सत्त्वे मूलाश्लेषोत्पनयोरपि वधूवरयोस्तत्तदनिष्टनिवृत्त्यर्थं विधेयम् । उपलक्षणत्वाच्च ज्येष्ठाविशाखोत्पन्नाया वध्वा वरस्य ज्येष्ठबंधुकनिष्ठबंधुपीडाशांतये च । यदाह वसिष्ठः'नैर्ऋत्यभोद्भूतसुतः सुता वा क्षिप्रादवश्यं श्वशुरं निहंति । तदंत्यपादे जनिता निहंति नैवोत्क्रमेणाहिभवः कलत्रम् ॥' इति । अहिः आश्लेषा । अहिभव इति पुंस्त्वमविवक्षितम् । 'सुरेशताराजनिता धवाग्रजं द्विदैवताराजनिता तु देवरम्' इति । नारदोऽपि-'मूलजा श्वशुरं हंति व्यालजा च तदंगनाम् । ऐंद्री पत्यग्रजं हंति देवरं तु द्विदैवजा ॥ शांतिर्वा पुष्कला चेत्स्यात्तर्हि दोषो न कश्चन ॥' इति ॥ - अथान्याः शांतयः श्लोकक्रमेणोच्यते । तत्र तावन्नक्षत्रगंडांतशांतिविधिरुच्यते-'गंडशांतिं प्रवक्ष्यामि सोममंत्रेण भक्तिमान् । कांस्यपात्रं प्रकुर्वीत पलैः षोडशभिर्नवम् ॥ अष्टभिश्च चतुर्भिर्वा द्वाभ्यां वा शोभनं तथा । तन्मध्ये पायसं शंखे नवनीतेन पूरिते ॥ राजतं चंद्रमर्चेनु