________________
१०२
मुहूर्तचिंतामणिः। [ज्येष्ठानक्षत्रजननशांतिः सितपुष्पसहस्त्रकैः । दैवज्ञः क्षौमवासाश्च शुक्लमाल्यांबरार्चितः ॥ सोमोऽहमिति संचिंत्य पूजां कुर्यादतंद्रितः । जपेत्साहस्रक मंत्रं श्रद्दधानः समाहितः ॥ आप्यायस्वेति मंत्रेण पूजां कुर्यात्समाहितः । दद्याद्वै दक्षिणामिष्टां गंडदोषप्रशांतये ॥ शुक्लं वागीश्वरं चैव ताम्रपात्रसमन्वितम् । गंडदोषोपशांत्ययं दद्याद्वेदविदे शुचिः ॥' इति श्रीमानवसंहितायां नक्षत्रगंडांतशांतिविधिः ॥ ॥ अथ नक्षत्रगंडांतलक्षणमन्यैर्मुनिभिरेवमुक्तम्'अश्विनीमघमूलादौ त्रिषट्कनवनाडिकाः । रेवतीसार्पशाक्रांते मासाश्च ऋतुसायकाः॥अश्विनीमघमूलादौ नाडिकाद्वितयं तथा। रेवतीसार्पशाक्रांते नाडिकाद्वितयं तथा ॥ अश्विनीमघमूलानां पूर्वार्धे बाध्यते पिता । पूषाहिशक्रपश्चार्धे जननी बाध्यते शिशोः ॥ पितृहा तु दिवाजातो रात्रिजातस्तु मातृहा । मात्मधुक संध्ययोर्जातो नास्ति गंडो निरामयः ॥ सर्वेषां गंडजातानां परित्यागो विधीयते । वर्जयेद्दर्शनं तावत्तञ्च पाण्मासिकं भवेत् ॥' इति ॥ __ अथ तिथिलग्नगंडांतशांतिविधिरुच्यते-'भभुक्तेतरजातस्य सूतकात्यदिने पिता । शांतिं शुभेऽह्नि वा कुर्यात्तावत्पुत्रं न लोकयेत् ॥ तिथिगंडे त्वनड्वाहं नक्षत्रे धेनुरुच्यते । कांचनं लग्नगंडे तु गंडदोषो विनश्यति ॥ आयभागे पितुर्गडं त्रयाणामभिषेचनम् । इतरत्र शिशोर्मातुरभिषेकं च कारयेत् ॥ उत्तरे तिलपात्रं स्यात्तिष्ये गोदानमुच्यते । अजाप्रदानं त्वाष्ट्रे च पूर्वाषाढे च कांचनम् ॥ उत्तरातिष्यचित्रासु पूर्वाषाढोद्भवस्य च । कुर्याच्छांतिं प्रयत्नेन नक्षत्राकारजां बुधः ॥ सुवर्णेन तदर्धेन यथावित्तानुसारतः । नक्षत्राधिपते रूपं कृत्वा वस्त्रद्वयान्वितम् ॥ वरुणस्यार्चनं कार्य स्वस्तिवाचनपूर्वकम् । शतौषधानि रत्नानि मृत्त्वपल्लवसंयुतान् ॥ पूजांते समिदनाज्योमं तिलयवैस्तथा । ततः पूर्णाहुति हुत्वा वेदाध्यायिकुटुंबिने ॥ उत्तराप्रथमे पादे तिलपात्रं तथैव च । तिष्ये तु गां सवत्सां च सुशीलां च पयस्विनीम् ॥ अजां चित्रासु वै दद्यात्पूर्वाषाढे तु कांचनम् । यवांश्च व्रीहिमाषांश्च तिलमुद्गांश्च दापयेत् ॥ यथा वित्तानुसारेण कुर्याद्राह्मणभोजनम् । पितुरायुष्यवृद्ध्यर्थ शांतिरत्र विधीयते ॥ एवं यः कुरुते सम्यक् शांतिकर्म समाहितः । न दोषैर्लिप्यते नूनं पद्मपत्रमिवांभसा ॥ आयुरारोग्यमैश्वर्य संप्राप्नोति दिने दिने । धनधान्यसमृद्धिं च पुत्रपौत्रसमृद्धिमान् ॥' इत्युत्तरगार्योक्ततिथ्यादिगंडांतशांतिविधिः ॥ .. अथ ज्येष्ठाशांतिविधिरुच्यते । तत्र प्रत्येकं घटिकाषट्कस्य फलान्याह भरद्वाजः-'ज्येष्ठादौ मातृजननी मातामहं द्वितीयके । तृतीये मातुलं हंति चतुर्थे जननी तथा ॥ आत्मानं पंचमे हंति षष्ठे गोत्रक्षयो भवेत् । सप्तमे कुलनाशः स्यादष्टमे ज्येष्ठसोदरम् । नवमे श्वशुरं हंति सर्वस्वं दशमे तथा ॥' इति । 'सुखासीनमृषिश्रेष्ठं गर्ग मुनिगणान्वितम् । कृतांजलिपुटो भूत्वा पप्रच्छ किल शौनकः ॥ शौनक उवाच-ज्येष्ठानक्षत्रसंभूतगंडदोषविनिर्णयम् । तस्य शांतिविधानं च वद मे मुनिसत्तम ॥ शौनकस्य वचः श्रुत्वा प्रत्युवाच महामुनिः । शृणु शौनक यत्नेन गंडदोषविनिर्णयम् ॥ तस्य