________________
१०३
ज्येष्ठानक्षत्रजननशांतिः] नक्षत्रप्रकरणम् २ । शांतिविधानं च यथावत्कथयाम्यहम् । घटिकैका च मैत्रांते ज्येष्ठादौ घटिकाद्वयम् ॥ तयोः संधिरिति ज्ञेयं शिशुगंडं समीरितम् । प्रथमे च द्वितीये च ज्येष्ठः च तृतीयके ॥ पादत्रये जातनरः श्रेष्ठोऽप्यत्र प्रजायते । ज्येष्ठांत्यपादजातस्तु पितुः स्वस्य विनाशनः । जायते नात्र संदेहो दशाहाभ्यंतरे तथा । ज्येष्ठः कन्यका जाता हंति शीघ्रं धवाग्रजम् ॥ तच्छांतिं तस्य वक्ष्यामि गंडदोषप्रशांतये। सुदिने शुभनक्षत्रे चंद्रताराबलान्विते । सूतकांते तथा कुर्याज्येष्ठाशांतिं विधानतः । वज्रांकुशधरं देवमैरावतगजान्वितम् ॥ कुर्याच्छचीपति रम्यं देवेंद्र सुरनायकम् । कर्षमात्रसुवर्णेन कर्षार्धनाथ पादतः ॥ तद्विधानं प्रकुर्वीत वित्तशाठ्यं न कारयेत् । शालितंदुलसंपूर्णकुंभस्योपरि पूजयेत् ॥ इंद्रायेंदोमरुत्वते इति मंत्रेण वाग्यतः। गंधपुष्पैधूपदीपैर्नानाभक्ष्यनिवेदनैः ॥ पूजयेद्विधिना विप्र लोकपालगणान्वितम् । रक्तवस्त्रद्वयोपेतं पूजयेत्सुरनायकम् ॥ तत्र संस्थापयेत्कुंभांश्चतुर्दिक्षु विशेषतः । पुण्योदकसमायुक्तान् वस्त्रयुग्मेन वेष्टितान् ॥ तन्मध्ये स्थापयेत्कुंभं शतच्छिद्रसमन्वितम् ॥ कुंभेषु विन्यसेद्धीमान पंचगव्यं समंत्रकम् । पंचामृतं पंचरत्नं मृत्तिकाः पंचसंख्यकाः । पंचवृक्षकषायांश्च पंचपल्लवकांस्तथा ॥ सुवर्णकुशदूर्वाश्च शतौषधिं विनिक्षिपेत् । पूजयेद्वारुणैर्मत्रैः कुंभान्धीमान्प्रयत्नतः ॥ त्वं नो अग्ने जपेदादौ सत्वं नोऽपि द्वितीयकम् । समुद्रज्येष्ठा इति चेमं मे गंगे चतुर्थकम् ॥ पूजयेद्वस्त्रयुग्माद्यैश्चतुरः कलशानपि । जपं कुर्युः प्रयत्नेन मंत्रैरेभिर्द्विजोत्तमाः ॥ आनोभद्राजपं चादौ भद्राअग्नेर्द्वितीयकम् । इंद्रसूक्तं रुद्रजाप्यं जपं मृत्युंजयं ततः ॥ इत्थं संपूज्य देवेशं वरुणं कुंभसंस्थितम् । सुसंकल्पविधानेन होमकर्म ततश्चरेत् ॥ समिद्भिर्ब्रह्मवृक्षस्य शतमष्टोत्तरं तथा । सर्पिषा चरुणा चैव मूलमंत्रेण वाग्यतः ॥ हुनेजाप्यं च तेनैव यतइंद्रभयेति च । तिलान् व्याहृतिभिर्तुत्वा शतमष्टोत्तरं पृथक् ॥ भार्याशिशुसमोपेतं यजमानं विशेषतः। अभिषेकं प्रकुर्वीत सूक्तैर्वारुणसंज्ञितैः ॥ समुद्रज्येष्ठादिभिर्मरिमं मे वरुणस्तथा। द्यौः शांतेत्यादिभिर्मत्रैरभिषेकं समाचरेत् ॥ अभिषेकनिवृत्तौ तु यजमानः समाहितः। शुक्लांबराणि धृत्वा च कुर्यादाज्यावलोकनम् ॥ रूपंरूपेति मंत्रेण चित्रं तच्चक्षुरेव च । देवतापुरतः स्थित्वा धूपदीपनिवेदनम् ॥ दद्यादाचमनं सम्यक् तांबूलाचं तथैव च । नमस्ते सुरनाथाय नमस्तुभ्यं शचीपते ॥ गृहाणायं मया दत्तं गंडदोषप्रशांतये। कार्य तत्पूजकादीनां कारितं यत्फलं शुभम् ॥ लब्ध्वा तु तत्फलं सर्व देवेंद्राय समर्पयेत् । आचार्याय च गां दद्यात्सुशीलां च पयस्विनीम् ॥ रक्तवर्णा वत्सयुतां सर्वालंकारभूषिताम् । वस्त्रयुग्मपिधानां च यथाविभवसारतः ॥ यक्षगंधर्वसिद्धैश्च पूजितोऽसि शचीपते । दानेनानेन देवेश गंडदोषं विनाशय ॥ अष्टोत्तरशतं संख्यां कुर्याद्राह्मणभोजनम् । तेभ्योऽपि दक्षिणां दत्त्वा प्रणिपत्य क्षमापयेत् ॥ ज्येष्ठाशांतिमिमां कृत्वा यथाविध्युक्तमार्गतः। गंडदोषं विनिर्जित्य आयुष्मान् जायते नरः ॥ इत्युक्तं वृद्धगाग्र्येण शौनकाय विशेषतः । ज्येष्ठानक्षत्रसंभूतगंडदोषप्रशांतये ॥ अज्ञानाद्वाऽथवा ज्ञानाद्वैकल्याद्वा धनस्य