________________
१०४
मुहूर्तचिंतामणिः। [ सूर्यसंक्रांत्यादिजन्मशांतिः च । यम्यूनमतिरिक्तं च तत्सर्व क्षेतुमर्हसि ॥' इति श्रीवृद्धगार्ग्यसंहितायां ज्येष्ठानक्षत्रप्रसूतिशांतिः ॥ .. अथ शूलयोगस्य महागणितसाध्ययोतिव्यतीपाताख्ययोः पातयोश्च परिघव्याघातगंडावमानां च भद्रायाश्च वज्रस्य यमघंटस्य मृत्युयोगदग्धयोगयोश्च शांतिविधिरभिधीयते –'अथातः संप्रवक्ष्यामि जन्मकाले विशेषतः। गंडांतानां च नामानि महादोषकराणि च ॥ दिनक्षये व्यतीपाते व्याघाते विष्टिवैश्तौ । शूले गंडे च परिघे वज्रे च यमघंटके ॥ कालगंडे मृत्युयोगे दग्धयोगे सुदारुणे। तस्मिन्गंडदिने प्राप्ते प्रसूतिर्यदि जायते ॥ अतिदोषकरी प्रोक्ता तत्र पापयुते सति । विचार्य तत्र दैवज्ञान शांतिं कुर्यायथाविधि ॥ यजनं देवतानां च ग्रहाणां चैव पूजनम् ॥ दीपं शिवालये भक्त्या घृतेन परिदापयेत् ॥ अभिषेकं शंकराय अश्वत्थस्य प्रदक्षिणम् । आयुवृद्धिकरं जाप्यं सर्वारिष्टविनाशनम् ॥ गुरुदैवतविप्राणां पूजनं गोत्रवर्धनम् । पुष्टयायुस्तुष्टिशांत्यर्थमभीष्टफलसिद्धये ॥ सर्वारिष्टपरीहारार्थाय यज्ञं समाचरेत् । शिवाय विधिवद्भक्त्या दीपदानं करोति यः ॥ अखंडं गोघृतेनैव स वै मृत्युं जयेन्नरः । विष्णुमूर्ति महापुण्यमश्वत्थं श्रीकरं सदा । प्रदक्षिणं नरो भक्त्या कृत्वा मृत्युंजय जपेत् । सर्वसंपत्समृद्ध्यर्थं नित्यं कल्याणवृद्धये ॥ अभीष्टफलसिद्ध्यर्थ कुर्याद्राह्मणभोजनम् । अभिषेकं शिवे शांतिं कृत्वा भक्त्या नरोत्तमः ॥ अकालमृत्युं निर्जित्य दीर्घायुर्जायते नरः। गाणपत्यं पुरुषसूक्तं सौरं मृत्युंजयं शुभम् ॥ शांतिजाप्यं पुनश्चैव कृत्वा मृत्युंजयी भवेत् । मूले वा सार्पगंडे वा कुर्यादेतानि यत्नतः । आयुर्वृद्धिकरार्थाय गंडदोषप्रशांतये ॥' इति श्रीउत्तरगार्ग्यप्रोक्तशूलादिदुष्टयोगशांतिविधिः॥ ___ अथ सूर्यसंक्रांतिव्यतीपातवैधृतियोगानां शांतिरभिधीयते'अथातः संप्रवक्ष्यामि जन्मकाले विशेषतः । वैश्तौ च व्यतीपाते महादोषोऽभिजायते ॥ कुमारजन्मकाले तु व्यतीपातश्च वैधतिः । संक्रांतिश्च रवेस्तत्र जातो दारिद्यकारकः ॥ दरिद्राणां महदुःखं व्याधिपीडा महद्भयम् । अश्रियं मृत्युमामोति नात्र कार्या विचारणा ॥ स्त्रीणां च शोको दुःखं च सर्वनाशकरं भवेत् । शांतिर्वा पुष्कला चेत्स्यात्तत्र दोषो न कश्चन ॥ गोमुखप्रसवं कुर्याच्छांतिं कुर्यात्प्रयत्नतः। जपाभिषेकदानैश्च होमादपि विशेषतः ॥ नवग्रहमुखं कुर्यात्तस्य दोषोपशांतये । प्रथमं गोमुखाजन्म ततः शांति समाचरेत् ॥ गृहस्य पूर्वदिग्भागे गोमयेनानुलिप्य च । स्खलंकृतप्रदेशे तु व्रीहिराशिं प्रकल्पयेत् ॥ पंचद्रोणमितं धान्यं तदर्ध तंडुलेन च । तदधं तु तिलैः कुर्यादन्योन्योपरि कल्पयेत् ॥ द्रव्यत्रितयराशौ तु अष्टपत्रं लिखेबुधः । पुण्याहं वाचयित्वा तु आचार्य वृणुयात्पुरा ॥ आचारवंतं धर्मज्ञं कुलिनं च कुटुंबिनम् । मंत्रतत्त्वार्थतत्त्वशं शांतिकर्मणि कोविदम् ॥ पंचांगं भूषणं दद्यापट्टवस्त्रांगुलीयकम् । राशौ प्रतिष्ठितं कुंभमवणं सुमनोहरम् ॥ तीर्थोदकेन संपूर्य समृदौषधिपल्लवम् । पंचगव्यं पंचरत्नं वस्त्रयुग्मेन वेष्टयेत् ॥ तस्योपरि न्यसेत्पानं सूक्ष्मवस्त्रेण संयुतम् । प्रतिमा स्थापयेद्धीमान्साधिप्रत्यधिदेवताम् ॥