________________
दर्शादिप्रसूतौ शांतिः] नक्षत्रप्रकरणम् । चंद्रादित्याकृती पार्श्वे मध्ये वैधतिमर्चयेत् । एवमेव व्यतीपातशांती संक्रमणस्य च ॥ भानोरुत्तरतो रुद्रमग्निं दक्षिणतो यजेत् । निष्कमात्रेण वार्धेन पादेनापि स्वशक्तितः ॥ प्रतिमाः कारयेद्धीमांस्तत्तल्लक्षणलक्षिताः । प्रतिमापूजनार्थाय वस्त्रयुग्मं निवेदयेत् । अधिदैवं भवेत्सूर्यचंद्रः प्रत्यधिदैवतम् । तत्तव्याहृतिपूर्वेण तत्तन्मंत्रेण पूजयेत् ॥ त्रयंबकेन मंत्रेण प्रधानप्रतिमा यजेत् । उत्सूर्य इति मंत्रेण सूर्यपूजा समाचरेत् ॥ आप्यायस्वेति मंत्रण सोमपूजा समाचरेत् । उपचारैः षोडशभिर्यद्वा पंचोपचारकैः ॥ अर्चितं गंधपुष्पाद्यैर्गुडनैवेद्यमर्पयेत् । मृत्युंजयेन मंत्रेण प्रधानप्रतिमां स्पृशन् ॥ अष्टोत्तरसहस्रं वा अष्टोत्तरशतं तु वा । अष्टाविंशति वा चाथ प्रजप्याथ स्वशक्तितः । सर्वसौरं प्रजप्याथ सोमार्थ सोममंत्रतः । आनोभद्रेतिसूक्तं च भद्राअग्नेश्च सूक्तकम् ॥ जपेञ्च पौरुषं सूक्तं त्रैयंबकमतः परम् । कुंभं स्पृष्ट्वा चतु. दिक्षु जपं कुर्युस्त्वर्विजः ॥ कुंभस्य पश्चिमे देशे स्थंडिलेऽग्निं प्रकल्पयेत् । स्वगृह्योक्तविधानेन कारयेत्संस्कृतानलम् ॥ त्रयंबकेण मंत्रेण समिदाज्यचरू न्हुनेत् । अष्टोत्तरसहस्रं वा अष्टोत्तरशतं तु वा ॥ अष्टाविंशति वा कुर्यात्स्वस्वशक्त्यनुसारतः । मृत्युंजयेन मंत्रेण तिलहोम समाचरेत् । ततः स्विष्टकृतं हुत्वा मभिषेकं च कारयेत् । समुद्रज्येष्ठाःसूक्तेन आपोहिष्ठातृचेन च ॥अक्षीभ्यामिति सूक्तेन पावमानीभिरेव च । त्रैयंबकेण उत्सूर्य आप्यायस्वेति मंत्रतः ॥ सुरास्त्वामिति मंत्रेण अभिषेकं समाचरेत् । अभिषेकाप्लुतं वस्त्रमाचार्याय प्रदापयेत् ॥ श्वेतवस्त्रधरो भूत्वा भूषणाद्यैरलंकृतः। यजमानः स्त्रिया युक्त आज्यावेक्षणमाचरेत् ॥ आचार्य पूजयेत्पश्चाद्वस्त्रहेमांगुलीयकैः । गोदानं वस्त्रदानं च स्वर्णदानं विशेषतः ॥ तद्दोषशमनार्थाय आचार्याय प्रदापयेत् । प्रच्छादनपटं दद्यात्ततः शांतिर्भविष्यति ॥ जापकेभ्यो ब्राह्मणेभ्यो दक्षिणाभिश्च तोषयेत् । दीनांधकृपणेभ्यश्च प्रदद्याद्भूरिदक्षिणाः ॥ ब्राह्मणान् शतसंख्याकामिष्टान्नैर्भोजयेच्च तान् । बंधुभिः सह भुंजीत यथाविभवसारतः । एवं यः कुरुते मयों नैव दुःखमवाप्नुयात् ॥ आयुरारोग्यमैश्वर्य मातापित्रोः शिशोरपि॥ सर्वदुःखनिवृत्त्यर्थं पुत्रपौत्रप्रवर्धनम् । सर्वान्कामानवाप्नोति शांतिं कुर्वन् हि मानवः ॥' इति श्रीउत्तरगार्योक्तव्यतीपातवैधतिसंक्रांतिशांतिविधिः ॥ • अथ कुहूसिनीवालीदर्शशांतिरुच्यते । तत्रेयमुपपत्तिः-यत्रिविधो दर्शः कुहूरूपः सिनीवालीरूप उभयलक्षणव्यतिरिक्तश्चेति । यतो द्विविधामावास्या । 'अमावास्या त्वमावस्या दर्शः सूर्यंदुसंगमः । स्यादृष्टेदुः सिनीवाली सा नष्टंदुकला कुहूः॥' इत्यमरोक्तेः। 'निशि चंद्रवती सा तु पूर्णिमानुमतिश्च सा। दिवा चंद्रवती राका तद्वदेव द्विधाप्यमा । सिनीवाली चंद्रवती नष्टचंद्रा कुहूर्मता' इति कश्यपोक्तेश्चामावास्याया द्विविधत्वमेवावसीयते । युक्तं चैतत्, दृष्टचंद्रात्वं नष्टचंद्रात्वं वाऽमावास्यायाः संभवति न पुनरुभयाभावेन तृतीयाऽमावास्येति । नन्विदमप्ययुक्तं, यतो रवेदिशांशविप्रकर्षे चंद्रदर्शनं कालांशवशेनोक्तम् । तदाह भास्करः-'दख्दवः शैलभुवश्व शक्रा रुद्राः खचंद्रा