________________
१०६
· मुहूर्तचिंतामणिः। [अमावास्याकुहूविचारः स्तिथयः क्रमेण । चंद्रादितः काललवा निरुक्ता ज्ञशुक्रयोर्वक्रगतौ द्विहीनाः ॥' इति । द्वादशांशमितेन चांतरेणामावास्यालक्षणस्य तिथेर्निष्पत्तिः । उक्तं च सूर्यसिद्धांते-'अर्काद्विनिःसृतः प्राची यद्यात्यहरहः शशी । तच्चांद्रमानमंशस्तु ज्ञेयो द्वादशभिस्तिथिः ॥' इति । एवं च कथं दृष्टचंद्रा सिनीवालीत्युक्तं, कथं च नष्टचंद्रा कुहूरिति, कथं चानयोर्भेद इति विनाप्रयोजनं चैकस्य वस्तुनोऽनेकसंज्ञाकरणं न युक्तमिति चेत् । उच्यते-'नहि कालांशवशेन ग्रहाणामस्तोदयौ, किं तर्हि क्षेत्रांशवशेन । तदुक्तं सूर्यसिद्धांते-'अष्टादशशताभ्यस्ता दृश्यांशाः स्वोदयांशुभिः । विभज्य लब्धं क्षेत्रांशास्तैदृश्यादृश्यता मता ॥' इति । तथा च-'सूर्यास्तकालिको पश्चात्प्राच्यामुदयकालिकौ । दिवाकरग्रही कुर्यादृकर्माथ ग्रहस्य तु ॥' इत्यादिना प्रकारेण द्विविधटक्कर्मसंस्कारसंस्कृताचंदादेः राश्युदयवैषम्येण देशभेदेन चाऽनियतत्वात्कदाचिदमावास्यायामपि साधैर्दशभिरंशैरंतरितश्चंद्रो दर्शनगोचरो भवति । कदाचित्षोडशांशांतरितो द्वितीयायामपि चंद्रो दृग्गोचरो न भवति । एवमेव कदाचिञ्चतुर्दशीशेषे च न दृश्यते । कदाचिदल्पावशिष्टायां प्रतिपद्यपि दृश्यते । अत एव गर्गेण प्रतिपदुदितस्य चंद्रस्य फलविशेषोऽभिहितः। तथा च गर्गसंहितायाम्-'यदा चंद्रः प्रतिपदि नौस्थाय संप्रदृश्यते। उत्तरोज्जवलशंगः स्यात्स्निग्धश्चातिमनोहरः। क्षेमं सुभिक्षमारोग्यं सर्वभूतेषु निर्दिशेत् ॥' इति । अतएव भारविणापि'प्रणमन्त्यनपायमुत्थितं प्रतिपच्चंद्रमिव प्रजा नृपम्' इति किरातार्जुनीये प्रयुक्तम् । अत्रैतस्य टीकाकाराः प्रतिपच्छब्देन प्रतिपत्सहचरिता द्वितीया गृह्यते । प्रतिपदि चंद्रदर्शनाभावादिति व्याचख्युस्ते चिंत्योक्तयो ध्येयाः । ननु प्रतिपदि चंद्रोदय उत्पातस्तदर्शनमशुभफलमिति चेन्न । गणितविसंवादिबुधादिदर्शनं गणितज्ञानाशक्यमेव, केत्वादिदर्शनं चोत्पात इति तल्लक्षणं प्रागुक्तं मया । चंद्रोदयस्तु कदापि गणितं न व्यभिचरति इति प्रत्यक्षदर्शनात् प्रतिपदुदितचंद्रस्य गर्गेण प्रशस्तफलाभिधानाच्च । नद्युत्पातानां समीचीनं फलं कुत्राप्युक्तं स्वर्तुजानुत्पातान्विहाय वचनात् । येन प्रतिपदि चंद्रोदय उत्पात इत्युच्यते तेन चतुर्दशीशेषेप्रातश्चंद्रोदयाभावे ह्युत्पातो वाच्य इति। तच्चायुक्तं उक्तादेव हेतोः । तस्मात् क्षेत्रांशवशेनैव ग्रहाणामस्तोदयौ भवतः । कालांशोक्तिस्तु क्षेत्रांशनिदानभूतत्वाय सामान्यत उदयास्तज्ञानसिद्ध्यै च। तदेतपितृचरणैस्तोडरानंदे चंद्रचारविलासे सम्यक् प्रतिपादितं । तस्मादृकर्मसंस्कारवशेन चतुर्दशीशेषे प्रातश्चंद्रोदये दृश्यते न दृश्यते च । एवं प्रातरमावास्यायामपि चंद्रोदयो न दृश्यते दृश्यते च । तस्मात्सुष्ठूक्तम्-'स्यादृष्टंदुः सिनीवाली सा नष्टेंदुकला कुहूः' इति । 'तद्वदेव द्विधा ह्यमा । सिनीवाली चंद्रवती नष्टचंद्रा कुहूर्मता।' इति कश्यपोऽपि द्विधैवामावास्येत्याह स । तस्मादिदं युक्तमेव । यद्यमावास्यायां चंद्रो दृश्यते तदामावास्या सिनीवाली, यदा चंद्रोऽमावास्थायां न दृश्यते तदा कुहूरिति। परंत्विदमयुक्तम् । यदुभयराहित्येनामावास्यांतरमप्यस्तीति । असंभवात् । अत्र समाधिं वैदिकास्तावदाहुः यस्याः कस्या