________________
दर्शादिप्रसूतौ शांतिः ]
नक्षत्रप्रकरणम् २।
श्चिदमावास्याया अष्टौ विभागान् कृत्वा प्रथमविभागे चंद्रदर्शनमस्ति नवेति । यदा चंद्रदर्शनं तदा सिनीवाली, यदा चंद्रदर्शनं तदामावास्या, सकलचंद्रक्षये कुहूरिति । तदेतदुक्तं छंदोगपरिशिष्टे 'इंदुक्षयकालः श्राद्धकाल' इति प्रस्तुत्येंदुक्षयकालपरिमाणमुक्तम्- 'अष्टमेंऽशे चतुर्दश्याः क्षीणो भवति चंद्रमाः । अमावास्याष्टमे भागे पुनः किल भवेदणुः ॥ आग्रहायण्यमावास्या तथा ज्येष्ठस्य या भवेत् । विशेषमाभ्यां ब्रुवते चंद्रचारविदो जनाः ॥ अत्रें दुराधे प्रहरेऽवतिष्ठते चतुर्थभागोन कलावशिष्टः । तदंत एव क्षयमेति कृत्स्न एवं ज्योतिश्चक्रविदो वदति ॥' इति । आभ्यामिति ल्यब्लोपे पंचमी। एते अमावास्ये प्रकृत्येत्यर्थः । एतत्कारिकात्रयं तद्भाष्यकारेण व्याख्यातम् - ' प्रहरनवात्मकश्चंद्रक्षयकालः' इति । तत्रामायाः सप्तमाष्टमयामौ कृत्स्त्रक्षयकालः चतुर्दशीशेषयामदर्शादियामौ चंद्रसूक्ष्मताकाल इति । पुनः किलशब्दाभ्यामयमर्थो द्योत्यते । चतुर्दश्यां क्षैण्यं सूक्ष्मं अमात्यभागे कृत्स्त्रक्षयकाल इति । अमावास्याविशेषे ज्येष्ठादवमाद्ययामे चंद्रो दृश्यत इत्यर्थः । ज्योतिश्चक्रविद इत्यस्यार्थः पितृचरणैरभिहितः । देशकालगणनाकुशला यथा गणयंति तदेवांगीकार्यमिति सूच्यते । ततश्च ज्येष्ठादिकालभिन्नकालेऽप्येवंविधोपलंभः ज्येष्ठादौ च नोपलंभो देशकालभेदेन संभवतीति । तदयमत्र विषयविवेकःयस्याममावास्यायां प्रथमे प्रहरे शास्त्रात्प्रत्यक्षतो वा चंद्रदर्शनं स्यात्सा सिनी - वाली सर्ववादिसिद्धा । तत्रोत्पन्नस्य सिनीवालीजननफलमादेश्यं सिनीवाली - प्रयुक्ता शांतिश्च विधेया । अथ तस्यामेवामावास्यायां यदा नष्टेंदुकलावं स्यात्तदा कुहूरिति । तन्त्रैकस्याश्चंद्रकलायाः किंचिन्नाशो वाखिलनाशो वेति संदेहे विनिगमनाविरहात्कृत्स्नकलाक्षय एव विवक्षितो मुख्यत्वात् । यत्किंचिन्नाशस्त्वपचीयमानत्वाद्गौणः 'गौणमुख्ययोर्मुख्ये कार्यसंप्रत्ययः' इति न्यायान्मुख्यस्यैव ग्रहणं युक्तं । स च कृत्स्त्रक्षयकालोऽमावास्यांतिमक्षण एव । तस्य चातिसूक्ष्मत्वाद्दुर्ज्ञानत्वात्संक्रांति कालवदित्यमावास्यायाः सप्तमाष्टमप्रहरयोः कृत्स्नक्षयकालस्य भाष्यकारेण परिभाषितत्वात्सप्तमाष्टमप्रहरात्मकः कालः कुहूशब्दवाच्यः । तत्रोत्पन्नस्य कुहूजननफलं तच्छांतिश्चादेश्या । पुनस्तस्यामेवामावास्यायां प्रथमप्रहरादनंतरं सप्तमप्रहरादर्वाक् प्रहरपंचकात्मकः कालो दर्शशब्दवाच्यः । इति तन्रोत्पन्नस्य दर्शजननफलं तच्छांतिश्चादेश्या । एवमेकस्यामेवामावास्यायां कालभेदेन त्र्यं संभवति । यदा त्वमावास्यायां चंद्रदर्शनाऽभावः तदा द्वयमेव दर्शत्वकुहुत्वरूपं संभवति । अत्र केचित्सिनीवाल्यां विशेषमाहुः - चतुर्दशीशेषे सूर्योदयात्प्राक् चंद्रदर्शने जाते सति परदिने याऽमावास्या सा सिनीवाली । तथा च जगन्मोहने बौधायन इत्युक्त्वा पठितम् — 'मध्याह्नसमयं यावच्चतुर्दश्यनुवर्तते । सिनीवालीति सा त्वेषा पितृकर्मणि शस्यते ॥' इति । धर्मशास्त्रेऽप्येतादृशानि भूयांसि वचनानि संति, तेषामिदं श्राद्धकालनिर्णयोपयोगि पारिभाषिकं सिनीवालीत्वं न पुनर्जननादौ । कृतः ? निरुक्तिविरोधात् । तथा हि- 'दृष्टेदुः सिनीवाली' इत्यादिवाक्येषु दृष्टचंद्रो यस्यां सा सिनीवालीति बहुव्रीहिः । स च ' अनेकमन्यपदार्थे' इति विहित
१०७