________________
मुहूर्तचिंतामणिः । [ अमावास्याकुलक्षणं
स्तत्रान्यपदार्थतयोपस्थिताऽमावास्यैव गृह्यते प्रकरणात् । नं चैवं सति चतुर्दश्यां चंद्रोदये सिनीवालीत्वं स्यात् । दृष्टचंद्रा सिनीवालीत्येतावतैव लक्षणेन सर्वासामपि दृष्टेंदुत्वात्सिनीवालीत्वे तच्छांतिकोक्तिरनर्थिका स्यात् । ननुच दृष्टश्चंद्रो यस्यामित्यन्यपदार्थे सप्तमी सामीप्यपरेति व्याख्यायते इति चेन्न । तस्याः सामीप्यसप्तम्या गौणाधारपरत्वात् मुख्यासंभवे हि गौणग्रहणं युक्तम् । अत्र तु मुख्य एवाधारः संभवत्यमावास्यारूप इति गृह्यते । 'गौणमुख्ययोमुख्ये कार्य संप्रत्ययः' इति न्यायात् । ननु दृष्टश्चंद्रो यस्या इति षष्ठ्यतेऽन्यपदार्थे बहुव्रीहौ संबंधमात्रं मुख्य एव षष्ठ्यर्थ इति सामीप्यसंबंधवाचिषष्ठ्यंतेऽन्यपदार्थे बहुव्रीहिरयं भविष्यतीति चेत् । सामीप्यादिसंबंधे मत्वर्थीयः प्रत्ययो बहुव्रीहिर्वा न कैरपि वैयाकरणैरिष्यते । तदेतत् ' तदस्यास्त्यस्मिन्निति मतुप्’ इत्यत्र महाभाष्यकारेण प्रत्यपादि । ननुच येष्वपि - 'कुहूः सिनीवाल्यपि नष्टदृष्टे चंद्रे स्मृते चासितपंचदश्यौ' इत्यादिवाक्येषु बहुव्रीहिनिर्देशो मतुनि - देशो वा नास्ति, तत्र कृष्णचतुर्दश्यामपि चंद्रोदयस्य दृष्टत्वादमावास्यायाः सिनीवालीति संज्ञा स्यादिति चेन्न । संभवति सामानाधिकरण्ये वैयधिकरव्यस्यान्याय्यत्वात् चंद्रोदयसमानाधिकरणामावास्याग्रहणस्यैव युक्तत्वात् । किंच सिनीपदेन श्वेतचंद्रकलोच्यते । सितशब्दः श्वेतवर्णवाची तस्मात्स्त्रियाम् । 'वर्णादनुदात्तात्तोपधात्तोन:' इति ङीप्नकारौ । सिनी तां वलते प्राप्नोतीति सिनीवालीति व्युत्पत्तिश्चतुर्दश्युदितचंद्राश्रयायाममावास्यायां न युज्यते 'कृत्तद्धितसमासानामभिधानं नियामकम्' इति भाष्यकारस्मरणादिति । तस्मादृष्टेदुः सिनीवालीत्यमावास्यैवाभिधीयते इति यत्प्रागुक्तं तदेव ज्यायः । एवमेकस्यामेवामावास्यायां सिनीवाली - कुहू -दर्शरूपं भेदत्रयं युक्तम् । अथ सिद्धांतविदोऽन्यथा समादधुः । तत्र 'स्याद्दृष्टेदुः सिनीवाली सा नष्टेंदुकला कुहूः' इत्यादिषु हि दर्शनशब्देन चाक्षुषं दर्शनं विवक्षितं, तच्चोदयास्ताधिकाररीत्या दर्शनयोग्यत्वे सति पूर्वक्षितिजक्रांतिवृत्त संबंधवत्त्वं ग्रहादेर्दर्शनशब्दवाच्यम् । मेघाद्यावरणे हि शास्त्रीये दर्शने दृशिर्वर्तते । 'आत्मा द्रष्टव्यः' इत्यादिवत् । अत्रार्थे 'पश्याथैश्वानालोचने' इति पाणिनिरप्यनुकूलः । अतो भास्करेणाप्युक्तम् — 'निजनिजोदयलग्नसमुद्गमे समुदयोऽपि भवेद्भनभःसदाम्' । इति । तयैव रीत्या दर्शनायोग्यत्वे पूर्वक्षितिज - क्रांतिवृत्तसंबंधवत्त्वमदर्शनशब्दवाच्यम् । यत्तु - ' भवति चास्तविलग्नसमुद्गमे प्रतिदिनेऽस्तमयः प्रवहभ्रमात्' इति भास्करेणोक्तम्, तद्भनभःसदां क्रांतिवृत्तपश्चिमक्षितिजसन्निधिवशेनास्तलक्षणमुक्तं नतु पूर्वक्षितिजे दर्शनाभाव
१०८
१ अस्यार्थः एवं सति ( प्रकरण | दमावास्याया अन्यपदार्थत्वेन ग्रहणे ) चतुर्दश्यां चंद्रोदये ( जाते रात्रौ अमावास्यायाः सिनीवालीत्वं ( केचित्सिनीवाल्यां इत्यादिरीत्या प्रागुक्तं ) न च स्यात् । ( नैव भवति ) किंच ' दृष्टचंद्रा ( अमावास्या ) सिनीवाली' 'एतावतैव लक्षणेन सर्वासामपि ( सर्वविधामावास्यानामपि ) दृष्टदुत्वात्सिनीवालीत्वे (सिनीवालीसंज्ञायां प्राप्तायां सत्यां ) तच्छांतिकोक्तिः ( दर्शकुहूशांतिकविधानं) अनर्थिका स्यात्, सर्वासामपि सिनीवालीत्वेन दर्शकुहूसंज्ञानामेवाभावात् । तस्मात्केचिन्मतोक्तं सिनीवालीत्वं जननादौ नोपयुज्यते इति ।