________________
कुहूप्रसूतिशान्तिः] नक्षत्रप्रकरणम् २ ।
१०९ लक्षणमिति मयोक्तं दर्शनाभावलक्षणम् । अतो दर्शनलक्षणवत्यमावास्या सिनीवालीनाम । अदर्शनलक्षणवत्यमावास्या कुहूर्नाम । लक्षणद्वयानाक्रांता अमावास्या दर्शशब्दवाच्या इति । यदा खल्वमावास्या सूर्योदयात्प्राग्घटिकात्रयवती तदा दृकर्मसंस्कारवशेन चंद्रस्य दृश्यत्वमागतं चेत्तदा सा संपूर्णामावास्या सिनीवालीनाम । तादृश्याममायां द्वितीयसूर्योदयावधिकायामुत्पन्नस्यारिष्टशांतये सिनीवालीशांतिस्तत्फलं चादेश्यम् । अतिवृद्धौ वा तस्या अमावास्याया द्वितीयसूर्योदयानंतरमवशिष्टामावास्याघटीपूत्पन्नस्य कुहूशांतिरेव, चंद्रादर्शनलक्षणसत्वात् । यदि सैवामावास्या सूर्योदयात्प्राग्घटिकात्रयं घटिकाचतुष्टयं वा प्रतिपत्संबद्धा तदा सिनीवाल्येव । अथ तादृश्यामेव न्यूनायां वाऽधिकायां वाऽमावास्थायां तु दृकर्मसंस्कारवशेन चंद्रस्यादृश्यत्वमागतं सामावास्या संपूर्णा कुहूर्नाम चंद्रादर्शनलक्षणसत्त्वादेव । तत्र कुहूजननफलं शांतिश्चादेश्या । यदा तु सूर्योदयानंतरं कियतीषु घटीष्वतिक्रांतास्वमावास्याप्रवृत्तिस्ततः पूर्वं च चतुर्दश्येवावस्थिता तस्यामुषसि दृकर्मवशतश्चंद्रो दृष्टो मा वा दर्शि तथाप्यमावास्यायां चन्द्रदर्शनादर्शनलक्षणानाक्रांतत्वात्सामावास्या संपूर्णा दर्शो नाम । तत्र दर्शजननफलं शांतिश्च विधेयेति । एवममावास्याभेदेन सिनीवालीकुहूदर्शरूपसंज्ञानयं सावकाशमित्यस्मन्मतम् ॥अथ सुगमप्रकारेण भेदत्रयं ब्रूमः ॥ तत्र सिनीवाली सर्ववादिसिद्धा सैव । कुहूस्तु प्रकारांतरेण पारिभाषिकी । यदाह वसिष्ठः-'नक्षत्रे यस्य दर्शातो विषनाड्यां भवेद्यदि । कुहूयोग इति ख्यातो व्याधिमृत्युभयादिकृत् ॥' इति । अयमर्थः-यस्मिन्नक्षत्रे या विषनाड्य उक्तास्तस्मिन्काले यदि दर्शस्य समाप्तिदर्शचरमनाडी भवेत् तनक्षत्रं यस्य पुरुषस्य जन्मक्षे जन्मकाले कालांतरे वा स्यात्तस्य पुंसो व्याधिमृत्युभयकृत्कुहूयोगो ध्येयः । तत्र कुहूजननफलं शांतिश्च स्यात् । कालांतरेऽपि कुहूयोगसंभवे शांतिर्विधेया । अत्र कुहूयोगे विशेषमाह स एव-'कुहूः स्याद्यदि जन्मांशे षण्मासान्मृत्युमामुयात् । जन्मलग्नेऽथ जन्मांशे मृत्युर्मासत्रयाद्भवेत् ॥' इति । पूर्वोक्तकुहूयोगकाले यदि जन्मनवांशे चंद्रस्तदा षण्मासमध्ये मृत्युः । यदि जन्मलग्नं तस्मिन्काले जन्मांशगश्चंद्रश्चेत्युभयसंभवे मासत्रयेण मृतिरिति भावः। अत एवोक्तं जगन्मोहने वसिष्ठेन-'यस्य जन्मभंगश्चंद्रो विषनाड्यां कुहूर्भवेत् । अभिचारेण किं तस्य स्वयमेव मरिष्यति ॥' इति । अतो विषघटिकातः पूर्वकालो दर्शशब्दवाच्य इति । एवमस्माभिः प्रकारत्रयेण सिनीवालीकुहू-दर्शानां भेद उपपादितस्तत्र यथासंप्रदायं व्यवस्थेत्यलमतिप्रसंगेन ।
__ ज्योतिःशास्त्रमहोदन्वदवगाह निविष्टधीः।
नीलकंठांशगोविंदहनूमान्केन वार्यताम् ॥ • अथ प्राक् प्रतिज्ञाता सिनीवालीकुहूशांतिस्तावदुच्यते ॥ 'सिनीवाल्यां प्रसूता स्याद्यस्य भार्या पशुस्तथा । गवाश्वं महिषी चैव शक्रस्यापि श्रियं हरेत् ॥ ये च संति द्विजाश्चान्ये स्वप्रसादोपजीविनः । वर्जयेत्तानशेषांस्तु पशुपक्षिमृगादिकान् ॥' द्विजाः पक्षिणः । 'कुहूप्रसूतिरत्यर्थं सर्वदोषकरी
१० मु० चि.