________________
११०
मुहूर्तचिंतामणिः। [दर्शप्रसवशांतिः नृणाम् । यस्य प्रसूतिरत्र स्यात्तस्यायुर्धननाशनम् ॥ सर्वगंडसमस्तत्र दोषस्तु प्रबलो भवेत् । नारी विनाऽवशेषाणां परित्यागो विधीयते ॥' गो. महिष्यादीनां सिनीवालीकुहूप्रसवे तासां त्यागो नतु नारीणामिति भावः। 'परित्यागात्तत्र शांतिं कुर्याद्धीमान्विचक्षणः । तत्फलं तत्क्षणार्धेन पुनरेव विलीयते ॥ न त्यजेत्पंडितो मोहादर्धादज्ञानतोऽपि वा। तद्योगं नाशयेदाशु स्वयं वा नाशमृच्छति ॥ कल्पोक्तशांतिः कर्तव्या शीघ्र दोषापनुत्तये ॥ रुद्रः शक्रश्च पितरः पूज्याः स्युर्देवताः क्रमात् । कर्षमात्रसुवर्णेन तदर्धार्धेन वा पुनः ॥ अथवा शक्तितः कुर्याद्वित्तशाठ्यविवर्जितः । प्रतिमां कारयेच्छंभोचतुर्भुजसमन्विताम् ॥ त्रिशूलखड्गवरदाभयहस्तां यथाक्रमात् । श्वेतवर्णा श्वेतपुष्पां श्वेतांबरवृषस्थिताम् ॥ त्रयंबकेण मंत्रेण पूजां कुर्याद्यथाविधि । इंद्रश्चतुर्भुजो वज्रांकुशचापससायकः ॥ रक्तवर्णो गजारूढो यतइंद्रेति मंत्रतः। पितरः कृष्णवर्णाश्च चतुर्हस्ता विमानगाः ॥ यष्ट्यक्षसूत्रकमंडल्वभयानां च धारिणः । ये सत्या इति मंत्रण पूजां कुर्यादनंतरम् ॥ आग्नेयीं दिशमारभ्य कुंभान्कोणेषु विन्यसेत् । तन्मध्ये स्थापयेत्कुंभं शतच्छिद्रसमन्वितम् ॥ तेष्वेव पंचगव्यादींस्तत्तन्मत्रैश्च निक्षिपेत् । कल्पोक्तशांतिः कर्तव्या कुर्याच्छीघ्र प्रयत्नतः ॥ गोदानं वस्त्रदानं च सुवर्ण चौर्णकं शुभम् । दशदानानि चोक्तानि क्षीरमाज्यं गुडं तथा॥आज्यावेक्षणमेतानि तत्तन्मंत्रैश्च कारयेत् । समिदाज्यचरोहोमं तिलमाषैश्च सर्षपैः ॥ अश्वत्थप्लक्षपालाशसमिद्भिः खादिरैः शुभैः । अष्टोत्तरशतं मुख्यं प्रत्येक जुहुयाविजः ॥ त्रयंबकेण मंत्रेण तिलान्व्याहृतिभिः पुनः । चतुर्भिः कलशैर्युक्तं बृहत्कुंभसमन्वितम् ॥ शांतिवत्कलशे कार्यमभिषेकं च कारयेत् । पितृमातृशिशूनां च अभिषिचेत्तु वारुणैः ॥ शंकरस्याभिषेकं च कुर्याद्राह्मणभोजनम् ॥ अन्येषां चैव सर्वेषां ब्राह्मणानां च तर्पणम् ॥ यथाशक्त्यनुसारेण द्विजवाचनकं तथा॥' इत्युत्तरगार्योक्तसिनीवालीकुहूशांतिविधिः॥ ___ अथ दर्शशांतिविधिरुच्यते-'अथातो दर्शजातानां मातापित्रोदरिद्रता । तदोषपरिहारार्थ शान्ति वक्ष्यामि नारदः ॥ पुण्याहं वाचयित्वादौ ऋतुसंकल्पपूर्वकम् ॥ कुंडं वा मंडलं कुर्यात्तद्देशे स्थापयेद्भटम् ॥ तत्कुंभे निक्षिपेद्रव्यं दधिक्षीरघृतादिकम् । न्यग्रोधोदुंबराश्वत्थाः सचूतनिंबकास्तथा ॥ एतेषां वृक्षमूलानां त्वगादीन्पल्लवांस्तथा । पंचरत्नानि निक्षिप्य वस्त्रयुग्मेन वेष्टयेत् ॥ सर्वे समुद्राः सरितस्तीर्थानि जलदा नदाः । आयांतु यजमानस्य दुरितक्षयकारकाः ॥ आपोहिष्ठातृचेनाथ कयानश्चित्र इत्युचा । यत्किंचेदमृचा चैव समुद्रज्येष्ठ इत्युचा ॥ अभिमंत्र्योदकं पश्चादग्नेः पूर्वप्रदेशके ।' उदकमभिमंत्र्य पश्चाद्दर्शदेवताः स्थापयेदित्यर्थः । मंडलं कुर्यादिति यदुक्तम् । 'हारिद्रं रक्तकं चैव कृष्णं श्वेतं च नीलकम् । एतेषां तंदुलैश्चैव सर्वतोभद्रमुद्धरेत् ॥ दर्शस्य देवतायाश्च सोमसूर्यस्वरूपकाः । प्रतिमाः स्वर्णजा नित्यं राजतीं ताम्रजां तथा ॥ सर्वतोभद्रमध्ये च स्थापयेद्दर्शदेवताम् । दर्शदेवतारूपसोमसूर्यस्वरूपप्रतिमाः स्थापयेदित्यभेदेनान्वयः। कुहूमपि तत्रापीदम् 'ग्रहवर्ण वस्त्रयुग्मं तद्वर्ण गंधपुष्पकम् ॥ आप्यायस्वेति मंत्रेण सवितापश्चात्तमेव च । उपचारैः समाराध्य ततो होम समाचरेत् ॥