________________
कृष्णचतुर्दशीशांतिविधिः] नक्षत्रप्रकरणम् २ ।
१११ कृत्वा वह्नि प्रतिष्ठाप्य ऋतुसंकल्पमीदृशम् । आयुरारोग्यसिद्ध्यर्थं सर्वारिष्टप्रशां. तये ॥ पुत्रस्य दर्शजननदोषनिहरणाय च । मातापित्रोः कुमारस्य सर्वारिष्टप्रशांतये ॥ तेषामायुः श्रियं चैव शांतिहोमं करोम्यहम् । समिधश्च चरुद्रव्यं क्रमेण जुहुयाद्गृही ॥ हुनेत्सवितृमंत्रेण सोमोधेनुं च मंत्रतः । एतैमत्रैश्च प्रत्यकें हुनेदष्टोत्तरं शतम् ॥ दर्शस्य देवताहोममष्टाविंशतिसंख्यया । होममेवं तु कृत्वाथ विध्याचाराभिषेचनम् ॥ श्रीसूक्तमायुष्यसूक्तं समुद्रज्येष्ठषडचा ॥ एतैमंत्रैरभिषेकं मातापित्रोः शिशोस्तथा । ततः स्विष्टकृदादि स्याडोमशेष समापयेत् । हिरण्यं रजतं चैव कृष्णधेनुश्च दक्षिणा ॥ अन्येभ्योऽपि यथाशक्ति दातव्या दक्षिणा तथा । ब्राह्मणान्भोजयेत्तत्र कारयेत्स्वस्तिवाचनम् ॥' इति श्रीनारदोक्तो दर्शशांतिविधिः ॥
अथ कृष्णचतुर्दशीशांतिविधिरुच्यते-'मंदरस्थं सुखासीनं गर्ग मुनिवरं शुभम् । नमस्कृत्वाथ पप्रच्छ शौनको मुनिपुंगवः ॥ शांतिकर्माणि सर्वाणि त्वत्तो जानाम्यहं पुरा । अधुना श्रोतुमिच्छामि कृष्णपक्षचतुर्दशीम् । दिवा वा यदि वा रात्रौ प्रसूतेः किं फलं वद ॥ गर्ग उवाच-कृष्णपक्षे चतुर्दश्यां प्रसूतेः षड्विधं फलम् । चतुर्दशी च षड्भागां कुर्यादादौ शुभं स्मृतम् ॥ द्वितीये पितरं हंति तृतीये मातरं तथा । चतुर्थे मातुलं हंति पंचमे वंशनाशनम् । षष्ठे तु धनहानिः स्यादात्मनो वंशनाशनम् । तस्मात्सर्वप्रयत्नेन शांति कुर्याद्विधानतः ॥ आचार्य वरयेद्धीमान् पुत्रदारसमन्वितम् । स्वकर्मनिरतं शांतं श्रोत्रियं वेदपारगम् ॥ सर्वालंकारसंयुक्तं सर्वलक्षणसंयुतम् । ब्राह्मणानृत्विजश्चैव स्वस्तिवाचनपूर्वकम् ॥ रुद्रोऽधिदेवता तस्याः कर्षमात्रसुवर्णतः । तदर्धेन च वा कुर्याद्वित्तशाठ्यविवर्जितः ॥ प्रतिमां कारयेच्छंभोः सर्वलक्षणसंयुताम् । वृषभे च समासीनं वरदाभयपाणिकम् ॥ शुद्धस्फटिकसंकाशं श्वेतमाल्यांबरान्वितम् । त्रैयंबकेण मंत्रेण पूजां कुर्याद्विधानतः ॥ स्थापयेच्चतुरः कुभांश्चतुर्दिक्षु यथाक्रमम् । पुण्यतीर्थजलोपेतान् धान्यस्योपरि विन्यसेत् ॥ तन्मध्ये स्थापयेत्कुंभं शतच्छिद्रसमन्वितम् । पंचमृत्पंचरत्नानि पंचत्वपंचपल्लवान् ॥ पंचधान्यं सुवर्ण च तत्तन्मंत्रैर्विनिक्षिपेत् ॥ शतौषधानि निक्षिप्य श्वेतवस्त्रैश्च वेष्टयेत् । सुरभीणि च पुष्पाणि श्वेतानि परिवेष्टयेत् । सर्वे समुद्राः सरितस्तीर्थानि जलदा नदाः ।-आयांतु यजमानस्य दुरितक्षयकारकाः ॥ आवाह्य वारुणमंत्रैरनेन च विधानतः । इमं मे वरुणेत्यनया तत्त्वायामीत्यूचा तथा ॥ त्वं नो अग्ने इत्यनयास त्वं न इति मंत्रतः । आग्नेयकुंभमारभ्य पूजा कुर्याद्यथाक्रमम् । आनोभद्राख्यसूक्तेन भद्राअग्नेश्च सूक्तकम् । जप्त्वा पुरुषसूक्तं च कद्रुद्रं तु क्रमाजपेत् ॥ ईश्वरस्याभिषेकं च ग्रहपूजां च कारयेत् । पूजाकर्म सुनिवर्त्य होमं कुर्याद्विधानतः ॥ गेहस्येशानदिग्भागे कुंडं कुर्याद्विधानतः । विस्तारायामखातं च अरनिद्वयसंयुतम् ॥ कुंडकंठं परित्यज्य समंतादंगुलिक्रमात् । मेखलोच्छ्रायविस्तारौ चतुस्त्रियंगुलिक्रमात् ॥ पश्चिमे मध्यभागे तु योनि कुर्याद्विधानतः। योनि षडंगुलां तिर्यग्द्वादशांगुलदैर्घ्यकाम् ॥ अश्वत्थ