________________
मुहूर्तचिंतामणिः । [ एकनक्षत्रजननशांतिः
दलसंकाशां किंचिनिम्नायतां शुभाम् । कुर्यादाघारपर्यंतं स्वगृयोक्तविधानतः ॥ सम्रिद्राज्यचरूंश्चैव तिलमाषांश्च सर्षपैः । अश्वत्थलक्षपालाशसमिद्भिः खादिरैः शुभैः ॥ अष्टोत्तरसहस्रं वा अष्टोत्तरशतं तु वा । अष्टाविंशतिमेतैश्च होमं कुर्यात्पृथक्पृथक् ॥ त्र्यंबकेण मन्त्रेण तिलान् व्याहृतिभिः क्रमात् । ग्रहा एवं च होतव्या अस्मदुक्तविधानतः ॥ एवं क्रमेण होतव्यं होमशेषं समापयेत् । सर्वालंकारयुक्तानां त्रयाणामभिषेचनम् ॥ चतुर्भिः कलशैरद्भिर्बृहत्कुंभसमन्वि तम् । धौताम्बराणि धृत्वाथ कुर्यादाज्यावलोकनम् ॥ पूर्णाहुतिं च जुहुयाद्यजमानः समाहितः । तत्सर्वं परया भक्त्या ईश्वराय निवेदयेत् ॥ सर्वालंकारसंयुक्त सुवत्सां गां पयस्विनीम् । प्रतिमां वस्त्रयुग्मं च आचार्याय निवेदयेत् ॥ अन्येषां चैव सर्वेषां कुर्याद्ब्राह्मणभोजनम् । तस्मादनेन विधिना वित्तशाठ्यविवर्जितः । एवं यः कुरुते शांतिं सर्वपापैः प्रमुच्यते । सर्वान् कामानवाप्नोति चिरंजीवी सुखी भवेत् ॥' इत्युत्तरगाग्र्योक्ता कृष्णचतुर्दशीशांतिः ॥
अथैकनक्षत्रजातानां शांतिविधिरुच्यते- 'एकस्मिन्नेव नक्षत्रे भ्रात्रोव पितृपुत्रयोः । प्रसूतिश्च तयोर्मृत्युर्भवेदेकस्य निश्चयः ॥ तद्दोषनाशाय तदा प्रशस्तां शांतिं च कुर्यादभिषेचनं च । संपूज्य ऋक्षप्रतिमां तदग्रे दानं च कुर्याद्विभवानुरूपम् ॥ तत्र शांतिं प्रवक्ष्यामि सर्वाचार्यमतेन तु । शुभक्ष शुभवारे च चंद्रताराबलान्विते ॥ रिक्ताविष्टिविवर्ज्ये तु प्रारभेद्दिवसे सुधीः । आचार्य वरयेत्पूर्वं चतुरोऽथ द्विजोत्तमान् ॥ पुण्याहं वाचयित्वा तु शांतिकर्म समाचरेत् । अग्नेरीशानदिग्भागे नक्षत्रप्रतिमां ततः ॥ तन्नक्षत्रोक्तमंत्रेण अर्चयेत्कलशोपरि । रक्तवस्त्रेण संछाद्य वस्त्रयुग्मेन वेष्टयेत् ॥ स्वशाखोक्तेन मार्गेण कुर्यादग्निमुखं ततः । अनेनैव तु मंत्रेण हुनेदष्टोत्तरं शतम् ॥ प्रत्येकं समिदनाज्यैः प्रायश्चित्तांतमेव च । अभिषेकं ततः कुर्यादाचार्यः पितृपुत्रयोः । वस्त्रालैकारगो दानैराचार्यं पूजयेत्पुनः । ऋत्विग्भ्यो दक्षिणां दद्यान्माषत्रयसुवर्णकम् ॥ देवताप्रतिमादानं धान्यवस्त्रादिभिः सह । यानशय्यासनादींश्च दद्यातद्दोषशांतये ॥ भोजयेद्ब्राह्मणान्सर्वान्वित्तशाठ्यविवर्जितः ॥' इति गायकनक्षत्रजननशांतिविधिः ॥ ॥ अत्र - 'एकस्मिन्नेव नक्षत्रे भ्रात्रोर्वा पितृपुत्रयोः' इति गवाक्ये भ्रात्रोरिति पदे किं भ्राता च स्वसा च भ्रातरौ, 'भ्रातृपुत्रौ स्वसृदुहितृभ्याम्' इत्येकशेषः, उत भ्राता च भ्राता च भ्रातरौ, 'सरूपाणामेकशेष एकविभक्तौ' इत्येकशेषः । तत्र प्रथमपक्षे सोदयोर्भ्रातृभगिन्यो रेवैकनक्षत्रजनननिषेधः स्यान्नतु पुंभ्रात्रोः । द्वितीयपक्षे तु सोदरयोः पुंभ्रात्रोरेव निषेधः स्यात् नतु भ्रातृभगिन्योः । इष्यते च द्वयोरपि भ्रात्रोर्निषेधः । न च भ्रातरौ च भ्रातरौ चेति द्वंद्वे सत्येकशेषेण सिद्धमिति वाच्यम् । तथा सति तेषां चतुष्ट्वा
तृणामिति पाठ्यं स्यात् । एवं पितृपुत्रयोरित्यत्रापि पिता च पुत्रश्चेति द्वंद्वे पितापुत्रयो रेकनक्षत्रजनननिषेधः स्यात्, न तु मातापित्रोः । न च माता च पिता च पितरौ । 'पिता मात्रा' इत्येकशेषः । पितरौ च पुत्रश्चेति द्वंद्वे मातापित्रोः पुत्रस्यैकनक्षत्रनिषेधः स्यात् । तथा पुत्रश्च दुहिता च पुत्रौ 'भ्रातृपुत्रौ' इत्यादिनैकशेषः । पितरौ च पुत्रौ चेति द्वंद्वे मातापित्रोः पुत्रस्ख
1
११२