________________
११३
ग्रहणप्रसूतिशांतिः] नक्षत्रप्रकरणम् २ । कन्यायाश्चैकनक्षत्रजनननिषेधः स्यादिति वाच्यम् । यतः प्रथमपक्षे पितृपुत्राणामिति बहुवचनांतं पदं पाठ्यं स्यादिति । द्वितीयपक्षे तु स दोषोऽस्त्येव । परंतु यथासंख्यमपि लगति। यथा मातापुत्रयोरेव पितादुहिनोरेव चैकनक्षत्रजनननिषेधः स्यात् । नतु मातादुहित्रोः पितापुत्रयोश्चेति । इष्यते चानयोरपि निषेध इत्यतो नैतद्वचनं निर्णयपदवीमवगाहते । सत्यम् । गर्गवाक्यस्य त्वेतावानेवार्थः, परं तु वचनांतरानुरोधादिष्टविषयोऽपि संगृहीतो भवति । यदाह वसिष्ठः-'पित्रोस्तु जन्मकर्मः जातस्तु पितृमातृहा । जन्मांशे च तल्लग्ने जातः सद्यो मृतिप्रदः ॥' इति । देवकीर्तिः-'यद्येकसिन्धिष्ण्ये जायंते दुहितरोऽथवा पुत्राः । पितुरंतकरा ह्येते यद्यपरे प्रीतिरतुला स्यात् ॥' इति । अपरे=अन्यनक्षत्रे । 'पूर्वादिभ्यो नवभ्यो वा' इति मिनभावपक्षे रूपम् । गर्गसंहितायामपि-'यस्यैव जन्मनक्षत्रे जायेद्राता सुतोऽपि वा । सजातीयः सजात्या वा सोऽस्य प्राणान्प्रसाधयेत् ॥' इति । यस्येति पुंस्त्वमविवक्षितं, तेन मातुरपि निषेधो वसिष्ठवाक्यस्वरसात् ॥ ॥ अथ मूलश्लोके दुष्टनिमित्तस्योपलक्षणत्वेन व्याख्यानात् सूर्यचंद्रग्रहणसमयजननशांतिविधिरुच्यते-'ग्रहणे चंद्रसूर्यस्य प्रसूतिर्यदि जायते । व्याधिपीडा तदा स्त्रीणामादौ तु ऋतुदर्शनात् ॥ इत्थं संजायते यस्तु तस्य मृत्युन संशयः । व्याधिपीडा च दारिद्र्यं शोकश्च कलहो भवेत् ॥ शांतिं तेषां प्रवक्ष्यामि नराणां हितकाम्यया। यस्मिन्नक्षे विशेषेण ग्रहणं संप्रजायते ॥ तदृक्षाधिपते रूपं सुवर्णेन प्रकल्पयेत् । यथाशक्त्यनुसारेण वित्तशाख्यं न कारयेत् ॥ सूर्यग्रहे सूर्यरूपं सुवर्णेन स्वशक्तितः। चांद्रं चंद्रग्रहे धीमान् रजतेन विशेषतः॥ राहुरूपं प्रकुर्वीत नागेनैव विचक्षणः ॥' नागेन=सीसकेन । 'शुचौ देशे प्रयत्नेन गोमयेन प्रलेपयेत् । तस्योपरि न्यसेद्धीमान्नववस्त्रं सुशोभनम् । त्रयाणां चैव रूपाणां स्थापनं तत्र कारयेत् ॥ रक्ताक्षतान् रक्तगंधं रक्तपुष्पांबराणि च । सूर्यग्रहे प्रदातव्यं सूर्यप्रीतिकरं च यत् ॥ श्वेतवस्त्रं श्वेतमाल्यं श्वेतगंधाक्षतादिकम् । चंद्रग्रहे प्रदातव्यं चंद्रप्रीतिकरं च यत् ॥ राहवे चैव दातव्यं कृष्णपुष्पांबराणि च । दद्यान्नक्षत्रनाथाय श्वेतगंधानुलेपनम् ॥ सूर्य संपूजयेद्धीमानाकृष्णेति च मंत्रतः। चंद्रग्रहे च पालाशैः समिद्भिर्जुहुयान्नरः॥ दूर्वाभिर्जुहुयाद्धीमान् राहोः संप्रीणनाय च । समिद्भिर्ब्रह्मवृक्षोत्थैर्भशाय जुहुयाद्धः ॥' भेशाय नक्षत्राधिपतये । 'भाज्येन चरुणा चैव तिलैश्च जुयात्ततः । पंचगव्यैः पंचरत्नैः पंचत्वपंचपल्लवैः ॥ जलैरोषधिकल्कैश्च सहितैः कलशोदकैः । (ओषधिकल्कैः सौंषधिकल्कैः)। अभिषेकं प्रकुर्वीत यजमाने प्रयत्नतः ॥ मंत्रैर्वारुणदैवत्यैरापोहिष्टादिभिस्त्रिभिः । इमंमेगङ्गे पितरस्तत्त्वायामीति मंत्रकैः ॥ अभिषेके निवृत्ते तु यजमानः समाहितः । आचार्य पूजयेत्पश्चात्सुशांतो विजितेंद्रियः ॥ तस्मै दद्यात्प्रयत्नेन भक्त्या प्रति. कृतित्रयम् । दक्षिणाभिश्च संयुक्तं यथाशक्त्यनुसारतः । ब्राह्मणान्भोजयित्वा तु प्रणिपत्य क्षमापयेत् । तेभ्योऽपि दक्षिणां दद्याद्यजमानः समाहितः ॥ अनेन